Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
अवदानशतक
- Thông tin
- GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
# # kāni karmāṇi kṛtāni yena nāgeṣūpapannaḥ? aprahīṇatvāt kleśānām udbhrāntatvād indriyāṇām aparyantīkṛtatvāt karmapathānāṃ śaikṣāśaikṣabhikṣuṣu cittaṃ pradūṣya āśīviṣavādena samudācaritāḥ, tena nāgeṣūpapannaḥ | yat tena dānapradānāni dattāni, brahmacaryavāsaḥ paripālitaḥ, tenedānīm arhatvaṃ sākṣātkṛtam*, araṇāvihāriṇāṃ cāgro nirdiṣṭaḥ | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_92 स्थविरः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता, न प्रसूयते । यावद् भूयस् तयैव सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । स प्रथमगर्भो यथावस्थितः एव मातुर् उदरे । यावत् तस्याः क्रमशो दश
-------------------- वैद्य, प्. 234 --------------------
पुत्रा जाताः । स प्रथमगर्भो मातुर् उदरस्थ एव । यावद् असौ गृहपतिपत्नी ग्लान्यपतिता । सा उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्येन । न चासौ व्याधिर् उपशमं गच्छति । यदा चास्या मरणान्तिकी वेदना प्रादुर्भूता नचिरेण कालं करिष्यतीति, तदा तया स्वामी उक्तः: यत् खल्व् आर्यपुत्र जानीयाः ममात्र प्रथमगर्भो ऽवतिष्ठते । यदाहं मृता भवामि, तदा दक्षिणपार्श्वं शस्त्रेण घातयित्वा ततः प्रथमस्थितं दारकम् उद्धरेथाः । इत्य् उक्त्वा:
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्* ॥ अव्श्_92.1 ॥
इत्य् उक्त्वा कालधर्मेण संयुक्ता ॥
तस्याः कालगताया नीलपीतलोहितावदातैर् वस्त्रैः शिबिकाम् (स्पेयेर्: शिविकाम्) अलंकृत्य शीतवनं श्मशानं नीत्वा जीवको (स्पेयेर्: जीविको) वैद्यराज आहूतः । एष च शब्दो राजगृहे नगरे समन्ततो विसृतः: एवम् अमुकस्त्रिया इयन्ति वर्षाणि गर्भः स्थितः, तस्याश् चान्ये दश पुत्रा जाताः, न चासौ प्रथमतरम् अवस्थितो गर्भो निर्गतः । अद्य जीवको वैद्यराजः शस्त्रेण मृताया उदरं घातयित्वा तं प्रथमस्थितं दारकम् उद्धरिष्यतीति । तं शब्दं श्रुत्वा कुतूहलाद् बहूनि प्राणिशतसहस्राणि शीतवनश्मशाने संनिपतितानि । पूरणप्रभृतयश् च षट्* शास्तृप्रतिज्ञाः । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द, भिक्षूणां कथय, भगवान् श्मशानचारिकां गन्तुकामः, यो ऽद्भुतानि द्रष्टुकामः, स आगच्छत्व् इति । यावद् भगवान् आज्ञातकौण्डिन्यबाष्पमहानामानिरुद्धशारिपुत्रमौद्गल्यायनकाश्यपानन्दरेवतप्रभृतिभिर् महाश्रावकैः परिवृतः शीतवनश्मशानं गतः । जनकायेन च भगवन्तं दृष्ट्वा विवरं कृतम्* । तत्र जीवकेन तस्याः स्त्रिया दक्षिणः कुक्षिः पाटितः । ततः स्वयम् एव निर्गतो वलिपलितचिताङ्गः परिजीर्णशरीरावयवः: परिणतेन्द्रियः कृशो ऽल्पस्थामः । निर्गतमात्रश् च तं जनकायम् अवलोक्य वाचं निश्चारयति स्म: मा भवन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु खरां वाचं निश्चारयत । मा हैवंविधाम् अवस्थाम् अनुभविष्यथ, यद् अहम् आमाशयपक्वाशययोर् मध्ये षष्टि वर्षाण्य् उषितः । इत्य् उक्त्वा तूष्णीम् अवस्थितः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यः, तृप्यत सर्वभवोपपत्त्युपकरणेभ्यः, यत्र नाम चरमभविकस्य सत्वस्येयम् अवस्था । तत्र भगवांस् तं दारकम् आमन्त्रयते: स्थविरको ऽसि दारकः? स्थविरको ऽहं भगवन्* । स्थविरको ऽसि दारक? स्थविरको ऽस्मि सुगत । स्थविरक इति संज्ञा जाता । ततो भगवता तदधिष्ठाना तथाविधा धर्मदेशना कृता, यां श्रुत्वा संविग्नैर् बहुभिः सत्वशतैर् महान् विशेषो ऽधिगतः ॥
स च दशवर्षाणि गृहागारम् अध्यास्य सप्ततिवर्षो भगवच्छासने प्रव्रजितः । गृध्रकूटे पर्वते पञ्चविंशत्या भिक्षुभिः सार्धं वर्षा उपगतः । तत्र संघस्थविरेण क्रियाकारं कारितः: न केनचित् पृथग्जनेन प्रवारयितव्यम् इति । त्रयाणां मासानाम् अत्ययाच् चतुर्विंशत्या भिक्षुभिर् अर्हत्वं प्राप्तम्* । स्थविर एकः पृथग्जन एव । ततः संघस्थविरेण प्रवारणायां वर्तमानायां सुबहु परिभाष्य गणमध्यान् निष्कासितः । स शस्त्रम् आदाय कुटिं प्रविश्य रुदन् बहुविधं परिदेवते । आह च:
-------------------- वैद्य, प्. 235 --------------------
आदीप्तं काननं सर्वं पर्वता पि पलीकृता । अथेदं पापकं चित्तम् अद्यापि न विमुच्यते ॥ अव्श्_92.2 ॥
शान्ता गिरिनदीशब्दाः परीत्तसलिलोदकाः । अथेदं पापकं चित्तम् अद्यापि न विमुच्यते ॥ अव्श्_92.3 ॥
एते ह्य् अण्डजाः पक्षिणो विरता मन्दघोषकाः । अथेदं पापकं चित्तम् अद्यापि न विमुच्यते ॥ अव्श्_92.4 ॥
पाण्डुपत्रं वनं ह्य् एतच्छीऋनपत्रो वनस्पतिः । अथेदं पापकं चित्तम् अद्यापि न विमुच्यते ॥ अव्श्_92.5 ॥
शस्त्रम् आराधयिष्यामि को न्व् अर्थो जीवितेन मे । कथं पृथग्जनो भूत्वा शास्तारम् उपसंक्रमे ॥ अव्श्_92.6 ॥ इति
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणाम् शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः, को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम् *{कस्यावरोपितानि परिपाचयेयम्}*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_92.7 ॥
यावद् भगवता समन्वाहृत्या चोपसंक्रम्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा स्थविरकेण इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
-------------------- वैद्य, प्. 236 --------------------
ततः स्थविरो ऽर्हत्वप्राप्तः समन्वाहर्तुं प्रवृत्तः: ममापि कश्चिद् विनेय इति । पश्यति पञ्चमात्राणि वणिक्शतानि कालिकावातवित्रासितानि अपायाद् व्यसनाभिमुखानि, मया तस्माद् भयात् परित्रातव्यानीति । तेन मम विनेया भविष्यन्तीति । ततः स्थविरेण ऋद्ध्या गत्वा तस्माद् भयात् परित्राताः । ततः प्रसादजाताः सर्व एव प्रव्रजिताः, मनसिकारश् चैष दत्तः । तैः सर्वैर् एव युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । तेषां च गुणेषु न कश्चित् प्रत्यक्षः । षड्वर्गिका अवध्यायितुं प्रवृत्ताः: महल्लेन भूत्वा पञ्च सार्धविहारिणां (स्पेयेर्: सार्धंविहारिणां) शतानि उपस्थापितानि । एते ऽप्य् एवम् एव विनीता भविष्यन्तीति ॥
