Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

आर्यसत्यासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यासत्तयापरान्ततो बोधिसत्त्वो (श्स्प्_इइ-1_29) नोपैति, आर्यसत्यशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रार्यसत्यासत्तायाम् आर्यसत्यशून्यतायाम् आर्यसत्यविविक्ततायाम् आर्यसत्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यार्यसत्यासत्तान्यार्यसत्यशून्यतान्यार्यसत्यविविक्ततान्यार्यसत्यास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चार्यसत्यासत्ता या चार्यसत्यशून्यता या चार्यसत्यविविक्तता या चार्यसत्यास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

ध्यानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानासत्तया मध्यतो बोधिसत्त्वो नोपैति, ध्यानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ध्यानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, ध्यानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र ध्यानासत्तायां ध्यानशून्यतायां ध्यानविविक्ततायां ध्यानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या ध्यानासत्तान्या ध्यानशून्यतान्या ध्यानविविक्ततान्या ध्यानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च ध्यानासत्ता या च ध्यानशून्यता या च ध्यानविविक्तता या च ध्यानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

अप्रमाणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमानविविक्ततया (श्स्प्_इइ-1_30) पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणासत्तया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राप्रमाणासत्तायाम् अप्रमाणशून्यतायाम् अप्रमाणविविक्ततायाम् अप्रमाणास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याप्रमाणासत्तान्याप्रमाणशून्यतान्याप्रमाणविविक्ततान्याप्रमाणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाप्रमाणासत्ता या चाप्रमाणशून्यता या चाप्रमाणविविक्तता या चाप्रमाणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

आरूप्यसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रारूप्यसमापत्त्यसत्तायाम् आरूप्यसमापत्तिशून्यतायाम् आरूप्यसमापत्ति विविक्ततायाम् आरूप्यसमापत्त्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या आरूप्यसमापत्त्यसत्तान्या आरूप्यसमापत्तिशून्यतान्या आरूप्यसमापत्तिविविक्ततान्या आरूप्यसमापत्त्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चारूप्यसमापत्त्यसत्ता या चारूप्यसमापत्तिशून्यता या चारूप्यसमापत्तिविविक्तता (श्स्प्_इइ-1_31) या चारूप्यसमापत्त्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

विमोक्षासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति. विमोक्षविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षासत्तयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षासत्तया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र विमोक्षासत्तायां विमोक्षशून्यतायां विमोक्षविविक्ततायां विमोक्षास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या विमोक्षासत्तान्या विमोक्षशून्यतान्या विमोक्षविविक्ततान्या विमोक्षास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विमोक्षासत्ता या च विमोक्षशून्यता या च विमोक्षविविक्तता या च विमोक्षास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

अनुपूर्वविहारसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानुपूर्वविहारसमापत्त्यसत्तायाम् अनुपूर्वविहारसमापत्तिशून्यतायाम् अनुपूर्वविहारसमापत्तिविविक्ततायाम् अनुपूर्वविहारसमापत्त्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त (श्स्प्_इइ-1_32) उपलभ्यते न मध्यम् उपलभ्यते. न चान्यानुपूर्वविहारसमापत्त्यसत्तान्यानुपूर्वविहारसमापत्तिशून्यतान्यानुपूर्वविहारसमापत्तिविविक्ततान्यानुपूर्वविहारसमापत्त्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानुपूर्वविहारसमापत्त्यसत्ता या चानुपूर्वविहारसमापत्तिशून्यता या चानुपूर्वविहारसमापत्तिविविक्तता या चानुपूर्वविहारसमापत्त्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्ता या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्तता या च (श्स्प्_इइ-1_33) शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

अभिज्ञासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्नासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राभिज्ञासत्तायाम् अभिज्ञाशून्यतायाम् अभिज्ञाविविक्ततायाम् अभिज्ञास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याभिज्ञासत्तान्याभिज्ञाशून्यतान्याभिज्ञाविविक्ततान्याभिज्ञास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाभिज्ञासत्ता या चाभिज्ञाशून्यता या चाभिज्ञाविविक्तता या चाभिज्ञास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

