Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
भैषज्यवस्तु
- Thông tin
- GRETIL — N. Dutt. Gilgit Manuscript, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: Mūlasarvāstivādavinayavastu, part 1-4. Part 1: Bhaiṣajyavastu; dto.: second edition, Delhi 1984.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तथा रज्ञा प्रसेनजिता कोसलेन श्रुतम्* / ततो विस्मयजातस् तैलकुम्भसहस्रम् आदाय चित्रां प्रदीपमालां कृतवान्* / चतूरत्नमयं च प्रदीपं चंक्रमशिरसि प्रतिष्ठितवान्* / ततो भगवतः सकाशं गत्वा भगवन्तम् इदम् अवोचत्* / मया च भदन्त भगवान् आर्यमहाकाश्यपस्य पूजाधिकारेण भक्तसप्ताहेनोपनिमंत्रितः / तस्य मम भगवता अलवणिकां कुल्मासपिण्डिकाम् आरभ्य पूर्विका कर्मप्लोतिर् व्याकृता / पुनश् च मया भगवांस् त्रैमासीं सश्रावकसंघो भोजितः / एकैकश् च भिक्षुः शतसहस्रेण मूल्येन वस्त्रयुगेनाच्छादितस् तैलकुम्भकोटिं च समुदानीय प्रदीपमाला दत्ता / न चाहं भगवतानुत्तरायां सम्यक्संबोधौ व्याकृतः / साधु भगवान् ममाप्य् अनुत्तरायां सम्यक्संबोधौ व्याकुर्यात्* / कदास्विद् अहं लोकज्येष्ठः स्यां विनायक इति / भगवान् (msv i 92) आह / गम्भीरा महाराज अनुत्तरा सम्यक्संबोधिः / गम्भीरावभासा दुर्दृशा दुरवबोधा अतर्क्या अतर्क्यावचरा सूक्ष्मा निपुणा पण्डितविज्ञवेदनीया / सा न सुकरा त्वयैकेन दानेन समुपदानेतुं (fol. 166r1 = ग्ब्म् 6.1000) न दानशतेन न दानसहस्रेण न दानशतसहस्रेणापि तु महाराज त्वया अनुत्तरां सम्यक्संबोधिम् अभिप्रार्थयिता दातव्यान्य् एव दानानि कर्तव्यान्य् एव पुण्यानि सेवितव्यानि कल्याणमित्राणि भजितव्यानि पर्युपासितव्यानि / एवं त्वं भविष्यसि कदाचिल् लोकज्येष्ठो विनायक इति / एवम् उक्तो राजा प्रसेनजित् कोसलः प्रारोदीद् अश्रूणि वर्षयन्* / अथ राजा प्रसेनजित् कोशलश् चीवरकर्णकेनाश्रूण्य् उन्मृज्य भगवन्तम् इदम् अवोचत्* / अनुत्तरां भदन्त भगवता सम्यक्संबोधिं प्रार्हयिता कियन्ति दानानि दत्तानि पुण्यानि वा कृतानीति / भगवान् आह / तिष्ठन्तु तावन् महाराज ये ऽतीताः कल्पाः / यन् मयास्मिन्न् एव भद्रके कल्पे अनुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि चानेकप्रकाराणि कृतानि तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये /
भूतपुर्वं महाराजामितायुषि प्रजायाम् उपोषधो नाम राज बभूव / तस्य मूर्ध्नि पिटको जातः / मृदुः सुमृदुस् तद्यथा तूलपिचुर् वा कर्पासपिचुर् (msv i 93) वा परिपाकत्वात् स्फुटितः / कुमारो जातः / अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः उच्चघोषः संगतभ्रुस् तुङ्गनासो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रः / जातमात्रः कुमारो ऽन्तःपुरं प्रवेशितः / उपोषधस्य राज्ञो ऽशीतिः स्त्रीसहस्राणि कुमारं दृष्ट्वा प्रस्रुतानि / एकैका स्त्री कथयति मान्धाय मान्धाय इति / तस्य मान्धाता मान्धातेति संज्ञा संवृत्ता / अन्ये कथयन्ति / मूर्ध्ना जातस् तस्माद् भवतु कुमारस्य मूर्धात इति नाम / तत्र केचिन् मान्धातेति जानते केचिन् मूर्धात इति /
विस्तरेण मान्धातृसूत्रं मध्यमागमे राजसंयुक्तकनिपाते /
मान्धातुः कुमारस्य कुमारक्रीडायां क्रीडतः षट् शक्राश् च्युताः / एवं यौवराज्यं कारयतः षड् महाराज्यं कारयतः षड् जाम्बूद्वीपकान् जनपदान् समनुशासतः षट्* / सहचित्तोत्पादाच् चास्य रत्नवर्षं पतितं वस्त्रवर्षम्* / अन्तःपुरे हिरण्यवर्षम्* /
तेन खलु समयेन वैशाल्यां दुर्मुखो नाम ऋषिः पंचाभिज्ञः / तस्याश्रमपदे नित्यं पक्षिणो ऽभिनिकूजन्ति / शब्दकण्टकानि ध्यानानि / स चित्तैकाग्रतां नासादयति / इति तेन पक्षिणां शापो दत्तः / शीर्यन्ताम् एषां पक्षा इति / ततो राज्ञा मान्धात्रा (msv i 94) श्रुतम्* / श्रुत्वा निष्कारुणिको ऽयम् ऋषिर् इति कृत्वा उक्तः / न तेन मद्विषये वस्तव्यम् इति / स संलक्षयति / अयं राजा चतुर्द्वीपेश्वरः क्व मया गन्तव्यम् इति / स सुमेरुपरिषण्डं गत्वावस्थितः /
एवम् अवरगोदानीयं समनुशासतः षट् शक्राश् च्युताः / पूर्वविदेहे षट्* / उत्तरकुरौ षट्* / निमिन्धरगिरौ स्थितस्य षट्* / एवं विनतके ऽश्वकर्णे सुदर्शने खदिरके ईषाधारे युगन्धरे च /
अन्तरोद्दानम्* /
निमिंधर (fol. 166v1 = ग्ब्म् 6.1001) इति विनतकः अश्वकर्णगिरिस् तथा / सुदर्शनः खदिरकः ईषाधारो युगन्धरः //
ततः सुमेरुमूर्धन्य् अभिरोहता तेन ऋशीणा भटबलाग्रं स्तम्भितम्* / दिवौकसो यक्षः पुरोजवो दृष्ट्वा गाथां भाषते /
नियच्छ ब्राह्मण क्रोधं नैतत् सर्वत्र सिध्यति / मान्धाता नृपतिर् ह्य् एवं नैते वैशालका वकाः // इति /
राजा मान्धाता पृच्छति / केनैतद् भटबलाग्रं स्तम्भितम्* / देवर्षिणा / राजा पृच्छति / किं तेषाम् ऋषीणां प्रियम्* / देव जटाः / शीर्यन्ताम् एषां जटाः / मम च पुरोजवाः सन्तु / ततस् तेषां जटाः शीर्णाः / धनुर्बाणपाणयश् चाग्रतो धावितुम् आरब्धाः / स्त्रीरत्नेनाभिहितम्* (msv i 95) / देव ऋषयः एते तपस्विनः / किम् एभिः / मुच्यन्ताम् इति / राज्ञा मुक्ताः / तैः पुनर् अपि वीर्यम् आस्थाय पंचाभिज्ञाः साक्षात्कृताः /
तथा नन्दोपनन्दो नागराजो मान्धातृबलं दृष्ट्वा असुरा ह्य् एते इति चतुरङ्गेन बलकायेन प्रत्युद्गतः / सैन्यदर्शनाद् एव भग्नः / देव करोटपाणयो यक्षा मायाधराः सदामत्ताश् च / सर्वे च नन्दोपनन्दादयो भग्ना येन चातुर्महाराजिका देवास् तेनोपसंक्रान्ताः / उपसंक्रम्य चातुर्महाराजिकान् देवान् इदम् अवोचत्* / यत् खलु मार्षा जानीध्वं महासैन्यं प्रत्युपस्थितम्* / सन्नह्यतां चतुरंगो बलकायः / वयं सर्वे भग्ना इति / तैः परिज्ञातम्* / ते कथयन्ति / भवन्तः अयं मान्धाता राजा चक्रवर्ती शक्रं देवेन्द्रं दर्शनाय गच्छति / पुण्यमहेशाख्यश् चायम्* / का शक्तिर् अस्माकम् अनेन सार्धं संग्रामयितुम्* / किन् तु अर्धं पाद्यं च गृहीत्वा प्रत्युद्गन्तव्यम् इति / ततश् चातुर्महाराजिका देवा अर्धं पाद्यं च गृहीत्वा च्छत्रध्वजपताकाभिर् विविधैश् च वाद्यैः प्रत्युद्गताः / ततो राजा मान्धाता चातुर्महाराजिकान् देवान् प्रतिसंमोद्य देवैः परिवृतो देवांस् त्रयस्त्रिंशान् गतः / शक्रेण च देवेन्द्रेणार्धासनेनोपनिमन्त्रितः / ततो ऽसुराश् चतुरङ्गं बलकायं सन्नह्य शक्रं देवेन्द्रम् अभिगताः / यक्षैः शक्रस्य देवेन्द्रस्यारोचितम्* / यत् खलु कौशिक जानीया असुराः पंच गुल्मकान् भङ्क्त्वा प्रत्युपस्थिताः / यत् ते कृत्यं करणीयं वा तत् कुरुष्वेति / ततः शक्रो देवेन्द्रः संप्रस्थितः / (msv i 96) राज्ञा मान्धात्राभिहितः / तिष्ठ अहम् एव गच्छामीति / शक्रः कथयति / एवं कुरुष्वेति / ततो राजा मान्धाता अष्टादशभिर् भटबलाग्रकोटीभिर् उपरि विहायसम् अभ्युद्गम्य गुणास्फालनं कृतवान्* / असुरा अष्टादश भटबलाग्रकोटीभिर् दृष्ट्वा अतिविभीषणं च शब्दं श्रुत्वा कर्णौ पिधाय निष्पलायिताः /
ततो राज्ञो मान्धातुर् एतद् अभवत्* / अस्ति मे जम्बुद्वीपे द्वीपः ऋद्धश् च स्फीतश् च क्षेमश् च सुभिक्षश् चाकीर्णबहुजनमनुष्यश् च पूर्वविदेहः अवरगोदानीयः उत्तरकुरुश् च / यन्व् अहं देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम् इति / सहचित्तोपादाद् राजा मान्धाता तस्य ऋद्धे परिहीने जम्बुद्वीपम् (fol. 167r1 = ग्ब्म् 6.1002) आगत्य खरम् आबाधितं प्रवेदितवान् गाथां च भाषते /
न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते / अल्पास्वादान् बहुदुःखान् कामान् विज्ञाय पण्डितः / अपि दिव्येषु कामेषु रतिं नैवाधिगच्छति //
तृष्णाक्षये रतो भवति सम्यक्संबुद्धश्रावकः / पर्वतो ऽपि सुवर्णस्य समो हिमवता भवेत्* / नालम् एकस्य तद् वित्तम् इति विद्वान् समाचरेत्* //
यः प्रेक्षते दुःखम् इतो निदानं कामेषु जातु स कथं रमेत / लोके हि शल्यम् उपधिं विदित्वा तस्यैव धीरो विनयाय शिक्षते //
ततः स राजा मान्धाता निरर्गलं यज्ञम् इष्ट्वा गाथां भाषते /
अल्पकं जीवितं ज्ञात्वा सुकृच्छ्रं सांपरायिकम्* / करणीयानि पुण्यानि दुःखं ह्य् अकृतपुण्यतः //
तस्माद् धि पुण्यकामेन देयं दानं यथाविधि / कृतपुण्या हि मोदन्ते लोके ऽस्मिंश् च परत्र च // इति /
बगवान् आह / किं मन्यसे महाराज यो ऽसौ राजा मान्धाता अहम् एव स तेन कालेन तेन समयेन / यन् मया इत्थं सत्वहितं कृतं तेन नानुत्तरं ज्ञानम् अधिगतम्* / किं त्व् एतद् दानम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं संभारमात्रकम्* /
पुनर् अपि महाराज यन् मया अनुत्तरां सम्यक्संबोधिं प्रार्थयिता सर्वहितं कृतं तच् छ्रूयताम्* /
भूतपूर्वं महाराज महासुदर्शनो नाम राजाभूच् चक्रवर्ती सप्ततिरत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभि रिद्धिभिः /
विस्तरेण महासुदर्शनसूत्रे दीर्घागमे षट्सूत्रिकनिपाते /
अथ महासुदर्शनो राजा धर्मप्रासादे पञ्च प्रत्येकबुद्धशतानि भोजयित्वा प्रत्येकं च दूष्ययुगेनाच्छादयित्वा गाथां भाषते /
लब्ध्वा हि विपुलं भोगं न प्रमाद्येद् विचक्षणः / दद्यात् संपन्नशीलेभ्यो यत्र रिध्यन्ति दक्षिणाः //
एवं दत्वेह मेधावी श्राद्धो मुक्तेन चेतसा / अव्यावादसुखे लोके उपपद्येत पण्डितः // इति /
स्यात् खलु ते महाराज अन्यः स तेन कालेन तेन समयेन महासुदर्शनो नाम राजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभि रिद्धिभिर् इति न खल्व् एवं द्रष्टव्यम्* / अपि त्व् अहम् एव स तेन कालेन तेन समयेन महासुदर्शनो नाम राजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभि रिद्धिभिः / स्यात् खलु ते महाराज तेन मया दानेन वा दानसंविभागेनानुत्तरा सम्यक्संबोधिर् अधिगता इति न खल्व् एवं द्रष्टव्यम्* / अपि तु तद् दानम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* /
