Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

अधिकरणवस्तु

Thông tin
GRETIL — R. Gnoli: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, Roma 1978 (Serie Orientale Roma, 50).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कथं च भिक्षवः अमूढविनय अधिकरणशमथो भवति? कथं च पुनर् इहैकेशाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुतामूढविनयेनाधिकरणशमथेन? यथापितत् सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन बह्व् अश्रामणकं अनानुलोमिकम् आचरितं भाषितं पराक्रान्तम्, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं च विभण्डितम्, असुप्तेन सुप्त इति ःमतम्,ः परैर् अप्रव्याहृतेन प्रव्याहृत इति ःमतम्;ः तेन चापरेण समयेन स्वचित्तं प्रतिलभम्; तम् एनं भिक्षवस् तेन वस्तुना ःचोदयन्ति; स तेन वस्तुनाः चोद्यमानः संघाद् अमूढविनयं याचते; एतत् प्रकरणम् भिक्षवो भगवत आरोचयन्ति; भगवान् आह: (अ 346अ) ददत यूयं भिक्षवः (अधिक्-व् 99) सेकतस्य भिक्षोर् अमूढविनयम् इति; यो वा पुनर् अन्यो ऽप्य् एवंजातीयः एवं पुनर् दातव्यः; शयनासप्रज्ञप्तिं कृत्वा गण्दीम् आकोट्य पृष्ठवाचिकया समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते सेकतेन भिक्षुणा एकांशम् उत्तरासङ्गं कृत्वा यथावृद्धिकया सामीचीं कृत्वा उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्: शृणोतु भदन्ताः संघो मया सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन बह्व् अश्रामणकम् ःअनानुलोमिकम्ः आचरितम् भाषितं पराक्रान्तम्, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं च विभण्डितम्, असुप्तेन सुप्त इति मतम्, परैर् अप्रव्याहृतेन प्रव्याहृत इति मतम्; तेन च मयापरेण समयेन स्वचित्तं प्रतिलब्धम्; तं मां भिक्षवस् तेन वस्तुना चोदयन्ति; सो ऽहं तेन वस्तुना चोद्यमानः संघाद् अमूढविनयं याचे, ददातु भदन्ताः संघो मे सेकतस्य भिक्षोर्

अमूढविनयम् अनुकम्पाम् उपादाय; एवं द्विर् अप्य् एवं त्रिर् अपि; ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, अनेन सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन बह्व् अश्रामणकम् अनानुलोमिकम् आचरितम् भाषितं पराक्रान्तम्, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं च विभण्डितम्, असुप्तेन सुप्त इति मतम्, परैर् अप्रव्याहृतेन प्रव्याहृत इति मतम्; अनेन चापरेण समयेन स्वचित्तं प्रतिलब्धम्; तम् एनं भिक्षवस् तेन वस्तुना चोदयन्ति; सो ऽयं तेन वस्तुना चोद्यमानः संघाद् अमूढविनयं याचते; सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः सेकतस्य भिक्षोर् अमूढविनयं दद्याद् इत्य् एषा ज्ञप्तिः; कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, अनेन सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन बह्व् अश्रामणकम् अनानुलोमिकम् आचरितम्, भाषितं पराक्रान्तम्, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं च विभण्डितम्, असुप्तेन सुप्त इति मतम्, परैर् अप्रव्याहृतेन प्रव्याहृत इति मतम्; अनेन चापरेण समयेन स्वचित्तं प्रतिलब्धम्; तम् एनं भिक्षवस् तेन वस्तुना चोदयन्ति; सो ऽयं तेन वस्तुना चोद्यमानः संघाद् अमूढविनयं याचते; तत् संघः सेकतस्य भिक्षोर् अमूढविनयं ददाति; येषाम् आयुष्मतां क्षमते सेकतस्य भिक्षोर् अमूढविनयं दातुम्, ते तूष्णीम्, न क्षमते, भाषन्ताम्; ःइयं प्रथमा कर्मवाचना; एवं द्वितीय तृतीया कर्मवाचना कर्तव्या;ः दत्तः संघेन सेकतस्य भिक्षोर् अमूढविनयः; क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम्; एवम् एतद् धारयामि (अधिक्-व् 100)

two forms of amūḍhavinaya respectively not legally valid and legally valid

एकम् अधार्मिकं अमूढविनयदानम्, एकं धार्मिकम्; एकम् अधार्मिकं कतमत्? यथापितद् भिक्षुर् अनुन्मत्तः सन्न् उन्मत्तो ऽस्मीति प्रतिजानीते अक्षिप्तचित्तः क्षिप्तचित्त इति, तस्य संघः अमूढविनयं ददाति, अधार्मिकम् (अ 346ब्) अमूढविनयदानम्; इदम् एकम् अधार्मिकम्; धार्मिकं कतमत्? यथापितत् सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन बह्व् अश्रामणकम् अनानुलोमिकम् आचरितं भाषितं पराक्रान्तम्, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं विभण्डितम्, असुप्तेन सुप्त इति मतम्, परैर् अप्रव्याहृतेन ःप्रव्याहृतः इति मतम्; तेन चापरेण समयेन स्वचित्तं प्रतिलब्धम्; तम् एनं भिक्षवस् तेन वस्तुना चोदयन्ति; सो ऽयं तेन वस्तुना चोद्यमानः संघाद् अमूढविनयं याचते; तस्य संघ अमूढविनयं ददाति; धार्मिकम् अमूढविनयदानम्; इदम् एकम् धार्मिकम्; एवं हि भिक्षवः अमूढविनयः अधिकरणशमथो भवति; एवं च पुनर् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च; अनववादाधिकरणं भिक्षवः एभिस् त्रिभिर् अधिकरणशमथैर् धर्मैर् दमयितव्यं शमयितव्यं व्युपशमयितव्यम्, यदुत संमुखविनयेन स्मृतिविनयेन अमूढविनयेन च

