Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
अवदानशतक
- Thông tin
- GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स यदा महान् सम्वृत्तस् तदा न्यग्रोधारामं गतो भगवतो दर्शनाय । ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा शोभितेन दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त शोभितेन कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णम्*, जन्मनि चास्यानेकानि अद्भुतानि प्रादुर्भूतानि, यैः कपिलवस्तु नगरं समन्ततः शोभितम्*? भगवान् आह: शोभितेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शोभितेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_87.1 ॥
-------------------- वैद्य, प्. 219 --------------------
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । शोभेन राज्ञा केशनखस्तूपः प्रतिष्ठापितः । यावत् कस्मिंश्चित् पर्वणि प्रत्युपस्थिते गोष्ठिकाः स्तूपसमीपं गताः । तैस् तं स्तूपं दृष्ट्वा पसादजातैः पुष्पारोपणं कर्तुम् आरब्धम्* । तत्रैको गोष्ठिकः कथयति: अहं न करोमि, मम विभवो नास्तीति । स तैश् च गोष्ठिकमध्यान् निष्कासितः । तस्य विप्रतिसारो जातः । तेन विचित्रपुष्पसंग्रहं कृत्वा तस्मिन्न् एव स्तूपे पुष्पारोपणं कृतम्* ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गोष्ठिक आसीत्, येन विप्रतिसारजातेन क्रकुच्छन्दस्य केशनखस्तूपे पुष्पारिपणं कृतम्*, अयम् असौ शोभितः । अन्यान्य् अपि हि भिक्षवः शोभितेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः श्रेष्ठी । तेन ग्लानः प्रत्येकबुद्धो दृष्टः । ततः प्रसादजातेन पादयोर् निपत्य पिण्डकेन प्रतिपादितः पटेन चाच्छादितः ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी, अयं शोभितः । भूयः काश्यपे भगवति दरिद्रो ऽभूत् काष्ठहारकः । स काष्ठानाम् अर्थे पर्वतदरीं प्रविष्टः । तेन स्तूपो दृष्टः । तत्र च स्तूपाङ्गणे तृणानि जातानि । ततस् तेन प्रसादजातेन तृणान्य् उत्पाट्य संमार्जनीं गृहीत्वा स्तूपाङ्गणं च संमृष्टम्* । ततः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देय्धर्मपरित्यागेन च अभिरूपः स्यां दर्शनीयः प्रसादिकः, अनागतांश् च बुद्धान् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन काष्ठहारक आसीत्, अयम् एवासौ शोभितः । यद् अनेन स्तूपाङ्गणं संमृष्टम्*, तेन यत्र यत्र जातस् तत्र तत्राभिरूपो दर्शनीयः प्रसादिकः संवृत्तः । तेनैव हेतुनेदानीम् आर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_88 कप्फिणः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां
-------------------- वैद्य, प्. 220 --------------------
सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन दक्षिणापथे कल्पो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । प्रियम् इवैकपुत्रकं राज्यं पालयति । सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा कप्फिण इति नामधेयं व्यवस्थापितम्* । कप्फिणो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यस्मिन्न् एव दिवसे कप्फिणः कुमारो जातः, तस्मिन्न् एव दिवसे अष्टादशानाम् अमात्यसहस्राणां पुत्रा जाताः, सर्वे महानग्नाः । तेषां प्रतिरूपाणि नामानि व्यवस्थापितानि ॥
यद् राजा कल्पः कालधर्मेण संयुक्तः, तस्यात्ययात् कप्फिणः कुमारो राज्ये प्रतिष्ठितः । तानि चाष्टादशामात्यपुत्रसहस्राणि सर्वाण्य् अमात्यत्वे नियुक्तानि । अथापरेण समयेन राजा महाकप्फिणो ऽष्टादशामात्यसहस्रपरिवृतो मृगवधाय निर्गतः । पुरस्तात् पृष्ठतश् च सर्वबलौघम् अवलोक्यामात्यान् आमन्त्रयते: अस्ति भवन्तः कस्यचिद् एवंरूपो बलौघः तद्यथा ममैवैतर्हीति? ततः प्रियवादिभिर् अमात्यैर् अभिहितम्*: देव नान्यस्य कस्यचिद् इति । अथ मध्यदेशाद् वणिजो दक्षिणापथं गताः । तै राज्ञो महाकप्फिणस्य प्राभृतम् उपनीतम्* । राज्ञा उक्ताः: भो वणिजः, कस् तत्र राजेति । वणिजः कथयन्ति: देव केचिद् देशा गणाधीनाः केचिद् राजाधीना इति । यावद् राज्ञा महाकप्फिणेन श्रावस्त्यादिषु षट्सु महानगरेषु दूतसंप्रेषणं कृतम्* । यद्य् उत्थिता भवथ नोपवेष्टव्यम्*, शीघ्रम् आगन्तव्यम्*, अन्यथा व उत्तमेन दण्डेन समनुशासिष्यामीति । एतद् वचनम् उपश्रुत्य षण्महानगरवासिनो राजानो भीतास् त्रस्ताः संविग्ना आहृष्टरोमकूपाः संगम्य समागम्य एकसमूहेन श्रावस्तीम् अनुप्राप्ताः । ततो भगवत्सकाशं गताः । तैः स वृत्तान्तो भगवतो विस्तरेण निवेदितः । भगवता ते समाश्वासिताः, उक्ताश् च: स दूतो मत्सकाशम् आनेतव्य इति । ततस् तैर् दूतस्य निवेदितम्* । अस्त्य् अस्माकं राजाधिराज, तं तावत् पश्येति ॥
ततो भगवता दूतागमनम् अवेत्य जेतवनं चतूरत्नमयम् निर्मितं देवानाम् इव सुदर्शनं नगरम्* । अत्र चत्वारो महाराजानो दौवारिकाः स्थापिताः, ऐरावतसदृशा हस्तिनः, बालाहकसदृशा अश्वाः, नन्दीघोषसदृशा रथाः, व्याडयक्ष्सदृशा मनुष्याः । स्वयं च भगवता चक्रवर्तिवेषो निर्मितः, सप्ततालोद्गतं च सिम्ःआसनं यत्र भगवान् निषण्णाः । ततो दूतस् तथाविधां शोभां दृष्ट्वा परं विस्मयम् आपन्नः । ततो भगवता लेखं लेखयित्वा स दूतो ऽभिहितः: कप्फिणो मद्वचनाद् वक्तव्यः: लेखवाचनसमकालम् एव यद्य् उत्थितो भवसि, नोपवेष्टव्यम्*, शीघ्रम् आगन्तव्यम्* ।
-------------------- वैद्य, प्. 221 --------------------
अथवा नागच्छसि, अहम् एव महता बलौघेन सार्धम् आगमिष्यामीति । ततो दूतेन गत्वा राज्ञो महाकप्फिणस्य लेखं वाचिकं च यत् संदिष्टं तत् सर्वं निवेदितम्* ॥
ततः कप्फिणो राजा अष्टादशामात्यगणसहस्रपरिवृतो ऽनुपूर्वेण चञ्चूर्यमाणः श्रावस्तीम् अनुप्राप्तः । प्रातिसीमाश् च राजानो राजानं महाकप्फिणं प्रत्युद्गताः । तैर् महासत्कारेण नगरं प्रवेशितः । मार्गश्रमं प्रतिविनोद्य भगवतो निवेदितवन्तः । ततो भगवता तस्यागमनम् अवेत्य जेतवनं चतूरत्नमयं निर्मितं देवानाम् इव सुदर्शनं नगरम्* । यत्र चत्वारो महाराजानो दौवारिकाः स्थापिताः । ऐरावतसदृशा हस्तिनः, बालाहकसदृशा अश्वाः, नन्दीघोषसदृशा रथाः, व्याडयक्षसदृशा मनुष्याः । स्वयं च भगवता चक्रवर्तिवेषो निर्मितः । सप्ततालोद्गतं च सिंहासनं सर्वं तथैव निर्मितम्* । ततो राजा महाकप्फिणो जेतवनं प्रविष्टः । सहदर्शनाद् अस्य यो रूपो रूपमदः, ऐश्वर्ये ऐश्वर्यमदः, स प्रतिविगतः । बलदर्पो ऽद्यापि प्रतिबाधत एव । ततो भगवता लौकिकं चित्तम् उत्पादितम्*: अहो बत शक्रो देवेन्द्र ऐन्द्रं धनुर् आदाय आगच्छत्व् इति । सहचित्तोत्पादाद् भगवतः शक्रो देवेन्द्रः सारथिवेषेण ऐन्द्रं धनुर् उपनामयति । भगवता महाकप्फिणस्योपनामितम्* । तच् च राजा महाकप्फिण उत्क्रष्टुम् अपि न शक्नोति, कुतः पुनर् आरोपयिष्यति । ततो भगवता सप्तायोभेर्यो निर्मित्ताः । स्वयं च तद् धनुर् अर्धचन्द्राकारेणारोप्य शरः क्षिप्तः, येन ताः सप्तायोभेर्यश् छिद्रीकृताः । ततः शब्दं निर्गतः:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_88.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_88.2 ॥ इति
sa ca śabdo yāvad akaniṣṭhān devān gataḥ | tato rājñaḥ kapphiṇasya yo 'bhūd balamadaḥ, sa prativigataḥ | tasya buddhir utpannā: kim idam iti | tato bhagavān rājño mahākapphiṇasya cittaprakāram upalakṣya rājaveṣam antardhāpya idaṃ sūtram āradbhavān*: <cf. dbsū(2)> daśabalasamanvāgato bhikṣavas tathāgato 'han samyaksaṃbuddhaś catur vaiśāradyaviśārada udāram ārṣabhaṃ sthānaṃ pratijānīte, brahmacaryaṃ pravartayati, parṣadi samyaksiṃhanādaṃ nadati: yadutāsmin satīdaṃ bhavati, asyotpādād idam utpadyate | yaduta avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam* | vijñānapratyayaṃ nāmarūpam* | nāmarūpapratyayaṃ ṣaḍāyatanam* | ṣaḍayatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayam upādānam* | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | yaduta asminn asatīdaṃ na bhavati, asya nirodhād idaṃ nirudhyate | yaduta avidyānirodhāt saṃskāranirodhaḥ
