Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
सर्वदुर्गतिपरिशोधनतन्त्र
- Thông tin
- GRETIL — Tadeusz Skorupski: The Sarvadurgatiparisodhana Tantra, Elimination of All Destinies, Sanskrit and Tibetan Texts with Introduction, English Translation and Notes. Delhi 1983.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सर्वदुर्गतिपरिशोधनतन्त्र
इ
ओं नमः श्रीवज्रसत्त्वाय /
एवं मया श्रुतम् एकस्मिन् समये भगवान् सर्वदेवोत्तमनन्दवने विहरति स्म / मणिसुवर्णशाखालताबद्धवनस्पतिगुल्मौषधिकमलोत्पलकर्णिकारबकुलतिलकाशोकमान्दारवमहामान्दारवादिभिर् नानाविधैः पुष्पैर् उपशोभिते / कल्पवृक्षसमलंकृते / नानालंकारविभूषिते / नानापक्षिगणकूजिते / तूर्यमुकुन्दवेणुभेरीप्रभृतिप्रणदिते / शक्रब्रह्मादिदेवाप्सरोभिर् नानाविधाभिर् विक्रीडिते / सर्वबुद्धबोधिसत्त्वाधिष्ठिते / सर्वशक्रब्रह्मादिदेवविद्याधरदेवाप्सरःपर्षत्कोटीनियुतशतसहस्रैर् अनेकयक्षराक्षसासुरगरुडगन्धर्वकिन्नरमहोरगनागादिपर्षद्भिर् नानाविधाभिर् महाबोधिसत्त्वकोटीशतसहस्रैर् अष्टाभिः /
तद्यथा /
प्रतिभानमतिना च बोधिसत्त्वेन महासत्त्वेन / अचलमतिना च / विपुलमतिना च / समन्तमतिना च / अनन्तमतिना च / असमन्तमतिना च / कमलमतिना च / महामतिना च / दिवामतिना च / विविधमतिना च / अशेषमतिना च / समन्तभद्रेण च / एवं प्रमुखैर् अवैवर्तिकबोधिसत्त्वमहासत्त्वसंघैर् अनन्तापर्यन्तैः सत्कृतः / गुरुकृतो ऽर्चितः पूजितः सुप्रकृष्टो महापर्षद्गणमध्ये महाब्रह्मा पद्मासने निषण्णः सर्वदुर्गतिपरिशोधननामसमाधिं समापन्नः समनन्तरम् एवापायत्रयसन्ततिविमोक्षकनाममहाबोधिसत्त्वरश्मिस्फरणसंहरणानेकमाला स्वोर्णाकोशान्निश्चचार / तेन त्रिसहस्रमहासहस्रलोकधातुर् अवभासितः / तेनावभासेन सर्वसत्त्वाश् चित्तक्लेशबन्धनान् मोचयित्वा पृथक् पृथक् संप्रापितो नन्दवनं च समन्तादवभासयित्वा / (sdp 122) नानापूजामेघैः पूजयित्वा शतसहस्रं प्रदक्षिणीकृत्य शिरसा वन्दित्वा भगवतः पुरस्ताद् विमलासनेर् उपरि निषद्यैवम् आहुः अहो बुद्ध अहो बुद्धस्य धर्मशोभनम् //
तत् कस्य हेतोः //
अस्माकं दुर्गतिपरिशोधनम् //
बोधिसत्त्वचर्याप्रतिष्ठापनञ् च //
अथ देवेन्द्रो भगवन्तं शतसहस्रं प्रदक्षिणीकृत्य वन्दित्वा भगवन्तम् एतद् अवोचत् / भगवन् केन कारणेन बुद्धरश्मिसमन्तावभासेन दुर्गतिसमन्तान् मोचयित्वा विमुक्तिमार्गे प्रतिष्ठापिता आश्चर्यं सुगत / भगवान् आह / नेदं देवेन्द्राश्चर्यं बुद्धानां भगवतां सूपचिताप्रमाणपुण्यसंभाराणाम् /
देवेन्द्र सम्यक्संबुद्धा अपरिमितगुणरत्नाकरभूताः / देवेन्द्र सम्यक्संबुद्धानाम् अप्रमाणोपायाः पर्मिष्पन्नाः / देवेन्द्र बुद्धानां भगवताम् अपरिमिता प्रज्ञोपचिता / देवेन्द्र बुद्धानाम् अप्रमाणा वीर्या / बुद्धेन भगवताप्रमाना विनेयजना भाजनीभूताः कृताः / असमसमज्ञानाभि बुद्धा भगवन्तो ऽसमसमर्द्धिसमन्वागताः / भगवन्तो ऽसमसमप्रणिधानसमन्वागताः / तस्माद् देवेन्द्र बुद्धानां भगवतां यथा भाजनं तथा सत्त्वार्थकरणञ् च / यथा विनेयं तथा सत्त्वानाम् अर्थकरणञ् च / यथाभिप्रायं तथा सत्त्वार्थकरणं भवतीति / ज्ञातव्यम् इत्य् अत्र संशयशङ्काविमतिर् न कर्तव्या / तथागतवैनेयं न भवतीति नेदं स्थानं विद्यते /
अथ देवेन्द्रः स्वकीयाद् आसनाद् उत्थाय पुनर् अपि भगवतो विपुलां महतीं पूजां कृत्वा भगवन्तम् एतद् अवोचत् / सर्वसत्त्वानां हितकरणायानुकम्पाकरणाय शरणकरणाय समहाकृपाकरणाय सर्वाशापरिपूरणकरणाय भगवन् मम प्रतिभानम् उत्पादय सुगत मम प्रतिभानम् उत्पादय / भगवन् (sdp 124) इतस् त्रयस्त्रिंशद्देवनिकायाद् विमलमणिप्रभनाम्नो देवपुत्रस्य च्युतस्य कालगतस्य सप्तदिवसा अभूवन् / भगवन् स कुत्रोपपन्नः सुखं दुःखं वानुभवति / इदं भगवन् व्याकुरु सुगत व्याकुरु / भगवान् आह / देवेन्द्र प्राप्तकालसमयं ज्ञात्वा श्रोष्यसि / देवेन्द्र आह / भगवन् अयं कालः / अयं समयः सुगत / भगवान् आह / देवेन्द्र विमलमणिप्रभनामदेवपुत्र इतश् च्युत्वावीचौ महानरक उत्पन्नस् तत्र द्वादशवर्षसहस्राणि तीव्रं कटुकं दुःखम् अनुभवति / पुनर् अल्पनरके दशवर्षसहस्राणि दुःखम् अनुभवति / पुनर् अपि तिर्यक्प्रेतेषूत्पन्नो दशवर्षसहस्राणि दुःखम् अनुभवति / पुनर् अपि प्रत्यन्तजनपदेषूत्पन्नो बधिरमूकाव्यक्तस्वभावताम् अनुभवति षष्टिवर्षसहस्राणि / पुनर् अपि चतुरशीतिवर्षसहस्राणि व्याधिरक्तातिसारकुष्ठविघातपीडितश् च बहुजननिन्दितो ऽशेषपरित्यक्तो हीनकुलो भवति / दुःखदुःखपरंपरां न विच्छेदयति / अन्येषाम् अप्य् अहितं करोति / नानाकर्मावरणानि चाविच्छेदेन करोति / पुनर् अप्य् अन्योन्यदुःखपरंपराम् अनुभवति /
अथ खलु शक्रादयः सर्वदेवपुत्राः श्रुत्वा भ्रान्तास् त्रस्ताः खिन्ना अधोमुखं पतिताः / पुनर् उत्थायैवम् आहुः / कथं भगवन् तस्माद् दुःखपरंपरातो मुच्यते / कथं सुगत मुच्यते / केनोपायेन भगवन् दुःखराशेः तस्मान् मुच्यत इति / परित्रानं कुरु भगवन् / परित्राणं कुरु सुगत / भगवान् आह / देवेन्द्र चतुरशीतिबुद्धकोटिभिर् भाषितम् इदम् अहम् अपि भाषे शृणु / अथ खलु देवेन्द्रः पुनर् अपि भगवन्तं मान्दारवमहामान्दारवपुष्पैर् नानाविधैर् रत्नमुकुटकेयूरकर्णालंकारहारार्धहाराद्यनेकालंकारविशेषैर् अभ्यर्च्यानेकशतसहस्रवारं प्रदक्षिणीकृत्य प्रणम्य साधु भगवन् साधु सुगतेति / साधुकारेण हर्षयित्वा सदेवकस्य लोकस्य हितसुखकरणायानागतानां सत्त्वानाम् अपायसन्ततिविमोक्षणाय सुभाषितार्थं विज्ञापयामि / अथ पुनर् अपि ब्रह्मादयो देवगणा (sdp 126) एवम् आहुः / साधु भगवन् साधु सुगत येनानागतानां सत्त्वानां नाममात्रम् अपि श्रुतवताम् अपायत्रयमार्गविमोक्षो भवति / स्वर्गदेवलोके वा मनुष्यलोके चोत्पन्नानाम् अनुत्तरसम्यक्संबोधिप्राप्त्यर्थं भाषतु /
अथ खलु भगवान् शक्रब्रह्मादिदेवपुत्राणां सर्वतथागतहृदयेनाधिष्ठानार्थम् अमोघवज्राधिष्ठाननामसमाधिं समापन्नः /
ओं वज्राधिष्ठानसमये हुं /
एवञ् च समाधिं समापन्नो ऽनभिभवनीयवज्राधिष्ठानेनाधिष्ठायेदं सर्वदुर्गतिपरिशोधनराजनामतथागतहृदयं निश्चारयाम् आस /
ओं शोधने शोधने सर्वपापविशोधनि शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा /
अस्या विद्याया भाषणानन्तरम् एव सर्वसत्त्वानां दुर्गतिर् विनिपातिता सर्वनरकतिर्यक्प्रेतगतिः शोधिता /
तीव्रदुःखानि प्रशान्तानि बहवश् च जाताः सुखीमुखीभूताः / पुनर् अपरं गुह्यहृदयम् अभाषत /
ओं शोधने शोधने शोधय सर्वापायान् सर्वसत्त्वेभ्यो हुं पुनर् अपरं देवेन्द्रेदं सर्वतथागतहृदयं /
ओं सर्वापायविशोधनि हुं फट् /
पुनर् अपरं देवेन्द्रेदं सर्वतथागतहृदयोपहृदयम् /
ओं त्राट् /
पुनर् अपरं देवेन्द्र सर्वदुर्गतिपरिशोधनहृदयम् / हुं / पुनर् अपरं देवेन्द्र संक्षेपतः स्मरणमात्रेणाप्य् अल्पपुण्यसत्त्वानां सर्वदुर्गतिशान्तिकरणायानायासतो विमोक्षणकरम् इदं भवति /
ओं नमो भगवते सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय / तद्यथा /
ओं शोधने शोधने सर्वपापविशोधनि शुद्धे विशुद्धे सर्वकर्मावरणविशोधनि स्वाहा / मूलविद्या / (sdp 128) ओं सर्ववित् सर्वावरणानि विशोधय हन हुं फट् / ओं सर्वविद् हुं / ओं सर्वविद् ह्रीः फट् / ओं सर्वविद् अः / ओं सर्ववित् त्रां त्राट् / ओं सर्वविद् ओं / ओं सर्वविद् धीम् / ओं सर्वविद् हुं / ओं सर्ववित् क्रीं त्रट् / ओं सर्वविद् महावज्रोद्भवदानपारमितापूजे हुं / लास्याया मन्त्रः / ओं सर्वविद् महावज्रोद्भवशीलपारमितापूजे त्रां / मालाया मन्त्रः / ओं सर्वविद् महावज्रोद्भवक्षान्तिपारमितापूजे ह्रीः / गीताया मन्त्रः / ओं सर्वविद् महावज्रोद्भववीर्यपारमितापूजे अः / नृत्याया मन्त्रः / ओं सर्ववित् सर्वापायविशोधनि धम धम ध्यानपारमितापूजे हुं हुं फट् / धूपाया मन्त्रः / ओं सर्ववित् सर्व दुर्गतिपरिशोधने क्लेशोपक्लेशच्छेदनि पुष्पालोकिनि प्रज्ञापारमितापूजे त्रां हुं फट् / पुष्पाया मन्त्रः / ओं सर्ववित् सर्वापायविशोधनि ज्ञानालोककरि प्रणिधिपारमितापूजे ह्रीः हुं फट् / दीपाया मन्त्रः / ओं सर्ववित् सर्वापायगन्धनाशनि वज्रगन्धोपायपारमितापूजे अः हुं फट् / गन्धाया मन्त्रः / ओं सर्वविद् नरकगत्याकर्षणि हुं जः फट् / वज्राङ्कुशस्य मन्त्रः / ओं सर्वविद् नरकोद्धरणि हुं हुं फट् / वज्रपाशस्य मन्त्रः / ओं सर्ववित् सर्वापायबन्धनमोचनि हुं वं फट् / वज्रस्फोटस्य मन्त्रः / ओं सर्ववित् सर्वापायगतिगहनविशोधनि हुं होः फत् / वज्रावेशस्य मन्त्रः / ओं मैत्रीयहरणाय स्वाहा / मैत्रेयस्य मन्त्रः / ओं अमोघे अमोघदर्शिनि हुं / अमोघदर्शिनः / ओं सर्वापायजहे सर्वापायविशोधनि हुं / सर्वापायजहस्य/ ओं सर्वशोकतमोनिर्घातनमति हुं /
सर्वशोकतमोनिर्घातनमतेः / ओं गन्धहस्तिनि हुं / गन्धहस्तिनः / ओं शूरंगमे हुं / शूरंगमस्य / ओं गगने गगनलोचने हुं / गगनगञ्जस्य / ओं ज्ञानकेतो ज्ञानवति हुं / ज्ञानकेतोः / ओम् अमृतप्रभे अमृतवति हुं / अमृतप्रभस्य / ओं चन्द्रस्थे चन्द्रव्यवलोकिनि स्वाहा / चन्द्रप्रभस्य / ओं भद्रवति भद्रपाले / भद्रपालस्य / ओं जालिनि महाजालिनि हुं / जालिनीप्रभस्य / ओं वज्रगर्भे हुं / वज्रगर्भस्य / ओम् अक्षये हुं हुं अक्षयकर्मावरणविशोधनि स्वाहा / अक्षयमतेः / ओं प्रतिभाने प्रतिभानकूटे स्वाहा / प्रतिभानकूटस्य / ओं समन्तभद्रे हुं / समन्तभद्रस्य /
