Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
सद्धर्मलङ्कावतारसूत्र
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
मम तु महामते न नित्या नानित्या / तत्कस्य हेतोः? यदुत बाह्यभावानभ्युपगमात्रिभवचित्तमात्रोपदेशाद्विचित्रलक्षणानुपदेशान्न प्रवर्तते न निवर्तते महाभूतसंनिवेशविशेषः / न भूतभौतिकत्वाद्विकल्पस्य द्विधा प्रवर्तते ग्राह्यग्राहकालक्षणता / विकल्पस्य प्रवृत्तिद्वयपरिज्ञानाद्बाह्यभावाभावदृष्टिविगमात्स्वचित्तमात्रावबोधाद्विकल्पो विकल्पाभिसंस्कारेण प्रवर्तते नानभिसंस्कुर्वतः / चित्तविकल्पभावाभावविगमाल्लौकिकलोकोत्तरतमानां सर्वधर्माणां (वैद्य 85) न नित्यता नानित्यता / स्वचित्तदृश्यमात्रानवबोधात्कुदृष्ट्यान्तद्वयपतितया संतत्या सर्वतीर्थकरैः स्वविकल्पानवबोधात्कथापुरुषैरसिद्धपूर्वैरनित्यता कल्प्यते / त्रिविधं च महामते सर्वतीर्थकरलौइकिकलोकोत्तरतमानां सर्वधर्माणां लक्षणं वाग्विकल्पविनिःसृतानाम् / न च बालपृथग्जना अवबुध्यन्ते //
तत्रेदमुच्यते -
प्रारम्भविनिवृत्तिं च संस्थानस्यान्यथात्वताम् / भावमनित्यतां रूपं तीर्थ्याः कल्पेन्ति मोहिताः // lank_3.118 //
भावानां नास्ति वै नाशं भूता भूतात्मना स्थिताः / नानादृष्टिनिमग्नास्ते तीर्थ्याः कल्पेन्ति नित्यताम् // lank_3.119 //
कस्यचिन्न हि तीर्थ्यस्य विनाशो न च संभवः / भूता भूतात्मना नित्याः कस्य कल्पेन्त्यनित्यताम् // lank_3.120 //
चित्तमात्रमिदं सर्वं द्विधा चित्तं प्रवर्तते / ग्राह्यग्राहकभावेन आत्मात्मीयं न विद्यते // lank_3.121 //
ब्रह्मादिस्थानपर्यन्तं चित्तमात्रं वदाम्यहम् / चित्तमात्रविनिर्मुक्तं ब्रह्मादिर्नोपलभ्यते // lank_3.122 //
इति लङ्कावतारे महायानसूत्रे अनित्यतापरिवर्तस्तृतीयः //
स्तर्त् परिवर्त 4
अभिसमयपरिवर्तो नाम चतुर्थः /
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु मे भगवान् सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धनिरोधक्रमानुसंधिलक्षणकौशल्यं येन क्रमानुसंधिलक्षणकौशल्येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा निरोधसुखसमापत्तिमुखेन न प्रतिमुह्येम, न च श्रावकप्रत्येकबुद्धतीर्थ्यकरव्यामोहे प्रपतेम / भगवानाह - तेन महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् //
भगवांस्तस्यैतदवोचत् - षष्ठीं महामते भूमिमुपादाय बोधिसत्त्वा महासत्त्वाः सर्वश्रावकप्रत्येकबुद्धाश्च निरोधं समापद्यन्ते / सप्तम्यां भूमौ पुनश्चित्तक्षणे चित्तक्षणे बोधिसत्त्वा महासत्त्वाः सर्वभावस्वभावलक्षणव्युदासात्समापद्यन्ते, न तु श्रावकप्रत्येकबुद्धाः / तेषां हि श्रावकप्रत्येकबुद्धानामाभिसंस्कारिकी ग्राह्यग्राहकलक्षणपतिता च निरोधसमापत्तिः / अतस्ते सप्तम्यां भूमौ चित्तक्षणे चित्तक्षणे समापद्यन्ते - मा सर्वधर्माणामविशेषलक्षणप्राप्तिः स्यादिति / विचित्रलक्षणाभावश्च / कुशलाकुशलस्वभावलक्षणानवबोधात्सर्वधर्माणां समापत्तिर्भवति / अतः सप्तम्यां भूमौ चित्तक्षणे चित्तक्षणे समापत्तिकौशल्यं नास्ति येन समापद्येरन् //
अष्टम्यां महामते भूमौ बोधिसत्त्वानां महासत्त्वानां श्रावकप्रत्येकबुद्धानां च चित्तमनोमनोविज्ञानविकल्पसंज्ञाव्यावृत्तिर्भवति / प्रथमषष्ठ्यां भूमौ चित्तमनोमनोविज्ञानमात्रं त्रैधातुकं समनुपश्यति आत्मात्मीयविगतं स्वचित्तविकल्पोद्भवम्, न च बाह्यभावलक्षणवैचित्र्यपतितमन्यत्र स्वचित्तमेव / द्विधा बालानां ग्राह्यग्राहकभावेन परिणाम्य स्वज्ञानं न चावबोध्यन्ते अनादिकालदौष्ठुल्यविकल्पप्रपञ्चवासनावासिताः //
अष्टम्यां महामते निर्वाणं श्रावकप्रत्येकबुद्धबोधिसत्त्वानाम् / बोधिसत्त्वाश्च समाधिबुद्धैर्विधार्यन्ते तस्मात्समाधिसुखाद्, येन न परिनिर्वान्ति अपरिपूर्णत्वात्तथागतभूमेः / सर्वकार्यप्रतिप्रस्रम्भणं च स्यात्, यदि न संघारयेत्, तथागतकुलवंशोच्छेदश्च स्यात् / अचिन्त्यबुद्धमाहात्म्यं च देशयन्ति ते बुद्धा भगवन्तः / अतो न परिनिर्वान्ति / श्रावकप्रत्येकबुद्धास्तु समाधिसुखेनापह्रियन्ते / अतस्तेषां तत्र परिनिर्वाणबुद्धिर्भवति //
सप्तसु महामते भूमिषु चित्तमनोमनोविज्ञानलक्षणपरिचयकौशल्यात्मात्मीयग्राह्यग्राहधर्मपुद्गलनैरात्म्यप्रवृत्तिनिवृत्तिस्वसामान्य - लक्षणपरिचयचतुःप्रतिसंविद्विनिश्चयकौशल्यवशितास्वादसुखभूमिक्रमानुप्रवेशबोधिपाक्षिकधर्मविभागः क्रियते मया - मा बोधिसत्त्वा महासत्त्वाः स्वसामान्यलक्षणानवबोधाद्भूमिक्रमानुसंध्यकुशलास्तीर्थकरकुदृष्टिमार्गे प्रपतेयुः, इत्यतो भूमिक्रमव्यवस्था क्रियते / न तु महामते अत्र कश्चित्प्रवर्तते वा निवर्तते वा अन्यत्र स्वचितदृश्यमात्रमिदं यदुत भूमिक्रमानुसंधिस्त्रैधातुकविचित्रोपचारश्च / न च बाला अवबुध्यन्ते / अनवबोधाद्बालानां भूमिक्रमानुसंधिव्यपदेशं त्रैधातुकविचित्रोपचारश्च व्यवस्थाप्यते बुद्धधर्मालया च //
पुनरपरं महामते श्रावकप्रत्येकबुद्धा अष्टम्यां बोधिसत्त्वभूमौ निरोधसमापत्तिसुखमदमत्ताः स्वचित्तदृश्यमात्राकुशलाः स्वसामान्यलक्षणावरणवासनापुद्गलधर्मनैरात्म्यग्राहकदृष्टिपतिता विकल्पनिर्वाणमतिबुद्धयो भवन्ति, न विविक्तधर्ममतिबुद्धयः / बोधिसत्त्वाः पुनर्महामते निरोधसमाधिसुखमुखं दृष्ट्वा पूर्वप्रणिधानकृपाकरुणोपेता निष्ठपदगतिविभागज्ञा न परिनिर्वान्ति / परिनिर्वृताश्च ते विकल्पस्याप्रवृत्तत्वात् / ग्राह्यग्राहकविकल्पस्तेषां विनिवृत्तः / स्वचित्तदृश्यमात्रावबोधात् सर्वधर्माणां विकल्पो न प्रवर्तते / चित्तमनोमनोविज्ञानबाह्यभावस्वभावलक्षणाभिनिवेशं विकल्पयति / तेन पुनर्बुद्धधर्महेतुर्न प्रवर्तते, ज्ञानपूर्वकः प्रवर्तते तथागतस्वप्रत्यात्मभूम्यधिगमनतया स्वप्नपुरुषौघोत्तरणवत् //
तद्यथा पुनर्महामते कश्चिच्छयितः स्वप्नान्तरे महाव्यायामौत्सुक्येन महौघादात्मानमुत्तारयेत् / स चानुत्तीर्ण एव प्रतिबुध्येत / प्रतिबुद्धश्च सन्नेवमुपपरीक्षेत - किमिदं सत्यमुत मिथ्येति / स एवं समनुपश्येत् - नेदं सत्यं न मिथ्या अन्यत्र दृष्टश्रुतमतविज्ञातानुभूतविकल्पवासनाविचित्ररूपसंस्थानानादिकालविकल्पपतिता नास्त्यस्तिदृष्टिविकल्पपरिवर्जिता मनोविज्ञानानुभूताः स्वप्ने दृश्यन्ते / एवमेव महामते बोधिसत्त्वा महासत्त्वा अष्टम्यां बोधिसत्त्वभूमौ विकल्पस्याप्रवृत्तिं दृष्ट्वा प्रथमसप्तमीभूमिसंचारात्सर्वधर्माभिसमयान्मायादिधर्मसमतया सर्वधर्मौत्सुक्यग्राह्यग्राहकविकल्पोपरतं चित्तचैतसिकविकल्पप्रसरं दृष्ट्वा बुद्धधर्मेषु प्रयुज्यन्ते / अनधिगतानामधिगमाय प्रयोग एष महामते निर्वाणं बोधिसत्त्वानां न विनाशः चित्तमनोमनोविज्ञानविकल्पसंज्ञाविगमाच्च अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो भवति / न चात्र महामते परमार्थे क्रमो न क्रमानुसंधिर्निराभासविकल्पविविक्तधर्मोपदेशात् //
तत्रेदमुच्यते -
चित्तमात्रे निराभासे विहारा बुद्धभूमि च / एतद्धि भाषितं बुद्धैर्भाषन्ते भाषयन्ति च // lank_4.1 //
चित्तं हि भूमयः सप्त निराभासा त्विहाष्टमी / द्वे हि भूमी विहारो ऽत्र शेषा भूमिर्ममात्मिका // lank_4.2 //
प्रत्यात्मवेद्या शुद्धा च भूमिरेषा ममात्मिका / माहेश्वरं परं स्थानमकनिष्ठो विराजते // lank_4.3 //
हुताशनस्य हि यथा निश्चेरुस्तस्य रश्मयः / चित्रा मनोहराः सौम्यास्त्रिभवं निर्मिणन्ति ते // lank_4.4 //
निर्माय त्रिभवं किंचित्किंचिद्वै पूर्वनिर्मितम् / तत्र देशेमि यानानि एषा भूमिर्ममात्मिका // lank_4.5 //
दशमी तु भवेत्प्रथमा प्रथमा चाष्टमी भवेत् / नवमी सप्तमी चापि सप्तमी चाष्टमी भवेत् // lank_4.6 //
द्वितीया च तृतीया स्याच्चतुर्थी पञ्चमी भवेत् / तृतीया च भवेत्षष्ठी निराभासे क्रमः कुतः // lank_4.7 //
इति लङ्कावतारे अभिसमयपरिवर्तश्चतुर्थः //
स्तर्त् परिवर्त 5
तथागतनित्यानित्यप्रसङ्गपरिवर्तो नाम पञ्चमः /
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - किं भगवंस्तथागतो ऽर्हन् सम्यक्संबुद्धो नित्य उताहो ऽनित्यः? भगवानाह - न महामते तथागतो नित्यो नानित्यः / तत्कस्यः हेतोः? यदुत उभयदोषप्रसङ्गात् / उभयथा हि महामते दोषप्रसङ्गः स्यात् / नित्ये सति कारणप्रसङ्गः स्यात् / नित्यानि हि महामते सर्वतीर्थकराणां कारणान्यकृतकानि च / अतो न नित्यस्तथागतो ऽकृतकनित्यत्वात् / अनित्ये सति कृतकप्रसङ्गः स्यात् / स्कन्धलक्ष्यलक्षणाभावात्स्कन्धविनाशादुच्छेदः स्यात् / न चोच्छेदो भवति तथागतः / सर्वं हि महामते कृतकमनित्यं घटपटतृणकाष्ठेष्टकादि / सर्वानित्यत्वप्रसङ्गात् सर्वज्ञज्ञानसंभारवैयर्थ्यं भवेत्कृतकत्वात् / सर्वं हि कृतकं तथागतः स्याद्विशेषहेत्वभावात् / अत एतस्मात्कारणान्महामते न नित्यो नानित्यस्तथागतः //
पुनरपि महामते न नित्यस्तथागतः / कस्मात्? आकाशसंभारवैयर्थ्यप्रसङ्गात् / तद्यथा महामते आकाशं न नित्यं नानित्यं नित्यानित्यव्युदासादेकत्वान्यत्वोभयत्वानुभयत्वनित्यानित्यत्वदोषैरवचनीयः //
पुनरपरं महामते शशहयखरोष्ट्रमण्डूकसर्पमक्षिकामीनविषाणतुल्यः स्यादनुत्पादनित्यत्वात् / अतो ऽनुत्पादनित्यत्वप्रसङ्गान्न नित्यस्तथागतः //
पुनरपरं महामते अस्त्यसौ पर्यायो येन नित्यस्तथागतः / तत्कस्य हेतोः? यदुत अभिसमयाधिगमज्ञाननित्यत्वान्नित्यस्तथागतः / अभिसमयाधिगमज्ञानं हि महामते नित्यं तथागतानामर्हतां सम्यक्संबुद्धानाम् / उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मनियामता धर्मस्थितिता सर्वश्रावकप्रत्येकबुद्धतीर्थकराभिसमयेषु / न तु गगने धर्मस्थितिर्भवति / न व बालपृथग्जना अवबुध्यन्ते / अधिगमज्ञानं च महामते तथागतानां प्रज्ञाज्ञानप्रभावितम् / न महामते तथागता अर्हन्तः सम्यक्संबुद्धाश्चित्तमनोमनोविज्ञानस्कन्धधात्वायतनाविद्यावासनाप्रभाविताः / सर्वं हि महामते त्रिभवमभूतविकल्पप्रभवम् / न च तथागता अभूतविकल्पप्रभवाः / द्वये हि सति महामते नित्यता चानित्यता च भवति, नाद्वयात् / द्वयं हि महामते विविक्तमद्वयानुत्पादलक्षणात्सर्वधर्माणाम् / अत एतस्मात्कारणान्महामते तथागता अर्हन्तः सम्यक्संबुद्धा न नित्या नानित्याः / यावन्महामते वाग्विकल्पः प्रवर्तते, तावन्नित्यानित्यदोषः प्रसज्यते / विकल्पबुद्धिक्षयान्महामते नित्यानित्यग्राहो निवार्यते बालानां न तु विविक्तदृष्टिबुद्धिक्षयात् //