the legal questions arising from āpatti can be settled in four ways. the pratijñākāraka

आपत्त्यधिकरणं भिक्षवो चतुर्भिर् अधिकरणशमथैर् धर्मैर् दमयितव्यं शमयितव्यं व्युपशमयितव्यम्; कतमैश् चतुर्भिर्? प्रतिज्ञाकारकेण संमुखविनयेन तत्स्वभावैषीयेण तृणप्रस्तारकेण च; कथं च भिक्षवः प्रतिज्ञाकारकः अधिकरणशमथो भवति? कथं च पुनर् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत प्रतिज्ञाकारकेण अधिकरणशमथेन? यथापितद् भिक्षुर् आपत्तिम् आपन्नो भवति, (अधिक्-व् 101) स तेन ःवस्तुनाः चोदितो वा ःअचोदितो वाः स्मारितो वा अस्मारितो वा भिक्षोः पुरतः स्थित्वा एवम् आह: समन्वाहरायुष्मन्न् अहम् एवंनामा एवंरूपां चापत्तिम् आपन्नः; ताम् अहम् आयुष्मतः पुरस्ताद् देशयामि आविष्करोमि; देशयित्वा मे आविष्कृत्य स्पर्शो भवति नादेशयित्वा नानाविष्कृत्य; तेन वक्तव्यं पश्यसि आपत्तिम् इति; तेनापि वक्तव्यं पश्यामि इति; पूर्वकेण वक्तव्यम् आयत्याम् संवरम् आपत्स्यसे इति; पश्चिमकेन वक्तव्यम् आपत्स्य इति; इति इयं प्रतिज्ञा

ten and ten ways of applying pratijñākāraka respectively not legally valid and legally valid

दसाधार्मिकाणि प्रतिज्ञादानानि, दश धार्मिकाणि; दशाधार्मिकाणि कतमानि? यथापितद् भिक्षुः पाराजिकाम् आपत्तिम् आपन्नः अनापन्नो ऽस्मीति प्रतिजानाति, तस्य संघः प्रतिज्ञां कारयति, अधार्मिकं प्रतिज्ञादानम्; ःसंघावशेषां पायत्तिकां प्रतिदेशनिकां दुष्कृताम् आपत्तिम् आपन्नः अनापन्नो ऽस्मीति प्रतिजानाति, तस्य संघः प्रतिज्ञां कारयति, अधार्मिकं प्रतिज्ञदानम्ः; यथापितद् भिक्षुर् पारजिकाम् आपत्तिम् अनापन्नो आपन्नो ऽस्मीति प्रतिजानाति, तस्य संघः प्रतिज्ञां कारयति, अधार्मिकं प्रतिज्ञादानम्; संघावशेषां पायत्तिकां प्रतिदेशनिकां दुष्कृताम् आपत्तिम् अनापन्न आपन्नो ऽस्मीति प्रतिजानाति, तस्य संघः प्रतिज्ञां कारयति, अधार्मिकं प्रतिज्ञादानम्; इमानि दशाधार्मिकाणि प्रतिज्ञादानानि; दश धार्मिकाणि प्रतिज्ञादानानि कतमानि? यथापितद् भिक्षुः पाराजिकाम् आपत्तिम् आपन्नः आपन्नो ऽस्मीति (अ 347अ) प्रतिजानाति, तस्य संघः प्रतिज्ञां कारयति, धार्मिकं प्रतिज्ञादानम्; संघावशेषां पायत्तिकां प्रतिदेशनिकां दुष्कृताम् आपत्तिम् आपन्नः आपन्नो ऽस्मीति प्रतिजानाति, तस्य संघः प्रतिज्ञां कारयति, धार्मिकं प्रतिज्ञादानम्; यथापितद् भिक्षुः पारजिकाम् आपत्तिम् अनापन्नः अनापन्नो ऽस्मीति प्रतिजानाति तस्य संघः प्रतिज्ञां कारयति, धार्मिकं प्रतिज्ञादानम्; संघावशेषां पायत्तिकां प्रतिदेशनिकां दुष्कृताम् आपत्तिम् अनापनो ऽस्मीति प्रतिजानाति तस्य संघः प्रतिज्ञां कारयति, धार्मिकं प्रतिज्ञादानम्; इमानि दाश धार्मिकाणि प्रतिज्ञादानानि; (अधिक्-व् 102) एवं हि भिक्षवः प्रतिज्ञाकारक अधिकरणशमथो भवति; एवम् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत प्रतिज्ञाकारकेण अधिकरणशमथेन