एते भद्रकल्पिकस्य बोधिसत्त्वस्य मन्त्रान् यथाक्रमम् उच्चारयेत् /
अनेन यथोक्ततन्त्रानुसारानुक्रमेण विधानेन प्रत्यहं प्रभातकाल उत्पत्तिक्रमेण भावयमानो भावयेत् / देवतायोगं समाधित्रयम् उत्तमं यत्नतो दुर्गतिपरिशोधनसिद्धिर् भवति / पुनर् अपरं देवेन्द्र सर्वदुर्गतिपरिशोधनतेजोराजस्य तथागतस्य गुह्यहृदयम् इदम् / कुलपुत्रो वा कुलदुहिता वा यः कश्चिद् नाममात्रं शृणोति धारयति वाचयति लिखित्वा च शिरसि शिखायां वा बाहौ ग्रीवायां वा बद्ध्वा धारयति तस्येहैव जन्मन्य् अष्टाव् अकालमरणानि न्मरणसंबन्धस्वप्नप्रकारा (sdp 132) वा दुर्गतिनिमित्तानि वा तानि सर्वाणि स्वप्नमात्रतो नोपसर्पन्ति / मण्डलञ् च यथावत् प्रवेश्याभिषिक्तो हृदयञ् च जप्त्वा मन्त्रार्थं ये केचिद् भावयन्ति कः पुनर् वादस् तेसां यानि कानिचित् पापानि न निकटीभवन्तीति न दुर्गतिं गच्छन्तीति / पुरुषस्त्रीदेवनागयक्षराक्षसप्रेततिर्यग्नरकादीनां येषां केषाञ्चित् मृतकायेषु मण्डलं प्रवेश्याभिशिक्तेषु ते नरकेषूत्पन्नाः समनन्तरम् एवं विमुच्यन्ते देवनिकायेषूत्पद्यन्ते / तत्रोत्पन्नाः सन्तः सर्वतथागतानां धर्मताम् अभिमुखीकुर्वन्त्य् अवैवर्तिकाश् च भवन्ति / सन्ततिश् च नियता भवति / सर्वतथागतकुले प्रजाताश् च भवन्ति / प्रहीणावरणाश् च / सर्वतथागतकुलेषु देवकुलेषु वान्यस्मिन् वा सुखम् अनुभवन्ति / देवेन्द्र संक्षेपतो लौकिकलोकोत्तरसर्वहितसुखम् अनुभवन्ति /
अथ देवेन्द्रो भगवन्तं पूर्ववत् प्रदक्षिणीकृत्य वन्दित्वैवम् आह / भगवन् सर्वदुर्गतिवशीभूतानां हितसुखकरणाय यथासत्त्वैः सर्वदुर्गतिपृष्ठीकरणायानायासतो ऽनुत्तरसम्यक्संबोध्यधिगमार्थं धर्मं देशयतु /
अथ खलु भगवान् शाक्यमुनिः सर्वदुर्गतिपरिशोधनज्ञानवज्रनामसमाधिं समापद्य सर्वतथागतसर्वदुर्गतिपरिशोधनतेजोराजनाममण्डलम् अभाषत /
तत्साधनं शाक्यनाथेन भाषितम् /
प्रथमं तावद् योगी विजने मनो ऽनुकूलप्रदेशे मृदुसुकुमारासने निषण्णः सुगन्धेन मण्डलं कृत्वा पञ्चोपहारपूजा करणीया / ततः सर्वधर्मनैरात्म्यं भावयित्वा / आत्मानं हुंकारेण वज्रज्वालानलार्कं भावयेत् / तस्य कण्ठे ह्रीःकारेण पद्मं तस्योपरि दलाग्र आकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रम् / तद् वज्रं जिह्वायां रीणं भवति / वज्रजिह्वेति / तेन वज्रजिह्वा भवति / मन्त्रजापक्षमो भवेत् / हस्तद्वयस्य मध्ये सिताकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रम् / तद् वज्रं करमध्ये निलीयते वज्रहस्तो भवति /
सर्वमुद्राबन्धक्षमो भवेत् / ततो रक्षाचक्रभावना कर्तव्या /
ओं गृह्ण वज्रसमये हुं वम् / इति ब्रुवन् क्रोधतेरिन्तिरीं बध्नीयात् / वज्रबन्धं तले कृत्वा च्छादयेत् क्रुद्धमानसः // गाढम् अङ्गुष्ठवज्रेण क्रोधतेरिन्तिर् स्मृता //
ततो वज्रार्धासननिषण्णो वज्रतेरिन्तिरीं बद्ध्वा वज्रमालाभिषेकं गृह्णीयात् /
ओं वज्रज्वालानलार्क हुं अभिषिञ्च माम् इति /
वज्रबन्धे ऽङ्गुष्ठद्वयं सहितोत्थितं वज्रबन्धस्योपरि श्लिष्ठं धारयेत् / वज्रतेरिन्तिरी /
ओं टुं इति / अनेन द्व्यक्षरकवचेन कवचयित्वा / ओं वज्रज्वालानलार्क हुं इत्य् उदीरयेत् /
वामवज्रमुष्टिं हृदये कृत्वा दक्षिणवज्रमुष्टिम् उल्लालयन् सर्वविघ्नान् हन्यात् /
ततो वज्रानलेन मुद्रासहितेन विघ्नदहनादिकं कुर्यात् /
ओं वज्रानल हन दह पच मथ भञ्ज रन हुं फट्
इत्य् उदीरयेत् / अभ्यन्तरवज्रबन्धे ऽङ्गुलिज्वालागर्भे ऽङ्गुष्ठवज्रम् उत्थितम् इयं वज्रानलमुद्रा /
तद् अनु / वज्रनेत्रि बन्ध सर्वविघ्नान् इति / मुद्रायुक्त्या सर्वविघ्नबन्धं कुर्यात् / वज्रबन्धं बद्ध्वाङ्गुष्ठद्वयं प्रसार्य समं धारयेत् / वज्रनेत्रिमुद्रा /
प्रसारितवज्रबन्धं भूम्यां प्रतिष्ठाप्याधोबन्धं कुर्यात् /
ओं वज्र दृढो मे भव रक्ष सर्वान् स्वाहा /
वज्रभैरवनेत्रेण मुद्रासहितेनोर्ध्वबन्धं कुर्यात् /
ओं हुलु हुलु हुं फत् / इति /
वज्रमुष्टिद्वयं बद्ध्वालातचक्रं भ्रामयित्वा शिरसोपरि तर्जन्यङ्कुशाकारेण धारयेत् / वज्रभैरवनेत्रमुद्रा / तस्याधस्ताद् वज्रयक्षेण मुद्रासहितेन पुनर् बन्धं कुर्यात् /
ओं वज्रयक्ष हुं इति / वज्राञ्जलेर् अङ्गुष्ठद्वयं प्रसारितं तर्जनीद्वयं दम्ष्ट्रा / वज्रयक्षमुद्रा /
वज्रोष्णीषेण मुद्रायुक्तेन पूर्वां दिशं बन्धयेत् /
ओं द्रुं बन्ध हं इति / द्रुं ऽइति वा /
वज्रमुष्टिद्वयं कन्यसाश्र्ङ्खलाबन्धेन तर्जनीद्वयसूचीमुखं परिवर्तोष्णीषे स्थापयेत् / वज्रोष्णीषमुद्रा /
पुनर् वज्रपाशेन ताम् एव बन्धयेत् /
हुं वज्रपाशे ह्रीः इति / वज्रमुष्टिद्वयेन बाहुग्रन्थिं कुर्यात् / वज्रपाशमुद्रा /
वज्रपताकया पश्चिमां दिशं बन्धेत् /
ओं वज्रपताके पतंगिनि रटेति / वज्रबन्धे ऽङ्गुष्ठसत्त्वपर्यङ्कसूचीं कृत्वाग्रासमानामाविदारितान्त्यपटाग्री / वज्रपताकायाः /
दिग्विदिक्ष्व् अध ऊर्ध्वञ् च विघ्ननिकृन्तनं कुर्यात् / वज्रकाल्योत्तरां दिशं बन्धेत् /
ह्रीः वज्रकालि रुट् मट् / इति / वज्रयक्षमुद्राम् एव मुखे दृढीकृत्य वज्रकाल्याः / वज्रशिखरया दक्षिणां दिशं बन्धेत् /
ओं वज्रशिखरे रुट् मट् / इति / वज्रमुष्टिद्वयेन पर्वतोत्कर्षणाभिनयाकारं वज्रशिखरायाः /
वज्रकर्मना मण्डलबन्धं कृत्वा प्राकारं दद्यात् /
हुं वज्रकर्मेति / पुनर् अभ्यन्तरप्राकारं वज्रहुंकारेण हुं इति / वज्रमुष्टिद्वयं बद्ध्वा बाहुवज्रं समाधाय कनिष्ठाङ्कुशबन्धिता त्रिलोकविजयनामतर्जनीद्वयं तर्जनी / वज्रहुंकारस्य / इयम् एव मध्याग्रद्वयं वज्रं वज्रकर्मणः /
ततो वज्रचक्रमुद्रया सर्वदुर्गतिपरिशोधनमन्ण्डलं पुरतो निष्पादयेत् /
ओं वज्रचक्र हुं / इति /
वज्रमुष्टिद्वयं बद्ध्वा द्व्यग्रान्त्यावज्रबन्धनात् //
वज्रचक्रेति विख्याता सर्वमण्डलसाधिका //
अनया सर्वदिक्षु प्रदक्षिणतया भ्रामयित्वा सर्वमण्डलनिर्माणं भवति / इमाम् एव मुखे न्यस्य निरीक्षमाणो ऽष्टौ वारान् वज्रचक्रं जपेत् /
ततः प्रत्यक्षम् इव मण्डलं बुद्ध्यालग्यपुष्पादिभिः संपूज्य सर्वदिक्षु पञ्चमण्डलकेन प्रणमेद् अनेन /
ओं सर्ववित् कायवाक्चित्तप्रणामेन वज्रबन्धनं करोमीति / ततश् चतुःप्रणामं कुर्यात् / तद्यथा /
सर्वशरीरेण वज्राञ्जलिप्रसारितेन पूर्वस्यां दिशि प्रणमेद् अनेन /
ओं सर्ववित् पूजोपस्थानायात्मानं निर्यातयामि / सर्वतथागतवज्रसत्त्वाधितिष्ठस्व माम् / इति /
ततस् तथैवोत्थाय वज्राञ्जलिं हृदि कृत्वा दक्षिणस्यां दिशि ललाटेण भूमिं स्पृशन् प्रणमेद् अनेन /
ओं सर्ववित् पूजाभिषेकायात्मानं निर्यातयामि / सर्वतथागतवज्ररत्नाभिषिञ्च माम् / इति /
ततस् तथैवोत्थाय वज्राञ्जलिबन्धेन शिरसा पश्चिमायां दिशि मुखेन भूमिं स्पृशन् प्रणमेद् अनेन /
ओं सर्ववित् पूजाप्रवर्तनायात्मानं निर्यातयामि / सर्वतथागतवज्रधर्म प्रवर्तय माम् / इति /
ततस् तथैवोत्थितो वज्राञ्जलिं शिरसो ऽवतार्य हृदि कृत्वोत्तरस्यां दिशि मूर्ध्ना भूमिं स्पृशन् प्रणमेद् अनेन /
ओं सर्ववित् पूजाकर्मणा आत्मानं निर्यातयामि / सर्वतथागतवज्रकर्म कुरुष्व माम् / इति /
जानुमण्डलद्वयं पृथिव्यां प्रतिष्ठाप्य वज्राञ्जलिं हृदि कृत्वा सर्वपापं प्रतिदेशयेत् /
समन्वाहरन्तु मां दशसु दिक्षु सर्वबुद्धबोधिसत्त्वाः सर्वतथागतवज्रमणिपद्मकर्मकुलावस्थिताश् च सर्वमुद्रामन्त्रविद्यादेवता अहम् अमुकवज्रो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां पुरतः सर्वतथागतवज्रमणिपद्मकर्मकुलावस्थितानां सर्वमुद्रामन्त्रविद्यादेवतानां च पुरतः सर्वपापं प्रतिदेशयामि /
विस्तरेण दशसु दिक्ष्व् अतीतानागतप्रत्युत्पन्नानां सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकसम्यग्गतसम्यक्प्रतिपन्नानां सर्वसत्त्वनिकायानां च सर्वपुण्यम् अनुमोदयामि / दशसु दिक्षु सर्वबुद्धान् भगवतः / अप्रवर्तितधर्मचक्रान् अध्येषे धर्मचक्रप्रवर्तनाय / दशसु दिक्षु सर्वबुद्धान् भगवतः परिनिर्वातुकामान् याचे ऽपरिनिर्वाणाय /
ततः पुष्पमुद्रां बद्ध्वैवं वदेत् / ओं सर्ववित् पुष्पपूजामेघसमुद्रस्फरणसमये हुं / इति /
धूपमुद्रां बद्ध्वैवं वदेत् / ओं सर्वविद् धूपपूजामेघसमुद्रस्फरणसमये हुं /
दीपमुद्रां बद्ध्वैवं वदेत् / ओं सर्वविद् आलोकपूजामेघसमुद्रस्फरणसमये हुं /
गन्धमुद्रां बद्ध्वैवं वदेत् / ओं सर्वविद् गन्धपूजामेघसमुद्रस्फरणसमये हुं /
संपुटान्जलिं बद्ध्वैवं वदेत् / ओं सर्वविद् बोध्यङ्गरत्नालंकारपूजामेघसमुद्रस्फरणसमये हुं / इति /
ओं सर्वविद् हास्यलास्यरतिक्रीडासौख्यानुत्तरपूजामेघसमुद्रस्फरणसमये हुं / इति /
ओं सर्वविद् अनुत्तरवस्त्रपूजामेघसमुद्रस्फरणसमये हुं / इति /
ततः सर्वसत्त्वसंसारदुःखम् अनुस्मृत्य भगवतो वज्रसत्त्वस्य कर्ममुद्रां बद्ध्वा करुणावशेन सर्वसत्त्वोत्तारणाय बोधिचित्तम् उत्पादयेत् / अतीर्णतारणायामुक्तमोचनायानाश्वस्ताश्वासनायापरिनिर्वृतपरिनिर्वातनाय सकलसत्त्वधातोः संसारसमुद्राद् उत्तारणाय च /
ओं सर्वविद् वज्रपूजामेघसमुद्रस्फरणसमये हुं / इति /
ततो लास्यामुद्रां बद्ध्वैवं वदेत् / सर्वसत्त्वाः सर्वोपकरणसमन्वागता भवन्तु / इच्छामात्रप्रतिबद्धसर्वसंपत्तयः /