तत्रेदमुच्यते -
नित्यानित्यविनिर्मुक्तान् नित्यानित्यप्रभावितान् / ये पश्यन्ति सदा बुद्धान् न ते दृष्टिवशं गताः // lank_5.1 //
समुदागमवैयर्थ्यं नित्यानित्ये प्रसज्यते / विकल्पबुद्धिवैकल्यान्नित्यानित्यं निवार्यते // lank_5.2 //
यावत्प्रतिज्ञा क्रियते तावत्सर्वं ससंकरम् / स्वचित्तमात्रं संपश्यन् न विवादं समारभेत् // lank_5.3 //
इति लङ्कावतारे तथागतनित्यानित्यत्वप्रसङ्गपरिवर्तः पञ्चमः //
स्तर्त् परिवर्त 6
क्षणिकपरिवर्तो नाम षष्ठः /
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान्, देशयतु मे सुगतः स्कन्धधात्वायतनानां प्रवृत्तिनिवृत्तिम् / असत्यात्मनि कस्य प्रवृत्तिर्वा निर्वृत्तिर्वा? बालाश्च प्रवृत्तिनिवृत्त्याश्रिता दुःखक्षयानवबोधान्निर्वाणं न प्रजानन्ति / भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् //
भगवांस्तस्यैतदवोचत् - तथागतगर्भो महामते कुशलाकुशलहेतुकः सर्वजन्मगतिकर्ता प्रवर्तते नटवद्गतिसंकट आत्मात्मीयवर्जितः / तदनवबोधात्रिसंगतिप्रत्ययक्रियायोगः प्रवर्तते / न च तीर्थ्या अवबुध्यन्ते कारणाभिनिवेशाभिनिविष्टाः / अनादिकालविविधप्रपञ्चदौष्ठुल्यवासनावासितः आलयविज्ञानसंशब्दितो ऽविद्यावासनभूमिजैः सप्तभिर्विज्ञानैः सह महोदधितरंगवन्नित्यमव्युच्छिन्नशरीरः प्रवर्तते अनित्यतादोषरहित आत्मवादविनिवृत्तो ऽत्यन्तप्रकृतिपरिशुद्धः / तदन्यानि विज्ञानान्युत्पन्नापवर्गानि मनोमनोविज्ञानप्रभृतीनि क्षणिकानि, सप्ताप्यभूतपरिकल्पहेतुजनितसंस्थानाकृतिविशेषसमवायावलम्बीनि नामनिमित्ताभिनिविष्टानि स्वचित्तदृश्यरूपलक्षणाअवबोधकानि सुखदुःखाप्रतिसंवेदकानि अमोक्षकारणानि नामनिमित्तपर्युत्थानरागजनितजनकतद्धेत्वालम्बानि / तेषां चोपात्तानामिन्द्रियाख्यानां परिक्षयनिरोधे समन्तरानुत्पत्तेरन्येषां स्वमतिविकल्पसुखदुःखाप्रतिसंवेदिनां संज्ञावेदितनिरोधसमापत्तिसमापन्नानां चतुर्ध्यानसत्यविमोक्षकुशलानां योगिनां विमोक्षबुद्धिर्भवत्यप्रवृत्तेः //
अपरावृत्ते च तथागतगर्भशब्दसंशब्दिते आलयविज्ञाने नास्ति सप्तानां प्रवृत्तिविज्ञानानां निरोधः / तत्कस्य हेतोः? तद्धेत्वालम्बनप्रवृत्तत्वाद्विज्ञानानाम्, अविषयत्वाच्च सर्वश्रावकप्रत्येकबुद्धतीर्थ्ययोगयोगिनां स्वपुद्गलनैरात्म्यावबोधात्स्वसामान्यलक्षणपरिग्रहात्स्कन्धधात्वायतनानां प्रवर्तते तथागतगर्भः / पञ्चधर्मस्वभावधर्मनैरात्म्यदर्शनान्निवर्तते भूमिक्रमानुसंधिपरावृत्त्या / नान्यतीर्थ्यमार्गदृष्टिभिर्विचारयितुं शक्यते / ततो ऽचलायां भूमौ बोधिसत्त्वभूमौ प्रतिष्ठितो दशसमाधिसुखमुखमार्गान् प्रतिलभते / समाधिबुद्धैः संधार्यमाणो ऽचिन्त्यबुद्धधर्मस्वप्रणिधानव्यवलोकनतया समाधिसुखभूतकोट्या विनिवार्य प्रत्यात्मार्यगतिगम्यैः सर्वश्रावकप्रत्येकबुद्धतीर्थकरासाधारणैर्योगमार्गैर्दशार्यगोत्रमार्गं प्रतिलभते, कायं च ज्ञानमनोमयं समाध्यभिसंस्काररहितम् / तस्मात्तर्हि महामते तथागतगर्भः आलयविज्ञानसंशब्दितो विशोधयितव्यो विशेषार्थिभिर्बोधिसत्त्वैर्महासत्त्वैः //
यदि हि महामते आलयविज्ञानसंशब्दितस्तथागतगर्भो ऽत्र न स्यादिति असति महामते तथागतगर्भे आलयविज्ञानसंशब्दिते न प्रवृत्तिर्न निवृत्तिः स्यात् / भवति च महामते प्रवृत्तिर्निवृत्तिश्च बालार्याणाम् / स्वप्रत्यात्मार्यगतिदृष्टधर्मसुखविहारेण च विहरन्ति योगिनो ऽनिक्षिप्तधुरा दुष्प्रतिवेधाश्च / महामते अयं तथागतगर्भालयविज्ञानगोचरः सर्वश्रावकप्रत्येकबुद्धतीर्थ्यवितर्कदर्शनानां (वैद्य 91) प्रकृतिपरिशुद्धो ऽपि सन् अशुद्ध इवागन्तुक्लेशोपक्लिष्टतया तेषामाभाति न तु तथागतानाम् / तथागतानां पुनर्महामते करतलामलकवत्प्रत्यक्षगोचरो भवति / एतदेव महामते मया श्रीमालां देवीमधिकृत्य देशनापाठे अन्यांश्च सूक्ष्मनिपुणविशुद्धबुद्धीन् बोधिसत्त्वानधिष्ठाय तथागतगर्भ आलयविज्ञानसंशब्दितः सप्तभिर्विज्ञानैः सह प्रवृत्त्यभिनिविष्टानां श्रावकाणां धर्मनैरात्म्यप्रदर्शनार्थं श्रीमालां देवीमधिष्ठाय तथागतविषयो देशितो न श्रावकप्रत्येकबुद्धान्यतीर्थकरतर्कविषयो ऽन्यत्र महामते तथागतविषय एव तथागतगर्भ आलयविज्ञानविषयस्त्वत्सदृशानां च सूक्ष्मनिपुणमतिबुद्धिप्रभेदकानां बोधिसत्त्वानां महासत्त्वानामर्थप्रतिशरणानां नो तु यथारुतदेशनापाठाभिनिविष्टानां सर्वान्यतीर्थ्यश्रावकप्रत्येकबुद्धानाम् / तस्मात्तर्हि महामते त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः सर्वतथागतविषये ऽस्मिंस्तथागतगर्भालयविज्ञानपरिज्ञाने योगः करणीयः / न श्रुतमात्रसंतुष्टैर्भवितव्यम् //
तत्रेदमुच्यते -
गर्भस्तथागतानां हि विज्ञानैः सप्तभिर्युतः / प्रवर्तते ऽद्वयो ग्राहात्परिज्ञानान्निवर्तते // lank_6.1 //
बिम्बवद्दृश्यते चित्तमनादिमतिभावितम् / अर्थाकारो न चार्थो ऽस्ति यथाभूतं विपश्यतः // lank_6.2 //
अङ्गुल्यग्रं यथा बालो न गृह्णाति निशाकरम् / तथा ह्यक्षरसंसक्तस्तत्त्वं वेत्ति न मामकम् // lank_6.3 //
नटवन्नृत्यते चित्तं मनो विदूषसादृशम् / विज्ञानं पञ्चभिः सार्धं दृश्यं कल्पेति रङ्गवत् // lank_6.4 //
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान्, देशयतु मे सुगतः पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयप्रभेदगतिलक्षणम्, येन नैरात्म्यद्वयप्रभेदगतिलक्षणेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः सर्वभूमिक्रमानुसंधिष्वेतान् धर्मान् विभावयेम, यथा तैर्धर्मैः सर्वबुद्धधर्मानुप्रवेशो भवेत् / सर्वबुद्धधर्मानुप्रवेशाच्च यावत्तथागतस्वप्रत्ययात्मभूमिप्रवेशः स्यादिति / भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवांस्तस्यैतदवोचत् - पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयप्रभेदगतिलक्षणं ते महामते देशयिष्यामि / यदुत नाम निमित्तं विकल्पः सम्यग्ज्ञानं तथता च तथागतप्रत्यात्मार्यगतिप्रवेशः शाश्वतोच्छेदसदसद्दृष्टिविवर्जितो दृष्टधर्मसुखसमापत्तिसुखविहार आमुखीभवति योगयोगिनाम् / तत्र महामते पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयस्वचित्तदृश्यबाह्यभावाभावानवबोधाद्विकल्पः प्रवर्तते बालानां न त्वार्याणाम् //
महामतिराह - कथं पुनर्भगवन् बालानां विकल्पः प्रवर्तते, न त्वार्याणाम्? भगवानाह - नामसंज्ञासंकेताभिनिवेशेन महामते बालाश्चित्तमनुसरन्ति / अनुसरन्तो विविधलक्षणोपचारेण आत्मात्मीयदृष्टिपतिताशया वर्णपुष्कलतामभिनिविशन्ते / अभिनिविशन्तश्च अज्ञानावृताः संरज्यन्ते / संरक्ता रागद्वेषमोहजं कर्माभिसंस्कुर्वन्ति / अभिसंस्कृत्य पुनः पुनः कोशकारकीटका इव स्वविकल्पपरिवेष्टितमतयो गतिसमुद्रकान्तारप्रपतिता घटियन्त्रवन्नातिप्रवर्तन्ते / न च प्रजानन्ति मोहान्मायामरीच्युदकचन्द्रस्वभावकल्पनात्मात्मीयरहितान् सर्वधर्मानभूतविकल्पोदितांल्लक्ष्यलक्षणापगतान् भङ्गोत्पादस्थितिगतिविनिवृत्तान् स्वचित्तदृश्यविकल्पप्रभवानीश्वरकालाणुप्रधानप्रभवान् / नामनिमित्तानुप्लवेन महामते बाला निमित्तमनुसरन्ति //
तत्र निमित्तं पुनर्महामते यच्चक्षुर्विज्ञानस्याभासमागच्छति रूपसंज्ञकम् / एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानानां शब्दगन्धरसस्प्रष्टव्यधर्मसंज्ञकमेतन्निमित्तमिति वदामि / तत्र विकल्पः पुनर्महामते येन नाम समुदीरयति / निमित्तव्यञ्जकमिदम् - एवमिदं नान्यथेति हस्त्यश्वरथपदातिस्त्रीपुरुषादिकसंज्ञकं तद्विकल्पः प्रवर्तते / सम्यग्ज्ञानं पुनर्महामते येन नामनिमित्तयोरनुपलब्धिः / अन्योन्यागन्तुकत्वादप्रवृत्तिर्विज्ञानस्य अनुच्छेदाशाश्वततः सर्वतीर्थकरश्रावकप्रत्येकबुद्धभूम्यपातनत्वात्सम्यग्ज्ञानमित्युच्यते / पुनरपरं महामते येन सम्यग्ज्ञानेन बोधिसत्त्वो महासत्त्वो न नाम भावीकरोति, न च निमित्तमभावीकरोति / समारोपापवादान्तद्वयकुदृष्टिविवर्जितं नामनिमित्तार्थयोरप्रवृत्तिविज्ञानम् / एवमेतां तथतां वदामि / तथताव्यवस्थितश्च महामते बोधिसत्त्वो महासत्त्वो निराभासगोचरप्रतिलाभित्वात्प्रमुदितां बोधिसत्त्वभूमिं प्रतिलभते //
स प्रतिलभ्य प्रमुदितां बोधिसत्त्वभूमिं व्यावृत्तः सर्वतीर्थ्यापायगतिभ्यो भवति लोकोत्तरधर्मगतिसमवसृतः लक्षणपरिचयान्मायादिपूर्वकां सर्वधर्मगतिं विभावयन् स्वप्रत्यात्मार्यधर्मगतिलक्षणं तर्कदृष्टिविनिवृत्तकौतुको ऽनुपूर्वेण यावद्धर्ममेघा भूमिरिति / धर्ममेघानन्तरं यावत्समाधिबलवशिताभिज्ञाकुसुमितां तथागतभूमिं प्रतिलभते / स प्रतिलभ्य सत्त्वपरिपाचनतया विचित्रैर्निर्माणकिरणैर्विराजते जलचन्द्रवत् / अष्टापदसुनिबद्धधर्मा नानाधिमुक्तिकतया सत्त्वेभ्यो धर्मं देशयति / कायं मनोविज्ञप्तिरहितम् / एतन्महामते तथताप्रवेशात्प्रतिलभन्ते बोधिसत्त्वा महासत्त्वाः //
पुनरपि महामतिराह - किं पुनर्भगवन् पञ्चसु धर्मेष्वन्तर्गतास्त्रयः, स्वभावा उत स्वलक्षणसिद्धाः? भगवानाह - अत्रैव महामते त्रयः स्वभावा अन्तर्गताः, अष्टौ च विज्ञानानि, द्वे च नैरात्म्ये / तत्र नाम च निमित्तं च परिकल्पितः स्वभावो वेदितव्यः / यः पुनर्महामते तदाश्रयप्रवृत्तो विकल्पश्चित्तचैत्तसंशब्दितो युगपत्कालोदित आदित्य इव रश्मिसहितो विचित्रलक्षणस्वभावो विकल्पाधारकः, स महामते स्वभावः परतन्त्र इत्युच्यते / सम्यग्ज्ञानं तथता च महामते अविनाशत्वात्स्वभावः परिनिष्पन्नो वेदितव्यः //
