Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 18/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नाप्रमाणेषु चरति / नाप्रमाणानां निमित्ते चरति / नाप्रमाणानि नित्यानीति चरति / नाप्रमाणान्य् अनित्यानीति चरति / नाप्रमाणानि सुखानीति चरति / नाप्रमाणानि दुःखानीति चरति / नाप्रमाणानि आत्मिकानीति चरति / नाप्रमाणान्य् अनात्मिकानीति चरति / नाप्रमाणानि शान्तानीति चरति / नाप्रमाणान्य् अशान्तानीति चरति / नाप्रमाणानि शून्यानीति चरति / नाप्रमाणान्य् अशूयानीति चरति / नाप्रमाणानि निमित्तानीति चरति / नाप्रमाणान्य् अनिमित्तानीति चरति / नाप्रमाणानि प्रणिहितानीति चरति / नाप्रमाणान्य् अप्रणिहितानीति चरति / नाप्रमाणानि विविक्तानीति चरति / नाप्रमाणान्य् अविविक्तानीति चरति /

नारूप्यसमापत्तिषु चरति / नारूप्यसमापत्तीनां निमित्ते चरति / नारूप्यसमापत्तीर् नित्या इति चरति / नारूप्यसमापत्तीर् अनित्या इति चरति / नारूप्यसमापत्तीः सुखा इति चरति / नारूप्यसमापत्तीर् दुःखा इति चरति / नारूप्यसमापत्तीर् आत्मान इति चरति / नारूप्यसमापत्तीर् अनात्मान इति चरति / नारूप्यसमापत्तीः शान्ता इति चरति / नारूप्यसमापत्तीर् अशान्ता इति चरति / नारूप्यसमापत्तीः शून्या इति चरति / नारूप्यसमापत्तीर् अशून्या इति चरति / नारूप्यसमापत्तीर् निमित्ता इति चरति / नारूप्यसमापत्तीर् अनिमित्ता इति चरति / नारूप्यसमापत्तीः प्रणिहिता इति चरति / नारूप्यसमापत्तीर् अप्रणिहिता इति चरति / नारूप्यसमापत्तीर् विविक्ता इति चरति / नारूप्यसमापत्तीर् अविविक्ता इति चरति /

न विमोक्षेषु चरति / स विमोक्षाणां निमित्ते चरति / न विमोक्षाः नित्या इति चरति / न विमोक्षान् अनित्या इति चरति / न विमोक्षान् सुखा इति चरति / म विमोक्षान् दुःखा इति चरति / न विमोक्षान् आत्मान इति चरति / न विमोक्षान् अनात्मान इति चरति / न विमोक्षान् शान्ता इति चरति / न विमोक्षान् अशान्ता इति चरति / न विमोक्षान् शून्या इति चरति / न विमोक्षान् अशून्या इति चरति / न विमोक्षान् निमित्ता इति चरति / न विमोक्षान् अनिमित्ता इति चरति / न विमोक्षान् प्रणिहिता इति चरति / न विमोक्षान् अप्रणिहितानिति चरति / न विमोक्षान् विविक्ता इति चरति / न विमोक्षान् अविविक्ता इति चरति /

नानुपूर्वविहारसमापत्तिषु चरति / नानुपूर्वविहारसमापत्तीनां निमित्ते चरति / नानुपूर्वविहारसमापत्तीर् नित्या इति चरति / नानुपूर्वविहारसमापत्तीर् अनित्या इति चरति / नानुपूर्वविहारसमापत्तीः सुखा इति चरति / नानुपूर्वविहारसभापत्तीर् दुःखा इति चरति / नानुपूर्वविहारसमापत्तीर् आत्मान इति चरति / नानुपूर्वविहारसमापत्तीर् अनात्मान इति चरति / नानुपूर्वविहारसमापत्तीः शान्ता इति चरति / नानुपूर्वविहारसमापत्तीर् अशान्ता इति चरति / नानुपूर्वविहारसमापत्तीः शून्या इति चरति / नानुपूर्वविहारसमापत्तीर् अशून्या इति चरति / नानुपूर्वविहारसमापत्तीर् निमित्ता इति चरति / नानुपूर्वविहारसमापत्तीर् अनिमित्ता इति चरति / नानुपूर्वविहारसमापत्तीः प्रणिहिता इति चरति / नानुपूर्वविहारसमापत्तीर् अप्रणिहिता इति चरति / नानुपूर्व्यविहारसमापत्तीर् विविक्ता इति चरति / नानुपूर्वविहारसमापत्तीर् अविविक्ता इति चरति /

न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां निमित्ते चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीति चरति / न शून्यतानिमिक्ताप्रणिहितविमोक्षमुखान्य् आत्मिकानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मिकामीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशान्तानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशून्यानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनिमित्तानीति चरति / न शूव्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्रणिहितानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीति चरति / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अविविक्तानीति चरति /

नाभिज्ञासु चरति / नाभिज्ञानां निमित्ते चरति / नाभिज्ञाः नित्या इति चरति / नाभिज्ञाः अनित्या इति चरति / नाभिज्ञाः सुखा इति चरति / नाभिज्ञाः दुःखा इति चरति / नाभिज्ञाः आत्मान इति चरति / नाभिज्ञाः अनात्मान इति चरति / नाभिज्ञाः शान्ता इति चरति / नाभिज्ञाः अशान्ता इति चरति / नाभिज्ञाः शून्या इति चरति / नाभिज्ञाः अशून्या इति चरति / नाभिज्ञाः निमित्ता इति चरति / नाभिज्ञाः अनिमित्ता इति चरति / नाभिज्ञाः प्रणिहिता इति चरति / नाभिज्ञाः अप्रणिहिता इति चरति / नाभिज्ञाः विविक्ता इति चरति / नाभिज्ञाः अविविक्ता इति चरति /

न समाधिषु चरति / न समाधिनां चरति / न समाधीन् नित्या इति चरति / न समाधीन् अनित्या इति चरति / न समाधीन् सुखा इति चरति / न समाधीन् दुःखा इति चरति / न समाधीन् आत्मान इति चरति / न समाधीन् अनात्मान इति चरति / न समाधीन् शान्ता इति चरति / न समाधीन् अशान्ता इति चरति / न समाधीन् शून्या इति चरति / न समाधीन् अशून्या इति चरति / न समाधीन् निमित्ता इति चरति / न समाधीन् अनिमित्ता इति चरति / न समाधीन् प्रणिहिता इति चरति / न समाधीन् अप्रणिहिता इति चरति / न समाधीन् विविक्ता इति चरति / न समाधीन् अविविक्ता इति चरति /

न धारणीमुखेषु चरति / न धारणीमुखानां निमित्ते चरति / स धारणीमुखानि नित्यानीति चरति / न धारणीमुखान्य् अनित्यानीति चरति / न धारणीमुखानि सुखानीति चरति / न धारणीमुखानि दुःखानीति चरति / न धारणीमुखान्य् आत्मिकानीति चरति / न धारणीमुखान्य् अनात्मिकानीति चरति / न धारणीमुखानि शान्तानीति चरति / न धरिणीमुखान्य् अशान्तानीति चरति / न धारणीमुखानि शून्यानीति चरति / न धारणीमुखान्य् अशून्यानीति चरति / न धारणीमुखानि निमित्तानीति चरति / न धारणीमुखान्य् अनिमित्तानीति चरति / न धारणीमुखानि प्रणिहितानीति चरति / न धारणीमुखान्य् अप्रणिहितानीति चरति / न धारणीमुखानि विविक्तानीति चरति / न धारणीमुखान्य् अविविक्तानीति चरति /

