Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
सर्वदुर्गतिपरिशोधनतन्त्र
- Thông tin
- GRETIL — Tadeusz Skorupski: The Sarvadurgatiparisodhana Tantra, Elimination of All Destinies, Sanskrit and Tibetan Texts with Introduction, English Translation and Notes. Delhi 1983.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अथ महेश्वरादयो भगवन्तं प्रणिपत्यैवम् आहुः / ये भगवन् लौकिकलोकोत्तरमण्डले प्रविशन्ति तेषां वयं भगवन् सर्वदेवाः सर्वावरणानि विशोधयामः / स्वर्गमार्गं च दर्शयामः / सुगतिमार्गं च दर्शयामः / अपापमार्गं च दर्शयामः / सद्धर्ममार्गं च दर्शयामः / अनामार्गं च दर्शयामः / विवेकमार्गं च दर्शयामः / सारमार्गं च दर्शयामः / निर्वाणमार्गं च दर्शयामः / प्रहाणमार्गं च दर्शयामः / निःक्लेशमार्गं च दर्शयामः / बुद्धत्वं च दर्शयामः / बोधिसत्त्वत्वं च दर्शयामः / वज्रधरत्वं च दर्शयामः / इति / सर्वदा सर्वभयेषु च रक्षावरणगुप्तिम् करिष्यामः / नगरनिगमजनपदराज्यराष्ट्रराजधानीं च रक्षयिष्यामः / विषयदेशग्रामगोष्ठं च रक्षयिष्यामः / राज्यं च दास्यामः / प्राप्तराज्यस्य राजवृद्धिं करिष्यामः / एकद्वीपं द्वितीयं तृतीयं चतुर्थं स्वर्गमर्त्यपातालं चक्रवर्तित्वं च दास्यामः / संक्षेपतः / शक्रत्वं ब्रह्मत्वं विष्णुत्वं महेश्वरत्वं च दास्याम इति / अथ भगवान् वज्रपाणिः पुनर् अपि स्वपर्षन्मण्डलम् अवलोक्य स्मितम् अकार्षीत् / ततः परिषन्मण्डलं प्रचलन् संप्रचलन् क्षुभन् प्रक्षुभन् संप्रक्षुभन् ज्वलन् प्रज्वलन् संप्रज्वलन् हर्षन् प्रहर्षन् संप्रहर्षन् क्रीडन् प्रक्रीडन् संप्रक्रीडन् अनेकान्य् आश्चर्याद्भुतानि च लोके संप्रदृश्यन्ते स्म /
अथ ब्रह्मादयो देवगणाः सुविस्मयजाता भगवन्तं प्रणिपत्यैवम् आहुः / किम् एतद् भगवन् स्मितस्य कारणं नाकारणेन बुद्धा भगवन्तो बोधिसत्त्वा वा स्मितम् उत्सृजन्ति / तस्माद् भगवान् व्याकरोतु स्मितस्य कारणम् इति / अथ भगवान् वज्रपाणिर् देवानाम् अध्येषणावाचम् उपश्रुत्यैवम् आह / श्रुतं ब्रह्मादयो देवा यत् पुरः सर्वबुद्धैश् च भाषिता मृत्युनाशनी विद्या विद्यामन्त्रमहातेजा अकालमृत्युनाशनी /
अथ भगवन्तं वज्रपाणिं प्रणिपत्य ते ब्रह्मादयो महादेवाः संहृष्टरोमकूपजाताः / साधुकारं प्राददुः / साधु साधु भगवन् साधु साधु वज्रधर / देशय तु विद्यां महातेजां महाबलपराक्रमां येनाल्पायुषाः सत्त्वा दीर्गायुषा भवन्ति / अकालमृत्युग्रस्ताश् च येनाकालमरणाद् विमुच्येरन् / अपायोपपन्नाश् च सर्वापायगतिपथाद् विमुच्येरन् / संसारभयभीताश् च सत्त्वाः सुखोपायेन संसारपरांमुखा भवन्ति / आशुर् एवानुत्तरसम्यक्संबोधिम् अभिसंबुध्यन्त इति / अथ भगवान् वज्रपाणिर् ब्रह्मादीनां देवानाम् अध्येषणावचनम् उपश्रुत्येमां सर्वतथागतहृदयविद्यां स्वकायवाक्चित्तवज्रेभ्यो निश्चचार /
ओं पुण्ये पुण्ये महापुण्ये ऽपरिमितायुःपुण्ये ज्ञानसंभारोपचिते स्वाहा / हृदयविद्या /
ओं ह्रीः स्वाहा / उपहृदयविद्या / ओं भ्रूं स्वाहा / हृदयोपहृदयविद्या / ओं क्रुं स्वाहा / हृदयसंचोदनीविद्या / ओं त्रां स्वाहा / हृदयोत्तरा / ओं हं स्वाहा / गुह्यहृदया /
अथैषां मण्डलं भवति /
मण्डलं चतुरारं कृत्वा मध्ये निवेशयेद् अपरिमितायुःपुण्यज्ञानसंभारतेजोराजं नाम तथागतम् / भ्रूंकारहृदयम्/ तस्याग्रतो वज्रपाणिम् / ह्रींकारहृदयं / वामतः क्रोधम् / क्रुंकारहृदयम् / दक्षिणेनाकाशगर्भम् / त्रांकारहृदयम्/ पृष्ठतो ऽभयंददं नामार्यावलोकितेश्वरम् / हंकारहृदयं / (sdp 216) तथागतस्य प्रभामण्डले विद्या लेख्याः / पञ्चाष्टौ कलशाः स्थाप्याश् चक्रवर्त्यभिमन्त्रिताः / सर्वकर्मिकक्रोधेनाभिमन्त्रितास् च धूपादिकं स्थापयेत् पूजादिकं सर्वद्वारपालान् एव च /
ततः संप्रविश्य स्वयं मन्त्री / आकर्षयेत् सुगतोत्तमं सपुत्रभृत्यसंघैश् च वृतं विद्यया सह / विद्या च सुगतवामपार्श्वे लेख्या / ततश् चात्मानम् अभिषिञ्च्य पर्यंकेन निषद्य शतसहस्रं जपेत् / तथागतं संमुखं पश्यति वज्रधरार्यावलोकितेश्वरं वा / यथेप्सितं वरं प्रतिलभते / यदा समाहितस् तदा मनसा सर्वकर्मसमर्थो भवति / ततः शिष्यान् प्रवेशयेद् वज्रधरमुद्रया / इत्यभिमानम् उत्पादयेत् /
ओं वज्रधर रत्नधर पद्मधर विश्वधर तथागतसमयातिक्रम तथागतसमयधारको ऽहम् /
ततो ऽनेन क्षेपयेत् पुष्पान् / ओं सर्वतथागत प्रतीच्छ होः समयस् त्वं / ततस् तया मालयावेष्टयाभिषिञ्चयेत् / ओं सर्वतथागताभिषिञ्च वज्रधराज्ञापय हुं भ्रूं / ओं वज्रवज्राभिषिञ्च हुं हुं / ओं वज्ररत्नाभिषिञ्च हुं त्रां / ओं वज्रपद्माभिषिञ्च हुं ह्रीः / ओं कर्मविश्वाभिषिञ्च अः हुं कं /
ततः समयं दद्याद् आज्ञाभिषेकं च / तत्र समयं /
त्रिरत्नं न परित्याजं बोधिचित्तञ् च सद्गुरुम् //
प्राणिनश् च न संघात्या अदत्तं नैव चाहरेत् //
मृषा नैव च भाषेत नाचरेत् तत्परस्त्रियं //
गुरुनिन्दा न संकार्या नापि छायां तु लंघयेत् //
अनाचार्यान् न गृह्णीयाद् नाममाचार्यवज्रिणः //
मन्त्रमुद्रा न निन्देत देवतां चापि कदाचन //
निन्देद् यदि मोहात्मा म्रियते व्याधिभिर् ध्रुवम् //
निर्माल्यदेवताच्छायां मुद्रां चाक्षरचिह्नकाम् //
लौकिकलोकोत्तरां च पादाभ्यां चापि नाक्रमेत् //
रत्नत्रयादिद्रुग्धानां मूढानां बुद्धशासने //
गुरुनिन्दापराणां यत्नात् घातयेद् विचक्षणः //
अधर्मिकान् पापरतान् सत्त्वद्रोहनतान् सदा //
हनेत् कृपाया मन्त्री मन्त्रेण समयद्विषान् //
कृपणार्थं च संगृह्य दद्यात् सत्त्वे सुदुःखिते //
गुरुपूजानिमित्तं च तथा समयसाधने //
मण्डलार्थे हरेद् अर्थं कृपणार्थं चापि चिन्तितम् //
समयिनां हितार्थाय पूजार्थाय जिनौरसाम् //
रक्षणार्थाय भाषेत मृषा सत्त्वहिते रतः //
समयगुरुद्रव्यं च प्राणां प्राणिषु सर्वदा //
रागनार्थाय बुद्धानां समयपालनाय च //
सेवयेत् परदारां तु साधनार्थाय मन्त्रवित् //
सर्वकृत् सर्वभुग् वा किं वज्रसत्त्वपदे स्थितः //
सिध्यते नैव दुष्येत किं पुनः कृपयान्वितः // इति /
ततो ऽनेन किं मे अभिषेकं दद्यात् / ओं सर्वतथागताज्ञां ते दास्यामि गृह्ण वज्रसुसिद्धये / ओं वज्र तिष्ठ हुं /
अनेन वज्रं हस्ते दत्वा कर्माभिषेकं दद्यात् //
ओं सर्वकर्माणि कुरु बुद्धानां हुं /
ततो गुरुगौरवं तेन दातव्यं देहम् उत्तमम् //
द्रव्यं धनधान्यं च आसनं यानम् एव च //
वरभृत्यपुरं चैव राज्यम् ऐश्वर्यम् एव च //
पुत्रदुहितृकलत्रं च माताभगिनीभगिनीम् //
अन्यान् अपीप्सितांस् सर्वान् गुरोर् देयान् हिताशयः //
ततः सिद्धिं तु प्रार्थयेद् बुद्धानां बोधिसाधिकाम् //
अन्यानि च यथेष्टानि लौकिकानि वर्द्धिकानि //
ततो दद्याद् धितार्थाय सिद्धिं पुत्रस्य मन्त्रवित् //
अमत्सरेण चित्तेन श्रद्धया श्राद्धचेतसा //
निःस्वभावं तु धर्माणां भावयित्वा तु चेतसा //
अकारेन्दुमण्डलं चिन्त्य तस्य मध्ये स्वबीजकम् //
ध्यात्वा समयमुद्रां तु चिन्तयेत् तम् एव च //
सा एव परिवर्तेत देवताकारयोगतः //
ततो ऽधितिष्ठेत् तां मुद्रां स्वबिजेन तु मुद्रया //
अभिषिञ्चेद् बुद्धैस् तु यथावद् अनुपूर्वशः //
ततो ऽभिमानम् उत्पाद्य साधयेद् विचक्षणः //
सिद्धिं तथागतिं चापि किं पुनश् चान्यसिद्धयः //
अथ भगवन्तं प्रणिपत्य ब्रह्मादयो महादेवा एवम् आहुः / किं भगवन् तस्य राजपुत्रस्य राजामात्यस्य क्षत्रियस्य ब्राह्मणस्य वैश्यस्य शूद्रस्यान्यस्य वा हीनजघनस्य प्रत्यन्तिकजनपदकुलजात्यस्यास्य मण्डलराजप्रविष्टस्य विपाकं भवति /
भगवान् आह / साधु साधु महाब्रह्मादयो देवगणा यन् ममेदम् अनागतानां सत्त्वानां हिताय परिप्रष्टवन्त इति / शृणुत देवगणस्य मण्डलराजप्रविष्टस्याभिषिक्तस्य लिखितस्य लिखापयितस्यानुमोदितस्य वन्दितस्य पूजितस्य फलविपाकं चेति / अहम् अपि देवपुत्राः संक्षेपतो नोत्साहामि / अनुशंसा वक्तुं यन् मम पुण्यसंभारं तम् अनेकशतसहस्रगुणितं कृत्वा संख्याम् अपि गणनाम् अप्य् उपमाम् अपि न क्षमते / यावत् सर्वतथागतानाम् अपि पुण्यस्कन्धं न क्षमते / इति /
आश्चर्यं भगवन् आश्चर्यं वज्रधर यद् एवं मण्डलप्रविष्टानां सत्त्वानां फलविपाकम् इति / उत्साहामो वयं भगवन् उत्साहामो भगवन् वज्रधर मण्डलादिप्रवेशम् /
अथ ते देवास् तथैव नमस्यैवम् आहुः / सन्ति भगवन् सत्त्वा जम्बुद्वीपका अल्पायुषो मन्दपुण्या अपायगतिका नरकप्रेततिर्यक्प्रत्युपपन्ना वा तेसां कथं वयं भगवन् प्रतिपत्स्यामः /
तेषां भो देवपुत्रा इहैव मण्डले प्रवेशयध्वं / प्रवेश्य चाभिषिञ्चयध्वम् / धर्मताक्षरं च जपयध्वम् / तेन ते सत्त्वा दीर्घायुष्का भवन्ति / पुण्यहीनाः पुण्यवन्तो भवन्ति / अपायाद् विनिर्मुक्ता भवन्ति / ये चापायोत्पन्नास् तेषां भो देवपुत्रा नामाभिषेकं कुरुत / प्रतिबिम्बाभिषेकं कुरुत / स्तूपाभिषेकं कुरुत / स्वदेवताकायाभिषेकं कुरुत / अन्तशस् तज्जन्यं तत्पुत्रं तद्गोत्रं तन्नामधारकं वा भृत्यं वाभिषिञ्चध्वं सप्तरात्रदिवस्य सप्तभिर् मण्डले प्रवेश्याभिषेकैर् विमुच्यत अपायावरणात् / तन्नामकेनापि देवपुत्रा जपध्वं द्विलक्षं त्रिलक्षं चतुल्लक्षं यावल् लक्षशतसहस्रं पञ्चानन्तर्यकारिणो ऽपि विमुच्यन्ते / किं पुणः स्वल्पपापकारिण इति /