ओं सर्वविद् महावज्रोद्भवदानपारमितापूजामेघसमुद्रस्फरणसमये हुं / इति /
वज्रमालामुद्रां बद्ध्वैवं वदेत् / सर्वसत्त्वाः सर्वाकुशलकायवाग्मनस्कर्मान्तविगता भवन्तु / सर्वकुशलकायवाग्मनस्कर्मान्तसमन्वागता भवन्तु /
ओं सर्वविद् अनुत्तरमहाबोध्याहारशीलपारमितापूजामेघसमुद्रस्फरणसमये हुं / इति /
गीतामुद्रां बद्ध्वैवं वदेत् / सर्वसत्त्वाः सर्वलक्षणानुव्यञ्जनेन समलंकृतगात्रा भवन्तु / परस्परतो नित्यम् अभयावैरप्रतिपन्ना हृदयनयनाभिरामा गम्भीरधर्मक्षान्तिकाश् च /
ओं सर्वविद् अनुत्तरमहाधर्मावबोधक्षान्तिपारमितापूजामेघसमुद्रस्फरणसमये हुं / इति /
नृत्यामुद्रां बद्ध्वैवं वदेत् / सर्वसत्त्वा बोधिसत्त्वचर्याभियुक्ता भवन्तु / बुद्धतत्त्वपरायणाः संसारापरित्यागवीर्ययुक्ताः / ओं सर्ववित् संसारापरित्यागवीर्यपारमितापूजामेघसमुद्रस्फरणसमये हुं / इति /
पुष्पामुद्रां बद्ध्वैवं वदेत् / सर्वसत्त्वाः सर्वक्लेशोपक्लेशविगता भवन्तु / सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्यावशितासंपन्नाः /
ओं सर्वविद् अनुत्तरसौख्यविहारध्यानपारमितापूजामेघसमुद्रस्फरणसमये हुं / इति /
धूपामुद्रां बद्ध्वैवं वदेत् / सर्वसत्त्वाः सर्वलौकिकलोकोत्तरप्रज्ञाज्ञानसमन्विता भवन्तु / चतुःप्रतिसंवित्प्राप्ताः सर्वशास्त्रशिल्पज्ञानकलायोगगुणगुह्यविधिज्ञास् तत्त्वदर्शिनः सर्वक्लेशज्ञेयावरणसमुछेदज्ञानप्राप्ताः /
ओं सर्वविद् अनुत्तरक्लेशछेदमहाप्रज्ञापारमितापूजामेघसमुद्रस्फरणसमये हुं / इति /
दीपामुद्रां बद्ध्वैवं वदेत् / सर्वसत्त्वाः सर्वापायविगता भवन्तु /
ओं सर्ववित् सर्वापायविशोधनि ज्ञानालोकप्रणिधानपारमितापूजामेघसमुद्रस्फरणसमये हुं / इति /
गन्धामुद्रां बद्ध्वैवं वदेत् / सर्वसत्त्वाः सर्वाज्ञानविगता भवन्तु /
ओं सर्ववित् सर्वापायगन्धनाशनि वज्रगन्धोपायपारमितापूजामेघसमुद्रस्फरणसमये हुं / इति / दशसु दिक्ष्व् अशेषसर्वतथागतपादमूलगतम् आत्मानम् अधिमुच्य कायपरिचर्यार्थं /
ओं सर्ववित् कायनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं / इति / असमाचलेत्यादि / सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारम् अधिमुच्य /
ओं सर्वविद् वाग्निर्यातनपूजामेघसमुद्रस्फरणसमये हुं / इति / सर्वबोधिसत्त्वैकाशयप्रयोगतया धर्मसमताम् अधिमुच्य /
ओं सर्ववित् चित्तनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं / इति / अभावस्वभावाः सर्वधर्माः शून्यतानिमित्ताप्रणिहिताकारा इत्य् अधिमुच्य /
ओं सर्वविद् गुह्यनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं / इति / एवं विंशतिप्रकारपूजया सर्वतथागतान् संपूज्यात्मानं निर्यातयेत् /
आत्मानं सर्वबुद्धबोधिसत्त्वेभ्यो निर्यातयामि / सर्वदा सर्वकालं प्रतिगृह्णन्तु मां महाकारुणिका नाथा महासमयसिद्धिञ् च प्रयच्छन्तु / तच् च कुशलमूलं सर्वसत्त्वसाधारणं कर्तव्यं / अनेन कुशलमूलेन सर्वसत्त्वाः सर्वलौकिकलोकोत्तरविपत्तिविगता भवन्तु /
सर्वलौकिकलोकोत्तरसंपत्तिसमन्वागताश् च भवन्तु / सहैव सुखेन सहैव सौमनस्येन बुद्धा भवन्तु नरोत्तमा इति / अनेन चाहं कुशलकर्मणा भवेय बुद्धो //
न चिरेण लोके देशये धर्मं जगतो हिताय //
मोचये सत्त्वान् बहुदुःखपीडितान् इति //
अनुत्तरायां सम्यक्संबोधौ परिणामाय संवरं गृह्णीयात् / उत्पादयामि परमं बोधिचित्तम् अनुत्तरम् //
यथा त्रैयध्विकनाथाः संबोधौ कृतनिश्चयाः //
त्रिविधां शीलशिक्षां च कुशलधर्मसंग्रहम् //
सत्त्वार्थक्रियाशीलं च प्रतिगृह्णाम्य् अहं दृढम् //
बुद्धं धर्मं च सङ्घं च त्रिरत्नाग्रम् अनुत्तरम् //
अद्याग्रेण ग्रहीष्यामि संवरं बुद्धयोगजम् //
वज्रघण्टां च मुद्रां च प्रतिगृह्णामि तत्त्वतः //
आचार्यं च ग्रहीष्यामि महावज्रकुलोच्चये //
चतुर्दानं प्रदास्यामि षट्कृत्वा तु दिने दिने //
महारत्नकुले योगे समये च मनोरमे //
सद्धर्मं प्रतिगृह्णामि बाह्यं गुह्यं त्रियानिकम् //
महापद्मकुले शुद्धे महाबोधिसमुद्भवे //
संवरं सर्वसंयुक्तं प्रतिगृह्णामि तत्त्वतः //
पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये //
उत्पादयित्वा परमं बोधिचित्तम् अनुत्तरम् //
गृहीतं संवरं कृत्स्नं सर्वसत्त्वार्थकारणात् //
अतीर्णान् तारयिष्याम्य् अमुक्तान् मोचयिष्याम्य् अहम् //
अनाश्वस्तान् आश्वासयिष्यामि सत्त्वान् स्थापयामि निर्वृत्ताव् इति //
तत आकाशस्थं मण्डलं देवादिभिः पूज्यनानं विचिन्तयेत् / पञ्चोपहारादिना पूजयेत् / सम्यक् प्रपूज्य बुद्धानां गुणवर्णानां स्तुतिं कुर्यात् /
अहो बुद्ध अहो बुद्ध साधु बुद्ध कृतोत्तम //
सर्वदुर्गतिं संशोध्य सत्त्वानां बोधिः प्राप्यते //
तत ओं वज्राञ्जलीति / वज्रबन्धनं हृदये स्फोटयेत् / ओं सर्वविद् वज्रबन्ध त्राट् ब्रुवन् / वज्रावेशमुद्रां बद्ध्वा /
ओं तिष्ठ वज्र दृढो मे भव शाश्वतो मे भव हृदयं मे ऽधितिष्ठ सर्वसिद्धिं च मे प्रयच्छ हुं ह ह ह ह होः / इति /
ओं वज्रमुष्टि वं / सत्त्ववज्रीं बद्ध्वा /
ओं सर्ववित् शोधने शोधने सर्वपापान् अपनय हुं / पापाकर्षणमन्त्रः /
वज्रबन्धं दृढं बद्ध्वा वज्रमुद्राधिष्ठान्तरात् //
समुत्क्षिपेत् क्षणाद् ऊर्ध्वं पतितोत्क्षेपणं परम् // इति /
ओं सर्ववित् सर्वापायविशोधनि हुं फट् / पापविशोधनमन्त्रः /
वज्रबन्धं दृढीकृत्य मध्यमा मुखसहिता //
चतुरन्त्यमुखासक्ता पापं स्फोटयति क्षणात् //
ओं सर्ववित् त्राट् हुं / सत्त्ववज्रीं बद्ध्वा /
ओं सर्ववित् सर्वावरणविशोधने मुः हुं फट् / उद्धरणलक्षणम् /
ततः पश्चाद् योगिनो हृदयमध्ये ऽकारेण चन्द्रमण्डलं तस्योपरि /
ओं मुने मुने महामुनये स्वाहा / ओं नमः सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय / तद्यथा /
ओं शोधने शोधने सर्वपापविशोधं शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा /
एतेन मन्त्रेण दुर्गतिपरिशोधनमण्डलं परिनिष्पन्नं भवति / ततो वज्राङ्कुशाद्यैर् आकृष्य प्रवेश्य बद्ध्वा वशीकृत्याकाशमण्डलपूजां कृत्वा हृदयमण्डले निवेशयेत् / द्वयमण्डलेनैकमण्डलं भवतीति / निष्पन्नयोगो भूत्वा समयमण्डलं देवतापरिपूर्णं भवति / तत्र मण्डलमध्ये चक्रवर्तिरूपम् आत्मभावं शाक्यसिंहं विभावयेत् / ततः शाक्यमुनेर् हृद्यकारेण चन्द्रमण्डलं भावयेत् / चन्द्रमण्डलमध्ये /
ओं मुने मुने महामुनये स्वाहा /
ततो वज्रहेतुकर्ममुद्रया मण्डलं निर्माय /
ओं सर्वविद् वज्रचक्र हुं / इति /
सत्त्ववज्रीं बद्ध्वैव मध्याङ्गुलिद्वयेन मालाम् आदाय मनसा प्रविशेत् / समये हुं इत्य् अनेन तां च मालां स्वशिरसि क्षिपेत् / अनेन प्रतिच्छ वज्र होः / इति / ततः स्वशिरसि बन्धेद् अनेन /
ओं प्रतिगृह्ण त्वम् इमां सत्त्व महाबलेति //
मुखबन्धं चानेन मुञ्चेत् /
ओं वज्रसत्त्वः स्वयं ते ऽद्य चक्षूद्घाटनतत्परः //
उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् // इति /
हे वज्र पश्य / इति /
ततो महामण्डले तावत् पश्येद् यावद् भगवन्तं शाक्यमुनिं / पुनः सत्त्ववज्रीं बद्ध्वा हृदये मुञ्चेत् / वज्राधिष्टितकलशाद् उदकाभिषेकं वज्रमुष्ट्या दद्यात् /
ओं सर्वविद् वज्राभिषिञ्च माम् / इति /
पुनर् वज्रधात्वीश्वर्यादिमुद्रयाभिमु द्रयेत् /
ओं सर्वविद् वज्रधात्वीश्वरि हुं अभिषिञ्च माम् / ओं सर्वविद् वज्रवज्रिणि हुं अभिषिञ्च माम् / ओं सर्वविद् रत्नवज्रिणि हुं अभिषिञ्च माम् / ओं सर्वविद् धर्मवज्रिणि हुं अभिषिञ्च माम् / ओं सर्ववित् कर्मवज्रिणि हुं अभिषिञ्च माम् / ओं टूं टूं टूं वज्र तुष्य होः /
द्व्यक्षरकवचेन कवचयित्वा / ततः स्ववज्राभिषेकं गृह्णीयात् / अद्याभिषिक्तस् त्वम् असि बुद्धैर् वज्राभिषेकतः //
इदं तत् सर्वबुद्धत्वं गृह्ण वज्रसुसिद्धये //
ओं वज्राधिपति त्वाम् अभिषिञ्चामि तिष्ठ वज्रसमयस् त्वं वज्रनामाभिषेकतः /
ओं वज्रसत्त्व त्वाम् अभिषिञ्चामि /
इदं तत् सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् //
त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम् //
ओं सर्वतथागतसिद्धिवज्रसमय तिष्ठैष त्वां धारयामि वज्रसत्त्व हि हि हि हि हुं / इति /
ओं सर्वविद् वज्राधिष्ठानसमये हुं / आत्माधिष्ठानमन्त्रः /
वज्रमुष्टिद्वयं बद्ध्वाङ्गुष्ठमध्यमाकनिष्ठोर्ध्वं स्थित्वा मुखे श्लिष्येत् तर्जन्यनामिकासत्त्वपर्यङ्कं कृत्वा / वज्रमुद्रा / हृत्कण्ठललाट ऊर्णाभ्रूमध्ये नासिकाकर्णकटिजानुपादद्वये जंघायां चक्षुर्द्वये गुह्ये ऽधिष्ठाणं तु कारयेत् /
ततः स्वकायसमय अकारेण चन्द्रमण्डलम् / सर्वबीजसमुत्पन्नचिह्नाहंकारं मन्त्रम् उद्वहन् / ओं सर्वविद् जः हुं वं होः समयस् त्वं समय होः / ओं मुने मुने महामुनये स्वाहा / त्रिर् उच्चारयेत् सामान्यम् अपि / ततः स्वकाये वज्रसमाजमुद्रां बद्ध्वा /
जः हुं वं होः प्रवर्तयेत् / यथास्थानेष्व् आकृष्य प्रवेश्य बद्ध्वा वशीकुर्यात् / स्वहृदि हुंकारयोगेन पञ्चसूचिकवज्रम् //
समयं तु प्रवक्ष्यामि शाक्यसिंहस्य मुद्रया //
समाध्यग्रस्थितो मध्ये मुद्रासमय उच्यते //
वज्रबन्धं दृढीकृत्य मध्यमा मुखसंहिता //
वज्रोष्णीषमुद्रा / सैव मध्यमा रत्नं तु पद्माकारं तु मध्यमा //