न तथागतबलेषु चरति / न तथागतबलानां निमित्ते चरति / न तथागतबलानि नित्यानीति चरति / न तथागतबलान्य् अनित्यानीति चरति / न तथागतबलानि सुखानीति चरति / न तथागतबलानि दुःखानीति चरति / न तथागतबलान्य् आत्मिकानीति चरति / न तथागतबलान्य् अनात्मिकानीति चरति / न तथागतबलानि शान्तानीति चरति / न तथागतबलान्य् अशान्तानीति चरति / न तथागतबलानि शून्यानीति चरति / न तथागतबलान्य् अशून्यानीति चरति / न तथागतबलानि निमित्तानीति चरति / न तथागतबलान्य् अनिमित्तानीति चरति / न तथागतबलानि प्रणिहितानीति चरति / न तथागतबलान्य् अप्रणिहितानीति चरति / तथागतबलानि विविक्तानीति चरति / न तथागतबलान्य् अविविक्तानीति चरति /

न वैशारद्येषु चरति / न वैशारद्यानां निमित्ते चरति / न वैशारद्यानि नित्यानीति चरति / न वैशारद्यान्य् अनित्यानीति चरति / न वैशारद्यानि सुखानीति चरति / न वैशारद्यानि दुःखानीति चरति / न वैशारद्यान्य् आत्मिकानीति चरति / न वैशारद्यान्य् अनात्मिकानीति चरति / न वैशारद्यानि शान्तानीति चरति / न वैशारद्यान्य् अशान्तानीति चरति / न वैशारद्यानि शून्यानीति चरति / न वैशारद्यान्य् अशून्यानीति चरति / न वैशारद्यानि निमित्तानीति चरति / न वैशारद्यान्य् अनिमित्तानीति चरति / न वैशारद्यानि प्रणिहितानीति चरति / न वैशारद्यान्य् अप्रणिहितानीति चरति / न वैशारद्यानि विविक्तानीति चरति / न वैशारद्यान्य् अविविक्तानीति चरति /

न प्रतिसंवित्सु चरति / न प्रतिसंविदां निमित्ते चरति / न प्रतिसंविदो नित्या इति चरति / न प्रतिसंविदो ऽनित्या इति चरति / न प्रतिसंविदः सुखा इति चरति / न प्रतिसंविदो दुःखा इति चरति / न प्रतिसंविदः आत्मान इति चरति / न प्रतिसंविदो ऽनात्मान इति चरति / न प्रतिसंविदः शान्ता इति चरति / न प्रतिसंविदो ऽशान्ता इति चरति / न प्रतिसंविदः शून्या इति चरति / न प्रतिसंविदो ऽशून्या इति चरति / न प्रतिसंविदो निमित्ता इति चरति / न प्रतिसंविदो ऽनिमित्ता इति चरति / न प्रतिसंविदो प्रणिहिता इति चरति / न प्रतिसंविदो ऽप्रणिहिता इति चरति / न प्रतिसंविदो विविक्ता हति चरति / न प्रतिसंविदो ऽविविक्ता इति चरति /

न महाकरुणायां चरति / न महाकरुणाया निमित्ते चरति / न महाकरुणा नित्येति चरति / न महाकरुणानित्येति चरति / न महाकरुणा सुखेति चरति / न महाकरुणा दुःखेति चरति / न महाकरुणा आत्मेति चरति / न महाकरुणानात्मेति चरति / न महाकरुणा शान्तेति चरति / न महाकरुणाशान्तेति चरति / न महाकरुणा शून्येति चरति / न महाकरुणाशून्येति चरति / न महाकरुणा निमित्तेति चरति / न महाकरुणानिमित्तेति चरति / न महाकरुणा प्रणिहितेति चरति / न महाकरुणाप्रणिहितेति चरति / न महाकरुणा वितिक्तेति चरति / न महाकरुणाविविक्तेति चरति /

नाष्टादशावेणिकबुद्धधर्मेषु चरति / नाष्टादशावेणिकबुद्धधर्माणां निमित्ते चरति / नाष्टादशावेणिकबुद्धधर्मान् नित्या इति चरति / नाष्टादशावेणिकबुद्धधर्मान् अनित्या इति चरति / नाष्टादशावेणिकबुद्धधर्मान् सुखा इति चरति / नाष्टादशावेणिकबुद्धधर्मान् दुःखा इति चरति / नाष्टादशावेणिकबुद्धधर्मान् आत्मान इति चरति / नाष्टादशावेणिकबुद्धधर्मान् अनात्मान इति चरति / नाष्टादशावेणिकबुद्धधर्मान् शान्ता इति चरति / नाष्टादशावेणिकबुद्धधर्मान् अशान्ता इति चरति / नाष्टादशावेणिकबुद्धर्मान् शून्या इति चरति / नाष्टादशावेणिबुद्धधर्मान् अशून्या इति चरति / नाष्टादशावेणिकबुद्धधर्मान् निमित्ता इति चरति / नाष्टादशावेणिकबुद्धधर्मान् अनिमित्ता इति चरति / नाष्टादशावेणिकबुद्धधर्मान् प्रणिहिता इति चरति / नाष्टादशावेणिकबुद्धधर्मान् अप्रणिहिता इति चरति / नाष्टादशावेणिकबुद्धधर्मान् विविक्ता इति चरति / नाष्टादशावेणिकबुद्धधर्मान् अविविक्ता इति चरति /

तत् कस्य हेतोस् तथा ह्य् आयुष्मञ् छारद्वतीपुत्र या रूपस्य शून्यता न तद् रूपं / न चान्यत्र शून्यताया रूपं नान्यत्र रूपाच् छून्यता / शून्यतैव रूपं / रूपम् एव शून्यता / या वेदनायाः शून्यता न सा वेदना न चान्यत्र शून्यताया वेदना नान्यत्र वेदनायाः शून्यता / शून्यतैव वेदना / वेदनैव शून्यता / या संज्ञायाः शून्यता न सा शून्यता / न चान्यत्र शून्यतायाः संज्ञा / नान्यत्र संज्ञायाः शून्यता / शून्यतैव संज्ञा / संज्ञैव शून्यता / या संस्काराणां शून्यता न ते संस्काराः / न चान्यत्र शून्यतायाः संस्काराः / नान्यत्र संस्कारेभ्यः शून्यता / शून्यतैव संस्काराः / संस्कारा एव शून्यता / या विज्ञानस्य शून्यता न तद् विज्ञानं / न चान्यत्र शून्यतायाः विज्ञानं / नान्यत्र विज्ञानाच् छून्यता / शून्यतैव विज्ञानं / विज्ञानम् एव शून्यता /

या चक्षुषः शून्यता न तच् चक्षुः / न चान्यत्र शून्यतायाश् चक्षुः / नान्यत्र चक्षुषः शून्यता / शून्यतैव चक्षुः / चक्षुर् एव शून्यता / या श्रोत्रस्य शून्यता न तत् श्रोत्रं / न चान्यत्र शून्यतायाः श्रोत्रं / नान्यत्र श्रोत्राच् छून्यता / शून्यतैव श्रोत्रं / श्रोत्रम् एव शून्यता / या घ्राणस्य शून्यता न तद् घ्राणं / न चान्यत्र शून्यतायाः घ्राणं / नान्यत्र घ्राणाच् छून्यता / शून्यतैव घ्राणं / घ्राणम् एव शून्यता / या जिह्वायाः शून्यता न सा जिह्वा / न चान्यत्र शून्यतायाः जिह्वा / नान्यत्र जिह्वायाः शून्यता / शून्यतैव जिह्वा / जिह्वैव शून्यता / या कायस्य शून्यता न स कायः / न चान्यत्र शून्यतायाः कायः / नान्यत्र कायाच् छून्यता / शून्यतैव कायः / काय एव शून्यता / या मनसः शून्यता न तन् मनः / न चान्यत्र शून्यतायाः मनः / नान्यत्र मनसः शून्यता / शून्यतैव मनः / मन एव शून्यता /

