Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
सङ्घभेदवस्तु
- Thông tin
- GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ येन कोकालिकप्रभृत्ययस् तेनोपसंक्रान्तौ; यावत् कोकालिकस्य हि जिह्वा हलशतेन धार्यते; ब्रह्मणा सभांपतिना कोकालिक उच्यते; कोकालिकाभिप्रसाद्य शारिपुत्रमौद्गल्यायनयोर् भिक्ष्वोर् अन्तिके चित्तं पेशलयोः सब्रह्मचारिभिर् वत्सलयोर् इति; एवम् उक्तो कोकालिक आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ दृष्ट्वा कथयति: इहाप्य् एतौ पापेच्छाव् आगताव् इति; वाक्प्रव्याहरणकालसमनन्तरम् एव कोकालिकस्य हलसहरेण जिह्वा पाटयितुम् आरब्धा; अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनाव् अकरणीया ह्य् एते इति विदित्वा प्रक्रान्तौ; येन पूरानः काश्यपस् तेनोपसंक्रान्तौ अथ पूरणः काश्यप आयुष्मन्तोः शारिपुत्रमहामौद्गल्यायनयोः पादयोर् निपत्य कथयति: आर्य शारिपुत्र मया मिथ्याधर्मदेशनया महाजनकायो विप्रलब्धः; तस्य मे कर्मणो विपाकेन जिह्वायां पंच हलशतानि वहन्ति; यथा यथा च श्रावका स्तूपकारान् कुर्वन्ति तथा तथा तीव्रतरवेदनां वेदयामि; तद् अर्हसि मदीयाम् अवस्थां तेषां निवेद्य निवारयितुं: मा तस्य स्तूपकारं करिष्यथेति; तथेति प्रतिज्ञाय आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ नरकचारिकां (msv iv 240) चरित्वा ऋद्ध्या जम्बूद्वीपम् अनुप्राप्ता; ताभ्यां भगवतो भिक्षूणां जनकास्य देवदत्तकोकालिकपूरणप्रभृतीनां नरकोपपन्नानाम् अवस्था विस्तरेण समाख्याता भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो भगवतो वचनम् अवचनीकृत्यावीचौ महानरके (अ 519ब्) पतित इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एष मम वचनम् अवचनीकृत्य अनयेन व्यसनम् आपन्नः; तच् छ्रूयताम् (sbv ii 265)
the story of the bull and the ass (concerning a previous life of the buddha and devadatta)
भूतपूर्वं भिक्षवो ऽनियतराश्यवस्थितो बोधिसत्वो गोषूपपन्नो वृषो बभूव; स रात्रौ नगरान् निर्गम्य राजकीये माषक्षेत्रे चरति; दिवा नगरे तिष्ठति; यावत् तस्य सकाशं गर्दभः उपसम्क्रम्य कथयति: मातुल त्वं उपचितत्वमांसशोणितः; न चाहं त्वां पश्यामि कदाचिच् चरन्तम् इति; स कथयति: भगिनेयाहं रात्रौ राजकीये माषक्षेत्रे चरामीति; स कथयति: अहम् अपि मातुल त्वया सार्धं चरामीति; स कथयति: भागिनेय त्वं वाचाटो मनर्थं करिष्यसीति; स कथयति: मातुल गछामि न करिष्यामीति; तौ वाटं भङ्क्त्वा राजकीये माषक्षेत्रे निपतितौ; गर्दभस् तावत् तूष्णीम् अवस्थितो यावद् आशितो जातः; ततः कथयति: मातुल गायामि तावद्; वृषः कथयति: तिष्ठ तावन् उहूर्तं यावद् अहं निर्गच्छामीति; पश्चाद् यथेष्टं करिष्यसि; इत्य् उक्त्वा निष्पलायितः; गर्दभो वाशितुम् आरब्धः; राजपुरुषैः (msv iv 241) श्रुत्वा गृहीतः: भवन्तः अनेन गर्दभेन सर्वम् इदं राजकीयं माषक्षेत्रं भक्षितं; निग्रहम् अस्य कुर्म इति; तैः कर्णौ च्छित्वा उलूखलं च ग्रीवायां बद्ध्वा मुक्तः; इतश् चामुतश् च परिभ्रमन् वृषेण दृष्टः; स तं गाथया प्रत्यभाषत साधु गीतं सुष्ठु गीतं प्राप्तं गीतस्य तत् फलम् / यतो ऽसि तव गीतेन जातः कर्णविहीनकः //