पुनरपरं महामते स्वचित्तदृश्यमभिनिविश्यमानं विकल्पो ऽष्टधा भिद्यते / निमित्तस्याभूतलक्षणपरिकल्पितत्वादात्मात्मीयग्राहद्वयव्युपशमान्नैरात्म्यद्वयमाजायते / एषु महामते पञ्चसु धर्मेषु सर्वबुद्धधर्मा अन्तर्गताः, भूमिविभागानुसंधिश्च श्रावकप्रत्येकबुद्धबोधिसत्त्वानाम्, तथागतानां च प्रत्यात्मार्यज्ञानप्रवेशः //
पुनरपरं महामते पञ्चधर्माः - निमित्तं नाम विकल्पस्तथता सम्यग्ज्ञानं च / तत्र महामते निमित्तं यत्संस्थानाकृतिविशेषाकाररूपादिलक्षणं दृश्यते तन्निमित्तम् / यत्तस्मिन्निमित्ते घटादिसंज्ञाकृतकम् - एवमिदं नान्यथेति, तन्नाम / येन तन्नाम समुदीरयति निमित्ताभिव्यञ्जकं समधर्मेति वा, स महामते चित्तचैत्तसंशब्दितो विकल्पः / यन्नामनिमित्तयोरत्यन्तानुपलब्धिता बुद्धिप्रलयादन्योन्याननुभूतापरिकल्पितत्वादेषां धर्माणां सा तथतेति / तत्त्वं भूतं निश्चतो निष्ठा प्रकृतिः स्वभावो ऽनुपलब्धिस्तत्तथालक्षणम् / मया अन्यैश्च तथागतैरनुगम्य यथावद्देशितं प्रज्ञप्तं विवृतमुत्तानीकृतम्, यत्रानुगम्य सम्यगवबोधानुच्छेदाशाश्वततो विकल्पस्याप्रवृत्तिः स्वप्रत्यात्मार्यज्ञानानुकूलं तीर्थकरपक्षपरपक्षश्रावकप्रत्येकबुद्धागतिलक्षणं तत्सम्यग्ज्ञानम् / एते च महामते पञ्च धर्माः / एतेष्वेव त्रयः स्वभावाः, अष्टौ च विज्ञानानि, द्वे च नैरात्म्ये, सर्वबुद्धधर्माश्चान्तर्गताः / अत्र ते महामते स्वमतिकौशलं करणीयम्, अन्यैश्च कारयितव्यम् / न परप्रणेयेन भवितव्यम् //
तत्रेदमुच्यते -
पञ्च धर्माः स्वभावश्च विज्ञानान्यष्ट एव च / द्वे नैरात्म्ये भवेत्कृत्स्नो महायानपरिग्रहः // lank_6.5 //
नामनिमित्तसंकल्पाः स्वभावद्वयलक्षणम् / सम्यग्ज्ञानं तथात्वं च परिनिष्पन्नलक्षणम् // lank_6.6 //
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - यत्पुनरेतदुक्तं भगवता देशनापाठे यथा गङ्गानदीवालुकासमास्तथागता अतीता अनागता वर्तमानाश्च / तत्किमिदं भगवन् यथारुतार्थग्रहणं कर्तव्यम्, आहोस्विदन्यः कश्चिदर्थान्तरविशेषो ऽस्तीति? तदुच्यतां भगवन् / भगवानाह - न महामते यथारुतार्थग्रहणं कर्तव्यम् / न च महामते गङ्गानदीवालुकाप्रमाणतया त्र्यध्वकबुद्धप्रमाणता भवति / तत्कस्य हेतोः? यदुत लोकातिशयातिक्रान्तत्वान्महामते दृष्टान्तो ऽदृष्टान्तः सदृशासदृशत्वात् / न च महामते तथागता अर्हन्तः सम्यक्संबुद्धाः सदृशासदृशं लोकातिशयातिक्रान्तं दृष्टान्तं प्राविष्कुर्वन्ति / अन्यत्र उपमामात्रमेतन्महामते मयोपन्यस्तम्, तैश्च तथागतैः / यथा गङ्गानदीवालुकासमास्तथागता अर्हन्तः सम्यक्संबुद्धा इति नित्यानित्याभिनिवेशाभिनिविष्टानां बालपृथग्जनानां तीर्थकराशयकुदृष्टियुक्तानां संसारभवचक्रानुसारिणामुद्वेजनार्थम् - कथमेते उद्विग्ना भवगतिचक्रसंकटाद्विशेषार्थिनो विशेषमारभेरन्निति सुलभबुद्धत्वप्रदर्शनार्थं न नोदुम्बरपुष्पतुल्यस्तथागतानामुत्पाद (वैद्य 94) इति कृत्वा वीर्यमारप्स्यन्ते / देशनापाठे तु मया वैनेयजनतापेक्षया उदुम्बरपुष्पसुदुर्लभप्रादुर्भावास्तथागता इति देशितम् / न च महामते उदुम्बरपुष्पं केनचिद्दृष्टपूर्वं न द्रक्ष्यते / तथागताः पुनर्महामते लोके दृष्टाः, दृश्यन्ते चैतर्हि / न स्वनयप्रत्यवस्थानकथामधिकृत्य उदुम्बरपुष्पसुदुर्लभप्रादुर्भावास्तथागता इति / स्वनयप्रत्यवस्थानकथायां महामते निर्दिश्यमानायां लोकातिशयातिक्रान्ता दृष्टान्ता युक्ताः क्रियन्ते ऽश्रद्धेयत्वात् / अश्रद्धेयं स्याद्बालपृथग्जनानां च / स्वप्रत्यात्मार्यज्ञानगोचरे न दृष्टान्ता न प्रवर्तन्ते / तत्त्वं च तथागताः / अतस्तेषु दृष्टान्ता नोपन्यस्यन्ते //
किं तु उपमामात्रमेतन्महामते कृतं यदुत गङ्गानदीवालुकासमास्तथागताः समा न विषमा अकल्पाविकल्पनतः / तद्यथा महामते गङ्गायां नद्यां वालुका मीनकच्छपशिशुमारनक्रमहिषसिंहहस्त्यादिभिः संक्षोभ्यमाणा न कल्पयन्ति न विकल्पयन्ति - संक्षोभ्यामहे न वेति निर्विकल्पाः स्वच्छा मलव्यपेताः / एवमेव महामते तथागतानामर्हतां सम्यक्संबुद्धानां स्वप्रत्यात्मार्यज्ञानगङ्गामहानदीबलाभिज्ञावशितावालुकाः सर्वतीर्थकरबालमीनपरप्रवादिभिः संक्षोभ्यमाणा न कल्पयन्ति न विकल्पयन्ति / तथागतपूर्वप्रणिहितत्वात्सर्वसुखसमापत्तिपरिपूर्या सत्त्वानां न कल्पयन्ति न विकल्पयन्ति / अतस्ते गङ्गानदीवालुकासमास्तथागता निर्विशिष्टा अनुनयप्रतिघापगतत्वात् //
तद्यथा महामते गङ्गायां नद्यां वालुका पृथिवीलक्षणस्वभावत्वात्पृथिवी, कल्पोद्दाहे दह्यमानापि न पृथिवीस्वभावं विजहाति / न च महामते पृथिवी दह्यते तेजोधातुप्रतिबद्धत्वादन्यत्र बालपृथग्जना वितथतापतितया संतत्या दह्यमानां कल्पयन्ति, न च दह्यते तदग्निहेतुभूतत्वात् / एवमेव महामते तथागतानां धर्मकायो गङ्गानदीवालुकासमो ऽविनाशी / तद्यथा महामते नद्यां गङ्गायां वालुका अप्रमाणाः, एवमेव महामते तथागतानां रश्म्यालोको ऽप्रमाणः सत्त्वपरिपाकसंचोदनमुपादाय सर्वबुद्धपर्षन्मण्डलेषु प्रसर्प्यते तथागतैः / तद्यथा महामते गङ्गायां नद्यां वालुका न वालुकास्वभावान्तरमारभन्ते, वालुकावस्था एव वालुकाः, एवमेव महामते तथागतानामर्हतां सम्यक्संबुद्धानां संसारे न प्रवृत्तिर्न निवृत्तिः, भवप्रवृत्त्युच्छिन्नहेतुत्वात् / तद्यथा महामते गङ्गायां नद्यां वालुका अपकृष्टा अपि न प्रज्ञायन्ते, प्रक्षिप्ता अपि न प्रज्ञायन्ते, महामते एवमेव तथागतानां ज्ञानं सत्त्वपरिपाकयोगेन न क्षीयते न वर्धते, अशरीरत्वाद्धर्मस्य / शरीरवतां हि महामते नाशो भवति नाशरीरवताम् / धर्मश्चाशरीरः / तद्यथा महामते गङ्गायां नद्यां वालुका निष्पीड्यमाना घृततैलार्थिभिर्घृततैलादिविरहिताः, एवमेव महामते तथागताः सत्त्वदुःखैर्निष्पीड्यमाना धर्मधात्वीश्वरप्रणिधानसुखं न विजहति महामते महाकरुणोपेतत्वात्, यावत्सर्वसत्त्वा न निर्वाप्यन्ते तथागतैः / तद्यथा महामते गङ्गायां नद्यां वालुकाः प्रवाहानुकूलाः प्रवहन्ति नानुदके, एवमेव महामते तथागतानां सर्वबुद्धधर्मदेशना निर्वाणप्रवाहानुकूला संवर्तते / तेन गङ्गानदीवालुकासमास्तथागता इत्युच्यन्ते / नायं महामते गत्यर्थस्तथागतेषु प्रवर्तते / विनाशो (वैद्य 95) महामते गत्यर्थो भवति / न च महामते संसारस्य पूर्वा कोटिः प्रज्ञायते / अप्रज्ञायमाना कथं गत्यर्थेन निर्देक्ष्यामि? गत्यर्थो महामते उच्छेदः / न च बालपृथग्जनाः संप्रजानन्ति //
महामतिराह - तद्यदि भगवन् पूर्वा कोटिर्न प्रज्ञायते सत्त्वानां संसरताम्, तत्कथं मोक्षः प्रज्ञायते प्राणिनाम्? भगवानाह - अनादिकालप्रपञ्चदौष्ठुल्यविकल्पवासनाहेतुविनिवृत्तिर्महामते स्वचित्तदृश्यबाह्यार्थपरिज्ञानाद्विकल्पस्याश्रयपरावृत्तिर्महामते मोक्षो न नाशः / अतो नानन्तकथा महामते किंचित्कारी भवति / विकल्पस्यैव महामते पर्यायो ऽनन्तकोटिरिति / न चात्र विकल्पादन्यत्किंचित्सत्त्वान्तरमस्ति, अध्यात्मं वा बहिर्धा वा परीक्ष्यमाणं बुद्ध्या / ज्ञानज्ञेयविविक्ता हि महामते सर्वधर्माः / अन्यत्र स्वचित्तविकल्पापरिज्ञानाद्विकल्पः प्रवर्तते, तदवबोधान्निवर्तते //
तत्रेदमुच्यते -
गङ्गायां वालुकासमान् ये पश्यन्ति विनायकान् / अनाशगतिनिष्ठान् वै ते पश्यन्ति तथागतान् // lank_6.7 //
गङ्गायां वालुका यद्वत्सर्वदोषैर्विवर्जिताः / वाहानुकूला नित्याश्च तथा बुद्धस्य बुद्धता // lank_6.8 //
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु भगवान्, देशयतु मे सुगतस्तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्माणां क्षणभङ्गं भेदलक्षणं चैषाम् / तत्कथं भगवन् सर्वधर्माः क्षणिकाः? भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवांस्तस्यैतदवोचत् - सर्वधर्माः सर्वधर्मा इति महामते यदुत कुशलाकुशलाः संस्कृतासंस्कृता लौकिकलोकोत्तराः सावद्यानवद्याः सास्रवानास्रवा उपात्तानुपात्ताः / संक्षेपेण महामते पञ्चोपादानस्कन्धाश्चित्तमनोमनोविज्ञानवासनाहेतुकाश्चित्तमनोमनोविज्ञानवासनापुष्टैर्बालपृथग्जनैः कुशलाकुशलेन परिकल्प्यन्ते / समाधिसुखसमापत्तयो महामते दृष्टधर्मसुखविहारभावेन आर्याणां कुशलानास्रवा इत्युच्यन्ते / कुशलाकुशलाः पुनर्महामते यदुत अष्टौ विज्ञानानि / कतमान्यष्टौ? यदुत तथागतगर्भ आलयविज्ञानसंशब्दितो मनो मनोविज्ञानं च पञ्च च विज्ञानकायास्तीर्थ्यानुवर्णिताः / तत्र महामते पञ्च विज्ञानकाया मनोविज्ञानसहिता कुशलाकुशलक्षणपरंपराभेदभिन्नाः संततिप्रबन्धनाभिन्नशरीराः प्रवर्तमानाः प्रवर्तन्ते / प्रवृत्य च विनश्यन्ति / स्वचित्तदृश्यानवबोधात्समनन्तरनिरोधे ऽन्यद्विज्ञानं प्रवर्तते / संस्थानाकृतिविशेषग्राहकं मनोविज्ञानं पञ्चभिर्विज्ञानकायैः सह संप्रयुक्तं प्रवर्तते क्षणकालानवस्थायि / तत्क्षणिकमिति वदामि / क्षणिकं पुनर्महामते आलयविज्ञानं तथागतगर्भसंशब्दितं मनःसहितं प्रवृत्तिविज्ञानवासनाभिः क्षणिकमनास्रववासनाभिरक्षणिकम् / न च बालपृथग्जना अवबुध्यन्ते क्षणिकवादाभिनिविष्टा क्षणिकाक्षणिकतामिमां सर्वधर्माणाम् / तदनवबोधादुच्छेददृष्ट्या असंस्कृतानपि धर्मान्नाशयिष्यन्ति / (वैद्य 96) असंसारिणो महामते पञ्च विज्ञानकाया अननुभूतसुखदुःखा अनिर्वाणहेतवः / तथागतगर्भः पुनर्महामते अनुभूतसुखदुःखहेतुसहितः प्रवर्तते निवर्तते च चतसृभिर्वासनाभिः संमूर्च्छितः / न च बाला अवबुध्यन्ते क्षणिकदृष्टिविकल्पवासितमतयः //
पुनरपरं महामते समधारणं कल्पस्थिताः सुवर्णवज्रजिनधातुप्राप्तिविशेषा अभङ्गिनः / यदि पुनर्महामते अभिसमयप्राप्तिः क्षणिका स्यात्, अनार्यत्वमार्याणां स्यात् / न च अनार्यत्वमार्याणां भवति / सुवर्णं वज्रं च महामते समधारणं कल्पस्थिता अपि तुल्यमाना न हीयन्ते न वर्धन्ते / तत्कथं बालैः क्षणिकार्थे विकल्प्यते आध्यात्मिकबाह्यानां सर्वधर्माणामसंधाभाष्यकुशलैः?