हस्तमात्रं देवपुत्रा वर्तुलं द्विहस्तं वा शान्तिकं कुण्डं कृत्वा हीनोत्कृष्टमध्यमं तन्नाम्ना श्वेतसर्षपानां शतसहस्रं जुहुयात् / सर्वापायाद् विमुच्यते / तन्मांसास्थिकेशभस्मादिकं वा तेनैव विधानेन जुहुयात् / सर्वपापाद् विमुच्यते /
तन्मध्ये लिखेच् चक्रम् अष्टारश्वेतज्वालिनम् //
समन्ताल् लिखेद् वज्रं पञ्चशूलं सितांशुलम् //
विश्ववज्रं ततो कुर्याद् वज्ररत्नाम्बुजोत्तमं //
ततो नानाविधामुद्रां कुर्यात् पापहननाय //
बाह्यवज्रकुलानां तु मुद्रा बाह्यतो लिखेत् //
ग्रहनक्षत्रचिह्नानि तथा लोकभृत्यान् अपि //
पटप्रतिमां तु नाथस्य स्थापयेद् वज्रिणा सह //
कलशान् पूर्णकुम्भांश् च बलिनैवेद्यशुक्लकान् //
सूत्रयित्वा समासेन संलिख्य च यथाविधैः //
श्वेताम्बरधरो भूत्वा बुद्धरूपी विशारदः //
अनुस्मृत्य च तं सत्त्वम् अपायगतिसंस्थितम् //
होमयेच् छुद्धसंतानः पापावरणशान्तये //
घृतक्षीरसमाक्षिकैर् लाजसर्षपमिश्रितैः //
अस्थिमांसादिकं तस्याथ वा नाममात्रकैर् // इति //
उत्पाद्य सुगतौ तस्य पुष्टिं कुर्याद् विचक्षणः //
द्विहस्तं चतुर्हस्तं वाष्टहस्तं तथोत्तमम् //
कृत्वा कुण्डं चतुःकोणं समन्ताद् वेदिकायुक्तम् //
तस्य मध्ये रत्नपद्मं तु लिखेत् पीतरश्मिनम् //
समन्ताल् लिखेद् रत्नं वेदिकायां तु अंबुजं //
कुलपञ्चकभेदेन लिखेद् मुद्रां तु बाह्यतः //
तथैव बाह्यदेवानां लिखेद् अंकुशादिकम् //
पीताम्बरधरो भूत्वानुस्मृत्य सुगतिसंस्थितम् //
कुर्यात् पौष्टिककर्म पुष्ट्यर्थाय तद्धितम् //
आयुःश्रीकान्तिसौभाग्यं वर्धयेत् तस्य देहिनः //
ततः कुर्याद् वश्यं तु तस्य कर्म हिताय //
द्विहस्तं चतुर्हस्तं तु कृत्वा कुण्डं धनुराकृतिम् //
हस्तं वा तस्य मध्ये तु संलिख्य रक्तम् अम्बुजम् //
तस्योपरि च संलिखेत् सशरं धनुर् एव च //
समन्ताच् च लिखेच् चापं सशरं रक्तवर्णकम् //
बाह्यतस् तद्वद् एवास्य कुर्याद् मन्त्रभूतः सदा //
स्मृत्वा तस्य सत्त्वस्य रक्ताम्बरभुषितः //
रक्तपुष्पाम्बुजं वापि फलं रक्तं सधातुकम् //
भवेत् तस्य देवादयो घृतमिश्रितकुंकुमैः //
रक्तचन्दनचूर्णैश् च सर्वे तिष्ठन्ति तद्वशाः //
तस्य दुष्टविनाशाय अभिचारं समारभेत् //
द्व्यर्धहस्तं त्रिहस्तं वा नवहस्तं तथोत्तमम् //
कृत्वा कोणत्रयैर् युक्तैर् मध्ये वज्रनवात्मकम् //
त्रिसूचिकैर् वृतां वेदीं कृत्वा विश्वैश् च वज्रिभिः //
दण्डमुण्डत्रिशूलांकैर् वज्रपरशुसूचिकैः //
कारयेद् बाह्यतो चापि त्रिपुटं पूर्ववच् चित्रम् //
कलशान् बलिकुम्भांश् च नैवेद्यान् स्थापयेद् बहु //
मांसरुधिरसंपूर्णाः कपालाश् चापि सर्वतः //
कृष्णाम्बरधरः क्रुद्धस् त्रैलोक्यविजयी स्वयम् //
सर्वपापादिविघ्नानां नाशयेत् तस्य देहिनः //
ततः सौहतपापात्मा निर्विघ्नश् चरते सुखम् //
स्वर्गलोकेषु मानुष्ये यावत् त्रैलोक्यधातुषु //
अनेनैव क्रमेणाशु कुर्याज् जन्मनीह स्थितान् //
ततस् तथैव स्यात् तेषां येषाम् उद्दिश्य कार्यते //
अन्यान्य् अपि कर्माणि यथा पूर्वं तथा कुर्यात् //
तेन संपद्यते क्षिप्रं सत्त्वानां च सुखावहम् //
अथ ब्रह्मादयो देवाः संहृष्टमनसो भगवन्तं नमस्यैवम् आहुः / यो भगवन् अपायोपपन्नानां सत्त्वानाम् अर्थाय हिताय सुखाय / एतं कल्पराजं लिखिष्यति लिखापयिष्यति / किं पुनर् यथानिर्दिष्टम् अविकल्पयतः करिष्यति / वयं ब्रह्माद्दयो देवास् तस्य कुलपुत्रस्य कुलदुहितुर् वा भृत्यवत् परिपालयिष्यामः / यश् च राजैव राजपुत्रो वा राजामात्यो वा यथापठितुं मन्त्रं वर्तयिष्यति तस्य राजवृद्धिं करिष्यामः / विषयदेशांश् च जनपरिवारजनसस्यादिरक्षां च करिष्यामः / बहुधनधान्यसमृद्धिं करिष्यामः / स्त्रीपुरुषदारकदारिकासंपदं च करिष्यामः / ऋद्धिं च स्फीतं च सुभिक्षं च क्षेमं च करिष्यामः / यश् चेदं कल्पराजं श्राद्धो ध्वजाग्रावरोपितं कृत्वा नगरनिगमादिसु प्रवेशयेत् स्वयं वा प्रत्युद्गच्छेद् धस्तिस्कन्धावरोपितं च कृत्वा सर्वग्रामनगरादिकं भ्रामयेत् / सर्वमृत्यूपद्रवं च नश्यति / तस्य महासत्त्वस्य पदं ज्ञास्यामो भृत्यत्वेन पुत्रत्वेन वा / यत्र पापं प्रचरिष्यति तत्र भगवान् वज्रपाणिः स्वयम् एव संभोगिकैः कायैर् वज्रसत्त्वरूपेण व्यवस्थित इति मन्यामः / स एव भगवान् वज्रसत्त्वः समन्तभद्रः सर्वाशापरिपूरकः कल्पराजरूपेण विहरतीति मन्यामः / सर्वतथागताश् च सपरिवारा विहरन्त इति मन्यामः / तं च पृथिवीप्रदेशं चैत्यभूतं मन्यामः / पूजयामो वन्दयामः / आरक्षिष्यामः / यश् चैनं कल्पराजं प्रचरिष्यति वज्राचार्यमहातपा तस्य वयं ब्रह्मादयो देवा भृत्या भवामः / चेटत्वेनोपतिष्ठामः / किंकरत्वेनोपतिष्ठामः / सर्वाज्ञात्वे करिष्यामः / सर्वहितं सुखं च करिष्यामः / सर्वसिद्धिं च प्रयच्छामः / संक्षेपतश् च भगवन् तस्य पादरजांसि शिरसा धारयामः /
वन्दयामो भगवन् पूजयामो भगवन् तस्य पृष्ठतश् चानुगच्छामः / ये भगवन् सत्त्वा मण्डले ऽभिषिक्तास् ते ऽस्माकं प्रभुर् इति मन्यामः / वज्रपाणिर् इति मन्यामः / वज्रसत्त्व इति मन्यामः / महासुखसमन्तभद्र इति मन्यामः / तथागतश् चेति मन्यामः /
अथ भगवान् वज्रपाणिस् तान् ब्रह्मादीन् देवान् एवाह / साधु साधु ब्रह्मादयो देवा येन धर्मगौरवेणैव भूतां प्रतिज्ञां कुर्वतस् तत् साधु प्रतिपद्यध्वम् इति /
इइइ अथ भगवान् वज्रपाणिः सर्वमन्त्रविद्याहृदयदृढीकरणार्थं स्वहृदयम् अभाषत /
ओं भ्रूं त्रूं वज्रपाणि दृधं तिष्ठ हुं / ओं हुं / ओं वज्र हुं फत् / ओं दृढवज्र हुं / ओं वज्र हुं सः / ओं वज्र हुं स्रः /
अथास्य मण्डलं भवति /
मण्डलं पूर्ववल् लिख्य मध्ये वज्रं समालिखेत् //
अथ वा वज्रसत्त्वं तु समन्तभद्रं महासुखम् //
पुरतो वज्रपाणिं तु दक्षिणे रत्नपाणिनम् //
पश्चिमे पद्मपाणिं तु विश्वपाणिं तु चोत्तरे //
बाह्यतो मण्डलीकृत्य सर्व बुद्धान् निवेशयेत् //
तस्य बाह्ये तु सत्त्वाख्यं संलिखेद् तु यथाक्रमम् //
तद्बाह्ये ऽपि लिखेत् सत्त्वान् मैत्रेयादीन् महोत्तमान् //
तद्बाह्ये तु लिखेद् भिक्षून् आनन्दादीन् मुनीन् तथा //
ब्रह्मादींश् च लिखेद् बाह्ये सभार्यायन्त्रमण्डितान् //
ग्रहनक्षत्रचन्द्रसूर्यं चतुर्नामवीरजिनाम् //
दिग्लोकपालानां संलिखेद् अस्मिन् मण्डले //
बाह्यतस् तु नारकादीन् तिर्यगुपमाम् //
द्वारे द्वारे तथैवापि //
दिनेष्व् एतेषु दशसु प्रयत्नतो मण्डलं लिखेत् //
कृष्णपक्षे ऽपि यद्बल्यो मण्डलं न विरुध्यते //
पञ्चम्याम् अथ सप्तम्यां पूर्णमास्यां विशेषतः //
शस्यते पद्महस्तस्य मण्डलानां क्रियाविधिः //
यानि च क्रूरकर्मासु तान्य् आलिखेत् कृष्णे ऽपि //
क्रोधानां मण्डलानि च पूर्णमास्यां विशेषेन //
शस्यन्ते जिनमण्डलाः //
अथाधिवासनां कुर्यात् स्वोभूते मण्डलोद्यमे //
दिग्भागं लक्षयेत् पूर्वम् उदयेन विवस्वतः //
ततो मण्डलविन्यासं मनसा परिकल्पयेत् //
मन्त्रतन्त्रोदितं स्निग्धं मन्त्ररूपशुभं शुचि //
मनो ऽनुकूलं भोक्तव्यं स्वशिष्यैः सह मात्रया //
ततः प्रदोषे सुस्नातः शिताम्बरधरः शुचिः //
सह शिष्यैर् गुरुर् धीमान् आगच्छेन् मण्डलान्तिकं //
सूपलिप्ते सुसंमृष्टे प्रदेशे मण्डलस्य तु //
महाक्रोधाभिजप्तेन प्रोक्षिते गन्धवारिणा //
मध्ये ऽधिवासनां कुर्यात् कुलानां हृदयेन तु //
मण्डलाधिपमन्त्रेण सर्वकर्माणि कारयेत् //
गन्धमण्डलकं कृत्वा मेदिन्यां द्वादशांगुलम् //
सप्तशः पाणिनालभ्य जपेन् मण्डलविद्यया //
देवतानां तु पश्चान् महतां नाम बोधिया //
हृदयेन यथाभागं गन्धपुष्पादिपूजनं //
कृत्वा बलिश् च दातव्यो धूपश् चैवाभिमन्त्रितः //
ततो ऽभिमन्त्रयेत् तोयं चन्दनेन विमिश्रितम् //
तस्मिन् देयानि पुष्पाणि धूपयेच् च विधानतः //
औदुम्बरं दन्तकाष्टम् अश्वत्थं वापि निर्व्रणम् //
नातिकृशं नातिस्थूलं द्वादशांगुलसंमितम् //
क्षालितं गन्धतोयेन सूत्रकेन विवेष्टितम् //
धूपितं गन्धदिग्धं च जपेद् आलभ्य पाणिना //
हृदयं च बहुशः सप्तशो वा कुलस्य तु //
शिष्याणां परिमाणेन दन्तकाष्ठादिसंग्रहः //
एकाद्यानि च कर्याणि अग्रेणैव खादयेत् //
ततो रक्षां दृढं कृत्वा शिष्याणाम् आत्मना बुधः //
होमकर्म सघृताक्ताभिः समिद्भिश् च //
तिलैश् च घृतमिश्रितैर् घृतैर् आहुतिहोमैश् च //
दध्यन्नेन च होमयेत् //
प्रथमं विघ्नशान्त्यर्थं ततो ऽनुहृदयेन च //
ततो ऽनुशान्तिहोमं च कुर्याच् छान्तिं वा पापस्य //
ततः शिष्यान् परीक्षयेद् विधिना चाधिवासयेत् //
तदहः शक्तितः कुर्यात् संवरं ग्रहणं तथा //
तेषाम् एवं विधानं तु शुचीनां शुक्लवाससाम् //
प्राङ्मुखानां निषण्णानाम् आरभेद् अधिवासनाम् //
आदौ त्रिशरनं दद्याद् बोधिचित्तं ततो गुरुः //
उद्पादयेद् अनुत्पन्नम् उत्पन्नं स्मारयेत् पुनः //
ततः क्रोधाभिजप्तेन वारिणाभ्युक्षयेच् छिरः //
शिरसि आलभ्य जपेत् सप्तवारान् समाहितः //