सैव मध्यमा वज्रं तु शेषा ज्वालांगुलीकृता //
सैवांगुली ज्वालाकृता तेज उष्णीषमुद्रया //
सैव तु समानामिका कनिष्ठाद्वयम् उत्सृजेत् //
तर्जनी पद्मपत्त्रं तु मध्यमा वज्रं उत्थिता //
सैव पुरतः स्थित्वा वज्रपञ्जरकारका //
हृदये तु समांगुष्ठा सुप्रसारितमालिनी //
अञ्जल्यग्रमुखोद्धान्ता नृत्यतो मूर्ध्नि संपुटा //
वज्रबन्धं त्व् अधोदानात् स्वाञ्जलिस्थोर्ध्वदायिका //
समांगुष्ठनिपीडा च सुप्रसारितलेपना //
वज्रमुष्टिद्वयं बद्ध्वा तर्जन्यंगुष्ठमध्यमाः //
प्रत्येकम् अप्य् अन्योन्यम् अभिमुखं धारयेत् //
एकतर्जनीं संकुच्य द्व्यंगुष्ठौ ग्रन्थिं बन्धितौ //
अंगुष्ठाग्रकटिबन्धा वज्रमुष्ट्यग्रसंहिता // इति / धर्ममुद्रां भावयेत् कण्ठे पद्मेन्दुमण्डले //
पूर्वम् उत्सर्गमन्त्रेण धर्ममुद्रा विधीयते //
कर्ममुद्रा हृदये विश्ववज्रम् //
धर्मचक्रं यथोक्तस्य शाक्यराजस्य मुद्रया //
भूस्पर्शवरदध्यानम् अभयाद्या यथाक्रमम् //
तेजोष्णीषस्य मुद्रया समाध्यग्रावस्थिता //
दक्षिणबाहुदण्डा च हृद्वामखड्गधारिणी //
वामतर्जनीम् उत्सृज्य दक्षिणेन प्रसारयेत् //
द्वयहस्तेन संमील्य छत्राकारेण धारयेत् //
कर्ममुद्राविधिर् येन नवसंबुद्धतायिनाम् //
वज्रगर्वप्रयोगेण नमेद् आशयकम्पितैः //
मालाबन्धा मुखोद्धान्ता नृत्यतः परिवर्तिता //
वज्रमुष्टिप्रयोगेण दद्याद् धूपादयस् तथा //
तर्जन्यंकुशबन्धेन कनिष्ठायां महांकुशी //
बाहुग्रन्थिकटाग्राभ्यां पृष्ठयोश् च निपीडयेत् //
अथातः संप्रवक्षामि बोधिसत्त्वमहात्मनाम् //
कर्ममुद्राप्रबन्धेन यथानुक्रमलक्षणम् //
वज्रमुष्टिद्वयं बद्ध्वान्योन्यं सहनि मीलयेत् //
तर्जनीमध्यमाकुञ्च्य पुष्पाकारेण धारयेत् //
मैत्रेयस्य मुद्रा / वाममुष्टिं कटौ न्यस्य दक्षिणं बाहुपार्श्वतः //
तर्जनीमध्यमोत्सृज्य नेत्राकारेण धारयेत् //
अमोघदर्शिनः / वज्रमुष्टिद्वयं बद्ध्वा तर्जनीस् संप्रसारयेत् //
सव्येनांकुशं संधार्य सर्वापायजहस्य च //
वाममुष्टिं कटिं न्यस्य दक्षिणदण्डम् आकृतिः //
धारयेद् ऊर्ध्वतश् चैव सर्वशोकतमस्य च //
वामे नाभस्थिता मुष्टिर् गजपुष्करम् आकृतिः //
धारयेद् दक्षिणे हस्ते गन्धहस्तिनो मुद्रया //
वाममुष्टिं कटिं न्यस्य दक्षिणे खड्गकारतः //
शूरंगमस्य / वाममुष्टिं हृदि धार्य दक्षिणं ऊर्ध्वं भ्रामयेत् //
गगनगञ्जस्य / वज्रमुष्टिद्वयं बद्ध्वा दक्षिणेन तु धारयेत् //
ध्वजगृहिताकारेण ज्ञानकेतोश् च मुद्रया //
द्वयहस्तेन संधार्य कलशाकारेण धारयेत् //
अमृतप्रभस्य / वाममुष्टिम् उरौ स्थित्वा दक्षिणमुष्टिं पार्श्वतः //
प्रसार्य कनिष्ठांगुष्ठौ चन्द्ररेखा तु आकृतिः //
चन्द्रप्रभस्य / द्वयहस्तं हृदि देशे पद्माकारं विकासयेत् //
अन्योन्यं मुखम् आसज्य भद्रपालस्य मुद्रया //
वज्रमुष्टिद्वयं बद्ध्वा कवचाकारेण धारयेत् //
स्तनद्वये च संधार्य जालिनीप्रभमुद्रया //
वाममुष्टिः कटिं न्यस्तो दक्षिणहृदयस्थितः //
मध्यमांगुलिम् उत्सृज्य वज्रगर्भस्य मुद्रया //
वाममुष्टिर् हृदि न्यस्तो वरदाकारं दक्षिणे //
अक्षयमतेर् मुद्रा / वामे नाभस्थिता मुष्टिर् दक्षिणे छोटिकां ददन् //
प्रतिभानकूटस्य / वाममुष्टिं कटिं धार्य दक्षिणरत्नमुष्टिका //
समन्तभद्रस्य / चिह्नरहितेन विधिना कर्ममुद्रा चोक्तिता //
हृदये वज्रं संधार्य पञ्चसूचिकरूपिणम् //
उत्सर्गेषु यथाधार्य मुद्रासायुधधारिणां //
वज्रघण्टाधरो भूत्वा हृदये वज्रं धारयेत् //
महामुद्रेति बोद्धव्या बोधिसत्त्वमहात्मनाम् //
उत्सर्गेषु यथागृह्य मुद्राप्रहरणधारिणाम् //
यां यां मुद्रां तु बध्नीयाद् यस्य यस्य महात्मनः //
जपन् तु हृदयार्थेन भावयेत् तु स्वम् आत्मानम् //
चतुर्मुद्रा विधातव्या देवतासर्वमुद्रितुम् //
सर्वज्ञगुणसंपन्नाः सर्वसत्त्वार्थकारणात् //
सर्वदुर्गतिं संशोध्य सत्त्वानां बोधिः प्राप्यते //
अथ मन्त्रं प्रवक्षामि सर्वदुर्गतिमण्डले //
मुद्रामन्त्रप्रयोगेण सर्वकार्यक्षमो भवेत् //
प्रतिप्रतिवज्रनृत्यं कृत्वा मन्त्रैश् चोदाहृतम् //
ओं नमः सर्वदुर्गतिपरिशोधनराजाय //
तथागतायार्हते सम्यक्संबुद्धाय तद्यथा //
ओं शोधने शोधने सर्वपापविशोधने शुद्धे //
विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा //
वामवज्रमुष्ट्या वज्रघण्टाम् आदाय दक्षिणहस्तेन वज्रंसगर्वम् उल्ललयन् एवं वदेत् / वज्रवाचाटक्कि हुं जः जः जः / स्वहृद्य् उत्कर्षणयोगेन धारयेत् / टक्कि जः होः इति वदेत् /
तदनुशताक्षरेणदृढीकृत्य / एतेन दशभूमीश्वरबोधिसत्त्वसदृशो भवति / तान् दृष्ट्वा सर्वपूजां प्रपूजयेत् /
ततः ताभिः सर्वाभिः स्तुतिभिः संपूजयेत् / नमस् ते शाक्यसिंहाय धर्मचक्रप्रवर्तकः //
त्रैधातुकं जगत्सर्वं शोधयेत् सर्वदुर्गतिम् //
नमस् ते वज्रोष्णीषाय धर्मधातुस्वभावतः //
सर्वसत्त्वहितार्थाय आत्मतत्त्वप्रदर्शकः //
नमस् ते रत्नोष्णीषाय समतातत्त्वभावनैः //
त्रैधातुकं स्थितं सर्वम् अभिषेकप्रदायकः //
नमस् ते पद्मोष्णीषाय स्वभावप्रत्यवेक्षकः //
आश्वासयति सत्त्वेषु धर्मामृतप्रवर्षणैः //
नमस् ते विश्वोष्णीषाय स्वभावकृत्यानुष्ठितः //
विश्वकर्मकरो ह्य् एषां सत्त्वानां दुःखशान्तये //
नमस् ते तेजोष्णीषाय त्रैधातुकम् अवभासयेत् //
सर्वसत्त्वेष्व् अपायेषु सत्यदृष्ट्वा करिष्यति //
नमस् ते ध्वजोष्णीषाय चिन्तामणिध्वजधरः //
दानेन सर्वसत्त्वानां सर्वाशा परिपूरयेत् //
नमस् ते तीक्ष्णोष्णीषाय क्लेशोपक्लेशछेदकः //
चतुर्मारबलभग्नं सत्त्वानां बोधिः प्राप्यते //
नमस् ते छत्रोष्णीषाय सितातपत्रशोभनम् //
त्रैधातुकं जगत्सर्वं धर्मराजत्वं प्राप्यते //
लास्या माला तथा गीता नृत्या देव्यश् चतुष्टयाः //
पुष्पा धूपा च दीपा च गन्धा देवी नमो ऽस्तु ते //
द्वारमध्ये स्थिता आवेशो ऽंकुशः पाशस् स्फोटकः //
श्रद्धाद्यभावनिर्जाता द्वारपाला नमोऽस्तु ते //
वेदिकादौ स्थिता ये च चत्वरद्वारपार्श्वतः //
मुदितादौ दशे स्थित्वा बोधिसत्त्वा नमो ऽस्तु ते //
ब्रह्मेन्द्रौ रुद्रचन्द्राद्यैर् लोकपालचतुर्दिशम् //
अग्निराक्षसवायुश् च भूताधिप नमो ऽस्तु ते //
अनेन स्तोत्रराजेन संस्तुत्य मण्डलाग्रतः //
वज्रघण्टाधरो मन्त्री इदं स्तोत्रम् उदाहरेत् //
पश्चाद् आत्मदेहेषु आत्ममण्डलं कल्पयेत् //
एवं भावयमानां वै मण्डलम् आदियोगतः //
आदियोगनामसमाधिः / ततो मण्डलराजाग्रीनाम प्रवक्ष्यामि / ओं अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वात् / तदर्थाधिमोक्षतो दशदिक्षर्वलोकधातुषोडशशून्यताम् अधिमुच्य शून्यताहंकारम् आत्मानं पश्येत् /
ततो हुंकारेण निष्पन्नवज्रेण वायुमण्डलं तस्योपरि रंकारेणाग्निमण्डलं तस्योपरि वंकारेण महोदधिं तस्योपरि कंकारेण काञ्चनमण्डलं तद्मध्ये हुं सुं हुं इति / तेन सुमेरुं चतुरस्रं रत्नमयं सर्वरत्नविभूषितं निष्पाद्य / ओं वज्र दृढेत्यादिना वज्रबन्धेनाधितिष्ठेत् / तस्योपरि वज्रहेतुकर्ममुद्रया भूंकारसितनिष्पन्नवज्रमणिरत्नशिखरकूटागारम् /
चतुरस्रं चतुर्द्वारं चतुस्तोरणभूसितम् //
चतुष्कोणेषु सर्वेषु द्वारनिर्यूहसंधिषु //
चन्द्रार्कवज्रचिह्नितं हारार्धहाररचितम् //
चतुस्सूत्रसमायुक्तं पटस्रग्दामभूषितम् //
अभ्यन्तरमण्डलम् अष्टारचक्रं वज्रावलीपरिवृतम् / तस्य नाभोपरि सिंहासनं तस्योपरि चन्द्रमण्डलं / चक्राष्टारमध्येषु चन्द्रमण्डलं देवतास्थानम् / (sdp 162) बाह्यमण्डलस्य देवतास्थानं पटिकायाम् अष्टाविंशतिचन्द्रमण्डलं पश्येत् / सिंहासनोपरि चन्द्रमण्डले / अकारादिककाराद्यक्षरप्रज्ञोपायस्वरूपं द्रवीभूतम् आकाशस्फरणक समाधिसमापन्नं बोधिचित्तस्वरूपेण सत्त्वार्थहेतुसंपन्नमन्त्ररूपं भवति /
ओं मुने मुने महामुनये स्वाहा /
अनेन मन्त्रेण श्रीशाक्यसिंहराजनिष्पन्नो भवति / सर्वनीवारणं नाम समाधिसमापन्नः / ततस् समाधिसमापन्नो बुद्धो भगवान् तस्य मुद्रामन्त्रं उदाहरेत् /
वज्रमुष्टिद्वयं बद्ध्वा परिपाट्या विकासयेत् //
मुद्रेयं धर्मचक्रस्य सर्वसंसारछेदनी //
तद्यथेति दृष्टान्तः /
यथा पद्मेषु आसक्ता भ्रमराद्या विबन्धिताः //
तथा पद्मविकासेन विबन्धा दुःखमोचिताः //
तथैव दुःखसंसारे विबन्धास् त्न्भवे गतौ //
एवं विबन्धा मुच्यन्ते शाक्यसिंहकृपात्मनः //
ततश् शाक्यमुनेर् हृदये ऽकारेण चन्द्रमण्डलम् / ततश् चन्द्रमण्डले सर्वासां मन्त्राणि निष्पाद्यन्ते / वज्रोष्णीषम् आरभ्य यावद् वज्रावेशपर्यन्तं भावयेत् / ततो मन्त्राणि भवन्ति /
ओं नमस् सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय / तद्यथा /
ओं शोधने शोधने सर्वपापविशोधने शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा / इदं मन्त्रम् उदाहरेत् /
अथातः संप्रवक्षामि परिपाट्या यथाक्रमम् / ओं वज्र हुं फट् / निश्चार्य मुखद्वारेण निर्गत्य पञ्चरश्मिकं //
समन्ततो दशसु दिक्ष्व् अवभास्य सर्वसत्त्वानाम् //
दुःखस्यान्तं करिष्यति पुनर् आगत्य रश्मीनाम् //
प्रविश्य हृदये ततः //
मन्त्ररश्मिद्वयं मील्य निष्पन्नरूपसंभवम् //
अभ्यन्तरमण्डलस्य चक्रारे पूर्वदिशि पद्मचन्द्रस्थः //
वज्रोष्णीषस् तथागतो हृदयाद् अवतीर्य निषीदेत //
हितार्थतः /
शुक्लवर्णप्रभादिव्यो मुद्राभूस्पर्शसंस्थितः //
एवं रश्मिस्फरणसंहारपूर्वोक्तेन सर्वशः //