-------------------- वैद्य, प्. 222 --------------------
। संस्कारनिरोधाद् विज्ञाननिरोधः । विज्ञाननिरोधान् नामरूपनिरोधः । नामरूपनिरोधात् षडायतननिरोधः । षडायतननिरोधात् स्पर्शनिरोधः । स्पर्शनिरोधाद् वेदनानिरोधः । वेदनानिरोधात् तृष्णानिरोधः । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । स्वाख्यातो मे भिक्षवो धर्मः, उत्तानो विवृतश् छिन्नप्लोतिको यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशितः । एवं स्वाख्याते मे धर्मे उत्ताने विवृते छिन्नप्लोतिके यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशिते यावद् अलम् एव भिक्षवः श्रद्धाप्रव्रजितेन कुलपुत्रेण अलं योगाय अलम् अप्रमादाय, अलं शास्तुः शासने योगम् आपत्तुम्*, कामं त्वक्स्नाय्वस्थ्य् अवतिष्ठताम्*, परिशुष्यतु शरीरान् मांसशोणितम्* । अथ च पुनर् यत् तदारब्धवीर्येण प्राप्तव्यं स्थामवता वीर्यवता उत्साहिना दृढपराक्रमेणानिक्षिप्तधुरेण कुशलेषु धर्मेषु, तद्वहनानुप्राप्ता न वीर्यस्य स्रंसनं भविष्यति । तत् कस्य हेतोः? दुःखं हि कुसीदो विहरति व्यवकीर्ण, पापकैर् अकुशलैर् धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर् दुःखविपाकैः आयत्यां जातिजरामरणीयैः महतश् चार्थस्य परिहाणिर् भवति । आरब्धवीर्यस् तु सुखं विहरत्य् अवकीर्णः पापकैर् अकुशलैर् धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर् दुःखविपाकैः आयत्यां जातिजरामरणीयैः । महतश् चार्थस्य पारिपूरिर् भवति । मण्डयेयम् इदं प्रवचनं यदुत शास्ता च संमुखीभूतः । धर्मश् च देश्यत औपशमिकः पारिनिर्वाणिकः संबोधिगामी सुगतप्रवेदितः । तस्मात् तर्हि भिक्षव आत्मार्थं च समनुपश्यद्भिः परार्थं चोभयार्थं च, इदं प्रतिसंशिक्षितव्यम्: कच्चिन् नः प्रव्रज्या अमोघा भविष्यति, सफला सुखोदया सुखविपाका । येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्*, तेषां च ते काराः कृताः कच्चिद् अत्यर्थमहाफला भविष्यन्ति, महानुशंसा महाद्युतयो महावैस्ताराः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
अस्मिन् खलु धर्मपर्याये भाष्यमाणे राज्ञा महाकप्फिणेन अष्टादशामात्यगणसहस्रपरिवारेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कप्फिणेन कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिको ऽष्टादशामात्यगणसहस्रपरिवारो महानग्नबलः, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: कप्फिणेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि ।
-------------------- वैद्य, प्. 223 --------------------
कप्फिणेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_88.3 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति बन्धुमतीयके दावे । यावद् अन्यतमेन सार्थवाहेन महासमुद्रात् प्रभूतानि रत्नान्य् आनीतानि । विपश्यी सम्यक्संबुद्धः सश्रावकसंघस् त्रैमास्यं भक्तेनोपनिमन्त्रितः । विहारं च कारयित्वा चातुर्दिशाय भिक्षुसंघाय भिक्षुसंघाय निर्यातितवान्* ॥
किं मन्यध्वे भिक्षवः यो ऽसौ सार्थवाहः, एष एवासौ कप्फिणो राजा तेन कालेन तेन समयेन । यद् अनेन विपश्यी सम्यक्संबुद्धाः सश्रावकसंघस् त्रैमास्यं स्वान्तर्गृहे भक्तेनोपनिमन्त्रितः, विहारं च कारयित्वा चातुर्दिशाय भिक्षुसंघाय निर्यातितः ### {तेनेदानीम् अभिरूपो दर्शनीयः प्रासादिकः संवृत्तः} ### अपराण्य् अपि भिक्षवः कप्फिणेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । सो ऽपरेण समयेन संप्राप्ते वसन्तकालसमये, संपुष्पितेषु पादपेषु, हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे अष्टादशामात्यगणसहस्रपरिवृत उद्यानं निर्गतः । तेन तत्रोद्याने ग्लानः प्रत्येकबुद्धः दृष्टः । स तेन सांप्रेयभोजनेन त्रैमास्यम् उपस्थितः । परिनिर्वृतस्य च शरीरस्तूपं कारयित्वा अमात्यगणसहायेन तैलाभिषेको दत्तः । तेन सपरिवारो महानग्नबलाधानेन संवृत्तः । भूयः काश्यपे भगवति प्रव्रजिते बभूव । तत्रानेनेन्द्रियपरिपाकः कृतः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 224 --------------------