या रूपस्य शून्यता न तद् रूपं / न चान्यत्र शून्यतायाः रूपं / नान्यत्र रूपाच् छून्यता / शून्यतैव रूपं / रूपम् एव शून्यता / या शब्दस्य शून्यता न स शब्दः / न चान्यत्र शून्यतायाः शब्दः / नान्यत्र शब्दाच् छून्यता / शून्यतैव शब्दः / शब्द एव शून्यता / या गन्धस्य शून्यता न स गन्धः / न चान्यत्र शून्यतायाः गन्धः / नान्यत्र गन्धाच् छून्यता / शून्यतैव गन्धो गन्ध एव शून्यता / या रसस्य शून्यता न स रसः / न चान्यत्र शून्यताया रसो नान्यत्र रसाच् छून्यता / शून्यतैव रसो रस एव शून्यता / या स्पर्शस्य शून्यता न स स्पर्शः / न चान्यत्र शून्यतायाः स्पर्शो नान्यत्र स्पर्शाच् छून्यता / शून्यतैव स्पर्शः / स्पर्श एव शून्यता / या धर्माणां शून्यता न ते धर्माः / न चान्यत्र शून्यतायाः धर्माः / नान्यत्र धर्मेभ्यः शून्यता / शून्यतैव धर्माः / धर्मा एव शून्यता /

या चक्षुर्धातुशून्यता न स चक्षुर्धातुः / न चान्यत्र शून्यतायायाश् चक्षुर्धातुर् नान्यत्र चक्षुर्धातोः शून्यता / शून्यतैव चक्षुर्धातुश् चक्षुर्धातुर् एव शून्यता / या रूपधातुशून्यता न स रूपधातुः / न चान्यत्र शून्यतायाः रूपधातुः / नान्यत्र रूपधातोः शून्यता / शून्यतैव रूपधातुः / रूपधातुर् एव शून्यता / या चक्षुर्विज्ञानधातुशून्यता न स चक्षुर्विज्ञानधातुः / न चान्यत्र शून्यतायाश् चक्षुर्विज्ञानधातुः / नान्यत्र चक्षुर्विज्ञानधातोः शून्यता / शून्यतैव चक्षुर्विज्ञानधातुः / चक्षुर्विज्ञानधातुर् एव शून्यता / या श्रोत्रधातुशून्यता न स श्रोत्रधातुः / न चान्यत्र शून्यतायाः श्रोत्रधातुः / नान्यत्र श्रोत्रधातोः शून्यता / शून्यतैव श्रोत्रधातुः / श्रोत्रधातुर् एव शून्यता / या शब्दधातुशून्यता न स शब्दधातुः / न चान्यत्र शून्यतायाः शब्दधातुः / नान्यत्र शब्दधातोः शून्यता / शून्यतैव शब्दधातुः / शब्दधातुर् एव शून्यता / या श्रोत्रविज्ञानधातुशून्यता / न स श्रोत्रविज्ञानधातुः / न चान्यत्र शून्यतायाः श्रोत्रविज्ञानधातुः / नान्यत्र श्रोत्रविज्ञानधातोः शून्यता / शून्यतैव श्रोत्रविज्ञानधातुः / श्रोत्रविज्ञानधातुर् एव शून्यता / या घ्राणधातुशून्यता न स घ्राणधातुः / न चान्यत्र शून्यतायाः घ्राणधातुः / नान्यत्र घ्राणधातोः शून्यता / शून्यतैव घ्राणधातुः / घ्राणधातुर् एव शून्यता / या गन्धधातुशून्यता न स गन्धधातुः / न चान्यत्र शून्यतायाः गन्धधातुः / नान्यत्र गन्धधातोः शनता / शून्यतैव गन्धधातुः / गन्धधातुर् एव शून्यता / या घ्राणविज्ञानधातुशून्यता / न स घ्राणविज्ञानधातुः / न चान्यत्र शून्यतायाः घ्राणविज्ञानधातुः /

नान्यत्र घ्राणविज्ञानधातोः शून्यता / शून्यतैव घ्राणविज्ञानधातुः / घ्राणविज्ञानधातुर् एव शून्यता / या जिह्वाधातुशून्यता न स जिह्वाधातुः / न चान्यत्र शून्यतायाः जिह्वाधातुः / नान्यत्र जिह्वाधातोः शून्यता / शून्यतैव जिह्वाधातुः / जिह्वाधातुर् एव शून्यता / या रसधातुशून्यता / न स रसधातुः / न चान्यत्र शून्यतायाः रसधातुः / नान्यत्र रसधातोः शून्यता / शून्यतैव रसधातुः / रसधातुर् एव शून्यता / या जिह्वाविज्ञानधातुशून्यता न स जिह्वाविज्ञानधातुः / न चान्यत्र शून्यतायाः जिह्वाविज्ञानधातुः / नान्यत्र जिह्वाविज्ञानधातोः शून्यता / शून्यतैव जिह्वाविज्ञानधातुः / जिह्वाविज्ञानधातुर् एव शून्यता / या कायधातुशून्यता न स कायधातुः / न चान्यत्र शून्यतायाः कायधातुः / नान्यत्र कायधातोः शून्यता / शून्यतैव कायधातुः / कायधातुर् एव शून्यता / या स्पर्शधातुशून्यता न स स्पर्शधातुः / न चान्यत्र शून्यतायाः स्पर्शधातुः / नान्यत्र स्पर्शधातोः शून्यता / शून्यतैव स्पर्शधातुः / स्पर्शधातुर् एव शून्यता /

या कायविज्ञानधातुशून्यता न स कायविज्ञानधातुः / न चान्यत्र शून्यतायाः कायविज्ञानधातुः / नान्यत्र कायविज्ञानधातोः शून्यता / शून्यतैव कायविज्ञानधातुः / कायविज्ञानधातुर् एव शून्यता / या मनोधातुशून्यता न स मनोधातुः / न चान्यत्र शून्यतायाः मनोधातुः / नान्यत्र मनोधातोः शून्यता / शून्यतैव मनोधातुः / सनोधातुर् एव शून्यता / या धर्मधातुशून्यता न स धर्मधातुः / न चान्यत्र शून्यतायाः धर्मधातुः / नान्यत्र धर्मधातोः शून्यता / शून्यतैव धर्मधातुः / धर्मधातुर् एव शून्यता / या मनोविज्ञानधातुशून्यता न स मनोविज्ञानधातुः / न चान्यत्र शून्यतायाः मनोविज्ञानधातुः / नान्यत्र मनोविज्ञानधातोः शून्यता / शून्यतैव मनोविज्ञानधातुः / मनोविज्ञानधातुर् एव शून्यता /

या पृथिवीधातुशून्यता न स पृथिवीधातुः / न चान्यत्र शून्यतायाः पृथिवीधातुः / नान्यत्र पृथिवीधातोः शून्यता / शून्यतैव पृथिवीधातुः / पृथिवीधातुर् एव शून्यता / याब्द्धातुशून्यता न साब्धातुः / न चान्यत्र शून्यताया अब्धातुः / नान्यत्राब्धातोः शून्यता / शून्यतैवाब्धातुः / अब्धातुर् एव शून्यता / या तेजोधातुशून्यता न स तेजोधातुः / न चान्यत्र शून्यतायास् तेजोधातुः / नान्यत्र तेजोधातोः शून्यता / शून्यतैव तेजोधातुः / तेजोधातुर् एव शून्यता / या वायुधातुशून्यता न स वायुधातुः / न चान्यत्र शून्यतायाः वायुधातुः / नान्यत्र वायुधातोः शून्यता / शून्यतैव वायुधातुः / वायुधातुर् एव शून्यता / या आकाशधातुशून्यता न स आकाशधातुः / न चान्यत्र शून्यताया आकाशधातुः / नान्यत्राकाशधातोः शून्यता / शून्यतैवाकाशधातुः / आकाशधातुर् एव शून्यता /