स्फरणसंहारयोगेन मन्त्ररश्मिनिमिलनम् //
बिम्बनिष्पत्तिसंपूर्णहृदयाद् अवतीर्य च //
निषीदेत यथास्थाने दक्षिणारेषु सुस्थितः //
ओं रत्नोत्तम त्रं उत्सृजेत् /
पद्मस्थचन्द्रमध्येषु रत्नोष्णीषस् तथागतः //
अवतीर्य हृदयाद् बुद्धलक्षणैः समलंकृतः //
नीलवर्णस्वभावं तु मुद्रेयं वरदस्य तु //
त्रैधातुकम् अशेषं तु सर्वसत्त्वाभिषेकदः //
पूर्ववत् स्फरणसंहारं बिम्बोत्पत्तिक्रमेण च //
ओं पद्मोत्तम ह्रीः उत्सृजेत् /
ततः पश्चिमारस्थपद्मोपरि चन्द्रमण्डले //
रश्मिबीजेन निष्पन्नः पद्मोष्णीषस् तथागतः //
हृदयाद् निर्गतो भूत्वा निषीदेद् अनुशासकः //
पद्मरागप्रभादिव्यो ध्यानमुद्राव्यवस्थितः //
ओं विश्वोत्तम अः उत्सृजेत् /
उत्तरे चक्र आरस्थपद्मोपरीन्दुमण्डले //
अवतीर्य हृदयाद् बुद्धो विश्वोष्णीषस् तथागतः //
हरितवर्णप्रभाज्वाल्यो मुद्रा चास्याभयप्रदः //
विश्वकर्मकरो बुद्धः सत्त्वान् संसाराद् उत्तरेत् //
ओंकारेनोत्सृजेद् बुद्धस् तेजोष्णीषस् तथागतः //
आग्नेयारे स्थितः सम्यक् पद्मस्थचन्द्रमण्डले //
सव्येन सूर्यं संगृह्य वामहस्ते कटिस्थितः //
शितरक्तकवर्णाभस् त्रैधातुकम् आभासयेत् //
हुंकारबीजसंजातो ध्वजोष्णीषस् तथागतः //
उत्सृजेद् हृदयातीर्णो नैरृत्यारे निषण्णकः //
पद्मस्थचन्द्रबिम्बे च रक्तकृष्णकवर्णिकः //
चिन्तामणिध्वजं धार्य सत्त्वमात्सर्यशोधकः //
धीःकारबीजनिष्पन्नस् तीक्ष्णोष्णीषस् तथागतः //
क्लेशोपक्लेशान् संछेद्य वायव्यारे च उत्सृजेत् //
पद्मचन्द्रे निषीदेश् च मुद्रास्य खड्गदक्षिणः //
गगनवर्णनिभकायो वामे पुस्तकधारिणः //
क्रींकारबीजनिर्जातश् छत्रोष्णीषस् तथागतः //
धर्मस्वामी च सत्त्वानाम् ईशानारे च उत्सृजेत् //
कुन्देन्दुवर्णसन्निभो मुद्रेयं छत्रधारिणः //
सर्वे ते विश्वपद्मस्था निषन्णाश् चन्द्रमण्डले //
हुं त्रां ह्रीः अः /
तेन मन्त्रेण उच्चार्य हृदयाद् उत्सृजन्ति च //
चतुर्षु कोणस्थानेषु पद्मस्थचन्द्रमण्डले //
लास्यादिदेव्यश् चतस्रः कुलवर्णकधारिण्यः //
सितं पीतं रक्तं विश्ववर्णकम् //
तेषां मुद्रा विधीयते यथोक्तितम् //
तेनैव मन्त्रम् उच्चार्य उत्सृजेद् हृदयाद् अपि //
धूपादिदेव्यश् चतस्रः पद्मस्थचन्द्रमण्डले //
चतुर्षु कोणसर्वेषु वर्णकुलक्रमेण तु //
ओं सर्वसंस्कारपरिशुद्धे धर्मते गगनसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा /
मन्त्रेण उत्सृजेत् पूर्वद्वारपार्श्वद्वये स्थिताः //
मैत्रेयादिचतुष्कस्य पद्मस्थचन्द्रमण्डले //
सत्त्वपर्यंकिनः सर्वे मुद्रावर्णक्रमेन तु //
पीतवर्णप्रभादिव्यो नागपुष्पकदक्षिणे //
वामेन कुण्डिकां गृह्य मैत्रीचित्तविशुद्धितः //
द्वितीयो ऽमोघदर्शी तु पीतवर्णप्रभोज्वलः //
वामहस्तकटिन्यस्तो दक्षिणपद्मनेत्रकः //
तृतीयो बोधिसत्त्वश् च नाम्नापायजहस्य च //
श्वेतवर्णप्रभाज्वालो मुद्रा अंकुशधारिणः //
चतुर्थः सर्वशोकतमनिर्घातनमतिस् तथा //
सितपीतमिश्रवर्णाभो मुद्रा दण्डधारिणः //
वाममुष्टिकटिन्यस्तः सत्त्वपर्यंकिना स्थितः //
चत्वारो बोधिसत्त्वाश् च दक्षिणद्वारे प्रतिष्ठिताः //
प्रथमो गन्धहस्ती च सितश्यामश् च वर्णकः //
मुद्रेयं दक्षिणहस्ते गन्धशंखं प्रपूरितम् //
वामहस्तकटिन्यस्तः सर्वावरणशोधनः //
द्वितीयो शूरंगमो नाम सर्वक्लेशप्रमोचकः //
स्फटिकवर्णप्रभादिव्यो मुद्रेयं खड्गधारिणः //
वामहस्तकटिन्यस्तः सत्त्वानां दुःखशन्तकः //
तृतीयः गगनगञ्जः सर्वाभरणभूषितः //
सितपीतमिश्रवर्णाभः सर्वावरणवर्जितः //
मुद्रेयं दक्षिणहस्ते पद्मस्थधर्मगञ्जतः //
वामहस्तकटिन्यस्तः सर्वाकाशधनधरः //
चतुर्थो ज्ञानकेतुश् च सर्वाशापरिपूरकः //
नीलवर्णकसंकाशश् चिन्तामणिध्वजधरः //
वाममुष्टिकटिन्यस्तः दारिद्रदुःखमोचकः //
पश्चिमद्वार आसीनः पद्मस्थचन्द्रमण्डले //
प्रथमम् अमृतप्रभश् चन्द्रवर्णविराजितः //
अमृतकलशं संधार्य मुकुटं रत्नपाणिना //
वाममुष्टिकटिन्यस्तो विस्तीर्णम् आयुर्दायकः //
द्वितीयश् चन्द्रप्रभो नामाज्ञानतमध्वंसकः //
शुक्लवर्णतनुदिव्यो मुद्रा दक्षिणपाणिना //
पद्मस्थचन्द्रबिम्बं तु वाममुष्टिकटिस्थितः //
तृतीयो भद्रपालेति सितरक्तं तु वर्णिकः //
सर्वधर्मप्रकाशको मुद्रा दक्षिणपाणिना //
ज्वलितरत्नं संधार्य वाममुष्टिकटिस्थितः //
चतुर्थो बोधिसत्त्वश् च जालिनीप्रभसंज्ञितः //
रक्तवर्णप्रभादिव्यो वज्रपञ्जरधारिणः //
प्रथमबुद्धपुत्रस् तु वज्रगर्भेतिनामतः //
सितनीलवर्णसंयुक्तो मुद्रा दक्षिणपाणिना //
उत्पलं वज्रसंयुक्तं वाममुष्टिकटिस्थितः //
द्वितीयो अक्षयो नाम मतिर् अन्तेषु संस्थितः //
कुन्देन्दुवर्णसंकाशो मुद्राहस्तद्वयेन तु //
ज्ञानकलशं संधार्य सर्वसत्त्वान् प्रपीनयेत् //
तृतीयो बुद्धपुत्रश् च प्रतिभाकूटसंज्ञितः //
रक्तवर्णप्रभाज्वालो मुद्रा दक्षिणपाणिना //
पद्मस्थरत्नकूटं तु वाममुष्टिकटिस्थितः //
चतुर्थो बोधिसत्त्वश् च समन्तभद्रनामतः //
सुवर्णवर्णसंकाशो मुद्रा दक्षिणपाणिना //
रत्नमञ्जरिकादिव्यं वाममुष्टिकटिस्थितः //
एवं रूपेण संयुक्ता बोधिसत्त्वकृपात्मनः //
मण्डलराजाग्री नामसमाधिः / ओं मुने मुने महामुनये स्वाहा / ओं नमस् सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय ल् तद्यथा /
ओं शोधने शोधने सर्वपापविशोधने शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा /
अनेन मन्त्रेण श्रीशाक्यसिंहराजप्रमुखसप्तत्रिंशद्देवतापरिपूर्णं भावयेत् / ततः पश्चाद् ज्ञानमण्डलम् आकर्षयेत् /
द्वारोद्घाटनं कृत्वा मन्त्रमुद्रासमायुतः //
वज्रमुष्टिद्वयं बद्ध्वा तर्जनी द्वे प्रसारयेत् //
कनिष्ठां शृंखलीकृत्य द्वारोद्घाटनमुद्रया //
ओं सर्वविद् द्वारम् उद्घाटय हुं /
द्वारोद्घाटनमन्त्रमुद्रया द्वारम् उद्घाटयेत् / वज्रचक्रमुद्रया मण्डलं परिकल्पयेत् /
ओं सर्वविद् वज्रचक्रे हुं /
बाहुभ्यां वज्रबन्धेन वज्रछटकविमोक्षणे //
श्रीशाक्यराजयोगात्मा सर्वबुद्धान् समाजयेत् //
वामे छटकतालेन समतालेन सिद्ध्यति //
दक्षिणेन तु तालोक्तं संनिपाताव् उभाव् अपि //
ओं वज्रसमाज जः हुं वं होः /
अस्या आज्ञाया मात्रेण सपर्षच्चक्रसंचयः //
सर्वबुद्धाः समायान्ति का कथान्येषु वर्त्तते //
ततो ऽग्रत आकाशदेशे मण्डलचक्रं दृष्ट्वा वज्रयक्षमन्त्रेण / जप्तार्घभाजने स्थितगन्धवारिणा संप्रोक्ष्याचमनं दद्यात् / ततो ऽर्घमुद्रयार्घं दद्यात् / ततः पाद्यमुद्रया पाद्यं दद्यात् / ततः /
वज्रपुष्पे हुं / वज्रधूपे हुं / वज्रदीपे हुं / वज्रगन्धे हुं /
वज्रयक्षमन्त्रेण विघ्नान् उत्सार्य मण्डलेषु प्रवेशयेत् / ततश् चतुर्मुद्राः /
प्रथमं पूर्वोक्तविधिमुद्रया समयमुद्रा निबन्धयेत् / ततः पूर्वोक्तमन्त्रेण धर्ममुद्रा विधीयते / ततः कर्ममुद्रामन्त्रेण कर्ममुद्रां बध्म्यात् / ततो महामुद्रामन्त्रेण महामुद्रां बध्नीयात् /
ततो वज्रोष्णीषादितथागतैः सत्त्ववज्रीरत्नवज्रीधर्मवज्रीकर्मवज्रीं स्फारयित्वा समाण्डलेयदेवताश्रीशाक्यराजप्रमुखवज्रावेशपर्यन्तम् अभिषेकं दद्यात् / पञ्चाभिषेकाधिपत्मशपर्यन्तं दद्यात् / अभिषेकानन्तरम् /
ओं सर्वतथागतधूपपूजामेघसमुद्रस्फरणसमये हुं / ओं सर्वतथागतपुष्पपूजामेघसमुद्रस्फरणसमये हुं / ओं सर्वतथागतदीपपूजामेघसमुद्रस्फरणसमये हुं / ओं सर्वतथागतगन्धपूजामेघसमुद्रस्फरणसमये हुं / ततो लास्यादिचतुष्टयेन पूजयेत् / वज्रम् उल्लालयन् वज्रवाचाशताक्षरपूर्ववत् स्तुतिं कुर्यात् / ततः /
असमाचलासमितसारधर्मिणः / करुणात्मका जगति दुःखहारिणः / असमन्तसर्वगुणसिद्धिदायिनः //
असमाचलासमवराग्रधर्मिणः //
गगने समोपमगता न विध्यते //
गुणरेणुरेणुकणिकाप्य् असीमिके //
स्फुटसत्त्वधातुवरसिद्धिदायिषु //
विगतोपमेषु असमन्तसिद्धिषु //
सततामला करुणवेगतोत्थिता //
प्रणिधानसिद्धिर् अनिरोधधर्मता //
जगतो ऽर्थसाधनपरासमन्तिनी //
सततं विरोचति महाकृपात्मनाम् //
न निरोधतां करुणचारिकाचरा //
व्रजते त्रिलोकवरसिद्धिदायिका //
अमितामितेषु सुसमाप्तितां गता //
सुगतिं गतेष्व् अपि अहो सुधर्मता //
समयाग्रसिद्धिवरदा ददन्तु मे //
वरदानता सुगतितां गता सदा //
सकलत्रिलोकवरसिद्धिदायिका //
सुगतत्रियाध्वगतिता अनावृता //
सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारम् अधिमुच्य वज्रघण्टाधरः स्तुतिं कर्यात् /
ततो दशसु दिक्षु सर्वतथागतबोधिसत्त्वेभ्यो लौकिकलोकोत्तरबाह्यदेवताभ्यश् च सर्वपूजाभिर् बलिविधिम् उपकरणेन सहितं बलिं दद्यात् /
सुबहुपाठां पठेत् /
आदौ छटादिशब्देनाकर्षयेत् पापराशयः //
त्रिलोकविजयमुद्रेण त्र्यक्षरादिसमन्वितं //
सर्वापायसमापत्तिलोकधातुम् अशेषतः //
आकर्षणम् उद्धरणबन्धविनाशनानि //
चत्वारि मन्त्राणी सुयोजनानि /
ताड्यादिमन्त्रैः सितसर्षपताडमानैः / प्रक्षाल्यम् अस्थि सितवस्त्रसहितम् //
ओं शोधन इत्यादिमन्त्रेण उदकेन क्षालयेत् त्रयभवनमलं / ओं कंकणीत्यादिमन्त्रेण क्षलयेत् पञ्चगव्येन / ओं रत्ने रत्न इत्यादिमन्त्रेण क्षालयेत् सर्वगन्धतः / ओं अमोघावरणेत्यादिमन्त्रेण क्षालयेत् क्षीरगावितः / ओं अमृते अमृत इत्यादिमन्त्रेण क्षालयेत् मद्यम् उत्तमम् / ओं पुण्ये पुण्य इत्यादिमन्त्रेणोदकेन क्षालयेत् अन्तरान्ततः /
पुनर् मंगलगाथां पाठयेद् अभिषिञ्चेत् / मार्गशोधनं कर्तव्यं / धूपादिदेयाश् चतुर्विधमन्त्राः /
