Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
सद्धर्मपुण्डरीकसूत्र
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारकस्तस्यां वेलायां सप्ततालमात्रं वैहायसमभ्युद्गम्य तस्य पितू राज्ञः शुभव्यूहस्यानुकम्पायै बुद्धानुज्ञातानि यमकानि प्रातिहार्याण्यकुरुताम् । तौ तत्रैवान्तरीक्षे गतौ शय्यामकल्पयताम् । तत्रैवान्तरीक्षे चंक्रमतः, तत्रैवान्तरीक्षे रजो व्यधुनीताम्, तत्रैवान्तरीक्षे ऽधःकायाद्वारिधारां प्रमुमोचतुः, ऊर्ध्वकायादग्निस्कन्धं प्रज्वालयतः स्म । ऊर्ध्वकायाद्वारिधारां प्रमुमोचतुः, अधःकायादग्निस्कन्धं प्रज्वालयतः स्म । तौ तस्मिन्नेवाकाशे महान्तौ भूत्वा खुड्डकौ भवतः, खुड्डकौ भूत्वा महान्तौ भवतः । तस्मिन्नेवान्तरीक्षे ऽन्तर्धायतः । पृथिव्यामुन्मज्जतः । पृथिव्यामुन्मज्जित्वा आकाशौन्मज्जतः । इयद्भिः खलु पुनः कुलपुत्रा ऋद्धिप्रातिहार्यैस्ताभ्यां द्वाभ्यां दारकाभ्यां स शुभव्यूहो राजा स्वपिता विनीतः । अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तयोर्दारकयोस्तमृद्धिप्रातिहार्यं दृष्ट्वा तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो दशनखमञ्जलिं प्रगृह्य तौ दारकावेतदवोचत् - को युवयोः कुलपुत्रौ शास्ता, कस्य वा युवां शिष्याविति? अथ खलु कुलपुत्रास्तौ द्वौ दारकौ तं राजानं शुभव्यूहमेतदवोचत् - एष स महाराज भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति रत्नमये बोधिवृक्षमूले धर्मासनोपविष्टः । सदेवकस्य लोकस्य पुरतः सद्धर्मपुण्डरीकं नाम धर्मपर्यायं विस्तरेण संप्रकाशयति । स आवयोर्भगवान् शास्ता । तस्यावां महाराज शिष्यौ । अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तौ दारकावेतदवोचत् - पश्यामो वयं कुलपुत्रौ तं युवयोः शास्तारम् । गमिष्यामो वयं तस्य भगवतः सकाशम् ॥
अथ खलु कुलपुत्रास्तौ द्वौ दारकौ ततो ऽन्तरीक्षादवतीर्य येन स्वमाता जनयित्री तेनोपसंक्रामताम् । उपसंक्रम्य दशनखमञ्जलिं प्रगृह्य स्वमातरं जनयित्रीमेतदवोचताम् - एष आवाभ्यामम्ब विनीतः स्वपिता अनुत्तरायां सम्यक्संबोधौ । कृतमावाभ्यां पितुः शास्तृकृत्यम् । तदिदानीमुत्स्रष्टुमर्हसि । आवां तस्य भगवतः सकाशे प्रव्रजिष्याव इति ॥
अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारकस्तस्यां वेलायां स्वमातरं जनयित्रीं गाथाभ्यामध्यभाषताम् -
अनुजानीह्यावयोरम्ब प्रव्रज्यामनगारिकाम् / आवां वै प्रव्रजिष्यावो दुर्लभो हि तथागतः // saddhp_25.1 //
औदुम्बरं यथा पुष्पं सुदुर्लभतरो जिनः / उत्सृज्य प्रव्रजिष्यावो दुर्लभा क्षणसंपदा // saddhp_25.2 //
विमलदत्ता राजभार्या आह -
उत्सृजामि युवामद्य गच्छथा साधु दारकौ / वयं पि प्रव्रजिष्यामो दुर्लभो हि तथागतः // saddhp_25.3 //
इति ॥
अथ खलु कुलपुत्रास्तौ द्वौ दारकाविमे गाथे भाषित्वा तौ मातापितरावेतदवोचताम् - साधु अम्ब तात एत । वयं सर्वे सहिता भूत्वा गमिष्यामस्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशम् । उपसंक्रमिष्यामस्तं भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय । तत्कस्य हेतोः? दुर्लभो ह्यम्ब तात बुद्धोत्पादः, उदुम्बरपुष्पसदृशो महार्णव्युगच्छिद्रकूर्मग्रीवाप्रवेशवत् । दुर्लभप्रादुर्भावा अम्ब बुद्धा भगवन्तः । तस्मात्तर्हि अम्ब तात परमपुण्योपस्तब्धा वयमीदृशे प्रवचने उपपन्नाः । तत् साधु अम्ब तात उत्सृजध्वम् । आवां गमिष्यावः । तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशे प्रव्रजिष्यावः । दुर्लभं हि अम्ब तात तथागतानां दर्शनम् । दुर्लभो ह्यद्य कालः । ईदृशो धर्मराजा । परमदुर्लभेदृशी क्षणसंपत् ॥
