Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
राष्ट्रपालपरिपृच्छा
- Thông tin
- GRETIL — P.L. Vaidya, Mahayanasutrasangraha, Part I (Sutra No. 12). Darbhanga : The Mithila Institute, 1961, 120-160.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
परिशुद्ध क्षेत्र लभते रुचिरं परनिर्मिताभ सद प्रीतिकरम् / शुद्धाश्च कायवचसा मनसा सत्त्वा भवन्त्यपि च क्षेत्रवरे // 323 //
इत्येवमादिगुण नैकविधान् लभते जिनार्चनकृतान् मनुजः / स्वर्गापवर्ग मनुजेषु सुखं भवते च पुण्यनिधि सर्वजगे // 324 //
कीर्तिर्यशश्च प्रसृतं विपुलं तव सर्वदिक्षु बहुक्षेत्रशतान् / संकीर्तयन्ति सुगताः सततं तव वर्णमाल पर्षत्सु जिना // 325 //
विगतज्वरा जगति मोक्षकरा प्रियदर्शना परमकारुणिका / शान्तेन्द्रिया शमरता भगवन् वन्दामि ते नरवरप्रवरा // 326 //
लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितस्तव निशाम्य गिरम् / भवितास्मि वीर सुगतौ प्रतिमः विभजिष्य धर्मममलं जगतः // 327 //
स्तुत्वाद्य सर्वगुणपारगतं नरदेवनागमहितं सुगतम् / पुण्यं यदर्जितमिदं विपुलं जगदाप्नुयादपि च बुद्धपदम् // 328 //
अथ खलु राष्ट्रपाल राजा अर्चिष्मांस्तस्या रात्र्या अत्ययेनाश्रोषीत्कुमारस्यान्तःपुरे रुदितशब्दम् / श्रुत्वा च शीघ्रं त्वरमाणरूपो येन रतिप्रधानं नगरं तेनोपसंक्रामत् / उपसंक्रम्यैतदवोचत् - किं भवन्त्यो रुदन्ति ? ता अवोचान् - पुण्यरश्मी राजकुमारो न दृश्यते / अथ खलु राष्ट्रपाल राजा अर्चिष्मान् कुमारस्यार्थे छिन्नपादप इन धरणीतले प्रपतितः / स उत्थाय धरणितलात् सहस्रशश्च तन्नगरं परिचरति रुदमानः / अथ खलु राष्ट्रपाल या तस्मिन्नगरे नगरदेवता सा राजानमर्चिष्मन्तमेतदवोचत् - गतो महाराज कुमारः पूर्वस्मिन् दिग्भागे सिद्धार्थबुद्धिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय //
अथ खलु राष्ट्रपाल राजा अर्चिष्मान् कुमारस्यान्तःपुरेण सार्धं चतुरशीतिभिः प्राणकोटिनियुतशतसहस्रैर्येन पूर्वो दिग्भागस्तेनोपजगाम / येन सिद्धार्थबुद्धिस्तथागतो ऽर्हन् सम्यस्संबुद्धस्तेनोपसंक्रान्तः / उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्दित्वा एकान्ते ऽतिष्ठत् / एकान्तस्थितश्च राजा अर्चिष्मान् भगवन्तमाभिर्गाथाभिरभ्यष्टावीत् -
वन्दामि गुणज्ञानसागरं नरवीरं यस्य नास्ति समः कुतो ऽधिकस्त्रिभवे ऽस्मिन् / देवेन्द्रासुरराजसत्कृतं वरसत्त्वं तृप्तिं नैति जनो निरीक्षतस्तव रूपम् // 329 //
द्वात्रिंशत्तव कायलक्षणा सुविशुद्धा मेरुर्वा वररत्नचित्रितः परिशुद्धः / श्लक्ष्णं काञ्चनवर्णसंनिभं जिनकान्तं वन्दामि प्रियरूपदर्शनं मुनिकायम् // 330 //