पुनरपि महामतिराह - यत्पुनरेतदुक्तं भगवता - षट्पारमितां परिपूर्य बुद्धत्वमवाप्यत इति / तत्कतमास्ताः षट्पारमिताः? कथं च परिपूरिं गच्छन्ति? भगवानाह - त्रय एते महामते पारमिताभेदाः / कतमे त्रयः? यदुत लौकिकलोकोत्तरलोकोत्तरतमाः / तत्र महामते लौकिक्यः पारमिता आत्मात्मीयग्राहाभिनिवेशाभिनिविष्टाः / अन्तद्वयग्राहिणो विचित्रभवोपपत्त्यायतनार्थं रूपादिविषयाभिलाषिणो दानपारमितां परिपूरयन्ति / एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितां महामते परिपूरयन्ति बालाः / अभिज्ञाश्चाभिनिर्हरन्ति ब्रह्मत्वाय / तत्र लोकोत्तराभिः पारमिताभिः श्रावकप्रत्येकबुद्धा निर्वाणग्राहपतिताशया दानादिषु प्रयुज्यन्ते यथैव बाला आत्मसुखनिर्वाणाभिलाषिणः / लोकोत्तरतमाः पुनर्महामते स्वचित्तदृश्यविकल्पमात्रग्रहणात्स्वचित्तद्वयावबोधादप्रवृत्तेर्विकल्पस्य उपादानग्रहणाभावात्स्वचित्तरूपलक्षणानभिनिवेशाद्दानपारमिता सर्वसत्त्वहितसुखार्थमाजायते बोधिसत्त्वानां महासत्त्वानां परमयोगयोगिनाम् / यत्तत्रैवालम्बने विकल्पस्याप्रवृत्तिं शीलयन्ति, तच्छीलं पारमिता च सा / या तस्यैव विकल्पस्याप्रवृत्तिक्षमणता ग्राह्यग्राहकपरिज्ञया, सा क्षान्तिपारमिता / येन वीर्येण पूर्वरात्रापररात्रं घटते योगानुकूलदर्शनाद्विकल्पस्य व्यावृत्तेः, सा वीर्यपारमिता / यद्विकल्पनिवृत्तेस्तीर्थ्यनिर्वाणग्राहापतनं सा ध्यानपारमिता / तत्र प्रज्ञापारमिता यदा स्वचित्तविकल्पाभावादाबुद्धिप्रविचयात्प्रतिविचिन्वन् अन्तद्वये न पतति आश्रयपरावृत्तिपूर्वकर्मविनाशतः, स्वप्रत्यात्मार्यगतिप्रतिलम्भाय प्रयुज्यते, सा प्रज्ञापारमिता / एता महामते पारमिताः / एष पारमितार्थः / तत्रेदमुच्यते -
शून्यमनित्यं क्षणिकं बालाः कल्पेन्ति संस्कृतम् / नदीदीपबीजदृष्टान्तैः क्षणिकार्थो विकल्प्यते // lank_6.9 //
निर्व्यापारं क्षणिकं विविक्तं क्षयवर्जितम् / अनुत्पत्तिश्च धर्माणां क्षणिकार्थं वदाम्यहम् // lank_6.10 //
उत्पत्त्यनन्तरं भङ्गं न वै देशेमि बालिशान् / नैरन्तर्येण भावानां विकल्पः स्पन्दते गतौ // lank_6.11 //
सा विद्या कारणं तेषां चित्तानां संप्रवर्तिकम् / अन्तरा किमवस्थासौ यावद्रूपं न जायते // lank_6.12 //
समनन्तरप्रध्वस्तं चित्तमन्यत्प्रवर्तते / रूपं न तिष्ठते काले किमालम्ब्य प्रवर्त्स्यते // lank_6.13 //
यस्माद्यत्र प्रवर्तते चित्तं वितथहेतुकम् / न प्रसिद्धं कथं तस्य क्षणभङ्गो ऽवधार्यते // lank_6.14 //
योगिनां हि समापत्तिः सुवर्णं जिनधातवः / आभास्वरविमानाश्च अभेद्या लोककारणात् // lank_6.15 //
स्थितयः प्राप्तिधर्माश्च बुद्धानां ज्ञानसंपदः / भिक्षुत्वं समयप्राप्तिर्दृष्टा वै क्षणिकाः कथम् // lank_6.16 //
गन्धर्वपुरमायाद्या रूपा वै क्षणिका न किम् / अभूतिकाश्च भूताश्च भूताः केचित्करागताः // lank_6.17 //
इति लङ्कावतारे क्षणिकपरिवर्तः षष्ठः //
स्तर्त् परिवर्त 7
नैर्माणिकपरिवर्तो नाम सप्तमः /
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - अर्हन्तः पुनर्भगवता व्याकृता अनुत्तरायां सम्यक्संबोधौ / अपरिनिर्वाणधर्मकाश्च सत्त्वास्तथागतत्वे / यस्यां च रात्रौ तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यस्यां च रात्रौ परिनिर्वृतः, एतस्मिन्नन्तरे भगवता एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम् / सदा समाहिताश्च तथागता न वितर्कयन्ति न व्यवचारयन्ति / निर्माणानि च निर्माय तैस्तथागतकृत्यं कुर्वन्ति / किं कारणं च विज्ञानानां क्षणपरंपराभेदलक्षणं निर्दिश्यते? वज्रपाणिश्च सततसमितं नित्यानुबद्धः / पूर्वा च कोटिर्न प्रज्ञायते / निर्वृतिश्च प्रज्ञाप्यते / माराश्च मारकर्माणि च कर्मप्लोतयश्च / चञ्चामाणविका सुन्दरिका प्रव्राजिका यथा धौतपात्रादीनि च भगवन् कर्मावरणानि दृश्यन्ते / तत्कथं भगवता सर्वाकारज्ञता प्राप्ता अप्रहीणैर्दोषैः? भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवांस्तस्यैतदवोचत् - निरुपधिशेषं निर्वाणधातुं संधाय बोधिसत्त्वचर्यां च चरितवतां प्रोत्साहनार्थम् / सन्ति हि महामते बोधिसत्त्वचर्याचारिणः इह अन्येषु च बुद्धक्षेत्रेषु / येषां श्रावकयाननिर्वाणाभिलाषस्तेषां श्रावकयानरुचिव्यावर्तनार्थं महायानगतिप्रोत्साहनार्थं च तन्निर्मितश्रावकान्निर्माणकायैर्व्याकरोति, न च धर्मताबुद्धैः / एतत्संधाय महामते श्रावकव्याकरणं निर्दिष्टम् / न हि महामते श्रावकप्रत्येकबुद्धानां क्लेशावरणप्रहाणविशेषो विमुक्त्येकरसतया /
नात्र ज्ञेयावरणप्रहाणम् / ज्ञेयावरणं पुनर्महामते धर्मनैरात्म्यदर्शनविशेषाद्विशुध्यते / क्लेशावरणं तु पुद्गलनैरात्म्यदर्शनाभ्यासपूर्वकं प्रहीयते, मनोविज्ञाननिवृत्तेः / धर्मावरणविनिर्मुक्तिः पुनरालयविज्ञानवासनाविनिवृत्तेर्विशुध्यति / पूर्वधर्मस्थितितां संधाय अपूर्वचरमस्य चाभावात्पूर्वप्रहिणैरेवाक्षरैस्तथागतो न वितर्क्य न विचार्य धर्मं देशयति / संप्रजानकारित्वादमुषितस्मृतित्वाच्च न वितर्कयति न विचारयति, चतुर्वासनाभूमिप्रहीणत्वाच्च्युतिद्वयविगमात्क्लेशज्ञेयावरणद्वयप्रहाणाच्च //
सप्त महामते मनोमनोविज्ञानचक्षुर्विज्ञानादयः क्षणिकाः वासनाहेतुत्वात्कुशलानास्रवपक्षरहिताः न संसारिणः / तथागतगर्भः पुनर्महामते संसरति निर्वाणसुखदुःखहेतुकः / न च बालपृथग्जना अवबुध्यन्ते शून्यताविक्षिप्तमतयः / निर्मितनैर्माणिकानां महामते तथागतानां वज्रपाणिः पार्श्वानुगतो न मौलानां तथागतानामर्हतां सम्यक्संबुद्धानाम् / मौलो हि महामते तथागतः सर्वप्रमाणेन्द्रियविनिवृत्तः सर्वबालश्रावकप्रत्येकबुद्धतीर्थ्यानाम् / दृष्टधर्मसुखविहारिणस्तमागच्छन्त्यभिसमयधर्मज्ञानक्षान्त्या / अतो वज्रपाणिस्तान्नानुबध्नाति / सर्वे हि निर्मितबुद्धा न कर्मप्रभवाः / न तेषु तथागतो न चान्यत्र तेभ्यस्तथागतः / कुम्भकारालम्बनादिप्रयोगेणेव सत्त्वकृत्यानि करोति, लक्षणोपेतं च देशयति, न तु स्वनयप्रत्यवस्थानकथां स्वप्रत्यात्मार्यगतिगोचरम् / पुनरपरं महामते षण्णां विज्ञानकायानां निरोधादुच्छेददृष्टिमाश्रयन्ति (वैद्य 99) बालपृथग्जनाः, आलयानवबोधाच्छाश्वतदृष्टयो भवन्ति / स्वमतिविकल्पस्य महामते पूर्वा कोटिर्न प्रज्ञायते / स्वमतिविकल्पस्यैव विनिवृत्तेर्मोक्षः प्रज्ञायते / चतुर्वासनाप्रहाणात्सर्वदोषप्रहाणम् //
तत्रेदमुच्यते -
त्रीणि यानान्ययानं च बुद्धानां नास्ति निर्वृतिः / बुद्धत्वे व्याकृताः सर्वे वीतदेषाश्च देशिताः // lank_7.1 //
अभिसमयान्तिकं ज्ञानं निरुपादिगतिस्तथा / प्रोत्साहना च लीनानामेतत्संघाय देशितम् // lank_7.2 //
बुद्धैरुत्पादितं ज्ञानं मार्गस्तैरेव देशितः / यान्ति तेनैव नान्येन अतस्तेषां न निर्वृतिः // lank_7.3 //
भवकामरूपदृष्टीनां वासना वै चतुर्विधा / मनोविज्ञानसंभूता आलयं च मनःस्थिताः // lank_7.4 //
मनोविज्ञाननेत्राद्यैरुच्छेदश्चाप्यनित्यतः / शाश्वतं च अनाद्येन निर्वाणमतिदृष्टिनाम् // lank_7.5 //
इति लङ्कावतारसूत्रे नैर्माणिकपरिवर्तः सप्तमः //
स्तर्त् परिवर्त 8
मांसभक्षणपरिवर्तो नामाष्टमः /
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तं गाथाभिः परिपृच्छय पुनरप्यध्येषते स्म - देशयतु मे भगवांस्तथागतो ऽर्हन् सम्यक्संबुद्धो मांसभक्षणे गुणदोषम्, येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा अनागतप्रत्युत्पन्नकाले सत्त्वानां क्रव्यादसत्त्वगतिवासनावासितानां मांसभोजगृद्धाणां रसतृष्णाप्रहाणाय धर्मं देशयाम, यथा च ते क्रव्यादभोजिनः सत्त्वा विराग्य रसतृष्णां धर्मरसाहारकाङ्क्षया सर्वसत्त्वैकपुत्रकप्रेमानुगताः परस्परं महामैत्रीं प्रतिलभेरन् / प्रतिलभ्य सर्वबोधिसत्त्वभूमिषु कृतयोग्याः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् / श्रावकप्रत्येकबुद्धभूम्या वा विश्रम्य अनुत्तरां ताथागतीं भूमिमुपसर्पयेयुः / दुराख्यातधर्मैरपि तावद्भगवन्नन्यतीर्थिकैर्लोकायतदृष्ट्यभिनिविष्टैः सदसत्पक्षोच्छेदशाश्वतवादिभिर्मासं निवार्यते भक्ष्यमाणम् / स्वयं च न भक्ष्यते, प्रागेव कृपैकरसे सम्यक्संबुद्धे प्रणीते लोकनाथे / तव शासने मांसं स्वयं च भक्ष्यते, भक्ष्यमाणं च न निवार्यते / तत्साधु भगवान् सर्वलोकानुकम्पकः सर्वसत्त्वैपुत्रकसमदर्शी महाकारुणिको ऽनुकम्पामुपादाय मांसभक्षणे गुणदेषान् देशयतु मे, यथा अहं च अन्ये च बोधिसत्त्वास्तथत्वाय सत्त्वेभ्यो धर्मं देशयेम / भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् //
भगवांस्तस्यैतदवोचत् - अपरिमितैर्महामते कारणैर्मांसं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य / तेभ्यस्तूपदेशमात्रं वक्ष्यामि / इह महामते अनेन दीर्घेणाध्वना संसरतां प्राणिनां नास्त्यसौ कश्चित्सत्त्वः सुलभरूपो यो न माताभूत्पिता वा भ्राता वा भगिनी वा पुत्रो वा दुहिता वा अन्यतरान्यतरो वा स्वजनबन्धुबन्धूभूतो वा / तस्य अन्यजन्मपरिवृत्ताश्रयस्य मृगपशुपक्षियोन्यन्तर्भूतस्य बन्धोर्बन्धुभूतस्य वा सर्वभूतात्मभूतानुपागन्तुकामेन सर्वजन्तुप्राणिभूतसंभूतं मांसं कथमिव भक्ष्यं स्याद्बुद्धधर्मकामेन बोधिसत्त्वेन महासत्त्वेन? राक्षसस्यापि महामते तथागतानामिमां धर्मसुधर्मतामुपश्रुत्य उपगतरक्षभावाः कृपालवा भवन्ति मांसभक्षणविनिवृत्ताः, किमुत धर्मकामा जनाः / एवं तावन्महामते तेषु तेषु जातिपरिवर्तेषु सर्वसत्त्वाः स्वजनबन्धुभावसंज्ञाः सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं मांसं सर्वमभक्ष्यम् / कृपात्मनो बोधिसत्त्वस्याभक्ष्यं मांसम् / व्यभिचारादपि महामते मांसं सर्वमभक्ष्यं चारित्रवतो बोधिसत्त्वस्य / श्वखरोष्ट्राश्वबलीवर्दमानुषमांसादीनि हि महामते लोकस्याभक्ष्याणि मांसानि / तानि च महामते वीथ्यन्तरेष्वौरभ्रिका भक्ष्याणीति कृत्वा मूल्यहेतोर्विक्रीयन्ते यतः, ततो ऽपि महामते मांसमभक्ष्यं बोधिसत्त्वस्य //