हस्तमात्रम् इदं कुण्डं कर्तव्यं होमयेत् ततः //
अनुस्मृत्य च तं सत्त्वम् अपायगतिसंस्थितम् //
होमयेत् शुभसंतानः पापावरणशान्तये //
घृतक्षीरसमाक्षिकैर् लाजासर्षपमिश्रितैः //
तिलतण्डुलव्रीह्यादि समिधासु करद्वयम् //
अन्यान्य् अपि तु कर्माणि यथा पूर्वं तथा कुर्यात् //
तेन संपद्यते क्षिप्रं सत्त्वानां च सुखावहम् // इति /
कर्मराजाग्रीनामसमाधिः /
तस्मिंश् च सत्त्वे कृते सति / ततस् ते नारकदुःखाद् विमुक्ताः सन्तस् तुषितेषु सर्वसत्त्वहितकारिणः / सुगतवद् उत्पन्नाः / तत इन्द्रेण सहितमहायशसो देवा नृत्यन्तो ऽनन्तैः पूजामेघैर् इह जन्मनि तथागतपूजार्थं पुरस्कृत्य देवगणा उत्पातितबोधिचित्ता दिव्यनानाविधपुष्पधूपदीपगन्धछत्रध्वजपताकादिभिर् अनेकाकाराभिश् च शोभितम् / वस्त्ररत्नवर्षादिभिश् च परिपूरितं कुर्वन्ति स्म नन्दनवनम् / ततो महाश्चर्यं भूतम् /
इइ अथ भगवान् वज्रपाणिर् बोधिसत्त्वो भगवतो ऽधिष्ठानेन मन्त्रकल्पराजोत्तरकल्पम् अभाषत / वीरासनाद् उत्थाय प्रहर्षन् वज्रम् उल्ललयन् शाक्याधिपं नन्दन् मुनीश्वरं प्रणम्य सर्वावरणविशोधनवज्रं नाम समाधिं समापद्येदं दुर्गतिपरिशोधनं नाम हृदयं स्वहृदयाद् निश्चचार /
ओं सर्वपापदहनवज्र हुं फट् / ओं सर्वापायविशोधनवज्र हुं फट् / ओं सर्वकर्मावरणानि भस्मीकुरु हुं फट् / ओं भ्रुं विनाशयावरणानि हुं फट् / ओं द्रुं विशोधयावरणानि हुं फट् / ओं ज्वल ज्वल धक धक हन हनावरणानि हुं फट् / ओं स्रुं सर सर प्रसर प्रसरावरणानि हुं फट् / ओं हुं हर हर सर्वावरणानि हुं फट् / ओं हुं फट् सर्वावरणानि स्फोटय हुं फट् / ओं भृत भृत सर्वावरणानि हुं फट् / ओं त्रट त्रट सर्वावरणानि हुं फट् / ओं छिन्द छिन्द विद्रव विद्रव सर्वावरणानि हुं फट् / ओं दह दह सर्वनरकगतिहेतुं हुं फट् / ओं पच पच सर्वप्रेतगतिहेतुं हुं फट् / ओं मथ मथ सर्वतिर्यग्गतिहेतुं हुं फट् /
ततस् तेषाम् उपकरणान्य् अभाषत /
ओं सर्वपापविशोधनि धम धम धूपय हुं फट् / ओं सर्वदुर्गतिविशोधनि पुष्पविलोकिनि हुं फट् / ओं सर्वापायविशोधनि ज्ञानालोककरि हुं फट् / ओं सर्वापायगतिनाशनि गन्ध हुं फट् / ओं नरकगत्याकर्षणि हुं फट् / ओं सर्वनरकगत्युद्धरणि हुं फट् / ओं सर्वापायबन्धनविमोचनि हुं फट् / ओं सर्वापायगतिगहनविनाशनि हुं फट् /
ततो मण्डलम् अभाषत / चक्रान्तरं तु मण्डलम् अष्टारैश् च सुभूषितम् //
नाभिनेमिकसंयुक्तम् अभ्यन्तरावरणिकम् //
संलिख्य नाभौ शाक्याधिपेन्द्रमुनिं संलिखेत् //
ततो वीराग्रतो लिखेद् वज्रपाणिं महाबलम् //
पृष्ठतो ऽभिसंलिखेच् चक्रवर्तिनं च //
दक्षिणे जयोष्णीषं च वामतो विजयं लिखेत् //
तेजोराशिम् अप्य् आग्नेयां सितातपत्रम् ऐशान्याम् //
विकिरिणंश् चैव वायव्यां नैरृत्यां विध्वंसकं लिखेत्//
ततो बाह्यं संलिखेत् /
चतुरश्रं चतुर्द्वारं चतुस्तोरणशोभितम् //
वीरेणांकुशपाशस्फोटघण्टाः स्थापनीयाः //
सर्वकोनेषु पुष्पादयो लेख्याः //
ततः स्रग्गन्धगन्धादिना स्वकायम् अनुलेपयेत् //
तथैव वज्राचार्यः प्रविशेत् / जः हुं वं होः / भगवन् एहि महाकरुणिक दृश्य होः / इति / सर्वदेवान् आकर्षयेत् / तथैव प्रवेश्याभिषिक्ताः सर्वदुर्गतिभ्यो विमुक्ताः स्वर्गलोकोत्तरभूमिषूद्पद्यन्ते / सर्वसिद्धयो ऽपि सिद्ध्यन्ति / सम्यक्संबोधिश् चावश्यं प्राप्यते / पूर्ववत् सर्वकर्मां कुर्वन्ति / सर्वत्राप्रतिहता भवन्ति / उन्मार्जनेन सर्वज्वरग्रहादीन् मोक्षयन्ति / वज्रपाणिर् हुंकारेण सर्वकर्माणि करोति / अन्यकल्पविधिनापि सर्वसाधको भवति / देवनागयक्षगन्धर्वासुरराक्षसादीनां दुर्गतिवशीभूतानां सर्वप्रतिबिम्बादिकम् अभिलिख्य जपहोमाभिषेकैः सर्वदुर्गतिभ्यो मुक्तिर् भवति / अथ भगवान् वज्रधरः सिंहावलोकितेन भगवतो मुखम् अवलोक्य प्रणम्यैतद् अवोचत् / भगवन् परममुद्रालक्षणम् उत्तमम् आभाषे करुणावेदनावशगचित्तेन सर्वजिना अधिष्ठानं कुर्वन्ति /
समाधिस्थो लला@टे ऽञ्जलिं कृत्वा प्रणमेत् / बुद्धानां प्रणाममुद्रा / योगवित् कण्ठप्रदेशे ऽञ्जलिं मुकुलितपद्माकृतिं कुर्यात् / पद्मकुले पद्ममुद्रा / हृदि वज्राञ्जलिं कृत्वा मध्यमांगुलीसूचीयोजयति / वज्रकुले समयमुद्रा / वामहस्तम् उत्तानम् उत्संगे स्थापयित्वा तस्योपरि दक्षिणं व्यवस्थाप्यांगुष्ठद्वयं योजयित्वा शान्तं दृष्ट्वा निरीक्षयेत् / इयं तथागतकुले समाधिमुद्रा समयः /
ताम् एव परिवर्त्यान्योन्यं योजयित्वा कनिष्ठांगुष्ठकानि शृंखलाकाराणि बद्ध्वा हृदि स्थापयेत् / इयं वज्रकुले समयमुद्रा / पूर्णाञ्जलिं कृत्वा कन्यसांगुष्ठौ सूचिं धारयेच् छेषान् प्रसारयेत् / इयं पद्मकुले पद्ममुद्रा /
वज्रबन्धं दृढीकृत्य मध्यमांगुलिं वज्रसूचीकृत्य कन्यसांगुष्ठौ प्रसारयेत् / इयं वज्रपाणेर् वज्रमुद्रा / तस्या एव कनिष्ठांगुष्ठद्वयं तथैव कृत्वा तर्जन्यनामिके पद्मपत्राकारैः कुर्यात् / इयं सर्वदुर्गतिपरिशोधनराजस्य सर्वशोधनमुद्रा / तस्या एव तर्जन्यनामिके रत्नाकारं कुर्यात् / इयम् अभिषेकमुद्रा / कन्यसांगुष्ठौ पृथक् पृथग् योजयित्वा शेषाः प्रसारिताः / सर्वप्रसहनमुद्रा /
वामहस्तस् तथैव परिवर्तितः सर्वकर्मिकमुद्रा / अञ्जलेर् ऊर्ध्वक्षेपाद् धूपमुद्रा / तस्या एवाधःक्षेपात् पुष्पमुद्रा / सैव शंखाकारो गन्धमुद्रा / एताम् एव प्रसारितां धारयेद् बलिमुद्रा / तस्या एव मध्यमाद्वयाद् अन्तरम् अर्पणमुद्रा / वज्रबन्धमध्यमाद्वयं मध्ये पर्वभंगं कृत्वा सर्वांगुलीः प्रसारयेद् विकीरिणमुद्रा / तस्या एव कन्यसाद्वयांगुष्ठद्वयम् आकृष्टं विध्वंसनमुद्रा / सैवाञ्जलिः प्रभाकारस् तेजोराशिमुद्रा / ताम् एवोष्णीषस्थाने भ्रामयेत् सितातपत्रमुद्रा / वज्रबन्धे कन्यसांगुष्ठद्वयं शृंखलाकारेण बद्ध्वोर्ध्वं भ्रामयेत् / चक्रमुद्रा / वज्रबन्धे मध्यमे वज्राकारेण तर्जन्यो रत्नाकारौ कृत्वा शेषाः प्रभाकारा जयोष्णीषमुद्रा / तथैव तर्जनीद्वयं वज्रीकृत्य शेषांगुल्यो बद्ध्वा वज्राकाराह् कुर्याद् विजयास्य / दक्षिणेन वरदा वामेनाभयदा तथागती / वज्रबन्धे तर्जनीद्वयं वज्राकारं कुर्याद् वज्रमुद्रा / एतस्या एवांगुलदक्षिणतर्जन्याकृष्टांकुशी / सैव रोपाकारा शरः / सैवाग्रांगुष्ठा स्थापिता साधुमतेः / सैव मध्ये भग्ना रत्नम् / तस्या एवांगुलयः प्रभाकारास् तेजः / ताम् एवोष्णीषे स्थापयेत् केतुमुद्रा / ताम् एवाग्रतः स्थापयेद् वाशमुद्रा / सैव पद्माकारा पद्मा / सैवाग्राकृष्टा खड्गः / ताम् एव वलयाकारां कुर्याच् चक्रम् / ताम् एव पद्मपत्राकारां जिह्वा / सैवाग्रप्रसारिता विश्वा / सैव सुप्रसारिता रक्षा / सैवाग्रतः कुंचिता यक्षा / सैवाकुंचिता बन्धम् / तस्या एव तर्जनीद्वयं कुंचितम् अंकुशम् / सैवाग्रग्रस्ता पाशः / सैवान्योन्यं ग्रन्थिता स्फोटः / ताम् एव चालयेद् तोषा /
अथ खलु भगवान् वज्रपाणिस् तं शक्रब्रह्माप्रमुखं महापर्षद्मण्डलम् अवलोक्य साधुकारैः संतोष्य साधु साधु शक्रप्रमुखा देवपुत्रा यद् युष्माकम् ईदृशं प्रतिभानं सजातं तत् साधु प्रतिपद्यध्वं देशयामि /
अथ खलु भगवान् वज्रपाणिः सर्वामितायुस्स्फरणसंभववज्रं नाम समाधिं समापद्यापरिमितायुःपुण्यज्ञानसंभारवर्धनं नाम सर्वतथागतहृदयं स्वहृदयाद् निश्चचार /
ओं पुण्ये पुण्ये महापुण्ये ऽपरिमितपुण्ये ऽपरिमितायुःपुण्यज्ञानसंभारोपचयकारिणि स्वाहा /
अस्यां सर्वतथागतहृदयधारण्यां भाषितमात्रायां सर्वापायाः प्रशान्ता मोचितश् चात्मा सर्वे नरकप्रेततिर्यग्गतिपन्नाः सत्त्वाः प्रजानन्ति /
सर्वे च लोकधातवो ऽवभासिता अवभास्य च द्वादशकारं बुद्धकृत्यं कृत्वा तस्मिन् एव सर्वतथागतहृदयधर्माक्षरे प्रविष्टान्य् अभूवन् /
अथ खलु भगवान् पुनर् अप्य् अमितायुर्वज्रप्रभाकरीं नाम समाधिं समापद्येमं सर्वतथागतायुर्वज्रं नाम हृदयधारणीम् अभाषत /
ओं अमृते ऽमृते ऽमृतोद्भवे ऽमृतसंभवे ऽमृतविक्रान्तगामिनि सर्वक्लेशक्षयंकरि स्वाहा /
अथास्यां भाषितमात्रायां तथैव सर्वसत्त्वानां सर्वदुःखानि प्रशान्तानि /
अथ भगवान् पुनर् अप्य् अमोघावरणविनाशनीं नाम समाधिं समापद्येमं सर्वतथागतावरणत्रोटनं नाम हृदयधारणीं स्वहृदयाद् निश्चचार /
ओं कंकणि कंकणि रोचनि रोचनि त्रोटनि त्रोटनि प्रतिहन प्रतिहन सर्वकर्मपरंपराणि सर्वसत्त्वानां स्वाहा /
अस्यां भाषितमात्रायां तथैव सर्वम् अभूत् /
अथ खलु भगवान् पुनर् अपि सर्वावरणविमलविशुद्धिवज्रं नाम समाधिं समापद्येमां सर्वतथागताशेषावरणविनाशनीं नाम हृदयधारणीं स्वहृदयाद् निश्चचार /
ओं रत्ने रत्ने महारत्ने रत्नसंभवे रत्नकिरणे रत्नमालाविशुद्धे शोधय सर्वपापं हुं फट् /
अस्यां भाषितमात्रायां सर्वमारभवनानि ध्वस्तानि विध्वंसितान्य् अभूवन् /
अथ खलु भगवान् पुनर् अप्य् अमोघाप्रतिहतसर्वावरणविध्वंसनिनामसमाधिं समापद्येमां सर्वतथागतहृदयधारणीं स्वहृदयाद् निश्चचार /
ओम् अमोघाप्रतिहतसर्वावरणविनाशनि हर हर हुं फट् /
अस्यां भाषितमात्रायां सर्वोपमलोकधातुः कम्पितः प्रकम्पितः संप्रकम्पितश् चलितः प्रचलितः संप्रचलितः क्षुभितः प्रक्षुभितः संप्रक्षुभितः / अनेकान्य् आश्चर्याद्भुतानि लोके संदृश्यन्ते स्म / तथैषां मण्डलं भवति /
चतुरस्रं चतुर्द्वारं चतुःपार्श्वे समन्वितम् //
चतुस्तोरणसंयुक्तं नेमिनिर्यूहसंयुतम् //
