Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

भैषज्यवस्तु

Thông tin
GRETIL — N. Dutt. Gilgit Manuscript, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: Mūlasarvāstivādavinayavastu, part 1-4. Part 1: Bhaiṣajyavastu; dto.: second edition, Delhi 1984.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भैषज्यवस्तु

भैषज्यवस्तु

भैषज्यवस्तुनि पिण्डोद्दानम्* /

भैषज्यं महासेनो राजगृहं वेणुवनषण्डः / इच्छानङ्गला च कम्पिल्ल आदिराज्यं कुमारवर्धनम्* / ग्लानकाश् च कैनेयो वर्गो भवति समुद्यतः //

उद्दानम्* /

भैषज्यम् अनुज्ञातं वसा कच्छुश् च अञ्जनम्* / उन्मत्तकः पिलिन्दश् च रेवतः सौवीरकेण च //

बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे / तेन खलु समयेन भिक्षवः शारदकेन रोगेण बाध्यन्ते / ते शारदकेन रोगेण बाध्यमाना उत्पाण्डूत्पाण्डुका भवन्ति कृषालुका दुर्बलका म्लाना अप्राप्तकायाः /

जानकाः पृच्छका बुद्धा भगवन्तः / {म्स् अद्द्स् जानन्तः पृच्छन्ति अजानन्तो न पृच्छन्ति /} यावत् पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* / कस्माद् आनन्द एतर्हि भिक्षवः उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकाया इति / (म्स्व् इ इइ) आयुष्मान् आनन्दः कथयति / एतर्हि भदन्त भिक्षवः शारदकेन रोगेण बाध्यन्ते / एतर्हि शारदकेन रोगेण बाध्यमाना उत्पाण्डूत्पाण्डुका भवन्ति कृषालुका दुर्बलका म्लाना अप्राप्तकायाः / भगवान् आह / तस्माद् आनन्द अनुजानामि भिक्षुभिर् भैषज्यं सेवितव्यम् इति /

उक्तं भगवता भिक्षुभिर् भैषज्यं प्रतिसेवितव्यम् इति / भिक्षवः काले सेवन्ति कालातिक्रान्तं न सेवन्ति / ते भवन्ति उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः / जानकाः पृच्छका बुद्धा भगवन्तः / पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* / उक्तं मया भिक्षुभिर् भैषज्यं सेवितव्यम् इति / अथ च पुनर् भिक्षवः उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः / उक्तं भदन्त भगवता भिक्षुभिर् भैषज्यं प्रतिसेवितव्यम् इति / त एते कालभोजिनो वयम् इति काले सेवन्ते कालातिक्रान्तं न सेवन्ते / तेनोत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः / तस्मात् तर्ह्य् आनन्द अनुजानामि भिक्षुभिश् चतुर्विधानि भैषज्यानि प्रतिसेवितव्यानि / कालिकानि यामिकानि साप्ताहिकानि यावज्जीविकानि / तत्र कालिकानि मण्डः ओदनं कुल्माषो मांसम् अपूपाश् च / यामिकम् अष्टौ पानानि / चोचपानं मोचपानं कोलपानम् (fol. 92r1 = ग्ब्म् 6.766) अश्वत्थपानम् उदुम्बरपानं पारुषिकपानं {म्स् परूषक-} मृद्वीकापानं खर्जूरपानं च /

अन्तरोद्दानम्* /

चोचं मोचं च कोलं च अश्वत्थोदुम्बरेण च / पारुषिकं च मृद्वीका खर्जूरं चाष्टमं मतम्* //

साप्ताहिकं सर्पिस् तथा तैलं फाणितं मधु शर्करा / यावज्जीविकं मूलभैषज्यं गण्डभैषज्यं पत्रभैषज्यं पुष्पभैषज्यं फलभैषज्यं पंच जतूनि पञ्च क्षाराः पञ्च लवणानि पञ्च कषायाः /

तत्र मूलभैषज्यं मुस्तं वचो हरिद्रार्द्रकम् अतिविषा इति / यद् वा पुनर् अन्यद् अपि मूलभैषज्यार्थाय स्फरति नामिषार्थाय / गण्डभैषज्यम्* / चन्दनं चविका पद्मका देवदारु गुडूची दारुहरिद्रा इति / यद् वा पुनर् अन्यद् अपि गण्डभैषज्यार्थाय स्फरति नामिषार्थाय / पत्रभैषज्यम्* / पटोलपत्रं वाशिकपत्रं निम्बपत्रं कोशातकीपत्रं सप्तपर्णपत्रम् इति / यद् वा पुनर् अन्यद् अपि पत्रभैषज्यार्थाय स्फरति नामिषार्थाय / पुष्पभैषज्यम्* / पञ्च पुष्पाणि / वाशिकपुष्पं निम्बपुष्पं धातुकीपुष्पं शटिपुष्पं {म्स् शिकपुष्पं नागापुष्पं /} पद्मकेसरम् इति / यद् वा पुनर् अन्यद् अपि पुष्पभैषज्यार्थाय स्फरति नामिषार्थाय / फलभैषज्यम्* / हरीतकीम् आमलकं विभीतकं मरिचं पिप्पली इति / यद् वा पुनर् अन्यद् अपि फलभैषज्यार्थाय स्फरति नामिषार्थाय / पञ्च जतूनि / हिङ्गुः सर्जरसः तकस् {म्स् तप} तककर्णी तदागतश् च / तत्र हिङ्गुः हिङ्गुवृक्षस्य (म्स्व् इ इव्) निर्यासः / सर्जरसः सालवृक्षस्य निर्यासः / तको लाक्षास् तककर्णी सिक्थं तद् आगतस् तद् अन्येषां वृक्षाणां निर्यासः / पञ्च क्षाराः कतमे / यवक्षारः यावशूकक्षारः सर्जिकाक्षारस् तिलक्षारो वासकाक्षारश् च / पञ्च लवणानि कतमानि / सैन्धवं विडं सौवर्चलं रोमकं सामुद्रकम्* / पञ्च कषायाः कतमे / आम्रकषायो निम्बकषायो जम्बूकषायः शिरीषकषायः कोशम्बकषायश् च /

तत्र यच् च कालिकं यच् च यामिकं यच् च साप्ताहिकं यच् च यावज्जीविकं तच् चेत् कालिकं संसृष्टं भवति काले परिभोक्तव्यं कालातिक्रान्तं न परिभोक्तव्यम्* / यच् च यामिकं यच् च साप्ताहिकं यच् च यावज्जीविकं तच् चेद् यामिकं संसृष्टं भवति यामे परिभोक्तवं यामातिक्रान्तं न परिभोक्तव्यम्* / यच् च साप्ताहिकं यच् च यावज्जीविकं तच् चेत् साप्ताहिकं संसृष्टं भवति सप्ताहे परिभोक्तव्यं सप्ताहातिक्रान्तं न परिभोक्तव्यम्* / यावज्जीविकं यावज्जीविकम् अधिष्ठाय परिभोक्तव्यम्* / एवं च पुनर् अधिष्ठेयम्* / हस्तौ प्रक्षाल्य प्रतिग्राहयित्वा भिक्षूणां पुरतः स्थित्वा इदं स्याद् वचनीयम्* / (म्स्व् इ व्) समन्वाहरायुष्मन्* / अहम् एवंनामा इदं भैषज्यं यावज्जीविकम् अधितिष्ठामि / तेषाम् अर्थाय सब्रह्मचारिणां च एवं द्विर् अपि त्रिर् अपि / यथा यावज्जीविकम् अधिष्ठितम् एवं यामिकं साप्ताहिकं वाधिष्ठेयम्* /

श्रावस्त्यां निदानम्* / अथान्यतमस्य भिक्षोर् वाय्वाबाधिकं ग्लान्यम् उत्पन्नम्* / स वैद्यसकाशम् उपसंक्रान्तः / उपसंक्रम्य कथयति / वाय्वाबाधिकं (92व्1 = ग्ब्म् 6.767) ग्लान्यम् उत्पन्नं भैषज्यं व्यपदिशेति / स कथयति / आर्य वसां सेवस्व स्वास्थ्यं ते भविष्यतीति / भिक्षुर् आह / भद्रमुख किम् अहं पुरुषादः / स कथयति / भिक्षो / इदं ते भैषज्यं न शक्यम् अन्यथा स्वस्थेन भवितुम् इति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / यदि वैद्यः कथयति / इदं ते भिक्षोर् भैषज्यं न शक्यम् अन्यथा स्वस्थेन भवितुम् इति सेवितव्या वसेति / भिक्षवो न जानते / तैर् वैद्यः पृष्टः / स कथयति / आर्य युष्माकम् एव शास्ता सर्वज्ञस् तम् एव गत्वा पृच्छेति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / पञ्च वसाः प्रसेवितव्याः / कतमाः पञ्च / मत्स्यवसा शुशुकावसा शुशुमारवसा रिक्षवसा सूकरवसा च / इतीमाः पञ्च वसाः / अकाले पक्वा अकाले परिस्रुता अकाले प्रतिग्राहिता अकाले ऽधिष्ठिता न परिभोक्तव्याः / काले पक्वा अकाले परिस्रुता अकाले प्रतिग्राहिता अकाले ऽधिष्ठिता न परिभोक्तव्याः / काले पक्वाः काले परिस्रुता अकाले प्रतिग्राहिता अकाले ऽधिष्ठिता न परिभोक्तव्याः / काले पक्वाः काले परिस्रुताः काले प्रतिग्राहिताः काले ऽधिष्ठितास् तैलपरिभोगेन सप्ताहं परिभोक्तव्या इति / ततस् तेन भिक्षुणा वसा परिभुक्ता / स्वस्थः संवृत्तः / (म्स्व् इ वि) तेन स्वस्थीभूतो ऽस्मीत्य् अन्यावशिष्टा वसा छोरिता / यावद् अपरस्य भिक्षोस् तादृशम् एव ग्लान्यम् उत्पन्नम्* / सो ऽपि वैद्यसकाशं गत्वा कथयति /

भद्रमुख ममैवंविधं ग्लान्यम् उत्पन्नं भैषज्यं व्यपदिशेति / तस्यापि तेन वसा समादिष्टा / स तस्य भिक्षोः सकाशं गतः / स कथयति / आयुष्मंस् त्वया वसोपयुक्ता ममापि वैद्येन वसा व्यपदिष्टा / अस्ति काचिद् अवशिष्टा वसेति / स कथयति / आसीत् सा तु मया छोरिता / न शोभनं कृतम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / न हि भिक्षुणोपयुक्तशेषा वसा छोरयितव्या / वसाधारकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि / वसाधारकेण भिक्षुणोपयुक्तशेषा वसा याचितान्य् अस्य भिक्षोर् दातव्या / नोचेद् ग्लानकल्पिकशालायां स्थापयितव्या / यो ऽर्थी भविष्यति स ग्रहीष्यतीति / वसाधारको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते सातिसारो भवति /

भगवान् श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे / तेन खलु समयेनान्यतमस्य भिक्षोः कच्छूरोगः समुत्पन्नः / स वैद्यसकाशम् उपसंक्रान्तः / भद्रमुख मे कच्छूरोगः समुत्पन्नो भैषज्यं व्यपदिशेति / स कथयति / आर्य कषायं सेवस्व / स्वास्थ्यं ते भविष्यति / भद्रमुख किम् अहं कामभोगी / स कथयति / इदं ते भिक्षोर् भैषज्यम्* / न शक्यम् अन्यथा स्वस्थेन भवितुम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / पूर्ववद् यावच् छास्ता ते (म्स्व् इ विइ) सर्वज्ञः / तम् एव गत्वा पृच्छेति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / पञ्च (fol. 93r1 = ग्ब्म् 6.1055) कषायाः / आम्रकषायाः पूर्ववत्* / तेन भिक्षुणा कषायं कल्पीकृत्य गात्रं घृष्टम्* / एकधनीभूतम्* / भगवान् आह / चूर्णः कर्तव्यः / भिक्षवः आर्द्रम् एव चूर्णयन्ति / पिण्डीभूतः / भगवान् आह / शोषयितव्यः / ते आतपे शोषयन्ति / निर्वीर्यं भवति / भगवान् आह / नातपे शोषयितव्यः / ते छायायां शोषयन्ति / तथापि पूय्यति / भगवान् आह / छायातपे शोषयितव्य इति / भिक्षवः कषायेण गात्रं म्रक्षयित्वा स्नान्ति / कषायकृत्यं न कुर्वन्ति / भगवान् आह / यावद् हस्तपरामर्शं शोधयितव्यम्* / अथ कषायं दत्वा स्नातव्यम्* / कषायकृत्यं करोतीति {म्स् नाकरिष्यतीति} / भिक्षोः कषायेण रोगो व्युपशान्तः / तेनावशिष्टः कषायः छोरितः / यावद् अपरस्य भिक्षोस् तादृश एव रोगः प्रादुर्भूतः / स वैद्यसकाशं गतः / पूर्ववत्* / स मया छोरितः / न शोभनं कृतम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / कषायधारकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि / कषायधारकेण भिक्षुणा (म्स्व् इ विइइ) उपयुक्तशेषः कषायो यो भिक्षुर् अर्थी तस्य दातव्यः / ग्लानकल्पिकशालायां वा स्थापयितव्यः / कषायधारको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते सातिसारो भवति /