या विज्ञानधातुशून्यता न स विज्ञानधातुः / न चान्यत्र शून्यतायाः विज्ञानधातुः / नान्यत्र विज्ञानधातोः शून्यता / शून्यतैव विज्ञानधातुः / विज्ञानधातुर् एव शून्यता / या विद्याशून्यता न साविद्या / न चान्यत्र शून्यताया अविद्या / नान्यत्राविद्यायाः शून्यता / संस्कृतैवाविद्या / अविद्यैव शून्यता / या संस्कारशून्यता न ते संस्काराः / न चान्यत्र शून्यतायाः संस्काराः / नान्यत्र संस्कारेभ्यः शून्यता / शून्यतैव संस्काराः / संस्कारा एव शून्यता / या विज्ञानशून्यता न तद् विज्ञानं / न चान्यत्र शून्यतायाः विज्ञानं / नान्यत्र विज्ञानाच् छून्यता / शून्यतैव विज्ञानं / विज्ञानम् एव शून्यता /

या नामरूपशून्यता न तन् नामरूपं / न चान्यत्र शून्यतायाः नामरूपं / नान्यत्र नामरूपाच् छून्यता / शून्यतैव नामरूपं / नामरूपम् एव शून्यता / या षडायतनशून्यता न तत् षडायतनं / न चान्यत्र शून्यतायाः षडायतनं / नान्यत्र षडायतनाच् छून्यता / शून्यतैव षडायतनं / षडायतनम् एव शून्यता / या स्पर्शशून्यता न स स्पर्शः / न चान्यत्र शून्यतायाः स्पर्शः / नान्यत्र स्पर्शाच् छून्यता / शून्यतैव स्पर्शः / स्पर्श एव शून्यता / या वेदनाशून्यता न सा वेदना / न चान्यत्र शून्यतायाः वेदना / नान्यत्र वेदनायाः शून्यता / शून्यतैव वेदना / वेदनैव शून्यता / या तृष्णाशून्यता न सा तृष्णा / न चान्यत्र शून्यतायास् तृष्णा / नान्यत्र तृष्णायाः शून्यता / शून्यतैव तृष्णा / तृष्णैव शून्यता / या उपादानशून्यता न तद् उपादानं / न चान्यत्र शून्यताया उपादानं / नान्यत्रोपादानाच् छून्यता / शून्यतैवोपादानं / उपादानम् एव शून्यता / या भवशुन्यता न स भवः / न चान्यत्र शून्यतायाः भवः / नान्यत्र भवाच् छून्यता / शून्यतैव भवः / भव एव शून्यता / या जातिशून्यता न सा जातिः / न चान्यत्र शून्यतायाः जातिः / नान्यत्र जातेः शून्यता / शून्यतैव जातिः / जातिर् एव शून्यता / या जरामरणशून्यता न तज् जरामरणं / न चान्यत्र शून्यतायाः जरामरणं / नान्यत्र जरामरणाच् छून्यता / शून्यतैव जरामरणम् / जरामरणम् एव शून्यता /

या दानपारमिताशून्यता न सा दानपारमिता / न चान्यत्र शून्यतायाः दानपारमिता / नान्यत्र दानपारमितायाः शून्यता / शून्यतैव दानपारमिता / दानपारमितैव शून्यता / या शीलपारमितायाः शून्यता न सा शीलपारमिता / न चान्यत्र शून्यतायाः शीलपारमिता / नान्यत्र शीलपारमितायाः शून्यता / शून्यतैव शीलपारमिता / शीलपारमितैव शून्यता / या क्षान्तिपारमिताशून्यता न सा क्षान्तिपारमिता / न चान्यत्र शून्यतायाः क्षान्तिपारमिता / नान्यत्र क्षान्तिपारमितायाः शून्यता / शून्यतैव क्षान्तिपारमिता / क्षान्तिपारमितैव शून्यता / या वीर्यपारमिताशून्यता न सा वीर्यपारमिता / न चान्यत्र शून्यतायाः वीर्यपारमिता / नान्यत्र वीर्यपारमितायाः शून्यता / शून्यतैव वीर्यपारमिता / वीर्यपारमितैव शून्यता / या ध्यानपारमिताशून्यता न सा ध्यानपारमिता / न चान्यत्र शून्यतायाः ध्यानपारमिता / नान्यत्र ध्यानपारमितायाः शून्यता / शून्यतैव ध्यानपारमिता / ध्यानपारमितैव शून्यता / या प्रज्ञापारमिताशून्यता न सा प्रज्ञापारमिता / न चान्यत्र शून्यतायाः प्रज्ञापारमिता / नान्यत्र प्रज्ञापारमितायाः शून्यता / शून्यतैव प्रज्ञापारमिता / प्रज्ञापारमितैव शून्यता /

या अध्यात्मशून्यतायाः शून्यता न सा अध्यात्मशून्यता / न चान्यत्र शून्यताया अध्यात्मशून्यता / नान्यत्राध्यात्मशून्यतायाः शून्यता / शून्यतैवाध्यात्मशून्यता / अध्यात्मशून्यतैव शून्यता / या बहिर्धाशून्यतायाः शून्यता न सा बहिर्धाशून्यता / न चान्यत्र शून्यतायाः बहिर्धाशून्यता / नान्यत्र बहिर्धाशून्यतायाः शून्यता / शून्यतैव बहिर्धाशून्यता / बहिर्धाशून्यतैव शून्यता / या अध्यात्मबहिर्धाशून्यतायाः शून्यता न सा अध्यात्मबहिर्धाशून्यता / न चान्यत्र शून्यताया अध्यात्मबहिर्धाशून्यता / नान्यत्राध्यात्मबहिर्धाशून्यतायाः शून्यता / शून्यतैवाध्यात्मबहिर्धाशून्यता / अध्यात्मबहिर्धाशून्यतैव शून्यता / या शून्यताशून्यतायाः शून्यता न सा शून्यताशून्यता / न चान्यत्र शून्यतायाः शून्यताशून्यता / नान्यत्र शून्यताशून्यतायाः शून्यता / शून्यतैव शून्यताशून्यता / शून्यताशून्यतैव शून्यता / या महाशून्यतायाः शून्यता न सा महाशून्यता / न चान्यत्र शून्यतायाः महाशून्यता / नान्यत्र महाशून्यतायाः शून्यता / शून्यतैव महाशून्यता / महाशून्यतैव शून्यता / या परमार्थशून्यतायाः शून्यता न सा परमार्थशून्यता / न चान्यत्र शून्यतायाः परमार्थशून्यता / नान्यत्र परमार्थशून्यतायाः शून्यता / शून्यतैव परमार्थशून्यता / परमार्थशून्यतैव शून्यता / या संस्कृतशून्यतायाः शून्यता / न सा संस्कृतशून्यता / न चान्यत्र शून्यतायाः संस्कृतशून्यता / नान्यत्र संस्कृतशून्यतायाः शून्यता / शून्यतैव संस्कृतशून्यता / संस्कृतशून्यतैव शून्यता / या असंस्कृतशून्यतायाः शून्यता न सा असंस्कृतशून्यता / न चान्यत्र शून्यताया असंस्कृतशून्यता / नान्यत्रासंस्कृतशून्यतायाः शून्यता /