शुक्रशोणितसंभवादपि महामते शुचिकामतामुपादाय बोधिसत्त्वस्य मांसमभक्ष्यम् / उद्वेजनकरत्वादपि महामते भूतानां मैत्रीमिच्छतो योगिनो मांसं सर्वमभक्ष्यं बोधिसत्त्वस्य / (वैद्य 101) तद्यथापि महामते डोम्बचाण्डालकैवर्तादीन् पिशिताशिनः सत्त्वान् दूरत एव दृष्ट्वा श्वानः प्रभयन्ति भयेन, मरणप्राप्ताश्चैके भवन्ति - अस्मानपि मारयिष्यन्तीति / एवमेव महामते अन्ये ऽपि खभूजलसंनिश्रितान् सूक्ष्मजन्तवो ये मांसाशिनो दर्शनाद्दूरादेव पटुना घ्राणेनाघ्राय गन्धं राक्षसस्येव मानुषा द्रुतमपसर्पन्ति, मरणसंदेहाश्चैके भवन्ति / तस्मादपि च महामते उद्वेजनकरत्वान्महामैत्रीविहारिणो योगिनो मांसमभक्ष्यं बोधिसत्त्वस्य अनार्यजनजुष्टं दुर्गन्धम् / अकीर्तिकरत्वादपि महामते आर्यजनविवर्जितत्वाच्च मांसमभक्ष्यं बोधिसत्त्वस्य / ऋषिभोजनाहारो हि महामते आर्यजनो न मांसरुधिराहारः, इत्यतो ऽपि बोधिसत्त्वस्य मांसमभक्ष्यम् //
बहुजनचित्तानुरक्षणतयापि अपवादपरिहारं चेच्छतः शासनस्य महामते मांसमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य / तद्यथा महामते भवन्ति लोके शासनापवादवक्तारः / किंचित्तेषां श्रामण्यम्, कुतो वा ब्राह्मण्यम्? यन्नामैते पूर्वर्षिभोजनान्यपास्य क्रव्यादा इवामिषाहाराः परिपूर्णकुक्षयः खभूमिजलसंनिश्रितान् सूक्ष्मांस्त्रासयन्तो जन्तून् समुत्रासयन्त इमं लोकं समन्ततः पर्यटन्ति / निहतमेषां श्रामण्यम्, ध्वस्तमेषां ब्राह्मण्यम्, नास्त्येषां धर्मो न विनयः, इत्यनेकप्रकारप्रतिहतचेतसः शासनमेवापवदन्ति / तस्माद्बहुजनचित्तानुरक्षणतयापि अपवादपरिहारं चेच्छतः शासनस्य महामते मांसंं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य //
मृतशवदुर्गन्धप्रतिकूलसामान्यादपि महामते मांसमभक्ष्यं बोधिसत्त्वस्य / मृतस्यापि हि महामते मनुष्यस्य मांसे दह्यमाने तदन्यप्राणिमांसे च, न कश्चिद्गन्धविशेषः / सममुभयमांसयोर्दह्यमानयोर्दौर्गन्ध्यम् / अतो ऽपि महामते शुचिकामस्य योगिनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य //
श्मशानिकानां च महामते अरण्यवनप्रस्थान्यमनुष्यावचराणि प्रान्तानि शयनासनान्यध्यावसतां योगिनां योगाचाराणां मैत्रीविहारिणां विद्याधराणां विद्यां साधयितुकामानां विद्यासाधनमोक्षविघ्नकरत्वान्महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितॄणां च सर्वयोगसाधनान्तरायकरमित्यपि समनुपश्यतां महामते स्वपरात्महितकामस्य मांसं सर्वमभक्ष्यं बोधिसत्त्वस्य / रूपालम्बनविज्ञानप्रत्ययास्वादजनकत्वादपि सर्वभूतात्मभूतस्य कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य / देवता अपि चैनं परिवर्जयन्तीति कृत्वा महामते कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य / मुखं चास्य परमदुर्गन्धि इहैव तावज्जन्मनि, इत्यपि कृत्वा महामते कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य / दुःखं स्वपिति, दुःखं प्रतिबुध्यते / पापकांश्च रोमहर्षणान् स्वप्नान् पश्यन्ति / शून्यागारस्थितस्य चैकाकिनो रहोगतस्य विहरतो ऽस्यामनुष्यास्तेजो हरन्ति / उत्रस्यन्त्यपि, कदाचित्संत्रस्यन्त्यपि, संत्रासमकस्माच्चापद्यन्ते, आहारे च मात्रां न जानाति नाप्यशितपीतखादिताखादितस्य सम्यग्रसपरिणामपुष्ट्यादि समासादयति, क्रिमिजन्तुप्रचुरकुष्ठनिदानकोष्ठश्च भवति व्याधिबहुलम्, न च प्रतिकूलसंज्ञां प्रतिलभते / (वैद्य 102) पुत्रमांसभैषज्यवदाहारं देशयंश्चाहं महामते कथमिव अनार्यजनसेवितमार्यजनविवर्जितमेवमनेकदोषावहमनेकगुणविवर्जितमनृषिभोजनप्रणीतमकल्प्यं मांसरुधिराहारं शिष्येभ्यो ऽनुज्ञाप्यामि?
अनुज्ञातवान् पुनरहं महामते सर्वार्यजनसेवितमनार्यजनविवर्जितमनेकगुणवाहकमनेकदोषविवर्जितं सर्वपूर्वर्षिप्रणीतं भोजनम्, यदुत शालियवगोधूममुद्गमाषमसूरादिसर्पिस्तैलमधुफाणितगुडखण्डमत्स्यण्डिकादिषु समुपपद्यमानं भोजनं कल्प्यमिति कृत्वा / न च महामते अनागते ऽध्वनि एकेषां मोहपुरुषाणां विविधविनयविकल्पवादिनां क्रव्यादकुलवासितावासितानां रसतृष्णाव्यवसितानामिदं प्रणीतं भोजनं प्रतिभाष्यते / न तु महामते पूर्वजिनकृताधिकाराणामवरोपितकुशलमूलानां श्राद्धानामविकल्पानां बहुलानां शाक्यकुलकुलीनानां कुलपुत्राणां कुलदुहितॄणां कायजीवितभोगानध्यवसितानामरसगृध्राणामलोलुपानां कृपालूनां सर्वभूतात्मभूततामुपगन्तुकामानां सर्वसत्त्वैकपुत्रकप्रियदर्शिनां बोधिसत्त्वानां महासत्त्वानमिति वदामि //
भूतपूर्वं महामते अतीते ऽध्वनि राजाभूत्सिंहसौदासो नाम / स मांसभोजनाहारातिप्रसङ्गेन प्रतिसेवमानो रसतृष्णाध्यवसानपरमतया मांसानि मानुष्याण्यपि भक्षितवान् / तन्निदानं च मित्रामात्यज्ञातिबन्धुवर्गेणापि परित्यक्तः, प्रागेव पौरजानपदैः / स्वराज्यविषयपरित्यागाच्च महद्वयसनमासादितवान् मांसहेतोः //
इन्द्रेणापि च महामते देवाधिपत्यं प्राप्तेन (पूर्वाभूत्वा) पूर्वजन्ममांसादवासनादोषाच्छ्येनरूपमास्थाय कपोतवेषरूपधारी विश्वकर्मा समभिद्रुतो ऽभूत् / तुलायां चात्मानमारोपित आसीत् / यस्माद्राजा अनपराधिभूतानुकम्पकः शिबी दुःखेन महता लम्भितः / तदेवमनेकजन्माभ्यस्तमपि महामते देवेन्द्रभूतस्य शक्रस्यापि सतः स्वपरदोषावहनमभूत्, प्रागेव तदन्येषाम् //
अन्येषां च महामते नरेन्द्रभूतानां सतामश्वेनापहृतानामटव्यां पर्यटमानानां सिंह्या सह मैथुनं गतवतां जीवितभयादपत्यानि चोत्पादितवन्तः सिंहसंवासान्वयात्कल्माषपादप्रभृतयो नृपपुत्राः पूर्वजन्ममांसाददोषवासनतया मनुष्येन्द्रभूता अपि सन्तो मांसादा अभूवन् / इहैव च महामते जन्मनि सप्तकुटीरके ऽपि ग्रामे प्रचुरमांसलौल्यादतिप्रसङ्गेन निषेवमाना मानुषमांसादा घोरा डाका वा डाकिन्यश्च संजायन्ते / जातिपरिवर्ते च महामते तथैव मांसरसाध्यवसानतया सिंहव्याघ्रद्वीपिवृकतरक्षुमार्जारजम्बुकोलूकादिप्रचुरमांसादयोनिषु प्रचुरतरपिशिताशना राक्षसादिघोरतरयोनिषु विनिपात्यन्ते / यत्र विनिपतितानां दुःखेन मानुष्ययोनिरपि समापद्यते, प्रागवे निर्वृतिः / इत्येवमादयो महामते मांसाददोषाः प्रागेव निषेवमानानां समुपजायन्ते, विपर्ययाच्च भूयांसो गुणाः / न च महामते बालपृथग्जना (वैद्य 103) एतांश्चान्यांश्च गुणदोषानवबुध्यन्ते / एवमादिगुणदोषदर्शनान्महामते मांसं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्येति वदामि //
यदि च महामते मांसं न कथंचन केचन भक्षयेयुः, न तन्निदानं घातेरन् / मूल्यहेतोर्हि महामते प्रायः प्राणिनो निरपराधिनो वध्यन्ते स्वल्पादन्यहेतोः / कष्टं महामते रसतृष्णायामतिसेवतां मांसानि मानुषान्यपि मानुषैर्भक्ष्यन्ते, किं पुनरितरमृगपक्षिप्राणिसंभूतमांसानि / प्रायो महामते मांसरसतृष्णार्तैरिदं तथा तथा जालयन्त्रमाविद्धं मोहपुरुषैः, यच्छाकुनिकौरभ्रककैवर्तादयः खेचरभूचरजलचरान् प्राणिनो ऽनपराधिनो ऽनेकप्रकारं मूल्यहेतोर्विशसन्ति / न चैषां महामते किंकनीकृतरूक्षचेतसां राक्षसानामिव गतघृणानां कदाचिदपि प्राणिषु प्राणिसंज्ञया घातयतां भक्षयतां न घृणोत्पद्यते //
न च महामते अकृतकमकारितमसंकल्पितं नाम मांसं कल्प्यमस्ति यदुपादाय अनुजानीयां श्रावकेभ्यः / भविष्यन्ति तु पुनर्महामते अनागते ऽध्वनि ममैव शासने प्रव्रजित्वा शाक्यपुत्रीयत्वं प्रतिजानानाः काषायध्वजधारिणो मोहपुरुषा मिथ्यावितर्कोपहतचेतसो विविधविनयविकल्पवादिनः सत्कायदृष्टियुक्ता रसतृष्णाध्यवसितास्तां तां मांसभक्षणहेत्वाभासां ग्रन्थयिष्यन्ति / मम चाभूताभ्याख्यानं दातव्यं मंस्यन्ते / तत्तदर्थोत्पत्तिनिदानं कल्पयित्वा वक्ष्यन्ति - इयमर्थोत्पत्तिरस्मिन्निदाने, भगवता मांसभोजनमनुज्ञातं कल्प्यमिति / प्रणीतभोजनेषु चोक्तम्, स्वयं च किल तथागतेन परिभुक्तमिति / न च महामते कुत्रचित्सूत्रे प्रतिसेवितव्यमित्यनुज्ञातम्, प्रणीतभोजनेषु वा देशितं कल्प्यमिति //
यदि तु महामते अनुज्ञातुकामता मे स्यात्, कल्प्यं वा मे श्रावकाणां प्रतिसेवितुं स्यात्, नाहं मैत्रीविहारिणां योगिनां योगाचाराणां श्मशानिकानां महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितॄणां च सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं सर्वामांसभक्षणप्रतिषेधं कुर्याम्, कृतवांश्च / अस्मिन् महामते धर्मकामानां कुलपुत्राणां कुलदुहितॄणां च सर्वयानसंप्रस्थितानां श्मशानिकानां मैत्रीविहारिणामारण्यकानां योगिनां योगाचाराणां सर्वयोगसाधनाय सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं सर्वमांसप्रतिषेधम् //