कल्पानचिन्त्य शताश्च कोटियो व्रत चीर्णा बुद्धकोटिशताश्च सत्कृता बहुकल्पान् / यष्टा यज्ञशता अचिन्तियापरिमाणा कायस्तेन तवाभिराजते अभिरूपः // 331 //
दानशीलसमाधिप्रज्ञयापि च क्षान्त्या वीर्यध्यानमुपायशोधितं तव रूपम् / चन्द्रार्कमणिद्युतिप्रभा न विराजि शक्रब्रम्हप्रभा न भासते पुरतस्ते // 332 //
रूपं दर्शयते मनोरमं जगदर्थे प्रतिभासोदकचन्द्रसंनिभं यथ माया / सर्वास्वेव च दिक्षु दृश्यते जिनकायो नो चा रूपप्रमाणु दृश्यते सुगतानाम् // 333 //
तुषितेषु क्वचिदेव दृश्यसे निवसंस्त्वं व्यूढमानश्च पुनः सुपाण्डरगजभूतः / मातु कुक्षिगतश्च दृश्यसे ऽपि च वीरः सर्वत्रानुगतो महामुने नभतुल्यः // 334 //
जातिं संदर्शयसे क्वचिद्भवान् दिशतासु गच्छन् सप्त पदानि दृश्यसे क्वचिदुर्व्याम् / ह्येष्ठो ऽहं सनरामरे जगे अतिदेवो मोचिष्ये जग दुःखसागराद्गिर मुञ्चन् // 335 // धर्मसंशयु नास्ति ते मुने क्वचिदेव शिक्षां चापि च लोक दृश्यते लिपिज्ञाने शान्तं ध्यानसमाधिगोचरमनुप्राप्तं स्त्रीणां मध्यगतश्च दृश्यते क्वचिदेव // 336 // त्यक्त्वा मातापिता महीतले प्रमदाश्च ज्ञातीन् शोकहतान् विमूर्च्छितान् विरुवन्तः / निष्क्रान्तो वनवासमीक्ष्यसे पदमेकं देवाकोटिशतैः परिवृतो वरसत्त्वः // 337 //
मारास्ते चतुरो ऽपि निर्जिताश्चिरकालं मारान् धर्षयमाण दृश्यते ऽपि च क्षेत्रे / चक्रं वर्तयसे ऽप्यचिन्तियं पुरिमेण चक्रं वर्तयमान दृश्यसे कृपया त्वम् // 338 //
नित्यं शाश्वतदृष्टिसंज्ञितं जगदीक्ष्य निर्वास्य इति वाच भाषसे परिषत्सु / संसाराभिरतं जगत्सततमीक्ष्य शान्तां शीतगतिं च निर्वृतिं वदसि त्वम् // 339 //
पुण्यज्ञानमुपायप्रज्ञतो न समस्ते स्फुरसे कायप्रभाय त्वं मुने बहुक्षेत्रान् / भाषन्ते तव वर्ण नायका दिशतासु वन्दे त्वामसमन्तगोचरं मुनिराजम् // 340 //
वन्दामो ऽपि च धर्मतामखिलप्राप्तं सर्वसत्त्वक्रियासु दृश्यसे यथ माया / न च ते ऽस्त्यागमनं क्वचिद्गमनं वा मायाधर्म सति प्रतिष्ठितमभिवन्दे // 341 //
साधु त्वं नरवीर भाषसे वरमार्गं बोधिर्येन वरा ह्यवाप्यते जगदर्थे / एतामप्यहमाशु धर्मतामनुबुद्धा देशेयं नरवीरं धमतां जगदर्थे // 342 //
सर्वज्ञं विगतज्वरं नरवीरं यस्य नास्ति समः कुतो ऽधिकस्त्रिभवे ऽस्मिन् / स्तुत्वा पुण्यमुपार्जितं मया यदिह तेन शान्तां बोधिवरामनुत्तरां स्पृशतु लोकः // 343 //
अथ खलु राष्ट्रपाल स तथागतः सिद्धार्थबुद्धिः राज्ञो ऽर्चिष्मतो ऽध्याशयं विदित्वा तथा धर्मं देशयामास यथा सर्वे अवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ //
अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तं भगवन्तं सिद्धार्थबुद्धिं तथागतमेतदवोचत् - अधिवासयतु भगवानस्माकां नगरे श्वोभक्तेन / अधिवासयति च भगवान् पुण्यरश्मे राजकुमारस्य तूष्णीभावेनानुकम्पामुपादाय //
अथ खलु पुण्यरश्मी राजकुमारस्तौ मातापितरौ ताश्व प्रमदा आमन्त्रयति स्म - अनुमोदयन्तु भवन्तः सर्वे सहिताः सर्वे समग्राः / यथालंकृतं रतिप्रधानं नगरं तथागतस्य निर्यातयामुअनपेक्षः / तैरेकस्वरेणानुमोदितम् //
अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारो यथालंकृतं रतिप्रधानं नगरं तथागताय निर्यातयति स्म अनपेक्षः / पञ्चरसशतव्यूहेन च भोजनेन तं तथागतं प्रतिपादयति स्म सार्धं भिक्षुसंघेन / सर्वेषां तेषां भिक्षूणां सप्तरत्नचितान् विहारान् कारयामास मणिचंक्रमान् प्रज्ञप्तानुपरि च रत्नजालवितानविततान् वामदक्षिणेन पुष्पवृक्षसुपरिनिष्ठितान् / पुण्डरीकपुष्करिण्युपशिभितान्युभयतो मुखनिर्मलदूष्यशतसहस्रप्रज्ञप्तानि (वैद्य, र्प् 158) शय्यासनानि / एकैकस्य च भिक्षोरभिवन्द्य चीवरो दीयते स्म एकैकः / अन्योन्यानि चीवराण्यनिप्रदीयन्ते दिवसे दिवसे / स त्रिभिर्वर्षकोटिभिः स्त्यानमिद्धं नावक्रामितवान्, नात्मप्रेम कृतवान्, बुद्धपूजां प्रति नान्यमनसिकारः / एतस्मिन्नन्तरे न कामवितर्कं वितर्कितवान्, न व्यापादवितर्कं न विहिंसावितर्कं न राज्यतृष्णाम् / सर्वथानपेक्षो ऽभूत्काये जीविते च, प्रागेवान्यतरस्मिन् बाह्यवस्तुनि / एतस्मिन्नन्तरे यद्भगवता भाषितं तत्सर्वमवधारितम्, न च द्विरपि स तथागतः पृष्टः / एतस्मिन्नन्तरे न स्नातो न सर्पितैलेन वा गात्रं म्रक्षितम्, न पादधावनं कृतम्, न क्लान्तसंज्ञोत्पादिता, न जातु निषण्णो ऽन्यत्र भक्तपरिभोगार्थमुच्चारप्रस्रावणार्थं च / यस्मिंश्च समये स तथागतः परिनिर्वृतस्तस्मिन् समये लोहितचन्द्रनस्य चिता कारिता / यत्र स तथागतो ध्मापितस्तस्मिन्नेव च पृथिविप्रदेशे वर्षशतसहस्रं धातूनां पूजां कृतवान् / सर्वं जम्बूद्वीपं सर्वपुष्पैः सर्वमाल्यैः सर्वगन्धैः सर्ववाद्यैर्यावत् सर्वपूजासत्कारान् कृत्वा पञ्चाच्चतुर्नवतिः स्तूपकोट्यः प्रतिष्ठापितवान् /
ते च स्तूपाः सप्तरत्नमया रत्नजालसंछन्ना मुक्ताजालवितानवितताः / सप्तानां रत्नानां पञ्च पञ्च छत्रशतान्येकैकस्मिन् स्तूपे आरोपितवान् / सर्वत्र च स्तूपे तूर्यशतसहस्राणि निश्चारितवान् / समन्ततश्च जम्बूद्वीपे पुष्पवृक्षान् रोपितवान् / एकैकत्र दीप्यते सर्वगन्धतैलस्य / सर्वगन्धमाल्यविलेपनैश्च पूजामकरोत् / अनेनोपायेन वर्षकोटिं पूजां कॄत्वाः ततः प्रव्रजितः / स प्रव्रजिता त्रैचीवरिको ऽभवत् / नित्यं पिण्डपातचारिको ऽनैषद्यिकः / न जातु पार्श्वं दत्तवान्, न स्त्यानमिद्धमवक्रामितवान् / तेन निरामिषचित्तेन चतको वर्षकोट्यो धर्मदानं दत्तम् / न चानेनान्तशः / साधुकारो ऽपि परस्यान्तिकात्प्रतिकाङ्क्षितः, कुतः पुनर्लाभसत्कारः / नापि क्लान्तो ऽभूद्धर्मश्रवणेन धर्मदेशनया च / तस्य देवताः परिचर्यां कुर्वन्ति स्म / तस्य चानुशिक्षित्वा सर्वजनपदो ऽन्तःपुरं सर्वपादमूलं सर्वसहायाश्च प्रव्रजिताः //