तत आयुष्मान् आनन्दः सब्रह्मचारिवत्सलः परानुग्रहप्रवृत्त आयुष्मन्तं स्थविरकनामान् उद्भावयितुकामो येनायुष्मान् स्थविरनामा तेनोपसंक्रान्तः । उपसंक्रम्य आयुष्मता स्थविरेण स्थविरनाम्ना भिक्षुणा सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः । एकान्ते निषण्ण आयुष्मान् आनन्दः स्थविरं स्थविरकनामन् इदम् अवोचत्*: पृच्छेम वयम् आयुष्मन्तं स्थविरं स्थविरकनामानं कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणाय । आयुष्मन्न् आनन्द, श्रुत्वा ते वेदयिष्ये । अरण्यगतेनायुष्मन् स्थविर भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? आह: अरण्यगतेन आयुष्मन्न् आनन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथः (स्पेयेर्: शमथ) स्थविर आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आयुष्मन्न् आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितम् आयुष्मन्न् आनन्द श्रुतवतः आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र स्थविर कतमे धातवः? यश् चायुष्मन्न् आनन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु स्थविर प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? सर्वसंस्काराणाम् आयुष्मन्न् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते ।
सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते । अथायुष्मान् आनन्दः स्थविरस्य स्थविरकनाम्नो भिक्षोर् भाषितम् अभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रान्तः । उपसंक्रम्य पञ्च भिक्षुशतानीदम् अवोचत्*: अरण्यगतेनायुष्मन्तो भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? अरण्यगतेन आयुष्मन्न् आनन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथ आयुष्मन्त आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आयुष्मन्न् आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितम् आयुष्मन्न् आनन्द श्रुतवतः
-------------------- वैद्य, प्. 237 --------------------
आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र आयुष्मन्तः कतमे धातवः? यश् चायुष्मन्न् आनन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु आयुष्मन्तः प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? सर्वसंस्काराणाम् आयुष्मन्न् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते । सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते ॥
आयुष्मान् आनन्दः पञ्चानां भिक्षुशतानां भाषितम् अभिनन्द्यानुमोद्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: अरण्यगतेन भदन्त भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? अरण्यगतेनानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथो भदन्त आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र भदन्त कतमे धातवः? यश् चानन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु भदन्त प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? भगवान् आह: सर्वसंस्काराणाम् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते । सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते । आश्चर्यं भदन्त, यावच् छास्तुः श्रावकाणां च अर्थेनार्थः, पदेन पदम्*, व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति यदुताग्रपदैः । तत् कस्य हेतोः? इहाहं भदन्त येन स्थविरः स्थविरकनामा भिक्षुस् तेनोपसंक्रान्तः । उपसंक्रम्य स्थविरं स्थविरकनामानं भिक्षुम् एतम्
एवार्थम् एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टवान्* । तेन मम एष एवार्थ एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टेन व्याकृतः, तद्यथैतर्हि भगवता । सो ऽहम् आयुष्मतः स्थविरस्य स्थविरनाम्नो भिक्षोर् भाषितम् अभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रान्तः । उपसंक्रम्य पञ्च भिक्षुशतान्य् एतम् एवार्थम् एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टवान्* । तैर् अपि मम एष एवार्थ एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टैर् व्याकृतः, तद्यथैतर्हि भगवता । तद् इदं भदन्त आश्चर्यं यावच् छास्तुः श्रावकाणां च अर्थेनार्थः, पदेन पदम्*, व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति यदुताग्रपदैः ॥
कं पुनस् त्वम् आनन्द स्थविरकं भिक्षुं संजानीयाः? स्थविरको भदन्त भिक्षुर् अर्हन् क्षीणाश्रवः कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः । तान्य् अपि भिक्षुशतानि सर्वाण्य् अर्हन्ति क्षीणास्रवाणि कृतकृत्यानि कृतकरणीयान्य् अपहृतभाराण्य् अनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तानि ॥
-------------------- वैद्य, प्. 238 --------------------
यदा भगवता आयुष्मतानन्देन स्थविरकस् ते च भिक्षव उद्भाविताः प्रकाशिताश् च, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त स्थविरकेण कर्माणि कृतान्य् उपचितानि, येन षष्टि वर्षाणि मातुः कुक्षाव् उषितः, कानि कर्माणि कृतानि येन धन्धः संवृत्तः परमधन्धः, प्रव्रज्य चार्हत्वं साक्षात्कृतम्*? भगवान् आह: स्थविरकेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । स्थविरकेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_92.8 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रान्यतरः श्रेष्ठीपुत्रः स्थविरसकाशे प्रवजितः । स च स्थविरो ऽर्हन्, स रागविप्रहीणः । यावत् तत्र देशे पर्व प्रत्युपस्थितम्* । ततस् तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । स्थविर आह: वत्स अद्यापि प्रग् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । द्विर् अपि त्रिर् अपि तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । द्विर् अपि त्रिर् अपि स्थविर आह: वत्स, अद्यापि प्रग् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । ततस् तेन तरुणभिक्षुणा आहारगृद्ध्रेण (स्पेयेर्: आहारगृध्रेण) खरं वाक्कर्म निश्चारितम्* । # # # # # # ॥ # # # {मा स्वपिहि गृहे षष्टि वर्षसहस्राणि}, तस्य कर्मणो विपाकेन षष्टि वर्षसहस्राणि मातुः कुक्षाव् उषितः । यद् अभूद् धर्ममात्सर्यं तेन दुःप्रज्ञः, कृच्छ्रेणेन्द्रियाणि परिपाचितानि । यद् अनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । तस्मात् तर्हि भिक्षवो वाग्दुश्चरितप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भविष्यन्ति, ये स्थविरकस्य पृथग्जनभूतस्य । एष एव गुणगणो भविष्यति यस् तस्यैवार्हत्वं प्राप्तस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 239 --------------------