तेन खलु पुनः कुलपुत्राः समयेन तस्य राज्ञः शूभव्यूहस्य अन्तःपुराच्चतुरशीतिरन्तःपुरिकासहस्राणि अस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य भाजनभुतान्यभूवन् । विमलनेत्रश्च दारको ऽस्मिन् धर्मपर्याये चरितावी । विमलगर्भश्च दारको बहुकल्पकोटीनयुतशतसहस्राणि सर्वसत्त्वपापजहने समाधौ चरितो ऽभूत् किमिति सर्वसत्त्वाः सर्वपापं जहेयुरिति । सा च तयोर्दारकयोर्माता विमलदत्ता राजभार्या सर्वबुद्धसंगीतिं सर्वबुद्धधर्मगुह्यस्थानानि च संजानीते स्म । अथ खलु कुलपुत्रा राजा शुभव्यूहस्ताभ्यां द्वाभ्यां दारकाभ्यां तथागतशासने विनीतः, अवतारितश्च, परिपाचितश्च सर्वस्वजनपरिवारः । सा च विमलदत्ता राजभार्या सर्वस्वजनपरिवारा तौ च द्वौ दारकौ राज्ञः शुभव्यूहस्य पुत्रौ द्वाचत्वारिंशद्भिः प्राणिसहस्रैः सार्धं सान्तपुरौ सामात्यौ सर्वे सहिताः समग्राः येन भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतो ऽर्हन् सम्यक्संबुद्धः, तेनोपसंक्रामन् । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तं त्रिष्कृत्वः प्रदक्षिणीकृत्य एकान्ते तस्थुः ॥
अथ खलु कुलपुत्राः स भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतो ऽर्हन् सम्यक्संबुद्धो राजानं शुभव्यूहं सपरिवारमुपसंक्रान्तं विदित्वा धार्म्या कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अथ खलु कुलपुत्रा राजा शुभव्यूहस्तेन भगवता धार्म्या कथया साधु च सुष्ठु च संदर्शितः समादापितः समुत्तेजितः (वैद्य 261) संप्रहर्षितस्तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः कनीयसो भ्रातुः पट्टं बद्ध्वा राज्ये प्रतिष्ठाप्य सपुत्रस्वजनपरिवारः, सा च विमलदत्ता राजभार्या सर्वस्त्रीगणपरिवारा, तौ च द्वौ दारकौ सार्धं तैर्द्वाचत्वारिंशद्भिः प्राणिसहस्रैः, सर्वे सहिताः समग्रास्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने श्रद्धया अगारादनगारिकां प्रव्रजिताः । प्रव्रजित्वा च राजा शुभव्यूहः सपरिवारश्चतुरशीतिवर्षसहस्राण्यभियुक्तो विजहार इमं सद्धर्मपुण्डरीकं धर्मपर्यायं चिन्तयन् भावयन् पर्यवदापयन् । अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तेषां चतुरशीतीनां वर्षसहस्राणामत्ययेन सर्वगुणालंकारव्यूहं नाम समाधिं प्रतिलभते स्म । सहप्रतिलब्धाच्चास्य समाधेः, अथ तावदेव सप्ततालमात्रं वैहायसमभ्युद्गच्छति स्म ॥
अथ खलु कुलपुत्राः स राजाः शुभव्यूहो गगनतले स्थितस्तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत् - इमौ भगवन् मम पुत्रौ शास्तारौ भवतः । यदहमाभ्यामृद्धिप्रातिहार्येण तस्मान्महतो दृष्टिगताद्विनिवर्तितः, तथागतशासने च प्रतिष्ठपितः, परिपाचितश्च अवतारितश्च, तथागतदर्शनाय च संचोदितः । कल्याणमित्रौ भगवन् मम तौ द्वौ दारकौ पुत्ररूपेण मम गृह उपपन्नौ, यदुत पूर्वकुशलमूलस्मरणार्थम् ॥
एवमुक्ते भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तं राजानं शुभव्यूहमेतदवोचत् - एवमेतन्महाराज, एवमेतद् यथा वदसि । अवरोपितकुशलमूलानां हि महाराज कुलपुत्राणां कुलदुहितृणां च सर्वेषु भवगतिच्युत्युपपत्त्यायतनेषूपपन्नानां सुलभानि भवन्ति कल्याणमित्राणि, यानि शास्तृकृत्येन प्रत्युपस्थितानि भवन्ति, यान्यनुत्तरायां सम्यक्संबोधौ शासकान्यवतारकाणि परिपाचकानि भवन्ति । उदारमेतन्महाराज स्थानं यदुत कल्याणमित्रपरिग्रहस्तथागतदर्शनसमादापकः । पश्यसि त्वं महाराज एतौ द्वौ दारकौ? आह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - एतौ खलु पुनर्महाराज कुलपुत्रौ पञ्चष्टीनां गङ्गानदीवालिकासमान्ःं तथ्ःगत्ःन्ःमर्हत्ःं सम्यक्संबुद्ध्ःन्ःमन्तिके पूज्ःं करिष्यतः, इमं च सद्धर्मपुण्डरीकं धर्मपर्य्ःयं ध्ःरयिष्यतः सत्त्व्ःन्ःमनुकम्प्ःयै, मिथ्य्ःदृष्टीन्ःं च सत्त्व्ःन्ःं सम्यग्दृष्टये वीर्यसंजनन्ःर्थम् ॥