अव्श्_89 भद्रिकः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥
यदा भगवान् षड्वर्षाभिसंबुद्धो द्वादशवर्षनिर्गतः कपिलवस्तु अनुप्राप्तः, तदा द्रोणोदनामृतोदनप्रमुखैर् अनेकैः शाक्यसहस्रैः सत्यदर्शनं कृतं स्थापयित्वा राजानं शुद्धोदनम्* । ततो राजा शुद्धोदनस् तां पुत्रशोभां दृष्ट्वा परं विस्मयम् आपन्नः । तस्य बुद्धिर् उत्पन्ना: यदि मे पुत्रो न प्रव्रजितो ऽभविष्यत्*, सो ऽयम् अभविष्यद् राजा चक्रवर्ती चतुरन्तविजेता धार्मिको धर्मराजः । स एतर्हि जटिलप्रव्रजितपरिवारो न शोभते । यन्व् अहं शाक्यकुलेभ्य एकैकं प्रव्राजयेयम् इति । ततो राज्ञा शुद्धोदनेन नगरे घण्टावघोषणं कारितम्*: सर्वशाक्यैः संनिपत्तव्यम् इति । ततः सर्वशाक्येषु संनिपतितेषु राजा शुद्धोदनः कथयति: शृण्वन्तु भवन्तः शाक्याः । यदि सर्वार्थसिद्धः कुमारो न प्रव्रजितो ऽभविष्यत्*, यद् युष्माभिर् एवोपस्थानं कृतम् अभविष्यत्* । तद् इदानीम् अस्य प्रव्रजितस्य एकैकेन कुलपुरुषेण शाक्येनोपस्थायकेन प्रव्रजितव्यम् इति । ततो भद्रिकानिरुद्धरेवतदेवदत्तप्रभृतीनि पच्च कुमारशतानि प्रव्रजितानि । तेषाम् उपालिर् नाम कल्पक उपस्थायकः तान् प्रव्रजितान् दृष्ट्वा रोदितुम् आरब्धः । ततः शाक्यैः पृष्टः: किमर्थम् उपाले रुद्यत इति । स करुणदीनविलम्बितैर् अक्षरैर् उवाच: यूयं प्रव्रजिताः । को ममेदानीं भह्ताच्छादनेन परिपालनं करिष्यतीति । ततः शाक्या ऊचुः: तेन हि उपाले, पटकं प्रसारयेति । तेन पटकः प्रसारितः । ततः शाक्यैः शरीरावलग्नानां हारार्धहारमणिमुख्तावैडूर्यकेयूराङ्गुलीयकानां महान् राशिः कृतः । तत उपालेः कल्पकस्य तान् दृष्ट्वा विचित्रं चालंकारम् अभिवीक्ष्य योनिशो मनसिकार उत्पन्नः: इमे तावच् छाक्याः
कुलरूपयुवनवन्तो ऽन्तःपुराणि इमं चालंकारं खेटवद् उत्सृज्य प्रव्रजिताः । किम् उताहम् अल्पविभवः इमम् अलंकारं गृहं नेष्यामि? अलम् अनेन । यन्व् अहम् एतान् अनुप्रव्रजेयम् इति । अथोपालिः कल्पको येन भगवांस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्*: यदि भगवन् मादृशानां प्रव्रज्या अस्ति, लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्*, चरेयम् अहम् भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवता एहिभिक्षुकया प्रव्राजितः ॥
ततो भद्रिकप्रमुखानि पञ्च शाक्यशतानि भिक्षुनेपथ्यधारीणि (स्पेयेर्: भिक्षुवेषधारीणि) बुद्धप्रमुखस्य भिक्षुसंघस्य प्रणामं कर्त्úं प्रवृत्तानि । ते उपालिं ज्ञात्वा कुलरूपविभवान्वितत्वान् नेच्छन्त्य् उपालेः
-------------------- वैद्य, प्. 225 --------------------
प्रणामं कर्तुम्* । तत्र भगवान् आयुष्मन्तं भद्रिकम् आमन्त्रयते: भद्रिक कर्तव्यो ऽस्य प्रणामः, यस्माद् इदं मामकं शासनं न कुलरूपयौवनैश्वर्यचातुर्वर्ण्यविशुद्धिम् अपेक्षत इति । ततो मूलनिकृत्ता इव द्रुमा भद्रिकप्रमुखानि पञ्च शाक्यशतानि धर्मताम् अवलम्ब्य पादयोर् निपतितानि । तेषाम् पादवन्दनसमकालम् एवेयं महापृथिवी षड्विकारं प्रकम्पिता । तत्रायुष्मता भद्रिकेण युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स च महात्मा हीनदीनानुकम्पी । सो ऽपरेण समयेन पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं गोचराय प्रस्थितः । यावद् अन्यतरचण्डालकठिनं पिण्डाय प्रविष्टः । तेन खलु समयेन राजा प्रसेनजित् कौशल एकपुण्डरीकं हस्तिनागम् अभिरुह्य दीर्घेण चारायणेन सारथिना भगवतो दर्शनाय संप्रस्थितः । ददर्श राजा प्रसेनजित् कौशलो भद्रिकं शान्तेन्द्रियं शान्तमानसम्*, परमेण च चित्तदमव्युपशमनसमन्वागतं पांसुकूलप्रावृतं लूहं पिण्डपातं गृहीत्वा तस्माच् चण्डालकठिनान् निर्गच्छन्तम्* । दृष्ट्वा च पुनर् दीर्घं चारायणं सारथिम् आमन्त्रयते: स्याद् अयं चारायण भद्रिको भिक्षुः? एवं यथा वदसि । इति श्रुत्वा राजा प्रसेनजित् कौशलः संमोहम् आपन्नः, पृथिव्यां मूर्च्छितः पतितः । ततो जलपरिषेकप्रत्यागतप्राणचेतसो लब्धमानसश् चारायणेन सारथिनोत्थापितः ॥