विद्यारजस्य हृदयं गन्धदिग्धेन पाणिना //
आलभ्य भयं वर्तेत सप्तवारं विचक्षणः //
चक्रवर्तिजिनकुले विद्याराजैकम् अक्षरम् //
हयश्वेताम्बुजकुले विद्याराजो दशाक्षरः //
सुम्भतथावज्रकुले विद्याराजो महर्द्धिकः //
युक्तश् चतुर्भिर् हुंकारैः प्रचण्डः सर्वकर्मसु //
कुलत्रयेषु सामान्यः क्रोधो ह्य् अमृतकुण्डलिः //
सर्वविघ्नविनाशाय गुह्यकाधिपभाषितः //
सर्वकर्मिकमन्त्रेण मूर्ध्न्य् आलभ्य ततो जपेत् //
प्रोक्षयेच् चापि तेनैव धूपनेन च धूपयेत् //
अभिषेकाय कलशं सर्वव्रीह्यादिसंयुतम् //
स्तोकं तोयस्य निक्षिप्य विद्याराजाभिमन्त्रितम् //
अधिवासयेद् विधिवद् दत्वार्घं गन्धवारिणा //
कुसुमानि विनिक्षिप्य धूपनेनाधिवासयेत् //
अहन्य् अहनि त्रिसंध्यं तत्सम्यक् परिजपेद् बुधः //
तेनाभिषेकं कुर्वीत पुनर् जप्तेन मण्डले //
शिष्याणां तु समग्राणाम् अञ्जल्या उत्तरामुखम् //
दन्तकाष्ठं ततो दद्याद् आसनानां यथाक्रमं //
खादयन् प्राङ्मुखान् शिष्यान् दन्तकाष्ठादि बाह्यतात् //
स्फुटयेत् पूर्णं खादित्वा क्षिपेयुश् च न पार्श्वतः //
सम्यक् क्षिप्तं दन्तकाष्ठं पतेद् अभिमुखं यदा //
ज्ञेयात् तस्योत्तमासिद्धिर् यस्य चापि उन्मुखं भवेत् //
प्रागग्रेण तथा सिद्धिर् मध्यमा परिकीर्तिता //
उदङ्मुखेन तु चक्षु विद्यासिद्धिस् तु लौकिकी //
दन्तकाष्ठं भवेत् क्षिप्तं कथञ्चिद् यदाधोमुखं //
तदा पातालसिद्धिः स्याद् भवान् नास्त्य् अत्र संशयः //
शिष्याणाम् उपस्पृष्ठानाम् आसीनानां तु पूर्ववत् //
सर्वकर्मिकमन्त्रेण दद्याद् गन्धोदकं गुरुः //
एकैकस्य तु पानाय दद्याच् चुलुकत्रयम् //
तत्रैव पीत्वा व्युत्थाय एकानेकभिर् आचरेत् //
ततः पूजां पुनः कृत्वा धूपम् उत्क्षिप्य पाणिना //
अध्येषयेद् मतिमान् भक्तिम् आस्थाय देवताम् //
पूर्वम् आमन्त्रयेद् मन्त्रं यस्य तद् मण्डलं भवेत् //
तेनानुक्रमयोगेन देवतानां निमन्त्रणं //
भगवन् अमुकनाम विद्याराज नमो ऽस्तु ते //
स्वो ऽहं लिखितुम् इच्छामि मण्डलं करूणात्मकम् //
शिष्याणाम् अनुकम्पाय युष्माकं पूजनाय च //
तन् मे भक्तस्य भगवन् प्रसादं कर्तुम् अर्हसि //
समन्वाहरन्तु मां बुद्धा लोकनाथाः कृपालवः //
अर्हन्तो बोधिसत्त्वाश् च या चान्या मन्त्रदेवता //
देवतालोकपालाश् च ये च भुतन्महर्द्धिकाः //
शासनाभिरताः सत्त्वा ये केचिद् दिव्यचक्षुषः //
अहम् अमुकनाम्ना तु अमुकं मण्डलं शुभम् //
स्वभूते तु करिष्यामि यथाशक्त्युपचारतः //
अनुकम्पाम् उपादाय सशिष्यस्य तु तन् मम //
मण्डले सहिताः सर्वे सानिध्यं कर्तुम् अर्हथ //
एवम् उक्त्वा तु या वाचा नमस् कृत्वा भगवतः //
स्तोत्रोपहारं कृत्वा च ततः कुर्याद् विसर्जनम् //
विरागप्रतिसंयुक्तां शिष्याणां धर्मदेशनाम् //
कृत्वा प्राच्छिरसो धीमान् स्थापयेत् कुशलं स्तरे //
प्रभातायां ततो रात्र्यां प्र्च्छते स्वप्नदर्शनं //
श्रुत्वा दिने निर्विशंकः शुभं वा यदि वाशुभं //
बुद्धधरो राजानां समयेत् सप्तकुलानि तु //
ततस् त्वं समयं पुत्र संवरं जिनभाषितम् //
श्रद्धया गुरोर् आज्ञां च पालय प्राणिनो न त्वया घात्याः //
नादत्तं ग्राह्यं काममिथ्या न कार्या सिद्धिम् इच्छताम् //
न मद्यं पेयं मांसादि भक्षं नैव कदाचन //
सत्त्वानाम् अहितं न कार्यं त्याज्यं रत्नत्रयं न च //
बोधिचित्तहृन्मुद्रा तु गुरुदेवास् तथैव च //
अलंघ्या गुरोर् आज्ञा यतः पापं तु लंघयेत् //
न लंघयेच् च निर्माल्यं तच्छायां नाक्रमेत् //
मुद्राकारान् तथैव च //
न निन्दयेद् मन्त्रदेवतां ग्रहकर्माणि न कुर्वीत //
तीर्थिकांश् च न निन्दयेत् //
संक्षेपतो विमतिकांक्षा विचिकित्सा न कार्या //
आत्मतन्त्रदेवादिषु तथैव च //
दृढश्रद्धया यथावत् सर्वविदाभिषेकतः //
कुम्भादिभिः समग्रैर् दशानां दशाभिषेको यथेच्छम् //
ततो वज्रघण्टाश् च हस्ते दातव्याः //
ततश् चक्रादिसप्तरत्नानि गृहीत्वा //
राज्यैश्वर्यादिचक्रवर्तित्वप्राप्तये //
पापस्फोटनाय चाभिषिञ्चेत् //
मन्त्रसाधयितुकामस्य शिष्यस्याज्ञां श्रावयेत् //
ततः श्रद्धया शिरसा प्रणम्य विद्यमानद्रव्यम् //
गुरवे देयम् //
रत्ननिधानव्रीहिहिरण्यसुवर्णवाहनगृहाः //
आसनदारकदारिकापुरुषस्त्रियो देयाः //
ग्रामनगराणि च यथेप्सितानि //
स्वचित्तप्रसादेन दक्षिणानि वेशयेत् //
आशुसिद्धये गुरवे संक्षिप्त आत्मानम् अपि निवेदयेत् //
इहैव जन्मन्य् अनवशेषसुखानि परलोके चोत्तमसुखं //
बुद्धत्वं प्राप्यते किं पुनर् देवसुखम् //
सर्वबुद्धसमं गुरुं वज्राचार्यनिन्दया //
नित्यदुःखावाप्तिर् इति आचार्यं न निन्दयेत् //
वज्रब्भातृभगिनीमाता योगी न निन्दयेत् //
उपनाहं च न कुर्यात् // रत्नत्रयोपकारिणो न क्षमेत् //
गुरुनिन्दकान् दुष्टान् समयातिक्रमिणो ऽपि तथैव च //
एवमाद्यपकारकाइन्श् च //
एवं सन्ति सर्वविद्भाषितां सिद्धिम् आप्नोति //
सर्वसत्त्वानुकम्पी सिद्धिं प्राप्नोति शिग्रजाम् //
अथ खलु भगवान् देवेन्द्रसदेवलोकहितसुखार्थाय साधनविधिम् अभाषत / पटे भगवन्तं सर्वविदं तथैव लिखेत् / दक्षिणे सर्वदुर्गतिपरिशोधनराजं तथागतम् / वामे शाक्यमुनिम् / सर्वदुर्गतिपरिशोधनस्याधस्ताद् आर्यावलोकितेश्वरं चन्द्रार्कवर्णपद्मपाणिम् / शाक्यमुनेर् अधस्ताद् वज्रपाणिम् / तयोर् मध्ये भैषज्यराजं नीलवर्णम् एकेन हस्तेन हारितकीफलं धारयन्तम् अपरेण वरदं कारयन्तम् / हयग्रीवत्रैलोक्यविजयौ च दुष्टदमनतत्परौ स्वदेवताभिमुखौ लिखेत् / तयोर् मध्ये लोचनामामकीपाण्डुरवासिनीताराः स्वचिह्नकरा लिखेत् / तासाम् अधस्तात् पुष्करिणीं मकरमत्स्यश्वेतमण्डुकादिसहिताम् अनेकजलजपुष्पपरिपूर्णां लिखेत् / धूपदीपगन्धमाल्यनैवेद्यपुष्पफलानि नानाप्रकाराणि च लिखेत् / अधस्ताच् च साधकं अञ्जलिं कृत्वा प्रणमन्तं लिखेद् निषण्णम् /
ततः पटसत्याधिष्ठानम् अवलम्ब्य चक्षुरुन्मीलनं कृत्वा पूजयेत् / ततो यदि निमित्तं पश्येत् सिद्ध्यति शीग्रम् / यदि न पश्येच् चिरं सिद्ध्यति / हसितुंकर्मशब्दं च घण्टाध्वनिगर्जितम् एव च //
भिक्षुब्राह्मणकन्याश् च फलानि च दृष्ट्वा शीघ्रम् //
सिध्यत्य् उत्तममध्यमाधमसिद्धिषु //
ततः पटं मन्त्रमुद्राभिर् अधितिष्ठेत् //
यथाप्राप्तेन च पूजयेत् तस्याग्रतो निषद्य //
त्रैलोक्यविजयेनात्मरक्षादिकं कृत्वा //
आत्मतत्वं च ध्यात्वा //
लक्षत्रयं षट्लक्षाणि वा जपेद् यावत् सिद्धिनिमित्तं भूतम् /
ततो विवेकस्थाने ऽष्टौ ऽशतानि पूरयेत् / मन्त्रं चानूनाधिकं जपेत् /
ततो जपावसाने मण्डलं पूर्ववच् चिन्तयित्वा / विपुलां च पूजां कृत्वा रात्रीम् एकां जपेत् / ततः प्रधानं च तत्पुत्रं च देवांश् च यदि पश्यति / तदा यथाभाजनम् ईप्सितोत्तमसिद्धिं विज्ञापयेत् / देवता नित्यं तुष्टाः सिद्धिफलं तस्य ददति / नमस्कृत्य च सिद्धिम् उत्तमादिकां गृह्णीयात् / गुरुरत्नत्रयस्वभागं दत्वा / ततो नित्यं विचरेत् तदभावेषु प्राज्ञः /
गृहीत्वा स्वयं समाचरेत् / सर्वसत्त्वहितकारी चानेककल्पं तिष्ठेत् / असिद्धौ सर्वकर्मकरो भवेत् / यक्षनक्षत्रग्रहादयो वचनमात्रेण भृत्यवच् छान्तिकादिसर्वकर्मकरा भवन्ति /
अथ खलु देवेन्द्रो भगवन्तम् एतद् अवोचत् / भगवन् पापकारिणां नारकादिवशीभूतानां सत्त्वानां नारकादिदुःखप्रहाणाय कथं प्रतिपत्तव्यम् / भगवान् आह / देवेन्द्र शृणु नारकवशगतसत्त्वानां महापापकारिणां तेषां यथा नारकदुःखेभ्यो ऽनायासतो मुक्तिर् भवति तथा शृणु / तथैव मण्डलं लिखित्वाष्टोत्तरशतजप्तैः कलशैः पूर्ववद् अभिषेकं कल्पयेत् / ततः सर्वपापगताः सर्वनारकादिदुःखेभ्यः शीघ्रं विमुच्यन्ते / ते च विमुक्तपापमहात्मानः शुद्धावासदेवेषूत्पन्नाः / सततं बुद्धधर्मसंगीतिम् प्राप्नुवन्ति / अवैवर्तिकभूमिप्रतिष्ठिताश् च क्रमेण बोधिं साक्षात् कुर्वन्ति /
तत्प्रतिबिम्बं वा नाम च कुंकुमेन लिखित्वा //
अपायत्रयमहाभयात् सत्त्वानां मोक्षणाय //
मन्त्री परहिते रतः कृपाया अभिषिञ्चेत् //
ततः स योगी मन्त्रमुद्राभिर् अभिषिञ्चेत् //
देवतारूपं कल्पयित्वा चैत्यमध्ये स्थापयेत् //
स्वपरदेवताहृदयं तधृदये प्रदेशे लिखित्वा //
देवतातुल्यचित्तम् उत्पाद्य गृहे वा स्थापयेत् //
तन्नाम च विदर्भ्य मन्त्रं कुंकुमेन लिखित्वा //
चैत्यकर्म कुर्याद् यावल् लक्षं परिपूर्णम् //
महापापिनः पापक्षयाय कोटिम् अपि पूरयेत् //
एवं कृते ते ऽवश्यं नरकाद् मुक्ता भवन्ति //
तथा तिर्यग्भ्यश् च मुक्ता देवनिकायेषूत्पद्यन्ते //
तन्नाम च विदर्भ्य यथोक्तमन्त्रं सहस्रं जपेत् //
कदाचित् शतसहस्रम् अपि पूरयेद् यावत् कोटिम् अपि पूरयेत् //
देवनिकायेषूत्पद्यन्ते //
तन्नामविदर्भ्य कुशलो लक्षशतं वा यावच् छतसहस्रम् //
होमं कुर्यान् महानरकपापमुक्ता भवन्ति //
यावन् निमित्तं ज्वलिताग्नीस्थाने समुत्पद्यते //
तिलश्वेतसर्षपतण्डुला अजाक्षीरसंयुक्ताः //
समिधाश् च गन्धाक्तास् तावद् यथाविधि होतव्याः //
ततस् ते नियतं देवनिकायेषूत्पन्ना निमित्तम् उपदर्शयन्ति /
