Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 17/37

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता, Part इ

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

आयुष्मञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् / कथम् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यं / सुभूतिर् आह / तथा ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अधितिष्ठति / संजानाति / अधिमुच्यते / स रूपम् अधितिष्ठन् संजानन्न् अधिमुच्यमानो रूपस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजरामरणशोकव्याधिपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् वेदनाम् अधितिष्ठति संजानात्य् अधिमुच्यते / स वेदनाम् अधितिष्ठन् संजानन् अधिमुच्यमानो वेदनाया अभिसंस्कारे चरति / न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् संज्ञाम् अधितिष्ठति संजानात्य् अधिमुच्यते / स संज्ञाम् अधितिष्ठन् संजानन्न् अधिमुच्यमानः संज्ञाया अभिसंस्कारे चरति / न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् संस्कारान् अधितिष्ठति संजानात्य् अधिमुच्यते / स संस्कारान् अधितिष्ठन् संजानन् अधिमुच्यमानः संस्काराणाम् अभिसंस्कारे चरति / न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायावेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन् स विज्ञानम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स विज्ञानम् अधितिष्ठन् संजानन्न् अधिमुच्यमानो विज्ञानस्याभिसंस्कारे चरति / न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चक्षुर् अधितिष्ठति / संजानात्य् अधिमुच्यते / स चक्षुर् अधितिष्ठन् संजानन्न् अधिमुच्यमानश् चक्षुषो ऽभिसंस्कारे चरति / न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् श्रोत्रम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स श्रोत्रम् अधितिष्ठन् संजानन्न् अधिमुच्यमानः श्रोत्रस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् घ्राणम् अधितिष्ठति / घ्राणम् अधितिष्ठन् संजानन्न् अधिमुच्यमानो घ्राणस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् जिह्वाम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स जिह्वाम् अधितिष्ठन् संजानन्न् अधिमुच्यमानो जिह्वाया अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स कायम् अधितिष्ठन् संजानन्न् अधिमुच्यमानः कायस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् मनो ऽधितिष्ठति / संजानात्य् अधिमुच्यते / स मनो ऽधितिष्ठन् संजानन्न् अधिमुच्यमानो मनो ऽभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स रूपम् अधितिष्ठन् संजानन्न् अधिमुच्यमानो रूपस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शब्दम् अधितिष्ठति / संजानाति अधिमुच्यते / स शब्दम् अधितिष्ठन् संजानन्न् अधिमुच्यमानः शब्दस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् गन्धम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स गन्धम् अधितिष्ठन् संजानन्न् अधिमुच्यमानो गन्धस्याभिसंस्कारे चरति / स स परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रसम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स रसम् अधितिष्ठन् संजानन्न् अधिमुच्यमानो रसस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्पर्शम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स स्पर्शम् अधितिष्ठन् संजानन्न् अधिमुच्यमानः स्पर्शस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्मान् अधितिष्ठति / संजानात्य् अधिमुच्यते / स धर्मान् अधितिष्ठन् संजानन्न् अधिमुच्यमानो धर्माणाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चक्षुर्विज्ञानम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स चक्षुर्विज्ञानम् अधितिष्ठन् संजानन्न् अधिमुच्यमानश् चक्षुर्विज्ञानस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स एतान् अधितिष्ठन् संजानन्न् अधिमुच्यमानः एतेषाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् चक्षुःसंस्पर्शजां वेदनाम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स चक्षुःसंस्पर्शजां वेदनाम् अधितिष्ठन् संजानन्न् अधिमुच्यमानश् चक्षुःसंस्पर्शजायाः वेदनाया अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि / सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् श्रोत्रसंस्पर्शजां वेदनां घ्राणसंस्पर्शजां वेदनां जिह्वासंस्पर्शजां वेदनां कायसंस्पर्शजां वेदनां मनःसंस्पर्शजां वेदनाम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स एतान् अधितिष्ठन् संजानन्न् अधिमुच्यमान एतासाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् अविद्याया अभिसंस्कारे चरति / सो ऽविद्याम् अधितिष्ठन् संजानन्न् अधिमुच्यमानो ऽविद्याया अभिसंस्कारे चरति / न स परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् संस्कारं नामरूपं षडायतनं स्पर्शं वेदनां तृष्णां उपदानं भवं जातिं जरामरणम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स एतान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमान एतेषाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिताम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स ताधितिष्ठन् संजानन्न् अधिमुच्यमानस् तासाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यताम् अधितिष्ठति / संजानात्य् अधिमुच्यते सो ऽधितिष्ठन् संजानन्न् अधिमुच्यमानो ऽध्यात्मशून्यताया अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवद्खदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां शून्यताशून्यतां महाशून्यनां परमार्थशून्यतां संस्कृतशून्यताम् असंस्कृतशून्यतां अत्यन्तशून्यतां अनवराग्रशून्यतां अनवकारशून्यतां प्रकृतिशून्यतां सर्वधर्मशून्यतां स्वलक्षणशून्यतां अनुपलम्भशून्यतां अभावशून्यतां स्वभावशून्यतां अभावस्वभावशून्यताम् अधितिष्ठति / संजानात्य् अधिमुच्यते / सो ऽधितिष्ठन् संजानन्न् अधिमुच्यमानो ऽभिसंस्कारे चरति / न स परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् चत्वारि स्मृत्युपस्थानान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स चत्वारि स्मृत्युपस्थानान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानः चतुर्णां स्मृत्युपस्थानानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् चत्वारि सम्यक्प्रहाणान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / सो ऽधितिष्ठन् संजानन्न् अधिमुच्यमानः चतुर्णां सम्यक्प्रहाणानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिपादान् अधितिष्ठति / संजानात्य् अधिमुच्यते / स ऋद्धिपादान् अधितिष्ठन् संजानन्न् अधिमुच्यमानः ऋद्धिपादानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चेन्द्रियाण्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स पञ्चेन्द्रियाण्य् अधितिष्ठन् संजानात्य् अधिमुच्यमानः इन्द्रियाणाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चबलान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स पञ्चबलान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानः पञ्चबलानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सप्तबोध्यङ्गान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स बोध्यङ्गान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानः बोध्यङ्गानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आर्याष्टाङ्गमार्गम् अधितिष्ठति / संजानात्य् अधिमुच्यते / स आर्याष्टाङ्गमार्गम् अधितिष्ठन् संजानन्न् अधिमुच्यमानः आर्याष्टाङ्गमार्गस्याभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आर्यसत्यान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स आर्यसत्यान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानः आर्यसत्यानाम् अभिसंस्कारे चरति / न स परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्ममस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चत्वारि ध्यानान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स ध्यानान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानो ध्यानानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चत्वार्य् अप्रमाणान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स चत्वार्य् अप्रमाणान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानो ऽप्रमाणानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायायेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चतस्र आरूप्यसमापत्तीर् अधितिष्ठति / संजानात्य् अधिमुच्यते / स आरूप्यसमापत्तीर् अधितिष्ठन् संजानन्न् अधिमुच्यमानः आरूप्यसमापत्तीनाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अष्टौ विमोक्षान् अधितिष्ठति / संजानात्य् अधिमुच्यते / स विमोक्षधर्मेष्व् अधितिष्ठन् संजानन्न् अधिमुच्यमानो विमोक्षधर्माणाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स तान्य् अधितिष्ठम् संजानन्न् अधिमुच्यमानस् तेषाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् षडभिज्ञा अधितिष्ठति / संजानात्य् अधिमुच्यते / सो ऽभिज्ञा अधितिष्ठन् संजानन्न् अधिमुच्यमानो ऽभिज्ञानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चचक्षुर् अधितिष्ठति / संजानात्य् अधिमुच्यते / स पञ्चचक्षुर् अधितिष्ठन् संजानन्न् अधिमुच्यमानः पञ्चचक्षुषाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धारणीमुखान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स धारणीमुखान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानो धारणीमुखानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपारिदेवदुःखदौर्ममस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दशतथागतबलान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स दशतथागतबलान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानो दशतथागतबलानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चत्वारि वैशारद्यान्य् अधितिष्ठति / संजानात्य् अधिमुच्यते / स वैशारद्यान्य् अधितिष्ठन् संजानन्न् अधिमुच्यमानो वैशारद्यानाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चतस्रः प्रतिसंविदो ऽधितिष्ठति / संजानात्य् अधिमुच्यते / स प्रतिसंविदो ऽधितिष्ठन् संजानन्न् अधिमुच्यमानः प्रतिसंविदाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अष्टादशावेणिकान् बुद्धधर्मान् अधितिष्ठति / संजानात्य् अधिमुच्यते / सो ऽधितिष्ठन् संजानन्न् अधिमुच्यमानो ऽष्टादशावेणिकबुद्धधर्माणाम् अभिसंस्कारे चरति / स न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यते महतो दुःखाद् इति वदामि /

सचेत् खलु पुनर् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽभव्यः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं साक्षात् कर्तुं कः पुनर् वादो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते इति नेदं स्थानं विद्यते / एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो वेदितव्यः / शारद्वतीपुत्र आह / कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकुशलो वेदितव्यः / सुभूतिर् आह / यदायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपे चरति / न रूपस्य निमित्ते चरति / न रूपं नित्यम् इति चरति / न रूपम् अनित्यम् इति चरति / न रूपं सुखम् इति चरति / न रूपं दुःखम् इति चरति / न रूपम् आत्मेति चरति / न रूपम् अनात्मेति चरति / न रूपं शान्तम् इति चरति / न रूपम् अशान्तम् इति चरति / न रूपं शून्यम् इति चरति / न रूपम् अशून्यम् इति चरति / न रूपं निमित्तम् इति चरति / न रूपम् अनिमित्तम् इति चरति / न रूपं प्रणिहितम् इति चरति / न रूपम् अप्रणिहितम् इति चरति / न रूपं विविक्तम् इति चरति / न रूपम् अविविक्तम् इति चरति /

न वेदनायां चरति / न वेदनाया निमित्ते चरति / न वेदना नित्येति चरति / न वेदनानित्येति चरति / न वेदना सुखेति चरति / न वेदना दुःखेति चरति / न वेदना आत्मेति चरति / न वेदनानात्मेति चरति / न वेदना शान्तेति चरति / न वेदना अशान्तेति चरति / न वेदना शून्येति चरति / न वेदनाशून्येति चरति / न वेदना निमित्तेति चरति / न वेदनानिमित्तेति चरति / न वेदना प्रणिहितेति चरति / न वेदनाप्रणिहितेति चरति / न वेदना विविक्तेति चरति / न वेदनाविविक्तेति चरति /

न संज्ञायां चरति / न संज्ञाया निमित्ते चरति / न संज्ञा नित्येति चरति / न संज्ञानित्येति चरति / न संज्ञा सुखेति चरति / न संज्ञा दुःखेति चरति / न संज्ञा आत्मेति चरति / न संज्ञानात्मेति चरति / न संज्ञा शान्तेति चरति / न संज्ञाशान्तेति चरति / न संज्ञा शून्येति चरति / न संज्ञाशून्येति चरति / न संज्ञा निमित्तेति चरति / न संज्ञा अनिमित्तेति चरति / न संज्ञा प्रणिहितेति चरति / न संज्ञाप्रणिहितेति चरति / न संज्ञा विविक्तेति चरति / न संज्ञाविविक्तेति चरति /