ततो राजा भगवत्सकाशम् उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा भगवन्तम् उवाच: भगवन्, अद्भुतं मे दृष्टम्* । असौ भद्रिकः शाक्यराजः पांसुकूलप्रावृतो लूहं पिण्डपातं गृहीत्वा देवमनुष्यावर्जनकरेणातिप्रशान्तेनेर्यापथेन पिण्डपातम् आदाय चण्डालकठिनान् निर्गतः । तस्य ममैतद् अभवत्*: आश्चर्य यावत् सुविनीतं भगवच्छासनम्*, यत्र नाम एवंविधाः कुमाराः सुखैधिता एवंविनीतप्रचाराः संवृत्ता इति । भगवान् आह: अपरम् अपि महाराज भद्रिकस्याश्चर्यं शृणु । अयं महाराज भद्रिको ऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा त्रिर् उदानयति: अहो बत सौख्यम्* । यद् अहम् अप्रव्रजितः सन् राजकुलमध्यगतो ऽमात्यनैगमजानपदसुसंरक्षितः प्राकारपरिखाद्वारस्तूपाभिनिगूढः परिशङ्कितहृदयः संविग्नः समन्ततःशङ्की निद्रां नासादयामि । सो ऽहम् एतर्हि निरपेक्षः काये जीविते च सुखं यत्रतत्रस्थो विहरामीति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त भद्रिकेण पूर्वम् अन्यासु जातिषु कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिक आढ्ये राजकुले प्रत्याजातः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: भद्रिकेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । भद्रिकेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति?
-------------------- वैद्य, प्. 226 --------------------
न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_89.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः कोट्टमल्लकः क्षुत्क्षामपरिगतशरीरः इतश् चामुतश् चान्वाहिण्डते । यावद् अन्यतरा दारिका पूपलिका आदाय गच्छति । ततस् तेन कोट्टमल्लकेन सा दारिका पूपलिकानाम् अर्थे अभिभूता । ततो बलाद् एकाम् पूपलिकाम् आदाय इतस् ततः (स्पेयेर्: त<तस् त>तः) पलायितुम् आरब्धः । सा चास्य दारिका पृष्ठतः समनुबद्धैव । ततो ऽसौ कोट्टमल्लकः सहसा नदीचारिकाम् उत्तीर्णः । असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । तदा अन्यतरः प्रत्येकबुद्धस् तस्य कोट्टमल्लकस्याग्रतः स्थितः । ततः कोट्टमल्लस्य तं प्रत्येकबुद्धं शान्तेर्यापथं दृष्ट्वा महान् प्रसादो जातः । तेन स्वं व्यसनम् अगणय्य प्रत्येकबुद्धाय पूपलिका प्रतिपादिता । तस्य विप्रहर्षसंजननार्थं विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततः कोट्टमल्लकस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा मूलनिकृत्ता इव द्रुमः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मे सिद्धव्रतो दक्षिणीयः पूपलिकया प्रतिपादितः, अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय, तत्र तत्रोच्चकुलीनः स्याम्*, एवंविधानां च धर्माणां लाभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कोट्टमल्लकः, अयम् असौ भद्रिकः । यत् तेन प्रत्येकबुद्धः पूलिकया प्रतिपादितः, तस्य कर्मणो विपाकेनाढ्ये शाक्ये प्रत्यागतः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यावासः प्रतिपालितः । तेनेदानीम् आर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 227 --------------------
अव्श्_90 राष्ट्रपालः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः स्थूलकोष्ठम् उपनिश्रित्य विहरति स्थूलकोष्ठकीये वनषण्डे । तेन खलु समयेन स्थूलकोष्ठके कौरव्यो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । तस्य भ्रातृपुत्रो राष्ट्रपालो नाम्ना अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य विनयकालम् अवेक्ष्य भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः स्थूलकोष्ठकं पिण्डाय प्रविष्टः । ददर्श राष्ट्रपालो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य भगवतो ऽन्तिके चित्तं प्रसन्नम्* । स प्रसादजातो भगवतः पादयोर् निपत्य प्रव्रज्यां याचते । ततस् तं भगवान् आह: वत्स अनुज्ञातो ऽसि मातापितृभ्याम् इति? राष्ट्रपालः कथयति: नो भदन्तेति । भगवान् आह: न हि वत्स तथागता वा तथागतश्रावका वा अनुज्ञातं मातापितृभ्यां प्रव्राजयन्ति, उपसंपादयन्ति चेति ॥