शून्यतैवासंस्कृतशून्यता / असंस्कृतशून्यतैव शून्यता / या अत्यन्तशून्यतायाः शून्यता / न सा अत्यन्तशून्यता / न चान्यत्र शून्यतायाः अत्यन्तशून्यता / नान्यत्रात्यन्तशून्यतायाः शून्यता / शून्यतैवात्यन्तशून्यता / अत्यन्तशून्यतैव शून्यता / यानवराग्रशून्यतायाः शून्यता / न सानवराग्रशून्यता / न चान्यत्र शून्यताया अनवराग्रशून्यता / नान्यत्रानवराग्रशून्यतायाः शून्यता / शून्यतैवानवराग्रशून्यता / यानवकारशून्यतायाः शून्यता / न सानवकारशून्यता / न चान्यत्र शून्यताया अनवकारशून्यता / नान्यत्रानवकारशून्यतायाः शून्यता / शून्यतैवानवकारशून्यता / अनवकारशून्यतैव शून्यता / या प्रकृतिशून्यतायाः शून्यता / न सा प्रकृतिशून्यता / न चान्यत्र शून्यतायाः प्रकृतिशून्यता / नान्यत्र प्रकृतिशून्यतायाः शून्यता / शून्यतैव प्रकृतिशून्यता / प्रकृतिशून्यतैव शून्यता / या सर्वधर्मशून्यतायाः शून्यता न सा सर्वधर्मशून्यता / न चान्यत्र शून्यतायाः सर्वधर्मशून्यता / नान्यत्र सर्वधर्मशून्यतायाः शून्यता / शून्यतैव सर्वधर्मशून्यता / सर्वधर्मशून्यतैव शून्यता / या स्वलक्षणशून्यतायाः शून्यता न सा स्वलक्षणशून्यता / न चान्यत्र शून्यतायाः स्वलक्षणशून्यता / नान्यत्र स्वलक्षणशून्यतायाः शून्यता / शून्यतैव स्वलक्षणशून्यता / स्वलक्षणशून्यतैव शून्यता / यानुपलम्भशून्यतायाः शून्यता न सा अनुपलम्भशून्यता / न चान्यत्र शून्यताया अनुपलम्भशून्यता / नान्यत्रानुपलम्भशून्यतायाः शून्यता / शून्यतैवानुपलम्भशून्यता / अनुपलम्भशून्यतैव शून्यता / याभावशून्यतायाः शून्यता न साभावशून्यता / न चान्यत्र शून्यताया अभावशून्यता /

नान्यत्राभावशून्यतायाः शून्यता / शून्यतैवाभावशून्यता / अभावशून्यतैव शून्यता / या स्वभावशून्यतायाः शून्यता न सा स्वभावशून्यता / न चान्यत्र शून्यतायाः स्वभावशून्यता / नान्यत्र स्वभावशून्यतायाः शून्यता / शून्यतैव स्वभावशून्यता / स्वभावशून्यतैव शून्यता / याभावस्वभावशून्यता न साभावस्वभावशून्यता / न चान्यत्र शून्यताया अभावस्वभावशून्यता / नान्यत्राभावस्वभावशून्यतायाः शून्यता / शून्यतैवाभावस्वभावशून्यता / अभावस्वभावशून्यतैव शून्यता /

या चतुर्णां स्मृत्युपस्थानां शून्यता न तानि स्मृत्युपस्थानानि / न चान्यत्र शून्यतायाः स्मृत्युपस्थानानि / नान्यत्र स्मृत्युपस्थानेभ्यः शून्यता / शून्यतैव स्मृत्युपस्थानानि / स्मृत्युपस्थानान्य् एव शून्यता / या चतुर्णां सम्यक्प्रहाणानां शून्यता न तानि सम्यक्प्रहाणानि / न चान्यत्र शून्यतायाः सम्यक्प्रहाणानि / नान्यत्र सम्यक्प्रहाणेभ्यः शून्यता / शून्यतैव सम्यक्प्रहाणानि / सम्यक्प्रहाणान्य् एव शून्यता / या चतुर्णाम् ऋद्धिपादानां शून्यता न ते ऋद्धिपादाः / न चान्यत्र शून्यताया ऋद्धिपादाः / नान्यत्र ऋद्धिपादेभ्यः शून्यता / शून्यतैव ऋद्धिपादाः / ऋद्धिपादा एव शून्यता / या पञ्चानाम् इन्द्रियाणां शून्यता / न तानीन्द्रियाणि / न चान्यत्र शून्यताया इन्द्रियाणि / नान्यत्रेन्द्रियेभ्यः शून्यता / शून्यतैवेन्द्रियाणि / इन्द्रियाण्य् एव शून्यता / या पञ्चानां बलानां शून्यता न तानि बलानि / न चान्यत्र शून्यतायाः बलानि / नान्यत्र बलेभ्य शून्यता / शून्यतैव बलानि / बलान्य् एव शून्यता / या सप्तानां बोध्यङ्गानां शून्यता / न तानि बोध्यङ्गानि / न चान्यत्र शून्यतायाः बोध्यङ्गानि / नान्यत्र बोध्यङ्गेभ्यः शून्यता / शून्यतैव बोध्यङ्गानि / बोध्यङ्गान्य् एव शून्यता /

या आर्याष्टाङ्गमार्गस्य शून्यता न स आर्याष्टाङ्गमार्गः / न चान्यत्र शून्यताया आर्याष्टाङ्गमार्गः / नान्यत्रार्याष्टाङ्गमार्गाच् छून्यता / शून्यतैवार्याष्टाङ्गमार्गः / आर्याष्टाङ्गमार्ग एव शून्यता / या चतुर्णाम् आर्यसत्यानां शून्यता / न तन्य् आर्यसत्यानि / न चान्यत्र शून्यताया आर्यसत्यानि / नान्यत्रार्यसत्येभ्य एव शून्यता / शून्यतैवार्यसत्यानि / आर्यसत्यान्य् एव शून्यता / या चतुर्णां ध्यानानां शून्यता न तानि ध्यानानि / न चान्यत्र ध्यानेभ्यः शून्यता / नान्यत्र ध्यानेभ्यः शून्यता / शून्यतैव ध्यानानि / ध्यानान्य् एव शून्यता / या चतुर्णाम् अप्रमाणानां शून्यता न तान्य् अप्रमाणानि / न चान्यत्र शून्यताया अप्रमाणानि / नान्यत्राप्रमाणेभ्यः शून्यता / शून्यतैवाप्रमाणानि / अप्रमाणान्य् एव शून्यता / या चतसृणाम् आरूप्यसमापत्तीनां शून्यता न ता आरूप्यसमापत्तयः / न चान्यत्र शून्यताया आरूप्यसमापत्तयः / नान्यत्रारूप्यसमापत्तिभ्यः शून्यता / शून्यतैवारूप्यसमापत्तयः / आरूप्यसमापत्तय एव शून्यता / या अष्टानां विमोक्षाणां शून्यता / न ते विमोक्षाः / न चान्यत्र शून्यतायाः विमोक्षाः / नान्यत्र विमोक्षेभ्यः शून्यता / शून्यतैव विमोक्षाः / विमोक्षा एव शून्यता / या नवानुपूर्वविहारसमापत्तीनां शून्यता न ता अनुपूर्वविहारसमापत्तयः / न चान्यत्र शून्यताया अनुपूर्वविहारसमापत्तयः / नान्यत्रानुपूर्वविहारसमापत्तिभ्यः शून्यता / शून्यतैवानुपूर्वविहारसमापत्तयः / आनुपूर्वविहारसमापत्तय एव शून्यता /

या शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां शून्यता / न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / न चान्यत्र शून्यतायाः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः शून्यता / शून्यतैव शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव शून्यता / या पञ्चानाम् अभिज्ञानां शून्यता न ता अभिज्ञाः / न चान्यत्र शून्यताया अभिज्ञाः / नान्यत्राभिज्ञाभ्यः शून्यता / शून्यतैवाभिज्ञाः / अभिज्ञा एव शून्यता / या समाधीनां शून्यता न ते समाधयः / न चान्यत्र शून्यतायाः समाधयः / नान्यत्र समाधिभ्यः शून्यता / शून्यतैव समाधयः / समाधय एव शून्यता / या धारणीमुखानां शून्यता न तानि धारणीमुखानि / न चान्यत्र शून्यतायाः धारणीमुखानि / नान्यत्र धारणीमुखेभ्यः शून्यता / शून्यतैव धारणीमुखानि / धारणीमुखान्य् एव शून्यता / या दशानां तथागतबलानां शून्यता न तानि तथागतबलानि / न चान्यत्र शून्यतायाः तथागतबलानि / नान्यत्र तथागतबलेभ्यः शून्यता / शून्यतैव तथागतबलानि / तथागतबलान्य् एव शून्यता / या चतुर्णां वैशारद्यानां शून्यता न तानि वैशारद्यानि / न चान्यत्र शून्यतायाः वैशारद्यानि / नान्यत्र वैशारद्येभ्यः शून्यता / शून्यतैव वैशारद्यानि / वैशारद्यान्य् एव शून्यता / या चतसृणां प्रतिसंविदां शून्यता न ताः प्रतिसंविदः / न चान्यत्र शून्यतायाः प्रतिसंविदः / नान्यत्र प्रतिसंविदः शून्यता / शून्यतैव प्रतिसंविदः / प्रतिसंविद एव शून्यता / या महामैत्र्याः शून्यता न सा महामैत्री / न चान्यत्र शून्यतायाः महामैत्री / नान्यत्र महामैत्र्याः शून्यता / शून्यतैव महामैत्री / महामैत्र्य् एव शून्यता / या महाकरुणायाः शून्यता न सा महाकरुणा / न चान्यत्र शून्यतायाः महाकरुणा / नान्यत्र महाकरुणयाः शून्यता / शून्यतैव महाकरुणा / महाकरुणैव शून्यता / याष्टादशानाम् आवेणिकबुद्धधर्माणां शून्यता / न ते आवेणिकबुद्धधर्माः / न चान्यत्र शून्यताया आवेणिकबुद्धधर्माः / नान्यत्रावेणिकबुद्धधर्मेभ्यः शून्यता / शून्यतैवावेणिकबुद्धधर्माः / आवेणिकबुद्धधर्मा एव शून्यता /