न संस्कारेषु चरति / न संस्काराणां निमित्ते चरति / न संस्कारा नित्या इति चरति / न संस्कारा अनित्या इति चरति / न संस्कारा सुखा इति चरति / न संस्कारा दुःखा इति चरति / न संस्कारा आत्मान इति चरति / न संस्कारा अनात्मान इति चरति / न संस्कारा शान्ता इति चरति / न संस्कारा अशान्ता इति चरति / न संस्कारा शून्या इति चरति / न संस्कारा अशून्या इति चरति / न संस्कारा निमित्ता इति चरति / न संस्कारा अनिमित्ता इति चरति / न संस्कारा प्रणिहिता इति चरति / न संस्कारा अप्रणिहिता इति चरति / न संस्कारा विविक्ता इति चरति / न संस्कारा अविविक्ता इति चरति /

न विज्ञाने चरति / न विज्ञानस्य निमित्ते चरति / न विज्ञानं नित्यम् इति चरति / न विज्ञानम् अनित्यम् इति चरति / न विज्ञानं सुखम् इति चरति / न विज्ञानं दुःखम् इति चरति / न विज्ञानम् आत्मेति चरति / न विज्ञानम् अनात्मेति चरति / न विज्ञानं शान्तम् इति चरति / न विज्ञानम् अशान्तम् इति चरति / न विज्ञानं शून्यम् इति चरति / न विज्ञानम् अशून्यम् इति चरति / न विज्ञानं निमित्तम् इति चरति / न विज्ञानम् अनिमित्तम् इति चरति / न विज्ञानं प्रणिहितम् इति चरति / न विज्ञानम् अप्रणिहितम् इति चरति / न विज्ञानं विविक्तम् इति चरति / न विज्ञानम् अविविक्तम् इति चरति /

न चक्षुषि चरति / न चक्षुषो निमित्ते चरति / न चक्षुर् नित्यम् इति चरति / न चक्षुर् अनित्यम् इति चरति / न चक्षुः सुखम् इति चरति / न चक्षुर् दुःखम् इति चरति / न चक्षुर् आत्मेति चरति / न चक्षुर् अनात्मेति चरति / न चक्षुः शान्तम् इति चरति / न चक्षुर् अशान्तम् इति चरति / न चक्षुः शून्यम् इति चरति / न चक्षुर् अशून्यम् इति चरति / न चक्षुर् निमित्तम् इति चरति / न चक्षुर् अनिमित्तम् इति चरति / न चक्षुः प्रणिहितम् इति चरति / न चक्षुर् अप्रणिहितम् इति चरति / न चक्षुर् विविक्तम् इति चरति / न चक्षुर् अविविक्तम् इति चरति /

न श्रोत्रे चरति / न श्रोत्रस्य निमित्ते चरति / न श्रोत्रं नित्यम् इति चरति / न श्रोत्रम् अनित्यम् इति चरति / न श्रोत्रं सुखम् इति चरति / न श्रोत्रं दुःखम् इति चरति / न श्रोत्रम् आत्मेति चरति / न श्रोत्रम् अनात्मेति चरति / न श्रोत्रं शान्तम् इति चरति / न श्रोत्रम् अशान्तम् इति चरति / न श्रोत्रं शून्यम् इति चरति / न श्रोत्रम् अशून्यम् इति चरति / न श्रोत्रं निमित्तम् इति चरति / न श्रोत्रम् अनिमित्तम् इति चरति / न श्रोत्रं प्रणिहितम् इति चरति / न श्रोत्रम् अप्रणिहितम् इति चरति / न श्रोत्रं विविक्तम् इति चरति / न शोत्रम् अविविक्तम् इति चरति /

न घ्राणे चरति / न घ्राणस्य निमित्ते चरति / न घ्राणं नित्यम् इति चरति / न घ्राणम् अनित्यम् इति चरति / न घ्राणं सुखम् इति चरति / न घ्राणं दुःखम् इति चरति / न घ्राणम् आत्मेति चरति / न घ्राणम् अनात्मेति चरति / न घ्राणं शान्तम् इति चरति / न घ्राणम् अशान्तम् इति चरति / न घ्राणं शून्यम् इति चरति / न घ्राणम् अशून्यम् इति चरति / न घ्राणं निमित्तम् इति चरति / न घ्राणम् अनिमित्तम् इति चरति / न घ्राणं प्रणिहितम् इति चरति / न घ्राणम् अप्रणिहितम् इति चरति / न घ्राणं विविक्तम् इति चरति / न घ्राणम् अविविक्तम् इति चरति /

न जिह्वायां चरति / न जिह्वाया निमित्ते चरति / न जिह्वा नित्येति चरति / न जिह्वानित्येति चरति / न जिह्वा सुखेति चरति / न जिह्वा दुःखेति चरति / न जिह्वा आत्मेति चरति / न जिह्वा अनात्मेति चरति / न जिह्वा शान्तेति चरति / न जिह्वाशान्तेति चरति / न जिह्वा शून्यम् इति चरति / न जिह्वाशून्यम् इति चरति / न जिह्वा निमित्तेति चरति / न जिह्वानिमित्तेति चरति / न जिह्वा प्रणिहितेति चरति / न जिह्वाप्रणिहितेति चरति / न जिह्वा विविक्तेति चरति / न जिह्वाविविक्तेति चरति /

न काये चरति / न कायस्य निमित्ते चरति / न कायं नित्यम् इति चरति / न कायम् अनित्यम् इति चरति / न कायं सुखम् इति चरति / न कायं दुःखम् इति चरति / न कायम् आत्मेति चरति / न कायम् अनात्मेति चरति / न कायं शान्तम् इति चरति / न कायम् अशान्तम् इति चरति / न कायं शून्यम् इति चरति / न कायम् अशून्यम् इति चरति / स कायं निमित्तम् इति चरति / न कायम् अनिमित्तम् इति चरति / न कायं प्रणिहितम् इति चरति / न कायम् अप्रणिहितम् इति चरति / न कायं विविक्तम् इति चरति / न कायम् अविविक्तम् इति चरति /

न मनसि चरति / न मनसो निमित्ते चरति / न मनो नित्यम् इति चरति / न मनो ऽनित्यम् इति चरति / न मनो सुखम् इति चरति / न मनो दुःखम् इति चरति / न मनः आत्मेति चरति / न मनो ऽनात्मेति चरति / न मनो शान्तम् इति चरति / न मनो ऽशान्तम् इति चरति / न मनः शून्यम् इति चरति / न मनो ऽशून्यम् इति चरति / न मनः निमित्तम् इति चरति / न मनो ऽनिमित्तम् इति चरति / न मनः प्रणिहितम् इति चरति / न मनो ऽप्रणिहितम् इति चरति / न मनो विविक्तम् इति चरति / न मनो ऽविविक्तम् इति चरति /

न रूपे चरति / न रूपस्य निमित्ते चरति / न रूपं नित्यम् इति चरति / न रूपम् अनित्यम् इति चरति / न रूपं सुखम् इति चरति / न रूपं दुःखम् इति चरति / न रूपम् आत्मेति चरति / न रूपम् अनात्मेति चरति / न रूपं शान्तम् इति चरति / न रूपम् अशान्तम् इति चरति / न रूपं शून्यम् इति चरति / न रूपम् अशून्यम् इति चरति / न रूपं निमित्तम् इति चरति / न रूपम् अनिमित्तम् इति चरति / न रूपं प्रणिहितम् इति चरति / न रूपम् अप्रणिहितम् इति चरति / न रूपं विविक्तम् इति चरति / न रूपम् अविविक्तम् इति चरति /

न शब्दे चरति / न शब्दस्य निमित्ते चरति / स शब्दो नित्य इति चरति / न शब्दो ऽनित्य इति चरति / न शब्दः सुख इति चरति / न शब्दः दुःख इति चरति / न शब्द आत्मेति चरति / न शब्दो ऽनात्मेति चरति / न शब्दः शान्त इति चरति / न शब्दो ऽशान्त इति चरति / न शब्दः शून्य इति चरति / न शब्दो ऽशून्य इति चरति / न शब्दो निमित्त इति चरति / न शब्दो ऽनिमित्त इति चरति / न शब्दः प्रणिहित इति चरति / न शब्दो ऽप्रणिहित इति चरति / न शब्दो विविक्त इति चरति / न शब्दो ऽविविक्त इति चरति /

न गन्धे चरति / न गन्धस्य निमित्ते चरति / न गन्धो नित्य इति चरति / न गन्धो ऽनित्य इति चरति / न गन्धः सुख इति चरति / न गन्धो दुःख इति चरति / न गन्ध आत्मेति चरति / न गन्धो ऽनात्मेति चरति / न गन्धः शान्त इति चरति / न गन्धो ऽशान्त इति चरति / न गन्धः शून्य इति चरति / न गन्धो ऽशून्य इति चरति / न गन्धो निमित्त इति चरति / न गन्धो ऽनिमित्त इति चरति / न गन्धः प्रणिहित इति चरति / न गन्धो ऽप्रणिहित इति चरति / न गन्धो विविक्त इति चरति / न गन्धो ऽविविक्त इति चरति /

न रसे चरति / न रसस्य निमित्ते चरति / न रसो नित्य इति चरति / न रसो ऽनित्य इति चरति / न रसः सुख इति चरति / न रसो दुःख इति चरति / न रस आत्मेति चरति / न रसो ऽनात्मेति चरति / न रसः शान्त इति चरति / न रसो ऽशान्त इति चरति / न रसः शून्य इति चरति / न रसो ऽशून्य इति चरति / न रसो निमित्त इति चरति / न रसो ऽनिमित्त इति चरति / न रसः प्रणिहित इति चरति / न रसो ऽप्रणिहित इति चरति / न रसो विविक्त इति चरति / न रसो ऽविविक्त इति चरति /

न स्पर्शे चरति / न स्पर्शस्य निमित्ते चरति / न स्पर्शो नित्य इति चरति / न स्पर्शो ऽनित्य इति चरति / न स्पर्शः सुख इति चरति / न स्पर्शो दुःख इति चरति / न स्पर्श आत्मेति चरति / न स्पर्शो ऽनात्मेति चरति / न स्पर्शः शान्त इति चरति / न स्पर्शो ऽशान्त इति चरति / न स्पर्शः शून्य इति चरति / न स्पर्शो ऽशून्य इति चरति / न स्पर्शो निमित्त इति चरति / न स्पर्शो ऽनिमित्त इति चरति / न स्पर्शः प्रणिहित इति चरति / न स्पर्शो ऽप्रणिहित इति चरति / न स्पर्शो विविक्त इति चरति / न स्पर्शो ऽविविक्त इति चरति /