समाध्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, समाधिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाधिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाध्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाध्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, समाधिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, समाधिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, समाध्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, समाध्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, समाधिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, समाधिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, समाध्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र समाध्यसत्तायां समाधिशून्यतायां समाधिविविक्ततायां समाध्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या समाध्यसत्तान्या समाधिशून्यतान्या समाधिविविक्ततान्या समाध्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो (श्स्प्_इइ-1_34) ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च समाध्यसत्ता या च समाधिशून्यता या च समाधिविविक्तता या च समाध्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

धारणीमुखासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखासत्तयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखासत्तया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र धारणीमुखासत्तायां धारणीमुखशून्यतायां धारणीमुखविविक्ततायां धारणीमुखास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या धारणीमुखासत्तान्या धारणीमुखशून्यतान्या धारणीमुखविविक्ततान्या धारणीमुखास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च धारणीमुखासत्ता या च धारणीमुखशून्यता या च धारणीमुखविविक्तता या च धारणीमुखास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

तथागतबलासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलासत्तया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् (श्स्प्_इइ-1_35) छारद्वतीपुत्र तथागतबलासत्तायां तथागतबलशून्यतायां तथागतबलविविक्ततायां तथागतबलास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या तथागतबलासत्तान्या तथागतबलशून्यतान्या तथागतबलविविक्ततान्या तथागतबलास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तथागतबलासत्ता या च तथागतबलशून्यता या च तथागतबलविविक्तता या च तथागतबलास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

वैशारद्यासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वैशारद्यासत्तायां वैशारद्यशून्यतायां वैशारद्यविविक्ततायां वैशारद्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वैशारद्यासत्तान्या वैशारद्यशून्यतान्या वैशारद्यविविक्ततान्या वैशारद्यास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वैशारद्यासत्ता या च वैशारद्यशून्यता या च वैशारद्यविविक्तता या च वैशारद्यास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

प्रतिसंविदसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदसत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदसत्तया मध्यतो (श्स्प्_इइ-1_36) बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रतिसंविदसत्तायां प्रतिसंविद्शून्यतायां प्रतिसंविद्विविक्ततायां प्रतिसंविदस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या प्रतिसंविदसत्तान्या प्रतिसंविद्शून्यतान्या प्रतिसंविद्विविक्ततान्या प्रतिसंविदस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च प्रतिसंविदसत्ता या च प्रतिसंविद्शून्यता या च प्रतिसंविद्विविक्तता या च प्रतिसंविदस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

महाकरुणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणासत्तया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र महाकरुणासत्तायां महाकरुणाशून्यतायां महाकरुणाविविक्ततायां महाकरुणास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या महाकरुणासत्तान्या महाकरुणाशून्यतान्या महाकरुणाविविक्ततान्या महाकरुणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च महाकरुणासत्ता या च महाकरुणाशून्यता या च महाकरुणाविविक्तता या च महाकरुणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