तत्र तत्र देशनापाठे शिक्षापदानामनुपूर्वीबन्धं निःश्रेणीपदविन्यासयोगेन त्रिकोटिं बद्ध्वा न तदुद्दिश्य कृतानि प्रतिषिद्धानि / ततो दशप्रकृतिमृतान्यपि मांसानि प्रतिषिद्धानि / इह तु सूत्रे सर्वेण सर्वं सर्वथा सर्वं निरुपायेन सर्वं प्रतिषिद्धम् / यतो ऽहं महामते मांसभोजनं न कस्यचिदनुज्ञातवान्, नानुजानामि, नानुज्ञास्यामि / अकल्प्यं महामते प्रव्रजितानां मांसभोजनमिति वदामि / यदपि च महामते ममाभ्याख्यानं दातव्यं मंस्यन्ते तथागतेनापि परिभुक्तमिति, तदन्येषां महामते मोहपुरुषाणां स्वकर्मदोषावरणावृतानां दीर्घरात्रमनर्थायाहिताय संवर्तकं भविष्यति / न हि महामते आर्यश्रावकाः प्राकृतमनुष्याहारमाहरन्ति, (वैद्य 104) कुत एव मांसरुधिराहारमकल्प्यम् / धर्माहारा हि महामते मम श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वाश्च नामिषाहाराः, प्रागेव तथागताः / धर्मकाया हि महामते तथागता धर्माहारस्थितयो नामिषकाया न सर्वामिषाहारस्थितयो वान्तसर्वभवोपकरणतृष्णैषणावासनाः सर्वक्लेशदोषवासनापगताः सुविमुक्तचित्तप्रज्ञाः सर्वज्ञाः सर्वदर्शिनः सर्वसत्त्वैकपुत्रकसमदर्शिनो महाकारुणिकाः / सो ऽहं महामते सर्वसत्त्वैकपुत्रकसंज्ञी सन् कथमिव स्वपुत्रमांसमनुज्ञास्यामि परिभोक्तुं श्रावकेभ्यः, कुत एव स्वयं परिभोक्तुम्? अनुज्ञातवानस्मि श्रावकेभ्यः स्वयं वा परिभुक्तवानिति महामते नेदं स्थानं विद्यते //
तत्रेदमुच्यते -
मद्यं मांसं पलाण्डुं न भक्षयेयं महामुने / बोधिसत्त्वैर्महासत्त्वैर्भाषद्भिर्जिनपुंगवैः // lank_8.1 //
अनार्यजुष्टदुर्गन्धमकीर्तिकरमेव च / क्रव्यादभोजनं मांसं ब्रूह्यभक्ष्यं महामुने // lank_8.2 //
भक्ष्यमाणे च ये देषा अभक्ष्ये तु गुणाश्च ये / महामते निबोध त्वं ये दोषा मांसभक्षणे // lank_8.3 //
स्वाजन्याद्व्यभिचाराच्च शुक्रशोणितसंभवात् / उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत् // lank_8.4 //
मांसानि च पलाण्डूंश्च मद्यानि विविधानि च / गृञ्जनं लशुनं चैव योगी नित्यं विवर्जयेत् // lank_8.5 //
म्रक्षणं वर्जयेत्तैलं शल्यविद्धेषु न स्वपेत् / छिद्राच्छिद्रेषु सत्त्वानां यच्च स्थानं महद्भयम् // lank_8.6 //
आहाराज्जायते दर्पः संकल्पो दर्पसंभवः / संकल्पजनितो राजस्तस्मादपि न भक्षयेत् // lank_8.7 //
संकल्पाज्जायते रागश्चित्तं रागेण मुह्यते / मूढस्य संगतिर्भवति जायते न च मुच्यते // lank_8.8 //
लाभार्थं हन्यते सत्त्वो मांसार्थं दीयते धनम् / उभौ तौ पापकर्माणौ पच्येते रौरवादिषु // lank_8.9 //
यो ऽतिक्रम्य मुनेर्वाक्यं मांसं भक्षति दुर्मतिः / लोकद्वयविनाशार्थं दीक्षितः शाक्यशासने // lank_8.10 //
ते यान्ति परमं घोरं नरकं पापकर्मिणः / रौरवादिषु रौद्रेषु पच्यन्ते मांसखादकाः // lank_8.11 //
त्रिकोटिशुद्धमांसं वै अकल्पितमयाचितम् / अचोदितं च नैवास्ति तस्मान्मांसं न भक्षयेत् // lank_8.12 //
मांसं न भक्षयेद्योगी मया बुद्धैश्च गर्हितम् / अन्योन्यभक्षणाः सत्त्वाः क्रव्यादकुलसंभवाः // lank_8.13 //
दुर्गन्धिः कुत्सनीयश्च उन्मत्तश्चापि जायते / चण्डालपुक्कसकुले डोम्बेषु च पुनः पुनः // lank_8.14 //
डाकिनीजातियोन्याश्च मांसादे जायते कुले / राक्षसीमार्जारयोनौ च जायते ऽसौ नरो ऽधमः // lank_8.15 //
हस्तिकक्ष्ये महामेधे निर्वाणाङ्गुलिमालिके / लङ्कावतारसूत्रे च मया मांसं विवर्जितम् // lank_8.16 //
बुद्धैश्च बोधिसत्त्वैश्च श्रावकैश्च विगर्हितम् / खादते यदि नैर्लज्ज्यादुन्मत्तो जायते सदा // lank_8.17 //
ब्राह्मणेषु च जायेत अथ वा योगिनां कुले / प्रज्ञावान् धनवांश्चैव मांसाद्यानां विवर्जनात् // lank_8.18 //
दृष्टश्रुतविशङ्काभिः सर्वं मांसं विवर्जयेत् / तार्किका नावबुध्यन्ते क्रव्यादकुलसंभवाः // lank_8.19 //
यथैव रागो मोक्षस्य अन्तरायकरो भवेत् / तथैव मांसमद्याद्या अन्तरायकरो भवेत् // lank_8.20 //
वक्ष्यन्त्यनागते काले मांसादा मोहवादिनः / कल्पिकं निरवद्यं च मांसं बुद्धानुवर्णितम् // lank_8.21 //
भैषज्यं मांसमाहारं पुत्रमांसोपमं पुनः / मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत् // lank_8.22 //
मैत्रीविहारिणां नित्यं सर्वथां गर्हितं मया / सिंहव्याघ्रवृकाद्यैश्च सह एकत्र संभवेत् // lank_8.23 //
तस्मान्न भक्षयेन्मांसमुद्वेजनकरं नृणाम् / मोक्षधर्मविरुद्धत्वादार्याणामेष वै ध्वजः // lank_8.24 //
इति लङ्कावतारात्सर्वबुद्धप्रवचनहृदयान्मांसभक्षणपरिवर्तो ऽष्टमः //
स्तर्त् परिवर्त 9
धारणीपरिवर्तो नाम नवमः /
अथ खलु भगवान् महामतिं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - उद्गृह्ण त्वं महामते लङ्कावतारे मन्त्रपदानि यान्यतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगवद्भिर्भाषितानि, भाषन्ते, भाषिष्यन्ते च / अहमप्येतर्हि भाषिष्ये धर्मभाणकानां परिग्रहार्थम् / तद्यथा / तुट्टे 2 / वुट्टे 2 / पट्टे 2 / कट्टे 2 / अमले 2 / विमले 2 / निमे 2 / हिमे 2 / वमे 2 / कले 2 / कले 2 / अट्टे मट्टे / वट्टे तुट्टे / ज्ञेट्टे स्पुट्टे / कट्टे 2 / लट्टे पट्टे / दिमे 2 / चले 2 / पचे पचे / बन्धे 2 / अञ्चे मञ्चे / दुतारे 2 / पतारे 2 / अक्के 2 / सर्क्के 2 / चक्रे 2 / दिमे 2 / हिमे 2 / टु टु टु टु / 4 / डु डु डु डु / 4 / रु रु रु रु / 4 / फु फु फु फु / 4 / स्वाहा //
इमानि महामते मन्त्रपदानि लङ्कावतारे महायानसूत्रे / यः कश्चिन्महामते कुलपुत्रो वा कुलदुहिता वा इमानि मन्त्रपदान्युद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, न तस्य कश्चिदवतारं लप्स्यते देवो वा देवी वा नागो वा नागी वा यक्षो वा यक्षी वा असुरो वा असुरी वा गरुडो वा गरुडी वा किन्नरो वा किन्नरी वा महोरगो वा महोरगी वा गन्धर्वो वा गन्धर्वी वा भूतो वा भूती वा कुम्भाण्डो वा कुम्भाण्डी वा पिशाचो वा पिशाची वा ओस्तारको वा औस्तारकी वा अपस्मारो वा अपस्मारी वा राक्षसो वा राक्षसी वा डाको वा डाकिनी वा ओजोहारो वा ओजोहारी वा कटपूतनो वा कटपूतनी वा अमनुष्यो वा अमनुष्यी वा, सर्वे ते ऽवतारं न लप्स्यते / स चेद्विषमग्रहो भविष्यति, सो ऽस्याष्टोत्तरशताभिमन्त्रितेन रोदन् क्रन्दन्तो कं दिशं दृष्ट्वा यास्यति //
पुनरपराणि महामते मन्त्रपदानि भाषिष्ये / तद्यथा - पद्मे पद्मदेवे / हिने हिनि हिने / चु चुले चुलु चुले / फले फुल फुले / युले घुले युल युले / घुले घुल घुले / पले पल पले / मुञ्चे 3 / छिन्दे भिन्दे भञ्जे मर्दे प्रमर्दे दिनकरे स्वाहा //
इमानि महामते मन्त्रपदानि यः कश्चित्कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, तस्य न कश्चिदवतारं लप्स्यते देवो वा देवी वा नागो वा नागी वा यक्षो वा यक्षी वा असुरो वा असुरी वा गरुडो वा गरुडी वा किन्नरो वा किन्नरी वा महोरगो वा महोरगी वा गन्धर्वो वा गन्धर्वी वा भूतो वा भूती वा कुम्भाण्डो वा कुम्भाण्डी वा पिशाचो वा पिशाची वा ओस्तारको वा ओस्तारकी वा, अपस्मारो वा अपस्मारी वा, राक्षसो वा राक्षसी वा, डाको वा डाकिनी वा, ओजोहरो वा ओजोहरी वा, कटपूतनो वा कटपूतनी वा, मनुष्यो वा मनुष्यी वा, सर्वे ते ऽवतारं न लप्स्यते / य इमानि मन्त्रपदानि पठिष्यति, तेन लङ्कावतारसूत्रं पठितं भविष्यति / इमानि भगवता मन्त्रपदानि भाषितानि राक्षसानां निवारणार्थम् //
इति लङ्कावतारे धारणीपरिवर्तो नाम नवमः //
स्तर्त् परिवर्त 10
सगाथकम् /
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् -
उत्पादभङ्गरहितो लोकः खेपुष्पसंनिभः / सदसन्नोपलब्धो ऽयं प्रज्ञया कृपया च ते // lank_10.1 //
शाश्वतोच्छेदवर्ज्यश्च लोकः स्वप्नोपमः सदा / सदसन्नोपलब्धो ऽयं प्रज्ञया कृपया च ते // lank_10.2 //
मायोपमाः सर्वधर्माश्चित्तविज्ञानवर्जिताः / सदसन्नोपलब्धास्ते प्रज्ञया कृपया च ते // lank_10.3 //
धर्मपुद्गलनैरात्म्यं क्लेशज्ञेयं च ते सदा / विशुद्धमनिमित्तेन प्रज्ञया कृपया च ते // lank_10.4 //
न निर्वासि न निर्वाणे न निर्वाणं त्वयि स्थितम् / बुद्धिबोद्धव्यरहितं सदसत्पक्षवर्जितम् // lank_10.5 //
ये पश्यन्ति मुनिं शान्तमेवमुत्पत्तिवर्जितम् / ते भवन्त्यनुपादाना इहामुत्र निरञ्जनाः // lank_10.6 //
मृगतृष्णा यथा ग्रीष्मे स्पन्दते चित्तमोहनी / मृगा गृह्णन्ति पानीयं वस्तु तस्य न विद्यते // lank_10.7 //
एवं विज्ञानबीजो ऽयं स्पन्दते दृष्टिगोचरे / बाला गृह्णन्ति जायन्तं तिमिरं तैमिरा यथा // lank_10.8 //
ध्याता ध्यानं च ध्येयं च प्रहाणं सत्यदर्शनम् / कल्पनामात्रमेवेदं यो बुध्यति स मुच्यति // lank_10.9 //
असारका इमे धर्मा मन्यनायाः समुत्थिताः / साप्यत्र मन्यना शून्या यया शून्येति मन्यते // lank_10.10 //
जलवृक्षच्छायासदृशाः स्कन्ध विज्ञानपञ्चमाः / मायास्वप्नोपमं दृश्यं विज्ञप्त्या न विकल्पयेत् // lank_10.11 //
मायावेतालयन्त्राभं स्वप्नं विद्युद्धनं सदा / त्रिसंततिव्यवच्छिन्नं जगत्पश्यन् विमुच्यते // lank_10.12 //
अयोनिशो विकल्पेन विज्ञानं संप्रवर्तते / अष्टघा नवधा चित्रं तरंगाणि महोदधौ // lank_10.13 //
वासनैर्बृंहितं नित्यं बुद्ध्या मूलं स्थिराश्रयम् / भ्रमते गोचरे चित्तमयस्कान्ते यथायसम् // lank_10.14 //
आश्रिता सर्वभूतेषु गोत्रभूस्तर्कवर्जिता / निवर्तते क्रियामुक्ता ज्ञानज्ञेयविवर्जिता // lank_10.15 //
मायोपमं समाधिं च दशभूमिविनिर्गतम् / पश्यथ चित्तराजानं संज्ञाविज्ञानवर्जितम् // lank_10.16 //