अथ खलु कुलपुत्राः स राजा शुभव्यूहस्ततो गगनतलादवतीर्य दशनखमञ्जलिं प्रगृह्य तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत् - तत्साधु भगवन् । निर्दिशतु तथागतः - कीदृशेन ज्ञानेन समन्वागतस्तथागतो ऽर्हन् सम्यक्संबुद्धो येन मूर्ध्नि उष्णीषो विभाति, विमलनेत्रश्च भगवान्, भ्रुवोर्मध्ये चोर्णा विभाति शशिशङ्खपाण्डराभा, सा च समसहिता दन्तावली वदनान्तरे विराजति, बिम्बोष्ठश्च भगवांश्चारुनेत्रश्च सुगतः ॥
अथ खलु कुलपुत्राः स राज शुभव्यूह इयद्भिर्गुणैस्तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमभिष्टुत्य अन्यैश्च गुणकोटीनयुतशतसहस्रैस्तं भगवन्तमभिष्टुत्य तस्यां वेलायां तं भगवन्तं जलधरगर्जितभोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत् - आश्चर्यं भगवन् यावन्महार्थमिदं तथागतशासनम्, अचिन्त्यगुणसमन्वागतश्च तथागतप्रवेदितो धर्मविनयः, यावत् सुप्रज्ञप्ता च तथागतशिक्षा । अद्याग्रेण वयं भगवन्न भूयश्चित्तस्य वशगा भविष्यामः, न भूयो मिथ्यादृष्टेर्वशगा भविष्यामः, न भूयः क्रोधस्य वशगा भविष्यामः, न भूयः पापकानां चित्तोत्पादानां वशगा भविष्यामः । एभिरहं भगवन् इयद्भिरकुशलैधर्मैः समन्वागतो नेच्छामि भगवतो ऽन्तिकमुपसंक्रमितुम् । स तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य अन्तरीक्षगत एवास्थात् ॥
अथ खलु स राजा शुभव्यूहः सा च विमलदत्ता राजभार्या शतसहस्रमूल्यं मुक्ताहारं भगवत उपर्यन्तरीक्षे ऽक्षैप्सीत् । समनन्तरक्षिप्तश्च स मुक्ताहारस्तस्य भगवतो मूर्ध्नि मुक्ताहारः कूटागारः संस्थितो ऽभूच्चतुरस्रश्चतुःस्थूणः समभागः सुविभक्तो दर्शनीयः । तस्मिंश्च कूटागारे पर्यङ्कः प्रादुर्भूतो ऽनेकदूष्यशतसहस्रसंस्तृतः । तस्मिंश्च पर्यङ्के तथागतविग्रहः पर्यङ्कबद्धं संदृश्यते स्म । अथ खलु राज्ञः शुभव्यूहस्यैतदभवत् - महानुभावमिदं बुद्धज्ञानम्, अचिन्त्यगुणसमन्वागतश्च तथागतः । यत्र हि नाम अयं तथागतविग्रहः कूटागारमध्यगतः संदृश्यते प्रासादिको दर्शनीयः परमशुभवर्णपुष्करतया समन्वागतः ॥
अथ खलु भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतश्चतस्रः पर्षदः आमन्त्रयते स्म - पश्यथ भिक्षवो यूयं शुभव्यूहं राजानं गगनतलस्थं सिंहनादं नदन्तम्? आहुः - पश्यामो भगवन् । भगवानाह - एष खलु भिक्षवः शुभव्यूहो राजा मम शासने भिक्षुभावं कृत्वा शालेन्द्रराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् विस्तीर्णवत्यां लोकधातौ । अभ्युद्गतराजो नाम स कल्पो भविष्यति । तस्य खलु पुनर्भिक्षवः शालेन्द्रराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अप्रमेयो बोधिसत्त्वसंघो भविष्यति, अप्रमेयः श्रावकसंघः । समा पाणितलजाता च वैदूर्यमयी सा विस्तीर्णवती लोकधातुर्भविष्यति । एवमचिन्त्यः स तथागतो ऽर्हन् सम्यक्संबुद्धो भविष्यति । स्यात् खलु पुनः कुलपुत्राः युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन शुभव्यूहो नाम राजाभूत्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अयमेव स पद्मश्रीर्बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन शुभव्यूहो नाम राजाभुत् । स्यात्खलु पुनः कुलपुत्रा युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्या सा तेन कालेन तेन समयेन विमलदत्ता नाम (वैद्य 263) राजभार्याभूत्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अयं स वैरोचनरश्मिप्रतिमण्डितध्वजराजो नाम बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन विमलदत्ता नाम राजभार्याभुत् । तस्य
