Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

भैषज्यवस्तु

Thông tin
GRETIL — N. Dutt. Gilgit Manuscript, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: Mūlasarvāstivādavinayavastu, part 1-4. Part 1: Bhaiṣajyavastu; dto.: second edition, Delhi 1984.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथ भगवान् त्रैमासस्यात्ययात् कृतचीवरो निष्ठितचीवरः आयुष्मन्तम् आनन्दम् आमन्त्रयते / गच्छानन्द अग्निदत्तं ब्राह्मणराजम् आरोचय / एवं च वद / उषिताः स्मो महाराज तव विजिते / अवलोकितो भव / गच्छाम इति / एवं भदन्त इति / आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य येनाग्निदत्तस्य ब्राह्मणराजस्य निवेशनं तेनोपसंक्रान्तः / तेन खलु समयेनाग्निदत्तो ब्राह्मणराजः पुण्याहम् आगमयंस् तिष्ठति / अथायुष्मान् आनन्दो दौवारिकं पुरुषम् आमन्त्रयते / एहि त्वं भोः पुरुष येनाग्निदत्तो ब्राह्मणराजस् तेनोपसंक्रम / उपसंक्रम्याग्निदत्तं ब्राह्मणराजम् एवं वद / आनन्दो भिक्षुर् द्वारे तिष्ठति देवं द्रष्टुकाम इति / एवम् आर्य इति दौवारिकपुरुषः आयुष्मत आनन्दस्य प्रतिश्रुत्य येनाग्निदत्तो ब्राह्मणराजस् तेनोपसंक्रान्तः / उपसंक्रम्याग्निदत्तं ब्राह्मणराजम् इदम् अवोचत्* / देवार्यानन्दो भिक्षुर् द्वारे तिष्ठति देवं द्रष्टुकामः / स कथयति / अहं भोः पुरुष पुण्याहम् आगमयंस् तिष्ठामि / आनन्दो भिक्षुः पुण्यमहेशाख्यः / स एव पुण्याहो भवतु /

पंचकल्याणश् चायम्* / नामकल्याणो रूपकल्याणो वर्णकल्याणः प्रतिभानकल्याणः प्रतिपत्तिकल्याणश् च /

प्रविशतु / को भवन्तम् आनन्दं वारयतीति / दौवारिकेणायुष्मत आनन्दायैवम् आरोचितम्* आयुष्मान् आनन्दः प्रविष्टः / ते ऽपि सामन्तराजानां दूतास् तेनैव सार्धं प्रविष्टाः /

अथायुष्मान् आनन्दो ऽग्निदत्तं ब्राहमणराजम् आरोग्ययित्वा एकान्ते निषण्णः / एकान्तनिषण्णः आयुष्मान् आनन्दो ऽग्निदत्तं ब्राह्मणराजम् इदम् अवोचत्* / भगवांस् ते महाराज आरोग्ययति कथयति च / उषिताः स्मो महाराज तव विजिते त्रैमासीम्* / अवलोकितो भव / गच्छाम इति / वन्दे आर्यानन्द बुद्धं भगवन्तम्* / कच्चिद् आर्यानन्द भगवान् वैरंभ्येषु जनपदेषु सुखं वर्षोषितः / न च पिण्डकेन क्लान्त इति / तैः सामन्तराजदूतैर् उक्तः / देवो ऽप्रत्यक्षितराज्यस् त्वं यो भगवन्तं सश्रावकसंघं त्रैमासीम् उपनिमंत्र्यादर्शनपथे व्यवस्थितः / त्रैमासीं कोटरयवाः परिभुक्ता इति / स कथयति / सत्यम् आर्यानन्द भगवता त्रैमासीं यवाः परिभुक्ताः / सत्यं महाराज / स संमूर्छितः (fol. 152v1 = ग्ब्म् 6.973) पृथिव्यां निपतितो महता जलपरिषेकेण प्रत्यागतप्राणः अमात्यान् आहूय पृच्छति / भवन्तो न मया युष्माकम् आज्ञा दत्ता / प्रतिदिवसं पंचानां शतानाम् आहारं सज्जीकुरु / प्रणीतं प्रभूतं चेति / ते कथयन्ति / अस्ति देवेनैवम् आज्ञप्तम्* / न त्व् आज्ञा दत्ता अमुकस्य दातव्यम् इति / अपि तु अद्याप्य् आहारः सज्जीकृत एव / अथाग्निदत्तो ब्राह्मणराजो येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः / एकान्तनिषण्णम् अग्निदत्तं ब्राह्मणराजं भगवान् धर्म्यया कथया संदर्शयति पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* / अथाग्निदत्तो ब्राह्मणराजो भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्* / (msv i 43) अत्ययो भगवन्न् अत्ययः सुगत यथा बालो यथा मूढो यथाव्यक्तो यथाकुशलो यो ऽहं भगवन्तं सश्रावकसंघं त्रैमासीम् उपनिमंत्र्यादर्शनपथे व्यवस्थितः / तस्य मम भगवन्न् अत्ययं जानतो ऽत्ययं पश्यतः अत्ययम् अत्ययतः प्रतिगृह्णीष्वानुकम्पाम् उपादाय / तथ्यं ते महाराज अत्ययम् अत्ययत आगमा यथा बालो यथा मूढो यथाव्यक्तो यथाकुशलो यस् त्वं तथागतं त्रैमासीम् उपनिमंत्र्यादर्शनपथे व्यवस्थितः / यतस् त्वं महाराज अत्ययं जानास्य् अत्ययं पश्यसि तं च दृष्ट्वादेशयसि वृद्धिर् एव ते प्रतिकांक्षितव्या कुशलानां धर्माणां न हानिः /

अथाग्निदत्तो ब्राह्मणराजो भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान् यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति / भगवान् आह / तथागतो महाराज अल्पायुष्के काले जातः प्रभूतं च कार्यं करणीयम्* / निर्वाणकालसमयश् चेति / नाधिवासयति / यद्य् एवम् अधिवासयतु मे भगवान् सप्तवर्षाणि सप्तमासान् सप्तदिवसान्* / तथापि भगवान् नाधिवासयति / अग्निदत्तो ब्राह्मणराजो भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / भगवान् संलक्षयति / यद्य् अहम् अस्यैकभक्तकम् अपि नाधिवासयामि स्थानम् एतद् विद्यते यद्य् अग्निदत्तो ब्राह्मणराज उष्णं (msv i 44) शोणितं छर्दयित्वा कालं करिष्यतीति विदित्वा अधिवासितं भगवता तूष्णींभावेन / अथाग्निदत्तो ब्राह्मणराजो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो ऽन्तिकात् प्रक्रान्तो येन स्वं निवेशनं तेनोपसंक्रान्तः / उपसंक्रम्यामात्यान् आमंत्रयते भवन्तः को ऽसौ उपायः स्याद् येन सर्वो ऽयम् आहारो बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तो भवेद् इति / ते कथयन्ति / देव सर्वो ऽयं पृथिव्याम् आहारस् तीर्यताम्* / भिक्षवः पद्भ्याम् आक्रमिष्यन्ति / एवं परिभुक्तो भविष्यतीति / तेन (fol. 153r1 = ग्ब्म् 6.974) पौरुषेयाणाम् आज्ञा दत्ता / भवन्तो यावान् अयम् आहारः सर्वम् एतत् समन्तात् पृथिव्याम् आकिरत इति / तैः सर्वं समन्ताद् आकीर्णम्* / अथाग्निदत्तो ब्राह्मणराजस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय पूर्ववद् यावद् भगवान् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः /

यावद् अन्यतमेन महल्लेन संजातामर्षेणास्माभिस् त्रैमासीं कोटरयवाः परिभुक्ताः / इदानीम् अयं कलिराजो विभवं दर्शयतीति विदित्वा खादनीयभोजनीयस्य पृथिव्याम् आकीर्णस्योपरि पार्ष्णिप्रहारो दत्तः / ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति / आर्य खादनीयभोजनीयं मुखाभ्यवहार्यं पादेन स्पृशन्ति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् संलक्षयति / यः कश्चिद् आदीनवो भिक्षवः खादनीयभोजनीयं (msv i 45) मुखाभ्यवहार्यं पादेन स्पृशन्तीति विदित्वा भिक्षून् आमन्त्रयते स्म / अमुकेन भिक्षवो महल्लभिक्षुणा संजातामर्षेण खादनीयभोजनीयस्य मुखाभ्यवहार्यस्य पृथिव्याम् आकीर्णस्योपरि पार्ष्णिप्रहारो दत्त इति / ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति / तस्मान् न भिक्षुणा खादनीयभोजनीयं मुखाभ्यवहार्यं पादेनाक्रमितव्यम्* / आक्रामति सातिसारो भवतीति /

athāgnidatto brāhmaṇarājaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayati pūrvavad yāvad dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya / atha bhagavān agnidattaṃ brāhmaṇarājaṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati / anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya utthāyāsanāt prakrāntaḥ / atha saṃbahulā bhikṣavas trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ yena bhagavāṃs tenopasaṃkrāntāḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthur / ekāntasthitāḥ saṃbahulā bhikṣavo bhagavantam idam avocan* / uṣitāḥ smo bhadanta vairaṃbhye traimāsīm* / {tib. inserts the whole vairambhasūtra; cf. an ii 54-57}

विस्तरेण वैरंभ्यसूत्रम् एकोत्तरिकागमे चतुष्कनिपाते /

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं (msv i 46) पप्रच्छुः / किं भदन्त भगवता कर्म कृतं येन करचरणशिरश्छेदादिना दानसंभारेण यावद् दीनजनं संतर्प्य कल्पासंख्येयं यत् त्रयं सत्वार्थे आत्मानं परिखेद्यापगतसर्वकार्यो वैरंभ्ये कोटरयवान् परिभुक्तवान् सार्धं भिक्षुद्व्यूनैः पंचभिर् भिक्षुशतैः / आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ (fol. 153v1 = ग्ब्म् 6.975) दिव्यां सुधाम् इति / भगवान् आह / तथागतेनैव एतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /

भूतपूर्वं भिक्षवः अशीतिवर्षसहस्रायुषि प्रजायां विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* / सः अशीतिभिक्षुसहस्रपरिवारो बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति / तेन खलु समयेन बन्धुमत्यां राजधान्याम् अन्यतमो गणवाचको ब्राह्मणः पाञ्चशतिकं गणं ब्राह्मणकान् मंत्रान् पाठयति / सर्वलोकस्य चात्यर्थं सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हत् संमतः / यत एव विपश्यी सम्यक्संबुद्धो बन्धुमतीं राजधानीम् अनुप्राप्तस् तत एव तं न कश्चित् सत्करोति न गुरुकरोति न मानयति न पूजयति / स विपश्यति / तथागते सश्रावकसंघे ऽत्यर्थम् ईर्ष्यावान् संवृत्तः / यावत् संबहुलाः शैक्षाशैक्षा भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय बन्धुमतीं (msv i 47) राजधानीम् अनुप्राप्ताः / ततो नानासूपिकरसोपेतस्य भक्तस्य पात्राणि पूरयित्वा निर्गच्छन्ति / तेन च ब्राह्मणेन दृष्टाः पृष्टाश् च / भो भिक्षवः पश्यामि कीदृशः पिण्डपातो लब्ध इति / तैः ऋजुको ऽयं दर्शितः / तत ईर्ष्याप्रकृत्या संजातामर्षेण माणवका अभिहिताः / नार्हन्तीमे मुण्डकाः श्रमणका नानासूपिकरसव्यंजनोपेतं शाल्योदनं परिभोक्तुम्* / अर्हन्ति तु कोटरयवान् परिभोक्तुम् इति / तैर् अप्य् अनुसंवर्णितम्* / एवम् एतद् उपाध्याय एवम् एतत्* / नार्हन्त्य् एव इमे मुण्डकाः श्रमणका नानासूपिकरसव्यंजनोपेतं शाल्योदनं परिभोक्तुम्* / अर्हन्ति तु कोटरयवान् परिभोक्तुम् इति / तत्र च द्वौ माणवकौ श्राद्धौ भद्रौ कल्याणाशयौ / तौ कथयतः / उपाध्याय मैवं वोचुः / महात्मान एते ऽर्हन्त्य् एव दिव्यां सुधां परिभोक्तुं न कोटरयवान् इति /

