Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh A-hàm · Thanh văn thừa
प्रतीत्यसमुत्पादविभङ्गसूत्र
- Thông tin
- GRETIL — Jin-il Chung: "Pratītyasamutpādavibhaṅga-sūtra from Nālandā: A New Edition of the Brick Inscription B". In: International Journal of Buddhist Thought & Culture 27.1 (2017), pp. 107-136.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
प्रतीत्यसमुत्पादविभङ्गसूत्र
प्रतीत्यसमुत्पादविभङ्गसूत्र
0अ एवं मया श्रुतम् एकस्मिन् समये भगवाञ् च्छ्रावस्त्यां विहरति स्म । जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः म्स् अर्द्धत्रयोदशभिर्
0ब् तत्र भगवान्* भिक्षून् आमंत्रयते स्म । म्स् भिक्षूण्.
1अ प्रतीत्यसमुत्पादस्य वो भिक्षवः आदिञ् च देशयिष्यामि विभङ्गं च
1ब् तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये ।
2अ प्रतीत्यसमुत्पादस्यादिः कतमः
2ब् यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं । षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानं उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । म्स् संम्भवंत्य्
2च् अयम् उच्यते प्रतीत्यसमुत्पादस्यादिः
3 विभङ्गः कतमः
4अ अविद्याप्रत्ययाः संस्कारा इत्य् अविद्या कतमा ।
4ब्α यत् तत् पूर्वान्ते अज्ञानं अपरान्ते अज्ञानं पूर्वान्तापरांते अज्ञानं म्स् पूर्व्वान्ते; पूर्व्वान्तापरांते
4ब्β अध्यात्मम् अज्ञानं । बहिर्धा अज्ञानं । अध्यात्मबहिर्धा अज्ञानं म्स् बहिर्द्धा; अद्ध्यात्मबहिर्द्धा
4ब्γ कर्मण्य् अज्ञानं । विपाके अज्ञानं कर्मविपाके अज्ञानं ।
4ब्δ बुद्धे अज्ञानं । धर्मे अज्ञानं सङ्घे अज्ञानं
4ब्ε दुःखे अज्ञानं समुदये अज्ञानं । निरोधे अज्ञानं । मार्गे अज्ञानं ।
4ब्ζ हेताव् अज्ञानं । हेतुसमुत्पन्नेषु धर्मेष्व् अज्ञानं ।
4ब्η कुशलाकुशलेषु सावद्यानवद्येषु । सेवितव्यासेवितव्येषु । हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नेषु धर्मेष्व् अज्ञानं । षट्सु वा पुनः स्पर्शायतनेषु यथाभूतसंप्रतिवेधे इति ।
4ब्θ यत् तत्र तत्र यथाभूतस्याज्ञानम् अदर्शनम् अनभिसमयः तमः संमोहः अविद्यान्धकारम्
4च् इयम् उच्यते अविद्या ।
5अ अविद्याप्रत्ययाः संस्कारा इति संस्काराः कतमे
5ब् त्रयः संस्काराः कायसंस्काराः वाक्संस्काराः मनःसंस्कारा इति ।
6अ संस्कारप्रत्ययं विज्ञानम् इति । विज्ञानं कतमत्*
6ब् षड् विज्ञानकायाः चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं
7अα विज्ञानप्रत्ययं नामरूपम् इति । नाम कतमत्*
7अβ चत्वारः अरूपिणः स्कन्धाः कतमे चत्वारः वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः विज्ञानस्कन्धः
7ब्α रूपं कतमत्*
7ब्β यत् किञ् चिद् रूपं सर्व्वं तच् चत्वारि महाभूतानि । चत्वारि च महाभूतान्य् उपादाय म्स् सर्व्वं
7च् इतीदं च रूपं पूर्वकं च नाम तद् ऐकध्यम् अभिसंक्षिप्य नामरूपम् इत्य् उच्यते म्स् पूर्व्वकं
8अ नामरूपप्रत्ययं षडायतनम् इति । षडायतनं कतमत्*
8ब् षड् आध्यात्मिकान्य् आयतनानि । चक्षुर् आध्यात्मिकम् आयतनं । श्रोत्रं घ्राणं जिह्वा कायो मन अध्यात्मिकम् आयतनं ।
9अ षडायतनप्रत्ययः स्पर्श इति स्पर्शः कतमः
9ब् षट् स्पर्शकायाः चक्षुःसंस्पर्शः श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शः म्स् श्रोत्त्र°
10अ स्पर्शप्रत्यया वेदनेति । वेदना कतमा ।
10ब् तिस्रो वेदनाः सुखा दुःखा अदुःखासुखा च ॥
11अ वेदनाप्रत्यया तृष्णेति । तृष्णा कतमा ।
11ब् तिस्रः तृष्णाः कामतृष्णा । रूपतृष्णा । आरूप्यतृष्णा चा ।
12अ तृष्णाप्रत्ययम् उपादानम् इति । उपादानं कतमत्*
12ब् चत्वार्य् उपादानानि । कामोपादानं । दृष्ट्युपादानं । शीलव्रतोपादानं आत्मवादोपादानं ।
13अ उपादानप्रत्ययो भव इति भवः कतमः
13ब् त्रयो भवाः कामभवः रूपभवः आरूप्यभवः
14अ भवप्रत्यया जातिर् इति । जातिः कतमा ।
14ब् या तेषां तेषां सत्वानां तस्मिंस् तस्मिन् सत्वनिकाये जातिः संजातिर् अवक्रांतिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलम्भो धातुप्रतिलम्भः आयतनप्रतिलम्भः स्कन्धानाम् अभिनिर्वृत्तिः जीवितेन्द्रियस्य प्रादुर्भावः म्स् तस्मिंस् तस्मिंन्
15अ जातिप्रत्ययं जरामरणं इति जरा कतमा ।
15ब् यत् तत् खालित्यं पालित्यं वलीप्रचुरता जीर्णता । भुग्नता कुब्जगोपानसीवङ्कता । तिलकालकाचितगात्रता । खुरुखुरुप्रश्वासकायता पुरतःप्राग्भारकायता । दण्डविष्कंभणता । धन्धत्वं मन्दत्वं हानिः परिहाणिः इन्द्रियाणां परिपाकः परिभेदः संस्काराणां पुराणीभावः जर्जरीभावः
15च् इयम् उच्यते जरा ॥
16अ मरणं कतमत्*
16ब् या तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिकायात्* च्युतिश् च्यवनता भेदो ऽन्तरहाणिः आयुषो हानिः ऊष्मणो हानिः जीवितेन्द्रियस्य निरोधः स्कन्धानां निक्षेपो मरणं कालक्रिया
16च् इदम् उच्यते मरणम्
16द् इति इदं च मरणं पूर्विका च जरा तद् उभयम् ऐकध्यम् अभिसंक्षिप्य जरामरणम् इत्य् उच्यते । म्स् पूर्व्विका
17 अयम् उच्यते प्रतीत्यसमुत्पादस्य विभङ्गः
18 प्रतीत्यसमुत्पादस्य वो भिक्षवः आदिञ् च देशयिष्यामि विभङ्गञ् च इति मे यद् उक्तम् इदं मे तत् प्रत्य् उक्तं
19 इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्न् इति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