अव्श्_93 हस्तकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः प्रकृतिजातिस्मरश् च । स स्वकं हस्तं गृहीत्वा आलिङ्गते चुम्बति परिष्वजति, वाचं भाषते: अहो बत मे हस्तकौ सुचिरेण लब्धौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एव हस्ताव् आलिङ्गते चुम्बति, तस्माद् भवतु दारकस्य हस्तक इति नामेति । हस्तको दारक अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा तत्र देशे किंचिद् भवति भयम्*, तदा स जनकायो भीत इतश् चामुतश् चोद्भ्रान्तो भाण्डं गोपायति । स तु हस्तौ गोपायति, जनकायस्य चैवं कथयति: मा भवन्तो दक्षिणीयेषु चित्तं प्रदूषयत, मा परुषां वाचं भाषयध्वम्*, अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति ॥
यावद् अपरेण समयेन हस्तको जेतवनं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा हस्तकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो
-------------------- वैद्य, प्. 240 --------------------
भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽप्य् एवम् एव भिक्षूणां धर्मं देशयति: मा भवन्तो दक्षिणीयेषु चित्तं प्रदूषयत, मा खरां वाचं निश्चारयत । अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त हस्तकेन कर्माणि कृतान्य् उपचितानि येनार्हत्वप्राप्तो ऽप्य् एवम् एव कथयति: अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति । भगवान् आह: प्रत्यक्षकर्मफलदर्शी भिक्षवो ऽयं पुद्गलः । इच्छथ यूयम् अवधारयितुम्*? एवं भदन्त । हस्तकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । हस्तकेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_93.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावत् तत्र द्वौ भिक्षू संशीलिकौ । तत्रैको बहुश्रुतो ऽर्हन्*, द्वितीयो ऽल्पश्रुतः पृथग्जनश् च । तत्र यो ऽसाव् अर्हन्* बहुश्रुतः, स ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां बहूनि च निमन्त्रणकानि प्रतिलभते । स तं संशीलिकभिक्षुं यत्र निमन्त्रितो भवति, तत्र पश्चाच्छ्रमणं नयति । यावद् अन्यतमस्मिन् दिवसे ऽर्हन् निमन्त्रितः । निमन्त्रणकं गन्तुकामस् तं पश्चाच्छ्रमणम् आगच्छति, न च प्रतिलभते । ततस् तेन तस्यादर्शनाद् अन्यो भिक्षुर् नीतः । यावत् तत्र तरुणभिक्षुभिर् औद्धत्याभिप्रायैर् एवम् उक्तम्*: पश्यत भदन्ता यावत् तेनायं पश्चाच्छ्रमणो ऽद्य न नीतो ऽन्यो नीत इति । ततस् तेन क्रोधाभिभूतेनार्हतो ऽन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितम्* । # # # # # # # # # # # # तेन पञ्च जन्मशतान्य् अहस्तो जातः । यदा आशयतो विप्रतिसारजातेन अत्ययम् अत्ययतो देशितं विवृतम् उत्तानीकृतम्*, तेन हस्तौ प्रतिलब्धौ । यत् पुनस् तेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम्
-------------------- वैद्य, प्. 241 --------------------
आयतनकौशलं प्रतीत्यसमुत्पादकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_94 लेकुञ्चिकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो ब्रह्मण आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो दुर्वर्णो दुर्दर्शनो ऽवहोडिमकः । जातमात्रस्य चास्य मातुः स्तनाभ्यां क्षीरम् अन्तर्हितम्* । यावत् तेन ब्राह्मणेन तस्यान्या धात्री आनीता । तस्या अपि क्षीरम् अन्तर्हितम्* । तस्य दारिकस्य कर्मविपाकतः । यदास्य क्षीरसंभवः सर्वैर् अप्य् उपायैर् न संभवति, तदासौ लेहेनोद्भृतः (स्पेयेर्: लेहेनोद्धृतः) । तस्य लेकुञ्चिक इति नामधेयं कृतम्* । सो ऽल्पेशाख्यो ऽल्पपुण्यश् च ॥
यदा महान् संवृत्तस् तदा उदरपूरणम् अपि नासादयति । पश्यति च भिक्षून् सुनिवसितान् सुप्रावृतान् भ्रमरसदृशानि पात्राणि गृहीत्वा श्रावस्तीं पिण्डाय प्रविशतः । तांश् च पूर्णहस्तान् पूर्णपात्रान् प्रतिनिष्क्रामतः । तस्य दृष्ट्वा भगवच्छासने प्रव्रज्याभिलाष उत्पन्नः । स मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितो ऽप्य् उदरपूरणं नासादयति । तेन तेनैव संवेगेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
-------------------- वैद्य, प्. 242 --------------------
यावद् असाव् अपरेण समयेन भगवतो गन्धकुटीं संमार्जितुं प्रवृत्तः । स तां संमृज्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* । ततस् तेन प्रभूतः प्रणीतश् च पिण्डपात आसादितः, येनास्य संतर्पितानीन्द्रियाणि महाभूतानि । ततस् तेन संतर्पितेन्द्रियेण कृत्स्ना रात्रिर् ध्यानविमोक्षसमापत्तिभिर् अतिनामिता । ततो ऽस्य बुद्धिर् उत्पन्ना: शोभनो ऽयम् उपायो यन्व् अहं भिक्षुसंघं विज्ञापयेयम् इति । तेन सर्व एव भिक्षुसंघो विज्ञापितः: अहं भदन्त अल्पपुण्यो यदा गन्धकुटीं संमृज्य पिण्डपातं प्रविशामि, तदा तृप्तिं लभे । तन् मे संघः कारुण्यं करोतु, नान्येन भगवतो गन्धकुटी संम्राष्टव्येति । ततः संघेन क्रियाकारः कृतः: न केनचिद् भगवतो गन्धकुटी संम्राष्टव्येति । स विस्रब्धो गन्धकुटीं संमृज्य पश्चाच् छ्रावस्तीं पिण्डाय प्रविशति ॥
तस्मिंश् च समये आयुष्माञ् छारद्वतीपुत्रः पञ्चशतपरिवारो जनपदे वर्षोषितः श्रावस्त्याम् अभ्यागतः । ततः शास्तुर् गौरवजातो गन्धकुटीं संमार्ष्टुम् आरब्धः । स आयुष्मता लेकुञ्चिकेन लक्षितः । तेनोच्यते: स्थविर उदरे मम प्रहारो दत्तः, यत् ते गन्धकुटी संमृष्टेति । स्थविरः प्राह: कथम् इति? लेकुञ्चिकः कथयति: स्थविर, यदाहं गन्धकुटीं न संमार्जितवांस् तदा पिण्डपातं नासादयामीति । ततः स्थविरशारिपुत्रेणोक्तम्: यद्य् एवम् अहम् अन्यत्र निमन्त्रितः । अल्पोत्सुकस् त्वं भव । अहं तत्र तुभ्यं पिण्डपातं दास्यामीति । ततः स्थविरशारिपुत्रः पञ्चशतपरिवारो निमन्त्रणकं प्रस्थितः । लेकुञ्चिको ऽपि तेनैव सार्धं संप्रस्थितः । यदा गृहपतेर् गृहसमीपं गतस् तदा लेकुञ्चिकस्य कर्मविपाकेन तस्मिन् गृहे महान् कलहः समुत्पन्नः । तत आयुष्मतो लेकुञ्चिकस्यैतद् अभवत्: ममाल्पपुण्यतया तत्र कलहो जात इति । ततः प्रतिनिवृत्य विहारं गत्वा भक्तच्छेदम् अकरोत्* । ततो द्वितीये दिवसे स्थविरशारिपुत्रेणोच्यते: किमर्थं त्वं न गत इति । तेनोक्तम्*: स्थविरेण नावगतम्*: ममाल्पपुण्यतया यादृशस् तत्र कलहो जात इति । ततः स्थविरशारिपुत्रेणान्यत्र दिवसे तं पुरस्कृत्य तद् गृहं प्रवेशितः । संघमध्ये चोपविष्टस्य सतः प्रदक्षिणश् चाहारो दीयते । तत्र परिवेषकजनो विस्मरति । तेन संघमध्ये द्वितीयो भक्तच्छेदः कृतः ॥