the buddha absolves the monk kālo mṛgāraputra from a false accusation

बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; तेन खलु समयेनायुष्मान् कालो मृगारपुत्रो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्; तम् आगम्य वैशालिका लिच्छवयो ऽत्यर्थं बुद्धधर्मसंघेषु कारान् कुर्वन्ति; वैशालिका भिक्षवः संलक्षयन्ति: आयुष्मान् कालो मृगारपुत्रो ऽन्यत्रैव जातः, ऽन्यत्रैव वृद्धिं गतः, श्रावस्त्यां जातः; वैशालिकाश् च लिच्छवयो ऽत्यर्थम् अभिप्रसन्नाः; तदास्योत्क्षेपणीयं कर्म कर्तव्यं येनास्य वैशालका लिच्छवयो ःनः प्रसादं प्रवेदयत इति तस्यावतारप्रेक्षिणः संवृत्ताः; याव अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो जेन्ताकस्नात्रेणोपनिमन्त्रितः; भिक्षवः कन्तारिकायां चीवराणि स्थापयित्वा स्नातुम् आरब्धाः; आयुष्मांस् तु कालो मृगारपुत्रः संप्रजानन्न् एकान्ते चीवरकाणि स्थापयिता स्नातुम् आरब्धः; अपरेणापि भिक्षुणा तस्मिन्न् एव प्रदेशे चीवरकाणी स्थापितानि; ततः आयुष्मान् कालो मृगारपुत्रः ःस्नात्वाः तान्य् एव मदीयानि चीवराणि ःइतिः कृत्वा तस्य भिक्षोः सन्तकानि चीवराणि प्रावृत्य प्रक्रान्तः; यावद् असौ भिक्षुः समुत्थितो न पश्यति स्वकानि चीवराणि; स भिक्षून् प्रष्टुम् आरब्धः: आयुष्मन्तः, केन मदीयानि चीवराणि अपहृतानि? यावत् तस्मिन् प्रदेशे आयुष्मतः कालस्य मृगारपुत्रस्य सार्धंविहारी स्थितः; तेन श्रुतम्; स कथयति: आयुष्मता (अधिक्-व् 103) उपाध्यायेनास्मिन् प्रदेशे चीवरकाणि स्थापितानि; तेन व्यत्यासेन नीतानि भवेयुह्; गच्छामि तावद् उपाध्यायं पश्यामीति; स उपाध्यायस्य सकाशं गतः; कथयति: उपाध्याय सन्तकानि (अ 347ब) त्वया चीवराण्य् आनीतानि? स कथयति, पुत्र मम सन्तकानि, कस्यान्यस्य

सन्तकानि? उपाध्याय अमुकेन भिक्षुणा तस्मिन्न् एव प्रदेशे चीवरकाणि स्थापितानि; सो ऽवध्यायति; पुत्र यद्य् एवम् आनय, तानि चीवराणि पश्यामि इति; स तान्य् आदायागतः; उपाध्याय इमानि तानि चीवराणि प्रत्यभिजानीहि? तेन प्रत्यभिज्ञातानि; पुत्र व्यत्यासेन मयानीतानि, नय तस्य भिक्षोर् इमामि तानि; स तान्य् आदाय तस्य भिक्षोः सकाशं गतः कथयति: आयुष्मन्न् इमानि तानि चीवरान्य् उपाध्यायेन व्यत्यासेन नीतानि; स कथयति: पाराजिकाम् एवापत्तिम् अपन्नः स्तेयचित्तेन तेन नीतानि; ततस् तैर् अवतारप्रेक्षिभिर् भिक्षुभिस् तस्याचोदयित्वा अस्मारयित्वा बलाद् उत्क्षेपणीयं कर्म कृतम्; आयुष्मान् कालो मृगारपुत्रः संलक्षयति: दुःखं ब्राह्मणगृहपतयः प्रसाद्यन्ते, सुखम् अप्रसाद्यन्ते; यदि स्थास्यामि नियतं वैशालका लिच्छवयो ःनः प्रसादं प्रवेदयिष्यन्ते; सर्वथा श्रावस्तीम् एव गमिष्यामि इति स न व्यवलोक्य वैशलकान् लिच्छवीन् समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चरन् श्रावस्तीम् अनुप्राप्तः; स भिक्षुभिर् दृष्टः; उक्तः: स्वागतं स्वागतम् आयुष्मन् काल प्रीता वयं त्वद्दर्शनेन नो त्व् आगमनेन; किं कारणम्? यस्मात् त्वाम् आगम्य वैशालका लिच्छवयः बुद्धे ऽभिप्रसन्ना ःधर्मेः संघे ऽभिप्रसन्ना अत्यर्थं बुद्धधर्मसंघेषु कारान् कुर्वन्ति इति; स कथयति: अस्त्य् एतद् एवम्, अपि तु वैशालिकैर् भिक्षुभिर् अचोदयित्वा अस्मारयित्वा बलाद् उत्क्षेपणीयं कर्म कृतम् इति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह: तिष्ठ भिक्षु अहं त्वां धर्मेण ःओसारयामि; ततो भगवता (अधिक्-व् 104) धर्मेणः ओसारितः; वैशालिकानां विप्रतिसारो जातः, न