अथ खलु राष्ट्रपाल शूद्धावासकायिकानां देवपुत्राणामेतदभवत् - पुण्यरश्मेरनुशिक्षमाणः सर्वराज्यजनकदः प्रव्रजितः / अस्माभिस्तस्योपस्थानपरिचर्या कर्तव्या / त्रयाणां रत्नानामुपस्थान कृतं भविष्यति / तस्य पुनस्तथागतस्य परिनिर्वृतस्य चतुःषष्टिवर्षकोट्यः सद्धर्मस्तस्थौ / सर्वस्य पुण्यरश्मिना भिक्षुणा बुद्धसहस्रस्य चैवंरूपा पूजा कृताभूत् //
स्यात्खलु पुनस्ते राष्ट्रपाल एतर्हि काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेनार्चिष्मान् नाम राजाभूत् / न खलु पुनस्त्वयैवं द्रष्टव्यम् / तत्कस्य हेतोः ? अमितायुः स तथागतस्तेन कालेन तेन समयेनार्चिष्मान्नाम राजाभूत् / स्यात्खलु पुनस्ते राष्ट्रपाल - अन्यः स तेन कालेन तेन समयेन पुण्यरश्मिर्नाम राजकुमारो ऽभूत् / न खलु पुनस्त्वयैवं द्रष्टव्यम् / तत्कस्य हेतोः ? अहं स तेन कालेन तेन समयेन पुण्यरश्मिर्नाम राजकुमारो ऽभूत् / यापि सा नगरदेवता, अक्षोभ्यस्तथागतो ऽभूत् / (वैद्य, र्प् 159) तस्मात्तर्हि राष्ट्रपाल बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन तस्य पुण्यरश्मिराजकुमारस्यानिशिक्षितव्यमध्याशयप्रतिपत्त्या प्रियाप्रियपरित्यागितया अप्रमादचर्यया - एवं दुःखाभिसंस्कारप्रतिलब्धा मे ऽनुत्तरा सम्यक्संबोधिरिति / तत्ते ऽनभियुक्ता लाभसत्कारश्लोकगुरुका ज्ञात्यध्यवसिता मानहता लाभहतास्तपस्विनो विहन्यन्ते, लाभहेतोः शासनाद्दूरीभवन्ति, निरर्थकं प्रव्रजिताः श्रमणदूषका बोधिसत्त्वखटुकाः कायवाक्चित्तवङ्काः नैमित्तिकाः वितथप्रतिज्ञाः स्वप्रतिज्ञातश्च्युताः चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारनिमित्तमध्यवसिताः / अह्रीका अनपत्रपा अचारित्रा असद्धर्मप्रसृता गोचरविरहिता बुद्धगोचराद्दूरीभूता बुद्धज्ञानविरहिताः मोक्षचित्तविरहिताः बोधिचित्तविरहिताः / तस्मात्तर्हि राष्ट्रपाल इममेवंरूपं धर्मं श्रुत्वा बोद्धव्यम् - पापमित्रान्युद्युक्तानि न सेवितव्यानि लाभार्थिकानाम् //
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
अप्रमेये दशबलचलिते लाभे ज्ञातौ परिगतहृदया / हित्वा बोधिं गुणशतनिचितां लाभार्थं ते परकुलनिचताः // 344 //
ध्वाङ्क्षा दुष्टा ह्रीधृतिरहिता क्षेत्रार्थं ते नमुचिवशगताः / क्लेशाधीना भवगतिप्रणता भाषन्त्येवं वयमपि गुणिनः // 345 //