यावद् इयं प्रवृत्तिः स्थविरानन्देन श्रुता । श्रुत्वा च लेकुञ्चिकम् उवाच: तेन हि त्वम् इहैव जेतवने तिष्ठ, अहं ते पिण्डपातम् आनेष्यामीति । स्थविरानन्दस्यैवंविधा स्मृतिः । यदा भगवतो ऽन्तिकाद् अशीतिर् धर्मस्कन्धसहस्राण्य् उद्गृहीतानि # # # । लेकुञ्चिकस्य च कर्मावरणेन स्थविरानन्देन विस्मृतम्* । तत्रानेन तृतीयो भक्तच्छेदः कृतः । चतुर्थे दिवसे स्थविरानन्देनास्थां कृत्वा पिण्डपातो दत्तः । सो ऽपि निर्गच्छतः श्वभिर् अपहृतः । तत्रानेन चतुर्थो भक्तच्छेदः कृतः ॥
-------------------- वैद्य, प्. 243 --------------------
पञ्चमे दिवसे स्थविरमौद्गल्यायनेन श्रुत्वा लेकुञ्चिकस्याथाय पिण्डपातं गृहीत्वा ऋद्ध्या संप्रस्थितम्* । लेकुञ्चिकस्य कर्मविपाकेन सुपर्णिना पक्षिराजेन पक्षैः पराहत्य महासमुद्रे पातितः । तत्रानेन पञ्चमो भतच्छेदः कृतः ॥
षष्ठे दिवसे शारिपुत्रेण श्रुतम्* । तस्यैतद् अभवत्*: यन्व् अहं लेकुञ्चिकस्य पिण्डपातं ###################### लेकुञ्चिकस्य कुटिकाद्वारे ऽवस्थितः । ततो लेकुञ्चिकस्य कर्मविपाकेन तद् अपि द्वारं शिलाभिर् आवृतम्* । ततः शारिपुत्रेण ऋद्ध्या मोक्ष्यामीति तत् पात्रं पृथिव्यां स्थापितम्* । तद् अपि लेकुञ्चिकस्य कर्मविपाकेन । अथाशीतिषु योजनसहस्रेषु काञ्चनमय्यां पृथिव्याम् अवस्थितम्* । ततो ऽपि स्थविरशारिपुत्रेण ऋद्ध्या समुद्धृत्य तत् पिण्डकं मुखद्वारश्लेषिते पिण्डपाते तस्य कर्मावरणेन तन् मुखम् एकधनं संवृत्तम्* । तत आयुष्माञ् छारिपुत्रो लेकुञ्चिकस्याभव्यतां ज्ञात्वा संविग्नः । तेन च भदन्तेन षड् भक्तच्छेदाः कृताः ॥
ततः सप्तमे दिवसे आयुष्माल् लेकुञ्चिकः सत्वानाम् उद्वेजनार्थं कर्मणां चाविप्रणशसंदर्शनार्थं कर्मबलोद्भावनार्थं च भस्मना पात्रं पूरयित्वा बुद्धप्रमुखस्य भिक्षुसंघस्य पुरस्तान् निषद्य उदकेनालोड्य पीत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । तम् अभिवीक्ष्य भिक्षवः संविग्नाः तस्य शरीरे शरीरपूजां कृत्वा संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त लेकुञ्चिकेन कर्माणि कृतानि, येनार्हत्वप्राप्तो ऽपि षड् भक्तच्छेदान् कृत्वा सप्तमे दिवसे निरुपधिशेषे निर्वाणधातौ परिनिर्वृत इति । भगवान् आह: लेकुञ्चिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । लेकुञ्चिकेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_94.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमा गृहपतिपत्नी श्राद्धा भद्रा कल्याणाशया । सा अभीष्णं श्रमणब्राह्मणकृपणवनीपकयाचनकेभ्यो दानानि ददाति । तस्या अपरेण समयेन भर्ता कालगतः । यावद् अस्याः पुत्रः स्वगृहे स्वामी संवृत्तः । स च मत्सरी कुटुकुञ्चकः आगृहीतपरिष्कारः काकाय बलिं न प्रदातुं व्यवस्यति । स श्रमणब्राह्मणकृपणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । तस्य माता तेनैव पूर्वक्रमेण श्रमणब्राह्मणकृपणवनीपकेभ्यो दानप्रदानान्य् अनुप्रयच्छति । तस्याः पुत्रो मात्सर्याभिभूतः कथयति: अम्ब न मे रोचते (स्पेयेर्: रोच्यते) । मा दानम् अनुप्रयच्छेति । सा कथयति: पुत्रक इह कुले एष कुलधर्म इति ।
-------------------- वैद्य, प्. 244 --------------------
ततस् तेन पृथग्भक्तेन स्थापिता । तथाप्य् असाव् उपार्धाद् दानम् अनुप्रयच्छति, उपार्धम् आत्मना परिभुञ्क्ते । ततस् तेन मात्सर्याभिभूतेन क्रोधेनावृतबुद्धिना भूयो निवार्यत एव । यदा सर्वावस्थायां न शक्नोति वारयितुम्*, तदा मातरम् उवाच: अम्ब किंचित् करणीयम् अस्ति, अववरकं प्रविशेति । सा ऋजुस्वभावतया अववरकं प्रविष्टा । ततस् तेन द्वारं बद्ध्वा एकं भक्तच्छेदं कारिता । सा कथयति: पुत्र बुभुक्षितास्मीति । ततस् तेन खरं वाक्कर्म निश्चारितम्*: भस्म खादेति । यावत् तेनासौ कृच्छ्रसंकटसंबाधप्राप्ता सकरुणकरुणं विक्रोशमाना षड् भक्तच्छेदान् कारिता, तथापि न प्रतिमुक्ता । कालगता । तदास्य मात्सर्येणावृतस्य मातृवियोगाद् विप्रतिसारो जातः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिपुत्रः, अयं स लेकुञ्चिकः । यद् अनेन मातुर् अपकारः कृतस् तस्य कर्मणो विपाकेन कल्पम् अवीचौ महानरक उत्पन्नः । तेनैव हेतुना इदानीम् अप्य् अर्हत्वप्राप्तः षड् भक्तच्छेदान् कृत्वा भस्माद् अनाहार एव परिनिर्वृतः । अन्यान्य् अपि भिक्षवो लेकुञ्चिकेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमो ब्राह्मणो देवतार्चिकः सर्वेषां वाराणसेयानां ब्राह्मणगृहपतीनां सत्कृतो गुरुकृतो मानितः पूजितो ऽभिमतश् च सर्वजनस्य । धर्मता चैषा यद् असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतमः प्रत्येकबुद्धो वाराणसीं पिण्डाय प्रविष्टः । स च तत्र पूर्णहस्तः पूर्णपात्रो निर्गच्छति । तेन ब्राह्मनेन दृष्टः । तस्य मात्सर्यम् उत्पन्नम्* । कथयति: आनय यावत् पात्रं पश्यामीति । असमन्वाहृत्य च श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति । तेन भदन्तेनोपनामितम्* । ततस् तेन पृथिव्याम् उत्सृज्य पादेनाभिमृदितम्* । ततस् तेन प्रत्येकबुद्धेन भक्तछेदः कृतः । न च तस्य ब्राह्मणस्य विप्रतिसारो जातः ॥
किं मन्यध्वे भिक्षवो यो ऽसौ ब्राह्मणः, अयम् एवासौ लेकुञ्चिकः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_95 संसारः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां
-------------------- वैद्य, प्. 245 --------------------
सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । स जातमात्र एव गृहम् अवलोक्य वाचं निश्चारयति स्म: दुःखो भवन्तः संसारः, परमदुःखः संसारः । इत्य् उक्त्वा तूष्णीम् अवस्थितः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एव संसार इति घोषयति, तस्माद् भवतु दारकस्य संसार इति नामेति । संसारो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा संसारो दारकः क्रमेण महान् संवृत्तः, स प्रकृतिजातिस्मरत्वाच् च जनकायस्य धर्मं देशयति: मा भवन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु वा खरवाचं निश्चारयत । दुःखं संसार इति । यावद् अपरेण समयेन इतश् चामुतश् च परिभ्रमञ् जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः
समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारो दारकः संसारे दोषदर्शी भूत्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽपि भिक्षूणां धर्मं देशयति: मा आयुष्मन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु {वा} खरवाचं निश्चारयत । दुःखं संसारः, परमदुःखं संसार इति । ++++++++++++++॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त संसारेण कर्माणि कृतानि, येन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर् निर्गतः । प्रव्रज्य
-------------------- वैद्य, प्. 246 --------------------
चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: संसारेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । संसारेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_95.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । वाराणस्यां नगर्याम् अन्यतमः श्रेष्ठीपुत्रः स्थविरसकाशे प्रव्रजितः । स च स्थविरो ऽर्हन्, स रागविप्रहीणः । यावत् तत्र देशे पर्व समुपस्थितम्* । ततस् तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । स्थविर आह: वत्स अद्यापि प्रातर् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । द्विर् अपि त्रिर् अपि तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । द्विर् अपि त्रिर् अपि स्थविर आह: वत्स अद्यापि प्रातर् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । ततस् तेन तरुणभिक्षुणा रसगृध्रेण खरं वाक्कर्म निश्चारितम्: मा त्वं पञ्चभिर् अपि जन्मशतैर् जीवः कोशान् निर्गच्छ, एषो ऽहं निर्गत इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन तरुणभिक्षुः, अयम् संसारः । यद् अनेनार्हतो ऽन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितम्*, तस्य कर्मणो विपाकेन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर् निर्गतः । निर्गतेषु पञ्चसु जन्मशतेषु इदानीम् अनेन मनुष्यत्वम् आसादितम्* । ततस् तत् स्मृत्वा कथयति: दुःखं संसारः, परमदुःखं संसार इति । यद् अनेन विप्रतिसारजातेन स्थविरस्यात्ययो देशितः, ब्रह्मचर्यवासश् च परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 247 --------------------
अव्श्_96 गुप्तिकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवता स्तवकर्णिकनिमन्त्रितेन सौपारके नगरे महाजनविनेयाकर्षणं कृतम्*, तदा सर्वः सौपारकनिवासी जनकायो बुद्धनिम्नो धर्मप्रवणः संघप्राग्भारो व्यवस्थितः ॥
सौपारके नगरे ऽन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः जातमात्रस्य सर्वशरीरं पिटकैः स्फुटं संवृत्तम्* । यदा ते पिटकाः स्फुटिताः, तदा एकधनो मांसपिण्डः संस्थितः । पूयशोणितं चास्य शरीरात् प्रघरन् महद्दौर्गन्धं जनयति । ततो ऽस्य पिता ऐश्वर्यबलाधानेन द्रव्यमन्त्रौषधिपरिचारकसमेतः स्वयम् एवारब्धश् चिकित्सां कर्तुम्*, न चासौ व्याधिर् उपशमं गच्छति कर्मबलाधानप्राप्तत्वात्* । स स्वशरीरं तथा विक्षतम् अपत्राप्य परिगृहीतं वस्त्रैर् गोपायति । तस्य गुप्तिक इति नाम कृतम्* । यावद् गुप्तिको दारको महान् संवृत्तस् तस्य वयस्यकाः सहजातकाः श्रावस्त्याः सौपारकनगरम् अनुप्राप्ताः । ततस् तैः पितुर् अस्य कथ्यते: तात यद्य् एष श्रावस्तीं नीयते, शक्येतास्माद् व्याधेः परिमोचयितुम्*, यस्मात् तत्र सन्ति वैद्यभैषजादयः सुलभा इति ॥
ततः पित्रा तद् वचनम् उपश्रुत्य प्रभूतानि रत्नानि परिचारकांश् च दत्वा श्रावस्तीम् अनुप्रेषितः । सो ऽनुपूर्वेण वयस्यकसहायः श्रावस्तीम् अनुप्राप्तः । तत्राप्य् अस्य कर्मजो व्याधिः सत्य् अपि वैद्यद्रव्यौषधिपरिचारकबाहुल्ये न शक्यते चिकित्सितुम्* । यावद् असाव् अपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा पञ्चोपादानस्कन्धा रोगतो गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतश् च देशिताः । स संस्कारानित्यतां विदित्वा भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा
-------------------- वैद्य, प्. 248 --------------------
सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । ते ऽप्य् अस्य सहजातकास् तेनैव संवेगेन प्रव्रजिताः ॥
ते येनायुष्मान् गुप्तिकस् तेनोपसंक्रान्ताः । उपसंक्रम्यायुष्मन्तं गुप्तिकम् इदम् अवोचन्*: किम् आयुष्मन् गुप्तिक प्रलोपधर्म, किं वा अत्र लोके ऽप्रलोपधर्म? रूपम् आयुष्मन्तः प्रलोपधर्म । तस्य निरोधान् निर्वाणम् अप्रलोपधर्म । वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन्तः प्रलोपधर्म । तस्य निरोधान् निर्वाणम् अप्रलोपधर्म । किं मन्यध्वे आयुष्मन्तः: रूपं नित्यं वा अनित्यं वा? अनित्यम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं वा तन् न वा, दुःखम्*? दुःखम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं विपरिणामधर्म, सत्यम् अपि तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एषो ऽहम् अस्मि, एष मे आत्मेत्य् एवम् एतत्? नो आयुष्मन् गुप्तिक । किं मन्यध्वे आयुष्मन्तः: वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखम्*? दुःखम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं विपरिणामधर्म, अपि तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेत्*: एतन् मम, एषो ऽहम् अस्मि, एष मे आत्मेति? नो आयुष्मन् गुप्तिक । तस्मात् तर्हि आयुष्मन्तो यत् किंचिद् रूपम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद् वा दूरे, यद् वान्तिके, तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्* । या काचिद् वेदना संज्ञा संस्कारा यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद् वा दूरे, यद् वान्तिके, तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्* । एवंदर्शी आयुष्मन्तः श्रुतवान् आर्यश्रावको रूपाद् अपि निर्विद्यते, वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानाद् अपि । निर्विण्णो विरुज्यते, विरको विमुच्यते । विमुक्तम् एवं ज्ञानदर्शनं भवति: क्षीणा मे जातिः, उषितं ब्रह्मचर्यं कृतं करणीयम्* । नापरम् अस्माद् भवं प्रजानामीति ॥
अस्मिन् खलु धर्मपर्याये भाष्यमाणे तेषां सहजातकानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त गुप्तिकेन कर्माणि कृतानि, येनास्य शारीरम् एवं बीभत्सव्याधिबहुलं दुर्गन्धं संवृत्तम्* । किं कर्म कृतं येन तीक्ष्णनिशितबुद्धिः संवृत्तः, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: गुप्तिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । गुप्तिकेन कर्माणि कृतान्य् उपचितानि ।