किं मन्यध्वे भिक्षवः / यो ऽसौ विपश्यितथागतेन गणवाचको ब्राह्मणः अहम् एव स तेन कालेन तेन समयेन / यानि तानि द्व्यूनानि पंच माणवकशतानि एतान्य् एव पंच भिक्षुशतानि / यौ तौ द्वौ माणवकौ श्राद्धौ भद्रौ कल्याणाशयौ एताव् एव तौ शारिपुत्रमौद्गल्यायनौ भिक्षू / यन् मया विपश्यिनः सम्यक्संबुद्धस्य शैक्षाशैक्षाणां श्रावकाणाम् अन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं द्व्यूनैश् च पंचभिर् माणवकशतैर् अनुमोदितं द्वाभ्यां तु नानुमोदितं तस्य कर्मणो विपाकेनैतर्हि तथागतेन वैरंभ्ये कोटरयवाः परिभुक्ताः (msv i 48) सार्धं भिक्षुद्व्यूनैः पंचभिर् भिक्षुशतैः / शारिपुत्रमौद्गल्यायनाभ्यां तु दिव्या सुधा परिभुक्ता / इति हि भिक्षवः एकान्तकृष्णानां (fol. 154r1 = ग्ब्म् 6.976) कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः / इत्य् एवं वो भिक्षवः शिक्षितव्यम्* /

{मर्क् अल्लोन् 2003: परल्लेल् सेए sn iv 179-181} तत्र भगवान् आयुष्मन्तम् आनन्दम् आमंत्रयते स्म / आगमयानन्द येनायोध्येति / एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* / अथ भगवान् दक्षिणपंचाले जनपदचारिकां चरन्न् अयोध्याम् अनुप्राप्तः अयोध्यायां विहरति नद्या गंगायास् तीरे / अथान्यतमो भिक्षुर् येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* / एकान्तस्थितः स भिक्षुर् भगवन्तम् इदम् अवोचत्* / साधु मे भगवंस् तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतो ऽन्तिके संक्षिप्तेन धर्मं श्रुत्वा एको व्यपकृष्टो ऽप्रमत्तः आतापी प्रहितात्मा विहरेयम्* / एको व्यपकृष्टो ऽप्रमत्तः आतापी प्रहितात्मा विहरन् यद् अर्थं कुलपुत्राः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयेयम्* / क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति / एवम् उक्ते भगवान् येन गंगा नदी तेन व्यवलोकयन् व्यवलोकयति / अद्राक्षीद् भगवान् नद्या गंगायाः स्रोतसा महान्तं दारुस्कन्धम् उह्यमानम्* / दृष्ट्वा च पुनस् तं भिक्षुम् आमन्त्रयते / पश्यसि त्वं भिक्षो नद्या गंगायाः स्रोतसा महान्तं दारुस्कन्धम् उह्यमानम्* (msv i 49) / एवं भदन्त सचेद् एष न पारिमे तीरे संस्रक्ष्यति / नापारिमे तीरे संस्रक्ष्यति / न मध्ये संस्रक्ष्यति / न स्थले उत्पत्स्यति / न मनुष्यग्राह्यो भविष्यति / नामनुष्यग्राह्यः / नावर्तग्राह्यः / नान्तःपूतीभावं गमिष्यति /

एवम् एष भिक्षो दारुस्कन्धो ऽनुपूर्वेण समुद्रनिम्नो भविष्यति समुद्रप्रवणः समुद्रप्राग्भारः / एवम् एव सचेत् त्वं भिक्षो न पारिमे तीरे संस्रक्ष्यसि / पूर्ववद् यावत्* / नान्तःपूतीभावं गमिष्यसि / एवं हि त्वं भिक्षो अनुपूर्वेण निर्वाणनिम्नो भविष्यसि निर्वाणप्रवणो निर्वाणप्राग्भारः / नाहं भदन्त जाने किम् अपारिमं तीरं किं पारिमं तीरम्* / किं मध्ये संसदनम्* / किं स्थले उत्सदनम्* / को मनुष्यग्राहः / कः अमनुष्यग्राहः / कः आवर्तग्राहः / को ऽन्तःपूतीभाव इति / साधु मे भगवांस् तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतो ऽन्तिकात् संक्षिप्तेन धर्मं श्रुत्वा पूर्ववद् यावन् नापरम् अस्माद् भवं प्रजानामीति /

अपारिमं तीरम् इति भिक्षो षण्णाम् आध्यात्मिकानाम् आयतनानाम् एतद् अधिवचनम्* / पारिमं तीरम् इति षण्णां बाह्यानाम् आयतनानाम् एतद् अधिवचनम्* / मध्ये संसदनम् इति नन्दीरागस्यैतद् अधिवचनम्* / स्थले उत्सदनम् इति अस्मिमानस्यैतद् अधिवचनम्* / मनुष्यग्राह इति यथापीहैकः संसृष्टो (fol. 154v1 = ग्ब्म् 6.977) विहरति गृहस्थप्रव्रजितैः (msv i 50) सहनन्दी सहशोकः / स सुखितेषु सुखितो दुःखितेषु दुखितः उत्पन्नोत्पन्नेषु किं करणीयेषु समादाय पर्यवसानानुवर्ती भविष्यति / अमनुष्यग्राह इति यथापीहैक इति प्रणिधाय ब्रह्मचर्यं चरतीत्य् अनेनाहं शीलेन वा व्रतेन वा तपेन वा ब्रह्मचर्यवासेन वा स्यां देवो देवान्यतमो वेति / आवर्तग्राह इति यथापीहैकः शिक्षां प्रत्याख्याय हानायावर्तते / अन्तःपूतीभाव इति यथापीहैको दुःशीलो भवति पापधर्मा अन्तःपूतिर् अवस्रुतः कषंवकजातः शंखस्वरसमाचारः / अश्रमणः श्रमणप्रतिज्ञो ऽब्रह्मचारी ब्रह्मचारिप्रतिज्ञः / एवं हि सचेत् त्वं भिक्षो नापारिमे तीरे संस्रक्ष्यसि पूर्ववद् यावन् निर्वाणप्राग्भारः /

अथ स भिक्षुर् भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः / अथ स भिक्षुर् भगवता अनेन दारुस्कन्धोपमेनाववादेनाववादितः / एको व्यपकृष्टो ऽप्रमत्तः आतापी प्रहितात्मा विहरन् यद् अर्थं कुलपुत्राः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयते क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीत्य् आज्ञातवान्* / स आयुष्मान् अर्हन् बभूव सुविमुक्तचित्तः /

तेन खलु समयेन नन्दो गोपालको भगवतो नातिदूरे स्थितो ऽभूत्* / दण्डम् अवष्टभ्य गाश् चारयति / तेन दण्डेनावष्टब्धो मण्डूकः संछिद्यमानेषु चर्मसु मुच्यमानेषु सन्धिषु चित्तम् उत्पादयति यद्य् अहं कायं वा चालयेयं वाचं वा निश्चारयेयं स्याद् अतोनिदानं नन्दस्य गोपालस्य कथाव्याक्षेपम् इति विदित्वा भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य कालगतश् चातुर्महाराजिकेषु देवेषूपपन्नः /

अथ नन्दो गोपालको दण्डम् एकान्ते उपनिक्षिप्य येन भगवांस् तेनोपसंक्रान्तः / उप्ससंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* / एकान्तस्थितो नन्दो गोपालको भगवन्तम् इदम् अवोचत्* / अहं भदन्त नापारिमे तीरे संस्रक्ष्यामि / न पारिमे तीरे संस्रक्ष्यामि / न मध्ये संस्रक्ष्यामि / न स्थले उत्स्रक्ष्यामि / न मनुष्यग्राहो भविष्यामि / नामनुष्यग्राहो नावर्तग्राहो नान्तःपूतीभावं गमिष्यामि / लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति / तेन हि नन्देन स्वामिनां गावो दत्ताः / नो भदन्त / तत् कस्य हेतोः / भदन्त गावस् तरुणवत्सा ज्ञास्यन्ति स्वकस्वकानि गोकुलानि / गमिष्यन्ति स्वकस्वकानि निवेशनानि / लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं (fol. 155r1 = ग्ब्म् 6.978) भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यं / किं चापि नन्द दहरा गावस् तरुणवत्सा ज्ञास्यन्ति स्वकस्वकानि गोकुलानि / गमिष्यन्ति स्वकस्वकानि निवेशनानि / अपि तु करणीयम् एतद् गोपालकेन यथापि तत् स्वामिना भक्ताच्छादनं स्वीकुर्वता /

अथ नन्दो गोपालको भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः / ततो भयं भयम् इत्य् उच्चैः शब्दं कुर्वाणः प्रधावितुम् आरब्धः / अन्तर्मार्गे आत्मीयैः पंचभिर् गोपालकशतैर् दृष्टः / ते कथयन्ति / कस्य भयम् इति / जातिभयं जराभयं व्याधिभयं मरणभयम् इति / ते ऽपि तस्य पृष्ठतः प्रधावितुम् आरब्धाः / तान् दृष्ट्वा अन्ये ऽपि गोपालका अश्वपालकास् तृणहारकाः काष्ट्ःअहारकाः पथाजीवा उत्पथाजीवाश् च मनुष्याः प्रधावितुम् आरब्धाः / आनुपथिकैर् दृष्टास् तथा विक्रोशन्तः पृष्टाः / किम् एतद् भवन्तः / ते कथयन्ति / भयम्* / कस्य भयम्* / जातिभयं जराभयं व्याधिभयं मरणभयम्* / श्रुत्वा ते ऽपि निवृत्ताः / यावत् कर्वटकसमीपं संप्राप्ताः / ततश् चासौ कर्वटकनिवासी जनकायस् तं महान्तं जनकायं दृष्ट्वा इतश् चामुतश् च सन्त्रस्ताः / केचिन् निष्पलायिताः / केचिद् भाण्डं गोपायन्ति / केचित् सन्नह्यावस्थिताः / अपरे वीरपुरुषास् तैः प्रत्युद्गम्य पृष्टाः / भवन्तः किम् एतद् इति / ते कथयन्ति / भयम्* / कस्य भयम्* / जातिभयं जराभयं व्याधिभयं मरणभयम् इति / ततो ऽसौ कर्वटकनिवासी जनकायः समाश्वस्तः /

तेन खलु समयेनायुष्मान् शारिपुत्रस् तस्याम् एव पर्षदि सन्निषण्णो ऽभूत् सन्निपतितः / अथायुष्मान् शारिपुत्रश् चिरप्रक्रान्तं नन्दं गोपालकं विदित्वा भगवन्तम् इदम् अवोचत्* / कस्माद् भदन्त भगवता नन्दो गोपालकः स्वाख्याते धर्मविनये प्रव्रजितुकामः पुनर् अप्य् अगारायोद्योजितः / अस्थानम् एतच् छारिपुत्रानवकाशो यन् नन्दो गोपालकः पुनर् अपि गृही अगारम् अध्यावत्स्यति सन्निधिकारपरिभोगे (msv i 53) कामान् परिभोक्ष्यते / नेदं स्थानं विद्यते / इदानीं नन्दो गोपालकः स्वामिनां गा अर्पयित्वा आगमिष्यति / स यद् अर्थं कुलपुत्राः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयिष्यते क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति /

अथापरेण समयेन नन्दो गोपालकः स्वामिनां गा अर्पयित्वा पंचशतपरिवारो येन भगवांस् तेनोपसंक्रान्तः / उप्संक्रम्य भगवन्तम् इदम् अवोचत्* / अर्पिता मे भदन्त स्वामिनां गावः / लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् (fol. 155v1 = ग्ब्म् 6.979) अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति / लब्धवान् नन्दो गोपालकः पंचशतपरिवारः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* / एवं प्रव्रजितः स आयुष्मान् पूर्ववद् यावत् सुविमुक्तचित्तः /