राज्ञः शुभव्यूहस्यानुकम्पायै तेषां च सत्त्वानां राज्ञः शुभव्यूहस्य भार्यात्वमभ्युपगतो ऽभूत् । स्यात्खलु पुनः कुलपुत्रा युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यौ तौ तेन कालेन तेन समयेन द्वौ दारकावभूताम्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? इमौ तौ भैषज्यराजश्च भैषज्यसमुन्दतश्च तेन कालेन तेन समयेन तस्य राज्ञः शुभव्यूहस्य पुत्रावभूताम् । एवमचिन्त्यगुणसमन्वागतौ कुलपुत्रा भैषज्यराजो भैषज्यसमुद्गतश्च बोधिसत्त्वौ महासत्त्वौ, बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूलौ एतावुभावपि सत्पुरुषावचिन्त्यधर्मसमन्वागतौ । ये च एतयोः सत्पुरुषयोर्नामधेयं धारयिष्यन्ति, ते सर्वे नमस्करणीया भविष्यन्ति सदेवकेन लोकेन ॥
अस्मिन् खलु पुनः पूर्वयोगपरिवर्ते भाष्यमाणे चतुरशीतीनां प्राणिसहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् ॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये शुभव्यूहराजपूर्वयोगपरिवर्तो नाम पञ्चविंशतिमः ॥
saddhp_26: समन्तभद्रोत्साहनपरिवर्तः ।
अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि गणनासमतिक्रान्तैर्बोधिसत्त्वैर्महासत्त्वैः सार्धं परिवृतः पुरस्कृतः प्रकम्पद्भिः क्षेत्रै प्रवर्षद्भिः पद्मैः प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः, महता बोधिसत्त्वानुभावेन महत्या बोधिसत्त्वविकुर्वया महत्या बोधिसत्त्वद्धर्या महत बोधिसत्त्वमाहात्म्येन महता बोधिसत्त्वसमाहितेन महता बोधिसत्त्वतेजसा जाज्वल्यमानेन, महता बोधिसत्त्वयानेन, महता बोधिसत्त्वप्रातिहार्येण, महद्भिर्देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः परिवृतः पुरस्कृतः एवमचिन्त्यैरृद्धिप्रातिहार्यैः समन्तभद्रो बोधिसत्त्वो महासत्त्व इमां लोकधातुं संप्राप्तः । स येनगृध्रकूटः पर्वतराजः येन च भगवांस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य सप्तकृत्वः प्रदक्षिणीकृत्य भगवन्तमेतदवोचत् - अहं भगवंस्तस्य भगवतो रत्नतेजोभ्युद्गतराजस्य तथागतस्य बुद्धक्षेत्रादिहागतः इह भगवन् सहायां लोकधातावयं सद्धर्मपुण्डरीको धर्मपर्यायो देश्यत इति । तमहं श्रवणायागतो भगवतः शाक्यमुनेस्तथागतस्य सकाशम् । अमूनि च भगवन्नेतावन्ति बोधिसत्त्वशतसहस्राणि इमं सद्धर्मपुण्डरीकं धर्मपर्यायं श्रवणायागतानि । तत्साधु भगवान् देशयतु तथागतो ऽर्हन् सम्यक्संबुद्ध इमं सद्धर्मपुण्डारीकं धर्मपर्यायमेषां बोधिसत्त्वानां महासत्त्वानां विस्तरेण । एवमुक्ते भगवान् समन्तभद्रं बोधिसत्त्वं महासत्त्वमेतदवोचत् - उद्धटितज्ञा हि कुलपुत्र एते बोधिसत्त्वा महासत्त्वाः । अपि त्वयं सद्धर्मपुण्डरीको धर्मपर्यायो यदुत
असंभिन्नतथता । ते बोधिसत्त्वा आहुः - एवमेतद् भगवन्, एवमेतत्सुगत । अथ खलु यास्तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिकाश्च संनिपतिताः, तासां सद्धर्मपुण्डरीके धर्मपर्याये प्रतिष्ठापनार्थं पुनरपि भगवान् समन्तभद्रं बोधिसत्त्वं महासत्त्वमेतदवोचत् - चतुर्भिः कुलपुत्र धर्मैः समन्वागतस्य मातृग्रामस्य अयं सद्धर्मपुण्डरीको धर्मपर्यायो हस्तगतो भविष्यति । कतमैश्चतुर्भिः? यदुत बुद्धैर्भगवद्भिरधिष्ठितो भविष्यति, अवरोपितकुशलमूलश्च भविष्यति, निरयराशिव्यवस्थितश्च भविष्यति, सर्वसत्त्वपरित्राणार्थमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यति । एभिः कुलपुत्र चतुर्भिर्धर्मैः समन्वागतस्य मातृग्रामस्य अयं सद्धर्मपुण्डरीको धर्मपर्यायो हस्तगतो भविष्यति ॥
अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - अहं भगवन् पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां वर्तमानायामेवंरूपाणां सूत्रान्तधारकाणां भिक्षूणां रक्षां करिष्यामि, स्वस्त्ययनं करिष्यामि, दण्डपरिहारं करिष्यामि, विषदूषणं करिष्यामि, यथा न कश्चित्तेषां धर्मभाणकानामवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते । न मारः पापीयानवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते, न मारपुत्रा न मारकायिका देवपुत्रा न मारकन्या न मारपार्षद्या यावन्न भूयो मारपर्युत्थितो भविष्यति । न देवपुत्रा न यक्षा न प्रेता न पूतना न कृत्या न वेतालास्तस्य धर्मभाणकस्यावतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं लप्स्यन्ते । अहं भगवंस्तस्य धर्मभाणकस्य सततसमितं नित्यकालं रक्षां (वैद्य 265) करिष्यामि । यदा च स धर्मभाणको ऽस्मिन् धर्मपर्याये चिन्तायोगमनुयुक्तश्चंक्रमाभिरूढो भविष्यति, तदाहं भगवंस्तस्य धर्मभाणकस्यान्तिके श्वेतषड्दन्तं गजराजमभिरुह्य तस्य धर्मभाणकस्य चंक्रमकुटीमुपसंक्रमिष्यामि बोधिसत्त्वगणपरिवृतो ऽस्य धर्मपर्यायस्यारक्षायै । यदा पुनस्तस्य धर्मभाणकस्य अस्मिन् धर्मपर्याये चिन्तायोगमनुयुक्तस्य सतः इतो धर्मपर्यायदन्तशः पदव्यञ्जनं परिभ्रष्टं भविष्यति, तदाहं तस्मिन् श्वेतषड्दन्ते गजराजे ऽभिरुह्य तस्य धर्मभाणकस्य संमुखमुपदर्शयित्वा इमं धर्मपर्यायमविकलं प्रत्युच्चारयिष्यामि । स च धर्मभाणको ममात्मभावं दृष्ट्वा इमं च धर्मपर्यायमविकलं ममान्तिकाच्छ्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भूयस्या मात्रया अस्मिन् धर्मपर्याये वीर्यमारप्स्यते, आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भूयस्या मात्रया अस्मिन् धर्मपर्याये वीर्यमारप्स्यते, मम च सहदर्शनेन समाधिं प्रतिलप्स्यते, धारण्यावर्तां च नाम धारणीं प्रतिलप्स्यते, कोटीशतसहस्रावर्तां च नाम धारणीं प्रतिलप्स्यते, सर्वरुतकौशल्यावर्तां च नाम धारणीं प्रतिलप्स्यते ॥
ये च भगवन् पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चाशत्यां भिक्षवो वा भिक्षूण्यो वा उपासका वा उपासिका वा एवं सूत्रान्तधारका एवं सूत्रान्तलेखका एवं सूत्रान्तमार्गका एवं सूत्रान्तवाचका ये पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यामस्मिन् धर्मपर्याये त्रिसप्ताहमेकविंशतिदिवसानि चंक्रमाभिरूढा अभियुक्ता भविष्यन्ति, तेषामहं सर्वसत्त्वप्रियदर्शनमात्मभावं संदर्शयिष्यामि । तमेव श्वेतं षड्दन्तं गजराजमभिरुह्य बोधिसत्त्वगणपरिवृतः एकविंशतिमे दिवसे तेषां धर्मभाणकानां चंक्रममागमिष्यामि । आगत्य च तान् धर्मभाणकान् परिसंहर्षयिष्यामि समादापयिष्यामि समुत्तेजयिष्यामि संप्रहर्षयिष्यामि । धारणीं चैषां दास्यामि, यथा ते धर्मभाणका न केनचिद्धर्षणीया भविष्यन्ति । न चैषां मनुष्या वा अमनुष्या वा अवतारं लप्स्यन्ते, न च नार्यो ऽपसंहरिअष्यन्ति । रक्षां चैषां करिष्यामि, स्वस्त्ययनं करिष्यामि, दण्डपरिहारं करिष्यामि, विषदूषणं करिष्यामि । तेषां वयं भगवन् धर्मभाणकानामिमानि धारणीपदानि दास्यामि । तानि भगवन् धारणीपदानि । तद्यथा -