एवं हि तस्य भवति यो वाचं च न रक्षति / भ्रमेदानीं कर्णहीनः उलूखलविभूषितः // इति / सो ऽपि गाथया प्रत्यभाषत तूष्णीं भव खण्डदन्त तूष्णीं भव जरद्गव / त्वाम् अप्य् अत्र गवेषन्तो दण्डहस्तास् त्रयो जनाः // इति / भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ वृषः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ गर्दभ एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम वचनम् अवचनीकृत्यानयेन (sbv ii 266) व्यसनम् आपन्नः; पुनर् अपि यथैव मम वचनम् अवचनीकृत्यानेन व्यसनम् आपन्नस् तच् छ्रूयताम्
the story of the bull and the jackal (concerning a previous life of the buddha and devadatta)
भूतपूर्वं भिक्षवो ऽन्यतस्मिन् कर्वटके गृहपतिः प्रतिवसति; तस्य वलीवर्दो लक्षणसंपन्नः; तेनासौ श्रमणब्राह्मणान् स्वजनान् अनाथकृपणवनीपकान् भोजयित्वा यथेष्टप्रचारी उत्सृष्टः; सो ऽपरेण समयेन इतश् चामुतश् च परिभ्रमन् कलुषे मग्नो ऽवस्थितः; तेन सूर्यास्तंगमनकालसमये श्रुतं; समन्वेषमाणस् तस्य सकाशं (msv iv 242) गतः; स संलक्षयति: न शक्नोमि अहम् अधुना समुद्धर्तुं; श्वः प्रभाते समुद्धरिष्यामीति; वृषः कथयति: मम पुरस्तात् पाशं स्थापयित्वा गच्छ; यदि शृगाल आगमिष्यति तस्याहं शृङ्गे पाशं क्षेप्स्यामीति; स तस्य (अ 520अ) पुरस्तात् पाशं क्षिप्त्वा प्रक्रान्तः; यावद् रात्रौ शृगाल आगतः; स कथयति: को ऽयं बिसान्य् उत्खनति पुण्डरीकानि चेति; वृषः कथयति: अहं निमग्नस् तिष्ठामीति; शृगालः संलक्षयति: भक्ष्यो मे प्रत्युपस्थित इति; स तम् अभिद्रवितुम् आरब्धः; वृषः कथयति: गच्छ त्वम् अस्मात् प्रदेशान् मा अनयेन व्यसनम् आपत्स्यस इति; तथाप्य् असौ निवार्यमानो ऽभिद्रवत्य् एव; स वृषो गाथां भाषते नाहं बिसान्य् उत्खनामि पुण्डरीकानि नाप्य् अहम् / सचेद् भक्षितुकामो ऽसि पृष्ठतो गच्छ भक्षय // इति / शृगालो भक्षयामीति पृष्ठतो गतः; वृषेण शृङ्गे पाशः क्षिप्तः; शृगालो ग्रीवायां बद्धः; आकाशे प्रलम्भते; वृषो गाथां भाषते किं नटो नर्तको वा त्वम् उत शोभितदारकः / ग्रामे विदर्श्यतां शिल्पम् अरण्ये नास्ति दायकः // इति / (sbv ii 267) शृगालो ऽपि गाथां भाषते नाहं नटो नर्तको वा नापि शोभितदारकः / दत्ता शकेण मे श्रेणी ब्रह्मलोकं व्रजाम्य् अहम् //
इति / (msv iv 243) भूयो वृषो गाथाम् भाषते न शक्रो ददाति श्रेणीं ब्रह्मलोकः कुतस् तव / बद्धो ऽसि कूटपाशेन न ते पश्यामि जीवितम् // इति / किं मन्यध्वे भिक्षवः? यो ऽसौ वृषः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ शृगाल एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम वचनम् अवचनीकृत्यानयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् एष मम वचनम् अवचनीकृत्यानेन व्यसनम् आपन्नः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: भदन्त देवदत्तो भगवतो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्त इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एष मम विक्रोशतो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्तः; तच् छ्रूयताम्
the story of the king caitika and the two sons of the purohita (concerning a previous life of the buddha and devadatta)