ततो राष्ट्रपालो मातापित्रोः सकाशम् उपसंक्रान्तः । उपसंक्रम्य बुद्धस्य वर्णं भाषते: दृष्टो मया भगवाञ् छाक्यमुनिः सम्यक्संबुद्धः । स्फीतं चक्रवर्तिराज्यम् अपहाय प्रव्रजितः षष्टिं चान्तःपुरसहस्राणि । मुण्डः संघाटिप्रवृत्तो ऽस्मिन्न् एव स्थूलकोष्ठके पिण्डपातम् अटति । तद् अर्हतो युवां माम् अनुज्ञातुम्*: यद् अहं तं भगवन्तं प्रव्रजितम् अनुप्रव्रजेयम् इति । ततो ऽस्य मातापितरौ नानुजानीतः । ततस् तेनैको भक्तच्छेदः कृतः । द्वौ त्रयो वा यावच् छड् भक्तच्छेदाः कृताः ॥
अथ राष्ट्रपालस्य मातापितरौ येन राष्ट्रपालो गृहपतिपुत्रस् तेनोपसंक्रान्तौ । उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रम् इदम् अवोचताम्*: यत् खलु तात राष्ट्रपाल जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्*, दुष्करं प्राविवेक्यम्*, दुरभिरमम् एकत्वम्*, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* । इहैव त्वं तात राष्ट्रपाल निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते राष्ट्रपालो गृहपतिपुत्रस् तूष्णीम्* ॥
-------------------- वैद्य, प्. 228 --------------------
अथ राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ ज्ञातीन् उद्योजयतः: अङ्ग तावज् ज्ञातयः तातं राष्ट्रपालम् उत्थापयत । अथ राष्ट्रपालस्य गृहपतिपुत्रस्य ज्ञातयो येन राष्ट्रपालो गृहपतिपुत्रस् तेनोपसंक्रान्ताः । उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रम् एवम् अवोचन्: यत् खलु तात राष्ट्रपाल जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वम्, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* । इहैव त्वं तात राष्ट्रपाल निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते राष्ट्रपालो गृहपतिपुत्रस् तूष्णीम्* ॥
अथ राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यकान् उद्योजयतः: अङ्ग तावत् कुमाराः, तातं राष्ट्रपालम् उत्थापयत । अथ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यका येन राष्ट्रपालो गृहपतिपुत्रस् तेनोपसंक्रान्ताः । उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रम् इदम् अवोचन्: यत् खलु सौम्य राष्ट्रपाल जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वम्, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* । इहैव त्वं सौम्य राष्ट्रपाल निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते राष्ट्रपालो गृहपतिपुत्रस् तूष्णीम्* ॥
अथ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यका येन राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ तेनोपसंक्रान्ताः । उपसंक्रम्य राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितराव् इदम् अवोचन्*: अम्ब तात, अनुजानीतं सौम्य राष्ट्रपालं प्रव्रजितुं सम्यग् एव श्रद्धया अगराद् अनगारिकाम्*, किं मृतेन करिष्यथ? सचेत् तातः प्रव्रज्यायाम् अभिरंस्यते, जीवन्तम् एनं द्रक्ष्यध्वे । सचेन् नाभिरमते, का अन्या पुत्रस्य गतिर् अन्यत्र मातापितराव् एव । एवम् आवां कुमारकाः तातं राष्ट्रपालम् अनुजानीयावः । सचेत् प्रव्रज्योपदर्शिष्य{त्य् आत्मानम्*} ॥
अथ राष्ट्रपालो गृहपतिपुत्रो ऽनुपूर्वेण कायस्य स्थामं च बलं च संजनय्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्ते स्थितो राष्ट्रपालो गृहपतिपुत्रो भगवन्तम् इदम् अवोचत्*: अनुज्ञातो ऽस्मि भगवन् मातापितृभ्याम्* । लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम्* । लब्धवान् राष्ट्रपालो गृहपतिपुत्रः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । स एवं प्रव्रजितः सन्न् इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो
-------------------- वैद्य, प्. 229 --------------------
विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां {आरण्यकानां }यदुत राष्ट्रपालो भिक्सुर् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त राष्ट्रपालेन कर्माणि कृतानि, येनाढ्ये राजकुले प्रत्याजत इति । अभिरूपो दर्शनीयः प्रासादिकः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: राष्ट्रपालेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । राष्ट्रपालेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_90.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि विदेहराजः सपरिवारः परचक्रवित्रासितो ऽटवीम् अनुप्राप्तः । स मध्याह्ने तीक्ष्णसूर्यरश्मिपरितापितः सबलौघ इतश् चामुतश् च परिभ्रमति, मार्गं च नासादयति । असति च बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतरः प्रत्येकबुद्धस् तस्मिन् कान्तारमार्गे प्रतिवसति । तेन कारुण्यम् उत्पाद्य तस्य विदेहराजस्य मार्गो व्यपदिष्टः, पानीयह्रदश् च दर्शितः, येन स राजा इष्टेन जीवितेनाच्छादितः । ततो राज्ञा प्रसादजातेन स्वनगरम् आनीय त्रैमास्यं सर्वोपकरणैर् उपस्थितः । परिनिर्वृतस्य चास्य शरीरस्तूपं कारयामास । प्रणिधानं च कृतवान्: अहम् अप्य् एवंविधानां गुणानां लभी स्याम्*, प्रतिविशिष्टतरं च शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अयं स राष्ट्रपालः । अपराण्य् अपि राष्ट्रपालेन कर्माणि कृतान्य् उपचितानि । अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तेन खलु समयेन वाराणस्यां नगर्यां कृकी राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । तस्य कनीयान् पुत्र ऋषिपतनं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच्
-------------------- वैद्य, प्. 230 --------------------
चास्य भगवतो ऽन्तिके चित्तम् अभिप्रसन्नम्* । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो ऽस्य भगवता काश्यपेन धर्मो देशितः । तेन प्रसादजातेन भगवान् काश्यपः सपरिवार उपस्थितः । शरणगमनशिक्षापदानि गृहीतानि । परिनिर्वृतस्य च स्तूपे कनीयाञ् छत्रम् आरोपितवान्* । किं मन्यध्वे भिक्षवो यो ऽसौ राजपुत्रः, अयम् एवासौ राष्ट्रपालस् तेन कालेन तेन समयेन । अपराण्य् अपि राष्ट्रपालेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्याम् अन्यतमो मूलिको ब्राह्मणः । स मूलानाम् अर्थे ऽन्यतमं पर्वतम् अभिरूढः । तेन तत्र पर्यटता वनान्ते ग्लानः प्रत्येकबुद्धो दृष्टः । ततस् तेन प्रसादजातेन तस्योपस्थानं कृतम्* । यदा ग्लान्याद् व्युत्थितः, तदा पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां {गुणानां} लभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मूलिको ब्राह्मणः, अयम् एवासौ राष्ट्रपालः । तस्य कर्मणो विपाकेन संसारे न कदाचिद् दुःखम् अनुभूतवान्* । इदानीम् अप्य् आढ्ये राजकुले प्रत्याजातो ऽभिरूपो दर्शनीयः प्रासादिकः । तेनैव हेतुनार्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 231 --------------------
दशमो वर्गः ।
तस्योद्दानम्*:
सुभूतिः स्थविरश् चापि हस्त लेकुञ्चिकस् तथा । संसारो गुप्तिकश् चापि विरूपो गङ्गिकेन च । दीर्घनखः संगीतिश् च वर्गो भवति समुद्दितः ॥
अव्श्_91 सुभूतिः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवता अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य श्रावका नियुक्तास् तेषु जनपदेषु विनेयजनानुग्रहार्थम्*, तदा ये ऽध्यायिनस् ते सुमेरुपरिषण्डायां ध्यानपरा स्थिताः । यावत् सुपर्णिपक्षिराजेन महासमुद्रान् नागपोतलक उद्धृतः । स तं सुमेरुपरिषण्डायाम् आरोप्य भक्षयितुम् आरब्धः । ततो नागपोतलको जीविताद् व्यपरोप्यमाणो महाश्रावकाणाम् अन्तिके चित्तम् अभिप्रसाद्य कालगतः ॥