अदण्डे दण्डपति दण्डावर्तनि दण्डकुशले दण्डसुधारि सुधारपति बुद्धपश्यने सर्वधारणि आवर्तनि संवर्तनि संघपरीक्षिते संघनिर्घातनि धर्मपरीक्षिते सर्वसत्त्वरुतकौशल्यानुगते सिंहविक्रीडिते अनुवर्ते वर्तनि वर्तालि स्वाहा ॥
इमानि तानि भगवन् धारणीपदानि यस्य बोधिसत्त्वस्य महासत्त्वस्य श्रोत्रेन्द्रियस्यावभासमागमिष्यन्ति, वेदितव्यमेतत् समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्याधिष्ठानमिति ॥
अयं च भगवन् सद्धर्मपुण्डरीको धर्मपर्यायो ऽस्मिन् जम्बुद्वीपे प्रचरमाणो येषां बोधिसत्त्वानां महासत्त्वानां हस्तगतो भविष्यति, तैर्भगवन् धर्मभाणकैरेवं वेदितव्यम् - समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्यानुभावेन यदस्माकमयं धर्मपर्यायो हस्तगतः समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य तेजसा । समन्तभद्रस्य बोधिसत्त्वस्य (वैद्य 266) महासत्त्वस्य चर्यायास्ते भगवन् सत्त्वा लाभिनो भविष्यन्ति । बहुबुद्धावरोपितकुशलमूलाश्च ते सत्त्वा भविष्यन्ति । तथागतपाणिपरिमार्जितमूर्धानश्च ते भगवन् सत्त्वा भविष्यति । ये इदं सूत्रं लिखिष्यन्ति धारयिष्यन्ति, मम तैर्भगवन् प्रियं कृतं भविष्यति । य इदं सूत्रं लिखिस्यन्ति, ये च अस्यार्थमनुभोत्स्यन्ते, लिखित्वा च ते भगवन्निदं सूत्रमितश्च्युत्वा त्रायस्त्रिंशतां देवानां सभागताय उपपत्स्यन्ते, सहोपपन्नानां चैषां चतुरशीतिरप्सरसां सहस्राण्युपसंक्रमिष्यन्ति । भेरीमात्रेण मुकुटेन ते देवपुत्रास्तासामप्सरसां मध्ये स्थास्यन्ति । ईदृशः कुलपुत्रा इमं धर्मपर्यायं लिखित्वा पुण्यस्कन्धः । कः पुनर्वादो ये एतमुद्देक्ष्यन्ति स्वाध्यायिष्यन्ति चिन्तयिष्यन्ति मनसि करिष्यन्ति । तस्मात्तर्हि कुलपुत्राः सत्कृत्य अयं सद्धर्मपुण्डरीको धर्मपर्यायो लिखितव्यः, सर्वदेतः समन्वाहृत्य । यश्च अविक्षिप्तेन मनसिकारेण लिखिष्यति, तस्य बुद्धसहस्रं हस्तमुपनामयिष्यति, मरणकाले चास्य बुद्धसहस्रं संमुखमुपदर्शनं करिष्यति । न च दुर्गतिविनिपातगामी भविष्यति । इतश्च्युतश्च तुषितानां देवानां सभागतायोपपत्स्यते, यत्र स मैत्रेयो बोधिसत्त्वो महासत्त्वस्तिष्ठति,
द्वात्रिंशद्वरलक्षणो बोधिसत्त्वसत्त्वगणपरिवृतो ऽप्सरःकोटीनयुतशतसहस्रपुरस्कृतो धर्मं देशयति । तस्मात्तर्हि कुलपुत्राः पण्डितेन कुलपुत्रेण वा कुलदुहिता वा अयं सद्धर्मपुण्डरीको धर्मपर्यायः सत्कृत्य लिखितव्यः सत्कृत्योद्देष्टव्यः, सत्कृत्य स्वाध्यायितव्यः, सत्कृत्य मनसिकर्तव्यः । इमं कुलपुत्रा धर्मपर्यायं लिखित्वा उद्दिश्य स्वाध्यायित्वा भावयित्वा मनसिकृत्वा एवमप्रमेया गुणा भविष्यन्ति । तस्मात्तर्हि तेन पण्डितेन भगवन् कुलपुत्रेण वा कुलदुहित्रा वा अयं सद्धर्मपुण्डरीको धर्मपर्यायो धारयितव्यः । एतावन्तस्तेषां गुणानुशंसा भविष्यन्ति । तस्मात्तर्हि भगवन् अहमपि तावदिमं धर्मपर्यायमधिष्ठास्यामि, यथा भगवन् ममाधिष्ठानेन अयं धर्मपर्यायो ऽस्मिन् जम्बुद्वीपे प्रचरिष्यति ॥
अथ खलु तस्यां वेलायां भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धः समन्तभद्राय बोधिसत्त्वाय महासत्त्वाय साधुकारमदात् - साधु साधु समन्तभद्र, यत्र हि नाम त्वमेवं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय प्रतिपन्नः । एवमचिन्त्यधर्मसमन्वागतो ऽसि महाकरुणासंगृहीतेनाध्याशयेन, अचिन्त्यसंगृहीतेन चित्तोत्पादेन, यस्त्वं स्वयमेव तेषां धर्मभाणकानामधिष्ठानं करोषि । ये केचित् कुलपुत्राः समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं धारयिष्यन्ति, वेदितव्यं तैः शाक्यमुनिस्तथागतो दृष्ट इति । अयं च सद्धर्मपुण्डरीको धर्मपर्यायस्तस्य भगवतः शाक्यमुनेरन्तिकाच्छ्रुतः । शाक्यमुनिश्च तथागतस्तैः पूजितः । शाक्यमुनेश्च तथागतस्य धर्मं देशयतः साधुकारो ऽनुप्रदत्तः । अनुमोदितश्चायं धर्मपर्यायो भविष्यति शाक्यमुनिना च तथागतेन तेषां मूर्ध्नि पाणिः प्रतिष्ठापितो भविष्यति । भगवांश्च शाक्यमुनिस्तैश्चीवरैरवच्छादितो भविष्यति । तथागतशासनपरिग्राहकाश्च ते समन्तभद्र कुलपुत्रा वा कुलदुहितरो (वैद्य 267) वा वेदितव्याः । न च तेषां लोकायते रुचिर्भविष्यति, न काव्यप्रसृताः सत्त्वास्तेषामभिरुचिता भविष्यन्ति, न नृत्तका न मल्ला न नर्तका न शौण्डिकौरभ्रिककौक्कुटिकसौकरिकस्त्रीपोषकाः सत्त्वास्तेषामभिरुचिता भविष्यन्ति । ईदृशांश्च सूत्रान्तान् श्रुत्वा लिखित्वा धारयित्वा वाचयित्वा वा न तेषामन्यदभिरुचितं भविष्यति । स्वभावधर्मसमन्वागताश्च ते सत्त्वा वेदितव्याः । प्रत्यात्मिकश्च तेषां योनिशोमनसिकारो भविष्यति । स्वपुण्यबलाधाराश्च ते सत्त्वा
भविष्यन्ति, प्रियदर्शनाश्च ते भविष्यन्ति सत्त्वानाम् । एवं सूत्रान्तधारकाश्च ये भिक्षवो भविष्यन्ति, न तेषां रागो व्याबाधिष्यति, न द्वेषो न मोहो नेर्ष्या न मात्सर्यं न म्रक्षो न मानो नाधिमानो न मिथ्यामानः । स्वलाभसंतुष्टाश्च ते समन्तभद्र धर्मभाणका भविष्यन्ति । यः समन्तभद्र पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां वर्तमानायामस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य धारकं भिक्षुं पश्येत्, एवं चित्तमुत्पादयितव्यम् - गमिष्यत्ययं कुलपुत्रो बोधिमण्डम्, निर्जेष्यत्ययं कुलपुत्रो मारकलिचक्रम्, प्रवर्तयिष्यत्ययं धर्मचक्रम्, पराहनिष्यत्ययं धर्मदुन्दुभिम्, प्रपूरयिष्यत्ययं धर्मशङ्खम्, प्रवर्षयिष्यत्ययं धर्मवर्षम्, अभिरोक्ष्यत्ययं धर्मसिंहासनम् । य इमं धर्मपर्यायं पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां वर्तमानायां धारयिष्यन्ति, न ते भिक्षवो लुब्धा भविष्यन्ति, न चीवरगृद्धा न पात्रगृद्धा भविष्यन्ति । ऋजुकाश्च ते धर्मभाणका भविष्यन्ति । त्रिविमोक्षलाभिनश्च ते धर्मभाणका भविष्यन्ति । दृष्टधार्मिकं च तेषां निवर्तिष्यति । य एवं सूत्रान्तधारकाणां धर्मभाणकानां भिक्षूणां मोहं दास्यन्ति, जात्यन्धास्ते सत्त्वा भविष्यन्ति । ये चैवंरूपाणां सूत्रान्तधारकाणां भिक्षूणामवर्णं संश्रावयिष्यन्ति, तेषां दृष्ट एव धर्मे कायश्चित्रो भविष्यति । य एवं सूत्रान्तलेखकानामुच्चग्घनं करिष्यन्ति उल्लपिष्यन्ति, ते खण्डदन्ताश्च भविष्यन्ति, वरलदन्ताश्च भविष्यन्ति, बीभत्सोष्ठाश्च भविष्यन्ति, चिपिटनासाश्च भविष्यन्ति, विपरीतहस्तपादाश्च भविष्यन्ति, विपरीतनेत्राश्च भविष्यन्ति,
दुर्गन्धिकायाश्च भविष्यन्ति, गण्डपिटकविचर्चिदद्रुकण्ड्वाकीर्णशरीराश्च भविष्यन्ति । ये ईदृशानां सूत्रान्तलेखकानां सूत्रान्तवाचकानां च सूत्रान्तधारकाणां च सूत्रान्तदेशकानां च अप्रियां वाचं भूतामभूतां वा संश्रावयिष्यन्ति, तेषामिदमागाढतरं पापकं कर्म वेदितव्यम् । तस्मात्तर्हि समन्तभद्र अस्य धर्मपर्यायस्य धारकाणां भिक्षूणां दूरत एव प्रत्युत्थातव्यम् । यथा तथागतस्यान्तिके गौरवं कर्तव्यम्, तथा तेषामेव सूत्रान्तधारकाणां भिक्षूणामेवं गौरवं कर्तव्यम् ॥
अस्मिन् खलु पुनः समन्तभद्रोत्साहनपरिवर्ते निर्दिश्यमाने गङ्गानदीवालिकासमानां बोधिसत्त्वानां महासत्त्वानां कोटीशतसहस्रावर्ताया धारण्याः प्रतिलम्भो ऽभूत् ॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये समन्तभद्रोत्साहनपरिवर्तो नाम षड्विंशतिमः ॥