पुनर् अपि महाराज यन् मया अनुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि च कृतानि तच् छ्रूयताम्* /
भूतपूर्वं महाराज वेलामो नाम ब्राह्मणमहासालो ऽभूत्* / स इदम् एवंरूपं ब्राह्मणेभ्यो दानम् अदाच् (fol. 167v1 = ग्ब्म् 6.1003) चतुरशीतिनागसहस्राणां सुवर्णालंकाराणां सुवर्णध्वजानां हेमजालप्रतिच्छन्नानाम्* /
विस्तरेण वेलामसूत्रे मध्यमागमे ब्राह्मणनिपाते /
स एवं दानानि दत्वा गाथां भाषते /
दानं दत्वा सुखी हि स्याद् दानं दत्वा विशारदः / दानेन पूज्यते साधु देवेषु मनुजेषु च //
तस्मात् संपत्तिकामेन दानं देयं विशारदैः / मोक्षम् आकांक्षता नित्यम् ऐश्वर्यं च सुरालयम्* //
स्यात् खलु ते महाराज अन्यः स तेन कालेन तेन समयेन वेलामो नाम ब्राह्मणमहासालो ऽभूत्* / न खल्व् एवं द्रष्टव्यम्* / अहम् एव स तेन कालेन तेन समयेन वेलामो नाम ब्राह्मणमहासालो ऽभूवम्* / मया तद् एवंविधं ब्राह्मणेभ्यो दानं दत्तम्* / स्यात् खलु ते महाराज तेन मया दानेन वा दानसंविभागेनानुत्तरा सम्यक्संबोधिर् अधिगतेति न खल्व् एवं द्रष्टव्यम्* / अपि तु तद् दानम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* /
पुनर् अपि महाराज यन् मया अनुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि च कृतानि तच् छ्रूयताम्* /
भूतपूर्वं महाराज शकुनो नाम राजाभूच् चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभि रिद्धिभिः / शक्रस्य देवेन्द्रस्य सुहृद् वयस्यकः / तस्य राज्ञी न पुत्रो न दुहिता / स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः / ईदृशे मम भोगैश्वर्ये न पुत्रो न दुहिता / ममात्ययाद् उद्दायादं कुलं भविष्यति / स शक्रेण देवेन्द्रेण दृष्टः / स कथयति / मार्ष कस्मात् त्वं करे कपोलं दत्वा चिन्तापरस् तिष्ठति / स कथयति / कौशिक ईदृशे मम महाभोगैश्वर्ये न पुत्रो न दुहिता / ममात्ययाद् उद्दायादं कुलं भविष्यति / स कथयति / मार्ष अहं ते ओषधिं प्रेषयिष्यामि / देव्यः पास्यन्ति / ततस् ते पुत्रा भविष्यन्ति दुहितरश् च / शक्रेण गन्धमादनात् पर्वताद् ओषधिर् आदाय तस्य राज्ञः प्रेषिता / राज्ञा अन्तःपुरस्यार्पिता / इमाम् ओषधीं पास्यथ / तस्य राज्ञः अग्रमहिषी शयितिका / ताभिस् (msv i 100) ताम् अनुत्थाप्यौषधिः पीता / सर्वास् ता आपन्नसत्वाः संवृत्ताः / ततः पश्चात् सा अग्रमहिषी व्युत्थिता / तया ता दृष्टा आपन्नसत्वाः / सा कथयति / किं युष्माभिः कृतं येनापन्नसत्वाः संवृत्ताः / ताः कथयन्ति / देवेनास्मभ्यम् ओषध्यः पानाय दत्ताः / किमर्थं युष्माभिर् अहं नोत्थापिता / अपि तु कतरेण भाजनेन ओषध्यः पीताः / कुशमोटकं बद्ध्वा / कुत्र ते कुशाः / इमे तिष्ठन्ति / तया कुशाः प्रक्ष्याल्य पीताः / साप्य् आपन्नसत्वा संवृत्ता / ता अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूताः / सर्वासां पुत्रा जाताः / तस्या अप्य् अग्रमहिष्याः पुत्रो जातो ऽष्टादशभिर् अवलक्षणैः समन्वागतः / सिंहवक्त्राकृतिमुखो महानग्नबलः /
(fol. 168r1 = ग्ब्म् 6.1004) तस्य विस्तरेण जातस्य जातिमहं कृत्वा कुश इति नामधेयं व्यवस्थापितम्* / स राजा तं दृष्ट्वा विकोपं जनयते तान् अन्यांश् च पुत्रान् दृष्ट्वा प्रसादं प्रवेदयते / प्रातिसीमकोट्टराजानः कथयन्ति / भवन्तो वयम् अनेन महाशकुनिराज्ञा सर्वे अभिभूता गच्छामः / तं राज्यात् च्यवयामः / ते आगत्य चतुरंगबलकायेन तस्य नगरं वेष्टयित्वावस्थिताः / राजा महाशकुनिर् न शक्नोति तैः सार्धं संग्रामयितुम्* / स द्वाराणि बद्ध्वा प्राकाराणि मापयित्वावस्थितः / कुशो मातुः सकाशं गत्वा कथयति / अम्ब कस्यार्थे द्वाराणि बद्धानि / एष तव पिता कोट्टराजभिः सार्धं न शक्नोति संग्रामयितुम्* / स एष द्वाराणि बद्ध्वावस्थितः / अम्ब अहम् एभिः सार्धं संग्रामं संग्रामयामि / मम राजा रथम् अनुप्रयच्छतु / पुत्र त्वम् अस्यानिष्टो (msv i 101) द्वेष्यश् च / स एष तव किं रथं दास्यति / अम्ब गच्छ / गत्वा कथय / कुशः कुमार एभिः सार्धं संग्रामयिष्यति / रथम् अनुप्रयच्छ / तया गत्वा राजाभिहितः / देव कुमारः कथयति / अहम् एभिः सार्धं संग्रामयामि / रथम् अनुप्रयच्छ / तेन तस्य रथो ऽनुप्रदत्तः / स द्वौ तूणौ बद्ध्वा रथम् अधिरुह्य निर्गन्तुम् आरब्धः / शक्रो देवेन्द्रः संलक्षयति / इमे कोट्टराजानो बलवन्तः / को ऽयं कुशः कुमारो भद्रकल्पीयो बोधिसत्वः खेदम् आपत्स्यते / साहाय्यम् अस्य कल्पयितव्यम्* / तेन तस्य शंखचक्रगदानुप्रदत्ता / बोधिसत्व एभिस् त्वं जीविकां कल्पय / स द्वाराण्य् उद्धाट्य निर्गतः / स शंखम् आपूरयति / तदा शंखशब्देन सेना विद्रावयति / केचित् तेन शब्देन बधिरीभूताः /
निष्पलायन्ति केचित् कर्णौ पिधाय / यदि चक्रं गदां क्षिपन्ति तद् रसातलं प्रविशति / तेन रणमध्यं गत्वा शंखम् आपूरितम्* / सर्वेषां कर्णानि स्फुटितानि / ते पुरुषराक्षसो ऽयम् इति कृत्वा निष्पलायिताः / स सर्वसामन्तविजयं कृत्वा पितुः सकाशम् आगतः / देव मया देशः प्रसाधितः / सर्वराजानो निर्जिताः / इति श्रुत्वा राजा महाशकुनिस् तुष्टः / स संलक्षयति / कुशः कुमारो बलवान् वीर्यसंपन्नः / कथम् अहम् अस्यान्तिके अप्रसादं प्रवेदयामि / स तस्यान्तिके प्रसादं प्रवेदयितुम् आरब्धः / तेन ते पुत्रा निवेशिताः / कुशस्यापि दारिकां याचितुम् आरब्धः / सर्वे ते कथयन्ति / दास्यामो दारिकां कुशवर्जम्* / अन्यतमेन राज्ञान्यतमस्य राज्ञो दुहिता याचिता / न तावद् उद्वाहः क्रियते / यावन् महाशकुनिराज्ञान्यस्य पुत्रस्यार्थे व्याजान्तरेण (msv i 102) सा दारिका कुशस्यानुप्रदत्ता / नक्षत्रदिवसमुहूर्तदिवसं दृष्ट्वा च कुशः कुमारो निवेशितः / राजा कथयति / भवन्तो न केनचित् कुशस्यादर्शः समर्पयितव्यो नाप्य् अभिषेकपात्रेण स्नापयितव्यः / न च दिवान्तःपुरे प्रवेशे दातव्यः / कुशः कुमारो मातृभिः सार्धं क्रीडति / तया पत्न्या दृष्टः / सा कथयति / क एष पिशाचः कुमाराणां मध्ये (fol. 168v1 = ग्ब्म् 6.1005) क्रीडति / एष तव स्वामी भविष्यति / भूयो ऽपि तया कुमारैः सार्धं जलक्रीडनया क्रीडन् दृष्टः / यावत् तवैव स्वामी / कीदृशो मम स्वामी भविष्यति / सा संलक्षयति / प्रत्यक्षीकरिष्यामि / तया प्रदीपं प्रज्वाल्य कुण्डीरकेण प्रच्छाद्य स्थापितः / स चान्तःपुरं प्रविष्टः / तया च प्रदीपः प्रदर्शितः /
यावत् पश्यति अष्टादशभिर् अवलक्षणैः समन्वागतो सिंहवक्त्राकृतिमुखश् च / सा कथयति पिशाचः पिशाच इति कृत्वा निष्पलायिता / राज्ञो महाशकुनिनो ऽन्यतमं कार्वटिकं व्युत्थितम्* / तेन कुशः कुमारः प्रेषितः / गच्छ कार्वटिकं सन्नामय / स तत्र गतः / कुशपत्न्या मातापित्रोः संदिष्टम्* / किं युष्माकं पृथिव्यां पुरुषा न सन्ति याहं युष्माभिः पिशाचस्यानुप्रदत्ता / यदि मम नयथेति एवं कुशलम्* / नोचेद् अहम् आत्मानं प्रघातयिष्ये / सा तैर् नीता / कुशो ऽपि कुमारस् तं कार्वटिकं निर्जित्यागतः / स मातरं पृच्छति / अम्ब कुत्र सा मम पत्नी / सा कथयति / मातापितृभ्यां नीता / कस्यार्थम्* / त्वं पिशाच इति कृत्वा / अम्ब गच्छामि ताम् आनयामि / पुत्रैवं कुरुष्व / स शंखचक्रगदाम् आदाय संप्रस्थितः / यावद् अन्यतमस्मिन् कर्वटके सिंहभयेन महाजनकाया द्वाराणि बद्ध्वा दिशो ऽनुव्यवलोकयन्तस् तिष्ठन्ति / (msv i 103) कुशः कुमारः कथयति / किम् एव तिष्ठथ / सिंहभयात्* / किं ना प्रघातयथ / न शक्नुमः / यद्य् अहं प्रघातयामि किं ममानुप्रयच्छथ / चतुरंगस्य बलकायस्यार्धम्* / कुशेन कुमारेण सिंहसमीपं गत्वा शंखः आपूरितः / तस्य कर्णौ स्फुटितौ / कालं गतः / स तं गृहीत्वा कर्वटकं गतः / भवन्तः अयं स सिंहः / गृह्णन्तु चतुरंगस्य बलकायस्यार्धम्* / स कथयति / युष्माकम् एव हस्ते तिष्ठतु / प्रतिनिवृत्ततो दास्यथ / तस्य यस्मिन् कर्वटके सा पत्नी तं च कर्वटकं गतः / मालाकारसकाशम् उपसंक्रान्तः / कस् त्वम् ईदृशः / स कथयति / मालिकपुत्रः / किं तव नाम / वृजिक इति /
कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु / स शोभनां मालां ग्रथ्नाति / स मालिकस् तस्या दारिकायास् तां मालाम् अनुप्रयच्छति / सा कथयति / न त्वं कदाचिद् ईदृशीं मालां ग्रथितपूर्वः / किम् अत्र कारणम्* / ममान्तेवासिना ग्रथितम्* / पश्यामि तवान्तेवासिनम्* / तेन स तत्र नीतस् तया दृष्टः / सा संलक्षयति / को ऽयं पिशाच आगतः / तया शाब्दः कृतः / पिशाचः पिशाच इति निष्कासितः / सूपकारसकाशं गतः / स कथयति / कस् त्वम् इति / अहं सूपकारपुत्रः / किंनामा त्वम्* / स्थालीसुगन्धो नाम / स शोभनं साधनपचनं करोति / स सूपकारस् तस्या दारिकायास् तं साधनपचनं समर्पयति / सा दारिका कथयति / भोः पुरुष शोभनसाधनपचनस्य को योगः / ममान्तेवासिना साधितम्* / (msv i 104) पश्यामि (fol. 169r1 = ग्ब्म् 6.1006) तवान्तेवासिनम्* / यावत् तत्रापि स निष्कासितः / वद्यसकाशं गतः / स कथयति / कस् त्वम्* / वैद्यपुत्रः / किंनामा त्वम्* / आत्रेयो नाम / तस्या दारिकायाः शिरोर्तिः प्रादुर्भूता / तां वैद्या न शक्नुवन्ति स्वस्थीकर्तुम्* / स वैद्यश् चिन्तापरो व्यवस्थितः / स कथयति / उपाध्याय किं चिन्तापरो भवसि / राजदुहित्र्या शिरोर्तिः / न शक्नुमः स्वस्थीकर्तुम्* / गच्छाम्य् अहं स्वस्थीकरोमि / स गतस् तया दृष्टः / सा संलक्षयति / को ऽयं पिशाच आगतः / भूयः संलक्षयति / यदि किंचिद् वक्ष्यामि न मे स्वस्थीकरिष्यति / यदाहं स्वस्थीभवेयं तदा निष्कासयिष्ये / सा तेन स्वस्थीकृता / तदा शब्दः कृतः पिशाचः पिशाच इति / स तया निष्कासितः / अमात्यसकाशं गतः / कस् त्वम्* / अहं सहस्रयोधी / तैस् तस्य संग्रहः कृतः /