śrāvastyāṃ nidānam* / tena khalu samayenānyatamasya bhikṣor akṣirogaḥ prādurbhūtaḥ / sa vaidyasakāśam upasaṃkrāntaḥ / bhadramukha akṣirogo me prādurbhūtaḥ / bhaiṣajyaṃ vyapadiśeti / sa kathayati / ārya añjanaṃ pratisevasva / svāsthyaṃ te bhaviṣyati / bhadramukha kiṃ vayaṃ kāmabhoginaḥ / ārya idaṃ te bhaiṣajyam* / na śakyam anyathā svasthena bhavitum* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / vaidyopadeśenāñjanaṃ sevitavyam* / te na jānanti / tair vaidyaḥ pṛṣṭaḥ / sa kathayati / ārya śāstā te sarvajñaḥ / tam eva gatvā pṛccheti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / pañcāñjanāni / puṣpāñjanaṃ rasāñjanaṃ cūrṇāñjanaṃ guṭikāñjanaṃ sauvīrakāñjanam* / tena sevitam* / svasthībhūtaḥ / tenāvaśiṣṭam añjanaṃ yatra tatra vā sthāpitaṃ vinaṣṭam* / yāvad aparasya bhikṣor akṣirogaḥ prādurbhūtaḥ / sa tatsakāśam upasaṃkrāntaḥ / āyuṣman mamāpy akṣirogaḥ prādurbhūtaḥ / asti tava kiñcid añjanam avaśiṣṭam* / sa samanveṣayati / na labhate / sa kathayati / āyuṣman añjanam (msv i ix) āsīt* / idānīṃ tu na labhyate / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / na bhikṣuṇā añjanaṃ yatra vā tatra vā sthāpayitavyam* / añjanadhārakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi / añjanadhārakair bhikṣubhir añjanāni evam evaṃ sthāpayitavyāni / puṣpāñjanaṃ pātre (fol. 93v1 = gbm 6.1056) rasāñjanaṃ samudgake sthāpayitavyam* / cūrṇāñjanaṃ guṭikāñjanaṃ sauvīrakaṃ ca puṭikāṃ baddhvā nāgadantake sthāpayitavyam* / añjanadhārakasya bhikṣor āsamudācārikā dharmā mayā prajñaptāḥ / etān na samādāya sthāpayati sātisāro bhavati /

śrāvastyāṃ nidānam* / āyuṣmān saikata unmattaḥ kṣiptacittas tena tenāhiṇḍate / sa brāhmaṇagṛhapatis taṃ dṛṣṭvā āha / eṣa āyuṣmān kasya putraḥ / apare āhuḥ / amukasya gṛhapateḥ / te kathayanti / śākyaputrīyaśramaṇā anāthā apy apravrajitāḥ / yadi na pravrajito 'bhaviṣyat* jñātibhir asya cikitsā kṛtābhaviṣyat* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / evaṃ sati bhikṣavaḥ saikatasya bhikṣor glānyanirūpaṇāya praṣṭavyam* / atha te vaidyasakāśam upasaṃkrāntāḥ / bhadramukha asyaivam evaṃ ca glānyam* / bhaiṣajyaṃ vyapadiśa / ārya āmamāṃsaṃ paribhuñjatu / svastho bhaviṣyati / bhadramukha kim asau puruṣādaḥ / ārya na śakyam anyathā svasthena bhavitum* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / (msv i x) bhagavān āha / yady evaṃ bhaiṣajyaṃ sevitavyam* / na śakyam anyathā svasthena bhavitum* / māṃsaṃ dātavyam* / bhikṣavas tathā evānuprayacchanti / na khādati / bhagavān āha / akṣiṇī paṭṭakena baddhvā dātavyam* / tair dattam* / atiśīghraṃ paṭṭako muktaḥ / tena hastau liptau dṛṣṭau / tena vāntam* / bhagavān āha / sadyo na moktavyaḥ / atha cet* sadyo moktavyas tadā tasya hastau tadagrataḥ suśuddhe pānīye sthāpayitvā paścāt* paṭṭako moktavyaḥ / sa svasthībhūtaḥ / tasya sa eva dohadaḥ saṃvṛttaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / yadā svasthībhūtas tadā evaṃ śikṣāṃ samādāya tat samavasthānam ācaritavyam* / adhyācarati sātisāro bhavati /

rājagṛhe nidānam* / āyuṣmān pilindavatso yataḥ pravrajito bahvābādhaḥ / sa bhikṣubhir ucyate / sthavira evaṃ te ābādhaḥ / sa kathayati / āyuṣmantaḥ satatam ahaṃ bahvābādhaḥ / niryāṇaprakaraṇaṃ nāsti / te kathayanti / sthavira purā kiṃ dhṛtam* / sa kathayati / bhaiṣajyaṃ kacchapuṭam* / idānīṃ kiṃ na dhārayasi / bhagavatā nānujñātam* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / evaṃ saty anujñātam* / bhikṣūṇāṃ bhaiṣajyaṃ kacchapuṭaṃ dhārayitavyam* / bhikṣūṇāṃ mūlapuṣpagaṇḍaphalabhaiṣajyāni dhārayitavyāni / te sarvatra bhaiṣajyāni kacchapuṭe na dāpayanti / bhagavān āha / phalabhaiṣajyāni kacchapuṭe sthāpayitavyāni / mūlapuṣpagaṇḍabhaiṣajyāni (msv i xi) varaṇḍikāṃ baddhvā nāgadantake sthāpayitavyāni / bhagavān āha / kāle kāle śoṣayitavyāni / te ātape śoṣayanti / nirvīryaṃ bhavati / bhagavān āha / nātape śoṣayitavyam* / chāyāyāṃ śoṣayanti / tathāpi pūyyati / bhagavān āha / chāyātape śoṣayitavyam* / {the following first two lines of fol. 94r have not been transliterated by dutt} te praviṣajitvā gacchanti / vātavarṣam āgacchati na praveśayanti / bhagavān āha // praveśayitavyaṃ / uktaṃ bhagavatā praveśayitavyam iti / te na jānanti kena praveśayitavyam iti / bhagavān āha / ā .. .. .. .. .. .. .. .. .. + + + + + + + + na bhavati / śrāmaṇerakena / śrāmaṇerako na bhavati svayam eva praveśayitavyaṃ / miśrībhavanti / bhikṣavaḥ saṃpṛṣṭā iti kṛtvā na paribhuṃjanti / bhagavān āha / vicīya vicīya paribhoktavyaṃ nātra kaukṛtyaṃ karaṇīyam* //

śrāvastyāṃ nidānam* / yasmād āyuṣmān (fol. 94r3 = gbm 6.769) revato yatra kvacana kāṃkṣī tasya kāṃkṣārevataḥ kāṃkṣārevata iti saṃjñā saṃvṛttā / sa pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya praviṣṭaḥ / so 'nupūrveṇa guḍaśālāṃ gato yāvat paśyati kaṇena guḍaṃ badhyamānam* / sa kathayati / bhavanto mā kaṇena guḍaṃ bandhata / ārya asti kiṃcid anyaṃ bandhaṃ jānāsi / nāham anyaṃ bandhaṃ jānāmi / api tu vayam akāle paribhuṃjāmaḥ / ārya kāle vākāle vā paribhuñja / eṣo 'sya bandho 'nyathā bandhaṃ na gacchati / apareṇa samayena saṃghasya guḍakhādanīyaṃ saṃpannam* / sa na khādati / tasya sārdhaṃvihāryantevāsikāḥ kathayanti / ārya saṃghasya guḍakhādanīyaṃ saṃpannaṃ paribhuñja / sa kathayati / bhadramukhāḥ sāmiṣam etat* / te 'pi na bhuñjate / anyair bhikṣubhir ucyante / āyuṣmantaḥ saṃghasya guḍakhādanīyaṃ saṃpannaṃ kiṃ na paribhuñjata / te kathayanti / upādhyāyaḥ kathayati sāmiṣam etat* / tair api na paribhuktam* / mahāparivāraḥ saḥ / tair na paribhuktam iti yadbhūyasā sarvasaṃghena na paribhuktam* / etat prakaraṇaṃ bhikṣavo bhagavata (msv i xii) ārocayanti bhagavān āha / na labhyante nāmiṣeṇāmiṣakṛtyaṃ kartum* / āgārapariśuddham iti kṛtvā paribhoktavyaṃ nātra kaukṛtyaṃ karaṇīyam* /

श्रावस्त्यां निदानम्* / अथायुष्मान् रेवतः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्त्यां पिण्डाय प्रविष्टः / सो ऽनुपूर्वेण वीथीं गतः / तेन गांधिको दृष्टः सक्तुं स्पृष्ट्वा गुडं स्पृशति / स कथयति / भद्रमुख मा सक्तुं स्पृष्ट्वा गुडं स्पृश / अस्माभिर् अकाले परिभोक्तव्यम्* / स कथयति / आर्य को मम मुहुर् मुहुर् हस्तशौचं ददाति / अपरेण समयेन संघस्य गुडखादनीयं संपन्नम्* / स न परिभुञ्जति / सार्धंविहार्यन्तेवासिनः कथयन्ति / आर्य संघस्य गुडखादनीयं संपन्नं किं न खादसि / स कथयति / भद्रमुखाः सामिषम् एतत्* / तैर् अपि न परिभुक्तम्* / ते भिक्षुभिर् उच्यन्ते / आयुष्मन्तः संघस्य गुडखादनीयं संपन्नम्* / किं न परिभुञ्जत / ते कथयन्ति / उपाध्यायः कथयति सामिषम् एतत्* / तैर् अपि न परिभुक्तम्* / महापरिवारः सः / तैर् न परिभुक्तम् इति यद्भूयसा सर्वसंघेन न परिभुक्तम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / न लभ्यन्ते नामिषेणामिषकृत्यं कर्तुम्* / आगारपरिशुद्धम् (fol. 94v1 = ग्ब्म् 6.768) इति कृत्वा परिभोक्तव्यम्* / नात्र कौकृत्यं करणीयम्* /

(msv i xiii) śrāvastyāṃ nidānam* / āyuṣmataḥ śāriputrasya vāyvābādhikaṃ glānyam utpannam* / āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati / bahuśo mayā āyuṣmataḥ śāriputrasya paricaryā kṛtā na tu kadācid vaidyaḥ pṛṣṭaḥ / yanv aham idānīṃ vaidyaṃ pṛccheyam* / sa vaidyasakāśam upasaṃkrāntaḥ / bhadramukha āyuṣmataḥ śāriputrasyedaṃ cedaṃ ca glānyam utpannaṃ tasyānulomikabhaiṣajyam upadiśeti / sa kathayati / ārya lavaṇaṃ sauvīrakaṃ bhaiṣajyaṃ bhaviṣyatīti / tena sauvīrakaṃ samudānītam* / lavaṇaṃ nāsti / sa lavaṇaṃ paryeṣitum ārabdhaḥ / āyuṣmatā pilindavatsenoktaḥ / asti āyuṣman mama śṛṅgāpuṭaṃ lavaṇaṃ yāvajjīvam adhiṣṭhitam* / yadi bhagavān anujānīte dadāmīti śāriputreṇa śrutam* / sa kathayati / mama mānasa āyuṣmān mahāmaudgalyāyana evaṃ bhavati / na labhyaṃ kālikena yāvajjīvikaṃ paribhoktum* / etat prakaraṇam āyuṣmān mahāmaudgalyāyano bhagavata ārocayati / bhagavān āha / na labhyaṃ maudgalyāyana yac ca kālikaṃ yac ca yāmikaṃ yac ca sāptāhikaṃ yac ca yāvajjīvikam adhiṣṭhitam* / tatra maudgalyāyana yac ca yāmikaṃ yac ca sāptāhikaṃ yac ca yāvajjīvikaṃ tac cet kālikena saṃsṛṣṭaṃ bhavati kālikasaṃsṛṣṭam iti kṛtvā kāle paribhoktavyaṃ kālātikrāntaṃ na paribhoktavyam* / yac ca yāmikaṃ yac ca sāptāhikaṃ yac ca yāvajjīvikaṃ tac ca yāmikena saṃsṛṣṭam iti kṛtvā yāmaṃ paribhoktavyaṃ yāmātikrāntaṃ (msv i xiv) na paribhoktavyam* / yac ca sāptāhikaṃ yac ca yāvajjīvikaṃ tac cet sāptāhikena saṃsṛṣṭaṃ bhavati sāptāhikasaṃsṛṣṭam iti kṛtvā sāptāhaṃ paribhoktavyaṃ saptāhātikrāntaṃ na paribhoktavyam* {ms adds saptāhasyātyayān na paribhoktavyam*} / yan nu yāvajjīvikaṃ tad yāvajjīvikaṃ paribhoktavyam* / anyathā paribhuñjati sātisāro bhavati /

उद्दानम्* /

महासेनो मांसमर्शो वातव्याधिश् च पूर्णकः /

..... //

बुद्धो भगवान् काशीषु जनपदेषु चारिकां चरन् वाराणसीम् अनुप्राप्तः / वाराणस्यां विहरति ऋषिवदने मृगदावे / वाराणस्यां महासेनो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः / तस्य पत्नी महासेना नाम / स सपत्नीकः श्राद्धो भद्रः कल्याणाशयः / तेन स्रुतम्* / भगवान् काशीषु जनपदेषु चारिकां चरन् वाराणसीम् अनुप्राप्तः / वाराणस्यां विहरति ऋषिवदने मृगदावे इति / श्रुत्वा च पुनर् अप्य् एतद् अभवत्* / बहुशो मया भगवान् अन्तर्गृहे उपनिमन्त्रितो न त्व् एव सर्वोपकरणैः प्रवारितः / यन्व् अहम् एतर्हि भगवन्तं त्रैमासीं सर्वोपकरणैः प्रवारयेयम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः /

[folios 95 to 140 are missing]