तस्याभ्यन्तरतो लेख्यं चक्रमण्डलम् उत्तमम् //
चतुरारसमायुक्तं नाभिमण्डलम् उत्तमम् //
तस्य मध्ये लिखेद् नाथं वज्रपाणिं महाबलम् //
वज्रघण्टाकरं सौम्यं पूर्णेन्दुहसिताननम् //
पूर्वारमध्यभागेषु लिखेद् अक्षोभ्यनायकम् //
दक्षिणेन लिखेद् रत्नं पश्चिमेनाम्बुजोत्तमम् //
उत्तरेणामोघाख्यातं लिखेद् वीरं महाबलम् //
चक्रवर्तिकृताटोपान् लिखेत् सर्वतथागतान् //
चन्द्रमण्डलसंकाशान् सर्वाभरणभूषितान् //
वरदाभयहस्तान् तु वज्रपर्यंकसुस्थितान् //
कोणभागेषु सर्वेषु लेख्या धूपादयस् तथा //
द्वारपालाश् च ते लेख्याः क्रुद्धाः क्रोधपरायणाः //
ततः प्रविश्य स्वयं योगी आकर्षयेद् मन्त्रदेवताः //
जः हुं वं होः भगवन् वज्र एह्य् एहि समयस् त्वम् //
ततश् चागतं नाथं पूजयित्वा समासतः //
प्रवेशयेद् मृत्युहानाय मृत्यूरगभयानि च //
ओं वज्रसमये हुं /
वज्रतेरिन्तिरीं बद्ध्वा प्रवेशयेद् रत्नकरान्वितम् //
पुष्पमालान्वितो वापि क्षेपयेद् मण्डले तु तम् //
ओं प्रतीच्छ वज्र हुं /
ततः समयं देयं / ओं वज्रसमये हुं / ततो ऽनेनोद्घाटयेद् वज्रम् / ओं वज्रहासोद्घाटय हुं / ततो ऽनेन दर्शयेत् / ओं वज्र दृश्य होः / ततो ऽभिषेकम् अनेन दद्यात् / ओं वज्राभिषिञ्च हुं / ओं बुद्धाभिषिञ्च ओं / ओं रत्नाभिषिञ्च त्रां / ओं पद्माभिषिञ्च ह्रीः / ओं कर्माभिषिञ्च अः / ततः कलशाभिषेकं दद्यात् / ओं वज्रकलशाभिषिञ्च हुं / ओं बुद्धकलशाभिषिञ्च ओं / ओं रत्नकलशाभिष्ःइञ्च त्रां / ओं पद्मकलशाभिषिञ्च ह्रीः / ओं कर्मकलशाभिषिञ्च अः / ओं मालाभिषिञ्च त्रां / ओं वज्रपटावलम्बनाभिषिञ्च त्रीं / ओं बुद्धमुद्राभिषिञ्च ओम् / ओं वज्रमुद्राभिषिञ्च हुं / ओं रत्नमुद्राभिषिञ्च त्रां / ओं पद्ममुद्राभिषिञ्च ह्रीः / ओं कर्ममुद्राभिषिञ्च अः / ओं वज्रनामाभिषिञ्च ओं हुं त्रां ह्रीः अः / ओं कर्माभिषिञ्च हुं अः / ओं वज्रचक्राभिषिञ्च हुं भ्रूम् / ओं वज्रचक्राधिपतिस् त्वाम् अभिषिञ्च (येत्) ओं ओं ओं / हुं हुं हुं / त्रां त्रां त्रां / ह्रीः ह्रीः ह्रीः / अः अः अः / ओं वज्रधारिण्य् अभिषिञ्च हुं / ओं तथागतधारिण्य् अभिषिञ्च ओं / ओं रत्नधारिण्य् अभिषिञ्च त्रां / ओं पद्मधारिण्य् अभिषिञ्च ह्रीः / ओं कर्मधारिण्य् अभिषिञ्च अः / ओं सर्वतथागतगुह्याभिषिञ्च ओम् / ओं वज्रगुह्याभिषिञ्च हुं / ओं रत्नगुह्याभिषिञ्च त्रां / ओं पद्मगुह्यभिषिञ्च ह्रीः / ओं कर्मगुह्याभिषिञ्च अः / ओं प्रज्ञोपायसमायोगाभिषिञ्च हुं अः /
एवम् अभिषिञ्च्यायुर्वर्धनीं विद्यां दद्यात् / ओं वज्रायुषि हुं अः / अस्यः साधनं भवति /
वज्रायुर् भगवाञ् चन्द्रमण्डलारूढश् चन्द्राभः सर्वाभरणमण्डितः / अभयहस्तो वरदश् च / अमृतं क्षरन्तं / तस्याधस्तात् साधकं प्रसारितांजलिहस्तं ऊर्ध्वमुखं भगवन्तं निरीक्षयन्तं लिखेत् / पञ्चोपचारेण पूजां कृत्वा तस्याग्रतः शतसहस्रं जपेत् /
ततः पूर्णमास्यां महतीं पूजां कृत्वा कपिलागोघृतं नवे भाण्डे स्थाप्य वामवज्रेणाक्रम्य भगवन्तं प्रध्यायन् सकलां रात्रीं जपेत् / ततो गन्धं विनस्यति / अपूर्वं वा गन्धम् उद्वहति / ऊष्मा धूमः शिखा वा निश्चरति / रश्म्युल्का प्रमुञ्चति / एवम् आदिभिर् निमित्तैस् तद् घृतं नवनीतं तैलं वा / उदकं दधि क्षीरं मद्यं रुधिरं वसाम् अस्थिकां वा / मांसं वान्यतमं वा संप्रसाध्य प्रत्यूषे रक्षादिकं च कृत्वा / आत्मानंश् च संशोध्य पिबेद् भक्षयेत् / यथा निमित्तेन यावदा चन्द्रार्कायुर् भवति / वज्रसत्त्वश् चेति / अधमेनाधमा सिद्धिर् भवेत् / नात्र संशयः / निर्मित्तेन भवेल् लोके निर्व्याधिर् मेधान्वितः / वलिपलितसुखात्मा दृढकायः शतायुः / अन्यान्य् अपि कर्माणि शान्तिपुष्टिवशादिकं करोत्य् अविचारेण जापमात्रात् / न संशयः /
अथ चत्वारो महाराजानो भगवन्तं वज्रपाणिं प्रणिपत्यैवम् आहुः / वयम् अपि भगवन् सर्वसत्त्वानाम् अर्थाय हिताय सुखाय स्वकस्वकानि हृदयानि भाषयामः / आज्ञापयतु भगवान् आज्ञापयतु वज्रधृक् / साधु साधु महाराजानो देशयध्वम् अहम् अनुमोदे / अधितिष्ठामि स्वसमयम् /
अथ वैश्रवणो महायक्षराजा भगवदनुज्ञातो ऽनुमोदितो ऽधिष्ठितस् स्वहृदयं स्वहृदयाद् निश्चचार / ओं वैः / अथ धृतराष्ट्रस् तथैव स्वहृदयम् अभाषत / ओं धृः / अथ विरूढकः कुम्भाण्डमहाराजा स्वहृदयम् अभाषत / ओं विः / अथ विरूपाक्षो नागमहाराजा तथैव स्वहृदयम् अभाषत / ओं क्षः /
अथ तेषां मण्डलं भवति /
चतुरस्रं चतुर्द्वारं पञ्चमण्डलमण्डितम् //
तस्य मध्ये लिखेद् नाथं वज्रपाणिं सगर्वितम् //
तस्य वामे पार्श्वे तु लिखेद् वैश्रवणं शुभम् //
गदानकुलिकाहस्तं रत्नाभरणमण्डितम् //
स्थूलं सिंहासनारूढं हेमवर्णं महाद्युतिम् //
भद्रकुम्भादिरत्नौघवर्षयन्तं लिखेद् बुधः //
पुरतो धृतराष्ट्रं तु वीणावादनतत्परम् //
ललितं श्यामवर्णं तु सर्वाभरणभूषितम् //
दक्षिणेन लिखेद् वीरं खड्गहस्तं विरूढकम् //
पश्चिमेन विरूपाक्षं वज्रपाशधरं परं //
फणैः सप्तभिः संपूर्णं लोहिताक्षिभिर् निर्गतम् //
द्वारदेशेषु सर्वेषु द्वारपालास् तथैव च //
ततः प्रविशेत् स्वयं मन्त्री मुद्रया चक्रसंज्ञया //
आकर्षयेद् भगवन्तं ततो राज्ञः समाहरेत् //
आकृष्य पूजयेद् विद्वान् अर्घपात्रैर् यथाविधि //
ततः प्रवेशयेच् छिष्यान् पुष्पमालाविभूषितान् //
राजानं क्षत्रियं वापि ब्राह्मणादिकम् एव वा //
मन्त्रेणानेन मन्त्रज्ञो मुद्रया वज्रधारया //
ओं वज्रसमये हुं /
ततः पुष्पं रत्नं वा क्षेपयेद् अनेन च / ओं वः प्रतीच्छध्वं महोत्तमाः / पतति यस्य राजस्य सो ऽस्य सिध्यति नान्यथा //
ततो ऽभिषिञ्चेत् कलशैश् चतुर्भिः कोणसंस्थितैः //
पञ्चमं वज्रपाणेस् तु मुद्रयैवाभिषिञ्चयेत् //
एवम् आदिक्रमेणैव मण्डलाख्याभिषिञ्चनात् //
अथ राजाभवते राजा राजा भवते महान् //
जम्बुद्वीपपतिश् श्रीमाञ् चतुर्द्वीपपतिर् वरः //
चतुरभिषेकाच् च चतुर्द्वारप्रवेशनात् //
तस्याहं वज्रधरो राजा पालयामि स्वपुत्रवत् //
वयं चतुर्महाराजाः पालयामः सततं नृपम् //
सभृत्यपरिजनन् तु सराष्ट्रपुरमण्डलम् //
दुष्टान् तस्य हनिष्यामः परराष्ट्रं च तस्य च //
व्याधिमृत्युभयं चापि दुर्भिक्षम् ईत्युपद्रवम् //
वैश्रवणः कुरुते पुष्टिं धृतराष्ट्रस् तु शान्तिकं //
विरूढको ऽकालमृत्युं हन्यात् सपशुबान्धवान् //
विरूपाक्षः कुरुते क्षेमं दुर्भिक्षादिविनाशनम् //
संक्षेपतो वयं तस्य सर्वाशां सर्वचिन्तितं //
करोम वज्रपाणिस् तु द्रोहं यदि न निश्चयात् //
अथ दशदिग्लोकपाला भगवन्तं प्रणिपत्यैवम् आहुः //
वयम् अपि भगवन् सर्वसत्त्वहितसुखाय //
स्वकस्वकानि हृदयानि प्रददामः //
साधु साधु लोकपालाः साधु साधु वदतेति //
अथेशानो भूताधिपतिर् हृदयं ददाति /
ओं इ / ओम् ई / ओं अः / ओं यः / ओं ऋः / ओं वः / ओं यः / ओं कुः / ओं आः / ओं व्रः /
अथैषां मण्डलं भवति / मण्डलं पूर्ववद् लिखेद् मध्ये नाथं तथैव च //
दिक्पालास् तु स्वदिग्भागे स्थापयेत् पुरतो द्वयम् //
आदित्यं वराहरूपन् तु द्वारपालास् तथैव च //
ततश् चाकृष्य तान् सर्वान् पूजयेत् सर्वपूजया //
ततः प्रवेशयेत् शिष्यान् प्रविश्य स्वयम् एव तु //
अभिषिञ्चयेत् कलशैश् च दिक्पालादिमन्त्रितैः //
ततो दद्याद् धृदयं साधनाय हितैषणतः //
सिध्यन्ते ऽविचाराश् च दिक्पालास् स्वदिक्स्थिताः //
अथ ते तुष्टा एवम् आहुः / यः कश्चिद् भगवन् राजा क्षत्रियो वा मूर्ध्न्य् अभिषिक्तः / एतद् मण्डलं प्रविश्याभिषेकं गृह्णेत् / अन्यो वा श्राद्धः कुलपुत्रो वा कुलदुहिता वा / तस्य वयं भगवन् सर्वदा सर्वत्र रक्षावरणगुप्तिं संविधास्यामः / परराष्ट्राणि च वर्धयिष्यामः / कालेन कालं वर्षिष्यामः / सस्यपुष्पफलानि च निष्पादयिष्यामः /
अथ यमो महाधर्मराजा भगवन्तं प्रणम्यैवम् आह /
अहं भगवन् तस्य महाराज्ञ आयुर् ददामि / अष्टकालमरणानि प्रतिबाधयामि /
नैरृतो महाराक्षसाधिपतिर् एवम् आह / अहं भगवन् तस्य राज्ञो राजपुत्रस्य ब्राह्मणस्य क्षत्रियस्य वान्यतरेषु वा मनुष्येषु न व्याधिप्रेतपिशाचभयं न राक्षसभयादिकं नाकालमृत्युभयं करिष्यामि / सर्वदा रक्षावरणगुप्तिं करिष्यामि /
अथ वरुणो महाराजैवम् आह / अहं भगवन् तस्य महाराज्ञः सर्वदा सर्वत्र सर्वविषयं प्रतिपालयिष्यामि / आरक्षां च करिष्यामि / सस्यानि च निष्पादयिष्यामि / नागदोषानि च न प्रयच्छामि / विषाशनीञ् च नोत्सृजामि / सर्वाकालमरणानि च प्रतिबाधयामि /
अथ वायव्याधिपतिर् एवम् आह /
अहम् अपि भगवन् तस्य महासत्त्वस्य सर्वदा वायुभयं नोत्सृजामि / नाकालवातं चोत्सृजामि / सर्वसस्यपुष्पफलानि च परिनिष्पादयिष्यामि / सर्वभयञ् च प्रतिबाधयामि /
अथ कुवेरो महायक्षराजा भगवन्तं नमस्यैवम् आह / अहं भगवन् तस्य महासत्त्वस्याष्टाशीतिभिर् महायक्षसेनापतिभिः सहागत्य सर्वकालोद्योगेन सर्वदा सर्वभयं प्रतिबाधयामि / सर्वधनधान्यसमृद्धिञ् च करोमि / स्वजनपरिजनदेशविषयभृत्यबन्धुबान्धवमित्रपुत्रदुहितृभार्यादिरक्षां च करोमि / गोगव्यखरोष्ट्रमेषगजवाजिच्छागलादिरक्षं करोमि /
अथेशानः सर्वभूताधिपतिर् भगवन्तं प्रणिपत्यैवम् आह / अहं भगवन् तस्य राज्ञो राजपुत्रस्य क्षत्रियस्य ब्राह्मणस्य वा / इहामुत्र परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं दिग्बन्धं वज्रप्राकारं वज्रकीलनं वज्रपञ्जरं च करोमि / सर्वकार्येषु प्रत्युपस्थापयामि / कार्येष्व् अकार्येसु निमित्तं च दर्शयामि / स्वप्ने च सर्वं शुभं कथयामि / साधयतो ऽविघ्नेन सर्वसिद्धिं च दास्यामि /