भूतपूर्वं भिक्षवो ऽन्यतमस्यां राजधान्यां राजा चैतिको नाम राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; पुण्यानुभावाद् देवता अन्तरीक्षे आसनं धारयन्ति; तस्य राज्ञः पुरोहितस्य द्वौ पुतौ ज्येष्ठो कनीयांश् च; तत्र ज्येष्ठो नैष्क्रम्याभिनन्दी; कनीयान् पौरोहित्याभिन्नन्दी; ज्येष्ठः पश्यति पितरं धर्माधर्मेण पौरोहित्यं कारयन्तं; स सम्लक्षयति; अहं पितुर् अत्ययात् पुरोहितो भवियामि; यन्न्व् अहम् अपि प्रव्रजेयम् इति; स पितरम् अनुज्ञाप्य भगवच्छासने प्रव्रजितः; यावद् अपरेण समयेन पुरोहितः कालगतः; स कनीयान् पौरोहित्ये प्रतिष्ठापितः; स अधर्मेण पौरोहित्यं कर्तुम् आरब्धः; जनकायः पीड्यते; यावद् अन्यतमः पुरुष इतश् चामुतश् च परिभ्रमंस् तस्य (msv iv 244) ज्येष्ठस्य (sbv ii 268) प्रव्रजितस्य सकाशम् उपसंक्रान्तः; स तेन दृष्टः: कुतस् त्वम् आगच्छसीति; तेन समाख्यातम्: अमुष्या राजधान्याः; स वार्त्तां प्रष्टुम् आरब्धः; स कथयति: राज्ञः पुरोहितः कालगतः; तस्य कनीयान् पुत्रः पौरोहित्ये प्रतिष्ठति; सो ऽधर्मेण पौरोहित्यं (अ 520ब्) करोति; जनकायः पीड्यते इति; स कथयति: कंचित्कालं प्रेक्षय; अहम् एव तत्र गत्वा अहितान् निवारयिष्यामि हिते च संनियोजयिष्यामि यथा न जनपदान् निपीडयतीति; तेन पुरुषेण गत्वा ज्ञातीनाम् एतत् प्रकरणं निवेदितं; श्रुतिपरंपरया तेन कनीयसा श्रुतं; तेन राज्ञे निवेदितं: देव मम स ज्येष्ठो भ्राता आगमिष्यतीति; राजा कथयति: शोभनं; स एव पुरोहितो भविष्यतीति; स कथयति: देव त्वं नाम मया इयन्तं कालं वृथा सेवित इति; राजा कथयति: एष लोकधर्मो ज्येष्ठः सः; अपित्व्
एकेन प्रकारेण तव पौरोहित्यं भवत्व् इति; यदि त्वं त्स्मिन्न् आगते कथयसि: अहं ज्येष्ठ इति; स कथयति: एवं भवतु, वक्ष्यामीति; यावद् असाव् आगतः; तं दृष्ट्वा सराजका पर्षद् उत्थिता; स तु नोत्थितः; तेनोक्तः: त्वं मम कनीयान् कस्मान् नोत्तिष्ठसीति; स कथयति: त्वम् एव कनीयान् अहं ज्येष्ठः; यदि तव न प्रत्ययो वयं राजकुले वृद्धांस् देवं च पृच्छामः; ज्येष्ठेन राजा पृष्ठः; कथय भो राजन् क आवयोर् ज्येष्ठ इति; राज्ञा संप्रजानं मृषा वाग् भाषिता: एष ज्येष्ठस् त्वं कनीयान् इति; वाक्प्रव्याहरणकालसमन्तरम् एव तस्य देवताभिर् (msv iv 245) आसनं मुक्तं; स पृथिव्यां पतितो मुखाच् चास्य पूतिगन्धः प्रवाति; ज्येष्ठः पुरोहितपुत्रो गाथां भाषते मृषा हि भाषमाणस्य प्रक्रामन्तीह देवताः /
मुखं च पूतिकं भवति स्वर्गाच् च परिहीयते //
सत्यं कथय भो राजन् भविष्यति यथा पुरा / मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक //
अजिह्वको ऽसौ भवति मत्स्यो वारिचरो यथा / परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् //
सत्यं कथय भो राजन् भविष्यसि यथा पुरा / (sbv ii 269) मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक //
अपुमान् जायते तत्र पुमांस् तत्र न जायते / परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् //
सत्यं कथय भो राजन् भविष्यसि यथा पुरा / मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक //
वर्षत्य् अकाले देवश् च काले तत्र न वर्षति / परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् //
सत्यं कथय भो राजन् भविष्यसि यथा पुरा / मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक //
द्वे जिह्वे भवतस् तस्योरगस्येव हि जन्तुनः / परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् // (msv iv 246) सत्यं कथय भो राजन् भविष्यसि यथा पुरा / मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक //
इत्य् एवं चैतिको राजा कर्म कृत्वा सुदारुणम् / अवीचिं नरकं प्राप्तो निरयं पापकर्मणा //
किं मन्यध्वे भिक्षवः? यो ऽसौ ज्येष्ठः पुरोहितपुत्रः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ चैतिको राजा एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम विक्रोशतो वचनम् अशृण्वन्न् अवीचिं नरकं प्राप्तः; एतर्ह्य् अप्य् एष ममविक्रोशतो वचनम् अशृण्वन्न् अवीचिं नरकं प्राप्तः (अ 521अ) भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो हितम् उच्यमानो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्त इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वन्य् एष मया हितम् उच्यमानो वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः; तच् छ्रूयताम्
the story of the master-mechanic and his pupil (concerning a previous life of the buddha and devadatta)
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके यन्त्रकलाचार्यः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; साष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिको जातः; तस्य त्रीणि सप्तकान्य् एकविंशतिदिवसान् (sbv ii 270) विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितं; सा उन्नीतो वर्धितो महान् संवृत्तः; पिता चास्य कालगतः; सो ऽन्यतमस्मिन् कर्वटके ऽन्यस्य यन्त्रकलाचार्यस्यान्तिकाद् (msv iv 247) यन्त्रकलां शिक्षितुम् आरब्धः; तेनान्यतमस्मिन् कर्वटके गृहपतेः सकाशाद् दारिका प्रार्थिता; स कथयति: यदि अमुष्मिन् दिवसे आगच्छसि दास्यामि; अन्यथा नेति; तेन यन्त्रकलाचार्यस्य निवेदितम्; उपाध्यायामुष्मिन् कर्वटके गृहपतिः; तस्य सकाशान् मया दारिका प्रार्थिता: स कथयति: यद्य् अमुष्मिन् दिवस आगच्छसि दास्यामि; अन्यथा नेति; यन्त्रकलाचार्यः कथयति: पुत्र यद्य् एवं गच्छावः; अहम् एव प्रतीच्छामीति; स तेन् सार्धं काष्ठमयं मयूरम् अभिरुह्य यस्मिन्न् एव दिवसे अवधिः कृतस् तस्मिन्न् एव दिवसे कर्वटकम् अनुप्राप्तः; दृष्ट्वा परं विस्मयम् आपन्नः; ततो दारिकां प्रतिगृह्य पुनस् तद् यन्त्रम् आरुह्य स्वगृहम् आगतः; यन्त्रं संगृह्य मातुः समर्पितम् उक्तं च; अयं तव पुत्रो यन्त्रस्य प्रवर्तनयोगं जानीते नो तु निवर्तनं; न त्वयास्य यन्त्रं देयम् इति; स भूयो भूयो मतुः कथयति: अम्ब प्रयच्छ मे यन्त्रं महाजनकायम् अन्वावर्तयामीति; सा कथयति: पुत्र आचार्यस् ते कथयति: अयं प्रवर्तनप्रयोगं जानीते नो तु
निवर्तनं; मा दास्यसि मानयेन व्यसनम् आपत्स्यतीति; तस्माद् अहं न ददामीति; स कथयति: अम्ब प्रवर्तनम् अप्य् अहं जानांइ निवर्तनम् अपि; किं त्व् असाव् आचार्यो मात्सर्येण न ददातीति; लघुचित्तो मातृग्रामः; तया लोभितया दत्तं; स यन्त्रम् आम्रेड्याभिरुह्य संप्रस्थितः; महाजनकायो ऽभिप्रसन्नः; ततो यन्त्रकलाचार्येण दृष्टः; स कथयति: गतो ऽयम् अपुनरागमनायेति; स यथा यथा संभ्रमाद् आम्रेडयति (msv iv 248) तथा तथा दूरतरं गच्छति; यावन् महासमुद्रं गतः; महासमुद्रे सदा वर्षति देवः; बन्धनामि क्लिन्नानि; अनयेन व्यसनम् आपन्नः; देवता गाथां भाषते यो ह्य् अर्थकामस्य हितानुकम्पिनो वचो न गृह्णाति यथानुशिष्टम् / स उह्यते दारुमयेण पक्षिणा अनायको न शृणोतीह कस्यचित् //