-------------------- वैद्य, प्. 249 --------------------
को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_96.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां अन्यतमः श्रेष्ठी । स द्वितीयश्रेष्ठिना सार्धं विरुद्धः । ततस् तेन राजा प्रभूतं धनं दत्वा विज्ञापितः: देव अयं श्रेष्ठी अपराधिकः, क्रियताम् अस्य दण्डनिग्रह इति । ततो राज्ञा तस्यैवानुज्ञातः । तेनासौ स्वगृहम् आनीय तलाभिस् ताडितः । ततो रुधिरावसिक्तशरीरस्य प्रभूतं तीक्ष्णं च विषचूर्णं दत्वोप्तम्*, येनास्य तच् छरीरम् एकधनं मांसपिण्डवद् अवस्थितम्* । ततस् तस्य श्रेष्ठिनो वयस्यकैः श्रुतम्*: यथा तेनैवंविधं कर्म कृतम् इति । ततस् तैः समेतैर् भूत्वा # # {उपकरणविशेषैः} यैर् उपकरणविशेषैस् तस्माद् व्याधेः परिमोचितः । ततो ऽसौ तेनैव च संवेगेन गृहान् निष्क्रम्य प्रव्रजितः । तेन अनाचार्यकेण सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयित्वा प्रत्येका बोधिः साक्षात्कृता । ततो ऽस्य चित्तम् उत्पन्नम्*: बह्व् अनेन श्रेष्ठिना मत्संतापाद् अपुण्यं प्रसूतम्* । यन्व् अहम् एनं गत्वा संवेजयेयम् इति । ततस् तस्याग्रतो गत्वा उपरि विहायसम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । आशु पृथग्जनानाम् ऋद्धिर् आवर्जनकरी । स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कृतकरपुटो भगवन्तं विज्ञापयति: अवतर, अवतर महादक्षिणीय, कृतापराधो ऽहं तवान्तिके, त्वाम् एव निश्रित्य पुनः, प्रत्युपस्थास्यामीति । तेनासौ प्रत्येकबुद्धः क्षमापयित्वा पिण्डकेन प्रतिपाद्य पटेनाच्छादितः । प्रणिधानं च कृतम्*: यन् मया क्रोधाभिभूतेन तवापराधः कृतः, मा अस्य कर्मणो विपाकं प्रत्यनुभवेयम्* । यन् मया सत्कारः कृतः, अनेनैवंविधानां गुणानां लाभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी आसीत्*, अयम् स गुप्तिकः । तस्य कर्मणः प्रभावात् पञ्च जन्मशतानि कशाभिस् ताड्यमानः कालं कृतवान्* । तेनैव हेतुना अयम् एवंविधं आश्रय आसादितः । भूयः काश्यपे भगवति सहजातकैर् वयस्यकैः सार्धं प्रव्रजित आसीत्*। तत्रैभिर् ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 250 --------------------
अव्श्_97 विरूपः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । # # # अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । जातमात्रस्य सर्वशरीरं विकृतिस्फुटं प्रवृत्तम्* । दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर् दोषवर्णकैः समन्वागतः स दारको भूतः । तस्य मातापितरौ सर्वाङ्गं दुर्वर्णं दुर्दर्शनं विकृतरूपं दृष्ट्वा चिन्तापरौ व्य्वस्थितौ । तस्य जातौ जातिमहं कृत्वा नामधेयं व्य्वस्थाप्यते: किं नाम भवतु दारकस्य? ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एवं विकृतरूपः, तस्माद् भवतु दारकस्य विरूप इति नाम ॥
य्दा महान् संवृत्तस् तदा तस्य लज्जया महान् संकोचो जातः । कुत्रान्यत्र गमिष्यामि, क्व तिष्ठामि, इति विचार्य सुजीर्णोद्यानं जगाम । अथ भगवान् महाश्रावकपरिवृतः सुजीर्णोद्यानं गतः । स भगवन्तं दृष्ट्वा जेह्रीयमाण इतश् चामुतश् च पलायितुम् आरब्धः । ततो भगवता ऋद्ध्या तथाधिष्ठितो यन् न शक्नोति पलायितुम्* । ततो भगवान् सह श्रावकैर् निरोधसमापत्तिं समापन्नः । ततो निरोधाद् व्युत्थाय विरूपम् आत्मानं निर्मितवान्* । निर्माय शरावं भोजनपूर्णम् आदाय विरूपम् आगतं दृष्ट्वा हर्षजात आमन्त्रितवान्*: एहि सहायक, कुत आगमिष्यते, तिष्ठ, उभाव् अपि सहितौ वत्स्याव इति । ततो ऽस्य भगवता भोजनं दत्तम्* । प्रीणीतेन्द्रियश् च संवृत्तः । ततो भगवता आत्मा स्ववेषेण स्थापितः । ततो विरूपो बुद्धं भगवन्तं दृष्ट्वा कथयति: अभिरूपतरस् त्वम् इदानीं संवृत्तः । कस्य कर्मणः प्रभावाद् इति । भगवान् आह: विद्या मे अस्ति चित्तप्रसादजननी नाम्ना, तस्या एष प्रभाव इति । ततस् तेन भगवतो ऽन्तिके चित्तं प्रसादितम्*, तेषां च महाश्रावकाणाम् आलयसमापन्नानाम्* । ततो ऽस्य लक्ष्मीः प्रादुर्भूता । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त विरूपेण कर्माणि कृतानि, येनैव दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर् दौर्वर्णिकदोषैः समन्वागतः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: विरूपेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि ।
-------------------- वैद्य, प्. 251 --------------------
विरूपेणैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_97.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पुष्यो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । सो ऽपरेण समयेनान्यतमां राजधानीम् उपनिश्रित्य विहरति । अथ पुष्यः सम्यक्संबुद्धः समन्वाहर्तुं प्रवृत्तः । पश्यति तस्मिन् काले द्वौ बोधिसत्वौ संनिकृष्टौ: भगवाञ् छाक्यमुनिर् मैत्रेयश् च । मैत्रेयस्य स्वसंततिः परिपक्वा, शास्तुर् वैनेया अपरिपक्वाः । शाक्यमुनेस् तु स्वसंततिर् अपरिपक्वा, वैनेयाः परिपक्वाः । अथ पुष्यः सम्यक्संबुद्धः शाक्यमुनेर् बोधिसत्वस्य संततिपरिपाचनार्थं हिमवन्तं पर्वतम् अभिरुह्य रत्नगुहां प्रविश पर्यङ्कं बद्ध्वा तेजोधातुं समापन्नः । तस्मिंश् च काले शाक्यमुनिर् बोधिसत्वः फलमूलानाम् अर्थे हिमवन्तं पर्वतम् अभिरूढः । स इतस् ततश् चञ्चूर्यमाणो ददर्श पुष्यं सम्यक्संबुद्धं द्वात्रिंषता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन तथाविधं चित्तसमाधानं समासादितम्*, यद् एकपादेन सप्त रात्रिंदिवानि एकया गाथया स्तुतवान्*:
न दिवि भुवि वा नास्मिंल् लोके न वैश्रवणालये न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा । चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननां पुरुषवृषभास्त्य् अन्यस् तुल्यो महाश्रमणस् तव ॥ अव्श्_97.2 ॥
अथ पुष्यः सम्यक्संबुद्धः परिपक्वसंततिं शाक्यमुनिं बोधिसत्वं दृष्ट्वा साधुकारम् अदात्*: साधु साधु सत्पुरुष ।
अनेन बलवीर्येण संपन्नेन द्विजोत्तम । नव कल्पाः परावृत्ताः संस्तुत्याद्य तथागतम्* ॥ अव्श्_97.3 ॥