कदाचिद् देवोत्तमा उत्पन्ना अथ वा कुण्डमध्ये श्वेतप्रदक्षिणज्वाला निर्मलोर्ध्वज्वलनम् / अवकीर्णसंदत्तज्वलनं विद्युदिव निर्मलं स्थिरम् / एतान्य् अगनिमित्तानि पश्यति / अथ वैश्वानलतात्मानं तथैव दर्शयन्ति / चन्द्रवन्निर्मलं शुक्लमुखवर्णज्वलितम् / एतन्निमित्तदर्शनात् तेषां नरकादि विमुक्तिपापस्फोटनस्वर्गोत्पत्तयो ज्ञातव्याः /
चतुर्हस्तप्रमाणं च यथाविधि कुण्डं खनेत् //
पर्यन्ते वज्रपरिवृतं लिखेन् मध्ये चक्रम् //
यथावत् पञ्चकुलमुद्राः स्वदिक्षु लिखेत् //
तथावत् सत्त्वानां लोकाधिपं च लिखेत् //
अतः पूर्णकलशा बलिपूर्णभाजनानि //
चाष्टौ षोडशं वा स्थाप्यानि भक्षभोजननैवेद्यानि च / पुष्पमालादयस् तथैव च वितानध्वजपटादिभिर् उत्तमछत्रैश् च / सम्यग्विभूषणीयम् / एवम् उत्तमहोमकुण्डे सम्यक् होतव्यम् / लिखित्वैवं विधिज्ञो देवगणम् आकर्षयेत् //
मन्त्रज्ञो मन्त्रमुद्रयार्घ उपधौकनीयः //
संक्षेपतः पूजां कृत्वा देवगणनागयक्षगन्धर्वावस्थितः / कर्पूरचन्दनकुंकुमवस्त्रालंकारभूषितो ऽभिमन्त्रितधूपं धूपयेत् / पुष्पमालादिभिश् च पूजयेत् / चूडायां बाहौ च तथैव मन्त्रं लिखित्वा बन्धयेत् / हृत्कण्ठमुखप्रदेशे सर्वविद्याधिष्ठानं कुर्यात् / ललाटोर्णाकर्णद्वये शिरःशिखाबाहुद्वये / नासाकटिजानुपादनासिकाग्रचक्षुर्द्वये / गुह्येन्द्रियप्रदेशेष्व् एवम् अन्येष्व् अपि मन्त्राक्षराण्य् एकान्तशुभानि विन्यसेत्/ ततो दुर्गतिपरिशोधनायासनसहितं तन्मध्ये स्थापयेत् /
ततश् च मन्त्र्य् अभिमन्त्रितवस्त्रेण छादयेत् /
ततो हुतभुजं सम्यक्प्रज्वाल्य / सहस्रज्वाल्य / सहस्रज्वालाकुलकायं कुण्डेन्दुदुसन्निभं शान्तम् अनन्तम् अग्निम् आकृष्यार्घं परिकल्पयेत् / तथैव च बुद्धिमान् अग्रतः प्रतिमादिकं स्थापयेत् / तथागतगणं तथैवाकृष्यार्घादिकं परिकल्पयेत् तथैव यथोक्तपूजा कर्तव्या /
तत आहुतिं हव्यं पूरयित्वा ज्वलनाय परिकल्पयित्वा जिनादिनीम् अष्टोत्तरशतं परिकल्पयेत् / ततः शोधनमन्त्रराजस्यैकविंशतिम् आहुतिं परिकल्पयेत् /
ततश् चाकृष्य श्वेतमुखम् उपकरणैर् वा वारत्रयम् अर्घादिना च पूजयेत् / वज्रपाणिं पद्मपाशधरं त्रैलोक्यरूपं पादपद्माक्रान्तपापं सर्वालंकारालंकृतं संबुद्धकिरीटिनं चिन्तयेद् अथ वा लिखेत् / तस्य ःर्दयेन शतसहस्रं यावत् कोटिं वा जुहुयात् /
निमित्ते च समुत्पन्ने पापसंततिप्रहाणं तथैव ज्ञातव्यम् / ततो भस्मीभूतं वज्रसंहारमन्त्रेण यथाविधि संहरेत् / भस्मान्य् अस्थिरजांसि च गन्धोदकपञ्चगव्यसहितानि शोधनमन्त्रेण लक्षं जप्त्वा पिन्दीकृत्य कर्पूरगन्धमृद्भिर् मिश्रीकृत्य प्रतिमां चैत्यदेवतां वा कुर्यात् / एकद्वित्रिचतुःपञ्चवारं वाष्टोत्तरशतवारं वा /
मन्त्रमुद्राभिर् अधिष्ठाय लक्षद्वयं जपेत् //
ततश् चैत्यं ज्वलति प्रतिमा वा हसति //
गन्धधूपप्रभा जिघ्रति पश्यति देवादीं नानाप्रकाराम् यस्य ऋद्धिप्रातिहार्याणि च पतन्ति पुष्पादीनि / शंखभेरीवंशवीणादीनां च शब्दाः श्रूयन्ते /
कदाचिद् देवतानि निमित्तानि पापबहलतया यदि न पश्येत् तदाष्टौ लक्षसहस्राणि जपेत् /
यावन् निमित्तं भवति तथागतं पूजयित्वा // सुसमाहितो जपेत् /
ततो ऽन्ते रात्रीम् एकां विधिज्ञो जपेत् / तदावश्यं पापविशुद्धात्मा पश्यति / देवतारूपकायं तत्सन्तानं परिजानाति / एतानि निमित्तानि ज्ञात्वा अविकल्पचित्तो / मैत्रीकृपापरीतः सर्वकर्माणि कुर्यात् /
एवम् अपि यदि न संभवति तदा तन्नाममात्रं लिखित्वा चैत्यमालां कुर्यात् प्रतिमां वा कृत्वा / होमाभिषेककृते सति / नियतं स्वर्गेषूत्पद्यन्ते / भस्मसर्षपवालुकादींश् च नाम विदर्भ्याभिमन्त्र्य समुद्रगामिन्यां नद्यां क्षिपेत् / ततः पापीयसो ऽपि दुर्गति विमोक्षति /
उत्तमकुशलबीजम् उत्पादितवतो बुद्धत्वफलसमन्वागतस्य दानशीलक्षान्तिवीर्यध्यानप्रज्ञाहेतुप्रभावितस्य पुण्यवतो लोकस्य दुर्गति भग्नेति /
कः पुनः वादो नात्र संशयः /
यश् चानुत्पादितकुशलमूलो यश् च नास्तिकदृष्टिर् बोधिमार्गाद् निवृत्तस् तस्य शासनविद्वेषिणो ऽपकारिणः पापानभिज्ञस्यमातृ पितृविप्रियचित्तस्य बोधिचित्तनिसृतवीतरागघातकस्य देवताबुद्धधर्मसंघमन्त्रमुद्रागनादीनां (sdp 250) च नास्तित्वादृष्ट्यादीनां च पापीयसाम् एषां प्रज्ञोपायाभावे मुक्तिर् नास्तीति सुगतजिनैर् भाषितम् /
अथ शक्रादय उत्पलपद्मलोचनाः साध्व् इति तोषयन्ति स्म / संतोषयित्वा पूजयन्ति स्म / शक्रेण च परहितरतेन यथाविज्ञप्तं /
द्वितीयं त्रिसूचिकवज्रसहितेन वरदो वामेनैकेन त्रिशूलधारि द्वितीयेन खड्गधारी सर्पयज्ञोपवीतनीलकण्ठो लेख्यो ऽनेन /
ओं पशुपति नीलकण्ठ उमाप्रिय स्वाहा /
अथास्य मुद्रा भवति / दक्षिणहस्तेन वाममुष्टिन कृत्वा कनीयसीम् अंगुष्ठेनाक्रम्य शेषांगुलवज्रलक्षणाः कृत्वानामिकां तर्जनीं च वज्राकारेण कञ्चिन् नामयेत् / इयं पशुपतेर् मुद्रा / विष्णुर् गरुदारूढःकृष्णवर्णश् चतुर्भुजः / दक्षिणभुजाभ्यां गदावज्रधरः / वामाभ्यां शंखचक्रधरः /
वज्रहेमा कनकवर्णा आसनभुजायुधविष्णुवत् /
वज्रघण्टामयूरारूढो रक्तवर्णः षड्मुखो दक्षिणभुजाभ्यां शक्तिवज्रधरः / वामाभ्यां कुक्कुटघण्टावज्रधरश् च /
वज्रकौमारी वज्रघण्टावद् एव ज्ञेया /
मौनवज्रो हंसारूढः कनकवर्णश् चतुर्मुखो दक्षिणभुजाभ्यां वज्राक्षसूत्रधारी / वामाभ्यां दण्डकमण्डलुधारी /
वज्रशान्तिर् ब्रह्मवद् ज्ञेया /
वज्रायुधः श्वेतगजारूढो गौरवर्णो वामभुजेन विश्ववज्रधरो दक्षिणेन लोकोत्तरवज्रधरः /
वज्रमुष्टिर् वज्रायुधवज् ज्ञेया /
वज्रकुण्डली क्रोधश् च रथारूढो दक्षिणकरेण सपद्मेन वज्रधरो वामेन सपद्मेनादित्यमण्डलधरो रक्तवर्णः / वज्रामृता वज्रकुण्डलिक्रोधवद् एव /
वज्रप्रभक्रोधः सितवर्णो हंसारूढो दक्षिणकरेण वज्रधारी वामेन पद्मचन्द्रधरः /
वज्रकान्तिर् वज्रप्रभक्रोधवत् /
वज्रदण्डक्रोधः कच्छपारूढो नीलवर्णो दक्षिणकरेण वज्रधारी वामेन दण्डधरः /
दण्डवज्राग्री वज्रदण्डक्रोधवत् /
वज्रपिंगलक्रोधो ऽजारूढो रक्तवर्णो दक्षिणकरेण वज्रधरो वामेन मानुषम् आदाय भक्षयन् अवस्थितः /
वज्रमेखला वज्रपिंगलक्रोधवत् /
वज्रशौण्डो गणपतिर् गजवाहनो दक्षिणकरेण वज्रं धारयेद् वामेन लांगलं धारयेद् अवस्थितः / सितवर्णः /
वज्रविणया वज्रशौण्डवद् अयन् तु विशेषो यद् उत वामकरेण खट्वांगधारिणीति /
वज्रमालो गणपतिः श्यामवर्णः कौकिलरथारूढो दक्षिणकरेण वज्रधरो वामेन कुसुममालाधरः /
वज्रासना वज्रमालावद् अयन् तु विशेषो यद् उत वामकरेण शक्तिधारिणीति /
वज्रवशी शुकरथारूढो गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मकरध्वजधारी /
वज्रवशा वज्रवशीवद् अयन् तु तस्या विशेषो यद् उत रक्तवर्णेति /
विजयवज्रो गणपतिर् मण्डूकारूढः सितवर्णो दक्षिणकरेण वज्रधरो वामेन खड्गधरः /
वज्रसेना विजयवज्रवत् /
वज्रमुसलदूतः पुष्पविमानारूढो गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मुसलधरः /
वज्रदूती वज्रमुसलवद् अयन् तु तस्या विशेषो यद् उत वामेन खट्वांगधारिणीति /
वज्रानिलदूतो नीलवर्णो मृगारूढो दक्षिणकरेण वज्रधारी वामेन पटधारी / वेगवज्रिणी वज्रानिलदूतवत् /
वज्रानलदूतो ऽजारूढो रक्तवर्ण ऊर्ध्वज्वालाप्रभस् त्रिशिखाज्वालो दक्षिणभुजाभ्यां वज्रकवचधरो वामाभ्यां दण्डकमण्डलुधरश् च / वज्रज्वाला वज्रानलवत् /
वज्रभैरवदूतो नीलो वेतालारूढो दक्षिणकरेण वज्रधारी वामेन गदाधारी /
वज्रविकटा दूती वज्रभैरववद् अयन् तु विशेषो ऽस्या यद् उत वामेन पाशधारिणीति /
वज्रांकुशचेटः शेषनागारूढो नीलो वराहमुखः / दक्षिणेन वज्रधरो वामेनांकुशधरः /
वज्रमुखी चेटी पुरुषवाहना नीला वराहमुखी दक्षिणेन वज्रधरा वामेन खड्गधरा /
वज्रकालचेटको महिषारूढो नीलो दक्षिणकरेण वज्रधरो वामेन यमदण्डधरः /
वज्रकाली चेटी वेतालवाहना वामकरेण खट्वांगधारिणी दक्षिणकरेण वज्रधारिणी कृष्णवर्णा /
वज्रविनायकचेटक उन्दुरारूढः सितवर्णो गजमुखो दक्षिणकराभ्यां वज्रपरशुधरो वामाभ्यां त्रिशूलधरो दण्डधरश् च / सर्पयज्ञोपवीतः / वज्रपूतना चेटी नीलवर्ण दक्षिणेन वज्रधरा वामेन संमार्जनिकाधरा / उन्दुरारूढा /
नागवज्रचेटको मकरारूढो ऽष्टफणः सितवर्णो दक्षिणेन वज्रधरो वामेन नागपाशधरः /
वज्रमकरा चेटी मकरारूढा सितवर्णा / अष्टफणा / दक्षिणेन वज्रधरा वामेन वज्रांकितमकरधरा /
भीमा श्यामवमा दक्षिणेन वज्रधारिणी वामेन खड्गफेटकधारिणी /
श्री गौरवर्णा दक्षिणेन वज्रधरा वामेन पद्मधरा /
सरस्वती वीणाहस्ता वामेन दक्षिणेन वज्रधरा /
दुर्गा श्यामवर्णा सिंहारूढा दक्षिणभुजाभ्यां वज्रचक्रधरा वामाभ्यां पट्टिशाशंखढरा /
सर्वासां मातृणां रुद्रादीनां च वरुणपर्यन्तानां यद् दक्षिणकरेषु वज्रम् उक्तं तत् त्रिसूचिकं ज्ञेयम् इति / सर्वलौकिकलोकोत्तराश् च देवता वैरोचनसंमुखलेख्या इति /
ततः सन्ध्याकाले संप्राप्ते वज्रतेरिन्तिरीं बद्ध्वा नीलपुष्पमालाम् आदाय मण्डलं प्रविशेच् चतुर्हुंकारम् उदाहरन् वज्रवैरोचनसप्तप्रदक्षिणं च शंखवज्रघण्टां वादयन् कुर्यात् / सर्वमण्डलं चानातिरिक्तदोशशान्तये निरीक्ष्य मालां भगवतो निर्यात्य वज्रनृत्यं कृत्वा / आदाय स्वशिरसि बन्धेच् चतुर्हुंकारेणैव /