आवेणिकबुद्धधर्मासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति. आवेणिकबुद्धधर्मशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, (श्स्प्_इइ-1_37) आवेणिकबुद्धधर्मास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मासत्तयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मासत्तया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रावेणिकबुद्धधर्मासत्तायाम् आवेणिकबुद्धधर्मशून्यतायाम् आवेणिकबुद्धधर्मविविक्ततायाम् आवेणिकबुद्धधर्मास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यावेणिकबुद्धधर्मासत्तान्यावेणिकबुद्धधर्मशून्यतान्यावेणिकबुद्धधर्मविविक्ततान्यावेणिकबुद्धधर्मास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चावेणिकबुद्धधर्मासत्ता या चावेणिकबुद्धधर्मशून्यता या चावेणिकबुद्धधर्मविविक्तता या चावेणिकबुद्धधर्मास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र धर्मधात्वसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र धर्मधात्वसत्तायां धर्मधातुशून्यतायां धर्मधातुविविक्ततायां धर्मधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या धर्मधात्वसत्तान्या धर्मधात्व्शून्यतान्या धर्मधातुविविक्तान्या धर्मधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो (श्स्प्_इइ-1_38) ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च धर्मधात्वसत्ता य च धर्मधातुशून्यता या च धर्मधातुविविक्तता या च धर्मधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र तथतासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तथताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तथताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तथतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तथतासत्तया मध्यतो बोधिसत्त्वो नोपैति, तथताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तथताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तथतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र तथतासत्तायां तथताशून्यतायां तथताविविक्ततायां तथतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या तथतासत्तान्या तथताशून्यतान्या तथताविविक्तान्या तथतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तथतासत्ता या च तथताशून्यता या च तथताविविक्तता या च तथतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र भूतकोट्यसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोत्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र (श्स्प्_इइ-1_39) भूतकोट्यसत्तायां भूतकोटिशून्यतायां भूतकोटिविविक्ततायां भूतकोट्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या भूतकोट्यसत्तान्या भूतकोटिशून्यतान्या भूतकोटिविविक्तान्या भूतकोट्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च भूतकोट्यसत्ता या च भूतकोटिशून्यता या च भूतकोटिविविक्तता या च भूतकोट्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राचिन्त्यधात्वसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राचिन्त्यधात्वसत्तायाम् अचिन्त्यधातुशून्यतायाम् अचिन्त्यधातुविविक्ततायाम् अचिन्त्यधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्याचिन्त्यधात्वसत्तान्याचिन्त्यधातुशून्यतान्याचिन्त्यधातुविविक्ततान्याचिन्त्यधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाचिन्त्यधात्वसत्ता या चाचिन्त्यधातुशून्यता या चाचिन्त्यधातुविविक्तता या चाचिन्त्यधात्व् अस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र श्रावकासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकासत्तयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकविविक्ततयापरान्ततो (श्स्प्_इइ-1_40) बोधिसत्त्वो नोपैति, श्रावकास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकासत्तया मध्यतो बोधिसत्त्वो नोपैति, श्रावकशून्यतया मध्यतो बोधिसत्त्वो नोपैति, श्रावकविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, श्रावकास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र श्रावकासत्तायां श्रावकशून्यतायां श्रावकविविक्ततायां श्रावकास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या श्रावकासत्तान्या श्रावकशून्यतान्या श्रावकविविक्तान्या श्रावकास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च श्रावकासत्ता या च श्रावकशून्यता या च श्रावकविविक्तता या च श्रावकास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र प्रत्येकबुद्धासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रत्येकबुद्धासत्तायां प्रत्येकबुद्धशून्यतायां प्रत्येकबुद्धविविक्ततायां प्रत्येकबुद्धास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या प्रत्येकबुद्धासत्तान्या प्रत्येकबुद्धशून्यतान्या प्रत्येकबुद्धविविक्तान्या प्रत्येकबुद्धास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च प्रत्येकबुद्धासत्ता या च प्रत्येकबुद्धशून्यता या च प्रत्येकबुद्धविविक्तता या च प्रत्येकबुद्धास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वासत्तया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वासत्तायां बोधिसत्त्वशून्यतायां बोधिसत्त्वविविक्ततायां बोधिसत्त्वास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या बोधिसत्त्वासत्तान्या बोधिसत्त्वशून्यतान्या बोधिसत्त्वविविक्तान्या बोधिसत्त्वास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बोधिसत्त्वासत्ता या च बोधिसत्त्वशून्यता या च बोधिसत्त्वविविक्तता या च बोधिसत्त्वास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वज्ञासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञासत्तया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र सर्वज्ञासत्तायां सर्वज्ञशून्यतायां सर्वज्ञविविक्ततायां सर्वज्ञास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या सर्वज्ञासत्तान्या सर्वज्ञशून्यतान्या सर्वज्ञविविक्तान्या सर्वज्ञास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् (श्स्प्_इइ-1_42) इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सर्वज्ञासत्ता या च सर्वज्ञशून्यता या च सर्वज्ञविविक्तता या च सर्वज्ञास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.

अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति.

यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति. रूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामायुष्मञ् छारद्वतीपुत्राकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते. एवम् एवायुष्मञ् छारद्वतीपुत्र न रूपस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते रूपशून्यताम् उपादाय. न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति. वेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वेदनाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते वेदनाशून्यताम् उपादाय. न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संज्ञा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र संज्ञाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संज्ञाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण (श्स्प्_इइ-1_43) संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कारा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र संस्काराणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संस्कारशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र विज्ञानस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते विज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन चक्षुषो ऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुर् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र चक्षुषो न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते चक्षुर्शून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुषो ऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न श्रोत्रस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते श्रोत्रशून्यताम् (श्स्प्_इइ-1_44) उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन घ्राणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र घ्राणस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते घ्राणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन जिह्वापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जिह्वाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जिह्वाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन कायापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, काय आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र कायस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते कायशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन मनोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मन आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति (श्स्प्_इइ-1_45) नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र मनसो न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते मनःशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र रूपस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते रूपशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन शब्दापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शब्द आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र शब्दस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शब्दशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शब्दापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन गन्धापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, गन्ध आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न गन्धस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते गन्धशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण गन्धापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन रसोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रस आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद् यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र रसस्य न पूर्वान्त उपलभ्यते नापरन्त उपलभ्यते न मध्यम् उपलभ्यते रसोशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रसापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्पर्शस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन धर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, धर्मा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद् यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र धर्माणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण धर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन चक्षुर्विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुर्विज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो (श्स्प्_इइ-1_47) वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुर्विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतिपुत्र न श्रोत्रविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, श्रोत्रविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन घ्राणविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न घ्राणविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, घ्राणविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन जिह्वाविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वाविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जिह्वाविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, जिह्वाविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वाविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन कायविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् (श्स्प्_इइ-1_48) छारद्वतीपुत्र न कायविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते कायविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन मनोविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न मनोविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते मनोविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनोविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन चक्षुःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुस्संस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुःसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते चक्षुःसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमह्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न श्रोत्रसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते श्रोत्रसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन घ्राणसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. (श्स्प्_इइ-1_49) तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न घ्राणसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते घ्राणसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन जिह्वासंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जिह्वासंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, जिह्वासंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वासंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन कायसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न कायसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, कायसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन मनःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न मनःसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, मनःसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुःसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन घ्राणसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन जिह्वासंस्पर्शप्रत्ययवेदनापर्यन्ततया (श्स्प्_इइ-1_51) बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वासंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वासंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन कायसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन मनःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनःसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते मनःसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनस्संस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन पृथिवीधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त (श्स्प्_इइ-1_52) उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र पृथिवीधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते पृथिवीधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण पृथिवीधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेनाब्धात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अब्धातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राब्धातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अब्धातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाब्धात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन तेजोधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र तेजोधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तेजोधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण तेजोधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन वायुधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वायुधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया अकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वायुधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते वायुधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वायुधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेनाकाशधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता (श्स्प्_इइ-1_53) वेदितव्येति, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र आकाशधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आकाशधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाकाशधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन विज्ञानधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र विज्ञानधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, विज्ञानधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेनाविद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अविद्या आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अविद्याशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्द्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कारा आयुष्मञ् छारद्वत्ःपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न संस्काराणां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संस्कारशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं (श्स्प्_इइ-1_54) वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न विज्ञानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते विज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन नामरूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, नामरूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न नामरूपस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते नामरूपशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नामरूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन षडायतनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, षडायतनम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न षडायतनस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते षडायतनशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण षडायतनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्पर्शस्य न पूर्वान्त (श्स्प्_इइ-1_55) उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, वेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वेदनापर्यन्ततया बोधिसत्त्वो ऽपर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन तृष्णापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, तृष्णा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र तृष्णाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते तृष्णाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण तृष्णापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेनोपादानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, उपादानम् आयुष्मञ् छारद्वतिपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र उपादानस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, उपादानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणोपादानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन भवापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, भव आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकशस्य न पूर्वान्त उपलभ्यते नापरान्त (श्स्प्_इइ-1_56) उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र भवस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते भवशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण भवापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन जात्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जातिर् आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जातेर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जातिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जात्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन जरामरणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जरामरणम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जरामरणस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जरामरणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जरामरणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन दानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, दानपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र दानपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते दानपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण दानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन शीलपारमितापर्यन्ततया (श्स्प्_इइ-1_57) बोधिसत्त्वापर्यन्तता वेदितव्येति, शीलपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र शीलपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शीलपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शीलपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन क्षान्तिपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते क्षान्तिपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण क्षान्तिपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन वीर्यपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वीर्यपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, वीर्यपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वीर्यपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन ध्यानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ध्यानपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र ध्यानपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते ध्यानपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र (श्स्प्_इइ-1_58) पर्यायेण ध्यानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

यत् पुनर् एवं वदसि, केन कारणेन प्रज्ञापारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते प्रज्ञापारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण प्रज्ञापारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.