सा राजदुहिता येन लब्धपूर्वा तेन श्रुतम्* / या सा मम राजदुहिता लब्धपूर्वा सा कुशं कुमारं परित्यज्य स्वगृहं गता / तेन तस्य राज्ञः संदिष्टम्* / यदि तावन् मे दारिकाम् अनुप्रयच्छसीति एवं कुशलम्* / नो चेद् राज्याच् च्यावयिष्ये / स कथयति / एषा मम दुहिता राज्ञो महाशकुनेः पुत्रस्य कुशस्य कुमारस्य प्रदत्तिका / किम् इदानीम् अन्यस्मै दास्ये / स चतुरंगेण बलकायेनागत्य तस्य राजधानीं वेष्टयित्वावस्थितः / स राजा तेन सार्धं न शक्नोति संग्रामं संग्रामयितुम्* / स द्वाराणि बद्ध्वावस्थितः / कुशः कुमारो ऽमात्यान् आमंत्रयते / कस्माद् भवन्तो द्वाराणि बद्धानि / तैस् तस्य विस्तरेणारोचितम्* / कुशः कुमारः कथयति / यदि मम राजा दुहितरम् अनुप्रयच्छति अहं तेन सार्धं संग्रामं संग्रामयिष्ये / तैः राज्ञ आरोचितम्* / स कथयति / एषा मया (msv i 105) दुहिता महाशकुनेः पुत्रस्य दत्तिका / कथम् अहम् अस्य दास्ये / अपि च दारिकार्थे ऽयं संरम्भः / अमात्याः कथयन्ति / देव एष तावद् अनेन सार्धं संग्रामं संग्रामयतु / न ज्ञायते कस्य जयो भविष्यति / तत्र वयं कालज्ञा भविष्यामः / कुशः कुमारः पंचशतिके द्वौ तूणौ बद्ध्वा शंखचक्रगदां च गृहीत्वा निर्गतः / तेन शंखम् आपूरितम्* / तेषां कर्णानि स्फुटितानि / निष्पलायिताः / सा राजदुहिता संलक्षयति / अयं कुशः कुमारो महावीर्यपराक्रमः / कथम् अहम् अस्यान्तिके अप्रसादं प्रवेदयिष्ये / सा तस्य प्रसादं प्रवेदितवती / राजानम् इदम् अवोचत्* / यथा प्रतिज्ञातं तत् कुरु / पुत्रि त्वं मया कुशस्यानुप्रदत्तिका / तात स एवायं कुशः कुमारः / पुत्रि यद्य् एवं गच्छ /
तेन तस्य चतुरंगो बलकायो ऽनुप्रदत्तो महता सत्कारेण सानुप्रेषिता /
स तं कर्वटकं गतः / स तेषां कथयति / भवन्तः अनुप्रयच्छत अस्माकं चतुरंगस्य बलकायस्यार्धम्* / ते कथयन्ति / कुमार चतुरंगो बलकायः उदकस्यौघसदृशं गतः / येन चतुरंगो बलकाय ऊढस् तत्र नातिदूरे एढकाश् चरन्ति / कुशः (fol. 169v1 = ग्ब्म् 6.1007) कुमारो गाथां भाषते /
हस्तिनो यत्र उह्यन्ते कुंजराः षष्टिहायनाः / उपमानेन विज्ञेया ऊढास् तत्र गवेडकाः //
यदि तावद् अनुप्रयच्छथ इत्य् एवं कुशलम्* / नो चेद् अनुप्रयच्छथ महामर्यादाबन्धं करिष्यामि / तैस् तस्यानुप्रदत्तम्* /
स नद्यास् तीरे वासम् उपगतः / स श्रान्तकायो नदीम् अवतीर्णः स्नानाय / तत्र स्वमुखबिम्बो दृष्टः / स संलक्षयति / अष्टादशाभिर् अवलक्षणैः समन्वागतः सिंहवक्त्राकृतिमुखश् च / अत एव इयं राजदुहिता ममान्तिके अप्रसादं प्रवेदयति / किम् ईदृशेन मम जीवितेन प्रयोजनम्* / गच्छाम्य् आत्मानं प्रघातयामि / सो ऽन्यतमं गहनं प्रविश्यात्मानम् उद्बन्धितुम् आरब्धः / शक्रो देवेन्द्रः संलक्षयति / अयं भद्रकल्पीयो बोधिसत्वो रूपशोभाविरहाद् आत्मानं प्रघातयति / पूरयितव्यो ऽस्य मनोरथः / शक्र कथय्ति / कुमार मा खेदम् आपत्स्यसे मा आत्मानं प्रघातय / इमं चूडामणिं शिरसि धारय पूर्णमनोरथो भविष्यसि / इत्य् उक्त्वा प्रक्रान्तः / कुशः कुमारो ऽन्तःपुरं प्रविशितुम् आरब्धः / दौवारिकेण पुरुषेण निवार्यते / कुशकुमारस्यायम् अन्तःपुरं मा प्रविश / स कथयति / स एवाहं कुशः / ते न श्रद्धधति / तेन चूडामणिर् अपनीतः / यथा पौराणः संवृत्तः / ते श्रद्धिताः / कुशः कुमारः संलक्षयति / इहैव तिष्ठामि / तेन पितुः संदिष्टम्* / तात अनुजानिष्व माम्* / इहैव तिष्ठामि / शक्रेण देवेन्द्रेणास्य चत्वारो धातुगोत्राः प्रदर्शिताः / तेन सा पुरी चतूरत्नमयीं कृत्वा प्रतिष्ठापिता / कुशेन कुमारेण वासितम् इति कुशावती कुशावतीति संज्ञा संवृत्ता / स राजा संवृत्तः / कुशो नाम बलचक्रवर्ती तेषु षष्टिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षसहस्राणि (msv i 107) बहूनि वर्षशतसहस्राणि ब्राह्मणेभ्यो दानम् अदात्* / स आत्मनो यज्ञसंपदं दृष्ट्वा गाथां भाषते /
समृद्धिम् आत्मनो दृष्ट्वा देवेषु मनुजेषु च / को दानं न प्रयच्छेत संपत्तिर् येन लभ्यते //
प्रत्यूह्य यो ऽयं शतानि पुंसां मात्सर्यम् आक्रम्य सपत्नभूतम्* / ददाति दानं परलोकभीरुः शूरेष्व् असौ शूरतरो मतो मे //
न तं हि शूरं मुनयो वदन्ति यः शस्त्रपाणिर् विचरत्य् अनीके / दानं प्रयच्छन्ति विशारदा ये शूरांस् तु तान् सर्वविदो वदन्ति //
स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेन कुशो नाम राजा बभूव बलचक्रवर्ती येन तत्षष्टिषु नगरसहस्रेषु दानानि दत्तानि पुण्यानि कृतानि / न खल्व् एवं द्रष्टव्यम्* / अपि त्व् अहम् एव तेन कालेन तेन समयेन कुशो नाम राजाभूवं बलचक्रवर्ती / मयैव तत्षष्टिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा दानानि दत्तानि पुण्यानि कृतानि / स्यात् खलु ते महाराज तेन मया दानेन वा (fol. 170r1 = ग्ब्म् 6.1008) दानसंविभागेन वानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धेति / न खल्व् एवं द्रष्टव्यम्* / अपि त्व् अभून् मे तद्दानम् अनुत्तरायां सम्यक्संबोधौ हेतुमात्रकं प्रत्ययमात्रकं वा संभारमात्रकं वा /
भिक्षवो बुद्धं भगवन्तं पृच्छन्ति / किं भदन्त कुशेन राज्ञा कर्म कृतं यस्य कर्मणो विपाकेनाष्टादशभिर् अवलक्षणैः समन्वागतः (msv i 108) आढ्ये महाधने महाभोगे कुले जातः / भगवान् आह / कुशेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितानि अवश्यंभावीनि / कुशेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति / न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधातौ / अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च /
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* //
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति / स प्रभूतं खादनीयभोजनीयं गृहीत्वोद्यानं गतः / असति बुद्धानां भगवताम् उत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकंपकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य /
अथान्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस् तद् उद्यानम् अनुप्राप्तः / तेन गृहपतिना दृष्टः / तेन पौरुषेयाणाम् आज्ञा दत्ता / भवन्तो निष्कासयतैनं प्रव्रजितम्* / ते नोत्सहन्ते निष्कासयितुम्* / तेन गृहपतिना स्वयम् एवोत्थाय गृहीत्वा निष्कासितः उक्तश् च / सिंहमुखाष्टादशभिर् अवलक्षणैः समन्वागतः कुत्र त्वं प्रविशसि / प्रत्येकबुद्धः संलक्षयति / मा हैवायं तप्येत अत्यन्तक्षतश् चोपहतश् चेति विदित्वोपरि विहायसम् इति विस्तरः /
यावत् तेन सत्कृतो यावत् पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः / यन् मया एवंविधे सद्भूतदक्षिणीये खरं वाक्कर्म निश्चारितं नाहम् अस्य (msv i 109) कर्मणो भागी स्याम्* / यत् तु काराः कृता अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेय / किं मन्यध्वे भिक्षवो यो ऽसौ गृहपतिर् एष एवासौ कुशः / यद् अनेन प्रत्येकबुद्धस्यान्तिके खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेनाष्टादशभिर् अवलक्षणैः समन्वागतः सिंहवक्त्राकृतिमुखश् च संवृत्तः / यत् तु काराः कृतास् तस्य कर्मणो विपाकेन राजा संवृत्तो बलचक्रवर्ती / इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः / व्यतिमिश्राणां व्यतिमिश्रः / एकान्तशुक्लानाम् एकान्तशुक्लः / तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्* / एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः /
पुनर् अपि महाराज यन् मयानुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि (fol. 170v1 = ग्ब्म् 6.1009) च कृतानि तच् छ्रूयताम्* / भूतपूर्वं महाराज कलिंगेषु त्रिशंकुर् नाम मतंगराजो ऽभूत्* / अनेकमतंगशतपरिवारो ऽनेकमतंगसहस्रपरिवारो ऽनेकमतंगशतसहस्रपरिवारो मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी / तस्य विषये यदा दुर्भिक्षं भवति तदा सत्योपयाचनेन देवो वऋषति / न कदाचिद् दुर्भिक्षं भवति / स ऋषिमध्ये प्रव्रजितः / तेन पंचाभिज्ञाः साक्षात्कृताः / तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च / यावद् अपरेण समयेन नैमित्तिकैर् द्वादशवार्षिकी अनावृष्टिर् व्याकृता / ततो राज्ञा ब्रह्मदत्तेन वाराणस्यां नगर्यां घण्टावघोषणं (msv i 110) कारितम्* / शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः / नैमित्तिकैर् द्वादशवार्षिकी अनावृष्टिर् व्याकृता / यस्य युष्माकम् इयन्तं कालम् अन्नम् अस्ति स तिष्ठतु / यस्य नास्ति स गच्छत्व् इति / ततः स जनकायो दुर्भिक्षकालमृत्युभयभीतः संजल्पं कर्तुम् आरब्धः / भवन्तो राज्ञा एवं विजिते ऽयं घण्टावघोषणं कारितम्* / कथं प्रतिपत्तव्यं कुत्र गच्छाम इति / तैः श्रुतं मतंगविषये मतंगजातीयः ऋषिः / अस्य सत्योपयाचनेन देवो वर्षतीति / ततो येषां द्वादशवार्षिकं भक्तं नास्ति ते मतंगविषयं गताः / मतंगजातीयः ऋषेः पुत्रो मतंगराजः / तेन तस्य जनकायस्य द्वादशवर्षाण्य् अन्नपानेन योगोद्वहनं कृतम्* / समनुबद्ध एव दुर्भिक्षः प्रादुर्भूतः / राज्ञा ब्रह्मदत्तेन अमात्याः पृष्टाः /