या सर्वज्ञतायाः शून्यता न सा सर्वज्ञता / न चान्यत्र शून्यतायाः सर्वज्ञता / नान्यत्र सर्वज्ञतायाः शून्यता / शून्यतैव सर्वज्ञता / सर्वज्ञतैव शून्यता / या मार्गाकारज्ञतायाः शून्यता न सा मार्गाकारज्ञता / न चान्यत्र शून्यतायाः मार्गाकारज्ञता / नान्यत्र मार्गाकारज्ञतायाः शून्यता / शून्यतैव मार्गाकारज्ञता / मार्गाकारज्ञतैव शून्यता / या सर्वाकारज्ञतायाः शून्यता / न सा सर्वाकारज्ञता / न चान्यत्र शून्यतायाः सर्वाकारज्ञता / नान्यत्र सर्वाकारज्ञतायाः शून्यता / शून्यतैव सर्वाकारज्ञता / सर्वाकारज्ञतैव शून्यता /

एवं ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलो वेदितव्यः / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं / स खलु पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरामीति नोपैति / न चरामीति नोपैति / चरामीति न चरामीति नोपैति / नैव चरामि च न चरामीति नोपैति / शारद्वतीपुत्र आह / केन कारणेनायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चरामीति नोपैति न चरामीति नोपैति / चरामि च न चरामीति नोपैति / नैव चरामि च न चरामीत्य् एवम् अपि नोपैति / सुभूतिर् आह / तथा ह्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमितायां स्वभावो नोपलभ्यते / तत् कस्य हेतोस् तथा ह्य् अभावस्वभावाप्रज्ञापारमिता / अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरामीति नोपैति / न चरामीति नोपैति / चरामि च न चरामीति नोपैति / नैव चरामि च न चरामीत्य् एवम् अपि नोपैति / तत् कस्य हेतोस् तथा हि तेन सर्वधर्मा अभावस्वभावा इत्य् अनुगता अनुपात्तः / सचेद् एवं प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते / न संलीयते नोत्त्रस्यति न संत्रस्यति / न संत्रासम् आपद्यते / वेदितव्यम् आयुष्मञ् छारद्वतीपुत्रासन्नीभवत्य् अयं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया इति /

सापि खलु सर्वाकारज्ञता अद्वया अद्वैधीकारा सर्वधर्माभावस्वभावताम् उपादाय / अयं सर्वधर्मानुत्पादो नाम समाधिर् बोधिसत्त्वानां महासत्त्वानां विपुलः पुरस्कृतो ऽप्रमाणनियतः असंहार्यः सर्वश्रावकप्रत्येकबुद्धैः / अनेन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते /

आह / किं पुनर् आयुष्मन् सुभूते अनेनैव समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अथान्यैर् अपि समाधिभिः / सुभूतिर् आह अन्यैर् अप्य् आयुष्मञ् छारद्वतीपुत्र समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / आह कतमैः पुनर् आयुष्मन् सुभूते ऽन्यैः समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / सुभूतिर् आह / अस्ति शूरङ्गमो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सिंहविक्रीडितो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सुचन्द्रो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति चन्द्रध्वजकेतुर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वधर्मोद्गतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वधर्ममुद्रो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति विलोकितमूर्धा नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्तः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति धर्मधातुनियतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति नियतध्वजकेतुर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति वज्रो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वधर्मप्रवेशमुद्रो नाम समाधिर् येन समाधिना विहरम् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति रश्मिप्रमुक्तो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति बलव्यूहो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति समुद्गतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति निरुक्तिनियतप्रवेशो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अधिवचनसंप्रवेशो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति दिग्विलोकितो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् आधारमुद्रो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्त्य् असंप्रमोषो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वधर्मसमवसरणमुद्रो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् आकाशस्फुरणो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति वज्रमण्डलो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति ध्वजाग्रकेयूरो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्तीन्द्रकेतुर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति श्रोतोऽनुगतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सिंहविक्रीडितो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति व्यभ्यस्तो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति वैरोचनो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अनेषो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्त्य् अनिकेतस्थितो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति निश्चिन्तो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति विमलप्रदीपो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अनन्तप्रभो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति प्रभाकरो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति समन्तावभासो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति शुद्धावभासो नाम सभाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति रतिकरो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति विद्युत्प्रदीपो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अक्षयो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अजयो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति तेजोरती नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति क्षयापगतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्त्य् अनिञ्जो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति विवर्णो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति सूर्यप्रदीपो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति चन्द्रविमलो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति प्रज्ञाप्रदीपो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति शुद्धप्रतिभासो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् आलोको नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति काराकारो नाम समाधिर् येन समाधिना विहरन्न् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति ज्ञानकेतुर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति वज्रोपमो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति चित्तस्थितिर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति समन्तालोको नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सुप्रतिष्ठितो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति रत्नकोटिर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति वरधर्ममुद्रो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वधर्मसमता नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति रतिजहो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति धर्मोद्गतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति विकिरणो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वधर्मपदप्रभेदो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति समाक्षरावकारो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अक्षरागतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्त्य् आवरणच्छेदो नाम समाधिर् येन समाधिना विहरम् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अविकारो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अप्रकारो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति नामनियतप्रवेशो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अनिकेतचारी नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति तिमिरापगतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति चारित्रवती नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अचलो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरा सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति विषयतीर्णो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वगुणसञ्चयो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति स्थितनिश्चित्तो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति शुभपुष्पितशुद्धिर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति बोध्यङ्गवती नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अनन्तप्रभो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् असमसमो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वधर्मातिक्रमणो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति परिच्छेदकरो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति विमतिविकरो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति निरधिष्ठानो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् एकव्यूहो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् आकारो ऽभिनिर्हारो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् एकाकारो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् आकारानवकारो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति नैवेधिकसर्वभवतलापगतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वसङ्केतव्रुतप्रवेशो नाम समाधिर् येन समाधिना विहरन् बोधिसत्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति गिरिघोषाक्षरविमुक्तो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति ज्वलनोल्को नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति लक्षणपरिशोधनो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्त्य् अनाविलक्षान्तिर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वाकारवरोपेतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वसुखदुःखनिरभिनन्दी नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अक्षयकरण्डो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति धारणीमतिर् नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सम्यक्त्वमिथ्यात्वसर्वसंग्रहणो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति सर्वरोधनिरोधसंप्रशमनो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अनुरोधाप्रतिरोधो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति विमलप्रभासो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्ति शारवती नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति परिपूर्णचन्द्रविमलो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति विद्युत्प्रभो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति महाव्यूहो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति सर्वलोकप्रभाकरो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति समाधिसमता नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /

अस्त्य् अरजोविरजोनययुक्तो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यत / अस्त्य् अरणसमवसरणो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्व क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अरणसरणसर्वसमवसरणो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् अनिलम्भनिकेतनिरतो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति तथतास्थितनिश्चित्तो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति कायकलिसंप्रमथनो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महामत्तः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति वारकलिविध्वंसनगगणकल्पो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्त्य् आकाशासङ्गविमुक्तिनिरुपधिशेषो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अस्ति इमे आयुष्मञ् छारद्वतीपुत्र समाधयो बोधिसत्त्वानां महासत्त्वाना यैः समाधिभिर् विहरन्तो बोद्दिसत्त्वा महासत्त्वाः क्षिप्रम् अनुत्तरां सम्यक्साबोधिम् अभिसंबुध्यन्ते /

अथ बुद्धानुभावेनायुष्मान् सुभूतिः पुनर् अप्य् एवम् आह / व्याकृतो ऽवतारम् आयुष्माञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वस् तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ / ये ऽपि तत्र तर्हि दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु तथागताः सम्यक्संबुधास् तिष्ठन्ति ध्रियन्ते यापयन्ति / ते ऽपि तथागताः सम्यक्संबुद्धास् तं बोधिसत्त्वं व्याकुर्वन्ति य एभिः समाधिभिर् विहरति / समाधिम् अपि न समनुपश्यति / नापि तेन समाधिना मन्यते / अहं समाहित इति अहं समापत्स्य इत्य् अहं समापद्य इत्य् अहं समापन्नवान् इति / सर्वत्र ते तस्य बोधिसत्त्वस्य महासत्त्वस्य विकल्पा न संविद्यन्ते न प्रवर्तन्ते /

आह / किं पुनर् आयुष्मन् सुभूते ऽत्र समाधिषु स्थितो बोधिसत्त्वो महासत्त्वो व्याक्रियते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः / सुभूतिर् आह / नो हीदम् आयुष्मञ् छारद्वतीपुत्र, तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्रान्या प्रज्ञापारमितान्यः समाधिर् अन्यो बोधिसत्त्वः / प्रज्ञापारमितैव समाधिः समाधिर् एव बोधिसत्त्वः, बोधिसत्त्व एव समाधिः / आह आयुष्मन् सुभूते नान्यः समाधिर् अन्यो बोधिसत्त्वो नान्यो बोधिसत्त्वो ऽन्यः समाधिः / समाधिर् एव बोधिसत्त्वो बोधिसत्त्व एव समाधिः सर्वधर्मसमताम् उपादाय / तत् किं पुनः शक्यं समाधिं दर्शयितुं / सुभूतिर् आह / नो हीदम् आयुष्मञ् छारद्वतीपुत्र / आह किं पुनर् आयुष्मन् सुभूते सकुलपुत्रस् तं समाधिं संजानाति / सुभूतिर् आह / न संजानात्य् आयुष्मञ् छारद्वतीपुत्र / आह / तत् कथं न संजानाति / सुभूतिर् आह / यथा न कल्पयति / आह / कस्माद् आयुष्मन् सुभूते न विजानाति न संजानाति / सुभूतिर् आह / अविद्यमानत्वात् तस्य समाधिस् तस्य बोधिसत्त्वस्य / न विजानाति न संजानाति /

अथ भगवान् आयुष्मते सुभूतये साधुकारम् अदात् / साधु साधु सुभूते / सुभाषितैषा वाक् / यथापि ते मया विहारिणां श्रावकानाम् अश्रुतायां निर्दिष्टस्यायम् उपदेशः / एवञ् च बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं / ध्यानपारमितायां शिक्षितव्यं / वीर्यपारमितायां शिक्षितव्यं / क्षान्तिपारमितायां शिक्षितव्यं / शीलपारमितायां शिक्षितव्यं / दानपारमितायां शिक्षितव्यं / स्मृत्युपस्थानेषु शिक्षितव्यं / सम्यक्प्रहाणेषु शिक्षितव्यं / ऋद्धिपादेषु शिक्षितव्यं / इन्द्रियेषु शिक्षितव्यं / बलेषु शिक्षितव्यं / बोध्यङ्गेषु शिक्षितव्यं / आर्याष्टाङ्गमार्गे शिक्षितव्यं / आर्यसत्येषु शिक्षितव्यं / ध्यानेषु शिक्षितव्यं / अप्रमाणेषु शिक्षितव्यं / आरूप्यसमापत्तिषु शिक्षितव्यं / विमोक्षेषु शिक्षितव्यं / अनुपूर्वविहारसमापत्तिषु शिक्षितव्य / शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षितव्यं / अभिज्ञासु शिक्षितव्यं / समाधिषु शिक्षितव्यं / धारणीमुखेषु शिक्षितव्यं / तथागतबलेषु शिक्षितव्यं / वैशारद्येषु शिक्षितव्यं / प्रतिसंवित्सु शिक्षितव्यं / महामैत्र्यां शिक्षितव्यं / महाकरुणायां शिक्षितव्यं / आवेणिकबुद्धधर्मेषु शिक्षितव्यं /

अथायुष्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् / एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते ऽनुपलम्भयोगेन / ध्यानपारमितायां शिक्षते ऽनुपलम्भयोगेन / वीर्यपारमितायां शिक्षते ऽनुपलम्भयोगेन / क्षान्तिपारमितायां शिक्षते ऽनुपलम्भयोगेन / शीलपारमितायां शिक्षते ऽनुपलम्भयोगेन / दानपारमितायां शिक्षते ऽनुपलम्भयोगेन / स्मृत्युपस्थानेषु शिक्षते ऽनुपलम्भयोगेन / सम्यक्प्रहाणेषु शिक्षते ऽनुपलम्भयोगेन / ऋद्धिपादेषु शिक्षते ऽनुपलम्भयोगेन / इन्द्रियेषु शिक्षते ऽनुपलम्भयोगेन / बलेषु शिक्षते ऽनुपलम्भयोगेन / बोध्यङ्गेषु शिक्षते ऽनुपलम्भयोगेन / आर्याष्टाङ्गमार्गे शिक्षते ऽनुपलम्भयोगेन / आर्यसत्येषु शिक्षते ऽनुपलम्भयोगेन / ध्यानेषु शिक्षते ऽनुपलम्भयोगेन / अप्रमाणेषु शिक्षते ऽनुपलम्भयोगेन / आरूप्यसमापत्तिषु शिक्षते ऽनुपलम्भयोगेन / अनुपूर्वविहारसमापत्तिषु शिक्षते ऽनुपकम्भयोगेन / शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते ऽनुपलम्भयोगेन / अभिज्ञासु शिक्षते ऽनुपलम्भयोगेन / धारणीमुखेषु शिक्षते ऽनुपलम्भयोगेन / तथागतबलेषु शिक्षते ऽनुपलम्भयोगेन / वैशारद्येषु शिक्षते ऽनुपलम्भयोगेन / प्रतिसंवित्सु शिक्षते ऽनुपलम्भयोगेन / महामैत्र्यां शिक्षते ऽनुपलम्भयोगेन / महाकरुणायां शिक्षते ऽनुपलम्भयोगेन / आवेणिकबुद्धधर्मेषु शिक्षते ऽनुपलम्भयोगेन /