(fol. 141r3 = ग्ब्म् 6.950; म्स्व् इ अ) अद्राक्षीद् भगवान् दूराद् एव नीलनीलां वनराजिम्* / दृष्ट्वा च पुनर् वज्रपाणिं यक्षम् आमन्त्रयते / पश्यसि त्वं वज्रपाणे नीलनीलाम् एतां वनराजिम्* / पश्यामि भदन्त / एष वज्रपाणे काश्मीरमण्डलम्* / मम वर्षशतपरिनिर्वृतस्य माध्यन्दिनो नाम भिक्षुर् भविष्यत्य् आनन्दस्य भिक्षोः सार्धंविहारी / स हुलुटं दुष्टनागं विनेष्यति / अथ पर्यङ्कं बद्ध्वा समग्रे काश्मीरमण्डले शासनं प्रवेशयिष्यति / विपश्यनानुकूलानां शयनासनं यदुत काश्मीरमण्डलम्* /

षष्टिग्रामसहस्राणि षष्टिग्रामशतानि च / षष्टिर् ग्रामास् त्रयो ग्रामा ह्य् एतत् काश्मीरमण्डलम्* /

भ्रष्टालायाम् ऋषिर् विनीतः आपन्नकश् च यक्षः सपरिवारः / कन्थायां यक्षिणी सपरिवारा विनीता / धान्यपुरम् अनुप्राप्तः / धान्यपुरे सेनराजः परमसत्येषु प्रतिष्ठापितः / नैतरीम् अनुप्राप्तः / नैतर्याम् अन्यतमः कुम्भकारः / सो ऽतीव शिल्पमदमत्तः / शुष्काणि भाजनानि चक्राद् अवतारयति / भगवांस् तस्य विनयकालं ज्ञात्वा कुम्भकारवेषं गृहीत्वा तेन सार्धं जल्पं कर्तुम् आरब्धः / त्वं कीदृशानि भाजनानि चक्राद् अवतारयसि / स कथयति / शुष्काणि / अहम् अपि शुष्काण्य् अवतारयामि / समस् त्वं मया / किम् एतद् भङ्गुरेण / अहं दन्तमयान्य् अपि अवतारयामि / त्वं मत्तः कुशलतरो ऽसि / न केवलं दन्तमयानि सुवर्णरौप्यवैडूर्यस्फटिकमयान्य् अपि / सो ऽभिप्रसन्नः / ततो भगवता कुम्भकारवेषम् (म्स्व् इ ब्) अन्तर्धाप्य स्ववेषेण स्थित्वा सपरिजनः सत्येषु प्रतिष्ठापितः / शाद्वलाम् अनुप्राप्तः / शाद्वलायां महायक्षपरिवारः शरणगमनशिक्षापदेषु प्रतिष्ठापितः पालितकोटो नागपालकश् च / नन्दिवर्धनम् अनुप्राप्तः / नन्दिवर्धने भवदेवो राजा सपरिवारः सत्येषु प्रतिष्ठापितः ससप्तमातङ्गपुत्रो भूपयक्षश् च / तत्राश्वकपुनर्वसुकौ (fol. 141v1 = ग्ब्म् 6.951) नागयोनाव् उपपन्नौ / द्वादशानां वर्षाणाम् अत्ययात् क्षुब्धौ / ताव् एवम् आहतुः / नावयोर् भगवता धर्मो देशितो येनावां विनिपतितौ नागयोनौ जातौ / कथं वयम् अस्य देशनां ज्ञास्यामः / भगवत एतद् अभवत्* / तयोर् महानुभावः / स्थानम् एतद् विद्यते यत् परिनिर्वृतस्य मे शासनं भस्म करिष्यत इति विदित्वा येनाश्वकपुनर्वसुकयोर् भवनं तेनोपसंक्रान्तः /

उपसंक्रम्याश्वकपुनर्वसुकाभ्यां चतुष्पदिको धर्मपर्यायो देशितः / एतस्य व्याख्यां ज्ञास्यथ / के वयं सद्धर्मस्य ज्ञातार इति विदित्वा तत्रैव निमग्नौ / तयोर् एतद् अभवत्* / देशितो ऽस्माकं भगवता धर्मः / अस्माभिस् तु न विज्ञात इति / भगवता तस्मिन्न् एव प्रदेशो प्रतिमैका दत्ता / अश्वकपुनर्वसुकौ तत्र पुनर् निमज्जतः / अद्यापि भगवांस् तिष्ठतीति तस्मिन्न् एव प्रदेशे / भगवता नाली उदर्या च यक्षिणी विनीता / कुन्तीनगरम् अनुप्राप्तः / कुन्तीनगरे कुन्ती यक्षिणी इति ख्याता क्रोधान्विता चण्डा च प्रतिवसति / कुन्तीनगरस्य ब्राह्मणगृहपतीनां जातानि जातान्य् अपत्यानि भक्षयति / अश्रौषुः कौन्तीनागरा ब्राह्मणगृहपतयो भगवान् कुन्तीनगरम् अनुप्राप्तः / तस्मिन् प्रदेशे तिष्ठतीति श्रुत्वा ते सन्निपतिताः कुन्तीनगरान् निर्गताः / (msv i 1) येन भगवांस् तेनोपसंक्रान्ताः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः / एकान्तनिषण्णानां कौन्तीनागराणां ब्राह्मणगृहपतीनां भगवान्* धर्म्यया कथया पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* / अथ श्राद्धा ब्राह्मणगृहपतय उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचन्* / अधिवासयत्व् अस्माकं भगवान्* श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / अथ भगवन्तं भुक्तवन्तं धौतहस्तम् अपनीतपात्रं निषण्णं विदित्वा सौवर्णं भृङ्गारं गृहीत्वा भगवतः पुरतः स्थित्वा याचमान एवं चाह / भगवता ते ते दुष्टनागा दुष्टयक्षा विनीताः /

इयं भदन्त कुन्ती यक्षिणी अस्माकं दीर्घरात्रम् असपत्नानां सपत्नी अद्रुग्धानां द्रोग्ध्री जातानि जातान्य् अपत्यानि हरति / अहो वत भगवान् कुन्तीं यक्षिणीं विनयेद् अनुकम्पाम् उपादायेति / तेन खलु समयेन कुन्ती यक्षिणी तस्याम् एव पर्षदि सन्निषण्णाभूत्* सन्निपतिता / तत्र भगवान् यक्षीणीम् आमन्त्रयते / श्रुतं ते कुन्ति / श्रुतं मे भगवन्* / श्रुतं ते कुन्ति / श्रुतं मे सुगत / विरम त्वम् अस्मात् पापकाद् असद्धर्मात्* / समयेनाहं भदन्त (fol. 142r1 = ग्ब्म् 6.952) विरंस्यामि यद्य् एते ममार्थाय विहारं कारयन्ति / तत्र भगवान् कौन्तीनागरान् ब्राह्मणगृहपतीन् आमन्त्रयते / श्रुतं वो ब्राःमणगृहपतयः / श्रुतं भगवन्* / कथं वो ऽत्र भवति / करिष्यामो भगवन्* / अथ भगवान् कुन्तीं यक्षीणीं सपरिवारां विनीय प्रक्रान्तः / भगवान् खर्जूरिकाम् अनुप्राप्तः / खजूरिकायां बालदारकान् पांसुस्तूपकैः क्रीडतो ऽद्राक्षीत्* / भगवान् बालदारकान् पांसुस्तूपकैः क्रीडतो दृष्ट्वा च (msv i 2) पुनर् वज्रपाणिं यक्षम् आमन्त्रयते / पश्यसि त्वं वज्रपाणे बालदारकान् पांसुस्तूपकैः क्रीडतः / एवं भदन्त / एष चतुर्वर्षशतपरिनिर्वृतस्य मम वज्रपाणे कुशनवंश्यः कनिष्को नाम राजा भविष्यति / सो ऽस्मिन् प्रदेशे स्तूपं प्रतिष्ठापयति / तस्य कनिष्कस्तूप इति संज्ञा भविष्यति / मयि च परिनिर्वृते बुद्धकार्यं करिष्यति /

ततो भगवान् यावच् चापलालस्य भवनं यावच् च रोहितकम् अत्रान्तरे सप्तसप्ततिप्राणिशतसहस्राणि विनीय रोहितकम् आगत्य विहारं प्रविश्य प्रतिसंलीनः / भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थायायुष्मन्तम् आनन्दम् आमन्त्रयते / आगमयानन्द येनादिराज्यम् इति /

अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्* / पूर्वं भदन्त भगवान् एवम् आह / उत्तरापथे नागराजम् अपलालं विनेष्यामः / पञ्चानुशंसा उत्तरापथेनेति / अथ च पुनर् भगवान् आह / आगमयानन्द येनादिराज्यम् इति / तत् कथम्* / भगवान् आह / गतो ऽहम् आनन्द वज्रपाणिसहीय उत्तरापथम्* / व्याकृतं तमसावनं यावद्* / व्याकृतं वालुकास्तूपम्* / गतो ऽहम् आनन्द यावच् च रोहितकं यावच् चापलालस्य नागराजस्य भुवनम्* / अत्रान्तरे तथागतेन राज्ञा सप्तसप्ततिप्राणिशतसहस्राणि विनीतानि / पञ्चादीनवा उत्तरापथे स्थाणुकण्टकद्रुमपाषाणशर्करश् चण्डकुक्कुरो दुष्ठुलसमुदाचारो मातृग्रामः /

उद्दानम्* /

आदिराज्यं च भद्राश्वो मथुरा ओतला च / आरामवैरंभ्य अयोध्या च नदी गङ्गा प्रेता वेलामो भवति पश्चिमः //

अथ भगवाञ् छूरसेनेषु जनपदेषु चारिकां चरन्न् आदिराज्यम् अनुप्राप्तः / तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते / अस्मिन्न् आनन्द प्रदेशे महासम्मतो राजा प्रथमतो राज्याभिषेकेनाभिषिक्तः / अभिषिक्तो ऽयं च राज्ञाम् आदिरतो ऽस्यादिराज्यः आदिराज्य इति संज्ञा संवृत्ता /

भद्राश्वम् अनुप्राप्तः / तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते / अस्मिन्न् आनन्द प्रदेशे राज्ञो महासम्मतस्य भद्रम् अश्वरत्नं प्रादुर्भूतं यतो ऽस्य भद्राश्वो भद्राश्व इति संज्ञा संवृत्ता /

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते / आगमयानन्द येन मथुरा इति (fol. 142v1 = ग्ब्म् 6.953) / एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* / अथ भगवान् मथुरां संप्रस्थितः / दूराद् एव नीलनीलां भगवान् वनराजिं दृष्ट्वा पुनर् आयुष्मन्तम् आनन्दम् आमन्त्रयते / पश्यसि त्वम् आनन्द एतां नीलनीलां वनराजिम्* / एवम् भदन्त / एष आनन्द उरमुण्डो नाम पर्वतः / अत्र मथुरायां नटो भटश् च द्वौ भ्रातरौ मम वर्षशतपरिनिर्वृतस्य विहारं प्रतिष्ठापयतः / ततस् तस्य नटभटिक इति संज्ञा भविष्यति / अग्रं च भविष्यति (msv i 4) शमथविपश्यनानुकूलानां शयनासनानाम्* / अद्यानन्द मथुरायां गुप्तो नाम गान्धिकदारको भविष्यति / तस्य पुत्रः उपगुप्तो नाम भविष्यति अलक्षणको बुद्धः / स मम वर्षोषितस्य परिनिर्वृतस्य शासने प्रव्रज्य बुद्धकार्यं करिष्यति / माध्यन्दिनो नाम्ना आनन्दस्य भिक्षोः सार्धंविहारी / स उपगुप्तं प्रव्राजयिष्यति / उपगुप्तः पश्चिमको भविष्यति अववादकानाम्* / वृक्षवाटिकायां गुहा भविष्यति / दैर्घ्येणाष्टादशहस्ता / विस्तारेण द्वादश / उच्छ्रायेण सप्त / ये ये तस्याववादे अर्हत्वं साक्षात्करिष्यन्ति ते ते चतुरङ्गुलमात्रां कटिकां तस्यां गुहायां प्रक्षेप्स्यन्ते / यदा सा गुहा पुर्णा भविष्यति अर्हत्कटिकाभिस् तदा उपगुप्तः परिनिर्वास्यति / परिनिर्वृतं चैनं ताभिर् एवार्हत्कटिकाभिः समेत्य ते ध्मापयिष्यन्ति / भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं परिपप्रच्छुः / भदन्त भगवता आयुष्मान् उपगुप्तो ऽनागत एव बहुजनानुकम्पी व्याकृत इति / भगवान् आह / न भिक्षव एतर्हि यथासाव् अतीते ऽप्य् अध्वनि बहुजनहिताय प्रतिपन्नस् तच् छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये /

भूतपूर्वं भिक्षवः अस्यैव उरुमुण्डस्य पर्वतस्य त्रिषु पार्श्वेषु प्रत्येकबुद्धा ऋषयो मर्कटाश् च प्रतिवसन्ति / एकस्मिन् पार्श्वे पञ्च (msv i 5) प्रत्येकबुद्धशतानि द्वितीये पञ्च ऋषिशतानि तृतीये पञ्च मर्कटशतानि / आचरितं मर्कटयूथपतेर् जातं जातं मर्कटशावकं प्रघातयति / ततस् ता मर्कट्यः शावकशोकाभिभूताः परस्परं संजल्पं कर्तुम् आरब्धाः / शृण्वन्तु भवन्त्यो मर्कट्यः / अयम् अस्माकं यूथपतिर् जातं जातं शावकं प्रघातयति / तद् उपायसंविधानं कर्तव्यम्* / या अस्माकं मर्कटी आपन्नसत्वा भवति तया यूथपतेर् नारोचयितव्यम् इति / यावद् अपरेण समयेनान्यतमा मर्कटी आपन्नसत्वा संवृत्ता / सा ताभिः प्रतिगुप्ते प्रदेशे गोपायित्वा मूलफलैर् उपस्थापिता / मर्कटशावको जातः / सो ऽपि ताभिः प्रतिगुप्ते प्रदेशे स्थापितः पोषितः संवर्धितः / स यदा महान् संवृत्तस् तदा तेनासौ यूथपतिः स्वयूथात् प्रच्यावितः / उरुमुण्डपर्वते इतश् चामुतश् च (fol. 143r1 = ग्ब्म् 6.954) परिभ्रमितुम् आरब्धः / तेन परिभ्रमता प्रत्येकबुद्धानां शब्दः श्रुतः / स तेषां सकाशं गतः / यदा विश्वस्तसंवासः संवृत्तस् {म्स् स्मृतः} तदा तेषां मूलपत्रपुष्पफलदन्तकाष्ठैर् उपसंहारं करोति / ते ऽपि तस्य पात्रशेषं छोरयन्ति / आचरितं तेषां प्रत्येकबुद्धानां भुक्त्वा भुक्त्वा पर्यङ्के निषीदन्ति / सो ऽपि मर्कटस् तेषाम् ईर्यापथं दृष्ट्वा पर्यङ्केन निषीदति / यावद् अपरेण समयेन तेषां प्रत्येकबुद्धानाम् एतद् अभवत्* / यद् अस्माभिर् अनेन क्वाथकायेन प्राप्तव्यम्* / प्राप्तं तद् यन् नु वयं शान्तं निर्वाणधातुं प्रविशेम इति /