न धर्मेषु चरति / न धर्माणां निमित्ते चरति / न धर्माः नित्या इति चरति / न धर्माः अनित्या इति चरति / न धर्माः सुखा इति चरति / न धर्माः दुःखा इति चरति / न धर्माः आत्मान इति चरति / न धर्माः अनात्मान इति चरति / न धर्माः शान्ता इति चरति / न धर्माः अशान्ता इति चरति / न धर्माः शून्या इति चरति / न धर्माः अशून्या इति चरति / न धर्माः निमित्ता इति चरति / न धर्माः अनिमित्ता इति चरति / न धर्माः प्रणिहिता इति चरति / न धर्मः अप्रणिहिता इति चरति / न धर्माः विविक्ता इति चरति / न धर्माः अविविक्ता इति चरति /

न चक्षुर्धातौ चरति / न चक्षुर्धातोर् निमित्ते चरति / न चक्षुर्धातुर् नित्य इति चरति / न चक्षुर्धातुर् अनित्य इति चरति / न चक्षुर्धातुः सुख इति चरति / न चक्षुर्धातुर् दुःख इति चरति / न चक्षुर्धातुर् आत्मेति चरति / न चक्षुर्धातुर् अनात्मेति चरति / न चक्षुर्धातुः शान्त इति चरति / न चक्षुर्धातुः अशान्त इति चरति / न चक्षुर्धातुः शून्य इति चरति / न चक्षुर्धातुर् अशून्य इति चरति / न चक्षुर्धातुर् निमित्त इति चरति / न चक्षुर्धातुर् अनिमित्त इति चरति / न चक्षुर्धातुः प्रणिहित इति चरति / न चक्षुर्धातुर् अप्रणिहित इति चरति / न चक्षुर्धातुर् विविक्त इति चरति / न चक्षुर्धातुर् अविविक्त इति चरति /

न रूपधातौ चरति / न रूपधातोर् निमित्ते चरति / न रूपधातुर् नित्य इति चरति / न रूपधातुर् अनित्य इति चरति / न रूपधातुः सुख इति चरति / न रूपधातुर् दुःख इति चरति / न रूपधातुर् आत्मेति चरति / न रूपधातुर् अनात्मेति चरति / न रूपधातुः शान्त इति चरति / न रूपधातुर् अशान्त इति चरति / न रूपधातुः शून्य इति चरति / न रूपधातुर् अशून्य इति चरति / न रूपधातुर् निमित्त इति चरति / न रूपधातुर् अनिमित्त इति चरति / न रूपधातुः प्रणिहित इति चरति / न रूपधातुर् अप्रणिहित इति चरति / न रूपधातुर् विविक्त इति चरति / न रूपधातुर् अविविक्त इति चरति /

न चक्षुर्विज्ञानधातौ चरति / न चक्षुर्विज्ञानधातोर् निमित्ते चरति / न चक्षुर्विज्ञानधातुर् अनित्य इति चरति / न चक्षुर्विज्ञानधातुर् अनित्य इति चरति / न चक्षुर्विज्ञानधातुः सुख इति चरति / न चक्षुर्विज्ञानधातुर् दुःख इति चरति / न चक्षुर्विज्ञानधातुर् आत्मेति चरति / न चक्षुर्विज्ञानधातुर् अनात्मेति चरति / न चक्षुर्विज्ञानधातुः शान्त इति चरति / न चक्षुर्विज्ञानधातुर् अशान्त इति चरति / न चक्षुर्विज्ञानधातुः शून्य इति चरति / न चक्षुर्विज्ञानधातुर् अशून्य इति चरति / न चक्षुर्विज्ञानधातुर् निमित्ते चरति / न चक्षुर्विज्ञानधातुर् अनिमित्त इति चरति / न चक्षुर्विज्ञानधातुः प्रणिहित इति चरति / न चक्षुर्विज्ञानधातुर् अप्रणिहित इति चरति / न चक्षुर्विज्ञानधातुर् विविक्त इति चरति / न चक्षुर्विज्ञानधातुर् अविविक्त इति चरति /

न श्रोत्रधातौ चरति / न श्रोत्रधातोर् निमित्ते चरति / न श्रोत्रधातुर् नित्य इति चरति / न श्रोत्रधातुर् अनित्य इति चरति / न श्रोत्रधातुः सुख इति चरति / न श्रोत्रधातुर् दुःख इति चरति / न श्रोत्रधातुर् आत्मेति चरति / न श्रोत्रधातुर् अनात्मेति चरति / न श्रोत्रधातुः शान्त इति चरति / न श्रोत्रधातुर् अशान्त इति चरति / न श्रोत्रधातुः शून्य इति चरति / न श्रोत्रधातुर् अशून्य इति चरति / न श्रोत्रधातुर् निमित्ते चरति / न श्रोत्रधातुर् अनिमित्त इति चरति / न श्रोत्रधातुः प्रणिहित इति चरति / न श्रोत्रधातुर् अप्रणिहित इति चरति / न श्रोत्रधातुर् विविक्त इति चरति / न श्रोत्रधातुर् अविविक्त इति चरति /

न शब्दधातौ चरति / न शब्दधातोर् निमित्ते चरति / न शब्दधातुर् नित्य इति चरति / न शब्दधातुर् अनित्य इति चरति / न शब्दधातुः सुख इति चरति / न शब्दधातुर् दुःख इति चरति / न शब्दधातुर् आत्मेति चरति / न शब्दधातुर् अनात्मेति चरति / न शब्दधातुः शान्त इति चरति / न शब्दधातुर् अशान्त इति चरति / शब्दधातुः शून्य इति चरति / न शब्दधातुर् अशून्य इति चरति / न शब्दधातुः प्रणिहित इति चरति / न शब्दधातुर् अप्रणिहित इति चरति / न शब्दधातुर् विविक्त इति चरति / न शब्दधातुर् अविविक्त इति चरति /

न श्रोत्रविज्ञानधातौ चरति / न श्रोत्रविज्ञानधातोर् निमित्ते चरति / न श्रोत्रविज्ञानधातुर् नित्य इति चरति / न श्रोत्रविज्ञानधातुर् अनित्य इति चरति / न श्रोत्रविज्ञानधातुः सुख इति चरति / न श्रोत्रविज्ञानधातुर् दुःख इति चरति / न श्रोत्रविज्ञानधातुर् आत्मेति चरति / न श्रोत्रविज्ञानधातुर् अनात्मेति चरति / न श्रोत्रविज्ञानधातुः शान्त इति चरति / न श्रोत्रविज्ञानधातुर् अशान्त इति चरति / न श्रोत्रविज्ञानधातुः शून्य इति चरति / न श्रोत्रविज्ञानधातुर् अशून्य इति चरति / न श्रोत्रविज्ञानधातुर् निमित्त इति चरति / न श्रोत्रविज्ञानधातुर् अनिमित्त इति चरति / न श्रोत्रविज्ञानधातुः प्रणिहित इति चरति / न श्रोत्रविज्ञानधातुर् अप्रणिहित इति चरति / न श्रोत्रविज्ञानधातुर् विविक्त इति चरति / न श्रोत्रविज्ञानधातुर् अविविक्त इति चरति /

न घ्राणधातौ चरति / न घ्राणधातोर् निमित्त इति चरति / न घ्राणधातुर् नित्य इति चरति / न घ्राणधातुर् अनित्य इति चरति / न घ्राणधातुः सुख इति चरति / न घ्राणधातुर् दुःख इति चरति / न घ्राणधातुर् आत्मेति चरति / न घ्राणधातुर् अनात्मेति चरति / न घ्राणधातुः शान्त इति चरति / न घ्राणधातुर् अशान्त इति चरति / न घ्राणधातुः शून्य इति चरति / न घ्राणधातुर् अशून्य इति चरति / न घ्राणधातुर् निमित्त इति चरति / न घ्राणधातुर् अनिमित्त इति चरति / न घ्राणधातुः प्रणिहित इति चरति / न घ्राणधातुर् अप्रणिहित इति चरति / न घ्राणधातुर् विविक्त इति चरति / न घ्राणधातुर् अविविक्त इति चरति /

न गन्धधातौ चरति / न गन्धधातोर् निमित्ते चरति / न गन्धधातुर् नित्य इति चरति / न गन्धधातुर् अनित्य इति चरति / न गन्धधातुः सुख इति चरति / न गन्धधातुर् दुःख इति चरति / न गन्धधातुर् आत्मेति चरति / न गन्धधातुर् अनात्मेति चरति / न गन्धधातुः शान्त इति चरति / न गन्धधातुर् अशान्त इति चरति / न गन्धधातुः शून्य इति चरति / न गन्धधातुर् अशून्य इति चरति / न गन्धधातुर् निमित्त इति चरति / न गन्धधातुर् अनिमित्त इति चरति / न गन्धधातुः प्रणिहित इति चरति / न गन्धधातुर् अप्रणिहित इति चरति / न गन्धधातुर् विविक्त इति चरति / न गन्धधातुर् अविविक्त इति चरति /

न घ्राणविज्ञानधातौ चरति / न घ्राणविज्ञानधातोर् निमित्ते इति चरति / न घ्राणविज्ञानधातुर् नित्य इति चरति / न घ्राणविज्ञानधातुर् अनित्य इति चरति / न घ्राणविज्ञानधातुः सुख इति चरति / न घ्राणविज्ञानधतुर् दुःख इति चरति / न घ्राणविज्ञानधातुर् आत्मेति चरति / न घ्राणविज्ञानधातुर् अनात्मेति चरति / न घ्राणविज्ञानधातुः शान्त इति चरति / न घ्राणविज्ञानधातुर् अशान्त इति चरति / न घ्राणविज्ञानधातः शून्य इति चरति / न घ्राणविज्ञानधातुर् अशून्य इति चरति / न घ्राणविज्ञानधातुर् निमित्त इति चरति / न घ्राणविज्ञानधातुर् अनिमित्त इति चरति / न घ्राणविज्ञानधातुः प्रणिहित इति चरति / न घ्राणविज्ञानधातुर् अप्रणिहित इतिए चरति / न घ्राणविज्ञानधातुर् विविक्त इति चरति / न घ्राणविज्ञानधातुर् अविविक्त इति चरति /

न जिह्वाधातौ चरति / न जिह्वाधातोर् निमित्ते चरति / न जिह्वाधातुर् नित्य इति चरति / न जिह्वाधातुर् अनित्य इति चरति / न जिह्वाधातुः सुख इति चरति / न जिह्वाधातुर् दुःख इति चरति / न जिह्वाधातुर् आत्मेति चरति / न जिह्वाधातुर् अनात्मेति चरति / न जिह्वाधातुः शान्त इति चरति / न जिह्वाधातुर् अशान्त इति चरति / न जिह्वाधातुः शून्य इति चरति / न जिह्वाधातुर् अशून्य इति चरति / न जिह्वाधातुर् निमित्त इति चरति / न जिह्वाधातुर् अनिमित्त इति चरति / न जिह्वाधातुः प्रणिहित इति चरति / न जिह्वाधातुर् अप्रणिहित इति चरति / न जिह्वाधातुर् विविक्त इति चरति / न जिह्वाधातुर् अविविक्त इति चरति /