अथाकाशचारी खगपतिर् भगवन्तं प्रणिपत्यैवम् आह / अहं भगवन् सर्वदा सर्वं च पथिगतस्य राज्ञो राजपुत्रस्य राजामात्यस्य ब्राह्मणस्य क्षत्रियस्य वा स्वयम् आगत्य सर्वपरिवारेण रक्षावरणगुप्तिं संविधास्यामि / सर्वावरणं प्रतिवारयामि / सर्वव्याधिम् अपनयामि / सर्वदा चानुबद्धो भवति / अथ पातालाधिपतिर् महावराहो भगवन्तं नमस्यैवम् आह / अहं भगवन्तस्य नराधिपतेश् च नृपसुतस्य वा द्विजातेर् द्विजसुतस्य वा क्षत्रियवैश्यशूद्रस्य वान्यतरस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर् वा सर्वदा सर्वार्थं निष्पादयिष्यामि / सर्वभयेषु च रक्षां करिष्यामि / अनेनापि परित्रायिष्यामि /
अथाष्टौ महाग्रहाः सनक्षत्रपरिवारा एवम् आहुह् / वयं भगवन् सपरिवाराः स्वकस्वकानि हृदयानि ददामः / तद् भगवान् अधितिष्ठतु / साधु साध्व् अधितिष्ठंतु मया भाषध्वं महाग्रहाः / अथादित्यादयो महाग्रहा भगवन्तं नमस्याभाषन्त /
ओम् आः / ओं सोः / ओं अः / ओं बुः / ओं ब्र्ः / ओं शुः / ओं साः / ओं राः /
अथैषां मण्डलं भवति /
मध्ये भगवन्तं वज्रपाणिं त्रैलोकविजयरूपं संलिख्य /
समन्ताच् चत्वारो महासमुद्रान् लिखेत् //
शुक्रन्तु तस्य पुरतः सोमं पृष्ठतो लिखेत् //
दक्षिणे बृहस्पतिं लिखेद् वामतश् च बुधं लिखेत् //
अग्निस्थाने तु चांगारम् आदित्यं वायव्यां दिशि //
शनिश्चरं तु ऐशान्यां राहुं राक्षससन्निधौ //
नक्षत्रं सर्वत्र लेख्यं समन्ताद् बाह्यमण्डले //
द्वारे द्वारे तथा द्वारीं लिखेच् च क्रोधमानसम् //
वज्रधार्या प्रविश्य सर्वान् आवाहयेत् //
वज्रांकुशादिभिर् इति ततश् शिष्यान् प्रवेशयेत् //
ओं वज्र हन हुं फट् / ओं वज्रग्रहसमये हुं फट् / ओं वज्रग्रह प्रतीच्छ समये हुं /
ततो ऽष्टभिः कलशैर् अभिषिञ्चेत् //
अष्टग्रहाभिमन्त्रितैः //
ततो वज्रमुद्रयाभिषिञ्चेत् //
ततस् सर्वग्रहं साधयेत् //
अथ ते महाग्रहा भगवन्तं नमस्यैवम् आहुः / वयं भगवन् अष्टौ महाग्रहास् तस्य महाराज्ञो राजपुत्रस्य वा सर्वदा सर्वत्र तथैव सर्वं करिष्यामः / अथ नक्षत्रक्षणलवमुहूर्तकरणतिथियोगराशिलग्नविष्टिमण्डलादिदेवतास् तथैव नमास्यैवम् आहुः / वयम् अपि भगवन् सर्वदा तस्य महासत्त्वस्याज्ञां नोत्सृजामः / भृत्यवत् प्रतिपालयामः / सर्वनगरनिगमजनपदराष्ट्रराजधानीं च प्रतिपालयामः / उत्पन्ने तु महाभये युष्माकं पूजयिष्यति तस्यावश्यं तद् भयं न भविष्यति /
अथाष्टौ महानागाः फुंकारध्वनिना भगवन्तं संतोष्यैवम् आहुः /
वयं भगवन् सर्वेषां गुह्यहृदयं दास्यामः /
साधु साधु महानागा ददध्वं हृदयं वरम् / अथ ते तुष्टा महानागा भगवन्तं नमस्यैवम् आहुः /
ओं फुः / ओं फः / ओं फुं / ओं फां / ओं फीः / ओं फेः / ओं फईः / ओं फौः /
अथैषां मण्डलं भवति /
अष्टपत्रं महापद्मं संलिखेच् छ्वेतवर्णकम् //
तस्य मध्ये लिखेद् नाथं वज्रपाणिं सुकृष्णकम् //
समन्तात् सप्तफणं तर्जयन्तं महोरगम् / अनन्तं तक्षकं चैव कर्कोटं कुलिकं तथा //
वासुकिं शंखपालं च पद्मं वै वारुणं तथा //
एते लेख्याः समासेन पत्रे पत्रे फनज्वलाः //
सप्तसप्तफणा लेख्याः सभार्याः कण्ठसमागमाः //
कलशाष्टकं संस्थाप्य बलिनैवेद्यशोभितम् //
घृतक्षीरसमाक्षिकं कृत्रिमाश् चापि भेदकाः //
ततः संप्रविश्य वज्रात्माकर्षयेत् पाणिना फणैः //
फुंकारसहितैस् तु जः हुं वं होः प्रवर्तयेत् //
ततः प्रवेश्य तान् सर्वान् राजं क्षत्रियम् एव वा / अभिषिञ्चेत् फुंकारैर् विषदोषमलापहैः /
ततः सिध्यन्ति सर्वे ते नागा नामग्रहाद् अपि //
अथ ते समन्तं तुष्टा भगवन्तं नमस्य च //
प्रणिधानं प्रकुर्वन्ति स्थित्वा प्राञ्जलयः पुरः //
वयं भगवतः शासनाभिरतस्य यद् इदं मण्डलं प्रविष्टस्य विषंवादयामः / तदा भगवन्तम् एव विषंवादयामः / तदास्माकं तप्तवालुका भविष्यन्तु / आदीप्तेन वज्रेनास्माकं मूर्ध्नि स्फुटिष्यन्ति / सततं समितं च तस्य महासत्त्वस्य रक्षावरणगुप्तिं करिष्यामः / महौजोबलवीर्यं क्षेप्स्यामः / निर्विषं चापि विषं करिष्यामः / कालेन कालं वर्षयिष्यामः / सर्वसस्यानि निष्पादयिष्यामः / सर्वपरराष्ट्राणि च विकालवृष्टिम् उत्सृजामः / सर्वभयं विनाशयिष्यामः/ जिनाज्ञया वज्रधराज्ञया प्रतिपालयिष्यामः /
अथ साधनं भवति /
फुंकारं जपेल् लक्षं ध्यात्वा वज्रधरं प्रभुम् //
सितांशुमालिनं दिव्यं शिखायां फणावस्थितम् //
ततो विषं गृह्य ध्यात्वा फुंकारमण्डलम् //
रश्मिमालाकुलं दिव्यं फुंकारं तत्र चिन्तयेत् //
आकर्षयेद् हृतकृतिफणिपाशाकृतिकरेण //
फुंकारवातेन समीरयेत् तं विषं समस्तम् //
तनुरस्थिमांसगम् //
ततः सर्वकर्माणि कुर्याद् विषज्वरगरादिकं //
मुष्ट्या वै हरेत् सर्वं किं पुनः फणमुद्रयेति //
अथ महाभैरवो महादेवाधिपतिर् अष्टभिर् महामातृकाभिः परिवृतो भगवन्तं प्रणिपत्यैवम् आह / मद्भयान् मातृकाभयाच् च भगवन् सर्वदेवनागादयः संत्रस्ता वित्रस्ताः प्रत्रस्ता अधोमुखीभूता निमग्ना नष्टचेतसः परिभ्रमन्ति तु तेषां हितार्थाय हृदयं प्रदास्यामि / तत् साधु भगवान् अधितिष्ठतु / साधु साधु महाभैरव सुभैरव भाषस्व स्वहृदयं दिव्यमातृकाणां च सर्वासाम् /
अथ महाभैरवः सुभैरवनादं नदन् एवम् आह /
ओं भैरवैः भीः स्वाहा / ओं भाः स्वाहा / ओं भीः स्वाहा / ओं भूः स्वाहा / ओं भेः स्वाहा / ओं भैः स्वाहा / ओं भोः स्वाहा / ओं भं स्वाहा / ओं भः स्वाहा /
इत्य् एते भगवन् अष्टौ भैरवाः समाज्ञाकराः / अथैषां मण्डलं भवति /
अष्टारं महाचक्रं लिख्य मध्ये निवेशयेत् //
वज्रपाणिं महाक्रोधं त्रिलोकविजयावहं //
तस्य पादतले क्रुद्धं भैरवाणां महाधिपम् //
लिखित्वा भैरवीयुक्तं लिखेद् अन्यान् यथासुखम् //
आरमध्येषु सर्वेषु लिखेद् भैरवम् अष्टकम् //
मातृकाभिश् च समायुक्तं तत्क्रोधास्यक्रुद्धमानसम् //
द्वारे द्वारे तथैवेह लिखेद् द्वारिं सुक्रोधनम् //
ततो वाह्यांकुशादिभिः पुजयित्वा कपालया रुधिरपूर्णया //
मद्यं मांसं बलिं दिव्यं रुधिरपूर्णभाजनम् //
कपालं मुण्डनखण्डं चाष्टौ कलशान् पूरितान् //
रुधिरैर् आसवैर् वापि स्थापयेत् तस्य मण्डले //
ततः प्रवेशयेच् छिष्यान् त्रिलोकविजयापरः //
अभिषिञ्चेत् कपालेन कलशैर् अपि चाष्टभिः //
ततः कर्माणि दद्यात् / मातृकागृह एकलिंगे वा त्रिलोकमथने वरं //
पूजां कृत्वा यथान्यायं जपेल् लक्षचतुष्टयं //
ततो नादं प्रश्रुयते भैरवस्य महात्मनः //
निर्भीर् अर्घं प्रयच्छेत् कपालेन सुरक्तिना //
ततः पश्यति तं क्रुद्धं भैरवं दुष्टमानसम् //
मातृकागणसंपूर्णम् अष्टभिर् भैरवैर् वृतम् //
तं दृष्ट्वा निर्भयो भूत्वा दद्याद् मांससुपूरितम् //
कपालं वासवैः पूर्णं हुंकारम् अनुस्मरेण //
ततस् तुष्टः प्रसिध्येत भैरवो दुष्टघातकः //
ब्रूयात् किम् इच्छेति तद् दद्यात् तुष्टमानसः //
रसरसायनं द्रव्यं खड्गं चक्रं त्रिशूलकम् //
स्वर्गमर्त्यपातालं राज्यं द्वीपचतुष्टयं चापि //
शक्रत्वं यक्षेश्वर्यं राक्षसत्वं विद्याधरत्वं //
विद्याधरचक्रवर्तित्वं त्रैलोक्याधिपतित्वम् //
मुक्त्वा भूमिदानञ् चेति / किंकरत्वं चापि स्वयगणं मातृकां वा ददाति //
यथेष्टान्यतमां सिद्धिं प्रार्थयेत् //
हुंहृतिना सुखिना दत्त्वा विहसन् याति //
भीतं मारयते क्षणात् //
अथ ब्रह्मादयो महादेवा भगवन्तं नमस्यैवम् आहुः / वयम् अपि भगवत आज्ञया स्वकल्पं भाषयामः / तद् भगवान् कम्पाम् उपादायाधितिष्ठतु / अथ ब्रह्मादयो देवाः स्वहृदयम् अभाषन्त /
ओं ओं / ओं विः / ओं रुः / ओं इः / ओं कः / ओं गः / ओं भृः / ओं कः /
अथैषां मण्डलं भवति /
मण्डलं पूर्ववल् लिखेद् मध्ये त्रैलोक्यसंग्रहम् //
तस्याग्रतो लिखेद् वीरम् ईश्वरं शूलपाणिम् //
पृष्ठतो विलिखेद् ब्रह्माणं वामतश् चक्रपाणिम् //
दक्षिणेन लिखेद् इन्द्रं स्वमुद्राकरचिह्नितम् //
द्वारपालास् तथैवेह भार्या एसां स्वमण्डले //
कलशान् पूर्णकुम्भांश् च स्थापयेद् बाह्यमण्डले //
बलभद्रं दीप्तमहर्द्धिकम् //
ततः प्रविश्य तान् देवान् आह्वयति विचक्षणः //
जः हुं वं होः सुराः सर्वे प्रविशध्वं पुरोत्तमे //
अथ तान् ततो द्र्ष्ट्वा पूजयेद् महासुखैः //
ततः प्रवेशयेच् छिष्यान् मुद्रया वज्रधारया //
ओं प्रतीच्छध्वं महासत्त्वा वज्रधराज्ञया हुं ह ह ह होः /
पुष्पान् प्रक्षिप्य यथावच् चक्षुर् उद्घाट्य दर्शयेत् //
ततो ऽभिषिञ्चेत् तोयेन कलशाद् अभिमन्त्रितम् //
ततः सर्वं प्रदद्यात् तद् देवानां तु यथेप्सितम् //
लक्षम् एकं द्विलक्षं वा कृत्वा सेवाप्ररोचितम् //
साधयेत् साधकस् तेषाम् ईश्वरादिसुरोत्तमान् //
एकलिंगादिषु स्थान अथ वा वज्रपाणिनः //
गृहे तथागते चापि सधातुवरचैत्यके //
साधयेत् साधको नित्यं सर्वदेवान् यथावद् इति //
अर्धरात्रे ततो देवा गत्वा वेदय ते ध्रुवम् //
ईप्सितं त्वया किं हितं दास्यामो यथासुखं //
वद भद्र द्रुतं चिन्त्य येन दास्यामस् ते वरम् //
ततो याचते मन्त्रज्ञो वरसिद्धिं तु देवते //
रसरसायनं दिव्यम् अन्तर्धानं तु खे गमम् //
गुलिकाराजद्रव्यादि याचयेद् मनैषिणाम् // इति
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