ततस् ते ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृताः / तेषां व्युत्थानकालः / तस्मिन् (msv i 6) नोत्तिष्ठन्ति इति / स मर्कटस् तान् अपश्यन् धृतिं न लभते / यावद् असौ मर्कटो गुहां प्रविश्य तेषां प्रत्येकबुद्धानां चीवराणि विकोपयितुम् आरब्धः / या देवता तस्यां गुहायाम् अध्युषिता तस्या एतद् अभवत्* / मा हैवायं शाखामृगः प्रत्येकबुद्धचीवराणि विकोपयिष्यतीति द्वारं महत्या शिलया पिधायावस्थिता / ततो ऽसौ मर्कटः शोचित्वा क्लमित्वा परिदेवित्वा प्रक्रान्तः / उरुमुण्डपर्वते समन्तात् परिक्रामति / अनभिरतित्वाद् धृतिं न लभमानो ऽवहितश्रोत्रो मनुष्यशब्दम् आकांक्षति / तेन तेषाम् ऋषीणां वाक्प्रव्याहारशब्दः श्रुतः / स मार्गप्रनष्ट इवाध्वगस् त्वरितत्वरितं तेषां सकाशम् उपसंक्रान्तः / तेन ऋषयः कष्टानि तपांसि तप्यन्ते / केचिद् ऊर्ध्वहस्तकास् तिष्ठन्ति / केचिद् एकेन पादेन / केचित् पञ्चतपस् तप्यन्ते / यदासौ मर्कटस् तैः सार्धं विश्वस्तसंवासः संवृत्तस् तदा तेषाम् ऋषीणां मूलपत्रपुष्पफलदन्तकाष्ठैर् उपसंहारं करोति / ते ऽपि तस्य भैक्षशेषं छोरयन्ति / स तेषाम् ईर्यापथं व्याकोप्य प्रत्येकबुद्धेर्यापथं देशयति / तत्र ये ऊर्ध्वहस्तकास् तेषां हस्तान् अधः कृत्वा रिच्छटाशब्दं च कृत्वा पुरस्तात् पर्यङ्कं बद्ध्वावतिष्ठते / ये पञ्चतपस् तप्यन्ते तेषाम् अग्निं निर्वाप्य रिच्छटाशब्दं कृत्वा पुरस्तात् पर्यङ्केनावतिष्ठते / ततस् तैः ऋषिभिर् अववादकस्यारोचितम्* / उपाध्याय एष शाखामृगो ऽस्माकं तपोविघ्नं करोति / तैस् तस्य विस्तरेणारोचितम्* / स कथयति / भवन्तः स्मृतिमन्तो ह्य् एते शाखामृगा भवन्ति /

नूनम् अनेन ईर्यापथेन के (msv i 7) ऋषयो ऽनेन दृष्टा भविष्यन्ति / यूयम् अपि यथास्थापितं पर्यङ्कं बद्ध्वा निषीदथ / ते तथैव पर्यङ्कं बद्ध्वा निषण्णाः / तेषां पूर्वकानि कुशलमूलान्य् आमुखीभूतानि / तैर् अनाचार्यकैर् अनुपाध्यायकैर् ज्ञानेन सप्तत्रिंशद्बोधिपक्षधर्मान् उत्पाद्य प्रत्येकबोधिः साक्षात्कृतस् तेषां मर्कटस्यान्तिके धर्मान्वयः प्रसाद उत्पन्नः / ते यानि नवशस्यानि (fol. 143v1 = ग्ब्म् 6.955) नवफलानि नवर्तुकानि जनपदात् पिण्डपातं प्रतिलभते तानि तस्मै प्रथमतो दत्वा तत आत्मनः परिभुञ्जते / तावद् अपरेण समयेन स मर्कटः कालगतः / ततस् तैः प्रत्येकबुद्धैर् नानादिग्देशाधिष्ठानेषु गन्धकाष्ठानि समादाप्य सर्वगन्धकाष्ठैश् चितां चित्वा ध्मापितः /

किं मन्यध्वे भिक्षवः / यो ऽसौ प्रत्येकबुद्धैः संपोषितो मर्कटः स एवासाव् उपगुप्तः / तदाप्य् असौ बहुजनहिताय प्रतिपन्नः एतर्ह्य् अप्य् असौ मया बहुजनहितानुकम्पी व्याकृत इति /

अथ भगवाञ् छूरसेनेषु जनपदेषु चारिकां चरन् मथुराम् अनुप्राप्तः / अश्रौषुर् माथुरा ब्राह्मणाः श्रमणो गौतमो मथुराम् अनुप्राप्तः / सो ऽत्यर्थं चातुर्वर्णविशुद्धिं रोचयति दीपयति प्रज्ञपयति प्रस्थापयति विरुजति विवृणोति उत्तानीकरोति देशयति / यद्य् असौ मथुरां प्रवेक्ष्यति अस्माकं लाभान्तरायो भविष्यति / स चासत्कारभीतः श्रूयते / यदि तस्य कश्चिद् असत्कारं कुर्याद् एवम् असौ मथुरां न प्रविशेत्* इति चास्य नीचपुरुषो ऽसत्कारं कुर्यात्* (msv i 8) प्रवेक्ष्यति न चित्रीकरिष्यति / यद्य् अस्य प्रधानपुरुषः कश्चिद् असत्कारं कुर्याच् छोभनं स्यात्* / तत् को ऽस्माकं प्रधानपुरुषः / तेन खलु समयेन मथुरायां नीलभूतिर् नाम ब्राह्मणो वेदवेदाङ्गपारगः स्ववादोद्द्योतकः परवादनिग्रहसमर्थः / तस्य वाक् सत्यानुपरिवर्तिनी / ततो माथुरा ब्राह्मणाः सङ्गम्य समागम्य नीलभूतेः सकाशम् उपसंक्रान्ताः / उपाध्याय श्रूयते श्रमणो गौतमो इहागत इति / सो ऽत्यर्थं चातुर्वर्णविशुद्धिं पूर्ववद् यावत् संप्रकाशयति / स चासत्कारभीतः श्रूयते / यदि तस्य कश्चिद् असत्कारं कुर्याद् एवम् असौ मथुरां न प्रवेक्ष्यति / यदि चास्य नीचपुरुषो ऽसत्कारं करिष्यति न चित्रीकरिष्यति / यद्य् अस्य प्रधानपुरुषः कश्चिद् असत्कारं कुर्याच् छोभनं स्यात्* / ततो ऽस्माकं कः प्रधानपुरुषः ऋते उपाध्यायात्* / त्वम् अस्यासत्कारं कुरु वाग्दण्डैर् आक्रोशय / नीलभूतिः कथयति / भवन्तो ममेयं जिह्वा सत्यानुप्रवर्तिनी / यद्य् आक्रोशार्हो भविष्यति आक्रोक्ष्यामि / अथ स्तवार्हस् तोष्यामीति / ततो नीलभूतिर् ब्राह्मणो वृद्धवृद्धैर् मथुरानिवासिभिर् ब्राह्मणैः संपुरस्कृतो येन भगवांस् तेनोपसंक्रान्तः / अद्राक्षीन् नीलभूतिर् ब्राह्मणो भगवन्तं दूराद् एव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्योमप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं (msv i 9) जंगमम् इव रत्नपर्वतं समन्ततो भद्रकम् अन्यतरं वृक्षमूलं निश्रित्य शान्तेन ईर्यापथेन निषण्णम्* / दृष्ट्वा च विस्मयोत्फुल्लदृष्टिः स्तोतुम् आरब्धः /

प्रणिधाय मनः सहेन्द्रियैर् विधिवद्* (fol. 144r1 = ग्ब्म् 6.956) वाक्* च शरीरम् एव च / गुणभूत महागुणोदधेस् तव वक्ष्यामि गुणैकदेशताम्* // 1 परमप्रवरो ऽसि वादिनाम् अनवद्यः सुसमाहितेन्द्रियः / परमार्थविद् अप्रकम्पितः प्रयतैः सर्वपरप्रवादिभिः // 2 चरणं सुसमाप्तम् एव ते सुसमाप्तव्रत साधितव्रतः / बलवांश् च समाधिर् अव्ययस् तव नारायणशैलराजवत्* // 3 पुरुषर्षभ नास्ति ते व्यथा न विषादो न भयं न च क्लमः / न च ते व्यसनं कुतः कलिर् न च भूतेषु कदाचिद् अक्षमा // 4 न च धावसि नातिलीयसे न च सन्तप्यसि नापि हृष्यसे / सततं शुभम् एव ते मनः सततं मेरुर् इवाचलाधिपः // 5 मुनिपुङ्गव सर्वधातुभिर् विपुलं ज्ञानम् अपावृतं तव / अपराहतम् अक्षयव्ययं विविधेष्व् आयतनेषु वर्तसे // 6 न च ते ऽस्ति मुने कथंकथा विमतिर् नास्ति न संशयः क्वचित्* / स्वयम् एव न ते परापरं विदितं सर्वम् अवेदि विद्यया // 7 प्रियदर्शनसाधुदर्शनप्रियसाधुप्रियपण्डितप्रियः / समम् एव हि ते प्रियाप्रियं सततं प्रीतिकरस् तथेर्यसे // 8 मधुरप्रतिभानवानसि स्मितवाक्यः स्मृतिमान् विशारदः / विविदानुमतं प्रभाषसे त्रिषु लोकेषु च ते स्तृतं यशः / 9 नृसुरासुरयक्षराक्षसा बहवस् त्वाम् इहलोकपण्डिताः / उपगम्य मुने पुनः पुनः परिपृच्छन्ति न चाभिषूयसे // 10 स्ववचःपरितोषितास् त्वया नरदेवाः सुरयक्षराक्षसाः / प्रतियान्ति विनीतसंशयाश् चरणौ वन्द्य च ते महामुने // 11 स्थितम् आसितम् आगतं गतं शयितं मौनम् अथाभ्युदीरितम्* / अथ चीवरपात्रधारणं रुचिरं गौतम सर्वम् एव ते //

12 अविलम्बितम् अद्रुतं समं स्वरमाधुर्यगुणैः समन्वितम्* / वचनं पुनर् उक्तवर्जितं समये व्याहरसे नरोत्तम // 13 बलवान् असि लोकविश्रुतः पुरुषज्ञः पुरुषर्षभः प्रभुः / न च मन्यसि नावमन्यसे सकलं लोकम् इमं सदैवतम्* // 14 न च विस्मयसे कदाचन प्रकृतिस्थेषु चलाचलेषु च / सुहृदेषु च दुर्हृदेषु च प्रतिकूलेष्व् अनुलोमवत्सु च // 15 परिदेव्यम् अदीननिस्वनं स्रुतलालार्पितसन्निनादितम्* / परिदाहविदाहसंयुतं भयरोगज्वरशोककर्षितम्* // 16 प्रसमीक्ष्य जगत् समाकुलं विविधैर् दुःखशतैर् उपद्रुतम्* / चिररात्रम् अनाथम् उत्सुकं भवतृष्णाप्रसृतं तमोवृतम्* // 17 अवतार्य मुनेर् महाकृपां विविधां चात्मगतां प्रभावताम्* / स्वयम् एव हि शाक्यपुङ्गव व्यथितान् मोचयितुं त्वम् उद्यतः // 18 भवदुःखम् इदं सहेतुकं भवदुःखस्य च यः परिक्षयः / भवदुःखनिरोधगामिनी प्रतिपच्चाप्रतिमं त्वयोच्यते // 19 अतिवीर्य महाविनायकप्रवराणाम् अनुवादिनां वर / न च ते सदृशः कुतो ऽधिकस् त्रिषु लोकेष्व् अपि नैव विद्यते // 20 प्रतिघानुनया (fol. 144v1 = ग्ब्म् 6.957) न सन्ति ते न च ते सन्ति मुने परिस्रवाः / अनुरोधविरोधविग्रहाः सततं सुव्रत नैव नैव ते // 21 अपहाय मुने प्रियाप्रिये सुखदुःखे विषमं समं तथा / अरतिं च रतिं विपर्ययन्न् उपशान्तश् चरसीह संयतः // 22 व्यसने न च नाम निर्मना न च नामोन्नमसे प्रशंसया / अयशश् च यशश् च ते समं समम् आक्रुष्टम् अथापि वन्दितम्* // 23 अतिवाक्यम् अथो तितिक्षसे पुरुषं पापजनैर् उदीरितम्* / समराग्रगतो विषाणवान् भृशमुक्तान् इव कुञ्जरः शरान्* //