इति / भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ यन्त्रकलाचार्यः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ तस्यान्तेवासी एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् एष मया हितम् उच्यमानो मम वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः (sbv ii 271) (अ 521ब्)
the question of upāli
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति: उच्यते भदन्त संघभेदः उच्यते भदन्त संघसामग्री इति; तत्र कतरो भेदः कतरा संघसामग्री; यतश् चोपालिन् भिक्षवः धर्मे ऽधर्म्संज्ञिनः अधर्मे धर्मसंज्ञिनो व्यग्रे अव्यग्रसंज्ञिनः कर्माणि कुर्वन्ति; अयम् उच्यते संघभेदः; यतस् तु धर्मे धर्मसंज्ञिनः समग्रे समग्रसंज्ञिनः कर्माणि कुर्वन्ति; इयम् उच्यते संघसामग्री इति यत्रैको भिक्षुर् न तत्र संघो भिद्यते; यत्रौ द्वौ यत्र त्रयो यावद् अष्टौ न तत्र संघो भिद्यते; यत्र नव भिक्षवो उत्तरे वा तत्र द्वाभ्यां कारणाभ्यां संघो भिद्यते; ज्ञप्तिकर्मणा शलाकाग्रहणेन च (msv iv 249) कथं ज्ञप्तिकर्मणा? यथापितद् देवदत्तो भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति: पंचभिर् आयुष्मन्तो व्रतपदैर् भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; कतमैः पंचभिः? आरण्यकत्वेन आयुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; वृक्षमूलिकत्वेन पैण्डपातिकत्वेन त्रैचीवरिकत्वेन पांसुकूलिकत्वेनायुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; येषां युष्माकम् आयुष्मन्तः न क्षमन्ते एभिः पंचभिः व्रतपदैः शोधुं मोक्तुं निर्यातुं ते श्रमणस्य गौतमस्याराद् भवन्तु, हिरुग् भवन्तु; दूरेण परेण भवन्तु इत्य् एषा ज्ञप्तिः; इत्य् एवं ज्ञप्तिकर्मणा कथं शलाकाग्रहणेन? यथापितद् देवदत्तो भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति: पंचभिर् आयुष्मन्तो
व्रतपदैर् (sbv ii 272) भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; कतमैः पंचभिः? आरण्यकत्वेनायुष्मन्तो भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; वृक्षमूलिकत्वेन पैण्डपातिकत्वेन त्रैचीवरिकत्वेन पांसुकूलिकत्वेनायुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; येषां युष्माकम् आयुष्मन्तः न क्षमन्ते (msv iv 250) एभिः पंचभिः व्रतपदैः शोधुं मोक्तुं निर्यातुं ते श्रमणस्य गौतमस्याराद् भवन्तु, हिरुग् भवन्तु; दूरेण परेण भवन्तु; शलाकां गृह्णन्त्व् इति; देवदत्तश् चात्मपंचमः शलाकां गृह्णाति; एवं शलाकाग्रहणेन //
// आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति उत्क्षिप्तकेन तावद् भदन्त संघो भिद्यते उत्क्षिप्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्त्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्तकेन न उत्क्षेपकानुवर्तकानुवर्त्तकेन न उत्क्षेपकानुवर्त्तकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्तकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तानुवर्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्त्तकानुवर्तकेन // // उत्क्षेपकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तानुवर्तकानुवर्तकेन (अ 522अ) तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तानुवर्तकेन न उत्क्षिप्तानुवर्तकानुवर्तकानुवर्तकेन न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकेन // उत्क्षेपकानुवर्तकानुवर्तकेन तावद् भदन्त संघो भिद्येत (a2) न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकानुवर्तकेन न उत्क्षेपकेन न उत्क्षिप्तकानुवर्तकेन (sbv ii 273) सर्वैर् एभिर् उपालिं संघो भिद्येत स्थापयित्वा एक उत्क्षिप्तकम्* // //
अन्तरोद्दानम् संघभेदश् च सामग्री एकः संघो न भिद्यते / नवानाम् अन्तिमो भेदस् तिस्र उत्क्षेपषट्किकाः //
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति: यद् उक्तं भदन्त भगवता समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते; स्पृश्यति चानन्तर्यावद्येन कर्मणा; कियता भदन्त भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 1) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 2) यतश् चोपालिन् भिक्षुर् अधर्मे अधर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय (msv iv 252) पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते अनन्तर्यावद्येन कर्मणा 3) यतश् चोपालिन् भिक्षुर् अधर्मे अधर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते <न तु> स्पृश्यते आनन्तर्यावद्येन कर्मणा (sbv ii 274) 4) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 5) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय
पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 6) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 7) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; (अ 522ब्) इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा (msv iv 253) 8) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 9) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 10) यतश् चोपालिन् भिक्षुर् धर्मे धर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 11) यतश् चोपालिन् भिक्षुर्
धर्मे धर्मसंज्ञी भेदे धर्मसंज्ञी (sbv ii 275) भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 12) यतश् चोपालिन् भिक्षुर् धर्मे धर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा (msv iv 254) 13) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 14) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 15) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 16) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं
श्रावकसंघं भित्वा (अ 523अ) आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 17) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 18) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा (sbv ii 276) एवम् एतावन्ति अष्टादश; आसां षट् प्सृश्यन्ते आनन्तर्यावद्येन कर्मणा; यासु भेदे अधर्मसंज्ञी; अवशिष्टाः न स्पृश्यन्ते आनतर्यावद्येन कर्मणेति विनये संघभेदवस्तु समाप्तः //
// विनयवस्त्वागमं // //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