कुत्रासौ जनकायो गत इति / अमात्याः कथयन्ति / देव कलिंगविषये त्रिशंकुर् नाम मतंगराजो मैत्र्यात्मकः कारुणिको महात्मा सर्वसत्वहितवत्सलः / तस्य सत्योपयाचनेन देवो वर्षति / तत्र महाजनकायो गतः / राजा कथयति / भवन्तो महादुर्भिक्षो ऽयं दुर्भिक्षान्तरकल्पसदृशः / कथम् अत्र प्रतिपत्तव्यम् इति / ते कथयन्ति / देव श्रूयते यो ऽसौ मतंगविषये राजा ऋषिषु प्रव्रजितः सो ऽध्येषितव्य इति / ततो राजा ब्रह्मदत्तो मतंगविषयं गत्वा तम् ऋषिम् अध्येषितुम् आरब्धः / महर्षे मम विजिते महादुर्भिक्षं दुर्भिक्षान्तरकल्पसदृशम्* / तद् अर्हसि सत्योपयाचनं कर्तुम् इति / स सत्योपयाचनं कर्तुम् आरब्धः /
श्वपाकानां कुले जातो मतंगो दुष्टहिंसकः / त्रिशंकुर् इति विख्यातो देवेषु मनुजेषु च //
येन मे सत्यवाक्येन मैत्रं चित्तं (fol. 171r1 = ग्ब्म् 6.1010) सुभावितम्* / अखिलं सर्वसत्वेषु नागेमास् तर्पय प्रजाः / जन्मप्रभृति यस्मान् मे मैत्रं चित्तं सुभावितम्* / अनेन सत्यवाक्येन नागेमास् तर्पय प्रजाः //
ततः सत्योपयाचनेन वाराणस्यां देवो वृष्टः / दुर्भिक्षं निवृत्तं सुभिक्षं प्रादुर्भूतम्* / ततो वाराणसीनिवासी जनकायो मतंगविषयाद् वाराणसीम् आगतः / स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेन त्रिशंकुर् नाम मतंगराजो ऽभूत् मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी यस्य सत्योपयाचनेन देवो वृष्टः दुर्भिक्षं निवृत्तं सुभिक्षं प्रादुर्भूतम् इति / न खल्व् एवं द्रष्टव्यम्* / अपि त्व् अहम् एव स तेन कालेन तेन समयेन त्रिशंकुर् नाम मतंगराजो बभूव मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी यस्य सत्योपयाचनेन देवो वृष्टः / स्यात् खलु ते महाराज मया दानेन वा दानसंविभागेन वा अनुत्तरा सम्यक्संबोधिर् अधिगता / न खल्व् एवं द्रष्टव्यम्* / अपि त्व् अभूत् तद् दानम् अनुत्तरायां सम्यक्संबोधौ हेतुमात्रकं वा संभारमात्रकं वा /
पुनर् अपि महाराज यन् मया अनुत्तरां सम्यकसंबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच् छ्रूयताम्* / भूतपूर्वं महाराज मिथिलायां महादेवो नाम राजाभूच् चक्रवर्ती /
विस्तरेण महादेवसूत्रे मध्यमागमे राजसंयुक्तकनिपाते /
स आत्मनो यज्ञसंपदं द्र्ष्ट्वा गाथां भाषते च /
ऐश्वर्यं प्रार्थमानेन देवेषु मनुजेषु वा / दानं देयं यथाशक्त्या दारिद्र्यभयभीरुणा //
लोके संपूज्यते दाता दाता देवेषु पूज्यते / शरण्यः सर्वभूतानां पक्षिणां वा फलद्रुमः // इति /
स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेन महादेवो नाम राजा चक्रवर्ती येन तं नियतं कल्याणं धर्मं प्रवर्तितम्* / यन् नियतं कल्याणं वर्त्म प्रवृत्तम् आगम्य चतुरशीतिर् महादेवसहस्राणि राजर्षयो ब्रह्मचर्यम् अचार्षुर् इति / न खल्व् एवं द्रष्टव्यम्* / अहम् एव तेन कालेन तेन समयेन महादेवो नाम राजाभूवं चक्रवर्ती / मयैव तन् नियतं कल्याणं धर्मं प्रवर्तितम्* / यन् नियतं कल्याणं वर्त्म प्रवृत्तम् आगम्य चतुरशीतिर् महादेवसहस्राणि राजर्षयो ब्रह्मचर्यम् अचार्षुः / स्यात् खलु ते महाराज तेन मया दानेन वा दानसंविभागेन वा अनुत्तरा सम्यक्संबोधिर् अधिगतेति / न खल्व् एवं द्रष्टव्यम्* / अपि तु तद् दानम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* /
पुनर् अपरं महाराज यन् मयानुत्तरां सम्यक्संबोधिम् अभिप्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच् छ्रूयताम्* / भूतपूर्वं महाराज अस्याम् एव मिथिलायां तेषाम् अपश्चिमको निमिर् नाम राजाभूच् चक्रवर्ती /
विस्तरेण निमिसूत्रे मध्यमागमे राजसंयुक्तकनिपाते /
सो ऽप्य् आत्मनो यज्ञसंपदं दृष्ट्वा भाषते च /
शुभकर्मकृतो दृष्ट्वा तथाप्य् अशुभकर्मणः / ये प्रमाद्यन्ति मनुजाः शोच्यास् ते पुरुषाधमाः // इति /
अथ शक्रो देवानाम् इन्द्रो निमिं राजानम् इदम् अवोचत्* / वस निमे रमस्व निमे इहैव पंचभिः कामगुणैः समन्वितः समन्वङ्गीभूतः क्रीड रम परिचारयेति / स गाथां भाषते /
यथा याचितकं भाण्डं तावत् कालं रथी यथा / तथोपमम् इदं स्थानं परेषां वशवर्ति यत्* //
यतो ऽहं मिथिलां गत्वा करिष्ये कुशलं बहु / आगमिष्ये ततः स्वर्गं कृतपुण्यः कृतोदयः // इति /
स मिथिलाम् आगत्य दानानि दत्वा पुण्यानि कृत्वा गाथां भाषते /
सन्तो दानं प्रशंसन्ति यदापत्सु प्रदीयते / क्षत्रिये ब्राह्मणे वैश्ये शूद्रे चण्डालपुक्कसे //
दानं दत्वा च दुर्भिक्षे तर्पयित्वा च सज्जनान्* / अपायान् वर्जयित्वेह स्वर्गलोके महीयते //
आनुशंसम् इमं ज्ञात्वा दानं देयं मनीषिभिः / दानात् संपद्यते मोक्षश् चैश्वर्यं च शुरालयः // इति /
स्यात् कलु ते महाराजान्यः स तेन कालेन तेन समयेन निमिर् नाम राजाभूच् चक्रवर्ती यो देवांस् त्रयस्त्रिंशान् गतः शक्रेण देवेन्द्रेणार्धासनेनोपनिमन्त्रितो दिव्यैश् च पंचभिः कामगुणैः समन्वितः (msv i 114) समन्वङ्गीभूतः क्रीडितवान्* / न खल्व् एवं द्रष्टव्यम्* / अहम् एव स तेन कालेन तेन समयेन / मयैव तानि मिथिलाम् आगत्य चतुर्षु नगरद्वारेषु यज्ञवाटानि मापयित्वा दानानि दत्तानि पुण्यानि कृतानि / स्यात् खलु ते महाराज तेन दानेन वा दानसंविभागेन वानुत्तरा सम्यक्संबोधिर् अधिगतेति / न खल्व् एवं द्रष्टव्यम्* / अपि तु तद् दानम् अनुत्तरायाः सम्यक्संबोधिर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* /
ततो ऽर्वाग् आनन्दो नाम राजाभूत् प्राभाव्यः / विस्तरेण यावत् तस्यैको द्वौ यावत् पंच पुत्रा जाताः / यो ऽसौ तस्य पश्चिमकः पुत्रस् तस्यादर्शप्रख्यं मुखम्* / तस्यादर्शमुख इति संज्ञा संवृत्ता / स उन्नीतो वर्धितो महान् संवृत्तः / आदर्शमुखः कुमारः सुरतः सुदान्तः / तद् अन्ये ते चण्डा रभसाः कर्कशाः / सर्वे ते पितुर् अर्थकरणे निषण्णा न किंचित् प्रज्ञया प्रतिविध्यन्ति / आदर्शमुखः कुमारो गम्भीरगम्भीरान् प्रश्नान् स्वप्रज्ञया नितीरयति / आनन्दो राजा ग्लानः संवृत्तः / स संलक्षयति / कं राजत्वे प्रतिष्ठापयामि / सचेद् अहं पूर्वकाणां चतुर्णां भ्रातॄणाम् अन्यतमान्यतमं राजत्वे प्रतिष्ठापयिष्यामि एते चण्डा रभसाः ककर्शा जनपदान् अनयेन व्यसनम् आपादयिष्यन्ति / सचेद् आदर्शमुखं कुमारं राज्ये प्रतिष्ठापयिष्यामि ज्ञातीनां गर्ह्यो भविष्यामि / कथम् इदानीम् अयं राजा ज्येष्ठपुत्रान् अपास्य कनीयांसं राज्ये प्रतिष्ठापयतीति / अपि तूपायसंविधानं कर्तव्यम्* / सो ऽमात्यान् आमन्त्रयते / हंत ग्रामण्यो ममात्ययाद् युष्माभिर् एकैकः कुमारः परीक्षितव्यः / यस्य मणिपादुकायुगं प्रावृतं (fol. 172r1 = ग्ब्म् 6.1012) तुल्यं भवति / (msv i 115) सिंहासनं निषण्णस्य निष्कम्पं तिष्ठते / मुकुटं च मूर्ध्नि उपनिबद्धं निश्चलं भवति / अन्तःपुरश् चाभ्युत्थानं कुरुते / षट् प्रज्ञाप्रतिवेदनीयानि ज्ञातव्यानि अन्तर् निधिर् बहिर् निधिर् अन्तर्बहिर् निधिः वृक्षाग्रे निधिः पर्वताग्रे निधिर् उदकान्ते निधिः / यस्य सर्वाण्य् एतानि समाभवन्ति स युष्माभिर् ममात्ययाद् राज्ये प्रतिष्ठापयितव्य इत्य् उक्त्वा सर्वक्षयान्ता निचयाः पतनान्ताः समुच्छ्रया इति यावत् कालगतः /
तैर् अमात्यैर् ज्येष्ठस्य कुमारस्य मणिपादुकायुगं समर्पितम्* / समत्वं न कारयति / निषण्णस्य सिंहासनं प्रकम्पितम्* / मुकुटम् आबद्धं चलति / अन्तःपुरेणाप्य् अस्याभ्युत्थानं न कृतम्* / षट् प्रज्ञाप्रतिसंवेदनीयान्य् आरोचितानि / न जानाति न विजानाति / एवं त्रयाणां भ्रातॄणाम्* / आदर्शमुखस्य कुमारस्य मणिपादुकायुगं समर्पितम्* / समं स्थितम्* / निषण्णस्य च सिंहासनं निष्कम्पं व्यवस्थितम्* / मुकुटम् आबद्धं मूर्ध्नि पूरयित्वा स्थितम्* / अन्तःपुरेण चास्याभ्युत्थानं कृतम्* / अमात्याः कथयन्ति / अस्यापि षट् प्रज्ञाप्रतिवेदनीयानि ज्ञातव्यानि अन्तर् निधिर् बहिर् निधिर् अन्तर्बहिर् निधिर् वृक्षाग्रे निधिः पर्वताग्रे निधिर् उदकान्ते निधिः / आदर्शमुखः संलक्षयति / अन्तर् निधिर् इति किम्* / अन्तर् निधिर् देहल्या अभ्यन्तरनिधिः / बहिर् निधिर् इति किम्* / बहिर् निधिर् देहल्या बहिर् निधिः / अन्तर्बहिर् निधिर् इति किम्* / अन्तर्बहिर् निधिर् देहल्या मध्ये निधिः / वृक्षाग्रे निधिर् इति किम्* / वृक्षस्याग्रे निधिः / तस्य राज्ञः संस्थानवृक्षस् तस्य मध्याह्ने यत्र छाया स्फुरित्वा तिष्ठति तत्र निधिः / पर्वताग्रे निधिः / तस्य राज्ञः क्रीडापुष्करिणी तत्र स्नानशिला तस्याधस्तान् निधिः / उदकस्यान्ते (msv i 116) निधिर् इति / यत्र गृहस्योदकं निर्गच्छति ग्रामान्ते निधिः / तैर् अमात्यैः सर्वाणि प्रत्यवेक्ष्याहृतानि / स तै राज्ये ऽभिषिक्तः / राजा संवृत्तः / आदर्शमुखो नाम राजा प्राभाव्यः /
अन्यतमस्मिन् कर्वटके दण्डी नाम ब्राह्मणः प्रतिवसति / तेन गृहपतिसकाशाद् बलीवर्दान् याचित्वा दिवा वाहयित्वा तान् बलीवर्दान् आदाय तस्य गृहपतेर् निवेशनं गतः / यावत् स गृहपतिर् भुंक्ते / दण्डिना ते बलीवर्दाः प्रवेशिताः / अन्येन द्वारेण प्रक्रान्ताः / स गृहपतिर् भुक्त्वा व्युत्थितः / यावद् बलीवर्दान् न पश्यति / तेन दण्डी गृहीतः / कुत्र बलीवर्दाः / स कथयति / गृहं प्रवेशिताः / त्वया मम बलीवर्दा हारिताः / अनुप्रयच्छ मे बलीवर्दान्* / स कथयति नाहं हारयिष्ये / स कथयति / अयम् आदर्शमुखो राजा प्राज्ञस् तस्य सकाशं गच्छावः / स एतम् अर्थं नितीरयित्वा अस्माकं युक्तम् अयुक्तं वक्ष्यति / तौ संप्रस्थितौ /
अन्यतमस्य पुरुषस्य निष्पलायते बडवा / तेन दण्डी उच्यते धारय मे एतां बडवाम्* / कथं धारयामि / यथा शक्नोषि / तेन पाषाणं गृहीत्वा शिरसि प्रहारो दत्तः / सा कालगता / स पुरुषः कथयति / त्वया मे बडवा प्रघातिता / प्रयच्छ मां बडवाम्* / (fol. 172v1 = ग्ब्म् 6.1013) कस्यार्थं बडवां ददामि / स कथयति / आगच्छादर्शमुखस्य राज्ञः सकाशं गच्छावः / सो ऽस्माकं व्यवहारं गोपयिष्यति / ते तत्र संप्रस्थिताः /