न रसधातौ चरति / न रसधातोर् निमित्ते चरति / न रसधातुर् नित्य इति चरति / न रसधातुर् अनित्य इति चरति / न रसधातुः सुख इति चरति / न रसधातुर् दुःख इति चरति / न रसधातुर् आत्मेति चरति / न रसधातुर् अनात्मेति चरति / न रसधातुः शान्त इति चरति / न रसधातुर् अशान्त इति चरति / न रसधातुः शून्य इति चरति / न रसधातुर् अशून्य इति चरति / न रसधातुर् निमित्त इति चरति / न रसधातुर् अनिमित्त इति चरति / न रसधातुः प्रणिहित इति चरति / न रसधातुर् अप्रणिहित इति चरति / न रसधातुर् विविक्त इति चरति / न रसधातुर् अविविक्त इति चरति /

न जिह्वाविज्ञानधातौ चरति / न जिह्वाविज्ञानधातोर् निमित्ते चरति / न जिह्वाविज्ञानधातुर् नित्य इति चरति / न जिह्वाविज्ञानधातुर् अनित्य इति चरति / न जिह्वाविज्ञानधातुः सुख इति चरति / न जिह्वाविज्ञानधातुर् दुःख इति चरति / न जिह्वाविज्ञानधातुर् आत्मेति चरति / न जिह्वाविज्ञानधातुर् अनात्मेति चरति / न जिह्वाविज्ञानधातुः शान्त इति चरति / न जिह्वाविज्ञानधातुर् अशान्त इति चरति / न जिह्वाविज्ञानधातुः शून्य इति चरति / न जिह्वाविज्ञानधातुर् अशून्य इति चरति / न जिह्वाविज्ञानधातुर् निमित्त इति चरति / न जिह्वाविज्ञानधातुर् अनिमित्त इति चरति / न जिह्वाविज्ञानधातुः प्रणिहित इति चरति / न जिह्वाविज्ञानधातुर् अप्रणिहित इति चरति / न जिह्वाविज्ञानधातुर् विविक्त इति चरति / न जिह्वाविज्ञानधातुर् अविविक्त इति चरति /

न कायधातौ चरति / न कायधातोर् निमित्ते चरति / न कायधातुर् नित्य इति चरति / न कायधातुर् अनित्य इति चरति / न कायधातुः सुख इति चरति / न कायधातुर् दुःख इति चरति / न कायधातुर् आत्मेति चरति / न कायधातुर् अनात्मेति चरति / न कायधातुः शान्त इति चरति / न कायधातुर् अशान्त इति चरति / न कायधातुः शून्य इति चरति / न कायधातुर् अशून्य इति चरति / न कायधातुर् निमित्त इति चरति / न कायधातुर् अनिमित्त इति चरति / न कायधातुः प्रणिहित इति चरति / न कायधातुर् अप्रणिहित इति चरति / न कायधातुर् विविक्त इति चरति / न कायधातुर् अविविक्त इति चरति /

न स्प्रष्टव्यधातौ चरति / न स्प्रष्टव्यधातोर् निमित्ते चरति / न स्प्रष्टव्यधातुर् नित्य इति चरति / न स्प्रष्टव्यधातुर् अनित्य इति चरति / न स्प्रष्टव्यधातुः सुख इति चरति / न स्प्रष्टव्यधातुर् दुःख इति चरति / न स्प्रष्टव्यधातुर् आत्मेति चरति / न स्प्रष्टव्यधातुर् अनात्मेति चरति / न स्प्रष्टव्यधातुः शान्त इति चरति / न स्प्रष्टव्यधातुर् अशान्त इति चरति / न स्प्रष्टव्यधातुः शून्य इति चरति / न स्प्रष्टव्यधातुर् अशून्य इति चरति / न स्प्रष्टव्यधातुर् निमित्त इति चरति / न स्प्रष्टव्यधातुर् अनिमित्त इति चरति / न स्प्रष्टव्यधातुः प्रणिहित इति चरति / न स्प्रष्टव्यधातुर् अप्रणिहित इति चरति / न स्प्रष्टव्यधातुर् विविक्त इति चरति / न स्प्रष्टव्यधातुर् अविविक्त इति चरति /

न कायविज्ञानधातौ चरति / न कायविज्ञानधातोर् निमित्ते चरति / न कायविज्ञानधातुर् नित्य इति चरति / न कायविज्ञानधातुर् अनित्य इति चरति / न कायविज्ञानधातुः सुख इति चरति / न कायविज्ञानधातुर् दुःख इति चरति / न कायविज्ञानधातुर् आत्मेति चरति / न कायविज्ञानधातुर् अनात्मेति चरति / न कायविज्ञानधातुः शान्त इति चरति / न कायविज्ञानधातुर् अशान्त इति चरति / न कायविज्ञानधातुः शून्य इति चरति / न कायविज्ञानधातुर् अशून्य इति चरति / न कायविज्ञानधातुर् निमित्त इति चरति / न कायविज्ञानं धातुर् अनिमित्त इति चरति / न कायविज्ञानधातुः प्रणिहित इति चरति / न कायविज्ञानधातुर् अप्रणिहित इति चरति / न कायविज्ञानधातुर् विविक्त इति चरति / न कायविज्ञानधातुर् अविविक्त इति चरति /

न मनोधातौ चरति / न मनोधातोर् निमित्ते चरति / न मनोधातुर् नित्य इति चरति / न मनोधातुर् अनित्य इति चरति / न मनोधातुः सुख इति चरति / न मनोधातुर् दुःख इति चरति / न मनोधातुर् आत्मेति चरति / न मनोधातुर् अनात्मेति चरति / न मनोधातुः शान्त इति चरति / न मनोधातुर् अशान्त इति चरति / न मनोधातुः शून्य इति चरति / न मनोधातुर् अशून्य इति चरति / न मनोधातुर् निमित्त इति चरति / न मनोधातुर् अनिमित्त इति चरति / न मनोधातुः प्रणिहित इति चरति / न मनोधातुर् अप्रणिहित इति चरति / न मनोधातुर् विविक्त इति चरति / न मनोधातुर् अविविक्त इति चरति /

न धर्मधातौ चरति / न धर्मधातोर् निमित्ते चरति / न धर्मधातुर् नित्य इति चरति / न धर्मधातुर् अनित्य इति चरति / न धर्मधातुः सुख इति चरति / न धर्मधातुर् दुःख इति चरति / न धर्मधातुर् आत्मेति चरति / न धर्मधातुर् अनात्मेति चरति / न धर्मधातुः शान्त इति चरति / न धर्मधातुर् अशान्त इति चरति / न धर्मधातुः शून्य इति चरति / न धर्मधातुर् अशून्य इति चरति / न धर्मधातुर् निमित्त इति चरति / न धर्मधातुर् अनिमित्त इति चरति / न धर्मधातुः प्रणिहित इति चरति / न धर्मधातुर् अप्रणिहित इति चरति / न धर्मधातुर् विविक्त इति चरति / न धर्मधातुर् अविविक्त इति चरति /

न मनोविज्ञानधातौ चरति / न मनोविज्ञानधातोर् निमित्ते चरति / न मनोविज्ञानधातुर् नित्य इति चरति / न मनोविज्ञानधातुर् अनित्य इति चरति / न मनोविज्ञानधातुः सुख इति चरति / न मनोविज्ञानधातुर् दुःख इति चरति / न मनोविज्ञानधातुर् आत्मेति चरति / न मनोविज्ञानधातुर् अनात्मेति चरति / न मनोविज्ञानधातुः शान्त इति चरति / न मनोविज्ञानधातुर् अशान्त इति चरति / न मनोविज्ञानधातुः शून्य इति चरति / न मनोविज्ञानधातुर् अशून्य इति चरति / न मनोविज्ञानधातुः प्रणिहित इति चरति / न मनोविज्ञानधातुर् अप्रणिहित इति चरति / न मनोविज्ञानधातुर् विविक्त इति चरति / न मनोविज्ञानधातुर् अविविक्त इति चरति /

न पृथिवीधातौ चरति / न पृथिवीधातोर् निमित्ते चरति / न पृथिवीधातुर् नित्य इति चरति / न पृथिवीधातुर् अनित्य इति चरति / न पृथिवीधातुः सुख इति चरति / न पृथिवीधातुर् दुःख इति चरति / न पृथिवीधातुर् आत्मेति चरति / न पृथिवीधातुर् अनात्मेति चरति / न पृथिवीधातुः शान्त इति चरति / न पृथिवीधातुर् अशान्त इति चरति / न पृथिवीधातुः शून्य इति चरति / न पृथिवीधातुर् अशून्य इति चरति / न पृथिवीधातुर् निमित्त इति चरति / न पृथिवीधातुर् अनिमित्त इति चरति / न पृथिवीधातुः प्रणिहित इति चरति / न पृथिवीधातुर् अप्रणिहित इति चरति / न पृथिवीधातुर् विविक्त इति चरति / न पृथिवीधातुर् अविविक्त इति चरति /

नाब्धातौ चरति / नाब्धातोर् निमित्ते चरति / नाब्धातुर् नित्य इति चरति / नाब्धातुर् अनित्य इति चरति / नाब्धातुः सुख इति चरति / नाब्धातुर् दुःख इति चरति / नाब्धातुर् आत्मेति चरति / नाब्धातुर् अनात्मेति चरति / नाब्धातुः शान्त इति चरति / नाब्धातुर् अशान्त इति चरति / नाब्धातुः शून्य इति चरति / नाब्धातुर् अशून्य इति चरति / नाब्धातुः प्रणिहित इति चरति / नाब्धातुर् अप्रणिहित इति चरति / नाब्धातुर् विविक्त इति चरति / नाब्धातुर् अविविक्त इति चरति /

न तेजोधातौ चरति / न तेजोधातोर् निमित्ते चरति / न तेजोधातुर् नित्य इति चरति / न तेजोधातुर् अनित्य इति चरति / न तेजोधातुः सुख इति चरति / न तेजोधातुर् दुःख इति चरति / न तेजोधातुर् आत्मेति चरति / न तेजोधातुर् अनात्मेति चरति / न तेजोधातुः शान्त इति चरति / न तेजोधातुर् अशान्त इति चरति / न तेजोधातुः शून्य इति चरति / न तेजोधातुर् अशून्य इति चरति / न तेजोधातुर् निमित्त इति चरति / न तेजोधातुर् अनिमित्त इति चरति / न तेजोधातुः प्रणिहित इति चरति / न तेजोधातुर् अप्रणिहित इति चरति / न तेजोधातुर् विविक्त इति चरति / न तेजोधातुर् अविविक्त इति चरति /

न वायुधातौ चरति / न वायुधातोर् निमित्ते चरति / न वायुधातुर् नित्य इति चरति / न वायुधातुर् अनित्य इति चरति / न वायुधातुः सुख इति चरति / न वायुधातुर् दुःख इति चरति / न वायुधातुर् आत्मेति चरति / न वायुधातुर् अनात्मेति चरति / न वायुधातुः शान्त इति चरति / न वायुधातुर् अशान्त इति चरति / न वायुधातुः शून्य इति चरति / न वायुधातुर् अशून्य इति चरति / न वायुधातुर् निमित्त इति चरति / न वायुधातुर् अनिमित्त इति चरति / न वायुधातुः प्रणिहित इति चरति / न वायुधातुर् अप्रणिहित इति चरति / न वायुधातुर् विविक्त इति चरति / न वायुधातुर् अविविक्त इति चरति /