धर्मता अचिरोपपन्नस्य देवपुत्रस्य देवकन्याया वा त्रीणि चित्तान्य् उत्पद्यन्ते / कुतश् च्युतः / कुत्रोपपन्नः / केन कर्मणेति / मण्डूकपूर्वी देवपुत्रः पश्यति / तिर्यग्भ्यश् च्युतश् चातुर्महाराजिकेषु देवेषूपपन्नो भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति / तस्यैतद् अभवत्* / न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयम्* / यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति / अथ मण्डूकपूर्वी देवपुत्रश् चलविमलकुण्डलधरः पूर्ववद् यावत् सर्वं गंगातीरम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् (msv i 54) अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय / अथ भगवान् मण्डूकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्* / यां श्रुत्वा पूर्ववद् यावद् अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* / अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः / एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च / उपासकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतम् अभिप्रसन्नम्* / अथ मण्डूकपूर्वी देवपुत्रो वणिग् इव लब्धलाभः शस्यसम्पन्न इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः /

भिक्षवः पूर्वापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति / तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः / यं दृष्ट्वा संदिग्धा भगवन्तं पप्रच्छुः / किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः / न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो न चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः / अपि तु नन्देन गोपालेन दण्डेन वावष्टब्धो मण्डूकः स च्छिद्यमानेषु चर्मसु मुच्यमानेषु सन्धिषु मा नन्दस्य गोपालकस्य धर्मविक्षेपो भविष्यतीति निश्चलस् तूष्णीम् अवस्थितो ममान्तिके चित्तम् अभिप्रसाद्य कालगतश् चातुर्महाराजिकेषु देवेषूपपन्नः / स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः / तस्य मया धर्मो देशितः / दृष्टसत्यश् च स्वभवनं गत इति /

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त नन्देन गोपालेन पंचशतपरिवारेण कर्म कृतं येन गोपालकेषूपपन्नो भगवतश् च शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं (fol. 156r1 = ग्ब्म् 6.980) साक्षात्कृतम्* / मण्डूकपूर्विणा देवपुत्रेण किं कर्म कृतं येन मण्डूकेषूपपन्नः सत्यदर्शनं च कृतम् इति / भगवान् आह / तेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /

भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोके उदपादि / पूर्ववद् यावत् स वाराणसीं नगरीम् उपनिसृत्य विहरति ऋषिवदने मृगदावे / तस्य प्रवचने नन्दो गोपालकः प्रव्रजितः / त्रिपिटो धार्मकथिको युक्तमुक्तप्रतिभानः पंचशतपरिवारः अधिकरणकुशलः / स उत्पन्नोत्पन्नानि संघस्याधिकरणानि व्युपशमयति / तत्र द्वौ भिक्षू स्तब्धौ मानिनौ / न कदाचित् तस्य सकाशम् उपसंक्रामतः / तयोर् अपरेण समयेन परस्परम् अधिकरणम् उत्पन्नम्* / ताव् अर्थार्थिनौ तस्य सकाशम् उपसंक्रान्तौ पादाभिवन्दनं कृत्वा कथयतः / इदं चेदं चावयोर् अधिकरणम् उत्पन्नं व्युपशमयेति / स संलक्षयति / यद्य् अहम् अनयोर् अद्यैवाधिकरणं व्युपशमयिष्यामि अर्थार्थिनाव् एतौ न भूय उपसंक्रमिष्यतः / तेन सर्वसंघं संनिपात्य तद् अधिकरणं संघमध्ये उपनिक्षिप्य न एकान्तीकृतम्* / अतः परस्मिन्न् अपि दिवसे तस्य कर्वटके करणीयम् उत्पन्नम्* / स (msv i 56) तत्र गतः / ततस् ताभ्यां चिरयतीति संघं संनिपात्य तद् अधिकरणम् उपनिक्षिप्तम्* / ततः संघेन व्युपशमितम्* / यावद् असौ त्रिपिटो भिक्षुस् तस्मात् कर्वटकाद् आगतः / मार्गश्रमे प्रतिविनोदिते सार्धंविहार्यन्तेवासिकान् पृच्छति / न ताव् अर्थप्रत्यर्थिकाव् आगच्छत इति / ते कथयन्ति / उपाध्याय व्युपशान्तं तयोस् तद् अधिकरणम्* / केन व्युपशमितम्* / संघेन / यथाकथं तैर् विस्तरेण समाख्यातम्* / तेन खरं वाक्कर्म निश्चारितम्* / ज्ञायते आयुष्मन्तो गोपालकैर् यथा तद् अधिकरणं व्युपशमितम् इति / तैर् अप्य् अनुसंवर्णितम् एव मे तद् उपाध्याय गोपालकैर् यथा तद् अधिकरणं व्युपशमितम् इति /

किं मन्यध्वे भिक्षवो यो ऽसौ त्रिपिटो भिक्षुर् एष एवासौ नन्दो गोपालकस् तेन कालेन तेन समयेन / यान्य् अस्य तानि पंच सार्धंविहार्यन्तेवासिकानां शतानि एतान्य् एव पंच गोपालकशतानि / यद् अनेन काश्यपस्य सम्यक्संबुद्धस्य श्रावकसंघो गोपालकवादेन समुदाचरितः सार्धंविहार्यन्तेवासिकैश् चानुसंवर्णितं तस्य कर्मणो विपाकेन पंच जन्मशतानि पंचशतपरिवारो गोपालकेषूपपन्नः / यावद् एतर्ह्य् अपि पंचशतपरिवारो गोपालकेष्व् एवोपपन्नः / यद् अनेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम् आयतनकौशलं स्थानास्थानकौशलं च कृतं तेनैतर्हि पंचशतपरिवारेण मम शासने प्रव्रज्य (fol. 156v1 = ग्ब्म् 6.981) सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* /

मण्डूकपूर्व्य् अपि देवपुत्रः काश्यपस्य सम्यक्संबुद्धस्य प्रवचने भिक्षुर् आसीत्* / प्राहाणिकः स जनपदचारिकां चरन् अन्यतमस्मिन् कर्वटके विहारम् अनुप्राप्तः / स रात्र्याः प्रथमे यामे पर्यङ्कं बद्ध्वा (msv i 57) मनसिकारं वाहयितुम् आरब्धः / यावत् स्वाध्यायकारका भिक्षवः स्वाध्यायन्ति / शब्दकण्टकानि ध्यानानि / स शब्देन चित्तैकाग्रतां नासादयति / स संलक्षयति स्वाध्यायन्ति एते / मध्यमे यामे निषत्स्यामीति / स मध्यमे यामे उत्थाय निषण्णो यावद् अन्ये भिक्षवः स्वाध्यायं कुर्वन्ति / स संलक्षयति पश्चिमे यामे निषत्स्यामीति / स पश्चिमे यामे उत्थाय निषण्णो यावद् अपरे स्वाध्यायं कुर्वन्ति / तस्यावीतरागत्वात् तीव्रं पर्यवस्थानम् उत्पन्नम्* / स कथयति / इमे श्रमणाः काश्यपीया मण्डूका इव कृत्स्नां रात्रिं रटिता इति /

किं मन्यध्वे भिक्षवो यो ऽसौ प्राहाणिको भिक्षुर् एष एवासौ मण्डूकपूर्वी देवपुत्रः / यद् अनेन काश्यपस्य सम्यक्संबुद्धस्य श्रावका मण्डूकवादेन समुदाचरिताः / तस्य कर्मणो विपाकेन पंच जन्मशतानि मण्डूकेषूपपन्नो यावद् एतर्ह्य् अपि मण्डूकेष्व् एवोपपन्नः / यन् ममान्तिके चित्तं प्रसादितं तेन चातुर्महाराजिकेषु देवेषूपपन्नः / यत् काश्यपे सम्यक्संबुद्धे ब्रह्मचर्यं चरितं तेनेदानीं सत्यदर्शनं कृतम्* / इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः / इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* /

अथ भगवान् नदीं गंगाम् अवतीर्णस् तत्र पंचभिर् हंसमत्स्यकूर्मशतैः परिवृतः प्रदक्षिणीकृतश् च / तेषां भगवता त्रिभिः पदैर् धर्मः (msv i 58) देशितः / इति हि भद्रमुखाः सर्वसंस्कारा अनित्याः / सर्वधर्मा अनात्मानः / शान्तं निर्वाणम्* / ममान्तिके चित्तम् अभिप्रसादयत / अप्य् एवं तिर्यग्योनिं विरागयिष्यथेति / तेषाम् एतद् अभवत्* / नास्माकं प्रतिरूपं स्याद् यद् वयं भगवतो ऽन्तिकात् त्रिभिः पदैर् धर्मं श्रुत्वा आहारम् आहरेम इति / ते नाहरणां प्रतिपन्नाः / तीक्ष्णस् तिर्ययोनिगतानाम् अग्निश् च्युतः / कालगताश् चातुर्महाराजिकेषु देवेषूपपन्नाः / धर्मता खल्व् अचिरोपपन्नस्य देवपुत्रस्य वा देवकन्याया वा त्रीणि चित्तान्य् उत्पद्यन्ते / कुतश् च्युतः / कुत्रोपपन्नः / केन कर्मणा इति / ते पश्यन्ति / तिर्यग्भ्यश् च्युताः / चातुर्महाराजिकेषु देवेषूपपन्नाः / पूर्ववद् यावन् मन्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा भगवत्सामन्तकेन नदीं गंगाम् अवभास्य भगवन्तं पुष्पैर् आकीर्य भगवत्सामन्तकेनानुपरिवार्यावस्थिताः / भगवता तेषाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता पूर्ववद् (fol. 157r1 = ग्ब्म् 6.982) यावद् अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* / ते दृष्टसत्याः कथयन्ति / अभिक्रान्ता वयं भदन्ताभिक्रान्ताः / एते वयं बुद्धं शरणम् गच्छामो धर्मं च भिक्षुसंघं च / उपासकांश् चास्मान् धारय / अद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतान् अभिप्रसन्नान्* / अथ ते (msv i 59) मत्स्यकच्छपहंसपूर्विणो देवपुत्रा वणिज इव लब्धलाभाः पूर्ववद् यावत् स्वभवनं गताः /

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त एभिर् हंसकच्छपमत्स्यैः कर्म कृतं येन हंसकच्छपमत्स्येषूपपन्नाः सत्यदर्शनं च कृतम् इति / भगवान् आह / एभिर् एव भिक्षवो हंसमत्स्यकच्छपैः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /

भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि पूर्ववद् यावत् स वाराणसीं नगरीम् उपनिशृत्य विहरति ऋषिवदने मृगदावे / तस्यैते शासने प्रव्रजिता अभूवन्* / तत्रैतेभिर् भिक्षुभिः क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि / तस्य कर्मणो विपाकेन हंसमत्स्यकूर्मेषूपपन्नाः / यन् ममान्तिके चित्तम् अभिप्रसादितं तेन देवेषूपपन्नाः / यत् काश्यपे सम्यक्संबुद्धे ब्रह्मचर्यं चरितं तेन सत्यदर्शनं कृतम्* / इति हि भिक्षवः एकाण्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः / इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* /

अथ भगवान् नदीं गंगाम् उत्तीर्णः पंचमात्रैः प्रेतशतैः परिवृतो दग्धस्थूणाकृतिभिर् अस्थियन्त्रवदुच्छ्रितैः स्वकेशसंछन्नैः पर्वतोपमकुक्षिभिः सूचीच्छिद्रोपममुखैर् आदीप्तैः प्रदीप्तैः संप्रज्वलितैः (msv i 60) एकज्वालीभूतैः / ते कृतकरपुटा भगवन्तम् ऊचुः / वयं भदन्त प्रेता विनिपतितशरीराः पूर्वकर्मापबाधेन पानीयं नासादयामः / कुतो भक्तस्य दर्शनम्* / त्वं महाकारुणिको ऽस्मभ्यं पानीयम् अनुप्रयच्छेति / भगवता तेषां गंगोपदर्शिता /

एषा हि शीतलजला सुसमृद्धतोया भागीरथी वहति सर्वजनोपभोग्या / ग्रामांश् च राष्ट्रनगराणि च तर्पयन्ती केदारशालिकुमुदोत्पलपंकजानि //

प्रेता कथयन्ति /

एषास्माकं वहति हि शुष्कतोया भागीरथी वहति सर्वजनोपभोग्या / पश्याम एतां रुधिरमलेन पूर्नां रक्षन्ति चैनां सपरशुदण्डहस्ताः // इति /