कायो ऽरण्ये स्मृतिरपि नगरे लाभार्थं ते चरितविकल्पे / दूरे मोक्षो नभ इव धरणि दूरे जाहु भुजगवदेतान् // 346 //
बुद्धो धर्मो न च प्रियवदतां तद्वत्संघो गुणशतभरितः / हित्वा स्वर्गं कुपथप्रयाता अष्टविघातैर्भवशतविहताः // 347 //
श्रुत्वैनां मम चारिकां समुपदिष्टां भूताध्याशयतो ऽत्र युज्यथा प्रतिपत्त्या / दुष्प्राप्यं बहुकल्पकोटिभिः क्षणप्राप्ता तस्मादत्र यथोक्तधर्मतामभियुज्येत् // 348 //
यो हीच्छेद्वरबोधि बुध्यितुं वरयाने स्मार्यास्तेन महीपते गुणास्तस्य / संचिन्त्य यथाभूत योनिशः स्थातव्यमेवं बोधि असङ्ग रिध्यते सुगतानाम् // 349 //
आर्यं वंशं निषेवते गुणप्रेक्षी ज्ञानं तत्र उत्पादयेच्छु इवात्र / मा एवं प्रविजह्य शासनं गुणमण्डं सर्वास्वेतगतीषु पञ्चसू यथ बालाः // 350 //
शैलारण्यगुहानिजासिनो भवतेह तत्रस्थाश्च म आत्म मन्यथा पटपंसी / आत्मानं परिभाषथा सततनित्य - मनुस्मरन्तो बुद्धकोटि विरागिता पुरिमा ये // 351 //
काये जीवित तृष्ण उत्सृह अनपेक्षा धर्मे युज्यत तीव्र गौरवं जनयित्वा / प्रतिपत्तिश्च मयापि भाषिता इह सूत्रे पश्चा बोधि न तेषु दुर्लभा इह स्थित्वा // 352 //
ये युक्ताश्च इहापि हर्षिता जिनयाने श्रुत्वा युक्त सुदुर्मना भवितारः / तस्माद्वै जनयेत शासने अधिमुक्तिं मा पश्चादनुताप भेष्यथा विचरमाणाः // 353 //
यश्च पुना राष्ट्रपाल बोधिसत्त्वः पञ्चपारमितासु चरेत्, यश्चेह धर्मपर्यायप्रतिपत्या संपादयेत् - अहमत्र शिक्षिष्ये ऽहमत्र संवरे स्थास्यामि / एष पुण्यस्कन्धो ऽस्य पुण्यस्कन्धस्य पुरतः शततमामपि कलां नोपैति सहस्रतमामपि शतसहस्रतमामपि कोटिशतसहस्रतमामपि, संख्यामपि कलामपि गणनामपि उपमामपि उपनिसामपि धृतिपदमपि नोपैति / अस्मिन् खलु पुनर्धर्मपर्याये भास्यमाणे त्रिंशतां नियुतानां सदेवमानुषासुरायाश्च प्रजाया अनुत्पदन्तपूर्वाण्यनुत्तरस्यां सम्यक्संबोधौ चित्तान्युत्पन्नानि / अवैवर्त्याश्चाभूवन्ननुत्तरस्याः सम्यक्सम्बोधेः / सप्तानां च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि //
अथ खलु आयुष्मान् राष्ट्रपालो भगवन्तमेतदवोचत् - किंनामायं भगवन् धर्मपर्यायः,कथं चैनः धारयामि ? एवमुक्ते भगवानायुष्मन्तं राष्ट्रपालमेतदवोचत् - अमोघप्रतिज्ञाविशुद्धमिति नाम धारय / सत्पुरुषविक्रीडितं बोधिसत्त्वचर्याविनिश्चयं नाम धारय / अर्थपारिपूरी च नाम धारय //
इदमवोचद्भगवान् / आत्तमना आयुष्मान् राष्ट्रपालः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन् //
इति पुण्यरश्मेः सत्पुरुषस्य पूर्वयोगसूत्ररत्नराजं समाप्तम् //
आर्यराष्ट्रपालपरिपृच्छा नाम महायानसूत्रं समाप्तम् //
(वैद्य, र्प् 161-164): श्लोकसूची
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