तथा यथोक्तं यद् ऊनं परिपूरयेत् //
विजह्याद् अधिकं बुद्ध आबाधयेद् वज्रघण्टाम् //
सिध्यते न च दुष्यते // इति /
ततो मध्ये स्थितो भूत्वा वज्राचर्यसमाहितः //
मनसोद्घाटयेच् चैव वज्रद्वारचतुष्टयम् //
ओं वज्रोद्घाटय समये प्रवेशय हुं / इति /
मुद्रा चास्य भवति /
द्विवज्राग्रांगुली सम्यक् संधार्योत्तानतो दृढम् //
विधारयेत् सुसंक्रुद्धो द्वारोद्घाटनम् उत्तमम् //
इति /
ततो ऽंकुशादिभिः कर्माणि कृत्वा सप्तरत्नमयं कलशं मृन्मयं वाकालमूलम् उच्चग्रीवं लम्बौष्ठं महोदरम् दिव्यगन्धोदकं
सर्वरत्नौषधिसर्वधान्यपरिपूर्णं सफलं सपल्लवं सद्वस्त्रावबद्धकण्ठकं कृतरक्षं बहिः समन्ताद् दिव्यगन्धानुलिप्तं स्रग्विणं वज्रांकितम् उपरि महावज्राधिष्ठितं क्रोधतेरिन्तिरीपरिगृहीतया वज्रकुसुमलतया /
ओं वज्रोदक हुं इत्य् अनेनाष्टोत्तरसहस्राभिमन्त्रितं चतुर्हुंकारेण चाष्टशताभिमन्त्रितं कृत्वा भगवतो वज्रहुंकारस्याग्रतः संस्थाप्य / प्रवेशद्वाराभिमुखं च बहिर् द्वितीयं कलशं चतुर्हुंकारेणाष्टशतजप्तं स्थापयेत् / तेनोदकेनात्मशिष्याभिषेकं कृत्वा / प्रवेशमुद्रां बद्ध्वा न बन्धयेद् वा / प्रवालं जातरूपं च शंखं मुक्तामणिस् तथा / सर्वरत्नानि सिंहीव्याघ्रीगिरिकर्णासहदेवाश् चेति सर्वौषधयः / तिलान् माषान् यवान् धान्यान् गोधूमांश् चापि पञ्चमान् / शब्देन सर्वव्रीहीणां पञ्च तान् उपलक्षयेत् / तद् अनु चतुःप्रणामादिपूर्वकं संवरं ग्राहयित्वा वज्रयक्षेण नीलवस्त्राणि परिजप्य सत्त्वोष्णीषेण वस्त्रं द्वारपालैर् मुखवेष्टनं वज्रकवचेनोत्तरीयम् आबद्धोष्णीषादिक आचार्यः क्रोधतेरिन्तिर्या नीलपुष्पम् आदाय /
ओं वज्रसमयं प्रविश्यामीत्य् उदीरयन् प्रविश्य सर्वतथागतान् विज्ञापयेत् / अहं भगवन् इत्यादिना /
ततो वज्रोदकं पीत्वात्मावेशं कृत्वा तां मालां महामण्डले प्रक्षिप्य स्वशिरसि बद्ध्वा मुखबन्धं मुक्त्वा यथावद् मण्डलं दृष्ट्वा तिष्ठ वज्रेत्यादिना प्रवेशमुद्रामोक्षं च कृत्वा / उदकाभिषेकं पञ्चबुद्धमुकुटं पट्टवज्रमालाधिपतिवज्रनामाभिषेकं
भगवतः सकाशाद् भगवन्तं प्रणम्य गृहीत्वा / तत्त्वं धर्मसमयं सिद्धिवज्रव्रतं चादाय / पुष्पादिभिर् लास्यादिभिश् चात्मानं संपूज्य / गाथापञ्चकेनानुज्ञां च तु हुंकारम् उद्गताव्याकरणं चादाय पुनः स्वाधिष्ठानादिकं कृत्वा यथाभिरुचितजापं च हुंकारवज्रो ऽहं हुंकारवज्रो ऽहम् इति / स्वनामोच्चारणं कृत्वा वैरोचनमहामुद्रां बद्ध्वा / तन्मन्त्रेण अःकारान्तेन वैरोचनस्थाने तथागतवज्रम् आत्मानम् आवेशयेत् / वज्रो ऽहम् इति वज्राहंकारं विभाव्य / तद् वज्रं वैरोचनं भावयेत् / वज्रधातुर् अहम् इति / एवं यावद् वज्रावेशमहामुद्रां बद्ध्वोत्तरद्वारे तन्मन्त्रेणाःकारान्तेन वज्रघण्टाम् आत्मानम् आवेशयेत् / वज्रघण्टाहम् इत्य् अहंकारम् उत्पाद्य तां वज्रावेशक्रोधो ऽहम् इति भावयेद् एवं वज्रेण साधितं भवति / सत्त्ववज्रांकुशीं बद्ध्वा वज्राचार्यः ततः पुनः कुर्वन् अच्छटासंघातं सर्वबुद्धान् समाजयेत् / ओं वज्रसमाज जः वं होः इति / एकविंशतिवारं प्रवर्तयेत् / ततः शीघ्रं महामुद्रां वज्रक्रोधसमयम् उच्चारयेत् / सकृद् वारं नामाष्टकं शतं उत्तमम् / ततो वज्रांकुशादिभिः स्वद्वारेणाकृष्य प्रवेश्य बद्ध्वा वशी कृत्य यथावच् चतुर्हुंकारेणार्घं दत्वा / श्रीवैरोचनादीन् समयमुद्राभिर् भद्रकल्पिकपर्यन्तान् साधयेत् / स्वमन्त्रम् उच्चार्य वदेत् / जः हुं वं होः समयस् त्वं समयस् त्वम् अहम् /
ततः स्वमन्त्रम् उच्चारयेद् एव सिद्धा भवन्ति //
अथ समयमुद्रा भवन्ति / वज्राद् विकर्षसंभूताः समयाग्रास् तु कीर्तिताः //
तासां बन्धं प्रवक्षामि क्रोधबन्धम् अनुत्तरम् //
बाहुवज्रं समाधाय कनिष्ठांकुशबन्धिता //
त्रिलोकविजया नाम तर्जनी द्वयतर्जनी //
तथैवाग्रा मुखसंगा मणिस् तु प्रविकुञ्चिता //
समोत्थमध्यमा पद्मा तु मध्याग्रद्वयतर्जनी //
तर्जनीद्वयं वज्रं तु दक्षिणांकुचितांकुशी //
तथैवाग्रस्तहुंकाराः साधुकारास् तथैव हि //
द्व्यग्रसंस्था भृकुट्यां तु हृदि सुर्याग्रमण्डला //
प्रसारितभुजा मूर्ध्नि तर्जनी मुखहासिनी //
तर्जनी नखसंसक्ता कोशमुष्टिस् तु दक्षिणा //
सममध्यगुण्ठचक्रा तु मुखतः प्रतिनिःशृता //
तर्जनीमध्ये वज्रा तु ग्रीवावेष्टिततर्जनी //
अग्रादिकमहादम्ष्ट्रा ग्रस्ताग्रावज्रमुष्टिता // इति /
लास्यादीनां तु वज्रधातु उक्ता एव हुंकृता / तद्यथा / वज्रबन्धं बद्ध्वा हृदयं तु समांगुष्ठा //
सुप्रसारितमालिनी //
अञ्जल्यग्रमुखोद्धान्ता नृत्यतो मूर्ध्नि संयुता //
वज्रबन्धं त्व् अधोदानात् स्वञ्जलिश् चोर्ध्वदायिका //
समांगुष्ठा निपीडा च सुप्रसारितलेपना //
एकतर्जनी संकोचा द्व्यंगुष्ठग्रन्थिबन्धिता //
अंगुष्ठाग्रकटाबन्धा वज्रमुष्ट्यग्रसंधिता //
हृदयमण्डले पञ्चसूचिकवज्रं विचिन्त्य / हुंकारम् एवोच्चारयता सर्वमुद्रा बन्धनीया /
अथ मुद्राया नियमो भवति / वैरोचनवज्रहुंकाररत्नहुंकारधर्महुंकारकर्महुंकारस्थाने च / अथ रत्नहुंकारादीनां मन्त्राणि भवन्ति /
ओं वज्रभृकुटीक्रोधानय सर्वरत्नानि ह्रीः फट् / ओं वज्रदृष्टिक्रोध दुष्टान् मारय हुं फट् / ओं वज्रविश्वक्रोध कुरु सर्वविश्वरूपया साधय हुं फट् /
अन्यमुद्राः सत्त्ववज्रीम् आरभ्य द्रष्टव्याः / तथा हि सर्वविद्योत्तमानां विजयमन्त्रेत्युक्तम् / सवज्रहुंकारमुद्रासंग्रहश् च भगवान् वज्रहुंकारो पठ्यते / न चान्या वज्रहुंकारा भवतुम् अर्हन्ति / सर्वतन्त्रेषु वज्रहुंकारा निर्दिष्टेति // तद् अनु तथैव जिह्वायां वज्रं न्यस्य यथाक्रमेण बुद्धवज्रधरादीनां धर्माक्षराणि न्यस्येत् / एतानि च तानि /
हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः / ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वतः / हुं सत्त्ववज्र्याः / त्रः रत्नवज्र्याः / ह्रीः धर्मवज्र्याः / अः कर्मवज्र्याः / हुं हे त्रां त्रं हि ह्रीः देः हः / इति वज्रसत्त्वादीनाम् / महारते हुं / रूपशोभे हुं / श्रोत्रसौख्ये हुं / सर्वपूज्ये हुं / प्रह्लादिनि हुं / फलागमे हुं / सुतेजाग्रि हुं / सुगन्धाग्रि हुं / आपाही जः हुं / आहि हुं हुं हुं / हे स्फोट वं हुं / घण्ट अः अः हुं / इति / वज्रलास्यादीनां वज्रावेशपर्यन्तानाम् इति /
तदनन्तरम् अःकाराणि हृदि विश्ववज्रान् निष्पाद्य कर्ममुद्राम् बध्नीयात् / तत्रेमाः क्रोधमुष्टिद्विधाकृत्य / वामवज्रांगुली ग्राह्या दक्षिणेन समुत्थिता //
बोध्यग्रि नाम मुद्रेयं बुद्धबोधिप्रदायिका // सगर्वोत्कर्षनं द्वाभ्यां वज्रहुंकारवज्रसत्त्वसत्त्ववज्रीणाम् /
अंकुशग्रहनसंस्थिता वाणघटनयोगा च //
साधुकारं हृदि स्थिता अभिषेकं द्विवज्रं तु //
रत्नहुंकारवज्रभृकुटिक्रोधरत्नवज्रीणाम् / हृदि सूर्यप्रदर्शनं वामस्थबाहुदण्डा च //
तथास्य परिवर्तिता सव्यापसव्यविकोच //
धर्महुंकारवज्रधर्मधर्मवज्रीणाम् / हृद्वामा खड्गधारिणी अलातचक्रभ्रमिता //
वज्रद्वयमुखोत्थिता वज्रनृत्यभ्रमोन्मुक्ता //
कपोतोष्णीषसंस्थिता // कर्महुंकारवज्रकर्मकर्मवज्रीणां, / कवचकनिष्ठादम्ष्ट्राग्रा मुष्टिद्वयनिपीडिता //
वज्रगर्वप्रयोगेण नमेद् आशयकम्पितैः //
मालबन्धा मुखोद्धान्ता नृत्यतो मूर्धनि संस्थिता //
अधःक्षेपोर्द्ध्वप्रक्षेपा समांगुष्ठनिपीडिता //
गन्धलेपनयोगाच् च पूजामुद्रा प्रकीर्तिता //
तर्जन्यंकुशबन्धेन कनिष्ठाया महांकुशी //
बाहुग्रन्थिकटाग्राभ्यां पृष्ठयोश् च निपीडिता // इति / द्वारपालमुद्राः / सर्वाश् च कर्ममुद्रा नृत्योद्भवाः /
ततो यथालेखानुसारतो वैरोचनादीनां महामुद्राबन्धं कुर्यात् / वज्रसत्त्वरत्नधर्मकर्मक्रोधानां या महामुद्रास् ताः सत्त्वरत्नधर्मकर्मवज्रिणाम् अपि वज्राद्यन्तर्गताः स्त्रीरूपधारिण्यश् च ताः / यां यां मुद्रां तु बध्नीयाद् यस्य यस्य महात्मनः /
सर्वमुद्रासमयः /
वामतथागतमुष्टिम् उत्तानं कृत्वा दक्षिणहस्ततर्जन्यंगुष्ठाभ्यां कन्यसाम् आरभ्य विकास्य संपुटाञ्जलिं कुर्यात् / इयं मैत्रेयादीनां समयमुद्रा / विद्या चैषां पूर्वोक्ता / ताम् एव विद्यां तेषां जिह्वासु न्यसेद् इयं तेषां धर्ममुद्राः / अकारेण स्वहृदि विश्ववज्रं निष्पाद्य तेषां लेख्यानुसारतो महामुद्रा बद्ध्वा कर्ममुद्रा भवन्ति /
स्वहृदि पञ्चसूचिकं वज्रं विचिन्त्य लेख्यानुसारत एव तेषां महामुद्रा बध्नीयाः / सैव विद्या सामान्यैवेति / कनिष्ठांगुष्ठबन्धे तु वाममध्यांगुलित्रिके त्रिशूके मध्यशूलं तु वज्रमुद्रापरिग्रहं वज्रविद्योत्तमेयं वज्रशूलेति कीर्तिता /
अतः परं प्रवक्षामि मायावज्रादिसंज्ञिनाम् //
वज्रबन्धं दृढीकृत्य वामवज्रं तु बन्धयेत् //
वज्रमुष्टिर् इति ख्याता सर्ववज्रकुलेष्व् इयम् //
द्विधीकृत्य तु तद् वज्रं सर्वचिह्ननिवेशितम् //
सर्ववज्रकुलानां तु मुद्रासु च निवेशयेत् //
प्रसारिताग्रपृष्ठस्था ज्येष्ठांगुष्ठग्रहाधका //
ओंकारमूर्ध्नि संस्था तु वज्रत्वराप्रतिष्ठिता //