24 सुवचस् त्वम् ऋषे वचःक्षमः सुदुरुक्तेष्व् अपि नाभिषूयसे / समम् एव च वर्तसे मुने परिभाषासु शुभासु वाक्षु च // 25 सततं च वरार्ह पूज्यसे नरदेवासुरयक्षराक्षसैः / ऋषिभिश् च सदा महात्मभिर् न च ते विक्रियते स्थिरं मनः // 26 प्रवरो ऽहम् इतो न मन्यसे ऽत्यवरो ऽहम् इतो न मन्यसे / सदृशो ऽहम् इतो न मन्यसे त्रिविधा मानविधा न सन्ति ते // 27 धृतिमान् समलोष्टकाञ्चनः समवैडूर्यकठल्लशर्करः / तृणकाष्ठसमं महामुने चरसीदं हि सदेवकं जगत्* // 28 हिमभास्कररश्मिसंगमाच् छिशिरोष्णं पवनं समुद्वहन्* / अधिवासयसे नगेन्द्रवन् न च ते प्रव्यथते स्थिरं मनः // 29 शयनासनपानभोजनं विविधं चीवरम् उत्तराधरम्* / इदम् अर्थिकतो निदेशसे प्रतिसंख्याय मुने निरास्रवम्* // 30 न च शोचसि नाथ नास्ति मे न च ते सन्ति मुने परिग्रहाः / असितो ऽसि सुवाक्यनिर्ममः परिमुक्तो विविधैर् उपद्रवैः // 31 न च लाभम् अवाप्य हृष्यसे तदलाभाच् च लयं न गच्छसि / अवमानम् अथो तितिक्षसे न च संमानम् इहाभिनन्दसि // 32 क्षतजोपमम् अग्रचन्दनं सुरभूमन्दरसानुसम्भवम्* / असयो निशिताः शराश् च ते न विकुर्वन्ति मनः कदाचन // 33 न कथां कथयस्य् अनर्थिकां न च या दुर्जनसेविता कथा / न च लाभकथा न सामिषा न च या नानुमता महात्मभिः // 34 प्रविवेककथाः सुखावहाः प्रशमं याः प्रवदन्ति केवलम्* / कथयस्य् अतिदेवताः कथाः कथिता या विनयन्ति किल्विषम्* // 35 मधुराणि च सङ्गतानि च स्वभिनीतानि च सारवन्ति च / वचनानि मुने प्रभाषसे जगदर्थाय विनिश्चितानि च //

36 अबुधा विपरीतदर्शनाश् चपलाः साहसिकाः प्रियान्विताः / पिशुनाः परुषाः शठाश् च ये भगवंस् तैः सह सङ्गतं न ते // 37 अशठा ऋजवश् च ये नराः शुचयः सत्यरता जितेन्द्रियाः / सततं च समीक्ष्यकारिणो भगवंस् तैः सह सङ्गतं तव // 38 धर्मज्ञ नयज्ञ पुद्गलज्ञ त्वां वन्दे षडभिज्ञ सर्वदैव / क्षेत्रज्ञ मुने परापरज्ञ त्वां वन्दे शिरसा नयानयज्ञ // 39 पृथुम् अपि समीक्षते गुणं तव परिकथितो हि मया गुणैकदेशः / न तव गुणमहार्णवस्य पारं जगति पुमान् अधिगन्तुम् आर्य शक्तः // 40

इत्य् एवमादिभिः पञ्चभिः स्तोत्रशतैर् भगवान् अभिष्टुतः {म्स् अभितुष्टः} / तथाभिप्रसन्नस्य च भगवता नीलभूतेर् धर्मो देशितः / यथा यथा तस्मिन्न् एवासने निषण्णेन सत्यदर्शनं कृतम्* / अथ नीलभूतिर् ब्राह्मणो भगवन्तं स्तुत्वा प्रक्रान्तः / सो ऽध्वप्रतिपन्नो माथुर्यैर् ब्राह्मणैः संचम्परीकृतः / उपाध्याय त्वम् अस्माभिर् अभिहितः / श्रमणस्य गौतमस्यासत्कारं कुरुष्वेति / स त्वम् एतर्हि स्तुत्वा आगतः / भवन्तो न त्व् अहं पूर्वम् अवोचम्* / मम जिह्वा सत्याभिधायिनी / यद्य् आक्रोशार्हो भविष्यति / आक्रोशे / स्तवार्हो भविष्यति / स्तोष्य इति / स्तवार्हः श्रमणो गौतमो मया स्तुतः /

अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय मथुरां पिण्डाय प्राविक्षत्* / तेन खलु समयेन मथुरायां नक्षत्ररात्रः प्रत्युपस्थितः / अथ या देवता मथुरायाम् अध्युषिता तस्या एतद् अभवत्* / यदि श्रमणो गौतमो मथुरां प्रवेक्ष्यति / मम नक्षत्ररात्रेर् अन्तरायं करिष्यतीति विदित्वा भगवतः पुरस्ताद् विनग्नो ऽस्थात्* / भगवान् आह / अप्रतिच्छन्नस् तावद् देवते मातृग्रामो न शोभते प्राग् एव विनग्न इति / अथ सा देवता जिह्रीय नग्नरूपा एकान्ते ऽपक्रान्ता / ततो भगवान् मार्गाद् अपक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः / निषद्य भगवान् भिक्षून् आमन्त्रयते स्म / पञ्चेमे भिक्षव आदीनवा मथुरायाम्* / कतमे पञ्च / उत्कूलनिकूलाः स्थाणुकण्टकप्रधाना (msv i 15) बहुपाषाणशर्करकठल्ला उच्चन्द्रभक्ताः प्रचुरमातृग्रामा इति /

अथ बहगवान् न प्रविशन्न् एव मथुरां येन गर्दभस्य यक्षस्य भवनं तेनोपसंक्रान्तः / उपसंक्रम्य गर्दभस्य यक्षस्य भवनम् अभ्यवगाह्यान्यतरद् वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय / अश्रौषुर् माथुरा ब्राह्मणगृहपतयो भगवान् पिण्डाय प्राविशत्* देवतया विहेठितः / अप्रविशन्न् एव मथुरां गर्दभस्य यक्षस्य भवनं गत इति श्रुत्वा च पुनः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य प्रत्येकं प्रत्येकं स्थालीपाकं समुदानीय शकटे आरोप्य येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्तनिषण्णान्* श्राद्धान् माथुरान् ब्राह्मणगृहपतीन् भगवान् धर्म्यया कथया पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* / अथ श्राद्धा ब्राह्मणगृहपतय उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्* / इहास्माभिर् भदन्त भगवन्तम् उद्दिश्य शुचिनः प्रणीतस्य खादनीयभोजनीयस्य शकटं पूर्णम् आनीतम्* / तद् भगवान् प्रतिगृह्णातु अनुकम्पाम् उपादाय इति / तत्र भगवान् आनन्दम् आयुष्मन्तम् आमन्त्रयते / गच्छानन्द यावन्तो भिक्षवो गर्दभस्य यक्षस्य भवनम् (fol. 145v1 = ग्ब्म् 6.959) उपनिश्रित्य (msv i 16) विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातय / परिभोक्ष्यन्ते पिण्डपातम् इति / एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवो गर्दभस्य यक्षस्य भवनम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपात्य येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* /

एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्* / यावन्तो भदन्त भिक्षवो गर्दभस्य यक्षस्य भवनम् उपनिश्रित्य विहरन्ति सर्वे ते उपस्थानशालायां सन्निषण्णाः सन्निपतिताः / यस्येदानीं भगवान् कालं मन्यत इति / अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः / उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः / अथ माथुराः श्राद्धा ब्राह्मणगृहपतयः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं भगवतः पुरस्तात् तस्थुर् आयाचमानं चाहुः / भगवता भदन्त ते ते दुष्टनागा दुष्टयक्षाश् च विनीताः / अयं भदन्त गर्दभको यक्षो ऽस्माकं दीर्घरात्रम् अवैरिणां वैरी / असपत्नानां सपत्नः / अद्रुग्धानां द्रोग्धा / जातानि जातान्य् अपत्यान्य् अपहरति / अहो वत भगवान् गर्दभकं यक्षं विनयेद् अनुकम्पाम् उपादायेति / तेन खलु समयेन गर्दभको यक्षस् तस्याम् एव पर्षदि सन्निषण्णो ऽभूत् सन्निपतितः / तत्र भगवान् गर्दभकं यक्षम् आमन्त्रयते / श्रुतं ते गर्दभक / श्रुतं मे भगवन्* / श्रुतं ते गर्दभक (msv i 17) / श्रुतं मे सुगत / विरमास्मात् पापकाद् असद्धर्मात्* / भगवन् समयतो ऽहं विरमामि / यदि माम् उद्दिश्य चातुर्दिशाय भिक्षुसंघाय विहारं कारयन्तीति / तत्र भगवान् माथुरान् श्राद्धान् ब्रह्मणगृहपतीन् आमन्त्रयते / श्रुतं वो ब्राह्मणगृहपतयः / श्रुतं भगवन्* / कारयिष्यामः / तत्र भगवता गर्दभको यक्षः पञ्चशतपरिवारो विनीतः / श्राद्धैर् ब्राह्मणगृहपतिभिस् तान् उद्दिश्य पञ्च विहारशतानि कारितानि /

एवं शरो यक्षो वनो यक्षः आलिकावेन्दा मघा यक्षिणी विनीता / अथ भगवता ऋद्ध्या मथुरां प्रविश्य तिमिसिका {म्स् भगवतो भगवान् ऋद्ध्या विनीता} यक्षिणी पञ्चशतपरिवारा विनीता / ताम् अप्य् उद्दिश्य पञ्चविहारशतानि कारितानीति / तत्र भगवता सान्तर्बहिर् मथुरायाम् अर्धतृतीयानि यक्षसहस्राणि विनीतानि / तान्य् उद्दिश्य श्राद्धैर् ब्राह्मणगृहपतिभिर् अर्धतृतीयानि विहारसहस्राणि कारितानि /

अथ भगवान् ओतलाम् अनुप्राप्तः / ओतलायां विहरति / ओतलीये वनषण्डे / तत्र ओतलायनो नाम ब्राह्मणमहाशालः प्रतिवसति आढ्यो महाधनो महाभोग इति विस्तरः /

अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय ओतलायां पिण्डाय प्राविक्षत्* / अन्यतमस्मिन् प्रदेशे पञ्चमात्राणि कार्षिकशतानि (msv i 18) उद्रजःशिरस्कानि शणशाटीनिवस्तानि हलं वाहयन्ति / अद्राक्षुस् ते कार्षिका बुद्धं भगवन्तं द्वात्रिंशन् महापुरुषलक्षणालंकृतं (fol. 146r1 = ग्ब्म् 6.960) द्योतितमूर्तिम् इति विस्तरः / भगवता तेषां धर्मो देशितः / यावन् मान्याश् चाभिवाद्याश् च संवृत्ताः /

अथ तद् बलीवर्दसहस्रं योक्त्राणि वरत्राणि च्छित्वा येन भगवांस् तेनोपसंक्रान्तम्* / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा संपरिवार्यावतस्थुः / भगवता तेषां त्रिभिः पदैर् धर्मो देशितो यावच् चातुर्महाराजिकेषु देवेषूपपन्नाः / यावद् दृष्टसत्याः स्वभवनं गताः /

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त एभिः पञ्चभिः कार्षिकशतैर् एभिश् च बलीवर्दैः कर्म कृतं यस्य कर्मणो विपाकेन कार्षिकाः संवृत्ता दरिद्रगृहेषूपपन्नाः / इमे च बलीवर्दाः संवृत्ताः / भगवान् आह / एभिर् एवं भिक्षवः कर्माणि कृतानीति विस्तरः /

एते काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजिताः / एभिस् तत्र कौसीद्येनाभिनामितम्* / तस्य कर्मणो विपाकेन कार्षिकाः संवृत्ताः / एभिश् च बलीवर्दैस् तत्रैव प्रव्रजितैः क्षुद्रानुक्षुद्रैः शिक्षापदैर् अनादरं कृतम्* / तस्य कर्मणो विपाकेन तिर्यक्षूपपन्नाः / यत् ते काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजितास् तस्य कर्मणो विपाकेन ममान्तिकात् सत्यदर्शनं कृतम् इति हि भिक्षवः एकान्तकृष्णानाम् इति विस्तरः /

अश्रौषीद् ओतलायनो ब्राह्मणः श्रमणो गौतमो ओतलाम् अनुप्राप्तः / ओतलायां विहरति ओतलीयके वनषण्ड इति /

ओतलायनसूत्रं विस्तरेण संयुक्तागमे मार्गवर्गनिपाते /{म्स् ग्ब्म् 960.6: संयुक्तकागमे मार्गवर्गनिपाते}

अथ ओतलायनस्य ब्राह्मणस्यैतद् अभवत्* / किं पुनर् अस्यानर्थं करिष्यामः / तेन च पूर्वं श्रुतं श्रमणो गौतमः सश्रावकं संघं भोजयित्वा प्रणिधानं करोति / स यच् चिन्तयति यत् प्रार्थयते तत् सर्वं प्रतिलभते इति / अथ ओतलायनो ब्राह्मणः उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवन् गौतम श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन / पूर्ववद् यावद् भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् मिथ्याप्रणिधानं चिन्तयितुम् आरब्धः / यावन्त इमे श्रमणाः शाक्यपुत्रीया मया भोजिताः सर्व एते मम बलीवर्दाः स्युर् इति / अथ भगवान् ओतलायनस्य ब्राह्मणस्य चेतसा चित्तम् आज्ञाय ओतलायनं ब्राह्मणम् इदम् अवोचत्* / अप्रतिरूपं ते ब्राह्मण चित्तम् उत्पादितम्* / नैतत् समृध्यति / तथा ह्य् एते सर्वे भिक्षवः क्षीणपुनर्भवाः / अन्यच् चित्तम् उत्पादयेत्य् उक्त्वा भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः / अथ भगवान् विहारं गतः पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः / निषद्य भगवान् भिक्षून् आमन्त्रयते स्म / ओतलायनेन भिक्षवो ब्राह्मणेन मिथ्याप्रणिधानसमुत्थं (msv i 20) पापकं चित्तम् उत्पादितम्* / युष्माभिर् (fol. 146v1 = ग्ब्म् 6.961) भुक्त्वा आर्षा गाथा वक्तव्या / मिथ्याप्रणिधानं न समर्द्धिष्यति /