शोभनम् अस्माभिः कृतं यत् कालस्य भिक्षोर् अदूषिणो ऽनपकारिणो बलाद् उत्क्षेपणीयं कर्म कृतम् इति; ते समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्ताः; तैर् अन्तर्मार्गैर् भिक्षुर् दृष्ट उक्तश् च, कुतस् त्वम् आयुष्मन्न् आगच्छसि? श्रावस्त्याः; दृष्टस् त्वया कालो मृगारपुत्रः? दृष्टः, किं तस्य? अस्माभिः तस्यादूषिणो ऽनपकारिणः अचोदयित्वास्मारयित्वा बलाद् उत्क्षेपणीयं कर्म कृतम्; ओसारितम्; केन? भगवता; तत्र एक एवम् आहुर् अनोसारितं दूरोसारितम्, यस्मात् तस्यास्माभिर् उत्क्षेपणीयं कर्म कृतम् अस्मास्व् असंमुखीभूतेषु तस्यौसारणं न युक्तम् (अ 348अ) इति; अपरे त्व् एवम् आहुः: धर्मस्वामी भगवान्, धर्मस्वामी सुगतः, यस्यौसारितः स्वोसारितः; ते अनुपूर्वेण श्रावस्तीम् अनुप्राप्ताः पत्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रान्ताः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्व एकान्ते निषण्णाः; एकान्तनिषण्णा वैशालिका भिक्षवो भगवन्तम् इदम् अवोचन्: अस्माभिर् भदन्त बालैर् मूढैर् अव्यक्तैर् अकुशलैः कालस्य मृगारपुत्रस्यादूषिणो ऽनपकारिणः अचोदयित्वा अस्मारयित्वा बलाद् उत्क्षेपणीयं कर्म कृतम्; ते वयं विप्रतिसारजातः कालं मृगारपुत्रं क्षमयितुम् इहागताः इति; भगवान् आह: ओसारितं भिक्षवस् तद् अधिकरणं तथागतेन यदुत धर्मेण; श्रुतम् अस्माभिर् भदन्त भिक्षोः सकाशाद् अन्तर्मार्गेण ओसारितं भगवता यदुत धर्मेण इति; अपि त्व् ःएकेः अस्माकम् एवम् आहुः: अनोसारितं दूरोसारितम्, यस्माद् वयं तत्र न संमुखीभूता इति; अपरे त्व् एवम् आहुः: धर्मस्वामी भगवान् धर्मस्वामी सुगतः यस्यौसारितं स्वोसारितम् इति

various forms of accusations

भगवान् संलक्षयति: आकांक्षन्ति बत मे श्रावकाः उत्पन्नोत्पन्नान्य् अधिकरणानि व्युपशमयितुं यदुत धर्मेण विनयेन शास्तुः शासनेन; इति विदित्वा भिक्षून् आमन्त्रयते स्म: कथं भिक्षवः संमुखविनय अधिकरणशमथो भवति? कथं च पुनर् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत संमुखविनयेनाधिकरणशमथेन? इह भिक्षवः 1) पुद्गलः पुद्गलं चोदयति धर्मेण विनयेन संमुखं (अधिक्-व् 104) चतुरक्षम्; 2) द्वौ संबहुलान् संघं चोदयतः धर्मेण विनयेन संमुखं चतुरक्षं; 3) द्वौ पुद्गलौ पुद्गलं चोदयतः धर्मेण विनयेन संमुकं चतुरक्षं; 4) द्वौ पुद्गलौ चोदयतः ःद्वौः संबहुलान् संघं धर्मेण विनयेन ःसंमुखंः चतुरक्षम्; 5) संबहुलाः पुद्गलाः पुद्गलं चोदयन्ति धर्मेण विनयेन संमुखं चतुरक्षं; 6) संबहुलाः पुद्गलाः ःद्वौ संबहुलान्ः संघं चोदयन्ति धर्मेण विनयेन संमुखं चतुरक्षम्; 7) संघः पुद्गलं चोदयति धर्मेण विनयेन संमुखं चतुरक्षम्; 8) ःसङ्घोः द्वौ संबहुलान् संघं चोदयति धर्मेण विनयेन चतुरक्षम्

sixteen and sixteen ways of applying saṃmukhavinaya respectively not legally valid and legally valid