स दण्डी निष्पलायितुम् आरब्धः / तेन प्राकारस्योपरिष्टाद् आत्मा मुक्तः / तस्याधस्तात् कुविन्दो वस्त्रं सूयमानस् तस्योपरि (msv i 117) पतितः / कुविन्दः प्रघातितः / दण्डी कुविन्दपत्न्या गृहीतः / त्वया मम स्वामी प्रघातितः / अनुप्रयच्छ मे स्वामिनम्* / कुतो ऽहं तव स्वामिनं ददामि / आगच्छादर्शमुखस्य राज्ञः सकाशं गच्छामः / सो ऽस्माकं संशयं छेत्स्यते / ते संप्रस्थिताः /
अन्तर्मार्गे नदी गम्भीरा / तत्र तक्षाणो मुखेन वासीम् आदाय पारात् पारम् आगच्छति / स दण्डिना उच्यते / कियत् प्रभूतं पानीयम्* / स वासीं मुक्त्वा कथयति / गम्भीरम् उदकम्* / वासी उदके निपतिता / तेन स दण्डी गृहीतः / त्वया मम वासी उदके परिहारिता / नाहं हारयिष्ये / आगच्छादर्शमुखस्य सकाशं गच्छामः / सो ऽस्माकं संशयं छेत्स्यति /
te śrāntakāyāḥ kallapālyāpaṇaṃ {dutt kalapālyāpaṇaṃ; cf. kalyapālyā p. 120.4} daṇḍinam ādāya praviṣṭāḥ / tasyāḥ kallapālyāḥ {dutt kalapālyāḥ} putro jātaḥ / sa tayā dārako vastreṇa pracchādya śāyāpitako 'bhūt* / daṇḍī tatra niṣaṇṇaḥ / sa kathayati / dārako dāraka iti / yāvat paśyati praghātitaḥ / sa tayā daṇḍī gṛhītaḥ / tvayā mama putraḥ praghātitaḥ / anuprayaccha me putram* / sa kathayati / kuto 'haṃ tava putraṃ dāsye / nāhaṃ praghātayiṣye / sā kathayati / āgacchādarśamukhasya rājñaḥ sakāśaṃ gacchāmaḥ / te saṃprasthitāḥ /
यावद् अन्यतस्मिन् प्रदेशे शाखोटकवृक्षे वायसस् तिष्ठति / तेन दण्डी दृष्ट उक्तश् च / क्व यास्यसि / नाहं यास्ये / एते मां नयन्ति / कुत्र / आदर्शमुखस्य सकाशम्* / मदीयम् अपि सन्देशं नय / वक्तव्यस् ते आदर्शमुखो राजा / अमुष्मिन् प्रदेशे शाखोटकवृक्षः / (msv i 118) तत्र वायसस् तिष्ठति / स कथयति / सन्त्य् अन्ये वृक्षा हरितस्निग्धपलाशाः / तत्राहं धृतिं न लभे / अत्र स्थितस्य मे स्वास्थ्यम्* / को योगः / ते संप्रस्थिताः /
अद्राक्षीन् मृगो दण्डिनम्* / स कथयति / दण्डिन् क्व गच्छसि / नाहं गच्छामि / एते मां नयन्ति आदर्शमुखसकाशम्* / मदीयम् अपि सन्देशं नय / सन्त्य् अन्येषु स्थानेषु हरितशाद्वलानि तृणानि / ते मम न रोचन्ते / किं कारणम्* / ते संप्रस्थिताः /
यावत् तित्तिरेण दृष्ट उक्तश् च / क्व यास्यसि / पूर्ववत्* / मदीयम् अपि सन्देशं नय / अहम् एकस्मिन् प्रदेशे तित्तिरेति वाशितं करोमि / अपरस्मिन् उतित्तिरेति / किम् अत्र कारणम्* /
अपरस्मिन् प्रदेशे सर्पेण दृष्टः / पूर्ववन् ममापि सन्देशं नय / अहम् आशयात् सुखेन निर्गच्छामि दुःखेन प्रविशामि / किम् अत्र कारणम्* /
अन्यस्मिन् प्रदेशे अहिनकुलौ परस्परविरुद्धौ कलिं कुर्वतः / पूर्ववद् यावद् अस्माकम् अपि सन्देशं नय / आवां दिवान्योन्यं कलिं कुर्वाणौ धृतिं न लभावः / किम् अत्र कारणम्* /
अन्यतमा वधूकुमारी पूर्ववद् यावत् सा कथयति / ममापि सन्देशं नय / (fol. 173r1 = ग्ब्म् 6.1014) यदाहं पैतृके गृहे तिष्ठामि तदाहं श्वशुरगृहस्यार्थे उत्कण्ठामि / यदा श्वशुरगृहे तिष्ठामि तदा पैतृगृहे उत्कण्ठामि / किम् अत्र कारणम्* / ते संप्रस्थिताः /
जयेन येनादर्शमुखो राजा तेनोपसंक्रान्ताः / उपसंक्रम्य दण्डी राजानं जयेनायुषा च वर्धयित्वा एकान्ते निषण्णः / ते ऽप्य् अमी पादौ शिरसा वन्दित्वैकान्ते निषण्णाः / राजा दण्डिनं पृच्छति / किम् आगतो ऽसि / देवानीतो ऽस्मीति / केन कारणेन / दण्डिना गृहपतिना सह विवादस् तत् सर्वम् आरोचितम्* /
राजा गृहपतिं पृच्छति / दृष्टस् त्वया बलीवदः / दृष्टः / दण्डिन् त्वया बलीवर्दा प्रवेशिताः / देव प्रवेशिताः / राजा कथयति / अस्य दण्डिनो जिह्वां छिन्दत येन नारोचितम्* / अस्यापि नेत्रोद्धरणं कुरुत येन बलीवर्दा नोपनिबद्धाः / गृहपतिः कथयति / एकदा मे बलीवर्दा हृता अपरं नेत्रोद्धरणं क्रियते / दण्डिना जितं भवतु /
स पुरुषः कथयति / देव अनेन दण्डिना मम बडवा प्रघातिता / यथाकथं तेन विस्तरेणारोचितम्* / राजा कथयति / अस्य पुरुषस्य जिह्वां छिन्दत येनोक्तं यथा शक्नोषि तथा वारयेति / अस्यापि दण्डिनो हस्तौ अर्धापयत येनान्येन शक्यं तां धारयितुं नान्यत्र शिलाप्रहारया / स पुरुषः कथयति / एकदा मे बडवा प्रघातिता द्वितीयं ये जिह्वाच्छेदः / दण्डिना जितं भवतु /
कुविन्दपत्न्या विस्तरेणारोचितम्* / राजा कथयति / गच्छ एष एव ते भर्ता भवतु / सा कथयति / एकदा अनेन मम भर्ता प्रघातितो ऽपर एष मे स्वामी भविष्यति / दण्डिना जितं भवतु /
वर्धकिना विस्तरेणारोचितम्* / राजा कथयति / अस्य तक्षाणस्य जिह्वां छिन्दत यो वासीं मुक्त्वोदकमध्ये वाचं निश्चारयति / (msv i 120) अस्यापि दण्डिनो नेत्रोद्धरणं कुरुत पश्यन्न् अपि गम्भीरम् उदकं तक्षाणं पृच्छति / तक्षाणः कथयति / एकदा मे वास्य् अपहृता द्वितीयो मे जिह्वाच्छेदः / दण्डिना जितं भवतु /
कल्यपाल्या विस्तरेणारोचितम्* / राजा कथयति / अस्याः कल्यपाल्या हस्ताव् अर्धापयत यद् अन्या दारकः सर्वेण सर्वं प्रच्छाद्य शायितः / दण्डिनो ऽपि नेत्रोद्धरणं कुरुत यो ऽप्रत्यवेक्ष्य परकीये आसने निषेत्स्यति / सा कथयति / एकदा मे पुत्रः प्रघातितो द्वितीयो मे हस्तच्छेदः / दण्डिना जितं भवतु /
दण्डिना काकसन्देशम् आरोचितम्* / राजा कथयति / दण्डिन् स काको वक्तव्यः / त्वम् आसीर् ग्रामराट्* / अत्र प्रदेशे शाखोटक आसीत्* / अस्मिंश् च शाखोटकवृक्षे निधानस् तिष्ठति / तं कस्यचिद् दत्वा गच्छा / स्वस्थो भविष्यसि /
मृगसन्देशम् आरोचितम्* / स कथयति / मृगस् त्वया वक्तव्यः / अत्र वृक्षस्योपरिष्टान् मधुबिन्द्या निपतंत्या तृणशाद्वलानि मधुरीकृतानि तानि त्वया भक्षितानि / स च मधु प्रक्रान्तः / रसगृध्यां त्यज / मानयेन व्यसनम् आपत्स्यसे इति /
तित्तिरिसन्देशम् (fol. 173v1 = ग्ब्म् 6.1015) आरोचितम्* / राजा कथयति / यत्र स तित्तिरि तित्तिरि वाशितं करोति स प्रदेशो निष्कांचनः / यत्रोतित्तिरेति तत्र निधानस् तिष्ठति / स तं निधानं कस्यचिद् आरोचयित्वान्यत्र गच्छ / मानयेन व्यसनम् आपत्स्यसि /
अहिनकुलसन्देशम् आरोचितम्* / राजा कथयति / तौ वक्तव्यौ / युवां मनुष्यभूतौ द्वौ भ्रातरौ / तत्रैकः कथयति स्वापतेयं भाजयावः / द्वितीयेन मात्सर्याभिभूतेन न भाजितम्* / तत्रैको ऽध्यवसानं कृत्वा आशीविषेषूपपन्नः / द्वितीयो ऽपि स्वापतेयम् अवष्टभ्याध्यवसानं कृत्वा नकुलः संवृत्तः / तेन यूयम् एतत् स्वापतेयं श्रमणब्राह्मणेभ्यो दत्वा तस्मात् स्थानाद् अपक्रमत / स्वस्था भविष्यथ /
सर्पस्य सन्देशम् आरोचितम्* / राजा कथयति / वक्तव्यस् ते स सर्पः / त्वं जिघत्सादौर्बल्यपरीत आशयान् निर्गच्छसि / मुखेन प्रभूतम् आहारं भुक्त्वा दुःखेनाशयं प्रविशसि / स त्वम् आहारे मात्रां जानीयाः / यथेष्टचारी सुखं विहरिष्यसि /
वधूकुमार्याः सन्देशम् आरोचितम्* / राजा कथयति / वक्तव्या वधूकुमारी त्वया / तव पैतृके गृहे सप्रेमकस् तिष्ठति / सा त्वं यदा श्वशुरगृहे तिष्ठसि तदा सप्रेमकस्यार्थे उत्कण्ठयसि / यदा पैतृकगृहे तिष्ठसि तदा स्वामिनो ऽर्थे उत्कण्ठयसि / सा त्वम् एकं स्थानं परित्यज्य एकं सुगृहीतं कुरु / मानयेन व्यसनम् आपत्स्यसे /
वधूकुमारी आशीविषश् च यथानुशिष्टः प्रतिपन्नः / अहिनकुलौ दण्डिनः स्वापतेयम् अनुप्रदत्तः / काकेनापि अवशिष्टा यथानुशिष्टाः प्रतिपन्नाः /
अमात्याः कथयन्ति / अहो देवस्य ईदृशो ऽपि प्रतिभानः / राजा आत्तमनसा चतुर्षु नगरद्वारेषु दानशाला मापिता / दानाधिष्ठायिकाः पुरुषाः स्थापिताः /
तेन खलु समयेन दुर्भिक्षम् अत्र द्वादशवार्षिकम्* / तेन द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* / स आत्मनो यज्ञसम्पदं दृष्ट्वा गाथां भाषते /
धनं हि लब्ध्वा धर्मेण न कुर्यात् संचयं बुधः / दद्यात् संपन्नशीलेषु दक्षिणीयेषु दक्षिणाम्* //
श्रमणान् ब्राह्मणान् साधून् तर्पयित्वा वनीपकान्* / कायस्य भेदात् स तदा प्राज्ञो देवेषूपपद्यते //
एवं ज्ञात्वा तु मेधावी श्राद्धो मुक्तेन चेतसा / दानशूरान् प्रशंसन्ति दक्षिणीयेष्व् अमत्सराः //
स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेनादर्शमुखो नाम राजा प्राभाव्यः / येन तद्द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* / न खल्व् एवं द्रष्टव्यम्* / अपि त्व् अहम् एव तेन कालेन तेन समयेनादर्शमुखो नाम राजाभूवं प्राभाव्यः / मयैव द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* / स्यात् खलु ते महाराज तेन मया दानेन वा दानसंविभागेन वानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धेति / न खल्व् एवं द्रष्टव्यम्* / अपि तु मे तद् दानं हेतुमात्रकं प्रत्ययमात्रकं (fol. 174r1 = ग्ब्म् 6.1016) संभारमात्रकम्* /
पुनर् अपि महाराज यन् मयानुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच् छ्रूयताम्* / भूतपूर्वं महाराज सुधनो नाम राजाभुच् चक्रवर्ती / तेन चतुरशीतिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि (msv i 123) वर्षसहस्राणि बहूनि वर्षशतसहस्राणि दानानि दत्तानि पुण्यानि कृतानि / स आत्मनो यज्ञसम्पदं दृष्ट्वा गाथां भाषते /
समृद्धिम् आत्मनो दृष्ट्वा देवेषु मनुजेषु च / न प्रयच्छेद् धि को दानं संपत्तिर् येन लभ्यते //
प्रत्यूह्य यो ऽयं शतानि पुंसां मात्सर्यम् आक्रम्य सपत्नभूतम्* / ददाति दानं परलोकभीरुः शूरेष्व् असौ शूरतरो मतो मे //