नाकाशधातौ चरति / नाकाशधातोर् निमित्ते चरति / नाकाशधातुर् नित्य इति चरति / नाकाशधातुर् अनित्य इति चरति / नाकाशधातुः सुख इति चरति / नाकाशधातुर् दुःख इति चरति / नाकाशधातुर् आत्मेति चरति / नाकाशधातुर् अनात्मेति चरति / नाकाशधातुः शून्य इति चरति / नाकाशधातुर् अशून्य इति चरति / नाकाशधातुर् निमित्त इति चरति / नाकाशधातुर् अनिमित्त इति चरति / नाकाशधातुः प्रणिहित इति चरति / नाकाशधातुर् अप्रणिहित इति चरति / नाकाशधातुर् विविक्त इति चरति / नाकाशधातुर् अविविक्त इति चरति /

न विज्ञानधातौ चरति / न विज्ञानधातोर् निमित्ते चरति / न विज्ञानधातुर् नित्य इति चरति / न विज्ञानधातुर् अनित्य इति चरति / न विज्ञानधातुः सुख इति चरति / न विज्ञानधातुर् दुःख इति चरति / न विज्ञानधातुर् आत्मेति चरति / न विज्ञानधातुर् अनात्मेति चरति / न विज्ञानधातुः शान्त इति चरति / न विज्ञानधातुर् अशान्त इति चरति / न विज्ञानधातुः शून्य इति चरति / न विज्ञानधातुर् अशून्य इति चरति / न विज्ञानधातुर् निमित्त इति चरति / न विज्ञानधातुर् अनिमित्त इति चरति / न विज्ञानधातुः प्रणिहित इति चरति / न विज्ञानधातुर् अप्रणिहित इति चरति / न विज्ञानधातुर् विविक्त इति चरति / न विज्ञानधातुर् अविविक्त इति चरति /

नाविद्यायां चरति / नाविद्यायाः निमित्ते चरति / नाविद्या नित्येति चरति / नाविद्यानित्येति चरति / नाविद्या सुखेति चरति / नाविद्या दुःखेति चरति / नाविद्या आत्मेति चरति / नाविद्यानात्मेति चरति / नाविद्या शान्तेति चरति / नाविद्याशान्तेति चरति / नाविद्या शून्येति चरति / नाविद्याशून्येति चरति / नाविद्या निमित्तेति चरति / नाविद्यानिमित्तेति चरति / नाविद्या प्रणिहितेति चरति / नाविद्याप्रणिहितेति चरति / नाविद्या विविक्तेति चरति / नाविद्याविविक्तेति चरति /

न संस्कारेषु चरति / न संस्कारायां निमित्ते चरति / न संस्काराः नित्या इति चरति / न संस्कारा अनित्या इति चरति / न संस्काराः सुखा इति चरति / न संस्काराः दुःखा इति चरति / न संस्कारा आत्मा इति चरति / न संस्कारा अनात्मा इति चरति / न संस्काराः शान्ता इति चरति / न संस्कारा अशान्ता इति चरति / न संस्काराः शून्या इति चरति / न संस्कारा अशून्या इति चरति / न संस्काराः निमित्ता इति चरति / न संस्कारा अनिमित्ता इति चरति / न संस्काराः प्रणिहिता इति चरति / न संस्कारा अप्रणिहिता इति चरति / न संस्काराः विविक्ता इति चरति / न संस्कारा अविविक्ता इति चरति /

न विज्ञाने चरति / न विज्ञानस्य निमित्ते चरति / न विज्ञानं नित्यम् इति चरति / न विज्ञानम् अनित्यम् इति चरति / न विज्ञानं सुखम् इति चरति / न विज्ञानं दुःखम् इति चरति / न विज्ञानम् आत्मेति चरति / न विज्ञानम् अनात्मेति चरति / न विज्ञानं शान्तम् इति चरति / न विज्ञानम् अशान्तम् इति चरति / न विज्ञानं शून्यम् इति चरति / न विज्ञानम् अशून्यम् इति चरति / न विज्ञानं निमित्तम् इति चरति / न विज्ञानम् अनिमित्तम् इति चरति / न विज्ञानं प्रणिहितम् इति चरति / न विज्ञानम् अप्रणिहितम् इति चरति / न विज्ञानं विविक्तम् इति चरति / न विज्ञानम् अविविक्तम् इति चरति /

न नामरूपे चरति / न नामरूपस्य निमित्ते चरति / ननामरूपं नित्यम् इति चरति / न नामरूपम् अनित्यम् इति चरति / न नामरूपं सुखम् इति चरति / न नामरूपं दुःखम् इति चरति / न नामरूपम् आत्मेति चरति / न नामरूपम् अनात्मेति चरति / न नामरूपं शान्तम् इति चरति / न नामरूपम् अशान्तम् इति चरति / न नामरूपं शून्यम् इति चरति / न नामरूपम् अशून्यम् इति चरति / न नामरूपं निमित्तम् इति चरति / न नामरूपम् अनिमित्तम् इति चरति / न नामरूपं प्रणिहितम् इति चरति / न नामरूपम् अप्रणिहितम् इति चरति / न नामरूपं विविक्तम् इति चरति / न नामरूपम् अविविक्तम् इति चरति /

न षडायतने चरति / न षडायतनस्य निमित्ते चरति / न षडायतनं नित्यम् इति चरति / न षडायतनम् अनित्यम् इति चरति / न षडायतनं सुखम् इति चरति / न षडायतनं दुःखम् इति चरति / न षडायतनम् आत्मेति चरति / न षडायतनम् अनात्मेति चरति / न षडायतनं शान्तम् इति चरति / न षडायतनम् अशान्तम् इति चरति / न षड्यायतनं शून्यम् इति चरति / न षडायतनम् अशून्यम् इति चरति / न षडायतनं निमित्तम् इति चरति / न षडायतनम् अनिमित्तम् इति चरति / न षडायतनं प्रणिहितम् इति चरति / न षडायतनम् अप्रणिहितम् इति चरति / न षडायतनं विविक्तम् इति चरति / न षडायतनम् अविविक्तम् इति चरति /

न स्पर्शे चरति / न स्पर्शस्य निमित्ते चरति / न स्पर्शो नित्य इति चरति / न स्पर्शो ऽनित्य इति चरति / न स्पर्शः सुख इति चरति / न स्पर्शो दुःख इति चरति / न स्पर्शः आत्मेति चरति / न स्पर्शः अनात्मेति चरति / न स्पर्शः शान्त इति चरति / न स्पर्शो ऽशान्त इति चरति / न स्पर्शः शून्य इति चरति / न स्पर्शो ऽशून्य इति चरति / न स्पर्शः निमित्त इति चरति / न स्पर्शो ऽनिमित्त इति चरति / न स्पर्शः प्रणिहित इति चरति / न स्पर्शो ऽप्रणिहित इति चरति / न स्पर्शो विविक्त इति चरति / न स्पर्शो ऽविविक्त इति चरति /

न वेदनायां चरति / न वेदनायाः निमित्ते चरति / न वेदना नित्येति चरति / न वेदनानित्येति चरति / न वेदना सुखेति चरति / न वेदना दुःखेति चरति / न वेदना आत्मेति चरति / न वेदना अनात्मेति चरति / न वेदना शान्तेति चरति / न वेदना अशान्तेति चरति / न वेदना शून्येति चरति / न वेदना अशून्येति चरति / न वेदना निमित्तेति चरति / न वेदनानिमित्तेति चरति / न वेदना प्रणिहितेति चरति / न वेदनाप्रणिहितेति चरति / न वेदना विविक्तेति चरति / न वेदनाविविक्तेति चरति /

न तृष्णायां चरति / न तृष्णायाः निमित्ते चरति / न तृष्णा नित्येति चरति / न तृष्णा अनित्येति चरति / न तृष्णा सुखेति चरति / न तृष्णा दुःखेति चरति / न तृष्णा आत्मेति चरति / न तृष्णा अनात्मेति चरति / न तृष्णा शान्तेति चरति / न तृष्णा अशान्तेति चरति / न तृष्णा शून्येति चरति / न तृष्णाशून्येति चरति / न तृष्णा निमित्तेति चरति / न तृष्णानिमित्तेति चरति / न तृष्णा प्रणिहितेति चरति / न तृष्णाप्रणिहितेति चरति / न तृष्णा विविक्तेति चरति / न तृष्णाविविक्तेति चरति /

नोपादाने चरति / नोपादानस्य निमित्ते चरति / नोपादानं नित्यम् इति चरति / नोपादानम् अनित्यम् इति चरति / नोपादानं सुखम् इति चरति / नोपादानं दुःखम् इति चरति / नोपादानम् आत्मेति चरति / नोपादानम् अनात्मेति चरति / नोपादानं शान्तम् इति चरति / नोपादानम् अशान्तम् इति चरति / नोपादानं शून्यम् इति चरति / नोपादानम् अशून्यम् इति चरति / नोपादानं निमित्तम् इति चरति / नोपादानम् अनिमित्तम् इति चरति / नोपादानं प्रणिहितम् इति चरति / नोपादानम् अप्रणिहितम् इति चरति / नोपादानं विविक्तम् इति चरति / नोपादानम् अविविक्तम् इति चरति /

न भवे चरति / न भवस्य निमित्तै चरति / न भवो नित्य इति चरति / न भवो ऽनित्य इति चरति / न भवः सुख इति चरति / न भवो दुःख इति चरति / न भवः आत्मेति चरति / न भवो ऽनात्मेति चरति / न भवः शान्त इति चरति / न भवो ऽशान्त इति चरति / न भवः शून्य इति चरति / न भवो ऽशून्य इति चरति / न भवो निमित्त इति चरति / न भवो ऽनिमित्त इति चरति / न भवः प्रणिहित इति चरति / न भवो ऽप्रणिहित इति चरति / न भवो विविक्त इति चरति / न भवो ऽविविक्त इति चरति /

न जातौ चरति / न जातेर् निमित्ते चरति / न जातिर् नित्येति चरति / न जातिर् अनित्येति चरति / न जातिः सुखेति चरति / न जातिर् दुःखेति चरति / न जातिर् आत्मेति चरति / न जातिर् अनात्मेति चरति / न जातिः शान्तेति चरति / न जातिर् अशान्तेति चरति / न जातिः शून्येति चरति / न जातिर् अशून्येति चरति / न जातिर् निमित्तेति चरति / न जातिर् अनिमित्तेति चरति / न जातिः प्रणिहितेति चरति / न जातिर् अप्रणिहितेति चरति / न जातिर् विविक्तेति चरति / न जातिर् अविविक्तेति चरति /

न जरामरणे चरति / न जरामरणस्य निमित्ते चरति / न जरामरणं नित्यम् इति चरति / न जरामरणम् अनित्यम् इति चरति / न जरामरणं सुखम् इति चरति / न जरामरणं दुःखम् इति चरति / न जरामरणम् आत्मेति चरति / न जरामरणम् अनात्मेति चरति / न जरामरणं शान्तम् इति चरति / न जरामरणम् अशान्तम् इति चरति / न जरामरणं शून्यम् इति चरति / न जरामरणम् अशून्यम् इति चरति / न जरामरणं निमित्तम् इति चरति / न जरामरणम् अनिमित्तम् इति चरति / न जरामरणं प्रणिहितम् इति चरति / न जरामरणम् अप्रणिहितम् इति चरति / न जरामरणं विविक्तम् इति चरति / न जरामरणम् अविविक्तम् इति चरति /