ततो भगवान् महेशाख्याभिर् देवताभिः परिवृतः तस्यां गुहायां स्थितः । तत्र गुहानिवासिनी देवता अल्पेशाख्यत्वान् न शक्नोति तां गुहां समभिरोढुम्* । ततो विकृतनयना भूत्वा भगवन्तं भीषयते । यदा सुचिरम् अपि भीषयमाणा न शक्नोति भगवतो ऽपकारं कर्तुम्*, तदा तया प्रसादो लब्धः: शोभनो ऽयम् ऋषिः सिद्धव्रतश् चेति । ततः सा उदारं रूपम् अभिनिर्माय भगवतः पादयोर् निपत्य क्षमापयित्वा पिण्डकेन प्रतिपादितवती ॥
-------------------- वैद्य, प्. 252 --------------------
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गुहानिवासिनी देवता बभूव, अयम् विरूपः सः । तस्य कर्मणो विपाकेन संसारे ऽनन्तं दुःखम् अनुभूतवान्* । इदानीम् अपि तेनैव हेतुना विरूपः संवृत्तः । यद् अनेन पश्चाच् चित्तं प्रसादितम्*, तेनास्य अपगता अलक्ष्मीः प्रादुर्भूता । प्रव्रज्य चार्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_98 गङ्गिकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । वाराणस्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्*, न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवताराधनं कुरुष्वेति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ रक्तौ भवतः संनिपतितौ, माता च कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् चेति । स चैवम् आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युत्वा तस्य प्रजापत्याः कुक्षिम् अवक्रान्तः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे
-------------------- वैद्य, प्. 253 --------------------
पञ्च? रक्तं पुरुषं जानाति विरक्तं {पुरुषं} जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति दारिकां जानाति । सचेद् दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य (स्पेयेर्: अत्युन्नमय्य) दक्षिणं बाहुम् अभिप्रसार्योदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात्* । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा मम नाम्ना दक्षिणाम् आदेक्ष्यते: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वा उपरिप्रासादतलगताम् अयन्त्रितां धारयति, शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैः । हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा गङ्गिक इति नाम कृतम्* । गङ्गिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥
स च निर्भेदभागीयैः कुशलमूलैः समन्वागतो गृहावासे नाभिरमते । स मातापितरौ पादयोर् निपत्य विज्ञापयति: अम्ब तात अनुजानीतं माम्*, भगवच्छासने प्रव्रजिष्यामीति । ततो ऽस्य मातापितराव् एकपुत्रक इति कृत्वा नानुजानीतः । ततो गङ्गिकस्य बुद्धिर् उत्पन्ना: दुर्लभो मनुष्यप्रतिलाभः, दुर्लभश् च तथागतप्रादुर्भावः, तथेन्द्रियसंपद् अपि दुर्लभा । को मे उपायो भवेद् यद् अहं भगवच्छासने प्रव्रजेयम् इति । तस्यैतद् अभवत्*: यन्व् अहं प्रणिधानं कृत्वा आत्मानमात्मना जीविताद् व्यपरोपयेयम्*, यथा मनुष्यात्वम् आसाद्य लघु लघ्व् एव प्रव्रजेयम् इति । तेनैवं विचिन्त्य विषं भक्षितम्*, न च कालं करोति । अग्नौ पतितः, पर्वताद् आत्मानम् उत्सृष्टवान्*, नद्यां चारकायां पतितः, तत्रापि कालं न करोति । तस्य बुद्धिर् उत्पन्ना: कः उपायः स्याद् येन कालं कुर्याम् इति । तस्यैतद् अभवत्*: सर्वथायं राजा अजातशत्रुश् चण्डो रभसः कर्कशः साहसिकश् च । यन्व् अहम् अस्य गृहे रात्रौ संधिं छिन्द्याम् इति । स राजगृहं नगरं गत्वा रात्रौ संप्राप्तायां भग्ने चक्षुष्पथे संधिम् आरब्धश् छेत्तुम्* । ततो रक्षिभिर् जीवग्राहं गृहीत्वा राज्ञो ऽजातशत्रोर् उपनीतः: अयं देव चौरो दुष्टो ऽपकारी च, यो राजकुले रात्रौ संधिं छिन्दतीति ।
-------------------- वैद्य, प्. 254 --------------------
ततो राज्ञा अपराधिक इति कृत्वा वध्य उत्सृष्टः । ततो व्यध्यघातैर् नीलाम्बरवसनैः करवीरमालासक्तकण्ठेगुण उद्यतशस्त्रपाणिभी रथ्यावीथीचत्वरशृङ्गाटकेषु श्रावणामुखेष्व् अनुश्राव्य दक्षिणेन नगरद्वारेण निष्कास्य शीतवनं श्मशानं नीयते । स नीयमानस् तान् वध्यघातान् आह: शीघ्रं शीघ्रं भवन्तो गच्छन्तु, मा कदाचिद् राज्ञश् चित्तस्यान्यथात्वं स्याद् इति । ततो व्यध्यघातैर् एषा प्रवृत्ती राज्ञो निवेदिता । ततो राज्ञा प्रतिनिवर्त्य पृष्ठः: को हेतुर् यत् त्वम् इष्टं जीवितं परित्यक्तुम् इच्छसीति । तेन स वृत्तान्तो विस्तरेण राज्ञे समाख्यातः । ततो राजा अजातशत्रुः कदम्बपुष्पवद् आहृष्टरोमकूपः साश्रुकण्ठो रुदन् मुख उदानम् उदानयति: अहो सुपरिपक्वा अस्य बुद्धिसंततिः, स्ववगतः संसारदोषः, सुप्रतिलब्धा श्रद्धासंपत्*, यत्र नामायं प्रव्रज्याहेतोर् इदम् इष्टं जीवितं परित्यक्तुं व्यवसितः । ततो राज्ञा समाश्वास्योक्तः: पुत्रक अहं प्रभुस् ते जीवितस्य । गच्छेदानीं भगवच्छासने प्रव्रजेति । स राज्ञोत्सृष्टो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां श्रद्धाप्रव्रजितानां यदुत गङ्गिको वाराणसेयः श्रेष्ठिपुत्र इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त गङ्गिकेन कर्माणि कृतानि, येनैषां विपाकान् नाग्निः काये ऽवकाशति, न विषम्*, न च शस्त्रम्*, नोदकेन कालं करोति, अर्हत्वं चानेन प्राप्तम् इति । भगवान् आह: गङ्गिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । गङ्गिकेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_98.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः श्मशानमोषको मातङ्गः । यावत् तेन पाथान् हत्वा भाण्डम् आसादितम्* । ततस् तस्य पृष्ठतस् तस्कराः प्रधाविताः । यावद् अन्यतमस्मिन् श्मशाने प्रत्येकबुधो निरोधसमापत्तिं समापन्नः । ततो ऽसौ श्मशानमोषको
-------------------- वैद्य, प्. 255 --------------------