षोडश अधार्मिकाणि संमुखविनयदानानि; षोडश धार्मिकाणि; षोडशाधार्मिकाणि कतमानि? 1) अधार्मिकः पुद्गलः धार्मिकः पुद्गलः; 2) पुद्गलः अधार्मिकः द्वौ पुद्गलौ धार्मिकौ; 3) पुद्गलः अधार्मिकः संबहुलाः पुद्गलाः धार्मिकाः; 4) ःसङ्घोः ऽधार्मिकः पुद्गलो धार्मिकः; 5) द्वौ पुद्गलौ अधार्मिकौ धार्मिकः पुद्गलः; 6) द्वौ पुद्गलौ अधार्मिकौ द्वौ पुद्गलौ धार्मिकौ; 7) द्वौ पुद्गलौ अधार्मिकौ संबहुलाः पुद्गला अधार्मिकाः; 8) द्वौ पुद्गलौ (अ 348ब्) अधार्मिकौ संघः धार्मिकः; 9) संबहुलाः पुद्गलाः अधार्मिकाः पुद्गलः धार्मिकः; 10) संबहुलाः पुद्गला अधार्मिकाः द्वौ पुद्गलौ धार्मिकौ; 11) सम्बहुलाः पुद्गलाः अधार्मिकाः, संबहुलाः पुद्गला धार्मिका; 12) संबहुलाः पुद्गलाः अधार्मिकाः संघो धार्मिकः; 13) संघो अधार्मिकः पुद्गलः धार्मिकः; 14) संघो अधार्मिकः द्वौ पुद्गलौ धार्मिकौ; 15) संघ अधार्मिकः सम्बहुलाः पुद्गला धार्मिकाः; 16) संघ अधार्मिकः संघो धार्मिकः इति इमामि षोडश अधार्मिकाणि संमुखविनयदानानि षोडश धार्मिकानि संमुखविनयदानानि कतमानि? 1) पुद्गलः धार्मिकः पुद्गलः अधार्मिकः; 2) ःपुद्गलः धार्मिकःः द्वौ पुद्गलौ अधार्मिकौ; 3) पुद्गलः धार्मिकः, संबहुलाः पुद्गला अधार्मिकाः; 4) पुद्गलः धार्मिकः संघ अधार्मिकः; 5) द्वौ पुद्गलौ धार्मिकौ, पुद्गलः अधार्मिकः; 6) द्वौ पुद्गलौ धार्मिकौ, द्वौ अधार्मिकौ; 7) द्वौ पुद्गलौ धार्मिकौ, संबहुलाः (अधिक्-व् 106) पुद्गला अधार्मिकाः; 8) द्वौ ःपुद्गलौः धार्मिकौ, संघ अधार्मिकः; 9) संबहुलाः पुद्गलाः धार्मिकाः पुद्गलः अधार्मिकः; 10) सम्बहुलाः पुद्गला धार्मिका द्वौ

पुद्गलु अधार्मिकौ; 11) सम्बहुला पुद्गला धार्मिकाः सम्बहुलाः पुद्गला अधार्मिकाः; 12) संबहुला पुद्गला धार्मिकाः संघ अधार्मिकः; 13) संघो धार्मिकः पुद्गल अधार्मिकः; 14) ःसङ्घो धार्मिकःः द्वौ पुद्गलौ अधार्मिकौ; 15) संघो धार्मिकः पुद्गला अधार्मिकाः; 16) संघो धार्मिकः संघ अधार्मिकः इति इमानि षोडश धार्मिकाणि संमुखविनयदानानि; एवं हि भिक्षवः संमुखविनय अधिकरणशमथो भवति; एवं च पुनर् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत संमुखविनयेनाधिकरणशमथेन

the settlement of legal question by the satsvabhāvaiṣīya method

कथं च भिक्षवस् तत्स्वभावैषीय अधिकरणशमथो भवति? कथं च पुनर् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत तत्स्वभावैषीयेन अधिकरणशमथेन? इह हस्तको भिक्षुः संघमध्ये आपत्तिम् अवजानाति; अवज्ञाय प्रतिजानाति, प्रतिज्ञाय पुनर् अप्य् अजानाति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह: ददत यूयं भिक्षवो हस्तकस्य भिक्षोः तत्स्वभाविषीयम् इति यो वा पुनर् अन्यो ऽप्य् एवंजातीयः एवं च पुनर् दातव्यः; शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते ःहस्तकेन भिक्षुणा एकांशम् उत्तरासङ्गं कृत्वा यथावृद्धिकया सामीचीं कृत्वा उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्: शृणोतु भदन्ताः संघो, मया हस्तकेन भिक्षुणा संघमध्ये आपत्तिर् अवज्ञातः, अवज्ञाय प्रतिज्ञातः, प्रतिज्ञाय पुनर् अप्य् अवज्ञातः; सो ऽहं संघात् तत्स्वभावैषीयं याचे, ददतु भदन्ताः संघो मे हस्तकस्य भिक्षोस् तत्स्वभावैषीयम् अनुकम्पाम् उपादाय; एवं द्विर् अप्य् एवं त्रिर् अपि; ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, अयं हस्तको भिक्षुः संघमध्ये आपत्तिम् अवजानाति अवज्ञाय प्रतिजानाति (अधिक्-व् 107) प्रतिज्ञाय पुनर् अप्य् अवजानाति; ःअयं हस्तको भिक्षुः संघात् तत्स्वभावैषीयं याचते; सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः हस्तकस्य भिक्षोः तत्स्वभावैषीयं दद्याद् इत्य् एषा ज्ञप्तिः; कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, सो ऽयं हस्तको भिक्षुः संघमध्ये आपत्तिम् अवजानाति, अवज्ञाय प्रतिजानाति,