भगवान् गंगादेवताम् आह /

त्वं ग्रामराष्ट्रनगराण्य् अनुतर्पयन्ती केदारशालिकुमुदोत्पलपंकजानि / कस्मान् न तर्पयसि तीव्रतृषाभिभूतान् कृपा न तव बालजनस्य दुःखैः // इति /

गंगादेवता प्राह /

नाहं भयान् न पुरुषाद् अपि वा जनस्य शाठ्येन वापि विषयं जलम् (fol. 157v1 = ग्ब्म् 6.983) उत्सृजामि / एषा तु दुष्कृतमहावरणावृतानां शोषं जलं व्रजति को ऽत्र ममापराधः // इति /

तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमंत्रयते / संतर्पय मौद्गल्यायन प्रेतान् इति / एवं भदन्त इति आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य प्रेतान् सन्तर्पयितुम् आरब्धः / तत्र प्रेताः सूचीमुखत्वान् न शक्नुवन्ति मुखं विवर्तयितुम्* / ततो भगवता तेषाम् ऋद्ध्या मुखं विवृतम्* / आयुष्मता महामौद्गल्यायनेन पानीयं दत्तम्* / तैस् तृषातुरैः प्रभूतं पीतम्* / उदराणि स्फुटितानि / ततो भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य कालगताः / पूर्ववद् दृष्टसत्याः स्वभवनं गताः /

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त एभिः प्रेतैः कर्म कृतं येन प्रेतेषूपपन्नाः / किं कर्म कृतं येन देवेषूपपन्नाः / सत्यदर्शनं च कृतम् इति / भगवान् आह / एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति देहिनां* /

भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि पूर्ववद् यावत् स वाराणसीं नगरीम् उपनिशृत्य विहरति ऋषिवदने मृगदावे / तस्य श्रावकाच् छन्दकभिक्षणं कृत्वा बुद्धधर्मसंघेषु कारान् कुर्वन्ति / यदा भगवतः काश्यपस्य सम्यक्संबुद्धस्य शासनं न वैस्तारिकं (msv i 62) तदाल्पाश् छन्दयाचका भिक्षवः / यदा तु वैस्तारिकं तदा बहवश् छन्दयाचका भिक्षवः संवृत्ताः / यावद् अन्यतमस्मिन् संस्थागारे पंचोपासकशतानि संनिषण्णानि संनिपतितानि केनचिद् एव करणीयेन / संबहुलाश् च भिक्षवश् छन्दयाचकास् तेषां सकाशम् उपसंक्रान्ताः समादापयितुकामाः / ते तीव्रेण पर्यवस्थानेन खरं वाक्कर्म निष्चारितम्* / इमे श्रमणाः काश्यपीयाः प्रेतोपपन्ना इव नित्यं प्रसारितकरा इति /

किं मन्यध्वे भिक्षवो यानि तानि पंचोपासकशतानि एतान्य् एव तानि पंच प्रेतशतानि / यद् एभिः काश्यपस्य सम्यक्संबुद्धस्य श्रावकाः प्रेतवादेन समुदाचरितास् तस्य कर्मणो विपाकेन पंच जन्मशतानि प्रेतेषूपपन्नाः / यावद् एतर्ह्य् अपि प्रेतेष्व् एवोपपन्नाः / यन् ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नाः / यत् काश्यपे सम्यक्संबुद्धे शरणागमनशिक्षापदानि गृहीतानि तेन सत्यदर्शनं कृतम्* / इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः / इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* /

अथ भगवान् नदीं गंगाम् उत्तीर्य दक्षिणेन नागावलोकितेन नदीं गंगां निरीक्षते / भिक्षवो बुद्धं भगवन्तं पप्रच्छुः / किमर्थं भदन्त (fol. 158r1 = ग्ब्म् 6.984) भगवान् परावृत्य नदीं गंगां निरीक्षत इति / भगवान् आह / (msv i 63) इच्छथ भिक्षवो नद्या गंगाया उत्पत्तिं श्रोतुम्* / एतस्य भगवन् काल एतस्य सुगत समयो यद् भगवान् नद्या गंगाया उत्पत्तिं देशयेद् भिक्षवः श्रोष्यन्ति /

भूतपूर्वं भिक्षवः पिण्डवंशो नाम राजा बभूव / धार्मिको धर्मराजो धर्मेण राज्यं कारयति / तस्य जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च सदा पुष्पफलवृक्षाः देवः कालवर्षी / शस्यवती वसुमती प्रशान्तकलिकलहडिम्बडमरतस्कररोगापगता / मनुष्या नित्यं धर्मपरायणाः / यावद् असौ राजा संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौंचमयूरशुकशारिकाकोकिलजीवंजीवकनिर्घोषिते वनषण्डे अन्तःपुरपरिवृत उद्यानभूमिं संप्रस्थितः / यावद् अन्यतमः पुरुषो वलीपलितोत्तमांगः {म्स् वलीपलितचितांगः} परिजीर्णशरीरावयवः परिणतेन्द्रियः कृशो ऽल्पस्थामो मन्दमन्दचारतया दण्डम् अवष्टभ्य गच्छति / ततस् तेन राज्ञा अमात्याः पृष्टाः / क एष भवन्तः पुरुषो वलीपलितोत्तमाङ्गः {म्स् वलीपलितचितांगः} पूर्ववद् यावद् दण्डम् अवष्टभ्य गच्छतीति / तैः समाख्यातम्* / देव संस्कारपरिक्षयाद् एष जीर्णो वृद्ध इत्य् उच्यत इति / राजा कथयति / अहम् अपि भवन्त एवंधर्मो भविष्यामीति / ते कथयन्ति / देव साधारण एष धर्म इति / ततो राजा दुर्मनाः संप्रस्थितः / पुनर् अपि पुरुषं पश्यत्य् उत्पाण्डोत्पाण्डुकं स्फुटितपरुषगात्रं पर्वतोपमकुक्षिं व्रणपूयोत्कीर्णैर् अङ्गप्रत्यङ्गावधारिभिः पट्टकोपनिबद्धैः दीर्घदीर्घैः प्रश्वसन्तन् दण्डम् अवष्टभ्य खंजमानगतिं संप्रस्थितं दृष्ट्वा (msv i 64) च पुनर् अमात्यान् आमंत्रयते / क एष भवन्तः पुरुष उत्पाण्डोत्पाण्डुकः पूर्ववद् यावत् खंजमानो ऽभिसंप्रस्थित इति / ते कथयन्ति / देव एष व्याधितो नाम / राजा कथयति /

अहम् अपि भवन्तः एवंधर्मो भविष्यामीति / अमात्याः कथयन्ति / देव साधारण एष एव धर्मो दुष्कृतकर्मकारिणां पूर्वकर्मापराधाद् भवतीति / राजा संलक्षयति / सर्वथा पापं न कर्तव्यम् इति विदित्वा संप्रस्थितः / पुनर् अपि पश्यति / नीलपीतलोहितावदातैर् वस्त्रैः शिविकाम् अलंकृतां छत्रध्वजपताकाशंखपटहस्त्रीपुरुषदारकदारिकाभिर् आकीर्णां चतुर्भिः पुरुषैर् उत्क्षिप्ताम् उल्कां च पुरस्तान् नीयमानां काष्ठव्यग्रहस्तैः पुरुषैः पृष्ठतो ऽनुबद्धां हा तात हा भ्रातः हा पितः हा स्वामिन्न् इति च समन्ताद् आरोदनशब्दं श्रुत्वा च पुनर् अमात्यान् आमंत्रयते / किम् एषा भवन्तः शिविका नीलपीतलोहितावदातैर् वस्त्रैः पूर्ववद् यावद् आरोदनशब्द इति / अमात्याः कथयन्ति / एष देव मृतो नाम इति / राजा कथयति / अहम् अपि भवन्तः एवंधर्मो भविष्यामीति (fol. 158v1 = ग्ब्म् 6.985) / ते कथयन्ति देव एषो ऽपि साधारणो धर्म इति / ततो जीर्णातुरमृतसंदर्शनात् संविग्नमना एवंरूपाभोगाः परित्यक्तव्या इति प्रतिनिवृत्य शोकागारं प्रविश्यावस्थित इति /

तस्य विजिते वेलामो नाम ब्राह्मण आढ्यो महाधनो महाभोगो वेदवेदांगपारगः / तेन श्रुतं यथा राजा जीर्णातुरमृतसंदर्शनाद् उद्विग्नः शोकागारं प्रविश्यावस्थित इति / श्रुत्वा च पुनर् अनेकैर् ब्राह्मणशतसहस्रैः परिवृतः सर्वश्वेतं वडवारथम् (msv i 65) अभिरुह्य सौवर्णेन दण्डकमण्डलुना धार्यमाणेन येन राजा पिण्डवंशस् तेनोपसंक्रान्तः / अमात्यैः राज्ञे निवेदितम्* / देव वेलामो ब्राह्मणो द्वारे तिष्ठति / ततो राजा निर्गत्य अथाधिकरणे निषण्णः / ब्राह्मणो वेलामो जयेनायुषा च वर्धयित्वा निषण्णः कथयति / किमर्थं देवः शोकागारे प्रविश्यावस्थित इति / राज्ञा यथावृत्तं सर्वं वेलामाय ब्राह्मणाय विस्तरेणारोचितम्* / स कथयति / देवः स्वकर्मफलभोगी / नात्र शोकः करणीयः / सन्ति सत्वाः सुकृतकर्मकारिणः सन्ति दुष्कृतकर्मकारिणः सन्ति चोभयकर्मकारिणः / चक्रवर्तिनस् तु नित्यं सुकृतकर्मकारिणः सन्तो देवेषूपपद्यन्ते / देवो ऽपि चक्रवर्ती / मनुष्यप्रतिविषिष्टं सुखम् अनुभूय दिव्यं सुखम् अनुभविष्यतीति / अपि तु देव यज्ञ इष्टव्यः स्वर्गसोपानभूत इति / ततो राज्ञा अमात्यानाम् आज्ञा दत्ता / भवन्तः सर्वविजिते घण्टावघोषणं कारयत / राजा निरर्गलं यज्ञं यजति / भवद्भिर् आगत्य परिभोक्तव्यम् इति / ततो दानशाला प्रज्ञप्ता / अन्नम् अन्नार्थिभ्यो दीयतां पानं पानार्थिभ्यः / तत्राचामेन परिस्रवमाणेन गर्तः कृतः / यत्रासौ तप्तः शीतीभवति / अनवतप्तः अनवतप्त इति सज्ञा संवृत्ता / तस्याचामेन तण्डुलाम्बुना च द्वादशवार्षिकेण संपूर्यमाणस्य वृद्धिः संवृत्ता / तत इयं मुखेन नदी प्रसृता / आचामनदीति संज्ञा संवृत्ता इति /

उद्दानम्* /

कुमारवर्धनं क्रौंचानम् अङ्गदिका मणिवती / सालबला सालिबला सुवर्णप्रस्थश् च साकेता //

पेया तोयिका च श्रावस्ती अनवतप्तः / नगरबिन्दुश् च वैशाली भवति पश्चिमा //

अथ भगवान् कुमारवर्धनम् अनुप्राप्तः / कुमारवर्धने आयुष्मन्तम् आनन्दम् आमन्त्रयते / अस्मिन्न् एवानन्द प्रदेशे उपोषधो नाम राजा जातः / अत्रैव चाभिवृद्धः / तेनास्य नगरस्य कुमारवर्धनं कुमारवर्धनम् इति संज्ञा संवृत्ता /

क्रौंचानम् अनुप्राप्तः / तत्र भगवान् आयुष्मन्तम् आनन्दम् आमंत्रयते / अस्मिन्न् आनन्द क्रौंचाने उपोषधस्य राज्ञो हस्तिनागेन क्रौंचयता शब्धः कृतः क्रौंचानं क्रौंचानम् इति (fol. 159r1 = ग्ब्म् 6.986) संज्ञा संवृत्ता /

अङ्गदिकाम् अनुप्राप्तः / अङ्गदिकायाम् अन्यतमस्मिन् प्रदेशे स्मितम् अकार्षीत्* / विस्तरेण चतुर्बुद्धासनं पूर्ववत्* /