भगवान् आह / एवं शिक्षमाणः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते ऽनुपलम्भयोगेन / वीर्यपारमितायां शिक्षते ऽनुपलम्भयोगेन / क्षान्तिपारमितायां शिक्षते ऽनुपलम्भयोगेन / शीलपारमितायां शिक्षते ऽनुपलम्भयोगेन / दानपारमितायां शिक्षते ऽनुपलम्भयोगेन / स्मृत्युपस्थानेषु शिक्षते ऽनुपलम्भयोगेन / सम्यक्प्रहाणेषु शिक्षते ऽनुपलम्भयोगेन / ऋद्धिपादेषु शिक्षते ऽनुपलम्भयोगेन / इन्द्रियेषु शिक्षते ऽनुपलम्भयोगेन / बलेषु शिक्षते ऽनुपलम्भयोगेन / बोध्यङ्गेषु शिक्षते ऽनुपलम्भयोगेन / आर्याष्टाङ्गमार्गे शिक्षते ऽनुपलम्भयोगेन / आर्यसत्येषु शिक्षते ऽनुपलम्भयोगेन / ध्यानेषु शिक्षते ऽनुपलम्भयोगेन / अप्रमाणेषु शिक्षते ऽनुपलम्भयोगेन / आरूप्यसमापत्तिषु शिक्षते ऽनुपलम्भयोगेन / विमोक्षेषु शिक्षते ऽनुपलम्भयोगेन / अनुपूर्वविहारसमापत्तिषु शिक्षते ऽनुपलम्भयोगेन / शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते ऽनुपलम्भयोगेन / अभिज्ञासु शिक्षते ऽनुपलम्भयोगेन / समाधिषु शिक्षते ऽनुपलम्भयोगेन / धारणीमुखेषु शिक्षते ऽनुपलम्भयोगेन / तथागतबलेषु शिक्षते ऽनुपलम्भयोगेन / वैशारद्येषु शिक्षते ऽनुपलम्भयोगेन / प्रतिसंवित्सु शिक्षते ऽनुपलम्भयोगेन / महामैत्र्यां शिक्षते ऽनुपलम्भयोगेन / महाकरुणायां शिक्षते ऽनुपलम्भयोगेन / आवेणिकबुद्धधर्मेषु शिक्षते ऽनुपलम्भयोगेन /

शारद्वतीपुत्र आह / किम् इति भगवन् नोपलभते / भगवान् आह / आत्मानं शारद्वतीपुत्र नोपलभते / जीवं नोपलभते / जन्तुं नोपलभते / पोषं नोपलभते / पुरुषं नोपलभते / पुद्गलं नोपलभते / मनुजं नोपलभते / मानवं नोपलभते / कारकं नोपलभते / जानकं नोपलभते / पश्यकं नोपलभते / अत्यन्तविशुद्धिताम् उपादाय /

रूपं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / वेदनां नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / संज्ञां नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / संस्कारान् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / विज्ञानं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / चक्षुर् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / श्रोत्रं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / घ्राणं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / जिह्वां नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / कायं नोलभते ऽत्यन्तविशुद्धिताम् उपादाय / मनो नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / रूपं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / शब्दं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / गन्धं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / रसं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / स्पर्शं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / धर्मान् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय /

चक्षुर्धातुं रूपधातुं चक्षुर्विज्ञानधातुं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / श्रोत्रधातुं शब्दधातुं श्रोत्रविज्ञानधातुं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / घ्राणधातुं गन्धधातुं घ्राणविज्ञानधातुं नोपलभते / जिह्वाधातुं रसधातुं जिह्वाविज्ञानधातुं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / कायधातुं स्पर्शधातुं कायविज्ञानधातुं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / मनोधातुं धर्मधातुं मनोविज्ञानधातुं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / पृथिवीधातुम् अब्धातुं तेजोधातुं वायुधातुम् आकाशधातु विज्ञानधातुं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय /

अविद्यां नोलभते ऽत्यन्तविशुद्धिताम् उपादाय / संस्कारान् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / विज्ञानं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / नामरूपं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / षडायतनं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / स्पर्शं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / वेदनां नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / तृष्णां नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / उपादानं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / भवं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / जातिः नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / जरामरणं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / दुःखं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय /

समुदयं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / निरोधं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / मार्गं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / कायधातुं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / रूप्यधातुम् आरूप्यधातुं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय /

स्मृत्युपस्थानानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / सम्यक्प्रहाणानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / ऋद्धिपादान् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / इन्द्रियाणि बलानि बोध्यङ्गानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / आर्याष्टाङ्गमार्गं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / आर्यसत्यानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / ध्यानानि चाप्रमाणानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / आरूप्यसमापत्तीर् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / विमोक्षान् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / अनुपूर्वविहारसमापत्तीर् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / अभिज्ञां नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / समाधीन् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / धारणीमुखानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / तथागतबलानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / वैशारद्यानि नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / प्रतिसंविदो नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / महामैत्रीं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / महाकरुणां नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / आवेणिकबुद्धधर्मान् नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / स्रोतआपत्तिफलं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / सकृदागामिफलं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / अनागामिफलं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / अर्हत्त्वं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / प्रत्येकबुद्धत्वं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / बोधिसत्त्वं नोपलपते ऽत्यन्तविशुद्धिताम् उपादाय / बोधिं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय / बुद्धं नोपलभते ऽत्यन्तविशुद्धिताम् उपादाय /

आह / किम् इति भगवन् विशुद्धिता / भगवान् आह / अनुत्पादः / अनिरोधः / असंक्लेशः / अव्यवदानम् अप्रादुर्भावो ऽनुपलम्भो ऽनभिसंस्कारः सर्वधर्माणाम् एषाम् आविशुद्धिर् इत्य् उच्यते / एवं हि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न क्वचिद् धर्मे शिक्षते / तत् कस्य हेतोर् नैते शारद्वतीपुत्र धर्मास् तथा संविद्यन्ते यथा बालपृथग्जना अभिनिविष्टाः /

आह / कथं भगवन्न् एते धर्माः संविद्यन्ते / भगवान् आह / यथा न संविद्यन्ते तथा विद्यन्ते / एव संविद्यमाना तेनोच्यते अविद्येति /

आह / कस्मात् पुनर् भगवन्न् असंविद्यमाना उच्यते ऽविद्येति / भगवान् आह / रूपं न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

वेदना शारद्वतीपुत्र न संविद्यते / अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

संज्ञा शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

संस्काराः शारद्वतीपुत्र न संविद्यन्ते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

विज्ञानं शारद्वतीपुत्र न संविद्यते अध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

चक्षुः शारद्वतीपुत्र न संविद्यते अध्यात्मशून्यताम् उपादाय / एवं श्रोत्रं घ्राणं जिह्वा काय मनो न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

रूपं शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / एवं शब्दो गन्धो रसः स्पर्शो धर्मो न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

चक्षुर्विज्ञानं शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादय / एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

चक्षुःसंस्पर्शः शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

एवं शारद्वतीपुत्र श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः मनःसंस्पर्शो न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादायः / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

चक्षुःसंस्पर्शप्रत्ययवेदना शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

श्रोत्रसंस्पर्शप्रत्ययवेदना शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

घ्राणसंस्पर्शप्रत्ययवेदना शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

जिह्वासंस्पर्शप्रत्ययवेदना शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

कायसंस्पर्शप्रत्ययवेदना शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

मनःसंस्पर्शप्रत्ययवेदना शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

पृथिवीधातुः शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

अब्धातुः शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्रशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

तेजोधातुः शारद्वतीपुत्र न संविद्यते ऽध्यात्मशून्यताम् उपादाय / बहिर्धाशून्यताम् उपादाय / अध्यात्मबहिर्धाशून्यताम् उपादाय / शून्यताशून्यताम् उपादाय / महाशून्यताम् उपादाय / परमार्थशून्यताम् उपादाय / संस्कृतशून्यताम् उपादाय / असंस्कृतशून्यताम् उपादाय / अत्यन्तशून्यताम् उपादाय / अनवराग्सशून्यताम् उपादाय / अनवकारशून्यताम् उपादाय / प्रकृतिशून्यताम् उपादाय / सर्वधर्मशून्यताम् उपादाय / स्वलक्षणशून्यताम् उपादाय / अनुपलम्भशून्यताम् उपादाय / अभावशून्यताम् उपादाय / स्वभावशून्यताम् उपादाय / अभावस्वभावशून्यताम् उपादाय /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.