परावृत्तं यदा चित्तं तदा तिष्ठति शाश्वतम् / विमाने पद्मसंकाशे मायागोचरसंभवे // lank_10.17 //
तस्मिन् प्रतिष्ठितो भवत्यनाभोगचरिं गतः / करोति सत्त्वकार्याणि विश्वरूपामणिर्यथा // lank_10.18 //
संस्कृतासंस्कृतं नास्ति अन्यत्र हि विकल्पनात् / बाला गृह्णन्ति धिङ्भूढा वन्ध्याः स्वप्ने यथा सुतम् // lank_10.19 //
नैःस्वाभाव्यमनुत्पादो पुद्गलः स्कन्ध संततिः / प्रत्यया धातवो ज्ञेया शून्यता च भवाभवम् // lank_10.20 //
उपायदेशना मह्यं नाहं देशेमि लक्षणम् / बाला गृह्णन्ति भावेन लक्षणं लक्ष्यमेव च // lank_10.21 //
सर्वस्य वेत्ता न च सर्ववेत्ता सर्वस्य मध्ये न च सर्वमस्ति / बाला विकल्पेन्ति बुधश्च लोको न चापि बुध्यामि न च बोधयामि // lank_10.22 //
प्रज्ञप्तिर्नाममात्रेयं लक्षणेन न विद्यते / स्कन्धाः केशोण्डुकाकारा यत्र बालैर्विकल्प्यते // lank_10.23 //
नाभूत्वा जायते किंचित्प्रत्ययैर्न विनश्यते / वन्ध्यासुताकाशपुष्पं यदा पश्यति संस्कृतम् / तदा ग्राहश्च ग्राह्यं च भ्रान्तिं दृष्ट्वा निवर्तते // lank_10.24 //
नाहं निर्वामि भावेन क्रियया लक्षणेन च / विकल्पहेतुविज्ञाननिवृत्तेर्निर्वृतो ह्यहम् / (न विनश्यति लक्षणं यत्र बालैर्विकल्प्यते) // lank_10.25 //
यथा क्षीणे महत्योघे तरंगाणामसंभवः / तथा विज्ञानवैचित्र्यं निरुद्धं न प्रवर्तते // lank_10.26 //
शून्याश्च निःस्वभावाश्च मायोपमा अजातकाः / सदसन्तो न विद्यन्ते भावाः स्वप्नोपमा इमे // lank_10.27 //
स्वभावमेकं देशेमि तर्कविज्ञप्तिवर्जितम् / आर्याणां गोचरं दिव्यं स्वभावद्वयवर्जितम् // lank_10.28 //
खद्योता इव मत्तस्य यथा चित्रा न सन्ति च / दृश्यन्ते धातुसंक्षोभादेवं लोकः स्वभावतः // lank_10.29 //
तृणकाष्ठकठल्लेषु यथा माया विराजते / न चासौ विद्यते माया एवं धर्माः स्वभावतः // lank_10.30 //
न ग्राहको न च ग्राह्यं न बन्ध्यो न च बन्धनम् / मायामरीचिसदृशं स्वप्नाख्यं तिमिरं यथा // lank_10.31 //
यदा पश्यति तत्त्वार्थी निर्विकल्पो निरञ्जनः / तदा योगं समापन्नो द्रक्ष्यते मां न संशयः // lank_10.32 //
न ह्यत्र काचिद्विज्ञप्तिर्नभे यद्वन्मरीचयः / एवं धर्मान् विजानन्तो न किंचित्प्रतिजानति // lank_10.33 //
सदसतः प्रत्ययेषु धर्माणां नास्ति संभवः / भ्रान्तं त्रैधातुके चित्तं विचित्रं ख्यायते यतः // lank_10.34 //
स्वप्नं च लोकं च समस्वभावं रूपाणि चित्राणि हि तत्र चापि / दृश्यन्ति भोगं स्परिशं समानं देहान्तगं लोकगुरुं क्रियां च // lank_10.35 //
चित्तं हि त्रैधातुकयोनिरेतद्भ्रान्तं हि चित्तमिहमुत्र दृश्यते / न कल्पयेल्लोकमसत्त एषामेतादृशीं लोकगतिं विदित्वा // lank_10.36 //
संभवं विभवं चैव मोहात्पश्यन्ति बालिशाः / न संभवं न विभवं प्रज्ञायुक्तो विपश्यति // lank_10.37 //
अकनिष्ठभवने दिव्ये सर्वपापविवर्जिते / निर्विकल्पाः सदा युक्ताश्चित्तचैत्तविवर्जिताः // lank_10.38 //
बलाभिज्ञावशिप्राप्ताः तत्समाधिगतिंगताः / तत्र बुध्यन्ति संबुद्धा निर्मितस्त्विह बुध्यते // lank_10.39 //
निर्माणकोट्यो ह्यमिता बुद्धानां निश्चरन्ति च / सर्वत्र बालाः शृण्वन्ति धर्मं तेभ्यः प्रतिश्रुत्वा (?) // lank_10.40 //
आदिमध्यान्तनिर्मुक्तं भावाभावविवर्जितम् / व्यापिनमचलं शुद्धमचित्रं चित्रसंभवम् // lank_10.41 //
विज्ञप्तिगोत्रसंछन्नमालीनं सर्वदेहिनाम् / भ्रान्तेश्च विद्यते माया न माया भ्रान्तिकारणम् // lank_10.42 //
चित्तस्य मोहेनाप्यस्ति यत्किंचिदपि विद्यते / स्वभावद्वयनिबद्धमालयविज्ञाननिर्मितम् / लोकं विज्ञप्तिमात्रं च दृष्ट्यौघं धर्मपुद्गलम् // lank_10.43 //
विभाव्य लोकमेवं तु परावृत्तो यदा भवेत् / तदा पुत्रो भवेन्मह्यं निष्पन्नधर्मवर्तकः // lank_10.44 //
उष्णद्रवचलकठिना धर्मा बालैर्विकल्पिताः / असद्भूतसमारोपो नास्ति लक्ष्यं न लक्षणम् // lank_10.45 //
अष्टद्रव्यकमेतत्तु कायसंस्थानमिन्द्रियम् / रूपं कल्पन्ति वै बाला भ्रान्ताः संसारपञ्जरे // lank_10.46 //
हेतुप्रत्ययसामग्र्या बालाः कल्पन्ति संभवम् / अजानाना नयमिदं भ्रमन्ति त्रिभवालये // lank_10.47 //
सर्वभावास्वभावा च वचनमपि नृणाम् / कल्पनाच्चापि निर्माणं नास्ति स्वप्नोपमं भवम् / परीक्षेन्न संसरेन्नापि निर्वायात् // lank_10.48 //
चित्तं विचित्रं बीजाख्यं ख्यायते चित्तगोचरम् / ख्यातौ कल्पन्ति उत्पत्तिं बालाः कल्पद्वये रताः // lank_10.49 //
अज्ञान तृष्णा कर्मं च चित्तचैत्ता न मारकम् / प्रवर्तति ततो यस्मात्पारतन्त्र्यं हि तन्मतम् // lank_10.50 //
ते च कल्पन्ति यद्वस्तु चित्तगोचरविभ्रमम् / कल्पनायामनिष्पन्नं मिथ्याभ्रान्तिविकल्पितम् // lank_10.51 //
चित्तं प्रत्ययसंबद्धं प्रवर्तति शरीरिणाम् / प्रत्ययेभ्यो विनिर्मुक्तं न पश्यामि वदाम्यहम् // lank_10.52 //
प्रत्ययेभ्यो विनिर्मुक्तं स्वलक्षणविवर्जितम् / न तिष्ठति यदा देहे तेन मह्यमगोचरम् // lank_10.53 //
राजा श्रेष्ठी यथा पुत्रान् विचित्रैर्मृगसादृशैः / प्रलोभ्य क्रीडति गृहे वने मृगसमागमम् // lank_10.54 //
तथाहं लक्षणैश्चित्रैर्धर्माणां प्रतिबिम्बकैः / प्रत्यात्मवेद्यां हि सुतां भूतकोटिं वदाम्यहम् // lank_10.55 //
तरंगा ह्युदधेर्यद्वत्पवनप्रत्ययोदिताः / नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्चः न विद्यते // lank_10.56 //
आलयौघस्तथा नित्यं विषयपवनेरितः / चित्रैस्तरंगविज्ञानैर्नृत्यमानः प्रवर्तते // lank_10.57 //
ग्राह्यग्राहकभावेन चित्तं नमति देहिनाम् / दृश्यस्य लक्षणं नास्ति यथा बालैर्विकल्प्यते // lank_10.58 //
परमालयविज्ञानं विज्ञप्तिरालयं पुनः / ग्राह्यग्राहकापगमात्तथतां देशयाम्यहम् // lank_10.59 //
नास्ति स्कन्धेष्वात्मा न सत्त्वो न च पुद्गलः / उत्पद्यते च विज्ञानं विज्ञानं च निरुध्यते // lank_10.60 //
निम्नोन्नतं यथा चित्रे दृश्यते न च विद्यते / तथा भावेषु भावत्वं दृश्यते न च विद्यते // lank_10.61 //
गन्धर्वनगरं यद्वद्यथा च मृगतृष्णिका / दृश्यं ख्याति तथा नित्यं प्रज्ञया च न विद्यते // lank_10.62 //
प्रमाणेन्द्रियनिर्वृत्तं न कार्यं नापि कारणम् / बुद्धिबोद्धव्यरहितं लक्ष्यलक्षणवर्जितम् // lank_10.63 //
स्कन्धान् प्रतीत्य संबुद्धो न दृष्टः केनचित्क्वचित् / यो न दृष्टः क्वचित्केन कुतस्तस्य विभावना // lank_10.64 //
प्रत्ययैर्हेतुदृष्टान्तैः प्रतिज्ञा कारणेन च / स्वप्नगन्धर्वचक्रेण मरीच्या सोमभास्करैः // lank_10.65 //
अदृश्यं कुलादिदृष्टान्तैरुत्पत्तिं वादयाम्यहम् / स्वप्नविभ्रममायाख्यं शून्यं वै कल्पितं जगत् // lank_10.66 //
अनाश्रितश्च त्रैलोक्ये अध्यात्मं च बहिस्तथा / अनुत्पन्नं भवं दृष्ट्वा क्षान्त्यनुत्पत्ति जायते // lank_10.67 //
मायोपमसमाधिं च कायं मनोमयं पुनः / अभिज्ञा वशिता तस्य बला चित्तस्य चित्रिता // lank_10.68 //
भावा येषां ह्यनुत्पन्नाः शून्या वै अस्वभावकाः / तेषामुत्पद्यते भ्रान्तिः प्रत्ययैश्च निरुध्यते // lank_10.69 //
चित्तं हि ख्याति चित्तस्य बहिर्धा ख्याति रूपिणः / अन्यन्न विद्यते दृश्यं यथा बालैर्विकल्प्यते // lank_10.70 //
संकला बुद्धबिम्बं च भूतानां च विदारणम् / अधिष्ठन्ति जगच्चित्रं प्रज्ञप्त्या वै सुशिक्षिताः // lank_10.71 //
देहः प्रतिष्ठा भोगश्च ग्राह्यविज्ञप्तयस्त्रयः / मन उद्ग्रहविज्ञप्तिविकल्पो ग्राहकास्त्रयः // lank_10.72 //
विकल्पश्च विकल्प्यं च यावत्त्वक्षरगोचरम् / तावत्तत्त्वं न पश्यन्ति तार्किकास्तर्कविभ्रमात् // lank_10.73 //
नैःस्वभाव्यं हि भावानां यदा बुध्यन्ति प्रज्ञया / तदा विश्रमति योगी आनिमित्तप्रतिष्ठितः // lank_10.74 //
मसिम्रक्षितको यद्वद्गृह्यते कुर्कुटो ऽबुधैः / स एवायमजानानैर्बालैर्यानत्रयं तथा // lank_10.75 //
न ह्यत्र श्रावकाः केचिन्नास्ति प्रत्येकयानिकाः / यच्चैतद्दृश्यते रूपं श्रावकस्य जिनस्य च / निर्माणं देशयन्त्येते बोधिसत्त्वाः कृपात्मकाः // lank_10.76 //
विज्ञप्तिमात्रं त्रिभवं स्वभावद्वयकल्पितम् / परावृत्तस्तु तथता धर्मपुद्गलसंचरात् // lank_10.77 //
सोमभास्करदीपार्चिर्भूतानि मणयस्तथा / निर्विकल्पाः प्रवर्तन्ते तथा बुद्धस्य बुद्धता // lank_10.78 //
केशोण्डुकं यथा मिथ्या गृह्यते तैमिरैर्जनैः / तथा भावविकल्पो ऽयं मिथ्या बालैर्विकल्प्यते // lank_10.79 //
स्थितिभङ्गोत्पत्तिरहिता नित्यानित्यविवर्जिताः / संक्लेशव्यवदानाख्या भावाः केशोण्डुकोपमाः // lank_10.80 //
पुत्तलिकं यथा कश्चित्कनकाभं पश्यते जगत् / न ह्यस्ति कनकं तत्र भूमिश्च कनकायते // lank_10.81 //
एवं हि दूषिता बालाश्चित्तचैत्तैरनादिकैः / मायामरीचिप्रभवं भावं गृह्णन्ति तत्त्वतः // lank_10.82 //
एकबीजमबीजं च समुद्रैकं च बीजकम् / सर्वबीजकमप्येतच्चित्तं पश्यथ चित्रिकम् // lank_10.83 //
एकं बीजं यदा शुद्धं परावृत्तमबीजकम् / समं हि निर्विकल्पत्वादुद्रेकाज्जन्मसंकरः / बीजमावहते चित्रं सर्वबीजं तदुच्यते // lank_10.84 //
न ह्यत्रोत्पद्यते किंचित्प्रत्ययैर्न निरुध्यते / उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव कल्पिताः // lank_10.85 //