न दानपारमितायां चरति / न दानपारमितायाः निमित्ते चरति / न दानपारमिता नित्येति चरति / न दानपारमितानित्येति चरति / न दानपारमिता सुखेति चरति / न दानपारमिता दुःखेति चरति / न दानपारमिता आत्मेति चरति / न दानपारमितानात्मेति चरति / न दानपारमिता शान्तेति चरति / न दानपारमिताशन्तेति चरति / न दानपारमिता शून्येति चरति / न दानपारमिताशून्येति चरति / न दानपारमिता निमित्तेति चरति / न दानपारमितानिमित्तेति चरति / न दानपारमिता प्रणिहितेति चरति / न दानपारमिताप्रणिहितेति चरति / न दानपारमिता विविक्तेति चरति / न दानपारमिताविविक्तेति चरति /

न शीलपारमितायां चरति / न शीलपारमितायाः निमित्ते चरति / न शीलपारमिता नित्येति चरति / न शीलपारमितानित्येति चरति / न शीलपारमिता सुखेति चरति / न शीलपारमिता दुःखेति चरति / न शीलपारमिता आत्मेति चरति / न शीलपारमितानात्मेति चरति / न शीलपारमिता शान्तेति चरति / न शीलपारमिताशान्तेति चरति / न शीलपारमिता शून्येति चरति / न शीलपारमिताशून्येति चरति / न शीलपारमिता निमित्तेति चरति / न शीलपारमितानिमित्तेति चरति / न शीलपारमिता प्रणिहितेति चरति / न शीलपारमिताप्रणिहितेति चरति / न शीलपारमिता विविक्तेति चरति / न शीलपारमिताविविक्तेति चरति /

न क्षान्तिपारमितायां चरति / न क्षान्तिपारमितायाः निमित्ते चरति / न क्षान्तिपारमिता नित्येति चरति / न क्षान्तिपारमितानित्येति चरति / न क्षान्तिपारमिता सुखेति चरति / न क्षान्तिपारमिता दुःखेति चरति / न क्षान्तिपारमिता आत्मेति चरति / न क्षान्तिपारमितानात्मेति चरति / न क्षान्तिपारमिता शान्तेति चरति / न क्षान्तिपारमिताशान्तेति चरति / न क्षान्तिपारमिता शून्येति चरति / न क्षान्तिपारमिता अशून्येति चरति / न क्षान्तिपारमिता निमित्तेति चरति / न क्षान्तिपारमितानिमित्तेति चरति / न क्षान्तिपारमिता प्रणिहितेति चरति / न क्षान्तिपारमिताप्रणिहितेति चरति / न क्षान्तिपारमिता विविक्तेति चरति / न क्षान्तिपारमिताविविक्तेति चरति /

न वीर्यपारमितायां चरति / न वीर्यपारमितायाः निमित्ते चरति / न वीर्यपारमिता नित्येति चरति / न वीर्यपारमितानित्येति चरति / न वीर्यपारमिता सुखेति चरति / न वीर्यपारमिता दुःखेति चरति / न वीर्यपारमिता आत्मेति चरति / न वीर्यपारमिता अनात्मेति चरति / न वीर्यपारमिता शान्तेति चरति / न वीर्यपारमिताशान्तेति चरति / न वीर्यपारमिता शून्येति चरति / न वीर्यपारमिताशून्येति चरति / न वीर्यपारमिता निमित्तेति चरति / न वीर्यपारमितानिमित्तेति चरति / न वीर्यपारमिता प्रणिहितेति चरति / न वीर्यपारमिताप्रणिहितेति चरति / न वीर्यपारमिता विविक्तेति चरति / न वीर्यपारमिताविविक्तेति चरति /

न ध्यानपारमितायां चरति / न ध्यानपारीमतायाः निमित्ते चरति / न ध्यानपारमिता नित्येति चरति / न ध्यानपारर्मितानित्येति चरति / न ध्यानपारमिता सुखेति चरति / न ध्यानपारमिता दुःखेति चरति / न ध्यानपारमिता आत्मेति चरति / न ध्यानपारमिता अनात्मेति चरति / न ध्यानपारमिता शान्तेति चरति / न ध्यानपारमिताशान्तेति चरति / न ध्यानपारमिता शून्येति चरति / न ध्यानपारमिताशून्येति चरति / न ध्यानपारमिता निमित्तेति चरति / न ध्यानपारमितानिमित्तेति चरति / न ध्यानपारमिता प्रणिहितेति चरति / न ध्यानपारमिताप्रणिहितेति चरति / न ध्यानपारमिता विविक्तेति चरति / न ध्यानपारमिताविविक्तेति चरति /

न प्रज्ञापारमितायां चरति / न प्रज्ञापारमितायाः निमित्ते चरति / न प्रज्ञापारमिता नित्येति चरति / न प्रज्ञापारमितानित्येति चरति / न प्रज्ञापारमिता सुखेति चरति / न प्रज्ञापारमिता दुःखेति चरति / न प्रज्ञापारमिता आत्मेति चरति / न प्रज्ञापारमितानात्मेति चरति / न प्रज्ञापारमिता शान्तेति चरति / न प्रज्ञापारमिताशान्तेति चरति / न प्रज्ञापारमिता शून्येति चरति / न प्रज्ञापारमिताशून्येति चरति / न प्रज्ञापारमिता निमित्तेति चरति / न प्रज्ञापारमितानिमित्तेति चरति / न प्रज्ञापारमिता प्रणिहितेति चरति / न प्रज्ञापारमिताप्रणिहितेति चरति / न प्रज्ञापारमिता विविक्तेति चरति / न प्रज्ञापारमिताविविक्तेति चरति /

नाध्यात्मशून्यतायां चरति / नाध्यात्मशून्यतायाः निमित्ते चरति / नाध्यात्मशून्यता नित्येति चरति / नाध्यात्मशून्यतानित्येति चरति / नाध्यात्मशून्यता सुखेति चरति / नाध्यात्मशून्यता दुःखेति चरति / नाध्यात्मशून्यता आत्मेति चरति / नाध्यात्मशून्यतानात्मेति चरति / नाध्यात्मशून्यता शान्तेति चरति / नाध्यात्मशून्यताशान्तेति चरति / नाध्यात्मशून्यता शून्येति चरति / नाध्यात्मशून्यताशून्येति चरति / नाध्यात्मशून्यता निमित्तेति चरति / नाध्यात्मशून्यतानिमित्तेति चरति / नाध्यात्मशून्यता प्रणिहितेति चरति / नाध्यात्मशून्यताप्रणिहितेति चरति / नाध्यात्मशून्यता विविक्तेति चरति / नाध्यात्मशून्यताविविक्तेति चरति /

न बहिर्धाशून्यतायां चरति / न बहिर्धाशून्यतायाः निमित्ते चरति / न बहिर्धाशून्यता नित्येति चरति / न बहिर्धाशून्यतानित्येति चरति / न बहिर्धाशून्यता सुखेति चरति / न बहिर्धाशून्यता दुःखेति चरति / न बहिर्धाशून्यता आत्मेति चरति / न बहिर्धाशून्यतानात्मेति चरति / न बहिर्धाशून्यता शान्तेति चरति / न बहिर्धाशून्यताशान्तेति चरति / न बहिर्धाशून्यता शून्येति चरति / न बहिर्धाशून्यताशून्येति चरति / न बहिर्धाशून्यता निमित्तेति चरति / न बहिर्धाशून्यतानिमित्तेति चरति / न बहिर्धाशून्यता प्रणिहितेति चरति / न बहिर्धाशून्यताप्रणिहितेति चरति / न बहिर्धाशून्यता विविक्तेति चरति / न बहिर्धाशून्यताविविक्तेति चरति /

नाध्यात्मबहिर्धाशून्यतायां चरति / नाध्यात्मबहिर्धाशून्यतायाः निमित्ते चरति / नाध्यात्मबहिर्धाशून्यता नित्येति चरति / नाध्यात्मबहिर्धाशून्यतानित्येति चरति / नाध्यात्मबहिर्धाशून्यता सुखेति चरति / नाध्यात्मबहिर्धाशून्यता दुःखेति चरति / नाध्यात्मबहिर्धाशून्यता आत्मेति चरति / नाध्यात्मबहिर्धाशून्यतानात्मेति चरति / नाध्यात्मबहिर्धाशून्यता शान्तेति चरति / नाध्यात्मबहिर्धाशून्यताशान्तेति चरति / नाध्यात्मबहिर्धाशून्यता शून्येति चरति / नाध्यात्मबहिर्धाशून्यताशून्येति चरति / नाध्यात्मबहिर्धाशून्यता निमित्तेति चरति / नाध्यात्मबहिर्धाशून्यतानिमित्तेति चरति / नाध्यात्मबहिर्धाशून्यता प्रणिहितेति चरति / नाध्यात्मबहिर्धाशून्यताप्रणिहितेति चरति / नाध्यात्मबहिर्धाशून्यता विविक्तेति चरति / नाध्यात्मबहिर्धाशून्यताविविक्तेति चरति /

न शून्यताशून्यतायां चरति / न शून्यताशून्यतायाः निमित्ते चरति / न शून्यताशून्यता नित्येति चरति / न शून्यताशून्यतानित्येति चरति / न शून्यताशून्यता सुखेति चरति / न शून्यताशून्यता दुःखेति चरति / न शून्यताशून्यता आत्मेति चरति / न शून्यताशून्यतानात्मेति चरति / न शून्यताशून्यता शान्तेति चरति / न शून्यताशून्यताशान्तेति चरति / न शून्यताशून्यता शून्येति चरति / न शून्यताशून्यताशून्येति चरति / न शून्यताशून्यता निमित्तेति चरति / न शून्यताशून्यतानिमित्तेति चरति / न शून्यताशून्यता प्रणिहितेति चरति / न शून्यताशून्यताप्रणिहितेति चरति / न शून्यताशून्यता विविक्तेति चरति / न शून्यताशून्यताविविक्तेति चरति /

न महाशून्यतायां चरति / न महाशून्यतायाः निमित्ते चरति / न महाशून्यता नित्येति चरति / न महाशून्यतानित्येति चरति / न महाशून्यता सुखेति चरति / न महाशून्यता दुःखेति चरति / न महाशून्यता आत्मेति चरति / न महाशून्यतानात्मेति चरति / न महाशून्यता शान्तेति चरति / न महाशून्यताशान्तेति चरति / न महाशून्यता शून्येति चरति / न महाशून्यताशून्येति चरति / न महाशून्यता निमित्तेति चरति / न महाशून्यतानिमित्तेति चरति / न महाशून्यता प्रणिहितेति चरति / न महाशून्यताप्रणिहितेति चरति / न महाशून्यता विविक्तेति चरति / न महाशून्यताविविक्तेति चरति /