प्रतिज्ञाय पुनर् अप्य् अवजानातिः; तत् संघो हस्तकस्य भिक्षोस् तत्स्वभवैषीयं ददाति; येषाम् आयुष्मतां क्षमते हस्तकस्य भिक्षोस् तत्स्वभावैषीयं दातुं ते तूष्णीम्; न क्षमते भाषन्ताम्; इयं प्रथमा कर्मवाचना; ःएवंः द्वितीया ःतीरीयाः कर्मवाचना ःकर्तव्याः; दत्तः संघेन हस्तकस्य भिक्षोस् तत्स्वभावैषीयः; क्षान्तम् अनुज्ञातम् संघेन यस्मात् तूष्णीम्; एवम् एतद् धारयामि तत्स्वभावैषीयदत्तकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञापयामि; तत्स्वभावैषीयदत्तकेन भिक्षुणा न प्रव्राजयितव्यं नोपसंपादयितव्यं न निश्रयो देयो न श्रमणोद्देश उपस्थापयितव्यः नानेन कर्म कर्तव्यम्, न कर्मकारकः संमन्तव्यः, नानेन भिक्षुण्यो ऽववदितव्याः; न भिक्षुण्या ःअःववादकः संमन्तव्यः; न पूर्वसंमतेन भिक्षुण्यो ऽववदितव्याः; नानेन भिक्षुश् चोदयितव्यः स्मारयितव्यः शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या; नानेनाववादः स्थापयितव्यः, न पोषधे, न प्रवारणे, न ज्ञप्तिद्वितीये न ज्ञप्तिचतुर्थे कर्मणि; नापि संघमध्ये विनयो मोक्तव्यः सत्स्व् अन्येषु विनयधरेषु पुद्गलेषु; तत्स्वभावैषीयदत्तको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् असमादाय वर्तते, सातिसारो भवति एकम् अधार्मिकं तत्स्वभावैषीयं दानं, एकं धार्मिकम्; एकम् अधार्मिकम् कतमत्? यथापितत् हस्तको भिक्षुः संघमध्ये आपत्तिं प्रतिजानाति प्रतिज्ञाय अवजानाति अवज्ञाय पुनर् अपि प्रतिजानाति, तस्य संघः स्वभावैषीयं ददाति अधार्मिकं तत्स्वभावैषीयदानम्; इदम् एकम् अधार्मिकम्; एकं धार्मिकम् कतमत्? यथापितत् हस्तको भिक्षुः संघमध्ये आपत्तिम् अवजानाति

अवज्ञाय प्रतिजानाति प्रतिज्ञाय पुनर् अप्य् अवजानाति तस्य संघस् (अधिक्-व् 108) तत्स्वभावैषीयं ददाति, धार्मिकं तस्वभावैषीयदानम्; इदम् एकं धार्मिकम् एवं हि भिक्षवः तत्स्वभावैषीय अधिकरणशमथो भवति; एवं च पुनर् इहैकेकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत तत्स्वभावैषीयेनाधिकरणशमथेन

the settling of legal questions by the trṇaprastāraka method

कथं च भिक्षवः तृणप्रस्तारक अधिकरणशमथो भवति? कथं च पुनर् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च ःव्युपशमश्ः यदुत तृणप्रस्तारकेणाधिकरणशमथेन? यथापितद् भिक्षूणां कलहजातानां विहरतां भण्डनजातानां विगृहीतानां विवादम् आपन्नानां पक्षापरपक्षव्यवस्थितानाम्; एकस्मिन् पक्षे यो भिक्षुः (अ 349ब्) स्थविरः स्थविरान्यतमः ज्ञातो ज्ञातान्यतमः प्रमुकः प्रमुखान्यतमः तेन स्वपक्षे उपसंक्रम्य इदं स्याद् वचनीयम्: तेषाम् अस्माकम् आयुष्मन्तः अलाभा न लाभाः दुर्लब्धा न सुलब्धाः, ये वयं स्वाख्याते धर्मविनये प्रव्रज्य कलहजाता विहरामो भण्डनजाता विगृहीता विवादम् आपन्नाः; यां चाहम् आयुष्मन्तो ऽस्मिन् वस्तुनि आपत्तिम् आपन्नो यां च यूयम्, स्थापयित्वा स्थूलावद्यं वा गृहस्थप्रतिशरणं वा, उत्सहे ऽहम् आत्मनः करणीयेन युष्माकां च तेषाम् आयुष्मताम् अन्तिके देशयितुम् आविष्कर्तुं न प्रतिच्छादयितुम् इति; सचेत् तस्य भिक्षोः स्वपक्षाद् एकभिक्षुर् अपि भाषितं न प्रतिवहति न प्रतिक्रोशति, ततस् तेन भिक्षुणा द्वितीयं पक्षम् उपसंक्रम्यैकांशम् उत्तरासङ्गम् कृत्वा यथावृद्धिकया सामीचीं कृत्वा उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्: तेषाम् अस्माकम् आयुष्मन्त अलाभा न लाभाः दुर्लब्धा न सुलब्धाः, ये वयम् स्वाख्याते धर्मविनये प्रव्रज्य कलहजाता विहरामो भण्डनजाता विगृहीता विवादम् आपन्नाः; यां चाहम् अस्मिन् वस्तुन्य् आपत्तिम् आपन्नो यां च ते आयुष्मन्तः, स्थापयित्वा स्थूलावद्यं वा गृहपतिप्रतिशरणं (अधिक्-व् 109) वा, उत्सहे ऽहम् आत्मनः करणीयेन तेषाम् आयुष्मतां ःचः युष्माकम् अन्तिके देशयितुम् आविष्कर्तुं न प्रतिच्छादयितुम् इति;