न तं हि शूरं मुनयो वदन्ति यः शस्त्रपाणिर् विचरत्य् अनीके / दानं प्रयच्छन्ति विशारदा ये शूरांस् तु तान् सर्वविदो वदन्ति //
स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेन राजाभूच् चक्रवर्ती येन तच् चतुरशीतिषु नगरसहस्रेषु यज्ञवाटं मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि दानानि दत्तानि पुण्यानि कृतानि / न खल्व् एवं द्रष्टव्यम्* / अपि तु तद् दानं संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* /
पुनर् अपि महाराज यन् मयानुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि वीर्यपारमिता च परिपूरिता न चानुत्तरा सम्यक्संबोधिर् अधिगतेति तच् छ्रूयताम्* / भूतपूर्वं महाराज पंचालविषये द्वौ राजानौ बभूवतुः / उत्तरपंचालो दक्षिणपंचालश् च /
तत्रोत्तरपंचालो धनो नाम्ना हस्तिनापुरे नगरे राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं (msv i 124) च / प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* / धार्मिको धर्मराजा धर्मेण राज्यं कारयति / तस्मिंश् च नगरे महान् ह्रद उत्पलपद्मकुमुदपुण्डरीकसंच्छन्नो हंसकारण्डवचक्रवाकोपशोभितो रमणीयः / तत्र ह्रदे जन्मचित्रो नाम नागपोतः प्रतिवसति / स कालेन कालं सम्यग्वारिधाराम् अनुप्रयच्छतीति अतीव शस्यसंपत्तिर् भवति / शस्यवती वसुमती सुभिक्षान्नपानो देशः / दानमानसत्कारवांश् च लोकः श्रमणब्राह्मणकृपणवनीपकोपभोज्यः /
दक्षिणपंचालस् तु राजा अधर्मभूयिष्ठश् चण्डो रभसः कर्कशः अधर्मेण राज्यं कारयति / नित्यं दण्डनताडनघातनधारणबन्धनहडिनिगडोपरोधैः राष्ट्रनिवासिनं त्रासयति / अधर्मभूयिष्ठतया चास्य देवो न कालेन कालं सम्यग्वारिधाराम् अनुप्रयच्छति / ततो ऽसौ जनकायः संत्रस्तः संवेगम् आपन्नः स्वजीवितापेक्षया राष्ट्रपरित्यागं कृत्वोत्तरपंचालस्य राज्ञो विषयं गत्वा प्रतिवसति / यावद् (fol. 174v1 = ग्ब्म् 6.1017) अपरेण समयेन दक्षिणपंचालो राजा मृगयाव्यपदेशेन जनपदान् व्यवलोकनाय निर्गतो यावत् पश्यति ग्रामनगराणि शून्यानि उद्यानदेवकुलानि भिन्नप्रभग्नानि / दृष्ट्वा च पुनर् अमात्यान् आमन्त्रयते / कस्माद् भवन्त इमानि ग्रामनगराणि शून्यानि उद्यानदेवकुलानि च भिन्नप्रभग्नानि / स जनकायः क्व गत इति / अमात्याः कथयन्ति / देव उत्तरपंचालस्य (msv i 125) राज्ञो धनस्य विषयं गताः / किमर्थम्* / देवाभयं प्रयच्छ कथयामः / दत्तं भवतु / ततस् ते कथयन्ति / देव उत्तरपंचालो राजा धर्मेण राज्यं कारयति / तस्य जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च प्रशान्तकलिकलहडिम्बडमरास् तस्कररोगापगताः / शालीक्षुगोमहिषीसंपन्नो दानमानसत्कारवांश् च लोकः / श्रमणब्राह्मणकृपणवनीपकोपभोज्यः / देवस् तु चण्डो रभसः कर्कशो नित्यं दण्डनताडनघातनधारणबन्धनहडिनिगडोपरोधैः राष्ट्रं त्रासयति यतो ऽसौ जनकायः संत्रस्तः संवेगम् आपन्नः उत्तरपंचालस्य राज्ञो विषयं गतः / दक्षिणपंचालो राज कथयति /
भवन्तः को ऽसाव् उपायः स्याद् येनासौ जनकायः पुनर् आगत्यैषु ग्रामनगरेषु प्रतिवसेत्* / अमात्याः कथयन्ति / यदि देवः उत्तरपंचालराजवद् धर्मेण राज्यं कारयति मैत्रचित्तो हितचित्तो ऽनुकंपाचित्तः स्वराष्ट्रं पालयति नचिराद् असौ जनकायः पुनर् आगत्यैषु ग्रामनगरेषु प्रतिवसेत्* / दक्षिणपंचालो राजा कथयति / भवन्तो यद्य् एवम् अहम् अप्य् उत्तरपंचालवद् धर्मेण राज्यं कारयामि मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तः राष्ट्रं परिपालयामि / यूयं तथा कुरुत यथासौ जनकायः पुनर् आगत्यैषु ग्रामनगरेषु प्रतिवसतीति / देवापरो ऽपि तत्रानुशंसो ऽस्ति / तस्मिन् नगरे महान् ह्रदः उत्पलकुमुदपुण्डरीकसंच्छन्नो हंसकारण्डवचक्रवाकोपशोभितः / तत्र जन्मचित्रो नागपोतः प्रतिवसति / स कलेन कालं सम्यग्वारिधाराम् अनुप्रयच्छति / अतीव शस्यसंपत्तिर् भवति / तेन तत्र शस्यवती वसुमती सुभिक्षान्नपानश् च देशः / को ऽसाव् उपायः स्याद् येनासौ (msv i 126) नागपोत इहानीयेत / देव विद्यामन्त्रधारिणस् तम् आनयन्ति / ते समन्विष्यन्ताम्* / ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारितम्* / य उत्तरपंचालविषयाज् जन्मचित्रं नागपोतम् आनयेत् तस्येमं सुवर्णपिटकं दास्यामि महता च सत्कारेण सत्करिष्यामीति / यावद् अन्यतम आहितुण्डिकः अमात्यानां सकाशं गत्वा कथयति / ममैतत् सुवर्णपिटकम् अनुप्रयच्छत अहं जन्मचित्रं नागपोतम् अपहृत्यानयामीति / (fol. 175r1 = ग्ब्म् 6.1018) अमात्याः कथयन्ति / एष गृहाण / स कथयति / यो युष्माकं श्रद्धितः प्रत्ययितश् च तस्य हस्ते तिष्ठतु /
आनीते जन्मचित्रे नागपोते ग्रहीष्यामीति / एवं कुरुष्वेति / ततो ऽसाव् आहितुण्डिकः प्रत्ययितस्य पुरुषस्य हस्ते सुवर्णपिटकं स्थापयित्वा हस्तिनापुरं नगरं गतः / ततस् तेनासौ ह्रदः समन्ततो व्यवलोकितः / निमित्तीकृतं चासौ जन्मचित्रो नागपोत एतस्मिन् देशे प्रतिष्ठतीति / ततो बल्युपहारनिमित्तं ततः पुनः प्रत्यागतः / अमात्यानां कथयति बल्युपहारं मे प्रयच्छत सप्तमे दिवसे तं नागपोतम् अपहृत्यानयामीति / स चाहितुण्डिकस् तेन संलक्षितो ममासाव् अपहरणायागतः / सप्तमे दिवसे माम् अपहरिष्यति / मातापितृवियोगजं महद् दुःखं भविष्यति / किं करोमि कं शरणं प्रपद्ये इति / तस्य च ह्रदस्य नातिदूरे द्वौ लुब्धकौ प्रतिवसतः सारकः फलकश् च / तौ तं ह्रदम् आश्रित्य जीविकां कल्पयतः / यः स्थलगतः प्राणिनो मृगशशशरभसूकरादयस् तद् ह्रदम् उपसर्पन्ति तान् प्रघातयति ये ऽपि जलगता मत्स्यकच्छपमण्डूकादयः / तत्र च सारकः कालगतः / (msv i 127) फलको जीवति / जन्मचित्रो नागपोतः संलक्षयति / नान्यो ऽस्ति मम शरणमृते फलकाल् लुब्धकात्* / ततो मनुष्यवेशम् आस्थाय फलकस्य सकाशं गतः / गत्वा कथयति / भोः पुरुष किं त्वं जानीषे कस्यानुभावाद् धनस्य राज्ञो जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च पूर्ववद् यावच् छालीक्षुगोमहिषीसंपन्ना इति / स कथयति / जाने / स राजा धार्मिको धर्मेण राज्यं कारयति मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तश् च राष्ट्रं पालयतीति / स कथयति / किम् एतद् एवास्ति / अन्यद् अपीति / लुब्धकः कथयति / अस्त्य् अन्यो ऽप्य् अनुशंसः /
यः अस्मिन् ह्रदे जन्मचित्रो नाम नागपोतः प्रतिवसति स कालेन कालं सम्यग्वारिधाराम् अनुप्रयच्छति / अतीव शस्यसंपत्तिर् भवति शस्यवती वसुमती सुभिक्षान्नपानश् च देशः इति / जन्मचित्रः कथयति / यदि कश्चित् तं नागपोतम् इतो विषयाद् अपहरेत् तस्य नागपोतस्य किं स्यान् मातापितृवियोगजम् अस्य दुःखं स्याद् राज्ञो राष्ट्रस्य च / यो ऽपहरति तस्य त्वं किं कुर्याः / जीविताद् व्यवरोपयेयम्* / जानीषे त्वं कतरो ऽसौ नागपोत इति / न जाने / अहम् असौ दक्षिणपंचालविषयिकेनापह्रिये / स बल्युपहारविधानार्थं गतः सप्तमे दिवसे आगमिष्यति / आगत्यास्य ह्रदस्य चतसृषु दिक्षु खदिरकीलकान् निखन्य नानारंगैः सूत्रैर् वेष्टयित्वा मन्त्रान् आवर्तयिष्यति / तत्र त्वया प्रच्छन्नं संनिकृष्टे स्थाने स्थातव्यम्* / यदा तेनायम् एवंरूपः (msv i 128) प्रयोगः कृतो भवति तदा ह्रदमध्यात् क्वथमानं पानीयम् उत्थास्यति / अहं चोत्थास्यामि / (fol. 175v1 = ग्ब्म् 6.1019) तदा त्वयासाव् आहितुण्डिकः शरेण मर्मणि ताडयितव्यः / आशु चोपसंक्रम्य वक्तव्यो मन्त्रान् उपसंहर / मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति / यद्य् असौ मन्त्रान् अनुपसंहृत्य प्राणैर् वियोक्ष्यते मृते ऽहं यावज्जीवम् एव मन्त्रपाशबद्धः स्याम् इति / लुब्धकः प्राह / यदि तवैकस्यैवं गुणः स्यात् तथाप्य् अहम् एवं कुर्यां प्राग् एव सकलस्य राष्ट्रस्य / गच्छाम्य् अहं तत्र स्थान इति / ततस् तेन नागपोतेन तस्यैकपार्श्वे गुप्तं स्थानम् उपदर्शितम्* / यावद् असौ लुब्धकः सप्तमे दिवसे प्रतिगुप्ते प्रदेशे आत्मानं गोपयित्वावस्थितः / स चाहितुण्डिक आगत्य बल्युपहारं कर्तुम् आरब्धः /
तेन चतसृषु दिक्षु चत्वारः खदिरकीलकाः निखाताः / नानारंगैः सूत्रकैर् वेष्टयित्वा मन्त्रैर् आवर्तितः / ततस् तत् पानीयम् उत्क्वथितुम् आरब्धम्* / लुब्धकेन शरेण मर्मणि ताडितो निष्कोशं चासिं कृत्वाभिहितः / त्वम् अस्मिन् विषयनिवासिनं नागपोतकं मन्त्रेणापहरसि / मन्त्रान् उपसंहर / मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति / तत अहितुण्डिकेन दुःखवेदनाभिभूतेन मन्त्रा व्यावर्तिताः / तेन च समनन्तरं लुब्धकेन जीविताद् व्यवरोपितः / ततो नागपोतो मन्त्रपाशबन्धनाद् विनिर्मुक्तो ह्रदाद् अभ्युद्गत्य तं लुब्धकं परिष्वक्तवान् एवं चाह / त्वं मे माता त्वं पिता यन् मम त्वम् आगम्य मातापितृवियोगजं दुःखं नोत्पन्नम्* / आगच्छ भुवनं गच्छावः / तेनासौ स्वभुवनं नीतो नानाविधेन चान्नपानेन संतर्पितो रत्नानि चोपदर्शितानि / मातापित्रोश् च निवेदितम्* / अम्ब तात एष मे सुहृच्छरण्यं (msv i 129) बान्धवो ऽस्यानुभावान् मम युष्माभिः सह वियोगो न जात इति / ताभ्याम् अप्य् असौ वरेण प्रवारितो विविधानि रत्नानि दत्तानि / स तान्य् आदाय तस्माद् ह्रदाद् व्युत्थितः /