न परमार्थशून्यतायां चरति / न परमार्थशून्यतायाः निमित्ते चरति / न परमार्थशून्यता नित्येति चरति / न परमार्थशून्यतानित्येति चरति / न परमार्थशून्यता सुखेति चरति / न परमार्थशून्यता दुःखेति चरति / न परमार्थशून्यता आत्मेति चरति / न परमार्थशून्यता अनात्मेति चरति / न परमार्थशून्यता शान्तेति चरति / न परमार्थशून्यताशान्तति चरति / न परमार्थशून्यता शून्येति चरति / न परमार्थशून्यताशून्येति चरति / न परमार्थशून्यता निमित्तेति चरति / न परमार्थशून्यतानिमित्तेति चरति / न परमार्थशून्यता प्रणिहितेति चरति / न परमार्थशून्यताप्रणिहितेति चरति / न परमार्थशून्यता विविक्तेति चरति / न परमार्थशून्यताविविक्तेति चरति /

न संस्कृतशून्यतायां चरति / न संस्कृतशून्यतायाः निमित्ते चरति / न संस्कृतशून्यता नित्येति चरति / न संस्कृतशून्यतानित्येति चरति / न संस्कृतशून्यता सुखेति चरति / न संस्कृतशून्यता दुःखेति चरति / न संस्कृतशून्यता आत्मेति चरति / न संस्कृतशून्यता अनात्मेति चरति / न संस्कृतशून्यता शान्तेति चरति / न संस्कृतशून्यताशान्तेति चरति / न संस्कृतशून्यता शून्येति चरति / न संस्कृतशून्यताशून्येति चरति / न संस्कृतशून्यता निमित्तेति चरति / न संस्कृतशून्यतानिमित्तेति चरति / न संस्कृतशून्यता प्रणिहितेति चरति / न संस्कृतशून्यताप्रणिहितेति चरति / न संस्कृतशून्यता विविक्तेति चरति / न संस्कृतशून्यताविविक्तेति चरति /

नासंस्कृतशून्यतायां चरति / नासंस्कृतशून्यतायाः निमित्ते चरति / नासंस्कृतशून्यता नित्येति चरति / नासंस्कृतशून्यतानित्येति चरति / नासंस्कृतशून्यता सुखेति चरति / नासंस्कृतशून्यता दुःखेति चरति / नासंस्कृतशून्यता आत्मेति चरति / नासंस्कृतशून्यता अनात्मेति चरति / नासंस्कृतशून्यता शान्तेति चरति / नासंस्कृतशून्यताशान्तेति चरति / नासंस्कृतशून्यता शून्येति चरति / नासंस्कृतशून्यताशून्येति चरति / नासंस्कृतशून्यता निमित्तेति चरति / नासंस्कृतशून्यतानिमित्तेति चरति / नासंस्कृतशून्यता प्रणिहितेति चरति / नासंस्कृतशून्यताप्रणिहितेति चरति / नासंस्कृतशून्यता विविक्तेति चरति / नासंस्कृतशून्यताविविक्तेति चरति /

नात्यन्तशून्यतायां चरति / नात्यन्तशून्यतायाः निमित्ते चरति / नात्यन्तशून्यता नित्येति चरति / नात्यन्तशून्यतानित्येति चरति / नात्यन्तशून्यता सुखेति चरति / नात्यन्तशून्यता दुःखेति चरति / नात्यन्तशून्यता आत्मेति चरति / नात्यन्तशून्यता अनात्मेति चरति / नात्यन्तशून्यता शान्तेति चरति / नात्यन्तशून्यताशन्तेति चरति / नात्यन्तशून्यता शून्येति चरति / नात्यन्तशून्यताशून्येति चरति / नात्यन्तशून्यता निमित्तेति चरति / नात्यन्तशून्यतानिमित्तेति चरति / नात्यन्तशून्यता प्रणिहितेति चरति / नात्यन्तशून्यताप्रणिहितेति चरति / नात्यन्तशून्यता विविक्तेति चरति / नात्यन्तशून्यताविविक्तेति चरति /

नानवराग्रशून्यतायां चरति / नानवराग्रशून्यतायाः निमित्ते चरति / नानवराग्रशून्यता नित्येति चरति / नानवराग्रशून्यतानित्येति चरति / नानवराग्रशून्यता सुखेति चरति / नानवराग्रशून्यता दुःखेति चरति / नानवराग्रशून्यता आत्मेति चरति / नानवराग्रशून्यता अनात्मेति चरति / नानवराग्रशून्यता शान्तेति चरति / नानवराग्रशून्यताशान्तेति चरति / नावराग्रशून्यता शून्येति चरति / नानवराग्रशून्यताशून्येति चरति / नानवराग्रशून्यता निमित्तेति चरति / नानवराग्रशून्यतानिमित्तेति चरति / नानवराग्रशून्यता प्रणिहितेति चरति / नानवराग्रशून्यताप्रणिहितेति चरति / नानवराग्रशून्यता विविक्तेति चरति / नानवराग्रशून्यताविविक्तेति चरति /

नानवकारशून्यतायां चरति / नानवकारशून्यतायाः निमित्ते चरति / नानवकारशून्यता नित्येति चरति / नानवकारशून्यतानित्येति चरति / नानवकारशून्यता सुखेति चरति / नानवकारशून्यता दुःखेति चरति / नानवकारशून्यता आत्मेति चरति / नानवकारशून्यता अनात्मेति चरति / नानवकारशून्यता शान्तेति चरति / नानवकारशून्यताशान्तेति चरति / नानवकारशून्यता शून्येति चरति / नानवकारशून्यताशून्येति चरति / नानवकारशून्यता निमित्तेति चरति / नानवकारशून्यतानिमित्तेति चरति / नानवकारशून्यता प्रणिहितेति चरति / नानवकारशून्यताप्रणिहितेति चरति / नानवकारशून्यता विविक्तेति चरति / नानवकारशून्यताविविक्तेति चरति /

न प्रकृतिशून्यतायां चरति / न प्रकृतिशून्यतायाः निमित्ते चरति / न प्रकृतिशून्यता नित्येति चरति / न प्रकृतिशून्यतानित्येति चरति / न प्रकृतिशून्यता सुखेति चरति / न प्रकृतिशून्यता दुःखेति चरति / न प्रकृतिशून्यता आत्मेति चरति / न प्रकृतिशून्यता अनात्मेति चरति / न प्रकृतिशून्यता शान्तेति चरति / न प्रकृतिशून्यताशान्तेति चरति / न प्रकृतिशून्यता शून्येति चरति / न प्रकृतिशून्यताशून्येति चरति / न प्रकृतिशून्यता निमित्तेति चरति / न प्रकृतिशून्यतानिमित्तेति चरति / न प्रकृतिशून्यता प्रणिहितेति चरति / न प्रकृतिशून्यताप्रणिहितेति चरति / न प्रकृतिशून्यता विविक्तेति चरति / न प्रकृतिशून्यताविविक्तेति चरति /

न सर्वधर्मशून्यतायां चरति / न सर्वधर्मशून्यतायाः निमित्ते चरति / न सर्वधर्मशून्यता नित्येति चरति / न सर्वधर्मशून्यतानित्येति चरति / न सर्वधर्मशून्यता सुखेति चरति / न सर्वधर्मशून्यता दुःखेति चरति / न सर्वधर्मशून्यता आत्मेति चरति / न सर्वधर्मशून्यता अनात्मेति चरति / न सर्वधर्मशून्यता शान्तेति चरति / न सर्वधर्मशून्यताशन्तेति चरति / न सर्वधर्मशून्यता शून्येति चरति / न सर्वधर्मशून्यताशून्येति चरति / न सर्वधर्मशून्यता निमित्तेति चरति / न सर्वधर्मशून्यतानिमित्तेति चरति / न सर्वधर्मशून्यता प्रणिहितेति चरति / न सर्वधर्मशून्यताप्रणिहितेति चरति / न सर्वधर्मशून्यता विविक्तेति चरति / न सर्वधर्वशून्यताविविक्तेति चरति /

न स्वलक्षणशून्यतायां चरति / न स्वलक्षणशून्यतायाः निमित्ते चरति / न स्वलक्षणशून्यता नित्येति चरति / न स्वलक्षणशून्यता अनित्येति चरति / न स्वलक्षणशून्यता सुखेति चरति / न स्वलक्षणशून्यता दुःखेति चरति / न स्वलक्षणशून्यता आत्मेति चरति / न स्वलक्षणशून्यता अनात्मेति चरति / न स्वलक्षणशून्यता शान्तेति चरति / न स्वलक्षणशून्यताशान्तेति चरति / न स्वलक्षणशून्यता शून्येति चरति / न स्वलक्षणशून्यताशून्येति चरति / न स्वलक्षणशून्यता निमित्तेति चरति / न स्वलक्षणशून्यतानिमित्तेति चरति / न स्वलक्षणशून्यता प्रणिहितेति चरति / न स्वलक्षशून्यताप्रणिहितेति चरति / न स्वलक्षणशून्यता विविक्तेति चरति / नस्वलक्षणशून्यताविविक्तेति चरति /

नानुपलम्भशून्यतायां चरति / नानुपलम्भशून्यतायाः निमित्ते चरति / नानुपलम्भशून्यता नित्येति चरति / नानुपलम्भशून्यतानित्येति चरति / नानुपलम्भशून्यता सुखेति चरति / नानुपलम्भशून्यता दुःखेति चरति / नानुपलम्भशून्यता आत्मेति चरति / नानुपलम्भशून्यता अनात्मेति चरति / नानुपलम्भशून्यता शान्तेति चरति / नानुपलम्भशून्यताशान्तेति चरति / नानुपलम्भशून्यता शून्येति चरति / नानुपलम्भशून्यताशून्येति चरति / नानुपलम्भशून्यता निमित्तेति चरति / नानुपलम्भशून्यतानिमित्तेति चरति / नानुपलम्भशून्यता प्रणिहितेति चरति / नानुपलम्भशून्यताप्रणिहितेति चरति / नानुपलम्भशून्यता विविक्तेति चरति / नानुपलम्भशून्यताविविक्तेति चरति /

नाभावशून्यतायां चरति / नाभावशून्यतायाः निमित्ते चरति / नाभावशून्यता नित्येति चरति / नाभावशून्यतानित्येति चरति / नाभावशून्यता सुखेति चरति / नाभावशून्यता दुःखेति चरति / नाभावशून्यता आत्मेति चरति / नाभावशून्यता अनात्मेति चरति / नाभावशून्यता शान्तेति चरति / नाभावशून्यताशान्तेति चरति / नाभावशून्यता शून्येति चरति / नाभावशून्यताशून्येति चरति / नाभावशून्यता निमित्तेति चरति / नाभावशून्यतानिमित्तेति चरति / नाभावशून्यता प्रणिहितेति चरति / नाभावशून्यताप्रणिहितेति चरति / नाभावशून्यता विविक्तेति चरति / नाभावशून्यताविविक्तेति चरति /