मणिवतीम् अनुप्राप्तः / मणिवत्याम् आयुष्मन्तम् आनन्दम् आमंत्रयते / अस्याम् आनन्द मणिवत्यां बोधिसत्वेन बहुभिर् मणिभिर् यज्ञो यष्टः / मणिवती मणिवतीति संज्ञा संवृत्ता /

सालबलाम् अनुप्राप्तः / सालबलायाम् अन्यतमस्मिन् प्रदेशे स्मितम् अकार्षीत्* / विस्तरेण चतुर्बुद्धासनं पूर्ववत्* /

सालिबलाम् अनुप्राप्तः / सालिबलायाम् अन्यतमस्मिन् प्रदेशे स्मितम् अकार्षीत्* / विस्तरेण चतुर्बुद्धासनं पूर्ववत्* /

सुवर्णप्रस्थम् अनुप्राप्तः / अस्मिन्न् आनन्द सुवर्णप्रस्थे बोधिसत्वेन बहुसुवर्णको यज्ञो यष्टः / अपीदानीं ब्राह्मनैः प्रस्थेन सुवर्णो भाजितः / सुवर्णप्रस्थः सुवर्नप्रस्थ इति संज्ञा संवृत्ता /

साकेताम् अनुप्राप्तः / साकेतायाम् आयुष्मन्तम् आनन्दम् आमंत्रयते / अस्याम् आनन्द साकेतायाम् उपोषधो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च / तस्यापरेण समयेन मूर्ध्नि पिटको जातो मृदुः सुमृदुः तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा न च किंचिद् आबाधं जनयति / स परिपाकत्वात् स्फुटितः / कुमारो जातः / अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः पूर्ववत् यावत् सर्वाङ्गप्रत्यङ्गोपेतः / मूर्ध्नि जातो मूर्ध्नि जात इति मूर्धातो मूर्धात इति संज्ञा संवृत्ता / उपोषधस्य राज्ञः षाष्टिः स्त्रीसहस्राणि / जातः कुमारो ऽन्तःपुरं प्रवेशितः / सहदर्शनाद् एव सर्वासां स्त्रीणां स्तनाः प्रस्रुताः / एकैका कथयति मां धायतु मां धायत्व् इति मान्धाता मान्धातेति च संज्ञा संवृत्ता / तत्र केचिन् मूर्धात इति संजानते केचिन् मान्धातेति /

मान्धातुः कुमारस्य जनपदगतस्य उपोषधो राजा ग्लानः संवृत्तः / स मूलगण्डपत्रपुष्पफलभैषज्यैर् उपस्थीयते / तथाप्य् असौ हीयत एव / तेनामात्यानाम् आज्ञा दत्ता / भवन्तः शीघ्रं कुमारं राज्याभिषेकेणाभिषिंचत / एवं देव इति अमात्यैर् दूतसंप्रेषणं कृतम्* / उपोषधो राजा ग्लानः / तेनाज्ञा दत्ता कुमारं शब्दयत राज्याभिषेकं (msv i 68) प्रत्यनुभवत्व् इति / तद् अर्हति कुमारः शीघ्रम् आगन्तुम् इति / स संप्रस्थित उपोषधश् च राजा कालगतः / ततो ऽमात्यैः पुनर् अपि तस्य दूतसंप्रेषणं कृतम्* / कुमार पिता ते कालगतः / आगच्छ राज्यं प्रतीच्छेति / मान्धाता कुमारः संलक्षयति / यदि मम पिता कालगतः किं तत्र गच्छामीति विदित्वा तत्रैवावस्थितः / अमात्यैः पुनर् अपि संभूय अग्रामात्यः प्रेषितः / तेन गत्वाभिहितः / कुमार आगच्छ राज्यं प्रतीच्छ इति / स कथयति / मम (fol. 159v1 = ग्ब्म् 6.987) धर्मेण राज्यं प्राप्तम्* / इहैव राज्याभिषेक आगच्छत्व् इति / अमात्यैः संदिष्टम्* / देव राज्याभिषेके प्रभूतेन प्रयोजनम्* / रत्नशिलया सिंहासनेन च्छत्रेण पट्टेन मुकुटेन / अधिष्ठानमध्ये च राज्याभिषेकः क्रियते / तद् अर्हति कुमारः इहैवागन्तुम् इति / स कथयति / यदि मम धर्मेण राज्यं प्राप्तम्* / इहैव सर्वम् आगच्छत्व् इति / मान्धातुः कुमारस्य दिवौकसो नाम यक्ष पुरोजवः / तेन रत्नशिला सिंहासनं तत्रैवानीतम्* / आधिष्ठानिकाश् च च्छत्रं पट्टं मुकुटं चादाय स्वयम् एवागताः / अधिष्ठानं स्वयम् आगतं स्वयम् आगतम् इति साकेता साकेता इति संज्ञा संवृत्ता /

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमंत्रयते / आगमयानन्द येन श्रावस्ती इति / एवं भदन्त इति आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* / अथ भगवान् येन श्रावस्ती तेन चारिकां चरन् प्रक्रान्तो यावद् अन्यतमस्मिन् प्रदेशे ब्राह्मणश् छिन्नभक्तको हलं वाहयति / तस्यार्थाय दारिका पेयाम् आदायागता / भगवांश् च तं प्रदेशम् (msv i 69) अनुप्राप्तः / ददर्श स ब्राह्मणो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जंगमम् इव रत्नपर्वतं समन्ततो भद्रकम्* / सहदर्शनात् तस्य भगवति प्रसाद उत्पन्नः / न तथा द्वादशवर्षाभ्यस् तः शमथश् चित्तस्य कल्पतां जनयति / अपुत्रस्य वा पुत्रप्रतिलाभो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथोपचितकुशलमूलस्य सत्वस्य तत्प्रथमतो बुद्धदर्शनम्* / स तां पेयाम् आदाय लघु लघ्व् एव येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवन्तम् इदम् अवोचत्* /

इयं भो गौतम पेया इयम् अस्ति ममान्तिके / {म्स् पेयायम् अस्ति} अनुकम्पं पिब एतद् भगवन् गौतमः पेयाम्* // इति {म्स् ऽनुकंपान् पिबेद् भगवाङ् = दिव्य् 461}

ततो भगवता तस्य ब्राह्मणस्य कूपो दर्शितः / सचेत् ते ब्राह्मण परित्याज्याः अस्मिन् जीर्णकूपो प्रक्षिप इति / तेन तस्मिन् जीर्णकूपे प्रक्षिप्ताः / स जीर्णकूपो वाष्पायमानः पेयापूर्णो यथापि तद् बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन / ततो भगवता स ब्राह्मणो ऽभिहितः / चारय ब्राह्मण पेयाम् इति / स चारयितुम् आरब्धः / भगवता तथाधिष्ठिता यथा सर्वसंघेन पेया / जीर्णकूपो वाष्पायमानस् तथैव पेयापूर्णो ऽवस्थितः / ततो ऽसौ ब्राह्मणो भूयस्या मात्रयाभिप्रसन्नो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय / तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा (msv i 70) तादृशी चातुरार्यासत्यसंप्रतिवेधिकी धर्मदेशना कृता पूर्ववद् यावद् अनाद्यकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं (fol. 160r1 = ग्ब्म् 6.988) साक्षात्कृतम्* / अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः / एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च / उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतम् अभिप्रसन्नम्* / अथासौ ब्राह्मणो वणिग् इव लब्धलाभः शस्यसंपन्न इव कार्षिकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो यावत् क्षेत्रं गतः / पश्यति तस्मिन् क्षेत्रे सौवर्णान् यवान् संपन्नान्* / दृष्ट्वा च पुनर् विस्मयोत्फुल्ललोचनो गाथां भाषते /

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* / अद्यैवोप्तं मया बीजम् अद्यैव फलदायिकम्* // इति /

ततो ऽसौ ब्राह्मणस् त्वरितं राज्ञः सकाशम् उपसंक्रान्तः / उपसंक्रम्य जयेनायुषा च वर्धयित्वा राजानम् उवाच / देव मया यवाः प्रकीर्णास् ते सौवर्णाः संवृत्ताः / तत्राधिष्ठायिकेन प्रसादः क्रियताम् इति / राज्ञा अधिष्ठायिको ऽनुप्रेषितः / ब्राह्मणेन राशीकृत्वा भाजिताः / राजभागः स्वाभाविका यवाः संवृत्ताः / अधिष्ठायिकेन राज्ञे निवेदितम्* / राज्ञा समादिष्टम्* / पुनर् भाजयत इति / पुनर् भाजितम्* / तथैव राजभागः स्वाभाविका यवाः संवृत्ताः / एवं यावत् सप्तकृत्वो भाजितम्* / तथैव राजा कुतूहलजातः स्वयम् एव गतः पश्यति / तथैव तेनासौ ब्राह्मणो ऽभिहितः / ब्राह्मण तवैतत् पुण्यनिर्जातम्* / अलं राजभागेन / यत् तवाभिप्रेतं तन् ममानुप्रयच्छेति (msv i 71) / ततस् तेन ब्राह्मणेन परितुष्टेन यद् दत्तं ते सौवर्णयवाः संवृत्ताः /

tato bhagavān saṃprasthito yāvad anyatamasmin pradeśe paṃca kārṣikaśatāny utpāṇḍotpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti / te 'pi balīvardā vraṇapūyotkīrṇaiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmurhur viśvasanto vahanti / dadṛśus te kārṣikā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ pūrvavad yāvad upacitakuśalamūlaya satvasya tatprathamato buddhadarśanam* / tato yena bhagavāṃs tenopasaṃkrāntāḥ / adrākṣīd bhagavāṃs tān kārṣikān* / dūrād eva dṛṣṭvā ca punar vinayāpekṣayā mārgād apakramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ / atha te kārṣikā bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ / tato bhagavatā teṣāṃ kārṣikāṇām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī cāturāryāsatyasaṃprativedhikī dharmadeśanā kṛtā pūrvavad yāvad anādyakālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* / te dṛṣṭisatyā yena bhagavāṃs tenāñjaliṃ (fol. 160v1 = gbm 6.989) praṇamya bhagavantam idam avocat* / labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ carema vayaṃ bhagavato 'ntike brahmacaryam iti / te bhagavatā ehibhikṣukayā pravrājitāḥ pūrvavad yāvan naiva sthitā {ms: yāvan nepachitā; cf. nepacchitā -> pravr-v iii, fol. 47r6} buddhamanorathena / teṣāṃ bhagavatā avavādo dattaḥ / te vyāyacchamānaiḥ pūrvavad yāvad abhivādyāś ca saṃvṛttāḥ /

ते बलीवर्दा योक्त्राणि वरत्राणि च्छित्वा येन भगवांस् तेनोपसंक्रान्ताः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा समन्तकेन परिवार्यावस्थिताः / तेषां भगवता त्रिभिः पदैर् धर्मो देशितः / पूर्ववद् यावद् यथा गंगावतारे हंसमत्स्यकूर्माणां यावद् दृष्टसत्याः स्वभवनं गताः /

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त एभिः कार्षिकपूर्वकैः भिक्षुभिः कर्म कृतं येन कार्षिकाः संवृत्ता भगवतश् च शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* / तैर् बलीवर्दपूर्वकैर् देवपुत्रैः किं कर्म कृतं येन बलीवर्देषूपपन्नाः सत्यदर्शनं च कृतम् इति / भगवान् आह / एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति देहिनां* / भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि / पूर्ववद् यावत् स वाराणसीं नगरीम् उपनिशृत्य विहरति ऋषिवदने मृगदावे / तस्य शासने एतानि पंच कार्षिकशतानि प्रव्रजितान्य् अभूवन्* / तत्र एभिर् न पठितं न स्वाध्यायितं न मनसिकारो वाहितः किन् तु श्रद्धादेयं भुक्त्वा भुक्त्वा संगणिकाभिरतैः कौसीद्येनातिनामितम्* /