अथ भगवांस् तस्या एव रात्रेर् अत्ययाद् ओतलां पिण्डाय प्राविक्षद् आयुष्मता आनन्देन पश्चाच्छ्रमणेन / तदा ओतलायां कचंगला नाम वृद्धा / सा उदकार्थिनी कूलम् अपसृता / भगवांस् तस्य विनयकालम् अवेक्ष्यायुष्मन्तम् आनन्दम् आमन्त्रयते / गच्छानन्द एतस्या वृद्धायाः कथय / भगवांस् तृषितः पानीयम् अनुप्रयच्छेति / एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य येन कचंगला वृद्धा तेनोपसंक्रान्तः / उपसंक्रम्य कचंगलां वृद्धाम् इदम् अवोचत्* / कचंगले भगवांस् तृषितः पानीयम् अनुप्रयच्छेति / सा कथयति / आर्य अहं स्वयम् एवानेष्यामीति / ततः कचंगला उदकघटं पूरयित्वा त्वरितत्वरिता येन भगवांस् तेनोपसंक्रान्ता / ददर्श कचंगला बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्योमप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* / कचंगलासहदर्शनाद् अस्याः पुत्रस्नेहम् उत्पन्नम्* / सा ऊर्ध्वबाहुः पुत्र पुत्रेति भगवन्तं परिष्वङ्क्तुम् आरब्धा / भिक्षवस् तां वारयन्ति / भगवान् आह / मा यूयं भिक्षवः एतां वृद्धां वारयत / तत् कस्य हेतोः /

पञ्च जन्मशतान्य् एषा मे माताभून् निरन्तरम्* / सा चेद् एषा निवारिता मम गात्रस्य श्लेषणात्* //

इदानीं रुधिरं ह्य् उष्णं कण्ठाद् एषा वमेत् क्षणात्* / कृतज्ञताम् अनुस्मृत्य दृष्ट्वेमां पुत्रलालसाम्* / कारुण्याद् गात्रसंश्लेषं प्रददाम्य् अनुकम्पया // इति //

भगवता तस्याः कण्ठाश्लेषो दत्तः / पुत्रस्नेहं विनोद्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय / ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चातुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा कचंगलया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* / सा दृष्टसत्या त्रिर् उदानम् उदानयति / इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा / पूर्ववद् यावत्* / अनाद्यकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* / गाथां च भाषते /

यत् कर्तव्यं सुपुत्रेण मातानुग्रहकारिणा / तत् कृतं भवता मे ऽद्य चित्तं मोक्षपरायणम्* //

दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षे च ते अहम्* / स्थापिता सुप्रयत्नेन साधु ते दुष्करं कृतम्* //

इत्य् उक्त्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता / अथ कचंगला अपरेण समयेन स्वामिनम् अनुज्ञाप्य येन भगवांस् तेनोपसंक्रान्ता / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा / एकान्तनिषण्णा कचंगला भगवन्तम् इदम् अवोचत्* / लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावं चरेयम् अहं भगवतो (fol. 147r1 = ग्ब्म् 6.962) ऽन्तिके ब्रह्मचर्यम् इति / भगवता महाप्रजापत्ये संन्यस्ता / ततस् तया प्रव्राजिता उपसंपादिता अववादो दत्तः / तया युज्यमानया घटमानया व्यायच्छमानया सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* / अर्हन्तिनी च बभूव / त्रैधातुकवीतरागा पूर्ववन् मान्या च संवृत्ता /

यदा भगवान् भिक्षुणीनां संक्षेपेणोद्दिश्य विहारं प्रविशति प्रतिसंलयनाय तदा तं कचंगला विस्तरेण व्याकरोति / तत्र भगवान् भिक्षून् आमन्त्रयते स्म / एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां सूत्रान्तविभागकर्त्रीणां यदुत कचंगला भिक्षुणी इति /

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त कचंगलायाः कर्म कृतं येन वृद्धा प्रव्रजिता / किं च कर्म कृतं येन दरिद्रा दासी च संवृत्ता भगवांश् च पश्चिमेन गर्भवासेन धारितः / प्रव्रज्यार्हत्वं च साक्षात्कृतम्* / भगवता च सूत्रान्तविभागकर्त्रीणाम् अग्रा निर्दिष्टेति / भगवान् आह / कचंगलयैव (msv i 23) भिक्षवो भिक्षुण्या कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /

भूतपूर्वं भिक्षवो बोधिसत्वचर्यायां वर्तमानस्य एषा मम माता बभूव / यदाहं प्रव्रजितुम् इच्छामि तदा माम् एव वारयति / तस्य कर्मणो विपाकेन वृद्धा प्रव्रजिता / दानं ददतो मे ऽनया दानान्तरायः कृतः / तेन दरिद्रा संवृत्ता / न चानया पुण्यमहेशाख्यसंवर्तनीयानि कर्माणि कृतानि यथा महामायया येनाहम् अनया पश्चिमे गर्भवासेन धारितः / काश्यपे च सम्यक्संबुद्धे प्रव्रजिता याः शैक्षाशैक्षा भिक्षुण्यो दासीवादेन समुदाचरिताः / तेन दासी संवृत्ता / यत् तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम् आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* / यस्याश् चोपाध्यायिकायाः सकाशे प्रव्रजिता सा भगवता काश्यपेन सम्यक्संबुद्धेन सूत्रान्तविभागकर्त्रीणाम् अग्रा निर्दिष्टा / तत्रानया मरणकालसमये प्रणिधानं कृतं यन् मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये यावद् आयुर् ब्रह्मचर्यं चरितं न च कश्चिद् गुणगणो ऽधिगतः / अनेन कुशलमूलेन यो ऽसौ भगवता काश्यपेनोत्तरो नाम माणवो व्याकृतो भविष्यति / त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हत् सम्यक्संबुद्ध इति / तस्याहं शासने प्रव्रजेयम्* / (msv i 24) यथैषा मे उपाध्यायिका भगवता काश्यपेन सम्यक्संबुद्धेन सूत्रान्तविभागकर्त्रीणाम् अग्रा निर्दिष्टा / (fol. 147v1 = ग्ब्म् 6.963) एवं माम् अप्य् असौ भगवान् शाक्यमुनिः सूत्रविभागकर्त्रीणाम् अग्रां निर्दिशेद् इति / तत् प्रणिधानवशाद् एतर्हि मया सूत्रान्तविभागकर्त्रीणाम् अग्रा निर्दिष्टा / इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः / पूर्ववद् यावत्* / आभोगः करणीयः / इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* /

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते / आगमयानन्द येन वैरंभ्यम् इति / एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* / अथ भगवान् संप्रस्थितो यावद् अन्यतमस्मिन्न् आरामे / ब्राह्मणः कूपात् पानीयम् उद्धरति / आरामं सेक्तुम् आरब्धः / अद्राक्षीत् स ब्राह्मणो भगवन्तं दूराद् एव / दृष्ट्वा च पुनः संलक्षयति / यदि श्रमणो गौतम आरामं प्रवेक्ष्यति / आरामाम् उदपानं स दूषयतीति / ततो रज्जुं तिप्यकं च गोपायित्वा स्थितः / अथ भगवान् ऋद्ध्यारामं प्रविष्टः / पांचिकेन च महायक्षसेनापतिना तद् उदपानं प्लावीकृतम्* / सर्वो ऽसाव् आराम उदकेन प्लावितः / ततो ऽसौ ब्राह्मणो महर्धिको ऽयं श्रमणो गौतमो महानुभाव इति विदित्वातिप्रसन्नः कथयति / (msv i 25) आगच्छतु भगवन् गौतम / इयं रज्जुर् इदं तिप्यकम्* / गृह्णातु पानीयं यथासुखम् इति /

अथ भगवांस् तस्यां वेलायां गाथां भाषते /

किं कुर्याद् उदपानेन आपश् चेत् सर्वतो यदि / छित्वेह मूलं तृष्णायाः कस्य पर्येषणां चरेत्* // इति //

अथासौ ब्राह्मणो भगवन्तम् इदम् अवोचत्* / लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं पूर्ववद् यावत्* / एहिभिक्षुकया प्रव्राजितः /

ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭīparītadehaḥ / sadyaḥ praśāntendriya eva tasthau naiva sthito buddhamanorathena // {ms: tasthur nepacchitā; cf. nepacchitā -> pravr-v iii, fol.47r6}

तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* / अर्हन् संवृत्तः / त्रैधातुकवीतरागः पूर्ववद् यावद् अभिवाद्यश् च संवृत्तः /

अथ भगवाञ् छूरसेनेषु जनपदेषु चारिकां चरन् वैरंभ्यम् अनुप्राप्तो वैरंभ्ये विहरति नडेरपिचुमन्दमूले / तेन खलु समयेन वैरंभ्येष्व् अग्निदत्तो नाम ब्राह्मणराजो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च / अश्रौषीद् अग्निदत्तो ब्राह्मणराजः श्रमणो गौतमः शूरसेनेषु जनपदेषु चारिकां चरन् वैरंभ्यम् अनुप्राप्तो वैरंभ्ये विहरति नडेरपिचुमन्दमूले (msv i 26) इति / श्रुत्वा च पुनर् अस्यैतद् अभवत्* / श्रमणो गौतमः सर्वसामन्तराजानां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हत्संमतः / सचेद् अहं श्रमनं गौतमं न सत्करिष्यामि प्रातिसीमानां कोट्टराजानां गर्ह्यो भविष्यामि / बालो वत भवन्तो ऽग्निदत्तो ब्राह्मणराजो यस्य ग्रामक्षेत्रम् उपनिश्रित्य श्रमणो गौतमो विहरति न च सत्करोति / (fol. 148r1 = ग्ब्म् 6.964) यन्व् अहं श्रमणं गौतमं सश्रावकसंघं सर्वोपकरणैः प्रवारयेयम् इति विदित्वा महत्या राजर्द्ध्या महता राजानुभावेन वैरंभ्यान् निष्क्रम्य येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः / एकान्तनिषण्णम् अग्निदत्तं ब्राह्मणराजं भगवान् धर्म्यया कथया संदर्शयति समादापयति पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* /

अथाग्निदत्तो ब्राह्मणराज उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान् गौतमस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन इति / अधिवासयति भगवान् अग्निदत्तस्य ब्राह्मणराजस्य तूष्णींभावेन / अथाग्निदत्तो ब्राह्मणराजो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्तः / तेन निवेशनं गत्वा अमात्यानाम् आज्ञा दत्ता / प्रतिदिवसम् अष्टादशप्रकारं खाद्यकं पचत नानासूपिकरसव्यंजनोपेतं च प्रभूतं भक्तम्* / वैरंभ्ये च घण्टावघोषणं कारितम्* / नान्येन श्रमणो गौतमस् त्रैमासीं भोजयितव्यः / यो भोजयति तस्य वधो दण्ड इति / स एवं घण्टावघोषणं कृत्वा (msv i 27) रात्रौ शयितः स्वप्नम् अद्राक्षीत्* / आत्मीयैर् अन्त्रैः {म्स् आत्मदीयैर् अन्त्रैः} सर्वं वैरंभ्यं नगरं वेष्टितम्* / दृष्ट्वा च पुनर् भीतः संतप्तः आहृष्टरोमकूपो लघु लघ्व् एव महार्हशयनाद् उत्थाय करे कपोलं दत्वा चिन्तापरो व्यवस्थितः / मा हैव मे अतोनिदानं राज्याच् च्युतिर् भविष्यति जीवितस्य वान्तराय इति / स प्रभातायां रजन्यां ब्राह्मणाय पुरोहिताय निवेदयामास / उपाध्याय मया ईदृशः स्वप्नो दृष्टः / कथम् अत्र प्रतिपत्तव्यम् इति / ब्राह्मणः पुरोहितः संलक्षयति / किं चापि देवेनाशोभनः स्वप्नो दृष्टः / यद्य् अहम् एनम् अनुसंवर्णयेयं भूयस्या मात्रया श्रमणो गौतमः प्रसादम् उत्पादयिष्यति / यन्व् अहम् एनं विवर्णयेयेअम् इति विदित्वा कथयति / देवेन शोभनः स्वप्नो न दृष्टः /