saddhp_27: अनुपरीन्दनापरिवर्तः ।
अथ खलु भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्ध उत्थाय तस्माद्धर्मासनात् सर्वांस्तान् बोधिसत्त्वाअन् पिण्डीकृत्य दक्षिणेन पाणिना ऋद्धयभिसंस्कारपरिनिष्पन्नेन दक्षिणहस्तेष्वध्यालम्ब्य तस्यां वेलायामेतदवोचत् - इमामहं कुलपुत्रा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि निक्षिपामि उपनिक्षिपामि । यथा विपुला वैस्तारिकी भवेत्, तथा युष्माभिः कुलपुत्राः करणीयम् । द्वैतीयकमपि त्रैतीयकमपि भगवान् सर्वावन्तं बोधिसत्त्वगणं दक्षिणेन पाणिनाअध्यालम्ब्यैतदवोचत् - इमामहं कुलपुत्रा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि निक्षिपामि उपनिक्षिपमि । युष्माभिः कुलपुत्र उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या देशयितव्या प्रकाशयितव्या । सर्वसत्त्वानां च संश्रावयितव्या । अमात्सर्यो ऽहं कुलपुत्रा अपरिगृहीतचित्तो विशारदो बुद्धज्ञानस्य दाता, तथागतज्ञानस्य स्वयंभूज्ञानस्य दाता । महादानपतिरहं कुलपुत्राः । युष्माभिरपि कुलपुत्रा ममैवानुशिक्षितव्यम् । अमत्सरिभिर्भूत्वेमं तथागतज्ञानदर्शनं महोपायकौशल्यमागतानां कुलपुत्राणां कुलदुहितृणां च अयं धर्मपर्यायः संश्रावयितव्यः । ये च अश्राद्धाः सत्त्वास्ते ऽस्मिन् धर्मपर्याये समादापयितव्याः । एवं युष्माभिः कुलपुत्रास्तथागतानां प्रतिकारः कृतो भविष्यति ॥
एवमुक्तास्ते बोधिसत्त्व महासत्त्व भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेन महता प्रीतिप्रामोद्येन स्फुता अभूवन् । महच्च गौरवमुत्पाद्य येन भगवान् शाक्यमुनिस्तथागतो ऽर्हन सम्यक्संबुद्धस्तेनावनतकायाः प्रणतकायाः संनतकायाः शिरांस्यवनाम्य अञ्जलिं प्रगृह्य सर्व एकस्वरनिर्घोषेण भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतदूचुः - तथा भगवन् करिष्यामो यथा तथागत आज्ञापयति । सर्वेषां च तथागतानामाज्ञां करिष्यामः, परिपूरयिष्यामः । अल्पोत्सुको भगवान् भवतु यथासुखविहारी । द्वैतीयकमपि, त्रैतीयकमपि स सर्वावान् बोधिसत्त्वगण एकस्वरनिर्घोषेण एवं भाषते स्म - अल्पोत्सुको भगवान् भवतु यथासुखविहारी । तथा भगवन् करिष्यामो यथा तथागत आज्ञापयति । सर्वेषां च तथागतानामाज्ञां परिपूरयिष्यामः ॥
अथ खलु भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वांस्तांस्तथागतानर्हतः सम्यक्संबुद्धानन्येभ्यो लोकधातुभ्यः समागतान् विसर्जयति स्म । यथासुखविहारं च तेषां तथागतानामारोचयति स्म - यथासुखं तथागता विहरन्त्वर्हन्तः सम्यक्संबुद्धा इति । तं च तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपं यथाभूमौ स्थापयामास । तस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य यथासुखविहारमारोचयामास ॥
इदमवोचद् भगवानात्तमनाः । ते चाप्रमेया असंख्येयास्तथागता अर्हन्तः सम्यक्संबुद्धा अन्यलोकधात्वागता रत्नवृक्षमूलेषु सिंहासनोपविष्टाः, प्रभुतरत्नश्च तथागतो ऽर्हन् सम्यक्संबुद्धः स च सर्वावान् बोधिसत्त्वगणः, ते च विशिष्टचारित्रप्रमुखा अप्रमेया असंख्येया बोधिसत्त्व महासत्त्वा ये पृथिवीविवरेभ्यो ऽभ्युद्गताः, ते च महाश्रावकाः ताश्च चतस्रः पर्षदः, सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये ऽनुपरीन्दनापरिवर्तो नाम सप्तविंशतिमः समाप्तः ॥
* * * * * * ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवं वादी महाश्रमणः ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