स कालं कृत्वा श्रावस्त्यां भूतिर् नाम ब्राह्मणः, तस्याग्रमहिष्याः कुक्षाव् उपपन्नः । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पिता भूतिः, तस्माद् भवतु दारकस्य सुभूतिर् इति नामेति । सुभूतिर् दारक उन्नीतो वर्धितो महान् सम्वृत्तः । स पूर्वेण हेतुबलाधानेन अतीव रोषणः क्रोधपर्यवस्थानबहुलो मातापितृभ्याम् आथर्वणाद् विनिवर्त्य ऋषिषु प्रव्राजितः । स च तत्र ध्यानपरः संयतो ऽन्यतरद् वनषण्डम् उपनिश्रित्य विहरति । तत्र च वनषण्डे देवता प्रतिवसति दृष्टसत्या । तस्याः कारुण्यम् उत्पन्नम्*: अयं कुलपुत्रः क्रोधपर्यवस्थानबहलो विशेषं नाधिगच्छति । यन्व् अहम् एनं भगवद्दर्शने नियोजयेयम् इति । ततस् तया देवतया सुभूतेः पुरस्ताद् बुद्धस्य वर्णो भाषितो धर्मस्य च संघस्य च । ततः सुभूतेर् भगवद्दर्शनहेतोर् अभिलाष उत्पन्नः । ततो देवतया ऋद्ध्यनुभावाद् (स्पेयेर्: ऋद्ध्यानुभावाद्) भगवत्सकाशम् उपनीतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य यो ऽभूत् सत्वेष्व्
-------------------- वैद्य, प्. 232 --------------------
आघातः, स प्रतिविगतः । ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सुभूतिना कुलपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन मैत्रीभावनया चित्तं दमयित्वा सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
तत्र आयुष्मान् सुभूतिः समन्वाहर्तुं प्रवृत्तः: कुतो ऽहं च्युतः, कुत्रोपपन्नः केन कर्मणेति । पश्यति: पञ्च जातिशतानि नागेभ्यश् च्युतो नागेष्व् एवोपपन्नः । तस्य बुद्धिर् उत्पन्ना: मया अतीव एवंविधो द्वेषप्रत्ययोपसंभारः कृतः, येनाहं पञ्च जन्मशतानि नागेषूपपन्नः । तेनैव हेतुना महद्व्यसनम् अनुभूतवान्* । इदानीं पुनस् तथा करिष्यामि यत् परेषाम् अन्तिके द्वेषोपसंभारो नोत्पत्स्यते । येन समन्वागतः कायस्य भेदाद् अपायं दुर्गतिं विनिपातं नरकेषूपपद्यते । सो ऽरण्यप्रतिपदं समादाय वर्तते । यदा संघे वा ग्रामे वा देशे वा जनपदे वा भिक्षाहेतोर् विहर्तुकामो भवति, तदा पूर्वतरं गोचरम् अवलोकयति: मा मां कश्चित् कारणेन दृष्ट्वा चित्तं प्रदूषयिष्यति, अन्ततः कुन्तपिपीलका अपीति । स तानीर्यापथेन प्रश्रितेनाभिरमयति । तेन तेषां सत्वानां चित्तप्रसादो भवति । एवंविधां सो ऽर्हत्वप्राप्तो ऽप्य् अपत्रपाम् अनुभवतीति । तत आयुष्मतः सुभूतेर् बुद्धिर् उत्पन्ना: यन्व् अहम् इदानीं महाजनानुग्रहार्थं कुर्याम् इति । ततस् तेन ऋद्ध्या पञ्च सुपर्णिशतानि निर्मितानि, यानि दृष्ट्वा नागा भीतास् त्रस्ता संविग्ना इतश् चामुतश् च संभ्रान्ताः । ततः सुभूतिना ऋद्धिबलेन पुनः परित्राताः । ततस् तेषां प्रसन्नचित्तानां मैत्री व्यपदिष्टा । पुनर् अपि महान्तं नागरूपम् अभिनिर्माय पञ्च गरुडशतान्य् अभिद्रुतानि । तेषाम् अपि भीतानां मैत्री व्यपदिष्टा । एवं तेन नागानां गरुडानां च पञ्च कुलशतानि विनीतानि । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणाम् अरणाविहारिणां यदुत सुभूतिः कुलपुत्रः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुभूतिना कर्माणि कृतानि येनारणाविहारिणाम् अग्रो निर्दिष्ट इति । भगवान् आह: सुभूतिनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुभूतिना कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ,
-------------------- वैद्य, प्. 233 --------------------
न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_91.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रायं प्रव्रजितो बभूव । तत्रानेन दानप्रदानानि दत्तानि, दशवर्षस्हस्राणि ब्रह्मचर्यवासः परिपालितः, प्रणिधानं च कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्याहं शासने प्रव्रज्य अरणाविहारिणाम् अग्रः स्याम् इति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