प्रज्ञप्तिमात्रं त्रिभवं नास्ति वस्तु स्वभावतः / प्रज्ञप्तिवस्तुभावेन कल्पयिष्यन्ति तार्किकाः // lank_10.86 //
भावस्वभावजिज्ञासा न हि भ्रान्तिर्निवार्यते / भावस्वभावानुत्पत्तिरेवं दृष्ट्वा विमुच्यते // lank_10.87 //
न माया नास्तिसाधर्म्याद्भावानां कथ्यते ऽस्तिता / वितथाशुविद्युत्सदृशास्तेन मायोपमाः स्मृताः // lank_10.88 //
न चोत्पद्या न चोत्पन्नाः प्रत्ययो ऽपि न केचन / संविद्यन्ते क्वचित्तेन व्यवहारं तु कथ्यते // lank_10.89 //
न भङ्गोत्पादसंक्लेशः प्रत्ययानां निवार्यते / यत्तु बाला विकल्पेन्ति प्रत्ययैः संनिवार्यते // lank_10.90 //
न स्वभावो न विज्ञप्तिर्न वस्तु न च आलयः / बालैर्विकल्पिता ह्येते वशभूतैः कुतार्किकैः // lank_10.91 //
चित्तमात्रं यदा लोकं प्रपश्यन्ति जिनात्मजाः / तदा नैर्वाणिकं कायं क्रियासंस्कारवर्जितम् / लभन्ते ते बलाभिज्ञावशितैः सह संयुतम् // lank_10.92 //
सर्वरूपावभासं हि यदा चित्तं प्रवर्तते / नात्र चित्तं न रूपाणि भ्रान्तं चित्तमनादिकम् // lank_10.93 //
तदा योगी ह्यनाभासं प्रज्ञया पश्यते जगत् / निमित्तं वस्तुविज्ञप्तिर्मनोविस्पन्दितं च यत् / अतिक्रम्य तु पुत्रा मे निर्विकल्पाश्चरन्ति ते // lank_10.94 //
गन्धर्वनगरं माया केशोण्डुक मरीचिका / असत्याः सत्यतः ख्यान्ति तथा भावेषु भावना // lank_10.95 //
अनुत्पन्नाः सर्वभावा भ्रान्तिमात्रं हि दृश्यते / भ्रान्तिं कल्पेन्ति उत्पन्नां बालां कल्पद्वये रताः // lank_10.96 //
औपपत्त्यङ्गिकं चित्तं विचित्रं वासनासंभवम् / प्रवर्तते तरंगौघं तच्छेदान्न प्रवर्तते // lank_10.97 //
विचित्रालम्बनं चित्रं यथा चित्ते प्रवतते / तथाकाशे च कुड्ये च कस्मान्नाभिप्रवर्तते // lank_10.98 //
निमितं किंचिदालम्ब्य यदि चित्तं प्रवर्तते / प्रत्ययैर्जनितं चित्तं चित्तमात्रं न युज्यते // lank_10.99 //
चित्तेन गृह्यते चित्तं नास्ति किंचित्सहेतुकम् / चित्तस्य धर्मता शुद्धा गगने नास्ति वासना // lank_10.100 //
स्वचित्ताभिनिवेशेन चित्तं वै संप्रवर्तते / बहिर्धा नास्ति वै दृश्यमतो वै चित्तमात्रकम् // lank_10.101 //
चित्तमालयविज्ञानं मनो यन्मन्यनात्मकम् / गृह्णाति विषयान् येन विज्ञानं हि तदुच्यते // lank_10.102 //
चित्तमव्याकृतं नित्यं मनो ह्युभयसंचरम् / वर्तमानं हि विज्ञानं कुशलाकुशलं हि तत् // lank_10.103 //
द्वारं हि परमार्थस्य विज्ञप्तिद्वयवर्जितम् / यानत्रयव्यवस्थानं निराभासे स्थितं कुतः // lank_10.104 //
चित्तमात्रं निराभासं विहारा बुद्धभूमिश्च / एतद्धि भाषितं बुद्धैर्भाषन्ते भाषयन्ति च // lank_10.105 //
चित्तं हि भूमयः सप्त निराभासा च अष्टमी / द्वे भूमयो विहारश्च शेषा भूमिर्ममात्मिका // lank_10.106 //
प्रत्यात्मवेद्या शुद्धा च भूमिश्चापि ममात्मिका / माहेश्वरपरस्थानमकनिष्ठे विराजते // lank_10.107 //
हुताशनस्यैव यथा निश्चेरुस्तस्य रश्मयः / चित्रा मनोहराः सौम्यास्त्रिभवं निर्मिणन्ति ये // lank_10.108 //
निर्माय त्रिभवं किंचित्किंचिद्वै पूर्वनिर्मितम् / तत्र देशन्ति यानानि एषा भूमिर्ममात्मिका // lank_10.109 //
नास्ति कालो ह्यधिगमे भूमीनां क्षत्रेसंक्रमे / चित्तमात्रमतिक्रम्य निराभासे स्थितं फलम् // lank_10.110 //
असत्ता चैव सत्ता च दृश्यते च विचित्रता / बाला ग्राहविपर्यस्ता विपर्यासो हि चित्रता // lank_10.111 //
निर्विकल्पं यदि ज्ञानं वस्त्वस्तीति न युज्यते / यस्माच्चित्तं न रूपाणि निर्विकल्पं हि तेन तत् // lank_10.112 //
इन्द्रियाणि च मायाख्या विषयाः स्वप्नसंनिभाः / कर्ता कर्म क्रिया चैव सर्वथापि न विद्यते // lank_10.113 //
ध्यानानि चाप्रमाणानि आरूप्याश्च समाधयः / संज्ञानिरोधो निखिलश्चित्तमात्रे न विद्यते // lank_10.114 //
स्रोतापत्तिफलं चैव सकृदागामिफलं तथा / अनागामिफलं चैव अर्हत्त्वं चित्तविभ्रमः // lank_10.115 //
शून्यमनित्यं क्षणिकं बालाः कल्पन्ति संस्कृतम् / नदीदीपादिदृष्टान्तैः क्षणिकार्थो विकल्प्यते // lank_10.116 //
निर्व्यापारं तु क्षणिकं विविक्तं क्रियवर्जितम् / अनुत्पत्तिं च धर्माणां क्षणिकार्थं वदाम्यह्यम् // lank_10.117 //
सच्चासतो ह्यनुत्पादः सांख्यवैशेषिकैः स्मृतः / अव्याकृतानि सर्वाणि तैरेव हि प्रकाशितम् // lank_10.118 //
चतुर्विधं व्याकरणमेकांशपरिपृच्छनम् / विभज्यस्थापनीयं च तीर्थवादनिवारणम् // lank_10.119 //
सर्वं विद्यति संवृत्यां परमार्थे न विद्यते / धर्माणां निःस्वभावत्वं परमार्थे ऽपि दृश्यते / उपलब्धिनिःस्वभावे संवृतिस्तेन उच्यते // lank_10.120 //
अभिलापहेतुको भावः स्वभावो यदि विद्यते / अभिलापसंभवो भावो नास्तीति च न विद्यते // lank_10.121 //
निर्वस्तुको ह्यभिलापस्तत्संवृत्यापि न विद्यते / विपर्यासस्य वस्तुत्वाच्चोपलब्धिर्न विद्यते // lank_10.122 //
विद्यते चेद्विपर्यासो नैःस्वाभाव्यं न विद्यते / विपर्यासस्य वस्तुत्वाद्यद्यदेवोपलभ्यते / निःस्वभावं भवेत्तद्धि सर्वथापि न विद्यते // lank_10.123 //
यदेतद्दृश्यते चित्रं चित्तं दौष्ठुल्यवासितम् / रूपावभासग्रहणं बहिर्धा चित्तविभ्रमम् // lank_10.124 //
विकल्पेनाविकल्पेन विकल्पो हि प्रहीयते / विकल्पेनाविकल्पेन शून्यतातत्त्वदर्शनम् // lank_10.125 //
मायाहस्ती यथा चित्रं पत्राणि कनका यथा / तथा दृश्यं नृणां ख्याति चित्ते अज्ञानवासिते // lank_10.126 //
आर्यो न पश्यते भ्रान्तिं नापि तत्त्वं तदन्तरे / भ्रान्तिरेव भवेत्तत्त्वं यस्मात्तत्त्वं तदन्तरे // lank_10.127 //
भ्रान्तिं विधूय सर्वां तु निमित्तं यदि जायते / सैव चास्य भवेद्भ्रान्तिरशुद्धं तिमिरं यथा // lank_10.128 //
केशोण्डुकं तैमिरिको यथा गृह्णाति विभ्रमात् / विषयेषु तद्वद्बालानां ग्रहणं संप्रवर्तते // lank_10.129 //
केशोण्डुकप्रख्यमिदं मरीच्युदकविभ्रमम् / त्रिभवं स्वप्नमायाभं विभावेन्तो विमुच्यते // lank_10.130 //
विकल्पश्च विकल्प्यश्च विकल्पस्य प्रवर्तते / बन्धो बन्ध्यश्च बद्धश्च षडेते मोक्षहेतवः // lank_10.131 //
न भूमयो न सत्यानि न क्षेत्रा न च निर्मिताः / बुद्धाः प्रत्येकबुद्धाश्च श्रावकाश्चापि कल्पिताः // lank_10.132 //
पुद्गलः संततिः स्कन्धाः प्रत्यया ह्यणवस्तथा / प्रधानमीश्वरः कर्ता चित्तमात्रे विकल्प्यते // lank_10.133 //
चित्तं हि सर्वं सर्वत्र सर्वदेहेषु वर्तते / विचित्रं गृह्यते ऽसद्भिश्चित्तमात्रं ह्यलक्षणम् // lank_10.134 //
न ह्यात्मा विद्यते स्कन्धे स्कन्धाश्चैव हि नात्मनि / न ते यथा विकल्प्यन्ते न च ते वै न सन्ति च // lank_10.135 //
अस्तित्वं सर्वभावानां यथा बालैर्विकल्प्यते / यदि ते भवेद्यथादृष्टाः सर्वे स्युस्तत्त्वदर्शिनः // lank_10.136 //
अभावात्सर्वधर्मणां संक्लेशो नास्ति शुद्धि च / न च ते तथा यथादृष्टा न च ते वै न सन्ति च // lank_10.137 //
भ्रान्तिर्निमित्तं संकल्पः परतन्त्रस्य लक्षणम् / तस्मिन्निमित्ते यन्नाम तद्विकल्पितलक्षणम् // lank_10.138 //
नामनिमित्तसंकल्पो यदा तस्य न जायते / प्रत्ययावस्तुसंकेतं परिनिष्पन्नलक्षणम् // lank_10.139 //
वैपाकिकाश्च ये बुद्धा जिना नैर्माणिकाश्च ये / सत्त्वाश्च बोधिसत्त्वाश्च क्षेत्राणि च दिशे दिशे // lank_10.140 //
निस्यन्दधर्मनिर्माणा जिना नैर्माणिकाश्च ये / सर्वे ते ह्यमिताभस्य सुखावत्या विनिर्गताः // lank_10.141 //
यच्च नैर्माणिकैर्भाष्टं यच्च भाष्टं विपाकजैः / सूत्रान्तवैपुल्यनयं तस्य संधिं विजानथ // lank_10.142 //
यद्भाषितं जिनसुतैर्यच्च भाषन्ति नायकाः / यद्धि नैर्माणिकाभाष्टं न तु वैपाकिकैर्जिनैः // lank_10.143 //
अनुत्पन्ना ह्यमी धर्मा न चैवैते न सन्ति च / गन्धर्वनगरस्वप्नमायानिर्माणसादृशाः // lank_10.144 //
चित्तं प्रवर्तते चित्तं चित्तमेव विमुच्यते / चित्तं हि जायते नान्यच्चित्तमेव निरुध्यते // lank_10.145 //
अर्थाभासं नृणां चित्तं चित्तं वै ख्याति कल्पितम् / नास्त्यर्थश्चित्तमात्रेयं निर्विकल्पो विमुच्यते // lank_10.146 //
अनादिकालप्रपञ्चदौष्ठुल्यं हि समाहितम् / विकल्पो भावितस्तेन मिथ्याभासं प्रवर्तते // lank_10.147 //
अर्थाभासे च विज्ञाने ज्ञानं तथतागोचरम् / परावृत्तं निराभासमार्याणां गोचरे ह्यसौ // lank_10.148 //
अर्थप्रविचयं ध्यानं ध्यानं बालोपचारिकम् / तथतारम्बणं ध्यानं ध्यानं ताथागतं शुभम् // lank_10.149 //
परिकल्पितं स्वभावेन सर्वधर्मा अजानकाः / परतन्त्रं समाश्रित्य विकल्पो भ्रमते नृणाम् // lank_10.150 //
परतन्त्रं यथा शुद्धं विकल्पेन विसंयुतम् / परावृत्तं हि तथता विहारः कल्पवर्जितः // lank_10.151 //
मा विकल्पं विकल्पेथ विकल्पो नास्ति सत्यतः / भ्रान्तिं विकल्पयन्तस्य ग्राह्यग्राहकयोर्न तु / बाह्यार्थदर्शनं कल्पं स्वभावः परिकल्पितः // lank_10.152 //
येन कल्पेन कल्पेन्ति स्वभावः प्रत्ययोद्भवः / बाह्यार्थदर्शनं मिथ्या नास्त्यर्थं चित्तमेव तु // lank_10.153 //
युक्त्या विपश्यमानानां ग्राहग्राह्यं निरुध्यते / बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते // lank_10.154 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