उपाध्याय किंविपाको ऽयं भविष्यति / नियतं देवस्य राज्यच्युतिर् भविष्यति जीवितस्य वान्तरायः / राजा संलक्षयति / अहो वत मे न राज्यच्युतिः स्याद् वा जीवितस्यान्तराय इति विदित्वा ब्राह्मणं पुरोहितम् इदम् अवोचत्* / उपाध्याय को ऽसाव् उपायः स्याद् येन मे न राज्यच्युतिर् भवेन् नापि जीवितस्यान्तराय इति / स कथयति / यदि देवस् त्रैमासीम् अदर्शनपथे तिष्ठति एवं देवस्य न राज्यच्युतिर् भवति नापि जीवितस्यान्तरायः / अग्निदत्तो ब्राह्मणराजः संलक्षयति / यद्य् एवं सुकरम्* / एवं कारयामि घण्टावघोषणम् इति / तेन सर्वविजिते घण्टावघोषणं कारितम्* / न (fol. 148v1 = ग्ब्म् 6.965) मम केनचित् त्रैमासीं दर्शनायोपसंक्रमितव्यम्* / य उपसंक्रामति तस्य वधो दण्ड इति / स घण्टावघोषणं कृत्वा (msv i 28) त्रैमासीम् अदर्शनपथे स्थितः / आयुष्मान् आनन्दः काल्यम् एवोत्थाय येनाग्निदत्तस्य ब्राह्मणराजस्य निवेशनं तेनोपसंक्रान्तः / यावत् पश्यत्य् अग्निदत्तस्य ब्राह्मणराजस्य पौरुषेया अल्पोत्सुकान् कृत्वा तिष्ठन्ति / दृष्ट्वा च पुनः कथयति / भवन्तः किम् अल्पोत्सुकास् तिष्ठथ / ते कथयन्ति / आर्य किं कुर्मः / न त्व् अग्निदत्तेन ब्राह्मणराजेन बुद्धप्रमुखो भिक्षुसंघस् त्रैमासीं सर्वोपकरणैः प्रवारितः / ते यूयम् अल्पोत्सुकास् तिष्ठथ नाहारं सज्जीकुरुथ नासनप्रज्ञप्तिम्* / किं बुद्धप्रमुखो भिक्षुसंघो भक्तच्छेदं करिष्यतीति / ते कथयन्ति / आर्यानन्द देवेनाज्ञा दत्ता / पंचानां शतानाम् आहारं सज्जीकुरुत प्रणीतं प्रभूतं चेति / न तूक्तम् अमुकस्यार्थायेति / भवन्तो गत्वा आरोचयत / आर्य देवेन घण्टावघोषणं कारितम्* /

न मम केनचिद् दर्शनायोपसंक्रमितव्यम्* / य उपसंक्रामति तस्य वधो दण्ड इति / तत् किम् अस्माकं शिरोद्वयम्* / न वयम् आरोचयाम इति / अथायुष्मान् आनन्दो येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य एतत् प्रकरणं भगवतो विस्तरेणारोचयति / तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते / गच्छानन्द संघाटीम् आदाय पश्चाच्छ्रमणं च वैरंभ्ये रथ्यावीथीचत्वरशृङ्गाटकेष्व् आरोचय / यो युष्माकं भवन्तः उत्सहते बुद्धप्रमुखं भिक्षुसंघं च त्रैमासीं भोजयितुं भोजयत्व् इति / एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य संघाटीम् आदाय पश्चाच्छ्रमणं च रथ्यावीथीचत्वरशृङ्गाटकेष्व् आरोचयति / यो युष्माकं भवन्तः उत्सहते बुद्धप्रमुखं भिक्षुसंघं त्रैमासीं भोजयितुं स भोजयत्व् इति / वैरंभ्या ब्राह्मणगृहपतयः (msv i 29) कथयन्ति / आर्यानन्द एकैको ऽस्माकम् उत्सहते त्रैमासीं भोजयितुम्* / अपि तु अनेन कलिराजेन घण्टावघोषणं कारितम्* / नान्येन केनचित् त्रैमासीम् उपनिमंत्र्य बुद्धप्रमुको भिक्षुसंघो भोजयितव्यम्* / यो भोजयति तस्य वधो दण्ड इति /

यावद् उत्तरापथात् सार्थवाहः पंचाश्वशतानि पण्यम् आदाय वैरंभ्यम् अनुप्राप्तः / स संलक्षयति / यद् इदानीं गमिष्यामि अश्वानां खुरः क्लेदम् आपत्स्यते / अपर्णा भविष्यन्ति / इहैव तिष्ठामीति / स तत्रैवावस्थितः / तेनाश्वाजानेयस्य द्वौ यवप्रस्थौ प्रज्ञप्तौ / अवशिष्टानाम् अश्वानाम् एकैकः / श्रुतं चानेन राज्ञा अयं चायं च क्रियाकारः कृतः / आयुष्मतानन्देन एवम् आरोचितम् इति / स संलक्षयति / नाहम् अस्य राज्ञो विषये निवासी / किं मम राजा (fol. 149r1 = ग्ब्म् 6.966) करिष्यति / इति विदित्वायुष्मन्तम् आनन्दम् इदम् अवोचत्* / आर्यानन्द मया अश्वाजानेयस्य द्वौ यवप्रस्थौ प्रज्ञप्तौ / अवशिष्टानाम् अश्वानाम् एकैकः / यदि भगवान् उत्सहते यवान् परिभोक्तुम् अहं भगवतः प्रस्थद्वयम् अनुप्रयच्छामि / अन्येषां च भिक्षूणाम् एकैकम् इति /

अथायुष्मान् आनन्दो येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य एतत् प्रकरणं भगवतो विस्तरेणारोचयति / अथ भगवत एतद् अभवत्* / मयैवैतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितानि / अवश्यंभावीनि मयैवैतानि कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति / न हि कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते / (msv i 30) नाब्धातौ / न तेजोधातौ / न वायुधाताव् अपि / पूर्ववद् यावत् फलन्ति खलु देहिनाम् इति /

आयुष्मन्तम् आनन्दम् आमन्त्रयते / गच्छानन्द भिक्षूणां शलाकां {दुत्त् थ्रोउघोउत् शिलाकां} चारय / यो युष्माकम् उत्सहते तथागतेन सार्धं वैरंभ्ये त्रैमासीं यवान् परिभोक्तुं स शलाकां गृह्णात्व् इति / एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य शलाकां चारयितुम् आरब्धः / यावद् भगवता शलाकां गृहीत्वा भिक्षुद्वयोनैश् च पांचभिर् भिक्षुशतैः / आयुष्मांस् तु शारिपुत्रः कथयति / भगवन्न् अहं वाय्वाबाधिको नोत्सहे त्रैमासीं यवान् परिभोक्तुम् इति / आयुष्मान् महामौद्गल्यायनः कथयति / अहम् अस्योपस्थायिक इति / ततो भगवान् भिक्षुद्वयौनैः पंचभिर् भिक्षुशतैः सार्धं वैरंभ्ये वर्षा उपगतः / आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ त्रिशङ्कुं पर्वतं गत्वा वर्षा उपगतौ / ततः शक्रेण देवेन्द्रेण दिव्यया सुधया प्रवारितौ / ततः सार्थवाहो भगवतो द्वौ यवप्रस्थाव् अनुप्रयच्छति / अन्येषां च भिक्षूणाम् एकैकम्* /

तत्र भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्* / गच्छानन्द तथागतस्यार्थाय यवान् परिकर्मयेति / एवं भदन्तेति आयुष्मान् आनन्दो भगवतः प्रत्यंशम् आदाय येनान्यतमा वृद्धा स्त्री तेनोपसंक्रान्तः / उपसंक्रम्य (msv i 31) तां स्त्रियम् इदम् अवोचत्* / भगिनि तथागतस्यार्थाय यवान् परिकर्मीकुरु / सा कथयति / आर्य अहं वृद्धा न शक्नोमि / अपि त्व् एषा तरुणिका दारिका / अस्या अनुप्रयच्छ / एषा परिकर्मयतीति / आयुष्मान् आनन्दस् तस्याः सकाशम् उपसंक्रान्तः / भगिनि शक्ष्यसि त्वं तथागतस्यार्थाय यवान् परिकर्मीकर्तुम् इति / सा कथयति / आर्य समयेनाहं परिकर्मयामि / यदि मे आलापम् अनुप्रच्छसीति / स कथयति / परिकर्मय दास्यामीति / सा परिकर्मयितुम् आरब्धा / पृच्छति च / आर्यक एष बुद्धो नाम इति / आयुष्मान् आनन्दः संलक्षयति / यद्य् अहम् अस्या बुद्धवर्णोदाहरणं करिष्ये (fol. 149v1 = ग्ब्म् 6.967) गम्भीरा बुद्धधर्माः स्थानम् एतद् विद्यते यद् असौ न विज्ञास्यतीति यन्व् अहम् अस्याश् चक्ररत्नवर्णोदाहरणम् उदाहरेयम् इति विदित्वा कथयति /

राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् सप्तानां रत्नानां लोके प्रादुर्भावो भवति / कतमेषां सप्तानाम्* / तद्यथा / चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्य सप्तमस्य /

राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्य चक्ररत्नस्य लोके प्रादुर्भावो भवति / इह भगिनि राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तद् एव पोषधे पंचदश्यां शिरःस्नातोपवासैर् अलंकृतस्य उपरि प्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं (msv i 32) शुभम् अकर्मारकृतं दिव्यं सर्वसौवर्णम्* / शुभं चानेन भवति / यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तद् एव पोषधे पंचदश्यां पूर्ववद् यावत् सर्वसौवर्णम्* / भवति स राजा चक्रवर्तीति / अद्धाहम् अस्मि राजा चक्रवर्तीति चक्ररत्नं मीमांसितुकाम उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य तच् चक्ररत्नम् उभाभ्यां पाणिभ्यां प्रतिगृह्य वामे पाणौ प्रतिष्ठाप्य दक्षिणेन पाणिना अनुवर्तयति / जयस्व भो चक्ररत्न येनार्यः पुराणश् चक्रवर्तिपथ इति /

अथ चक्ररत्नं राज्ञा चक्रवर्तिना अनुप्रवर्तितम् उपरिविहायसम् अभ्युद्गम्य पूर्वेण प्रायासीद्येनार्यः पुराणश् चक्रवर्तिपथः / अन्वेति राजा चक्रवर्ती तच् चक्ररत्नं सार्धं चतुरङ्गेण बलकायेन / यस्मिंश् च प्रदेशे तच् चक्ररत्नं प्रतितिष्ठति तत्र राजा चक्रवर्ती वासं कल्पयति सार्धं चतुरङ्गेण बलकायेन / ये खलु पूर्वस्यां दिशि कोट्टराजानस् ते येन राजा चक्रवर्ती तेनोपसंक्रामन्ति / उपसंक्रम्य राजानं चक्रवर्तिनम् एवं वदन्ति / एतु देवः / स्वागतं देवस्य / इमे देवस्य जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च तान् देवः समनुशास्तु / वयं देवस्यानुयात्रिका भविष्यामः / तेन हि यूयं ग्रामण्यः स्वकस्वकानि विजितानि समनुशासथ (msv i 33) धर्मेण माधर्मेण / मा च वः कस्यचिद् अधर्मचारिणो विपच्चारिणो राष्ट्रे वासो रोचताम्* / एतत् प्रकारम् आनुयात्रिका भविष्यथ / अथ तच् चक्ररत्नं पूर्वां दिशम् अभिनिर्जित्य पूर्ववन् महासमुद्रं प्रत्युत्तीर्य दक्षिणेन पश्चिमेनोत्तरेण प्रायासीद् येनार्यः पुराणश् चक्रवर्तिपथः / अथ चक्ररत्नं राज्ञा चक्रवर्तिनानुप्रवर्तितम् उपरि विहायसम् अभ्युद्गम्य उत्तरेणान्वावृतं येनार्यः पुराणश् चक्रवर्तिपथः / अन्वेति राजा चक्रवर्ती तच् चक्ररत्नं सार्धं चतुरङ्गेण बलकायेन (fol. 150r1 = ग्ब्म् 6.968) / यस्मिन् प्रदेशे तच् चक्ररत्नं प्रतितिष्ठति तत्र राजा चक्रवर्ती वासं कल्पयति सार्धं चतुरङ्गेण बलकायेन / ये खलूत्तरस्यां दिशि कोट्टराजानः ते येन राजा चक्रवर्ती तेनोपसंक्रामन्ति / उपसंक्रम्य राजानं चक्रवर्तिनम् एवं वदन्ति / एहि देव / स्वागतं देवस्य /

इमे देवस्य जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च / तान् देवः समनुशास्तु / वयं देवस्यानुयात्रिका भविष्यामः / तेन हि यूयं ग्रामण्यः स्वकस्वकानि विजितानि समनुशासथ धर्मेण माधर्मेण / मा च वः कस्यचिद् अधर्मचारिणो राष्ट्रे वासो रोचताम् इति / अथ चक्ररत्नम् उत्तरां दिशम् अभिनिर्जित्योत्तरमहासमुद्रं प्रत्युत्तीर्य ताम् एव राजधानीम् आगत्योपर्यस्याधिकरणस्योच्छ्रापितम् इवास्थात्* / राज्ञो भगिनि चक्रवर्तिनो (msv i 34) लोके प्रादुर्भावाद् अस्यैवंरूपस्य चक्ररत्नस्य लोके प्रादुर्भावो भवति /

राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्य हस्तिरत्नस्य लोके प्रादुर्भावो भवति / इह भगिनि राज्ञश् चक्रवर्तिनो हस्ती भवति सर्वश्वेतः कुमुदवर्णः सप्ताङ्गः सुप्रतिष्ठितो ऽभिरूपो दर्शनीयः प्रासादिकः / यं दृष्ट्वा राज्ञश् चक्रवर्तिनश् चित्तम् अभिप्रसीदति / भद्रकं वरहस्तिरत्नं सकृद् दमथम् (fol. 150v1 = ग्ब्म् 6.969) एष्यतीति / अथ राजा चक्रवर्ती संख्यातं हस्तिदमकं दूतेन प्रक्रोष्येदम् अवोचत्* / इदं त्वया सौम्य संख्यातं हस्तिरत्नं क्षिप्रम् एव सुदान्तं कृत्वास्माकम् उपनयितव्यम् इति / एवं देव इति संख्यातो हस्तिदमको राज्ञश् चक्रवर्तिनः प्रतिश्रुत्य हस्तिरत्नम् एकाह्ना सर्वचारणेभिर् उपसंक्रामति / तदेकाह्ना सर्वचारणेभिर् उपसंक्रम्यमानम् एकाह्ना सर्वचारणैः प्रतिगृह्णाति / तद्यथान्ये हस्तिनो ऽनेकवार्षिका अनेकवर्षगणदान्ताः सर्वचारणेभिर् उपसंक्रम्यमानं प्रतिगृह्णन्ति / एवम् एतद् धस्तिरत्नम् एकाह्ना सर्वचारणैः प्रतिगृह्णाति / दान्तं चैनं विदित्वा राज्ञश् चक्रवर्तिनः उपनामयति / दान्तं देव भद्रं हस्तिरत्नम्* / यस्येदानीं देवः कालं मन्यत इति / अथ राजा चक्रवर्ती तद् धस्तिरत्नं मीमांसितुकामः सूर्यस्याभ्युद्गमनकालसमये तद् धि हस्तिरत्नम् अभिरुह्येमाम् एव समुद्रपर्यन्तां महापृथिवीम् अन्वाहिण्ड्य ताम् एव राजधानीम् (msv i 35) आगत्य प्रातराशिकम् अकार्षीत्* / राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावाद् अस्यैवंरूपस्य हस्तिरत्नस्य प्रादुर्भावो भवति /

राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्याश्वरत्नस्य लोके प्रादुर्भावो भवति / इह भगिनि राज्ञश् चक्रवर्तिनः अश्वो भवति सर्वनीलः कृष्णशिरा मनोज्ञो जवनो ऽभिरूपो दर्शनीयः प्रासादिकः / यं दृष्ट्वा राज्ञश् चक्रवर्तिनश् चित्तम् अभिप्रसीदति / भद्रकं वताश्वरत्नं सकृद् दमथम् एष्यतीति / अथ राजा चक्रवर्ती संख्यातम् अश्वदमकं दूतेन प्रक्रोष्येदम् अवोचत्* / इदं त्वया सौम्य संख्यातम् अश्वरत्नं क्षिप्रम् एव सुदान्तं कृत्वास्माकम् उपनयितव्यम् इति / एवं देवेति संख्यातो ऽश्वदमको राज्ञश् चक्रवर्तिनः प्रतिश्रुत्य तद् अश्वरत्नम् एकाह्ना सर्वचारणैर् उपसंक्रामति / तदेकाह्ना सर्वचारणेभिर् उपसंक्रम्यमानम् एकाह्ना सर्वचारणैः प्रतिगृह्णाति / तद्यथान्ये अश्वा अनेकवार्षिका अनेकवर्षगणदान्ताः सर्वचारणेभिर् उपसंक्रम्यमानाः सर्वचारणैः प्रतिगृह्णन्ति / एवम् एव तद् अश्वरत्नम् एकाह्ना सर्वचारणेभिर् उपसंक्रम्यमानम् एकाह्ना सर्वचारणैः प्रतिगृह्णाति / दान्तं चैनं विदित्वा राज्ञश् चक्रवर्तिन उपनामयति / दान्तं देव भद्रम् अश्वरत्नं यस्येदानीं देवः कालं मन्यते / अथ राजा चक्रवर्ती अश्वरत्नं मीमांसितुकामः सूर्यस्याभ्युद्गमनकालसमये तद् अश्वरत्नम् अभिरुह्येमाम् एव समुद्रपर्यन्तां महापृथिवीम् अन्वाहिण्ड्य ताम् एव राजधानीम् आगत्य (msv i 36) प्रातराशम् अकार्षीत्* / राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावाद् अस्यैवंरूपस्याश्वरत्नस्य लोके प्रादुर्भावो भवति /

राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्य मणिरत्नस्य लोके प्रादुर्भावो भवति / इह भगिनि राज्ञश् चक्रवर्तिनो मणिर् भवति अष्टांशो वैडूर्यः शुभो जातिमानच्छो विप्रसन्नः अनाविलः / यावद् राज्ञश् चक्रवर्तिनो ऽन्तःपुरे दीपकृत्यं सर्वं तन्मणेर् आभया / अथ राजा चक्रवर्ती तन् मणिरत्नं मीमांसितुकामो ऽन्धकारतमिस्रायां रात्र्यां शनैर् मन्दं मन्दं देवे वृष्टायमाने विद्युत्सु निश्चरन्तीषु मणिरत्नं ध्वजाग्रे आरोप्योद्यानभूमिं निर्याति सार्धं चतुरङ्गेण बलकायेन / यावत् खलु राज्ञश् चक्रवर्तिनो चतुरङ्गो बलकायः सर्वः स्फुटो मणेर् आभया / अर्धयोजनं च सामन्तकेन / राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावाद् अस्यैवंरूपस्य मणिरत्नस्य लोके प्रादुर्भावो भवति /

राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्य स्त्रीरत्नस्य लोके प्रादुर्भावो भवति / इह भगिनि राज्ञश् चक्रवर्तिनः स्त्री भवति अभिरूपा दर्शनीया प्रासादिकी नातिगौरी नातिश्यामा मद्गुरुच्छविर् नातिदीर्घा नातिह्रस्वा सुप्रतिष्ठिता नातिकृशा नातिस्थूला नात्युत्सदमांसा तनुगात्री / तस्याः खलु भगिनि शीते उष्णसंस्पर्शानि गात्राणि उष्णे शीतसंस्पर्शानि गात्राणि कालिङ्गप्रावारमृदुसंस्पर्शानि / तस्याः खलु भगिनि सर्वरोमकूपेभ्यश् चन्दनगन्धो वाति मुखाच् च उत्पलगन्धः /

यावद् आयुष्मान् आनन्दः स्त्रीरत्नं विभजति तावत् तया दारिकया ते यावः परिकर्मिताः / सा पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धा (fol. 151r1 = ग्ब्म् 6.970) / आर्य अनेनाहं कुशलमूलेन राज्ञश् चक्रवर्तिनः स्त्रीरत्नं स्याम् इति / अथायुष्मान् आनन्दो यवान् परिकर्मितान् आदाय येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतो यवान् उपनामयति / जानकाः पृच्छका बुद्धा भगवन्तः / पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* / केनैते आनन्द यवाः परिकर्मिताः / अमुकया भदन्त ब्राह्मणदारिकया / किम् अभूत् ते आनन्द तया ब्राह्मणदारिकया सार्धम् अन्तराकथासमुदाहारः / तेन ह्य् आनन्द यावांस् ते ऽभूत् तया ब्राह्मणदारिकया सार्धम् अन्तराकथासमुदाहारस् तत् सर्वम् अस्माकं विस्तरेणारोचय / अथायुष्मान् आनन्दो यत् तस्याभूत् तया ब्राह्मणदारिकया सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं भगवतो विस्तरेणारोचयति / एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्* / कस्मात् त्वयानन्द तया दारिकया बुद्धवर्णोदाहरणं न कृतम्* / मम भदन्त एवं भवति / गम्भीरा बुद्धधर्माः स्थानम् एतद् विद्यते यद् असौ दारिका न विज्ञास्यतीति / मया तस्याश् चक्रवर्तिवर्णोदाहरणं कृतम्* / क्षीणस् त्वम् आनन्द / सचेत् त्वया तस्या बुद्धवर्णोदाहरणं कृतम् अभविष्यत् स्थानम् एतद् विद्यते यत् तु याम् अनुत्तरायां सम्यक्संबोधौ अवैवर्तिकं चित्तम् उत्पादितम् अभविष्यत्* / अपि त्व् आनन्द भविष्यत्य् असौ दारिका राज्ञश् चक्रवर्तिनः स्त्रीरत्नम्* / {म्स् (gbm 970.5f.) अद्द्स् भगवान् संलक्षयति / यः कश्चिद् आदीनवो भिक्षवः पटप्लोतिकं प्रावृत्यान्तर्गृहं गच्छति / तस्मान् न भिक्षुणा पटप्लोतिं प्रावृत्यान्तर्गृहं गन्तव्यम्* / गच्छति सातिसारो भवति /}

सामन्तकेन शब्दो विस्तृतः / अमुकया ब्राह्मणदारिकया भगवतो ऽर्थाय यवाः परिकर्मिताः / सा भगवता राज्ञश् चक्रवर्तिनः स्त्रीरत्नं व्याकृता / इति श्रुत्वा यैः पंचभिर् दारिकाशतैर् द्व्यूनैर् भिक्षुद्वयोनानां पंचानां भिक्षुशतानां यवाः परिकर्मिताः / ताभिर् अपि प्रणिधानं कृतम्* / वयम् अस्याः परिवाराः स्याम इति /

यावद् भगवान् यवान् परिभोक्तुम् आरब्धाः आयुष्मान् आनन्दो विक्लवः अश्रूणि प्रमोक्तुम् आरब्धः / भगवता तेषु जन्मपरिवर्तेषु करचरणशिरश्छेदादीनि दानानि दत्वा त्रिभिः कल्पासंख्येयैः सर्वज्ञत्वम् अवाप्य इदानीं कोटरयवान् भक्षयतीति / तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते / कस्मात् त्वम् आनन्द विक्लवः अश्रूणि प्रमुंचसि / भगवान् भदन्त चक्रवर्तिकुले जातो राज्यम् अपहाय प्रव्रजितः करचरणशिरादीनि दानानि दत्वा त्रिभिः कल्पासंख्येयैः सर्वज्ञत्वम् अवाप्य इदानीं कोटरयवान् भक्षयतीति / भगवान् आह / आकांक्षसि त्वम् आनन्द तथागतस्य दंष्ट्रान्तरविनिर्गतान् यवान् परिभोक्तुम्* / आकांक्षामि भगवन्* / ततो भगवता आयुष्मत आनन्दाय दंष्ट्रान्तरविनिर्गतानां (fol. 151v1 = ग्ब्म् 6.971) यवानाम् एको दत्तः / तथा ह्य् आनन्द तथागतस्य (msv i 39) रसाग्रगतानां रसहरणी सुपरिशुद्धा / यदि तथागतः प्राकृतम् अप्य् आहारं परिभुंक्ते तद् अपि तथागतस्यान्नशतरसं संपरिवर्तते /

तैः सामन्तकैः शब्दो विस्तृतः / अग्निदत्तो ब्राह्मणराजो बुद्धप्रमुखं भिक्षुसंघम् उपनिमंत्र्यादर्शनपथे स्थितो भगवान् वैरंभ्ये यवान् परिभुंक्ते इति / सामन्तराजैर् अपि श्रुतं तैर् अग्निदत्तस्य ब्राह्मणराजस्य दूतसंप्रेषणं कृतम्* / ते प्रवेशं न लभन्ते द्वारि स्थिताः / अनाथपिण्डदेन गृहपतिना श्रुतं तेन पंचमात्राणि शकटशतानि पर्णोपगूठस्य शालेः प्रेषितानि / अथ मारस्य पापीयस एतद् अभवत्* / बहुशो मया श्रमणो गौतमो विहेठितो न कदाचिद् अवतारो लब्धः / अत्रापि तावद् अस्य प्रहरामि इति विदित्वा आयुष्मन्तम् आनन्दम् आत्मानं विनिर्माय तेषां पंचानां शकटशतानां पुरतः स्थित्वा कथयति / भवन्तः कुत्र गम्यते / ते कथयन्ति / आर्य आनन्द अग्निदत्तो ब्राह्मणराजो भगवन्तं सश्रावकसंघम् उपनिमंत्र्यादर्शनपथे स्थितो भगवान् वैरंभ्ये यवान् परिभुंक्ते इति / अनाथपिण्डदेन गृहपतिना श्रुत्वैतानि पर्णोपगूठस्य शालेर् भगवतो ऽर्थाय पंच शकटशतानि प्रेषितानि इति / स कथयति / भवन्तो देवो अभिप्रसन्ना नागा यक्षाः / यदि भगवान् आकाशे पात्रं प्रसारयति तद् अपि देवास् त्रयस्त्रिंशा दिव्यायाः सुधायाः पूरयन्ति / किमर्थं भगवान् यवान् परिभुंक्ते / निवर्तयथ (msv i 40) इति / ते कथयन्ति / आर्यानन्द संप्रस्थिता वयं किम् इदानीं निवर्तामः / गच्छाम इति / मारः संलक्षयति / न शक्यम् एते निवर्तयितुम्* / उपायसंविधानं कर्तव्यम् इति / स उपरिविहायसम् अभ्युद्गम्य अक्षमात्राभिर् वारिधाराभिर् वर्षितुम् आरब्धः / तेन तावद् दृष्टं यावत् तानि शकटानि नाभिं यावन् निमग्नानि / ततस् ते शाकटिका बलीवर्दान् मुक्त्वा प्रक्रान्ता इति / तत्र भगवता वैरंभ्ये यवाः परिभुक्ताः सार्धं द्वयोनैः पंचभिर् भिक्षुशतैः / आयुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्यां त्रिशंकुके पर्वते वर्षोपगताभ्यां दिव्या सुधा परिभुक्ता /

ततस् तेन सार्थवाहेन त्रैमासस्यात्ययाद् भगवान् सश्रावकसंघो भक्तेनोपनिमंत्रितः / अधिवासितं च भगवता तूष्णींभावेन / स सार्थवाहस् ताम् एव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय पूर्ववद् यावद् भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः / अनेनाहं कुशलमूलेन राजा भवेयं चक्रवर्ती अश्वाजानेयः पुत्रो युवराजस् तान्य् अपि पंचाश्वशतानि पंच पुत्रशतानि / (fol. 152r1 = ग्ब्म् 6.972) या सा दारिका भगवता स्त्रीरत्नं यानि पंच दारिकाशतानि तस्याः परिचारिका इति / ततो भगवांस् तस्य सार्थवाहस्य चेतसा चित्तम् आज्ञाय तं सार्थवाहम् इदम् अवोचत्* / भविष्यसि त्वं सार्थवाह राजा चक्रवर्ती अश्वाजानेयस् ते पुत्रो युवराजस् तान्य् अपि पंचाश्वशतानि पंच पुत्रशतानि / सा दारिका (msv i 41) स्त्रीरत्नम्* / तान्य् अपि द्व्यूनानि पंच दारिकाशतानि तस्याः परिचारिका इति /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.