विद्याराजमहामुद्रागणः / प्रसारिताग्रीतापाणिर् हस्तपृष्ठे तथैव च //
मुष्टिसंस्था भुजद्वा च मुखतः परिवर्तिता //
वज्रक्रोधमहामुद्रागणः / वामांगुष्ठसुसंस्था तु मालाबन्धनियोजिता //
दक्षिणेनार्थदायी च खड्गमुद्राग्रमुष्टिगा //
महागनपतिमुद्रागणः / दक्षिणग्रस्तमुसला प्रसारितभुजस् तथा //
दक्षिणज्वाले संदर्श्य वज्रमुष्टिप्रकम्पिता //
दूतमहामुद्रागणः / सगर्वमुखडम्ष्ट्राग्रा दण्डघातप्रयोजिता //
बाहुसंकोचलग्ना च वज्रदक्षिणहारिणी //
चेटमहामुद्रा / अथोमादिमातृगणमुद्रा भवति / वामवज्रबन्धेन त्रिशूलांजं तु पीडयेत् //
अनया बद्धया सम्यक् सिद्ध्येद् विद्योत्तमः स्वयम् //
सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम् //
मुद्राबन्धं प्रवक्षामि समयानां यथाविधि //
चक्रसर्वाग्रसंपीडा घण्टामुद्रा तथैव च //
तथैवौंकारमुद्रा तु सिंहकर्णिपरिग्रहा //
मुद्रा राजनिका ज्वालापरिग्रहा चैव //
प्रभासंग्रहम् एव च //
दण्डमुष्टिग्रहा चैव मुखतः परिवर्तिता //
क्रोधसमयः / फणामुद्रा च माला च वज्रावस्तभ्यनामिका //
मूर्ध्नि स्था चैव गणिका मण्डलवद्वारफणिका //
गणिकासमयाः / बाहुसंकोचवक्त्रा च पृष्ठतः परिवर्तिता //
ज्वालास्फुलिंगमोक्षा च विदारितमुखस्थिता //
दूतसमयाः / द्व्यन्तप्रवेशितमुखी पीड्य चैव प्रपातिनी //
बाहुवेष्टनवेष्टा च सहसाहारिणी तथेति //
चेटासमया इति //
ततो महादेवादिजिह्वासु तद्मन्त्रं न्यस्य / अकारेण स्वहृदि तथैव वज्रं निष्पाद्य / तेषां मुद्रा बद्धाः कर्ममुद्रा भवन्ति / स्वहृदि पञ्चसूचिकवज्रं विभाव्य / महामुद्रा लेख्यानुसारतो बन्धनीय इति /
ततो भगवन्तं वैरोचनं भद्रकल्पिकं बाह्यवज्रकुलानि च वज्ररत्नाभिषेकेनाभिषिञ्च्य / श्रीवज्रहुंकारादीन् पञ्चबुद्धमुकुटवज्रमालापटाभिःषेकैर् अभिषिञ्चेत् / ततो ऽर्घं दत्वा पूजां कुर्यात् / तत्र तावद् रत्नादिमयान् कलशान् पूर्वोक्तलक्षणान् वज्रादिस्वचिह्नकान् वैरोचनादिमन्त्रैर् अष्टोत्तरशतजप्तान् बाह्यमण्डलं बाह्यतो निवेशयेत् / पूर्णकुम्भाश् च वस्त्रयुगलक्षं दशसहस्रकं शतं प्रत्येकम् एकं वा सर्वसामान्यम् / नानाप्रकाराणि वितानानि चतुःकोणे विचित्रपताकावसक्तानि छत्रध्वजपताकाश् च / ओंकारेण श्रीवज्रहुंकारेण च परिजप्य / वज्रस्फरणम् इत्य् अनेन सर्वदेवतान् निर्यातयेत् / पुष्पवृक्षशतं चतुरो वा वृक्षान् सर्वपुष्पाणि च / वज्रानलेन मुद्रायुक्तेन /
ओं वज्रपुष्पे हुं इति च पुष्पमुद्रयाभिमन्त्र्य / सर्वगन्धान् सुवासांश् च विलेपनसुगन्धकान् तथैव वज्रानलेन / ओं वज्रगन्धे हुं इत्य् अनया च गन्धमुद्रायुक्तया कर्पूरागुरुतुरुस्कानि चन्दनादिसंमिश्राणि / तथैव वज्रानलेन ओं वज्रधूपे हुं इत्य् अनया धूपमुद्रासहितया धूपघटिकालक्षं दशसहस्रं शतं यथालाभं वा प्रदीपलक्षं दशसहस्रं शतं सर्वप्रदीपान् प्रदीपवर्तिज्वलितयुक्तं कुण्डं सहस्रं च दशैकं वा / तथैव वज्रानलेन ओं वज्रालोके इत्य् अनया प्रदीपमुद्रायुक्तया परिजप्य / ओं वज्रस्फरणम् इत्य् उदीरयन् निर्यातयेत् / बल्युपहारं च लक्षं दशसहस्रं शतं दशसंख्यां वा स्वस्तिकम् आदितः कृत्वा नानाप्रकाराणि च भक्षाणि / तथैव वज्रानलेन परिजप्य /
अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वाद् इत्य् उदीरयन् निर्यातयेत् / दशवाद्यसहस्राणि सहस्रशतं वाद्यानि दशवाद्यानि वा हुंकारेण वाद्यमुद्राभिर् वज्रमुष्टिभ्यां करांगुलिभिर् वाद्याभिनयदशप्रकाराः / तद्यथा वीणावंशामुरजामुकुन्दाकांसाभेरीमृदंगपटहगुंजातिमिलाभिनयश् चेति / वाद्यनटनर्तककुण्डलमुकुटादिपाजाश् च / ओंकारेणाभिमन्त्र्य / तथा पटावलम्बना कार्या स्रक् चामरविभूषिता / हारार्धहाररचितारचितार्धचन्द्रोपशोभिता / तुरंगहस्तिगोयूथा दातव्याश् च सुकल्पिताः /
तोरणानि च रम्याणि घण्टादिसहितानि च / वज्रस्फरणम् इत्य् अनेन /
ओं वज्रसत्त्वसंग्रहाद् वज्ररत्नम् अनुत्तरं वज्रधर्म गायनैर् वज्रकर्मकरो भवेद् इत्य् उदीरयन् / नृत्यं कृत्वा वज्रलास्याद्यष्टविधपूजाभिः क्रोधमुष्टिद्वययुक्तकर्ममुद्राभिः सर्वमण्डलं पूजयेत् / वज्रमुष्टिद्वयं बद्ध्वा तर्जनीद्वयं प्रसार्य क्रोधमुष्टिद्वयं भवति / पुनर् वज्रकुलमण्डलोक्तषोडशकर्ममुद्राभिर् अपि संपूज्य सर्वक्रोधकुलविज्ञप्तिं कुर्यात् / सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धय इति / ततो बाह्यबलिं दद्याद् उत्तरसाधकं मण्डले प्रतिष्ठाप्य / सलाजं सतिलं साम्भः सभक्तं कुसुमैह् सह सतिलकादिभक्तैश् चाकारादिना परिजप्य / पूर्वदिग्भागम् आरभ्य त्रिक्षेपां गन्धपुष्पधूपदीपार्घं चादाव् अन्ते दद्यात् / तत्र पूर्वं तावन् मण्डलानि कारयेत् / तत आवाहयेत् / ततः समयं दर्शयेत् / अर्घं च दत्वा गन्धादिभिः संपूज्य बलिं दद्यात् / ततो विसर्जयेद् इति /
तत्रेमे मुद्रामन्त्रा भवन्ति / आलीढपदेन स्थितः / प्राङ्मुखो वामवज्रं दर्शयेत् / दक्षिणं कटिदेशे संधार्य तर्जन्यंकुश्यावाहयेत् / तर्जन्य् अंकुशरहिता / शक्रस्य समयमुद्रा /
प्रत्यालीढपदेन स्थित्वावाहनमुद्रायस् तर्जनीं प्रसार्य विसर्जनमुद्रा / अथास्य मन्त्रः / नमो वज्रस्य दिशि वज्रपाणे रक्ष स्वाहा / दक्षिणकरतर्जनी कुण्डलाकारेण कुंचयित्वा मध्यमासूच्यास् तृतीयपर्वे धारयेद् अंगुष्ठकं च करमध्ये / अग्नेर् आवाहनमुद्रा /
आवाहनमुद्राया अंगुष्ठं तर्जनीपार्श्वश्रितम् / अग्नेः समयमुद्रा / अस्या एव मुद्रायाः करमध्ये ऽभिमुखाव् अंगुष्ठतर्जनीनखाव् एकतो योज्यौ विसर्जनमुद्रा /
मन्त्रः /
अग्ने एहि एहि कपिल ज्वल ज्वल दह शिखितो लोल विरूपाक्ष स्वाहा /
याम्याम् अभिमुखो योगी / अभिमुखकरौ कृत्वाभ्यन्तरवज्रबन्धे मध्ये ऽंगुष्ठयुगलं बहिर् अनामिकाद्वयासक्तसूची पुनर् अभ्यन्तरे धारयेत् / यमस्यावाहनमुद्रा / अनामिकाम् पुनर् बाह्यतः सूचीं तथैव कृत्वा / हृदये धारयेत् / समयमुद्रा / अनयैवानामिकासूच्या विसर्जनं भवति /
अस्य / मन्त्रः / यमाय स्वाहा /
नैरृत्याम् अभिमुखः समपदस्थितो दक्षिणकरमुष्टिम् कृत्वा / मध्यमातर्जन्याव् एवम् आकुंच्य धारयेत् खड्गाकारेण संस्थाप्य वामकरं कटिदेशे धारयेत् / वामतर्जनीं कुंचयित्वा / नैरृत्येर् आवाहनमुद्रा /
अस्या एव मुद्राया वामकरं कटिदेशे ऽवस्थितं खड्गमुद्रा / नैरृतेः समयमुद्रा / आवाहनमुद्रायास् तर्जनीम् प्रसार्य विसर्जनमुद्रा / मन्त्रो ऽस्य / सर्वभूतभयंकरम् कुरु कुरु स्वाहा /
वारुण्यां दिशि समपदस्थितो दक्षिणकरतर्जन्यंगुष्ठाव् एकतो योजयेद् वाममुष्टिं हृदि संधार्य वामतर्जन्यंकुशेनावाहयेत् / वरुणस्यावाहनमुद्रा / अस्या एव वामतर्जनीमुष्टियोगतो धारयेत् पाशमुद्रा / आवाहनमुद्रायास् तर्जनीं प्रसार्य विसर्जनमुद्रा / मन्त्रो ऽस्य / तृतृपुट तृतृशिखितोलि विरूपाक्ष स्वाहा /
वायव्यां दिश्य् अभिमुखं स्थित्वा वामकरमध्यमा सूचीमुक्ता तर्जनी कुण्डलाकारेण तृतीयपर्वे संदध्याभिमुखं प्रसारयेद् दक्षिणकरं कटिदेशे संस्थाप्य / कुंचितांगुष्ठेन वायोर् आवाहनमुद्रा / अस्या च्वांगुष्ठं पूर्ववत् संधार्य वायोर् समयमुद्रा / आवाहनमुद्राया अंगुष्ठं प्रसार्य विसर्जनमुद्रा / मन्त्रः / ओं श्वस खाखे खुखः स्वाहा /
कौबेर्यभिमुखं स्थितः करद्वयम् अभिमुखं कृत्वाभ्यन्तरवज्रबन्धं कनिष्ठाद्वयसूचीं तस्याः पृष्ठतो ऽनामिकायुगलं पृथक् संधार्य मध्यमासूचीं वज्राकारेण नामयेत् कुबेरावाहनमुद्रा / अस्या एव मुद्राया मध्यमाद्वयम् अभ्यन्तरवज्रबन्धयोगतो न्यस्य कुबेरस्य समयमुद्रा / आवाहनमुद्राया मध्यमाद्वयं प्रसार्य विसर्जनमुद्रा / मन्त्रो ऽस्य / ओं कुबेराय स्वाहा /
ऐशान्यां दिश्य् अभिमुखं स्थित्वा कराव् एकतो योज्यांजलिं कृत्वा कन्यसानामिकातलवज्रबन्धं कृत्वांगुष्ठयुगलं मध्यमाश्रितं मध्यमासूच्यो बहिर् वज्राकारेण तर्जनीद्वयं न्यस्य तद् एवाकुंच्योपरि परस्परनखासक्तं कुर्याद् ईशानावाहनमुद्रा / अस्या एव तर्जन्यौ पूर्ववद् वज्राकारेण धारयेद् ईशानसमयमुद्रा / आवाहनमुद्रायास् तर्जन्यौ प्रसार्य विसर्जनमुद्रा /
मन्त्रः / ओं जुं जुं शिव स्वाहा /
प्रत्यालीढस्थानस्थो ऽंजल्याकारेण हस्तौ संधार्य / ऊर्ध्वं दृष्ट्वा तर्जनीद्वयांकुश्या ब्रह्मादीनां आवाहनमुद्रा / अस्या एव तर्जनीद्वयं पूर्ववत् संस्थाप्य समयमुद्रा / आवाहनमुद्रायास् तर्जनीद्वयं प्रसार्य विसर्जनमुद्रा / मन्त्रास् तेषाम् / ओं ऊर्ध्वं ब्रह्मणे स्वाहा / ओं सूर्याय ग्रहाधिपतये स्वाहा / ओं चन्द्राय नक्षत्राधिपतये स्वाहा /
समपदं स्थानम् आस्थाय हस्तद्वयम् एकतो योज्याविचलान्योन्य् आंगुल्यग्रा सम्योज्यांगुष्ठौ वर्तुलाकारेणाधोदृष्टिं कृत्वा पृथिव्यादीनां तर्जन्यंकुशाभ्याम् आवाहनम् / तर्जन्यौ पूर्ववद् व्यवस्थाप्य समयमुद्रा / आवाहनमुद्रायाः प्रसारिततर्जनीभ्यां विसर्जनमुद्रा / मन्त्रः / ओम् अधः पृथिव्यै स्वाहा / ओं असुरेभ्यः स्वाहा / ओं नागेभ्यः स्वाहा /
तत आचमनं स्वमन्त्रैर् एव सर्वेषां दत्वा / सशिष्यगणस्य ममाविघ्नं कुरुत कर्मसिद्धिं च मे प्रयच्छ / इत्य् उक्त्वा सर्वान् विसर्जयेद् इति /