मातङ्गस् तस्य पुरस्ताद् भाण्डम् अपसृज्य तत्रैव निलीनः । तत्स् ते तस्कराः प्रत्येकबुद्धं दृष्ट्वा अस्यारब्धाः क्षेप्तुं शस्त्रम् अग्निं च । न चास्य चीवरकर्णकम् अपि शक्नुवन्ति चालयितुम्*, यस्माद् असौ निरोधसमाधिं समापन्नः । यदा ते तस्कराः श्रान्ताः प्रक्रान्ताः, तदा स प्रत्येकबुद्धः क्रमेण समाधिव्युत्थितः । ततस् तेन श्मशानमोषकेण मातङ्गेन तं प्रत्येकबुद्धं पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां गुणानां लाभी स्याम्*, यथा चायम् अपरोपक्रमः । एवम् अहम् अपि यत्र यत्र जायेय, तत्र तत्रापरोपक्रमः स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्मशानमोषको मातङ्गः, अयम् स गङ्गिकः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_99 दीर्घनखः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । तेन खलु समयेन नालदग्रामके तिष्यो नाम ब्राह्मणः । तेन शारी नाम दारिका माठरसकाशाल् लब्धा । यदा शारिपुत्रः सारीकुक्षिम् अवक्रान्तः, तदा भ्रात्रा सह दीर्घनखेन विवादं कुर्वन्ती निग्रहस्थानं प्रापयति । # # # # # # # । ततो दीर्घनखेन दक्षिणापथं गत्वा बहूनि शास्त्राण्य् अधीतानि । यावत् क्रमेण शारिपुत्रो जातः । तेन द्विर् अष्टवर्षेणैन्द्रं व्याकरणम् अधीतम्*, सर्ववादिनश् च निगृहीताः । सो ऽनुपूर्वेण भगवतः शासने प्रव्रजितः । यावद् दीर्घनखेन प्रव्राजकेन श्रुतम्*: भागिनेयेन ते सर्वे तीर्थकरा निगृहीताः । इदानीं श्रमणगौतमस्य शिष्यत्वम् अभ्युपगत इति । -------------------- वैद्य, प्. 256 --------------------
श्रुत्वा चास्य महती परिभवसंज्ञा उत्पन्ना, सर्वशास्त्रेषु चास्य अनैष्ठिकसंज्ञा उत्पन्ना । ततः क्रमशो राजगृहम् अनुप्राप्तः ॥
तस्मिंश् च समये भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । शारिपुत्रो ऽपि भगवतः पुरस्तात् स्थितो ऽभूद् व्यजनं गृहीत्वा भगवनतं वीजयन्* । अथ ददर्श दीर्घनखपरिव्राजको भगवन्तम् अर्धचन्द्राकारेणोपविष्टं धर्मं देशयन्तम्*, शारिपुत्रं च व्यजनव्यग्रहस्तं भगवन्तं वीजयमानम्* । दृष्ट्वा च पुनर् भगवन्तम् इदम् अवोचत्*: सर्वं मे भो गौतम न क्षमत इति । भगवान् आह: एषापि ते अग्निवैश्यायन दृष्टिर् न क्षमते, येयं दृष्टिः: सर्वं मे न क्षमत इति । एषापि मे भो गौतम दृष्टिर् न क्षमते, येयं मे दृष्टिः: सर्वं मे न क्षमत इति । अपि तु ते अग्निवैश्यायन एवं जानतो ऽयाश् च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वान्तीभावः; अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः? अपि मे भो गौतम एवं जानत एवं पश्यतो ऽस्याश् च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वान्तीभावः अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः । बहुजनेन ते अग्निवैश्यायन न संस्यन्दिष्यति (स्पेयेर्: संस्यदिष्यति) । # # # # # # इम उच्यन्ते तनुभ्यस् तनुतराः । लोके त्रय इमे अग्निवैश्यायन दृष्टिसंनिश्रयाः । कतमे त्रयः? इहाग्निवैश्यायन एक एवंदृष्टिर् भवति एवंवादी: सर्वं मे क्षमत इति । पुनर् अपरम् इहैक एवंदृष्टिर् भवति एवंवादी: सर्वं मे न क्षमत इति । पुनर् अपरम् एक एवंदृष्टिर् भवति एवंवादी: एवं मे क्षमते, एकं न मे क्षमत इति । तत्राग्निवैश्यायन येयं दृष्टिः सर्वं मे क्षमत इति, इय्ं दृष्टिः संरागाय संवर्तते नासंरागाय, संद्वेषाय
नासंद्वेषाय, संमोहाय नासंमोहाय, संयोगाय नासंयोगाय, संक्लेशाय न व्यवदानाय, संचयाय नापचयाय, अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते । तत्राग्निवैश्यायन येयं दृष्टिः: सर्वं मे न क्षमत इति, इयं दृष्टिः असंरागाय संवर्तते न संरागाय, असंद्वेषाय न संद्वेषाय, असंमोहाय न संमोहाय, विसंयोगाय न संयोगाय, व्यवदानाय न संक्लेशाय, असंचयाय न संचयाय । अनभिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते । तत्र येयं दृष्टिः: एकं मे क्षमते, एकं मे न क्षमत इति, यत् तावद् अस्य क्षमते, तत् संरागाय संद्वेषाय संमोहाय संयोगाय संक्लेशाय, न व्यवदानाय नापचयाय । अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते । यद् अस्य न क्षमते, तद् असंरागाय संवर्तते न संरागाय, असंद्वेषाय न संद्वेषाय, असंमोहाय न संमोहाय, असंयोगाय न संयोगाय, व्यवदानाय न संक्लेशाय, अपचयाय न संचयाय । अनभिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते । तत्रा श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चैवंदृष्टिः स्याम्*, एवंवादी: सर्वं मे क्षमते । द्वाभ्यां मे सार्धं स्याद् विग्रहः स्याद् विवादः । यश् च एवंदृष्टिर् एवंवादी: सर्वं मे न क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: एकं मे क्षमते एकं मे न क्षमत इति । विग्रहे सति विवादः, विवादे सति विहिंसा । इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न्
-------------------- वैद्य, प्. 257 --------------------
इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः, अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥
तत्र श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चेद् एवंदृष्टिः स्याम् एवंवादी: सर्वं मे न क्षमत इति, द्वाभ्यां मे सार्धं स्याद् विग्रहः, स्याद् विवादः । यश् च एवंदृष्टिर् एवंवादी: सर्वं मे क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: एकं मे क्षमते एकं मे न क्षमत इति । विग्रहे सति विवादः, विवादे सति विहिंसा, इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः । अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥
<तत्र श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चेद् एवम्दृष्टिः स्याम् एवंवादी: सर्वं मे न क्षमत इति, द्वाभ्यां मे सार्धं स्याद् विग्रहः, स्याद् विवादः । यश् चैवंदृष्टिर् एवंवादी: सर्वं मे क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: एकं मे क्षमते एकं मे न क्षमते इति । विग्रहे सति विवादः, विवादे सति विहिंसा, इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः । अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥> तत्र श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चेद् एवम्दृष्टिः स्याम् एवंवादी: एकं मे क्षमते, एकं मे न क्षमत इति, द्वाभ्यां मे सार्धं स्याद् विग्रहः, स्याद् विवादः । यश् चैवंदृष्टिर् एवंवादी: सर्वं मे क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: सर्वं मे न क्षमते इति । विग्रहे सति विवादः, विवादे सति विहिंसा, इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः । अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥
अयं खल्व् अग्निवैश्यायन कायो रूपी औदारिकश् चातुर्महाभूतिक इति आर्यश्रावकेण अभीक्ष्णम् उदयव्ययानुदर्शिना विहर्तव्यम्*, विरागानुदर्शिना प्रतिनिसर्गानुदर्शिना विहर्तव्यम्* । यत्रार्यश्रावकस्य अभीक्ष्णम् उदयव्ययानुदर्शिनो विहरतः, यो ऽस्य भवति काये कायच्छन्दः कायस्नेहः कायप्रेमा कायालयः कायविषक्तिः कायाध्यवसानम्*, तच् चास्य चित्तं न पर्यादाय तिष्ठति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