न स्वभावशून्यतायां चरति / न स्वभावशून्यतायाः निमित्ते चरति / न स्वभावशून्यता नित्येति चरति / न स्वभावशून्यतानित्येति चरति / न स्वभावशून्यता सुखेति चरति / न स्वभावशून्यता दुःखेति चरति / न स्वभावशून्यता आत्मेति चरति / न स्वभावशून्यता अनात्मेति चरति / न स्वभावशून्यता शान्तेति चरति / न स्वभावशून्यताशान्तेति चरति / न स्वभावशून्यता शून्येति चरति / न स्वभावशून्यताशून्येति चरति / न स्वभावशून्यता निमित्तेति चरति / न स्वभावशून्यतानिमित्तेति चरति / न स्वभावशून्यता प्रणिहितेति चरति / न स्वभावशून्यताप्रणिहितेति चरति / न स्वभावशून्यता विविक्तेति चरति / न स्वभावशून्यताविविक्तेति चरति /

नाभावस्वभावशून्यतायां चरति / नाभावस्वभावशून्यतायाः निमित्ते चरति / नाभावस्वभावशून्यता नित्येति चरति / नाभावस्वभावशून्यतानित्येति चरति / नाभावस्वभावशून्यता सुखेति चरति / नाभावस्वभावशून्यता दुःखेति चरति / नाभावस्वभावशून्यता आत्मेति चरति / नाभावस्वभावशून्यता अनात्मेति चरति / नाभावस्वभावशून्यता शान्तेति चरति / नाभावस्वभावशून्यताशान्तेति चरति / नाभावस्वभावशून्यता शून्येति चरति / नाभावस्वभावशून्यताशून्येति चरति / नाभावस्वभावशून्यता निमित्तेति चरति / नाभावस्वभावशून्यतानिमित्तेति चरति / नाभावस्वभावशून्यता प्रणिहितेति चरति / नाभावस्वभावशून्यताप्रणिहितेति चरति / नाभावस्वभावशून्यता विविक्तेति चरति / नाभावस्वभावशून्यताविविक्तेति चरति /

न स्मृत्युपस्थानेषु चरति / न स्मृत्युपस्थानानां निमित्ते चरति / न स्मृत्युपस्थानानि नित्यानीति चरति / न स्मृत्युपस्थानानि अनित्यानीति चरति / न स्मृत्युपस्थानानि सुखानीति चरति न स्मृत्युपस्थानानि दुःखानीति चरति / न स्मृत्युपस्थानानि आत्मिकानीति चरति / न स्मृत्युपस्थानान्य् अनात्मिकानीति चरति / न स्मृत्युपस्थानानि शान्तानीति चरति / न स्मृत्युपस्थानान्य् अशान्तानीति चरति / न स्मृत्युपस्थानानि शून्यानीति चरति / न स्मृत्युपस्थानान्य् अशून्यानीति चरति / न स्मृत्युपस्थानानि निमित्तानीति चरति / न स्मृत्युपस्थानान्य् अनिमित्तानीति चरति / न स्मृत्युपस्थानानि प्रणिहितानीति चरति / न स्मृत्युपस्थानान्य् अप्रणिहितानीति चरति / न स्मृत्युपस्थानानि विविक्तानीति चरति / न स्मृत्युपस्थानान्य् अविविक्तानीति चरति /

न सम्यक्प्रहाणेषु चरति / न सम्यक्प्रहाणानां निमित्ते चरति / न सम्यक्प्रहाणानि नित्यानीति चरति / न सम्यक्प्रहाणान्य् अनित्यानीति चरति / न सम्यक्प्रहाणानि सुखानीति चरति / न सम्यक्प्रहाणानि दुःखानीति चरति / न सम्यक्प्रहाणानि आत्मिकानीति चरति / न सम्यक्प्रहाणान्य् अनात्मिकानीति चरति / न सम्यक्प्रहाणानि शान्तानीति चरति / न सम्यक्प्रहाणान्य् अशान्तानीति चरति / न सम्यक्प्रहाणानि शून्यानीति चरति / न सम्यक्प्रहाणान्य् अशून्यानीति चरति / न सम्यक्प्रहाणानि निमित्तानीति चरति / न सम्यक्प्रहाणान्य् अनिमित्तानीति चरति / न सम्यक्प्रहाणानि प्रणिहितानीति चरति / न सम्यक्प्रहाणान्य् अप्रणिहितानीति चरति / न सम्यक्प्रहाणानि विविक्तानीति चरति / न सम्यक्प्रहाणान्य् अविविक्तानीति चरति /

न ऋद्धिपादेषु चरति / न ऋद्धिपादानां निमित्ते चरति / न ऋद्धिपादाः नित्या इति चरति / न ऋद्धिपादा अनित्या इति चरति / न ऋद्धिपादाः सुखा इति चरति / न ऋद्धिपादाः दुःखा इति चरति / न ऋद्धिपादा आत्मान इति चरति / न ऋद्धिपादा अनात्मान इति चरति / न ऋद्धिपादाः शान्ता इति चरति / न ऋद्धिपादा अशान्ता इति चरति / न ऋद्धिपादाः शून्या इति चरति / न ऋद्धिपादा अशून्या इति चरति / न ऋद्धिपादाः निमित्ता इति चरति / न ऋद्धिपादा अनिमित्ता इति चरति / न ऋद्धिपादाः प्रणिहिता इति चरति / न ऋद्धिपादा अप्रणिहिता इति चरति / न ऋद्धिपादाः विविक्ता इति चरति / न ऋद्धिपादा अविविक्ता इति चरति /

नेन्द्रियेषु चरति / नेन्द्रियाणां निमित्ते चरति / नेन्द्रियाणि नित्यानीति चरति / नेन्द्रियाणि अनित्यानीति चरति / नेन्द्रियाणि सुखानीति चरति / नेन्द्रियाणि दुःखानीति चरति / नेन्द्रियाण्य् आत्मिकानीति चरति / नेन्द्रियाण्य् अनात्मिकानीति चरति / नेन्द्रियाणि शान्तानीति चरति / नेन्द्रियाण्य् अशान्तानीति चरति / नेन्द्रियाणि शून्यानीति चरति / नेन्द्रियाण्य् अशून्यानीति चरति / नेन्द्रियाणि निमित्तानीति चरति / नेन्द्रियाण्य् अनिमित्तानीति चरति / नेन्द्रियाणि प्रणिहितानीति चरति / नेन्द्रियाण्य् अप्रणिहितानीति चरति / नेन्द्रियाणि विविक्तानीति चरति / नेन्द्रियाण्य् अविविक्तानीति चरति /

न बलेषु चरति / न बलानां निमित्ते चरति / न बलानि नित्यानीति चरति / न बलान्य् अनित्यानीति चरति / न बलानि सुखानीति चरति / न बलानि दुःखानीति चरति / न बलानि आत्मिकानीति चरति / न बलान्य् अनात्मिकानीति चरति / न बलानि शान्तानीति चरति / न बलान्य् अशान्तानीति चरति / न बलानि शून्यानीति चरति / न बलान्य् अशून्यानीति चरति / न बलामि निमित्तानीति चरति / न बलान्य् अनिमित्तानीति चरति / न बलानि प्रणिहितानीति चअति / न बलान्य् अप्रणिहितानीति चरति / न बलानि विविक्तानीति चरति / न बलान्य् अविविक्तानीति चरति /

स बोध्यङ्गेषु चरति / न बोध्यङ्गानां निमित्ते चरति / न बोध्यङ्गानि नित्यानीति चरति / न बोध्यङ्गान्य् अनित्यानीति चरति / न बोध्यङ्गानि सुखानीति चरति / न बोध्यङ्गानि दुःखानीति चरति / न बोध्यङ्गान्य् आत्मिकानीति चरति / न बोध्यङ्गान्य् अनात्मिकानीति चरति / न बोध्यङ्गानि शान्तानीति चरति / न बोध्यङ्गान्य् अशान्तानीति चरति / न बोध्यङ्गानि शून्यानीति चरति / न बोध्यङ्गान्य् अशून्यानीति चरति / न बोध्यङ्गानि निमित्तानीति चरति / न बोध्यङ्गान्य् अनिमित्तानीति चरति / न बोध्यङ्गानि प्रणिहितानीति चरति / न बोध्यङ्गान्य् अप्रणिहितानीति चरति / न बोध्यङ्गानि विविक्तानीति चरति / न बोध्यङ्गान्य् अविविक्तानीति चरति /

नार्याष्टाङ्गमार्गे चरति / नार्याष्टाङ्गमार्गस्य निमित्ते चरति / नार्याष्टाङ्गमार्गो नित्य इति चरति / नार्याष्टाङ्गमार्गो ऽनित्य इति चरति / नार्याष्टाङ्गमार्गः सुख इति चरति / नार्याष्टाङ्गमार्गो दुःख इति चरति / नार्याष्टाङ्गमार्गः आत्मेति चरति / नार्याष्टाङ्गमार्गः अनात्मेति चरति / नार्याष्टाङ्गमार्गः शान्त इति चरति / नार्याष्टाङ्गमार्गः अशान्त इति चरति / नार्याष्टाङ्गमार्गः शून्य इति चरति / नार्याष्टाङ्गमार्गः अशून्य इति चरति / नार्याष्टाङ्गमार्गः निमित्त इति चरति / नार्याष्टाङ्गमार्गो ऽनिमित्त इति चरति / नार्याष्टाङ्गमार्गः प्रणिहित इति चरति / नार्याष्टाङ्गमार्गो ऽप्रणिहित इति चरति / नार्याष्टाङ्गमार्गो विविक्त इति चरति / नार्याष्टाङ्गमार्गो ऽविविक्त इति चरति /

नार्यसत्येषु चरति / नार्यसत्यानां निमित्ते चरति / नार्यसत्यानि नित्यानीति चरति / नार्यसत्यान्य् अनित्यानीति चरति / नार्यसत्यानि सुखानीति चरति / नार्यसत्यानि दुःखानीति चरति / नार्यसत्यानि आत्मिकानीति चरति / नार्यसत्यान्य् अनात्मिकानीति चरति / नार्यसत्यानि शान्तानीति चरति / नार्यसत्यान्य् अशान्तानीति चरति / नार्यसत्यानि शून्यानीति चरति / नार्यसत्यान्य् अशून्यानीति चरति / नार्यसत्यानि निमित्तानीति चरति / नार्यसत्यान्य् अनिमित्तानीति चरति / नार्यसत्यानि प्रणिहितानीति चरति / नार्यसत्यान्य् अप्रणिहितानीति चरति / नार्यसत्यानि विविक्तानीति चरति / नार्यसत्यान्य् अविविक्तानीति चरति /

न ध्यानेषु चरति / न ध्यानानां निमित्ते चरति / न ध्यानानि नित्यानीति चरति / न ध्यानान्य् अनित्यानीति चरति / न ध्यानानि सुखानीति चरति / न ध्यानानि दुःखानीति चरति / न ध्यानानि आत्मिकानीति चरति / न ध्यानान्य् अनात्मिकानीति चरति / न ध्यानानि शान्तानीति चरति / न ध्यानान्य् अशान्तानीति चरति / न ध्यानानि शून्यानीति चरति / न ध्यानान्य् अशून्यानीति चरति / न ध्यानानि निमित्तानीति चरति / न ध्यानान्य् अनिमित्तानीति चरति / न ध्यानानि प्रणिहितानीति चरति / न ध्यानान्य् अप्रणिहितानीति चरति / न ध्यानानि विविक्तानीति चरति / न ध्यानान्य् अविविक्तानीति चरति /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.