तस्य ह्रदस्य नातिदूरे पुष्पफलसम्पन्नं नानाशकुनिभिर् निकूजितम् आश्रमपदम्* / तत्र ऋषिः प्रतिवसति मैत्र्यात्मकः कारुणिकः सत्ववत्सलः / ततो ऽसौ लुब्धकस् तस्य ऋषेस् त्रिष्कालम् उपसंक्रमितुम् आरब्धः / यच् चास्य जन्मचित्रेण नागपोतेन सार्धं वृत्तं तत् सर्वं विस्तरेण समाख्यातम्* / ततो ऽसाव् ऋषिः कथयति / किं रत्नैः किं वा ते सुवर्णेन तस्य भुवने अमोघो नाम पाशस् तिष्ठति तं याचस्वेति / ततो लुब्धको ऽमोघपाशे जाततृष्णः ऋषिवचनम् उपश्रुत्य पुनर् अपि नागभुवनं गतो यावत् पश्यति नागभुवनद्वारे तम् अमोघं पाशम्* / तस्यैतद् अभवत्* / एष स पाशो यो मया प्रार्थनीय इति विदित्वा नागभुवनं प्रविष्टः / ततो जन्मचित्रेण नागपोतेनान्यैश् च नागपोतैः ससंभ्रमं प्रतिसंमोदितो रत्नैश् च प्रवारितः कथयति / अलं मे रत्नैः किं त्व् एतद् अमोघं पाशं ममानुप्रयच्छेति / जन्मचित्रः कथयति / तवानेन किं प्रयोजनम्* / अस्माकं (fol. 176r1 = ग्ब्म् 6.1020) तु महत् प्रयोजनम्* / यदा गरुडभयोपद्रुता भवामस् तदानेनात्मानं रक्षामः / लुब्धकः कथयति / युष्माकम् एष गरुडभयोपद्रुतानाम् उपयोगं गच्छति मम त्व् अनेन सततम् एव प्रयोजनम्* / यद्य् अस्ति कृतम् उपकृतं वा प्रयच्छेति / जन्मचित्रस्य नागपोतस्यैतद् अभवत्* / ममानेन बहूपकृतं मातापितराव् अवलोक्य ददामीति / तेन मातापितराव् (msv i 130) अवलोक्य स पाशो दत्तः / ततो ऽसौ लुब्धकः पृथिवीलब्धप्रख्येन सुखसौमनस्येनाप्यायितमना अमोघं पाशम् आदाय नागभुवनाद् अभ्युद्गम्य स्वगृहं गतः /
यावद् अपरेण समयेन धनो राजा देव्या सार्धं क्रीडति रमते परिचार्यति / तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता / स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः / अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता / ममात्ययात् स्वकुलवंशच्छेदे राष्ट्रापहारः / सर्वं च स्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति / स श्रमणब्राह्मणसुहृत्संबन्धिबान्धवैर् उच्यते / देव किम् असि चिन्तापर इति / स एतत् प्रकरणं तेषां विस्तरेणारोचयति / ते कथयन्ति / देवताराधनं कुरु पुत्रस् ते भविष्यतीति / सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते / अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् च / तच् च नैवम्* / यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः / अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च / कतमेषां त्रयाणाम्* / मातापितरौ रक्तौ भवतः / संनिपतितौ / माता च कल्या भवति रितुमती / गन्धर्वश् च प्रत्युपस्थितो भवति / एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च / स चैवम् आयाचनपरस् तिष्ठति / अन्यतमश् च भद्रकल्पिको (msv i 131) बोधिसत्वस् तस्या अग्रमहिष्याः कुक्षिम् अवक्रान्तः / पंचावेणिका धर्माः एकतः पण्डितजातीये मातृग्रामे / कतमे पंच / रक्तं पुरुषं जानाति / कालं जानाति / ऋतुं जानाति / गर्भम् अवक्रान्तं जानाति / यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति / दारकं जानाति / दारिकां जानाति / सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति / सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति / सा आत्तमनात्तमनाः स्वामिनारोचयति / दिष्ट्या आर्यपुत्र वर्धसे / आपन्नसत्वास्मि संवृत्ता / यथा च मे दक्षिणकुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति (fol. 176v1 = ग्ब्म् 6.1021) / सो ऽप्य् आत्तमनात्तमनाः पूर्वं कायम् अभ्युन्नमय्य दक्षिणबाहुम् अभिप्रसार्योदानम् उदानयति /
अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* / समजातो मे स्यान् नावजातः / कृत्यानि मे कुर्वीत / भृतः प्रतिबिभृयात्* / दायाद्यं प्रतिपद्येत / कुलवंशो मे चिरस्थितिकः स्यात्* / अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यते / इदं तयोर् यत्र तत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति /
आपन्नसत्वां चैनां विदित्वा उपरि प्रासादतलगताम् अयन्त्रितां धारयति शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् (msv i 132) आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरकैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविहारिणीं मञ्चान् मञ्चं पीठात् पीठम् अवतरन्तीम् अधरिमां भूमिम्* / न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय / सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता / दारको जातः / अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः उच्चघोषः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः / तस्य जाताव् आनन्दभेर्यस् ताडिताः / श्रुत्वा राजा कथयति / किम् एतद् इति / अन्तःपुरिकाभिः राज्ञे निवेदितम्* / देव दिष्ट्या वर्धसे पुत्रस् ते जात इति / ततो राज्ञा सर्वं तन् नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितम्* / चन्दनवारिपरिषिक्तम् उच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णं रमणीयम्* / आज्ञा च दत्ता / श्रमणब्राह्मणकृपणवनीपकेभ्यो दानं प्रयच्छत / सर्वबन्धनमोक्षं कुरुतेति / तस्यैवं त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते / किं भवतु दारकस्य नामेति / अमात्याः कथयन्ति / अयं दारको धनस्य राज्ञः पुत्रः / भवतु दारकस्य सुधन इति नामेति / तस्य सुधन इति नामधेयं व्यवस्थापितम्* / सुधनो दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः /
द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* / सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा (msv i 133) सर्पिर्मण्डेनान्यैश् चोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्* / स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः / पूर्ववद् यावद् अष्टासु परीक्षासूद्धाटको वाचकः पण्डितः पटुप्रचारः संवृत्तः / स यानि तानि भवन्ति मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं (fol. 177r1 = ग्ब्म् 6.1022) पृथिवीमण्डलम् अभिनिर्जित्याध्यावसतां पूर्ववद् यावत् पंचसु स्थानेषु कृतावी संवृत्तः / तस्य पित्रा त्रीण्य् अन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयः / त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्* / त्रीण्य् उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्* / ततः सुधनः कुमारः उपरि प्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति /
यावद् अपरेण समयेन फलको लुब्धको मृगान् अन्वेषमाणस् तेन तेनानुविचरन्न् अन्यतमं पर्वतम् अनुप्राप्तः / तस्य च पर्वतस्याधस्ताद् रिषेर् आश्रमपदं पश्यति पुष्पफलसंपन्नं नानापक्षिगणविचरितम्* / महान्तं च ह्रदम् उत्पलकुमुदपुण्डरीकसंछन्नं हंसकारण्डवचक्रवाकोपशोभितम्* (msv i 134) / तदाश्रमपदं परिभ्रमितुम् आरब्धः / यावत् तम् ऋषिं पश्यति दीर्घकेशश्मश्रुनखरोमाणं वातातपकर्षितशरीरं चीवरवल्कलधारिणम् अन्यतमद् वृक्षमूलाश्रयं तृणकुटिकाकृतनिलयम्* / दृष्ट्वा च पुनः पादाभिवन्दनं कृत्वा कृतांजलिपुटः पप्रच्छ / भगवन् कियच् चिरम् अस्मिन् प्रदेशे तव प्रतिवसतः / चत्वारिंशद्वर्षाणि / अस्ति त्वया इयता कालेनास्मिन् प्रदेशे कश्चिद् आश्चर्याद्भुतो धर्मो दृष्टः श्रुतो वा कस्यचित् सकाशात्* / स ऋषिर् मन्दमन्दम् उवाच / भद्रमुख दृष्टस् ते अयं ह्रदः / दृष्टो भगवन्* / एषा ब्रह्मसभा नाम पुष्करिणी उत्पलपद्मकुमुदपुण्डरीकसंछन्ना नानापक्षिगणनिषेविता हिमरजततुषारगौराम्बुपूर्णा सुरभिकुसुमपरिवासिततोया / अस्यां पुष्करिण्यां पंचदश्यां पंचदश्यां मनोहरा नाम द्रुमकिन्नरराजस्य दुहिता पंचकिन्नरीशतपरिवृता नानाविधशिरःस्नानोद्वर्तनैर् आगत्य स्नाति / स्नानकाले चास्य मधुरनृत्यगीतवादितशब्देन मृगपक्षिणो ऽपह्रियन्ते / अहम् अपि तं शब्दं श्रुत्वा महता प्रीतिसौमनस्येन सप्ताहम् अधिनामयामि / एतद् आश्चर्यं भद्रमुख मया दृष्टम् इति /
अथ फलकस्य लुब्धकस्यैतद् अभवत्* / शोभनो मया अमोघः पाशो नागाल् लब्धः / तं मनोहराया किन्नर्याः क्षेप्स्यामीति / सो ऽपरेण समयेन पूर्णपंचदश्यां पाशम् आदाय ह्रदतीर्थसमीपे पुष्पफलविटपवृक्षगहनम् आश्रित्यावधानतत्परो ऽवस्थितः / यावन् मनोहरा किन्नरी पंचकिन्नरीशतपरिवृता महत्या विभूत्या ब्रह्मसभां पुष्करिणीम् अवतीर्णा स्नातुं तत्समनन्तरं च फलकेन (msv i 135) लुब्धकेनामोघः पाशः क्षिप्तो येन मनोहरा किन्नरी बद्धा / तया अमोघपाशपाशितया ह्रदे महानुपमर्दः कृतो विभीषणश् च शब्दो निश्चारितः / यं श्रुत्वा परिशिष्टः किन्नरीगणः इतश् चामुतश् च संभ्रान्तो मनोहरां (fol. 177v1 = ग्ब्म् 6.1023) किन्नरीं निरीक्षितुम् आरब्धः / पश्यति बद्धाम्* / दृष्ट्वा च पुनर् भीतो निष्पलायितः / अद्राक्षीत् स लुधकस् तां परमरूपदर्शनीयाम्* / दृष्ट्वा च पुनर् उपश्लिष्टो ग्रहीष्यामीति / सा कथयति /
मा नैषीस् त्वं हि मा स्प्राक्षीर् नैतत् तव सुचेष्टितम्* / राजभोग्या सुरूपाहं न साधु ग्रहणं तव // इति /
लुब्धकः प्राह / यदि त्वां ना गृह्णामि निष्पलायसे / सा कथयति / नाहं निष्पलाये / यदि न श्रद्दधासि अयं चूडामणिं गृह्ण / अस्यानुभावेनाहम् उपरि विहायसा गच्छामीति / लुब्धकः कथयति / कथं जाने / तया शिरस् तश् चूडामणिर् दत्तः उक्तश् च / एतच् चूडामणिर् यस्य हस्तस्थस् तस्याहं वशा भवामि / ततो लुब्धकेनासौ मणिर् गृहीतः / पाशबद्धां चैनां गृहीत्वा संप्रस्थितः /