द्वितीये पक्षे ःयोः भिक्षुः स्थविरः स्थविरान्यतमः ज्ञातो ज्ञातान्यतमः प्रमुखः प्रमुखान्यतमः तेनापि स्वपक्ष उपसंक्रम्य इदं स्याद् वचनीयम्: अस्माकम् आयुष्मन्तः तेषां च अलाभा न लाभा दुर्लब्धा न सुलब्धाः, ये वयं स्वाख्याते धर्मविनये प्रव्रज्य कलहजाता विहरामो भण्डनजाता विगृहीता विवादम् आपन्नः; यां चाहम् आयुष्मन्तो ऽस्मिन् वस्तुन्य् आपत्तिम् आपन्नो यां च यूयम्, स्थापयित्वा स्थूलावद्यं गृहस्थप्रतिशराणं वा, उत्सहे ऽहम् आत्मनः करणीयेन युष्माकं च तेषाम् ःआयुष्मताम्ः अन्तिके देशयितुम् आविष्कर्तुं न प्रतिच्छादयितुम् इति; सचेत् तस्य भिक्षोर् ःस्वपक्षाद् एकभिक्षुर्ः अपि भाषितं न प्रतिवहति न प्रतिक्रोशति ततस् तेन भिक्षुणा द्वितीयं पक्षम् उपसंक्रम्यैकांशम् उत्तरासङ्गम् कृत्वा यथावृद्धिकया सामीचीं कृत्वा उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्: तेषाम् अस्माकम् आयुष्मन्त अलाभा न लाभा दुर्लब्धा न सुलब्धाः, ये वयं स्वाख्याते धर्मविनये प्रव्रज्य कलहजाता विहरामो भण्डनजाता विगृहीता विवादम् आपन्नाः; यां चाहम् अस्मिन् वस्तुन्य् आपत्तिम् अपन्नो यां च ते आयुष्मन्तः, स्थापयित्वा स्थूलावद्यम् वा गृहस्थप्रतिशरणम् वा, उत्सहे ऽहम् आत्मनः करणीयेन तेषां चायुष्मतां युष्माकम् अन्तिके देशयितुम् आविष्कर्तुं न प्रतिच्छादयितुम् इति; यदा एकपक्षो ःद्वितीयेः रोमं पातयति निःसरणं प्रवर्तयति सामिचीं प्रवर्तयति द्वितीयो वा द्वितीये, न चान्योन्यम् आपत्तिपरिकीर्तनेन प्रवर्तयन्ति, एवं तदधिकरणं (अ 350अ) व्युपशान्तं यदुत तृणप्रस्तारकेणाधिकरणशमथेन; एवं हि भिक्षवः तृणप्रस्तारक अधिकरणशमथो (अधिक्-व् 110) भवति; एवं च पुनर्

इहैकेषाम् अधिकरणानां दमश् च भवति शमाश् च व्युपशमश् च यदुत तृणप्रस्तारकेण ःअधिकरणःशमथेन आपत्त्याधिकरणं भिक्षवः एभिश् चतुर्भिर् अधिकरणशमथैर् धर्मैर् दमयितव्यं शमयितव्यं व्युपशमयितव्यम्, यदुत प्रतिज्ञाकारकेण संमुखविनयेन तत्स्वभावैषीयेन तृणप्रस्तारकेण; कृत्याधिकरणं तु भिक्षवः समग्रेण संघेन व्युपशमयितव्यम् यस्मिन् भिक्षवः आवासे एको बिहिक्षुः प्रतिवसति तत्र न कलहो भण्डनं विग्रहो विवादः; यस्मिन् द्वौ तत्रापि न कलहो भण्डनं ःविग्रहोः विवादः; ःयस्मिन् त्रयः तत्रापि न कलहो भण्डनं विग्रहो विवादः;ः यस्मिन् तु चत्वारो भिक्षवः प्रतिवसन्ति उत्तरे वा तत्र कलहो भण्डनं विग्रहो विवादश् च; यथापि भिक्षवः एकस् तथा यथा ब्रह्मा यथा शक्रस् तथा द्वयम् /

यथा त्रयं तथा राजा कोलाहलम् अतः परम् //

तस्मात् तर्हि भिक्षवो ऽनुजानामि, य एकाम् अपि चतुष्पदिकां गाथां धारयति तस्य धर्मसन्तको लाभो देयः, तेनापि परिभोक्तव्यः; नात्र कौकृत्यं करणीयम्

श्रीः अधिकरणवस्तु समाप्तम्

p.111f.: appendix: this is a fragmentary leaf from the bhaiṣajyavastu, corresponding, withsome variants, to the text edited by prof. n. dutt, iii, 1, pp. 241-43. new edition see: k. wille: die handschriftliche überlieferung des vinayavastu der mūlasarvāstivādin, stuttgart 1990 (verzeichnis der orientalischen handschriften in deutschland, suppl.-bd. 30) [= diss., 1987], pp. 111ff.