किं मन्यध्वे भिक्षवो यानि तानि पंच भिक्षुशतानि एतानि पंच कार्षिकशतानि / यो ऽसौ विहारस्वामी स एवासौ (msv i 73) गृहपतिः / यद् एते कार्षिका यद् एभिर् विहारस्वामिसन्तकं श्रद्धादेयं परिभुज्य न पठितं न स्वाध्यायितं नापि मनसिकारो वाहितः किन् तु संगणिकाभिरतैः कौसीद्येनातिनामितं तेन कर्मणा पंच जन्मशतानि तस्य विहारस्वामिनः कार्षिकाः संवृत्ताः / यावद् एतर्ह्य् अपि तस्यैव कार्षिका जाताः / यद् एभिः काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रज्य ब्रह्मचर्यं चरितं तेनैतर्हि मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* /

ते ऽपि बलीवर्दपूर्विणो देवपुत्राः काश्यपस्यैव सम्यक्संबुद्धस्य शासने प्रव्रजिता आसंस् तत्रैव क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि / तेन कर्मणो विपाकेन बलीवर्देषूपपन्नाः / यन् ममान्तिके चित्तम् अभिप्रसादितं तेन देवेषूपपन्नाः / यत् कास्यपे सम्यक्संबुद्दे ब्रह्मचर्यं चीर्णं प्रतिपालितं तेनेदानीं देवपुत्रभूतैः (fol. 161r1 = ग्ब्म् 6.990) सत्यदर्शनं कृतम्* / इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः / इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* /

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमंत्रयते / आगमयानन्द येन तोयिका / एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* / अथ भगवांस् तोयिकाम् अनुप्राप्तः / तस्मिंश् च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति / अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता पुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं (msv i 74) सूर्यसहस्रातिरेकप्रभं जंगमम् इव रत्नपर्वतं समन्ततो भद्रकम्* / स संलक्षयति / यदि भगवन्तं गौतमम् उपेत्याभिवादयिष्यामि कर्मपरिहानिर् मे भविष्यति / अथ नोपेत्याभिवादयिष्यामि पुण्यपरिहानिर् मे भविष्यति / को ऽसाव् उपायः स्याद् येन मे न कर्मपरिहानिः स्यान् नापि पुण्यपरिहानिर् इति / तस्य बुद्धिर् उत्पन्ना / अत्रस्थ एवाभिवादनं करोमि / एवं न कर्मपरिहानिर् भविष्यति नापि पुण्यपरिहानिर् इति / तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनैवाभिवादनं कृतम्* / अभिवादये बुद्धं भगवन्तम् इति /

tatra bhagavān āyuṣmantam ānandam āmantrayate / kṣūṇa ānanda eṣa brāhmaṇaḥ / anenopakramyāsmin pradeśe abhivādane kṛte sati pratyātmaṃ jñānadarśanaṃ pravartate / etasmiṇ pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito 'sthisaṃghātas tiṣṭhatīti / aham anenopakramya vandito bhaveyam* / evam anena dvābhyāṃ samyaksaṃbuddhābhyāṃ vandanā kṛtā bhavet* / tat kasya hetoḥ / asminn ānanda pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito 'sthisaṃghātas tiṣṭhati / athāyuṣmān ānando laghu laghv eva caturguṇam uttarāsaṃgaṃ prajñapya bhagavantam idam avocat* / niṣīdatu bhagavān prajñapta evāsane / evam ayaṃ pṛthivīpradeśo dvābhyāṃ samyaksaṃbuddhābhyāṃ paribhukto bhaviṣyati yac ca kāśyapena samyaksaṃbuddhena yac caitarhi bhagavateti / niṣaṇṇo bhagavān prajñapta evāsane (msv i 75) / niṣadya bhagavān bhikṣūn āmantrayate sma / icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum* / etasya bhagavan kāla etasya sugata samayo yad bhagavān bhikṣūṇāṃ kāśyapasya samyaksaṃbuddhasyāvikopitaṃ śarīrasaṃghātam upadarśayet* / dṛṣṭvā bhikṣavaś cittam abhiprasādayiṣyanti / bhagavatā laukikaṃ cittam utpāditam iti / paśyanti bhagavataḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātam avikopitaṃ draṣṭukāmāḥ {tib. adds dharmatā khalu etc., cf. divy 63.11.} / tatas tena kāśyapasya samyaksaṃbuddhasyāvikopitaḥ śarīrasaṃghāta ucchrāpitaḥ / tatra bhagavān bhikṣūn āmantrayate sma / udgṛhṇīta bhikṣavo nimittam* / antardhāsyatīty antarhitam* /

राज्ञा प्रसेनजिता श्रुतम्* / भगवता श्रावकाणां दर्शनायाविकोपितः काश्यपस्य सम्यक्संबुद्धस्य (fol. 161v1 = ग्ब्म् 6.991) शरीरसंघात उच्छ्रापित इति / श्रुत्वा च पुनः कुतूहलजातः सार्धम् अन्तःपुरकुमारैर् अमात्यैर् भटबलाग्रेण नैगमजानपदैश् च संप्रस्थितः / एवं विरूढको ऽनाथपिण्डदो गृहपतिः उषिदत्तः पुराणस्थपतिर् विशाखा मृगारमाता अनेकानि प्राणिशतसहस्राणि कुतूहलजातानि संप्रस्थितानि कैश्चित् पूर्वकैः कुशलमूलैः संचोद्यमानानि / यावद् असाव् अन्तर्हितः / तैः श्रुतम् अन्तर्हितो ऽसौ भगवतः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघात इति / श्रुत्वा च पुनस् तेषां दुःखदौर्मनस्यम् उत्पन्नं वृथास्माकम् आगमनम् इति /

अन्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः / एवं च चेतसा चित्तम् अभिसंस्कृतम्* / अस्मान् मे पदाविहारात् कियत् पुण्यं (msv i 76) भविष्यतीति / अथ भगवांस् तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तम् आज्ञाय गाथां भाषते /

शतं सहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति / यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान् // इति /

अन्यतमेनाप्य् उपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः / एवं चित्तम् अभिसंस्कृतम्* / पदाविहारस्य तावद् इयत् पुण्यम् आख्यातं भगवता / अस्य तु मृत्तिकापिण्डस्य कियत् पुण्यं भविष्यतीति / अथ भगवांस् तस्य चेतसा चित्तम् आज्ञाय गाथां भाषते / शतं सहस्राणि सुवर्णपिण्डा जाम्बूनदा नास्य समा भवन्ति / यो बुद्धचैत्येषु प्रसन्नचित्तः आरोपयेन् मृत्तिकापिण्डम् एकम्* // इति /

तच् छ्रुत्वानेकैः प्राणिशतसहस्रैर् मृत्तिकापिण्डसमारोपणं कृतम्* / अपरैस् तत्र मुक्तपुष्पाण्य् अभिक्षिप्तानि / एवं च चित्तम् अभिसंस्कृतम्* / पदाविहारस्य च मृत्तिकापिण्डस्य च इयत् पुण्यम् उक्तं भगवता / अस्माकं तु मुक्तपुष्पाणां कियत् पुण्यं भविष्यतीति / अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते /

शतं सहस्राणि सुवर्णपेटा जाम्बूनदा नास्य समा भवन्ति / यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन् मुक्तपुष्पस्य राशिम्* // इति /

अपरैस् तत्र मालाविहारः कृतः / चित्तं चाभिसंस्कृतम्* / मुक्तपुष्पाणां भगवता इयत् पुण्यम् उक्तम्* / अस्माकं मालाविहारस्य (msv i 77) कियत् पुण्यं भविष्यतीति / अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते /

शतं सहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति / यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्* // इति /

अपरैस् तत्र दीपमाला दत्ता / चित्तं चाभिसंस्कृतम्* / मालाविहारस्य भगवता इयत् पुण्यम् उक्तम्* / अस्माकं दीपदानस्य कियत् पुण्यं भविष्यतीति / अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते /

शतं सहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति / यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्* // इति /

अपरैस् तत्र गन्धाभिषेको दत्तः / चित्तं चाभिसंस्कृतम्* (fol. 162r1 = ग्ब्म् 6.992) / प्रदीपदानस्य भगवता इयत् पुण्यम् उक्तम्* / अस्माकं गन्धाभिषेकस्य कियत् पुण्यं भविष्यतीति / अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते /

शतं सहस्राणि सुवर्णराशयो जाम्बूनदा नास्य समा भवन्ति / यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्* // इति /

अपरैस् तत्र च्छत्रध्वजपताकारोपणं दत्तः / चित्तं चाभिसंस्कृतम्* / पदाविहारस्य मृत्पिण्डदानस्य मुक्तपुष्पाणां मालाविहारस्य प्रदीपदानस्य गन्धाभिषेकस्य चेयत् पुण्यम् उक्तं भगवता / अस्माकं छत्रध्वजपताकारोपणे कियत् पुण्यं भविष्यतीति / अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते /

शतं सहस्राणि सुवर्णपर्वता मेरोः समा नास्य समा भवन्ति / यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेच् छत्रध्वजापताकाः //

एषा हि दक्षिणा प्रोक्ता अप्रमेये तथागते / समुद्रकल्पे संबोधौ सार्थवाहे अनुत्तरे // इति /

तेषाम् एतद् अभवत्* परिनिर्वृतस्य तावद् भगवतः कारणम् इयत् पुण्यम् उक्तं भगवता / तिष्ठतः कियत् पुण्यं भविष्यतीति / अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते /

तिष्ठन्तं पूजयेद् यश् च यश् चापि परिनिर्वृतम्* / समं चित्तं प्रसाद्येह नास्ति पुण्यविशेषता //

एवं ह्य् अचिन्तिया बुद्धा बुद्धधर्मो ऽप्य् अचिन्तियः / अचिन्तिये प्रसन्नानां विपाको ऽपि अचिन्तियः //

तेषाम् अचिन्तियानाम् अप्रतिहतधर्मचक्रवर्तिनाम्* / सम्यक्संबुद्धानां नालं गुणपारम् अधिगन्तुम्* // इति /

ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर् महान् विशेषो ऽधिगतः / कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि कैश्चित् प्रत्येकायां बोधौ कैश्चिद् अनुत्तरायां सम्यक्संबोधौ / कैश्चिद् उष्मगतानि प्रतिलब्धानि कैश्चिन् मूर्धानः कैश्चित् सत्यानुलोम कैश्चित् क्षान्तयः / कैश्चित् स्रोतापत्तिफलं साक्षात्कृतं कैश्चित् सकृदागामिफलं कैश्चिद् अनागामिफलम्* / कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* / यद्भूयसा सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता (msv i 79) / तत्र श्राद्धैर् ब्राह्मणगृहपतिभिस् तस्मिन् प्रदेशे महः स्थापितः / तोयिकामहस् तोयिकामह इति संज्ञा संवृत्ता /

अथ भगवान् कोसलेषु जनपदेषु चारिकां चरन् श्रावस्तीम् अनुप्राप्तः / श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे / अश्रौषीद् अनाथपिण्डदो गृहपतिः भगवान् कोसलेषु जनपदेषु चारिकां चरन् श्रावस्तीम् अनुप्राप्तः श्रावस्त्यां विहरति जेतवने अस्माकम् एवारामे इति / श्रुत्वा च पुनर् येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्तनिषण्णम् अनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति (fol. 162v1 = ग्ब्म् 6.993) पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* / अथानाथपिण्डदो गृहपतिर् उत्थायासनात् पूर्ववद् येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन इति / पूर्ववत् शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति / समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति / दौवारिकपुरुषम् आमंत्रयते / न तावद् भोः पुरुषान्यतीर्थ्यकानां प्रवेशो देयो यावद् बुद्धप्रमुखेन भिक्षुसंघेन न भुक्तम्* / ततः पश्चात् तीर्थ्यकेभ्यो दास्यामीति / एवम् आर्य इति दौवारिकः पुरुष अनाथपिण्डदस्य गृहपतेः प्रत्यश्रौषीत्* / अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो (msv i 80) भिक्षुसंघपुरस्कृतः पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय /

अथायुष्मान् महाकाश्यपो ऽन्यतमस्माद् आरण्यकाच् छयनासनाद् दीर्घकेशश्मश्रुलूहचीवरो जेतवनं गतः / स पश्यति जेतवनं शून्यम्* / तेनोपधिवारिकः पृष्टः / कुत्र बुद्धप्रमुखो भिक्षुसंघ इति / तेन समाख्यातम्* / अनाथपिण्डदेन गृहपतिनोपनिमंत्रित इति / स संलक्षयति / तत्रैव पिण्डपातं परिभोक्ष्यामि बुद्धप्रमुखं भिक्षुसंघं च पर्युपासिष्ये इति / सः अनाथपिण्डदस्य गृहपतेर् निवेशनं गतः / दौवारिकेणोक्तः / आर्य मा प्रवेक्ष्यसि / कस्यार्थाय / अनाथपिण्डदेन गृहपतिना आज्ञा दत्ता / मा तावत् तीर्थ्यानां प्रवेशं दास्यसि यावद् बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तम्* / ततः पश्चात् तीर्थ्यानां दास्यामीति / आयुष्मान् महाकाश्यपः संलक्षयति तस्य मे लाभाः सुलब्धा ये मां ब्राह्मणगृहपतयः श्रमणशाक्यपुत्रीय इति न जानते / गच्छामि कृपणजनस्यानुकम्पां करोमीति विदित्वा उद्यानं गतः / स संलक्षयति / अद्य मया कस्यानुग्रहः कर्तव्यः / यावद् अन्यतरा नगरावलम्बिका कुष्ठाभिभूता सरुजार्ता पक्वगात्रा भिक्षाम् अटति / स तस्याः सकाशम् उपसंक्रान्तः / तस्याश् च भिक्षायाम् आचामः संपन्नः / तया आयुष्मान् महाकाश्यपो दृष्टः कायप्रासादिकश् चित्तप्रासादिकश् च शान्तेनेर्यापथेन / सा संलक्षयति / नूनं मयैवंविधे दक्षिणीये कारा न कृता येन मे इयं समवस्था / यद्य् आर्यो महाकाश्यपो ममान्तिकाद् अनुकम्पाम् (msv i 81) उपादायाचामं प्रतिगृह्णीयाद् अहम् अस्मै दद्याम् इति / तत आयुष्मता महाकाश्यपेन तस्याश् चेतसा चित्तम् आज्ञाय पात्रम् उपनामितम्* / यदि ते भगिनि परित्यक्तं तद् दीयताम् अस्मिन् पात्रे इति /

ततस् तया चित्तम् अभिप्रसाद्य तस्मिन् पात्रे दत्तं मक्षिका च पतिता / सा ताम् अपनेतुम् आरब्धा / तस्यास् तस्मिन्न् आचामे अंगुलिः पतिता / सा संलक्षयति / किं चाप्य् आर्येण मम चित्तानुरक्षणया (fol. 163r1 = ग्ब्म् 6.994) न च्छोरितम्* / अपि तु न परिभोक्ष्यतीति / आयुष्मता महाकाश्यपेन तस्याश् चेतसा चित्तम् आज्ञाय तस्या एव समक्षम् अन्यतमं कुड्यमूलं निश्रित्य परिभुक्तम्* / सा संलक्षयति / किं चाप्य् आर्येण मम चित्तानुरक्षणया परिभुक्तं नानेनाहारेणाहारकृत्यं करिष्यतीति / अथायुष्मान् महाकाश्यपस् तस्याश् चेतसा चित्तम् आज्ञाय तां नगरावलम्बिकाम् इदम् अवोचत्* / भगिनि प्रामोद्यम् उत्पादयाम्य् अहं त्वदीयेनाहारेण रात्रिंदिवसम् अतिनामयिष्यामीति / तस्या अतीवौद्विल्यम् उत्पन्नम्* / ममार्येण महाकाश्यपेन पिण्डपातः प्रतिपादितः प्रगृहीत इति आयुष्मति महाकाश्यपे चित्तम् अभिप्रसाद्य कालगता / तुषिते देवनिकाये उपपन्ना / सा शक्रेण देवेन्द्रेण दृष्टा आचामं प्रतिपादयन्ती कालं च कुर्वाणा नो तु दृष्टा कुत्रोपपन्ना इति / स नगरान् व्यवलोकयितुम् आरब्धो न पश्यति तिरश्चः प्रेतान् मनुष्यांश् च चातुर्महाराजिकान् देवान् त्रयस्त्रिंशान् न पश्यति / तथा ह्य् अधस्ताद् देवानां ज्ञानदर्शनं प्रवर्तते नोपरिष्टात्* / अथ शक्रो देवानाम् इन्द्रो येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवन्तं गाथाभिगीतेन प्रश्नं पप्रच्छ /

चरतः पिण्डपातं हि काश्यपस्य महात्मनः / कुत्रासौ मोदते नारी काश्यपस्याचामदायिका //

भगवान् आह /

तुषिता नाम ते देवाः सर्वकामसमृद्धयः / तत्रासौ मोदते नारी काश्यपस्याचामदायिका // इति /

अथ शक्रस्य देवेन्द्रस्यैतद् अभवत्* / इमे तावन् मनुष्याः पुण्यानाम् अप्रत्यक्षदर्शिनो दानानि ददति पुण्यानि कुर्वन्ति अहं प्रत्यक्षदर्श्येव पुण्यानां स्वे पुण्यफले व्यवस्थितः / तस्माद् दानानि वा ददामि पुण्यानि वा करोमि / अयम् आर्यो महाकाश्यपो दीनानाथकृपणवनीपकानुकम्पी / यन्व् अहम् एनं पिण्डकेन प्रतिपादयेयम् इति विदित्वा कृपणवीथ्यां गृहं निर्मितवान्* / चीरचीरचीवरकं काकाभिनिलीनकं नातिपरमरूपं कुविन्दं चात्मानम् अभिनिर्माय उद्धूतशिरस्कः शणशाटीनिवासितः स्फुटितपाणिपादो वस्त्रं वयितुम् आरब्धः / शच्य् अपि देवकन्या कुविन्दभाववेषधारिणी तसरिकां कर्तुम् आरब्धा / पार्श्वे चास्य दिव्या सुधा सज्जीकृता तिष्ठति / अथायुष्मान् महाकाश्यपः कृपणानाथवनीपकजनानुकंपको ऽनुपूर्वेण तद् गृहम् अनुप्राप्तः / दुःखितको ऽयम् इति कृत्वा द्वारे स्थितेन पात्रं प्रसारितम्* / शक्रेण देवेन्द्रेण (msv i 83) दिव्यायाः सुधायाः पात्रं पूरितम्* / अथायुष्मतो महाकाश्यपस्यैतद् अभवत्* /

दिव्यं चास्य सुधाभक्तम् अयं च गृहविस्तरः / सुविरुद्धम् इति ज्ञात्वा जातो मे ह्रदि संशयः // इति /

धर्मता ह्य् एषा / असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते / स समन्वाहर्तुं प्रवृत्तो यावत् पश्यति शक्रं देवेन्द्रम्* / स कथयति / कौशिक किं दुःखितजनस्यान्तरायं (fol. 163v1 = ग्ब्म् 6.995) करोषि / यस्य भगवता दीर्घरात्रानुगतो विचिकित्साकथंकथाशल्यः समूल आवृढो यथापि तत् तथागतेनार्हता सम्यक्संबुद्धेन / आर्य महाकाश्यप किं दुःखितजनस्यान्तरायं करोमि / इमे तावन् मनुष्या अप्रत्यक्षदर्शिनः पुण्यानां दानानि ददति पुण्यानि कुर्वन्ति / अहं प्रत्यक्षदर्श्येव पुण्यानि कथं दानानि न ददामि पुण्यानि वा न करोमि / ननु चोक्तं भगवता /

करणीयानि पुण्यानि दुःखं ह्य् अकृतपुण्यतः / कृतपुण्या हि मोदन्ते अस्मिंल् लोके परत्र च // इति /

ततः प्रभृति आयुष्मान् महाकाश्यपः समन्वाहृत्य कुलानि पिण्डपातं प्रवेष्टुम् आरब्धः / अथ शक्रो देवेन्द्रो आकाशस्थ एवायुष्मतो महाकाश्यपस्य दिव्यायाः सुधायाः पात्रं पूरयति / आयुष्मान् अपि महाकाश्यपः पात्रम् अवाङ्मुखं करोत्य् अन्नं पानं (msv i 84) छोर्यते / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्माद् अनुजानामि पिण्डोपधानं धारयितव्यम् इति /

सामन्तकेन शब्दो विसृतः / अमुकया नगरावलम्बिकया आर्यो महाकाश्यपः आचामेन प्रतिपादितः / सा च तुषिते देवनिकाये उपपन्ना / इति राज्ञा प्रसेनजिता कोसलेन श्रुतम्* / श्रुत्वा च पुनर् येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः / स एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवान् धर्म्यया कथया संदर्शयति / पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* /

अथ राजा प्रसेनजित् कोसलः उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान् आर्यमहाकाश्यपम् उद्दिश्य भक्तं सप्ताहेनेति / अधिवासयति भगवान् राज्ञः प्रसेनजितः कोसलस्य तूष्णींभावेन / अथ राजा प्रसेनजित् कोसलो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः / अथ राजा प्रसेनजित् कोसलस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति / पूर्ववद् यावत् स्वहस्तं सन्तर्पयति संप्रवारयति / अन्यतमश् च कोट्टमल्लको वृद्धान्ते चित्तम् अभिप्रसादयंस् तिष्ठति / अयं राजा प्रत्यक्षदर्श्येव पुण्यानां स्वे पुण्यफले प्रतितिष्ठो ऽतृप्त एव पुण्यैर् दानानि ददान्ति पुण्यानि करोति /

अथ राजा प्रसेनजित् कोसलो ऽनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय / ततो भगवताभिहितः / राजन् कस्य नाम्ना दक्षिणाम् आदिशामि (fol. 164r1 = ग्ब्म् 6.996) / किं तवाहोस्विद् येन तवान्तिकात् प्रभूततरं पुण्यं प्रसूतम् इति / राजा संलक्षयति / मम भगवान् पिण्डपातं परिभुंक्ते / को ऽन्यो ममान्तिकात् प्रभूततरं पुण्यं प्रसविष्यतीति विदित्वा कथयति / भगवन् येन ममान्तिकात् प्रभूततरं पुण्यं प्रसूतं तस्य भगवान् नाम्ना दक्षिणां आदिशत्व् इति / ततो भगवता कोट्टमल्लकस्य नाम्ना दक्शिणा आदिष्टा / एवं यावत् षड्दिवसान्* / षष्ठे दिवसे राजा करे कपोलं दत्वा चिन्तापरो व्यवस्थितः / मम भगवान् पिण्डपातं परिभुंक्ते / कोट्टमल्लस्य नाम्ना दक्षिणाम् आदिशतीति / सो ऽमात्यैर् दृष्टः / ते कथयन्ति / किमर्थं देव करे कपोलं दत्वा चिन्तापरो व्य्वस्थित इति / राजा कथयति / भवन्तः कथं न चिन्तापरस् तिष्ठामि / यत्रेदानीं भगवान् मम पिण्डपातं परिभुंक्ते कोट्टमल्लस्य नाम्ना दक्षिणाम् आदिशतीति / तत्रैको वृद्धामात्यः कथयति / अल्पोत्सुखो देव भवतु / वयं तथा करिष्यामो यथा श्वो भगवान् देवस्यैव नाम्ना दक्षिणाम् आदिशतीति / तेन पौरुषेयाणाम् आज्ञा दत्ता / श्वो भवद्भिः प्रणीततर आहारः कर्तव्यः प्रभूतश् च / एवं चारयितव्यः / उपार्धो भिक्षूणां पात्रे पतत्य् अर्धो भूमाव् इति / अमात्यैर् अपरस्मिन् दिवसे प्रभूतः आहारः सज्जितः प्रणीतश् च /

ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं परिवेषितुम् आरब्धाः / (msv i 86) उपार्धं भिक्षूणां पात्रे पातयन्त्य् उपार्धं भूमौ / ततः कोट्टमल्लकाः प्रधाविता भूमौ निपतितं गृह्णीम इति / ते परिवेषकैर् निवारिताः / ततः स कोट्टमल्लकः कथयति / यद्य् अस्य राज्ञः प्रभूतं संपत्स्वापतेयम् अस्ति / सन्त्य् अन्ये ऽप्य् अस्मद्विधा दुःखितका ये आकांक्षन्ते / तेषां किमर्थं न दीयते / किम् अनेनापरिभोगं छोरितेनेति / तस्य कोट्टमल्लकस्य चित्तविक्षेपो जातः / न शक्तं तेन तथा चित्तं प्रसादयितुं यथा पूर्वम्* / ततो राजा बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा न मम भगवान् नाम्ना दक्षिणाम् आदिसतीति विदित्वा दक्षिणाम् अश्रुत्वैव प्रदिष्टः / ततो भगवता राज्ञः प्रसेनजितः कोसलस्य नाम्ना एवं दक्षिणादिष्टा /

हस्त्यश्वरथपत्तियायिनो भुंजानस्य पुरं सनैगमं पश्यसि / बलं हि रूक्षिकाया अलवणिकायाः कुल्मासपिण्डिकायाः // इति /

अथायुष्मान् आनन्दो भगवन्तम् अवोचत्* / बहुशो भदन्त भगवता राज्ञः प्रसेनजितः कोसलस्य निवेशने भुक्त्वा नाम्ना दक्षिणा आदिष्टा / नाभिजानामि कदाचिद् एवंविधां दक्षिणाम् आदिष्टपूर्वाम्* / भगवान् आह / इच्छसि त्वम् आनन्द राज्ञः प्रसेनजित्कोसलस्यालवणिकां कुल्मासपिण्डिकाम् आरभ्य कर्मप्लोतिं श्रोतुम्* / एतस्य भगवन् कालः एतस्य सुगत समयो यद् भगवान् राज्ञः प्रसेनजितः कोसलस्यालवणिकां कुल्मासपिण्डिकाम् आरभ्य कर्मप्लोतिं वर्णयेत्* / भगवतः श्रुत्वा भिक्षवो धारयिष्यन्तीति / तत्र भगवान् (fol. 164v1 = ग्ब्म् 6.997) भिक्षून् आमन्त्रयते स्म /

भूतपूर्वं भिक्षवो ऽन्यतस्मिन् कर्वटके गृहपतिः प्रतिवसति / तेन सदृशात् कुलात् कलत्रम् आनीतम्* / स तया सार्धं क्रीडति रमते परिचारयति / तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः / पूर्ववद् यावद् उन्नीतो वर्धितो महान् संवृत्तः / यावद् असौ गृहपतिः पत्नीम् आमन्त्रयते / भद्रे जातो ऽस्माकम् ऋणहरो धनहरश् चेति / गच्छामि पण्यम् आदाय देशान्तरम् इति / सा कथयत्य् आर्य एवं कुरुष्वेति / स पण्यम् आदाय देशान्तरं गतः / तत्रैव चानयेन व्यसनम् आपन्नो ऽल्पपरिच्छेदः सः / तस्य गृहे धनजातं परिक्षीणम्* / सो ऽस्य पुत्रो दुःखितो जातः / तस्य गृहपतेर् वयस्यकः / स तेनोक्तः / ममापि त्वं पुत्रः / मम क्षेत्रं प्रतिपालय / अहं तव भक्तेन योगोद्वहनं करोमीति / स तस्य क्षेत्रव्यापारं कर्तुम् आरब्धः / सो ऽप्य अस्य भक्तेन योगोद्वहनं करोति / यावद् अपरेण समयेन पर्व प्रत्युपस्थितम्* / तस्य दारकस्य माता संलक्षयति / अद्य गृहपतिपत्नी सुहृत्संबन्धिबान्धवश्रमणभोजने व्यग्रा भविष्यति / गच्छामि सानुकालं तस्य दारकस्य भक्तं नयामीति / सा सानुकालं गत्वा गृहपतिपत्न्या एतम् अर्थं निवेदयति / सा रुषिता कथयति / न तावच् छ्रमणब्राह्मणेभ्यो ददामि / ज्ञातीनां वा तावत् प्रेष्यस्य ददामि / अद्य तावत् तिष्ठतु / श्वो द्विगुणं दास्यामीति / ततस् तस्य दारकस्य माता संलक्षयति / मा दारको बुभुक्षितो भविष्यति / एताम् आत्मीयाम् अलवणिकां कुल्मासपिण्डिकां नयामीति / सा ताम् आदाय क्षेत्रं गता / पुत्रस्य विस्तरेण यद् गृहपत्न्याभिहितं तत् सर्वम् आख्याय कथयति / इयं मया आत्मीया अलवणिका कुल्मासपिण्डिका आनीता /

(msv i 88) एतां परिभुंक्ष्वेति / स कथयति / स्थापयित्वा गच्छेति / सा स्थापित्वा प्रक्रान्ता / असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकंपकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य / यावद् अन्यतमः प्रत्येकबुद्धस् तं प्रदेशम् अनुप्राप्तः / स तेन दृष्टः / कायप्रासादिकश् चित्तप्रासादिकश् च शान्तेर्यापथवर्ती / स संलक्षयति / नूनं मयैवंविधे सद्भूतदक्षिणीये कारा न कृता / येन मे ईदृशी समवस्था / यद्य् अयं ममान्तिकाद् अलवणिकां कुल्मासपिण्डिकां गृह्णीयाद् अहम् अस्मै दद्याम् इति / ततः प्रत्येकबुद्धस् तस्य दरिद्रपुरुषस्य चेतसा चित्तम् आज्ञाय पात्रं प्रसारितवान्* / सचेत् तव परित्यक्तं दीयताम् अस्मिन् पात्रे इति / ततस् तीव्रेण प्रसादेन सा अलवणिका कुल्मासपिण्डिका प्रत्येकबुद्धाय प्रतिपादिता /

किं मन्यध्वे भिक्षवो यो ऽसौ दरिद्रपुरुषः एष एवासौ राजा प्रसेनजित् कोसलस् तेन कालेन तेन समयेन / यद् अनेन प्रत्येकबुद्धायालवणिका कुल्मासपिण्डिका प्रतिपादिता / तेन कर्मणा षट्कृत्वो देवेषु त्रयस्त्रिंशेषु राजैश्वर्याधिपत्यं (fol. 165r1 = ग्ब्म् 6.998) कारितवान्* / षट्कृत्वो ऽस्याम् एव श्रावस्त्यां राजा क्षत्रियो मूर्धाभिषिक्तस् तेनैव कर्मावशेषेण / एतर्ह्य् अपि राजा क्षत्रियो मूर्धाभिषिक्तः संवृत्तः / सो ऽस्य पिण्डको विपक्वः / विपाकं तम् अहं सन्धाय कथयामि /

हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैगमं पश्यसि / बलं हि रूक्षिकाया अलवणिकायाः कुल्मासपिण्डिकायाः // इति /

सामन्तकेन शब्दो विसृतः / भगवता राज्ञः प्रसेनजितः कोसलस्यालवणिका कुल्मासपिण्डिकाम् आरभ्य कर्मप्लोतिर् व्याकृतेति (msv i 89) राज्ञा प्रसेनजित्कोसलेन श्रुतम्* / स येन भगवांस् तेनोपसंक्रान्तः / उप्संक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवान् धर्म्यया कथया पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* / अथ राजा प्रसेनजित् कोसल उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवांस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति / अधिवासयति भगवान् राज्ञः प्रसेनजित्कोसलस्य तूष्णींभावेन / ततो राज्ञा प्रसेनजिता कोसलेन बुद्धप्रमुखाय भिक्षुसंघाय त्रैमासीं शतरसं भोजनं दत्तम्* / एकैकश् च भिक्षुः शतसाहस्रकेण वस्त्रेणाच्छादितः / तैलस्य च कुम्भकोटिं समुदानीय दीपमालाम् अभ्युद्यतो दातुम्* / तत्र भक्ते पूजायां च महाकोलाहलो जातः / यावद् अन्यतमा नगरावलम्बिका अतीव दुःखिता / तया खण्डमल्लकेन भिक्षाम् अटन्त्या स उच्चशब्दो महाशब्दः श्रुतः / श्रुत्वा च पुनः पृच्छति / भवन्तः किम् एष उच्चशब्दो महाशब्द इति / अपरैः समाख्यातम्* / राज्ञा प्रसेनजिता कोसलेन बुद्धप्रमुखो भिक्षुसंघस् त्रैमासीं भोजितः / एकैकश् च भिक्षुः शतसहस्रमूल्येन वस्त्रेणाच्छादितः / तैलकुम्भकोटिं च समुदानीय दीपमालाम् अभ्युद्यतो दातुम् इति /

ततस् तस्या नगरावलम्बिकाया एतद् अभवत्* / अयं राजा प्रसेनजित् कोसलः पुण्यैर् अतृप्तः अद्यत्वेन दानानि ददाति पुण्यानि (msv i 90) करोति / यन्व् अहम् अपि कुतश्चित् समुदानीय भगवतः प्रदीपं दद्याम् इति तया खण्डमल्लकेन तैलस्य स्तोकं याचित्वा प्रदीपः प्रज्वाल्य भगवतश् चंक्रमे दत्तः / पादयोश् च निपत्य प्रणिधानं कृतम्* / अनेनाहं कुशलमूलेन यथायं भगवान् शाक्यमुनिर् वर्षशतायुषि प्रजायां शास्ता लोके उत्पन्नः एवम् अहम् अपि वर्षशतायुषि शाक्यमुनिर् एव शास्ता भवेयम्* / यथा चास्य शारिपुत्रमौद्गल्यायनाव् अग्रयुगं भद्रयुगम् आनन्दो भिक्षुर् उपस्थायिकः शुद्धोदनः पिता महामाया माता कपिलवस्तु नगरं राहुलभद्रः कुमारः एवं ममापि शारिपुत्रमौद्गल्यायनाव् अग्रयुगं भद्रयुगं स्याद् आनन्दो भिक्षुर् उपस्थायिकः (fol. 165v1 = ग्ब्म् 6.999) शुद्धोदनः पिता माता महामाया कपिलवस्तु नगरं राहुलभद्रः कुमारः पुत्रः / यथा चायं भगवान् धातुविभागं कृत्वा परिनिर्वास्यति एवम् अहम् अपि धातुविभागं कृत्वा परिनिर्वापयेयम् इति /

यावत् सर्वे ते दीपाः परिनिर्वाणाः स तया प्रज्वालितो दीपो ज्वलत्य् एव / धर्मता खलु बुद्धानां भगवतां न तावद् उपस्थापकः प्रतिसंलीयति यावन् न बुद्धा भगवन्तः प्रतिसंलीना इति / आयुष्मान् आनन्दः संलक्षयति / अस्थानम् अनवकाशो यद् बुद्धा भगवन्तः आलोकशय्यां कल्पयिष्यन्ति यन्व् अहं प्रदीपं निर्वापयेयम् ति / स हस्तेन निर्वापयितुम् आरब्धो न शक्नोति ततश् चीवरकर्णिकेन ततो व्यजनेन तथापि न शक्नोतीति / भगवान् आह / मा खेदम् आनन्दापत्स्यसे / यदि वैरंभा अपि वायवो वायेयुस् ते ऽपि न शक्नुयुर् निर्वापयितुं प्राग् एव हस्तचीवरकर्णिको व्यजनं वा / तथा (msv i 91) ह्य् अयं प्रदीपस् तया दारिकया महता चित्ताभिसंस्कारेण प्रज्वालितः / अपि त्व् आनन्द भविष्यत्य् असौ दारिका वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हत्सम्यक्संबुद्धः / शारिपुत्रमौद्गल्यायनौ तस्याग्रयुगं भद्रयुगम् आनन्दो भिक्षुर् उपस्थायिकः शुद्धोदनः पिता माता महामाया कपिलवस्तु नगरं राहुलभद्रः कुमारः पुत्रः / सापि धातुविभागं कृत्वा परिनिर्वास्यतीति /

सामन्तकेन शब्दो विसृतः / अमुकया नगरावलम्बिकया भगवतश् चंक्रमे शिरसा प्रदीपो दत्तः / सा भगवतानुत्तरायां सम्यक्संबोधौ व्याकृता / इति श्रुत्वा श्राद्धैर् ब्राह्मणगृहपतिभिर् असाव् अनागतगुणापेक्षया सर्वोपकरणैः प्रवारिता /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.