तेन खलु समयेन सुधनः कुमारो मृगयानिर्गतः / अद्राक्षीत् स लुब्धकः सुधनं कुमारम् अभिरूपं दर्शनीयं प्रासादिकम्* / दृष्ट्वा च पुनर् अस्यैतद् अभवत्* / अयं च राजकुमार इयं च परमरूपदर्शनीया / यद्य् एतां द्रक्ष्यति बलाद् ग्रहीष्यतीति / यन्व् अहम् एतां प्राभृतन्यायेन स्वयम् एवोपनयेयम्* / ततस् तं पाशम् आदाय येन सुधनो राजकुमारस् तेनोपसंक्रान्तः / उपसंक्रम्य पादयोर् निपत्य कथयति / इदं मया (msv i 136) देवस्य स्त्रीरत्नं प्राभृतम् आनीतं प्रतिगृह्यताम् इति / अद्राक्षीत् सुधनो राजकुमारीं मनोहरां किन्नरीम् अभिरूपां दर्शनीयां प्रासादिकां परमया वर्णपुष्कलतया समन्वागतां सर्वगुणसमुदिताम् अष्टादशभिः स्त्रीलक्षणैः समलंकृतां जनपदकल्याणीं कांचनकलशकूर्मपीनोन्नतकठिनसंहतसुजातवृत्तप्रगलमानस्तनीम् अभिनीलरक्तांशुकविसृतायतनवकमलसदृशनयनां सुभ्रुवमायततुंगनासां विद्रुममणिरत्नबिम्बफलसंस्थानसदृशाधरोष्ठीम् आदृढपरिपूर्णगण्डपार्श्वाम् अत्यर्थरतिकरविशोषकरकपोलतिलकाम् अनुपूर्वरचितसंहतभ्रुवमरविन्दविकचसदृशपरिपूर्णविमलशशिवपुषीं प्रलम्बबाहुं गम्भीरत्रिवलीकसन्नतमध्यांस् तनभारावनाम्यमानपूर्वार्धं रथांगसंस्थितसुजातजघनां कदलीगर्भसदृशकरां पूर्वानुवर्तितसंहतसुजातकरभोरुं सुनिगूढसुरचितसर्वांगसुन्दरसिरां संहितमणिचूडाम् आरक्तकरतलां प्रहर्षनूपुरवलयहारार्धहारनिर्घोषविलसितगतिमायतनीलसूक्ष्मकेशीं शचीम् इव भ्रष्टकांचीं नूपुरावच्छादितपादां छातोदरीं तां प्रकीर्णहाराम् उत्तप्तजाम्बूनदचारुवर्णां दृष्ट्वा कुमारः सहसा पपात बद्धो दृढं (msv i 137) रागपाशेन / तत्र स रागवह्णौ दहनपतंगसदृशेन जलचंचलचन्द्रविमलोज्ज्वलस्वभावेन दुर्ग्राह्यतरेण नदीतरंगझषमकरदुरधिगमेन गरुडपवनजवसमगतिना तुलपरिवर्तनलघुवानरावस्थितचपलोद्भ्रान्ततरेण (fol. 178r1 = ग्ब्म् 6.1024) सतताभ्यासक्लेशशनिषेवणरागसुखास्वादलोलेन सर्वक्लेशविषमदुर्गप्रपातनिःसंगेन परमलीनेन चित्तेन सद्भूतानुरागतया अयोनिशोमनस्कारधनुर्विसृतेन संयोगाभिलषितपरमरहस्यशब्देन कामशरेण हृदये विद्धः आह च /
दृष्ट्वाथ तां स सुधन इन्दुसमानवक्त्रां प्रावृङ्घनान्तरविनिश्चरतीव विद्युत्* / तत्स्नेहमन्मथविलाससमुद्भवेन सद्यः स चेतसि तु रागशरेण विद्धः //
स ताम् अतिमनोहरां मनोहरां गृहीत्वा हस्तिनापुरं गतः / स च लुब्धको ग्रामवरेणाच्छादितः / ततः सुधनः कुमारो मनोहरया सार्धम् उपरि प्रासादतलगतः क्रीडति रमते परिचारयति / मनोहरया रूपयौवनगुणेन सुधनः कुमारो ऽनेकैश् चोपचारशतैस् तथापहृतो यथा सुधनः कुमारो मुहूर्तम् अपि तां न जहाति /
यावद् अपरेण समयेन जनपदाद् द्वौ ब्राह्मणाव् अभ्यागतौ / तत्रैको राजानं संश्रितो द्वितीयः सुधनं कुमारम्* / यो राजानं संश्रितः स राज्ञा पुरोहितः स्थापितो भोगैश् च संविभक्तः / यस् तु सुधनं कुमारं स भोगमात्रेण संविभक्तः / (msv i 138) स कथयति / कुमार यदा त्वं पितुर् अत्ययाद् राज्ये प्रतिष्ठास्यसि तदा मे किं करिष्यसीति / सुधनः कुमारः कथयति / यथा तव सहायो ब्राह्मणो मम पित्रा पौरोहित्ये स्थापितः एवम् अहं त्वाम् अपि पौरोहित्ये स्थापयामीति / एष च वृत्तान्तस् तेन ब्राह्मणेन कर्णपरंपरया श्रुतः / तस्यैतद् अभवत्* / अहं तथा करिष्यामि यथा कुमारो राज्यम् एव नासादयिष्यति / कुतस् तं पुरोहितं स्थापयिष्यतीति /
यावद् अपरेण समयेन तस्य राज्ञो विजिते अन्यतमः कार्वटिको विरुद्धः / तस्य समुच्छित्तये राज्ञा एको दण्डः प्रेषितः / स हतविहतविध्वस्तः {एद्. 1984: -विद्धस्तः} प्रत्यागतः / एवं यावत् सप्त दण्डाः प्रेषिताः / ते ऽपि हतविहतविध्वस्ताः {एद्. 1984: -विद्धस्तः} प्रत्यागताः / अमात्यैः राजा विज्ञप्तः / देव किमर्थं स्वबलं हाप्यते परबलं वर्ध्यते / यावत् कश्चिद् देवविजिते शस्त्रबलोपजीवी सर्वो ऽसाव् आहूयताम् इति / ब्राह्मणः पुरोहितः संलक्षयति / अयं कुमारस्य वधोपायकाल इति / तेन राजा विज्ञप्तः / देव नैवम् असौ शक्यः सन्नामयितुम्* / राजा कथयति / किं मया स्वयं गन्तव्यम्* / पुरोहितः कथयति / किमर्थं देवः स्वयं गच्छति / अयं सुधनः कुमारो बलदर्पयुक्तः / एष दण्डसहीयः प्रेष्यताम् इति / राजा कथयति / एवम् अस्त्व् इति / ततो राजा कुमारम् आहूय कथयति / गच्छ कुमार दण्डसहीयः कार्वटिकं सन्नामय / एवं देवेति सुधनः कुमारो राज्ञः प्रतिश्रुत्यान्तःपुरं प्रविष्टः / मनोहरादर्शनाच् चास्य सर्वं विस्मृतम्* / पुनर् अपि राज्ञाभिहितः / (fol. 178v1 = ग्ब्म् 6.1025) पुनर् अपि तद्दर्शनात् सर्वं विस्मृतम्* / ततः पुरोहितेन (msv i 139) राजाभिहितः / देव सुधनः कुमारो मनोहरया अतीव सक्तो न शक्यते प्रेषयितुम्* / साधनं सज्जीक्रियताम्* / निर्गतः कुमारो ऽन्तःपुरात् प्रेषयितव्यो यया मनोहरायाः सकाशं न प्रविशतीति / राज्ञा अमात्यानाम् आज्ञा दत्ता / भवन्तः एवं कुरुध्वम् इति / अमात्यैः राज्ञः प्रतिश्रुत्य बलौघो हस्त्यश्वरथपदातिसंपन्नो ऽनेकप्रहरणोपकरणयुक्तः सज्जीकृतः /
ततः कुमारो निर्गतः उक्तो गच्छ कुमार सज्जो बलौघ इति / स कथयति / देव गमिष्यामीति मनोहरां दृष्ट्वा / राजा कथयति / कुमार न द्रष्टव्या कालो ऽतिवर्तते / तात यद्य् एवं मातारं दृष्ट्वा गच्छामि / गच्छ कुमारावलोकय जननीम्* / स मनोहरासन्तकं चूडामणिम् आदाय मातुः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति / अम्ब अहं कार्वटिकं सन्नामनाय गच्छामि / अयं चूडामणिः सुगुप्तः स्थापयितव्यो न कथंचिन् मनोहराया देयो ऽन्यत्र प्राणवियोगाद् इति / स एवं मातरं सन्दिश्याभिवाद्य च नानायोधबलौधतूर्यनिनादैः संप्रस्थितः / अनुपूर्वेण जनपदान् अतिक्रम्य तस्य कर्वटकस्य नातिदूरे ऽन्यतमद् वृक्षमूकं निश्रित्य वासम् उपगतः /
तेन खलु समयेन वैश्रवणो महाराजो ऽनेकयक्षपरिवारो ऽनेकयक्षशतपरिवारो ऽनेकयक्षसहस्रपरिवारो ऽनेकयक्षशतसहस्रपरिवारस् तेन पथा यक्षाणां यक्षसमितं संप्रस्थितः / तेन तस्य पथा (msv i 140) गच्छथ खगपथे यानम् अवस्थितम्* / तस्यैतद् अभवत्* / बहुशो ऽहम् अनेन पथा समतिक्रान्तो न च मे कदाचिद् यानं प्रतिहतम्* / को ऽत्र हेतुर् येन यानं प्रतिहतम् इति / स पश्यति सुधनं कुमारम्* / तस्यैतद् अभवत्* / अयं भद्रकल्पिको बोधिसत्वः खेदम् आपद्यते युद्धायाभिसंप्रस्थितः / साहाय्यम् अस्य करणीयम्* / अयं कर्वटकः सन्नामयितव्यः / न च कस्यचित् प्राणिनः पीडा कर्तव्येति विदित्वा पांचिकं महायक्षसेनापतिम् आमन्त्रयते / एहि त्वं पांचिक सुधनस्य कुमारस्य कर्वटकम् अयुद्धेन सन्नामय / न च ते कस्यचित् प्राणिनः पीडा कर्तव्येति / तथेति पांचिकेन महायक्षसेनापतिना वैश्रवणस्य महाराजस्य प्रतिश्रुत्य दिव्यश् चतुरंगो बलकायो निर्मितः / तालमात्रप्रमाणाः पुरुषाः पर्वतप्रमाणा हस्तिनो {एद्. 1984: हस्तिनः} हस्तिप्रमाणा अश्वाः / ततो नानाखड्गमुसलतोमरप्रासचक्रशक्तिशरपरश्वधः शस्त्रविशेषेण नानावादित्रसंक्षोभेण च महाभयम् उपदर्शयन् महता बलौघेन पांचिकः कर्वटकम् अनुप्राप्तः /
हस्त्यश्वरथनिर्घोषनानावादित्रनिस्वनात्* / यक्षाणां स्वप्रभावाच् च प्राकारः प्रपपात वै //
ततस् तेन कर्वटकनिवासिनं (fol. 179r1 = ग्ब्म् 6.1026) बलौघं दृष्ट्वा तच् च प्राकारपतनं परं विषादम् आपन्नाः पप्रच्छुः / कुत एष बलौघ आगच्छतीति / ते कथयन्ति / शीघ्रं द्वाराणि मुंचत / एष पृष्ठतः सुधनः कुमार आगच्छति / तस्यैष बलौघः / यदि चिरं धारयिष्यथ / सर्वथा स्वस्था न भविष्यथेति / ते कथयन्ति /
व्युत्पन्ना न वयं राज्ञो न कुमारस्य धीमतः / नृपपौरुषकेभ्यो ऽस्मि भीताः सन्त्रासम् आगताः //
तैर् द्वाराणि मुक्तानि / ततः उच्छ्रितध्वजपताकाः पूर्णकलशैर् नानाविधतूर्यनिनादैः सुधनं कुमारं प्रत्युद्गताः / तेन च समाश्वासितास् तद् अभिप्रायाश् च राजभटाः स्थापिता निपकाश् च गृहीताः करप्रत्ययाश् च निबद्धाः / ततस् तं कर्वटकं स्फीतीकृत्य सुधनः कुमारो निवृत्तः /
धनेन च राज्ञा ताम् एव रात्रिं स्वप्नो दृष्टः / गृध्रेणागत्य राज्ञ उदरं स्फोटयित्वा अन्त्राण्य् आकृष्य सर्वं तन् नगरम् अन्त्रैर् वेष्टितं सप्त च रत्नानि गृहं प्रवेश्यमानानि दृष्टानि / ततो राजा भीतस् त्रस्तः आहृष्टरोमकूपो लघु लघ्व् एवोत्थाय महार्हशयने निषद्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः / मा हैव मे अतोनिदानं राज्याच् च्युतिर् भविष्यति जीवितस्य वा अन्तराय इति / स प्रभातायां रजन्यां तं स्वप्नं ब्राह्मणाय पुरोहिताय निवेदयामास / स संलक्षयति / यादृशो देवेन स्वप्नो दृष्टो नियतं कुमारेण कर्वटको निर्जितः / वितथनिर्देशः करणीय इति विदित्वा कथयति / देव न शोभनः स्वप्नः / नियतम् अतोनिदानं देवस्य राज्याच् च्युतिर् भविष्यति जीवितस्य वान्तरायः / केवलं त्व् अत्रास्ति प्रतीकारः / स च ब्राह्मणकेषु मन्त्रेषु दृष्टः / को ऽसौ प्रतीकारः / देव उद्याने पुष्करिणी (msv i 142) सुरूपा प्रामाणिका कर्तव्या / ततः सुधया प्रलेप्तव्या / सुसंमृष्टां कृत्वा क्षुद्रमृगाणां रुधिरेण पूरयितव्या / ततो देवेन स्नानप्रयतेन तां पुष्करिणीम् एकेन सोपानेनावतरितव्यम्* / एकेनावतीर्य द्वितीयेनोत्तरितव्यम्* / द्वितीयेनोत्तीर्य तृतीयेनावतरितव्यम्* / तृतीयेनावतीर्य चतुर्थेनोत्तरितव्यम्* / ततश् चतुर्भिर् ब्राह्मणैर् वेदवेदाङ्गपारगैर् देवस्य पादौ जिह्वया निर्लेढव्यौ / किन्नरमेदसा स धूपो देयः / एवं देवो विधूतपापश् चिरं राज्यं पालयिष्यतीति / राजा कथयति / सर्वम् एतच् छक्यम्* / यद् इदं किन्नरमेदम् अतीव दुर्लभम्* / पुरोहितः कथयति / देव यद् एव सुलभं तद् एव दुर्लभम्* / राजा कथयति / यथा कथम्* / पुरोहितः कथयति / देव नन्व् इयं मनोहरा किन्नरी / राजा कथयति / पुरोहित मैव वद / कुमारस्यात्र प्राणाः प्रतिष्ठिताः / स कथयति / ननु देवेन श्रुतम्* /
त्यजेद् एकं कुलस्यार्थे ग्रामस्याथ {एद्. 1984: ग्रामस्यार्थे} कुलं त्यजेत्* / ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्* //
दृढेन ह्य् आत्मना राजन् कुमारस्यास्य धीमतः / शक्यसि ह्य् अपरां कर्तुं धातयैनां मनोहराम्* // इति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