अथ सुबाहुपरिपठितगाथाभिर् बलिं दद्यात् /
देवासुराः सर्वभुजंगसिद्धाः //
तार्क्षाः सुपर्णाः कटपूतनाश् च //
गन्धर्वयक्षा ग्रहजातयश् च //
ये केचिद् भूमौ निवसन्ति दिव्याः //
न्यस्तैकजानुः पृथिवीतले ऽस्मिन् //
कृतांजलिर् विज्ञापयामि तांस् तु //
सपुत्रदारैः सह भृत्यसंघैः //
श्रुत्वा इहायान्तु अनुग्रहार्थम् //
ये मेरुपृष्ठे निवसन्ति भूताः //
ये नन्दने ये च सुरालयेषु //
ये चोदयास्ते रविमण्डले च //
नगरेषु सर्वेषु च ये वसन्ति //
सरित्सु सर्वासु च संगमेषु //
रत्नालये चापि कृताधिवासाः //
वापीतटागेषु च पल्वलेषु //
कूपेषु वप्रेषु च निर्झरेषु //
ग्रामघोषेषु सुरकानने वा //
शून्यालये देवगृहेषु ये च //
विहारचैत्यावसथाश्रमेषु //
मठेषु शालासु च कुञ्जराणाम् //
ये भूभृतां चित्रगृहे वसन्ति //
रथ्यासु वीथीषु च चत्वरेषु //
ये चैकवृक्षेषु महापथेषु //
महाश्मशानेषु महावनेषु //
सिंहेभ ऋक्षाध्युषितेषु ये च //
वदन्ति घोरास् महाटवीषु //
द्वीपेषु दिव्येषु कृतालयाश् च //
मेरौ श्मशाने निवसन्ति ये च //
हृष्टाः प्रसन्नाः स्रजगन्धमाल्यम् //
dhūpaṃ baliṃ dxpaṃ vidhiṃ ca bhaktyā //
गृह्णन्तु भुंजन्तु पिबन्तु चेदम् //
इदं च कर्मं सफलं जुषन्तु //
एवं तु कृत्वा ग्रहपूजनं तु //
दिगर्चनं त्व् एकमना प्रकुर्या //
इन्द्रा तु वज्री सह देवसंघैः //
इमां च गृह्णन्तु बलिं विशिष्टम् //
अग्निर् यमो नैरृतिर् भूपतिश् च //
अपां पतिर् वायुधनाधिपतिः //
ईशानभूताधिपतिश् च देवाः //
ऊर्ध्वं तु चन्द्रो ऽर्कः पिता महांश् च [/ देवाः समस्ता भुवि ये च नागाः //
धराधरा गुह्यगणैः समेताः //
प्रतिप्रतित्वेकनिवेदनं तु //
स्वकस्वकाश् चैव दिशासु भूताः //
गृह्णन्तु तुष्टाः सबलाः ससैन्याः //
सपुत्रमित्रस्वजनैः समेताः //
धूपं बलिं दीपं पुष्पविलेपनं च //
भुंजन्तु जिघ्रन्तु पिबन्तु चेदम् //
इदं च कर्मं सफलं जुषन्तु // इति /
तत्रायं सबाह्याभ्यन्तरे बलिप्रदानमन्त्रः / अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वाद् इति /
ततो पस्पृश्य पूर्वद्वाराभिमुखावस्थितः सर्वकर्मिककुण्डमध्ये श्रीत्रैलोक्यविजयमण्डलसर्वदेवतामन्त्रान् उदाहरन् कुसुमैर् निवेश्य / होमविधिना श्रीवज्रहुंकारमन्त्रेणाष्टोत्तरशतं गोघृतेनाहुतिं दद्यात् / श्रीवैरोचनादिमन्त्रैर् अपि वज्रावेशक्रोधपर्यन्तैः सप्तसप्ताहुतिः पुनः /
ततो यथावद् अग्निकुण्डे वैरोचनादीन् पुष्पैर् अवाकृष्य वैरोचनादिमन्त्रैर् आलिखिते मण्डले स्वस्थानेषु निवेशयेत् /
ततः सर्वतथागतान् प्रणम्य /
अहम् अमुकनाम्ना च वज्राचार्यो महातपाः //
शिष्यान् प्रवेशयिष्यामि सर्वसत्त्वहितार्थतः //
अत्र च मण्डलप्रवेशे पात्रापात्रपरीक्षा न कार्या / तत् कस्य हेतोः / सन्ति भदन्तस् तथागताः केचित् सत्त्वा महापापकारिणस् त इदं वज्रहुंकारमण्डलं दृष्ट्वा प्रविष्ट्वा च सर्वापायविगता भविष्यन्ति /
सन्ति भगवन्तः सत्त्वाः सर्वार्थभोजनकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादीष्टाशक्तास् तेषाम् अप्य् अत्र यथाकामकरणीया प्रविष्टानां सर्वाशापरिपूर्तिर् भविष्यति /
सन्ति च भगवन्तः सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया सर्वतथागतमहायानधर्मतानवबोधाद् अन्यदेवकुलमण्डलानि प्रविशन्ति / सर्वाशापरिपूर्तीसंग्रहभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु सर्वतथागतकुलमण्डलेषु शिक्षाभयभीतान् न प्रविशन्ति / तेषाम् अपायमण्डलप्रवेषे यथावस्थितसुखात्मसमयम् एव वज्रहुंकारमण्डलप्रवेशो युज्यते / सर्वरतिप्रीत्युत्तमसुखसौमनस्याभिवर्द्धनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय च / सन्ति च पुनर् भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर् बुद्धबोधिं प्रार्थयन्तो ध्यानविमोक्षादिभिर् भूमिभिर् यत्नतः क्लिष्यन्ते / तेषाम् अत्रैव वज्रहुंकारमण्डलेप्रवेशमात्रेणैव सर्वतथागतत्वम् अपि न दुर्लभम् / किम् अंग पुनर् अन्यसिद्धिर् इति विज्ञापयेत् / ततः शिष्यान् प्रवेशयेत् / तत्र पञ्चशिक्षापदपरिगृहीतेन श्रामणेरकभिक्षुसंवरगृहीतेन वा / आचार्याभिषेकार्हे नाचार्यपादयोः प्रणिपत्यैवं वक्तव्यम् / त्वं मे शास्ता महारतः //
इच्छाम्य् अहं महानाथ महाबोधिनयं दृढम् //
देहि मे समयतत्त्वं संवरं च ददस्व मे // इति / ततो वज्रयक्षपरिजप्तं नीलवस्त्रनिवसनोत्तरीयं वज्रांकुशादिद्वारपालचतुष्टयपरिजप्तं मुखवेष्टनं शिष्यं कृत्वा चतुःप्रणामं कारयेत् /
पुनः पुष्पकरेण शिष्येणाचार्यं पुष्पकरेणैव देशनानुमोदनाध्येषणायाचनां च कृत्वा वक्तव्यम् /
देहि मे संवरं विभो //
समन्वाहरन्तु मां बुद्धा अशेषा मुनिभास्कराः //
अहम् अमुकनाम्ना वई आचार्यसमक्षं स्थितः //
प्रविशामि महागुह्यं बुद्धनाटकसंभवम् //
अवैवर्तिकचक्राद्यं महामोक्षपुरं वरं //
प्रवेश मां महाचार्य सर्वगुह्यकुलोच्चयम् //
ददस्व मे महाभागं अवैवर्त्यभिषेचनं //
ददस्व मे महाचार्य लक्षणस्यानुमोदनं //
अनुव्यञ्जनसंयुक्तं बुद्धकायं मनोरमम् //
ददस्व मे महाचार्य अभिषेकं महाद्भुतम् //
आचार्यो ऽहं भवेन् नित्यं सर्वसत्त्वार्थकारणात् //
तत आचार्येण सर्वकुलविज्ञप्तिः कार्या / अयं एवामुकनाम्ना बोधिचित्तपरिग्रहः //
इच्छते गुह्यचक्रे ऽस्मिन् प्रवेष्टां समयसंवरम् //
तत आचार्येण वक्तव्यम् /
इच्छसे त्वं महात्मन् महागुह्यकुलं शुद्धं रहस्यं परिग्र्ह्णितुम् /
बुद्धं धर्मं च सङ्घं च त्रिरत्नशरणं व्रज //
एतद् बुद्धकुले रम्ये संवरं भवते दृढम् //
वज्रं घण्टा च मुद्रा च त्वया ग्राह्या महामते //
यद् बोधिचित्तं तद् वज्रं प्रज्ञा घण्टा इति स्मृता //
आचार्यश् च गृहीतव्यः सर्वबुद्धसमो गुरुः //
एतद् वज्रकुले शुद्धे संवरं समयोच्यते //
चतुर्दानं प्रदातव्यं त्रिदिवे च त्रिरात्रिके //
आमीषाभयधर्माख्या मैत्री रत्नकुलोच्चये //
सद्धर्मं च त्वया ग्राह्यं गुह्यं त्रियानिकम् //
एतत् पद्मकुले शुद्धे संवरं समयोच्यते //
संवरं सर्वसंयुक्तं परिगृह्णीष्व तत्त्वतः //
पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये //
एतत् पाराजिकाख्याताश् चतुर्दशम् अतः परम् //
न त्याज्यं न च क्षेप्तव्यं मूलापत्तिर् इति स्मृतम् //
त्रिदिवे च त्रिरात्रौ च वर्तितव्यं दिने दिने //
यदा हानिर् भवेद् योगी स्थूलापत्त्यो भविष्यति //
प्राणिनश् च न ते घात्या अदत्तं नैव चाहरेत् //
नाचरेत् काममिथ्यायां मृषा नैव च भाषयेत् //
मूलं सर्वस्यानर्थस्य मद्यपानं विवर्जयेत् //
अक्रियां वर्जयेत् सर्वां सत्त्वार्थं विनयेन च //
साधूनाम् उपतिष्ठेत योगिनां पर्युपासनम् //
त्रिविधं कायिकं कर्म वचसा च चतुर्विधम् //
मनसा त्रिप्रकारं च यथाशक्त्यानुपालयेत् //
मनसा त्रिप्रकारं च यथाशक्त्यानुपालयेत् //
हीनयानस्पृहा नैव सत्त्वार्थं विमुखं न च //
न संसारपरित्यागी न निर्वाणरतिः सदा //
अपमानं न ते कार्यं देवता न च गुह्यके //
न च चिह्नं समाक्रम्यं मुद्रा वाहनम् आयुधम् //
एतत् समयम् इत्य् उक्तं रक्षितव्यं त्वया मते //
तस्यैव चापि वक्तव्यं आचार्य तु शृणुष्व मे //
एवम् अस्तु करिष्यामि यथा ज्ञापयसे विभो //
उत्पादयामि परमम् इत्यादि यावत् सर्वान् स्थापयिष्यामि निर्वृताव् इति / यस् तु संवरं न गृह्णाति तस्य प्रवेशमात्रम् एव दातव्यम् / अद्य त्वम् इत्यादि न ब्रूयाद् आचार्याभिषेकं च न कुर्यात् / ततः / ओं सर्वयोगचित्तम् उत्पादयामीत्य् अनेन / उत्पादयित्वा परमं बोधिचित्तम् अनुत्तरम् //
वज्रम् अस्य प्रतिष्ठाप्य हृदये हृदयेन तु //
सुरते समयस् त्वं होः वज्रसिद्धि यथासुखम् // इत्य् अनेन /
ततस् तं वज्रहुंकारम् अधिष्ठाय गन्धपुष्पादिभिर् अभ्यर्च्य स्रग्विनं सुरभिताननं च कृत्वोत्तमां दक्षिणाम् आदाय बहिः स्थितकलशोदकेनाभिषिञ्च्य / ओं गृह्ण वज्रसमय हुं वं इत्य् अनेन क्रोधतेरिन्तिरीं स्वयं बद्ध्वा शिष्येन बन्धयेत् /
वज्रबन्धं तले कृत्वा छादयेत् क्रुद्धमानसः //
गाढम् अंगुष्ठवज्रेण क्रोधतेरिन्तिरी स्मृता //
ततस् तयैवांगुस्थाभ्यां पुष्पमालां ग्राहयित्वा प्रवेशयेद् अनेन हृदयेन / ओं वज्रसमयं प्रविशामीति / पूर्वद्वारे च वज्रांकुशेन तम् आकर्षयेत् / दक्षिणेन पाशेन प्रवेशयेत् / पश्चिमेन स्फोटेन बध्नीयात् / उत्तरे वज्रावेशेन वेशयेत् / पुनः पूर्वद्वारेण प्रवेश्यैवं वदेत् / अभ्यर्च्य सर्वतथागतकुले प्रविष्टस् तद् अहं तु वज्रज्ञानम् उत्पादयिष्यामि / येन ज्ञानेन सर्वतथागतसिद्धिर् अपि प्राप्स्यसे / किम् अन्या सिद्धिः / न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यम् / मा ते समयो व्यथेद् इति /
ततः स्वयं वज्राचार्यः क्रोधतेरिन्तिरीम् एवं ऊर्ध्वमुखीं बद्ध्वा वज्रं शिष्यस्य मूर्ध्नि स्थाप्यैवं वदेत् / अयं ते समयवज्रो मूर्ध्निं ते स्फारयेद् यदि त्वं कस्यचिद् ब्रूयाः / ततस् तयैव समयमुद्रयोदकं शयथा हृदयेन सत्कृत्य परिजप्य तस्मै वज्रशिष्याय पाययेद् इति / तत्रेदं शयथा हृदयम् / वज्रसत्त्वः स्वयं ते ऽद्य हृदये समवस्थितः //