bhaiṣajyavastu fragment 1------kariṇyā chorayitvā āgacchati/ sa pavanabalavegavāhinā javena śrāvastīm āgamya jeta------ 2.....dā muktaḥ tataḥ sā hastinī santrastā mūtrapurīṣam utsṛjantī kalabhaṃ chorayitvā pra..... 3.....ka iti saṃjñā/apare paṭhanti rājñā prasenajitā rājñā prasenajitā rājño bimbisvara..... 4.....putre aparāṇi saṅghe caritāni /

तथा अवशिष्टम् त..... 5.....भवन्तो मानुषाणां दिव्यानि विसानि तस्माद् अनुजामि दुर्लभानि दिव्यानि विसानीति..... 6.....को गृहपतिः मिण्डकपत्नी मिण्डकपुत्रः मिण्डकस्नुषा मिण्डकदासो मिण्डकपत्नी..... 7 ..... ः क्थं मिण्दक्पत्नी सा एकस्यार्थाय स्थालीं साधयति षतानि सहस्राणि च परिभुञ्जते एवं मिण्डक ..... 8.....एवं मिण्डकपुत्रः मिण्डकस्नुषा एकस्यार्थाय गत्वा संपादयति शतस्य सहस्रस्य च पर्याप्तं भवति ..... 9 .....यदा एकां मात्रां प्रतिजागर्ति तदा सप्त मात्रास् सम्पद्यन्ते/ एवं मिण्डकदासी महापुण्या/भ..... 10 .....युष्माकम् उत्सहते तथागतेन सार्धं जनपदचारिकया भद्रकं नगरं गन्तुं स ची ..... 1 .....युष्माकम् उत्सहते भगवता सार्धम् जनपदचारिकया भद्रकं नगरं गन्तुं स चीवर ..... 2 .....नपदचारिकां चरं भद्रं नगरं सम्प्रस्थितः यदा भगवता श्रावस्त्यां महाप्रतिहार्यं vi..... 3.....मणेन गौतमेन मध्यदेशान् निर्वासिताः स यदीहागमिष्यति निश्चयेनास्मान् इतोऽपि निर्वा ..... 4 ..... ः गमिष्यामः कस्यार्थाय/ दृश्ट्स्माभिर् युष्माकं संपत्तिर् यावद् विपत्तिन् न पश्यामस् तावद् गच्छामः आर्य ..... 5.....तव्यं तस्मिन् एव काले स्माकं परित्यागः क्रियते/ तिष्ठध न गन्तव्यम् इति/ ते कथयन्ति /किं ..... 6 .....रं नगरं प्रवेशयतः शाद्वलानि कृषतः स्थण्डिलानि पातयतः पुष्पफलवृक्षांस् छे..... 7 .....प्रवेशितः शाद्वलानि कृष्टानि स्थण्डिलानि पातितानि पुष्पवृकाश् छिन्नाः पानीयानि वि ..... 8 ..... श् च दुष्करशतसहस्रः षट्पारमित्वाः परिपूर्यानुत्तरं ज्ञानम् आज्ञा दत्ता /

गच्छत विषपानीयानि शोषयतेति/ वर्षबल ..... 9 ..... पुत्राणम् आज्ञा दत्ता / गच्छत विषदूस्षितानि शोषयएति / वर्षबल ..... 10.....तो वातबलाहकैर् देवपुत्रैर् विषदूषितानि पानीयानि शोषितानि वर्ष .....

index of the english titles in the adhikaraṇavastu: the buddha at kapilavastu. king śuddhodana listens to buddha's sermons buddha's doctrine is addressed also to women. the queen mahāprajāvatī asks to king śuddhodana to permit to śākya women to listen to the doctrine instances of female vanity and the story of the maid-servant rohikā the story of muktikā ,the daughter of the king of siṃhala, and the portrait of the buddha the story fo the wife of the guild-leader(concerning a previous life of muktikā) the four of classes of disputes the vivādhādhikaraṇam the anavavādādhikaraṇam the āpattyadhikaraṇam the kṛtyādhikaraṇam the three kinds of vivādādhikaraṇam the two kinds of āpattyadhikaraṇam the three kinds of kṛtyādhikaraṇam not all kinds of vivāda, etc., are a source of adhikaraṇam the settlement of disputes. śāriputra and maudgalyāyana settle a dispute the sthalastha monks two presences: pudgala and dharma three presences: saṅgha, pudgala and dharma two presences: pudgala and dharma three presences: saṅgha, pudgala and dharma two presences: pudgala and dharma the settlement of legal questions by the vote of the majority the four methods of votation the ten distributions of voting tickets that are not legally valid the ten distributions of voting tickets that are legally valid methods of votation the legal questions arising from vivāda and anavavāda can be settled in two and three ways respectively. the smṛtivinaya three forms of smṛtivinaya legally valid the amūḍhavinaya two

forms of amūḍhavinaya respectively not legally valid and legally valid the legal questions arising from āpatti can be settled in four ways. the pratijñākāraka ten and ten ways of applying pratijñākāraka respectively not legally valid and legally valid the buddha absolves the monk kālo mṛgāraputra from a false accusation various forms of accusations sixteen and sixteen ways of applying saṃmukhavinaya respectively not legally valid and legally valid the settlement of legal questions by the satsvabhāvaiṣīya method the settling of legal questions by the trṇaprastāraka method appendix note to the piṇḍoddānam, p.3

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.