निर्भिद्य तत् क्षणं यायाद् यदि ब्रूया इमं नयम् //
वज्रोदक / इति / ततः शिष्याय ब्रूयाद् अद्य प्रभ्त्ति ते ऽहं वज्रपाणिर् यद् अहं ब्रूयाम् इदं कुरु तत् कर्तव्यं न च त्वयाहम् अवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरके पतनं स्याद् इति /
तद् अनु अकारं वज्ररश्मिमालायुक्तं स्वहृदि चिन्तयेत् / ततः शिष्यहृदूर्णाकण्ठमूर्ध्निषु चन्द्रमण्डलस्थपञ्चसूचिकं ज्वालावज्रं रत्नं पद्मं विश्ववज्रं च चिन्तयेत् / एभिर् यथाक्रमेण हुं त्रं ह्रीः अः इति /
कपाटोद्घाटनमुद्रया स्वकीयं शिष्यहृदयं चोद्घाट्य स्वहृदयाद् अकारं निश्चार्य शिष्यहृद्गतवज्रमध्ये बुद्ध्या प्रवेश्य सर्वकायम् आपूर्यमाणं चिन्तयेत् / एवं वदेत् / ब्रूहि सरतथागताश् चाधिष्ठन्तां वज्रसत्त्वो मे आविशतु / ततस् वर्तमानेन ब् वज्राचार्येण क्रोधतेरिन्तिरीं बद्ध्वेदम् उच्चारयितव्यम् / अयन् तत् समयवज्रं वज्रसत्त्व इति स्मृतम् //
आवेशयतु ते ऽद्यैव वज्रज्ञानम् अनुत्तरम् //
वज्रावेश अः इति / 10 / 20 / 30 / 40 / 50 / 60 / 70 / 80 / 90 / 100 वारानुच्चार्य नियतम् आविशति /
ततः क्रोधमुष्टिं बद्ध्वा सत्त्ववज्रीमुद्रां स्फोटयेद् इदम् उदीरयेत् /
ओं सुम्भनि सुम्भनि हुं / ओं गृह्ण गृह्ण हुं / ओं गृह्णापय गृह्णापय हुं / ओं आनय होः भगवन् वज्रराज हुं फट् / अः अः अः अः / 10 / 20 / 30 / 40 / 50 / 60 / 70 / 80 / 90 / शतवारान् उच्चारयेत् / भगवता च वज्रवातमण्डल्या च वज्रहुंकारेण रक्तवर्णज्वालाप्रभेणापार्यमाणं चिन्तयेत् / पुनर् अपि यद्य् आवेशो न भवति / ततो घण्टासहितां वज्रावेशसमयमुद्रां बद्ध्वा वामपादेन तस्य दक्षिणपादम् आक्रंयोपर्य् आकाशदेशे वैरोचनं श्रीवज्रहुंकारस्योपरि तस्यैवावेशनाय क्रुद्धहुंकाररश्मिसमूहेनाक्रम्यमाणम् अधस्ताच् च वज्रवातमन्दल्या हुंकारेणोत्थाप्यमानम् एवं पूर्वादिदिक्ष्थितैर् अक्षोभ्यादिभिः / हुं त्रां ह्रीः इति स्वबीजरश्मिव्यूहैः संपात्यमानं चिन्तयंस् तम् आवेशयेत् / हुं वज्रावेश अः शतधो च्चारयेत् /
अथ पापबहुत्वाद् आवेशो न भवति / तदा पापस्फोटनमुद्रया (sdp 294) तस्य पापानि स्फोटयेत् / ततः /
समिद्भिर् मधुरैर् अग्निं प्रज्वाल्य सुसमाहितः //
निर्दहेत् सर्वपापानि तिलहोमेन तस्य तु //
ओं सर्वपापदहनवज्राय स्वाहा / इति दक्षिणहस्ततले कृष्णतिलैः पापप्रतिकृतिं कृत्वा हुंकारं मध्ये विचिन्त्य / तर्जन्यंगुष्ठाभ्यां होमयेत् / ततो होमकुण्डान् निर्गत्य ज्वालाकुलैर् वज्रैस् तस्य शरीरे पापं दह्यमानं चिन्तयेत् / ततः पुनर् वज्रावेशं तथैवं बद्ध्वावेशयेत् / नियतम् आविशति / एवम् अपि यस्यावेशो न भवति तस्याभिषेकं न कुर्याद् इति / आविष्टस्य च पञ्चाभिज्ञादिनिष्पत्तिस् तत् क्षणाद् एव भवति / ततः समाविष्टं ज्ञात्वा पुनः / ओं वज्रसत्त्वसत्त्वसंग्रहादिगीतिम् उच्चार्य / क्रोधमुष्ट्या तथैव सत्त्ववज्रीमुद्रां स्फोटयेत् / स चेद् आविष्टो वज्रसत्त्वक्रोधमुद्रां बध्नीयात् / तदाचार्येण वज्रमुष्टिं क्रोधमुद्रां बध्नियात् / एवं यावत् स चेत् वज्रहासमुद्रां बध्नीयात् / तदा वज्रधर्मक्रोधमुद्रां बन्धयेद् इत्य् एवं सांनिध्यं कल्पयन्ति / ततस् तस्य जिह्वायां वज्रं विचिन्त्य / ब्रूहि वज्र / इति वक्तव्यम् / ततः सर्वं कथयति / ततस् तां मालां महामण्डले क्षेपयेत् / प्रतिच्छ वज्र होः / इति / ततो यत्र पतति सो ऽस्य सिद्ध्यति / ततस् तां मालां तस्यैव शिरसि बन्धयेत् / ओं प्रतिगृह्ण त्वम् इमां वज्रसत्त्व महाबल / इति / ततो मुखबन्धं मुञ्चेद् अनेन /
ओं वज्रसत्त्वः स्वयं ते ऽद्य चक्षूद्घाटनतत्परः //
उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् // इति / हे वज्र पश्य / इति / ततो महामण्डलवज्रांकुशाद् आरभ्य यावद् वैरोचनपर्यन्तं दर्शयेत् / ततस् तिष्ठ वज्रेत्यादिना शिष्यप्रवेशमुद्रां मोक्षयेत् /
ततो बाह्यमण्डलाभ्यन्तरे चन्द्रमण्डलं पूर्वद्वाराभिमुखं संलिख्य बाह्यतो वा शिष्यं श्रीवज्रहुंकारमुद्रया सत्त्ववज्रादिभिश् चाधिष्ठाय महामुद्रया ततः प्रतिष्ठाप्याभिषिञ्चेत् /
गन्धपुष्पादिभिर् अभ्यर्च्यार्घं दत्वा / छत्रध्वजपताकादिभिस् तुर्यशंखनिनादितैश् च /
ततो मअलगाथाभिर् अभिनन्द्यादौ तावद् उदकाभिषेकेन ततो मुद्राभिषेकेन मुकुटपत्टवज्राधिपतिनामाभिषेकैश् चाभिषिञ्चेत् / पुनः पुष्पादिभिर् लास्याद्यष्टविधपूजया च पूजयेत् / शिष्येनाचार्यं वलितवज्रांजलिना प्रणम्योत्तमां दक्षिणां दत्वा पुष्पाद्यभिषेकाश् च ग्राह्या इति / आचार्याभिषेकं तु श्रीवज्रहुंकारमुद्रया तथैव प्रतिष्ठाप्य यथा निर्दिष्टेषु स्थानेषु समयमुद्राभिस् तस्य काये श्रीवज्रहुंकारादीन् न्यस्य / पुनर् अपि अनेनाष्टोत्तरशतसहस्रपरिजप्तं विजयकलशं कृत्वा /
ओं वज्राधिपति त्वाम् अभिषिञ्चामि दृढो मे भव जः हुं वं होः हुं फट् इति / तत इमं चोदीरयन् / ओं वज्राभिषिञ्च / इति चोदकाभिषेकं वज्रमुष्टिनोदकं विजयकलशाद् गिहीत्वा दद्याद् इदं च ब्रूयात् //
इदं ते नारकं वारि समयातिक्रमाद् दहेत् //
समयाभिरक्षात् सिद्धिः सिद्धं वज्रामृतोदकम् //
वज्रघण्टां च मुद्रां च यद्य् अमण्डलिनो वदेत् //
हसेद् वाश्रद्धदानेन जनसंगणिकास्थितः // इति /
ततः सर्वविधिम् अनुष्ठाय नामाष्टशतेन संस्तुत्य गाथापञ्चकेनानुज्ञां दत्वोद्गतन्व्याकरणेन सर्वशिष्यान् सर्वशिष्यान् व्याकुर्याद् इति /
अथ गुह्याभिषेको भवति / आचार्याभिषेकार्हं प्रवेश्य सर्वमण्डलं तु तत् कुरुस्व / इति /
अनेककर्मसंसिद्धिं सिद्धिम्. चापि यथेप्सिताम् //
प्राप्नोति नियतं कृत्स्नाम् अधमोत्तममध्यमाम् //
निर्विघ्नेन परां भूमिं किं पुनः क्षुद्रसिद्धयः //
बुद्धत्वं बोधिसत्त्वत्वं वज्रसत्त्वत्वम् अदुर्लभम् // इति / यस्य सिद्धिर् निर्जायते यस्य पापा महाग्रहाः //
विघ्ना विनायकाश् चापि मृत्यवो मारकायिकाः //
नानाभयशस्त्रैस् तीव्राः सिद्धिकर्मविधारिणः //
ते तस्य नश्यन्ति नापि जायन्ते च महोत्तमा //
होमकर्मविधानेन ध्रुवम् आशु प्रसिद्धयः //
देवताश् च महातुष्टीं प्रलभन्ति क्षणेन च //
ईत्युपद्रवदोषादि दूरं गुरुतरं भृशम् //
नश्यन्ति तत्र देशे ऽस्मिन् व्याधिज्वरग्रहादिकम् //
परचक्रा विनश्यन्ति दुर्भिक्षाश् च सरौरवाः //
देवा नागा महोत्साहाः पालयन्ती सुखेन तु //
चतुरश् च महाराजाः पालयन्ति महर्द्धिकाः //
लोकपालाः सनक्षत्रा यक्षाश् चापि ग्रहादिकाः //
अथ शक्रब्रह्मादयो देवाः प्रणिपत्य मुहुः //
पूजां नानाविधां कृत्वा रत्नछत्रादिभिर् वराम् //
वज्रपाणिं जिनाधृष्टं संस्तुवुर् मुदिताश्रयाः //
सर्वबुद्धादिसंबुद्धं सर्वाज्ञानमलापहम् //
वज्रवज्रधरो राजा वज्रवज्रसवज्रधृक् //
वज्रकायो महाकायो वज्रपाणिर् नमो नमः //
वज्रवज्राग्रवज्राग्रो वज्रज्वालो महाज्वलः //
वज्रावेशो महावेशो वज्रायुधो महायुधः //
वज्रपाणिर् महापाणिर् वज्रवाणः सुवेधकः //
वज्रतीक्ष्णो महातीक्ष्णो महामहान् महोदधिः //
वज्रपद्मो महाबोधो बौधिबुद्धः स्वयं भुवः //
वज्रोदारो महोदारो वज्रमायाविशोधकः //
वज्रहेतुर् महायक्षो वज्रपद्मविशोधकः //
वज्रक्रोधो महाचण्डो वज्रारिदुष्टहा विभुः //
वज्रभीमो महारक्षो वज्रांकुशश् चामोघकृत् //
वज्रवेतालो वेतालो वज्रराक्षसभक्षकः //
वज्रयक्षो महायक्षो वज्रग्रहो ग्रहोत्तमः //
भीषणो रौद्रो रुद्रो भैरवभीकरः //
असाध्यः साधकः साधुः वज्रसाधुप्रहर्षकः //
वज्रप्रीतिर् महाप्रीतिर् वज्रायुधवशं करः //
वज्रतेजो महातेजो ज्वालाप्रभयमान्तकृत् //
वज्रघोरो महाघोरो घनप्रभो महाघनः //
आकाशसमसर्वाशः सर्वाशापरिपूरकः //
वज्राभिषेकतत्त्वाग्रो वज्रध्वजो गुणोदधिः //
वज्रज्ञानं महाज्ञानं विद्याकोटिगणार्चितः //
हालाहलमहाकालः कोलाहलविलासकः //
वज्रकामो महाकामः कषायकरिनाशकः //
वेलाचपलदोलाग्रो विद्युज्जिह्वास्फुरद्मुखः //
वज्रानलो प्रचण्डास्यश् चन्दप्रद्योतद्योतकः //
सहस्रसूर्यप्रभास्यो लोहिताक्षो भयानकः //
क्रोधानेकस्फरद्रश्मिर् भुजानेकशतायुधः //
मुखानेकसहस्रांगः कुटिलः कुटिलांगकः //
अनंगश् चित्तधर्मात्मा विकल्पाशेषवर्जितः //
अविद्याघातको ब्रह्मा रागद्वेषमलान्तकः //
रागो द्वेषो महामोहो भवाभवविशोधकः //
शान्तो दान्तो महाशुद्धो बुद्धो बुद्धप्रबोधकः //
बुद्धात्मा बुद्धरूपी च वज्रसत्त्वः सुवज्रजः //
समन्तभद्रो महाभद्रः सर्वलक्षणलक्षितः //
सर्वधातुमयो व्यापी सर्ववज्रमयः शुचिः // इति / येन लिखेत् पठेद् वापि धारयेद् अर्थतः सदा //
स्मरेत् शृणुयाद् वापि वज्रपाणिसमो भवेत् // इति /
इदम् अवोचद् भगवान् आत्तमनः / शक्रब्रह्मादिदेवपर्षत् सदेवमानुषासुरगन्धर्वयक्षसादिभिर् हितसुखप्राप्तये भगवतो भाषितम् अभ्यनन्दन् इति //
आर्यसर्वदुर्गतिपरिशोधनतेजोराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य कल्पैकदेशः समाप्तः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
