Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 12/12

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1

Thông tin
GRETIL — Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नाभिनिविशते न प्रज्ञपयति वीर्यपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ध्यानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ध्यानपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये प्रज्ञापारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रज्ञापारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽध्यात्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये बहिर्धाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बहिर्धाशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽध्यात्मबहिर्धाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मबहिर्धाशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये शून्यताशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शून्यताशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये महाशून्यतां

नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महाशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये परमार्थशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति परमार्थशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये संस्कृतशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संस्कृतशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽत्यन्तशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अत्यन्तशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽनवराग्रशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अनवराग्रशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये प्रकृतिशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रकृतिशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये सर्वधर्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सर्वधर्मशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान्

उपपरीक्षते/ तस्मिन् समये स्वलक्षणशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्वलक्षणशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽनुपलम्भशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अनुपलम्भशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽभावस्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभावस्वभावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये भावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति भावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये स्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्वभावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये परभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति परभावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो

महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये स्मृत्युपस्थानानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये सम्यक्प्रहाणानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सम्यक्प्रहाणान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऋद्धिपादान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ऋद्धिपादा एत इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समय इन्द्रियानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयतीन्द्रियान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये बलानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बलान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये बोध्यङ्गानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बोध्यङ्गान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये मार्गान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मार्गा एत इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान्

धर्मान् उपपरीक्षते/ तस्मिन् समये ऽप्रमाणध्यानानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अप्रमाणध्यानानि एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये आरूप्यसमापत्तीर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आरूप्यसमापत्तय एता इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये दशबलानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दशबलान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये वैशारद्यानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वैशारद्यान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये प्रतिसंविदाः नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रतिसंविदा एता इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽष्टादशावेणिकबुद्धधर्मान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अष्टादशावेणिकबुद्धधर्मा एत इति/}}

25506 {{यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये समाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति}} नाभिनिविशते न प्रज्ञपयति समाधि- 25507 धारणीमुखानीमानि/ तत् कस्य हेतोः/ तथा हि भगवन् {बोधिसत्त्वो} महासत्त्वः 25508 प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद् व्यस्तसमस्तानि स्कन्ध- 25509 धात्वायतनानि प्रतीत्यसमुत्पादं न {समनुपश्यति}/ सप्तत्रिंशद्बोधिपक्षान् धर्मान् 25510 न {समनुपश्यति}/ पारमितां न {समनुपश्यति}/ अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रति- 25511 संविदष्टादशावेणिकबुद्धधर्मान् यावत् सर्वाकारज्ञतां न {समनुपश्यति}/ तत् कस्य हेतोः/ 25512 तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपम्/ यो वेदनायाः संज्ञायाः संस्काराणां 25513 यो विज्ञानस्यानुत्पादो न तद् विज्ञानम् इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अ-

25514 द्वैधीकारम्/ {{यो भगवन् चक्षुरो ऽनुत्पादो न तद् चक्षुः/ यो श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य यो मनसो ऽनुत्पादो न तद् मन इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ यो भगवन् रूपस्यानुत्पादो न तद् रूपम्/ यो शब्दस्य गन्धस्य रसस्य स्प्रष्टव्यस्य यो धर्मस्यानुत्पादो न स धर्म इति हि धर्मश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ यो भगवन् चक्षुर्विज्ञानस्यानुत्पादो न तद् चक्षुर्विज्ञानम्/ यो श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य यो मनोविज्ञानस्यानुत्पादो न तद् मनोविज्ञानम् इति हि मनोविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता/ यो शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ यो भगवन् अध्यात्मशून्यताया अनुत्पादो न तद् अध्यात्मशून्यता/ यो बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यतायाः शून्यताशून्यताया महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यताया अत्यन्तशून्यताया अनवराग्रशून्यताया अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यताया अनुपलम्भशून्यताया अभावस्वभावशून्यताया भावशून्यताया अभावशून्यतायाः स्वभावशून्यताया यः परभावशून्यताया अनुत्पादो न सा परभावशून्यता इति हि परभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/}}

25515 {{यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि/ यो सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियानां बलानां बोध्यङ्गानां मार्गानाम् अप्रमाणध्यानानाम् आरूप्यसमापत्तीनां दशबलानां वैशारद्यानां प्रतिसंविदानां यो ऽष्टादशावेणिकानां बुद्धधर्मानाम् अनुत्पादो न ते बुद्धधर्मा इति हि}} बुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अ- 25516 द्वैधीकारम्/ यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः/ यस् तथताया 25517 आकाशधातोर् भूतकोटेर् अचिन्त्यधातोर् बोधेर् यः सर्वाकारज्ञताया अनुत्पादो न 25518 सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ तत् 25519 कस्य हेतोः/ तथा हि अनुत्पादो नैको न द्वौ न बहवो न पृथक्/ तस्माद् 25520 यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता/ 25521 यो भगवन् रूपस्य व्ययो न तद् रूपम्/ या वेदनायाः संज्ञायाः संस्काराणां 25522 यो विज्ञानस्य व्ययो न तद् विज्ञानम्/ इति हि स्कन्धाश् च व्ययश् चाद्वयम् एतद् अ- 25523 द्वैधीकारम्/ तत् कस्य हेतोः/ तथा हि व्ययो न एको न द्वौ न बहवो न 25524 पृतह्क्/ तस्माद् यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः/ यो भगवन्

25601 दानपारमिताया व्ययो {{न सा दानपारमिता/ यो भगवन् शीलपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् क्षान्तिपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् वीर्यपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् ध्यानपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् प्रज्ञापारमिताया व्ययो न सा दानपारमिता/}}

25602 {{यो भगवन् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता/ यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता/ यो भगवन् अध्यात्मबहिर्धाशून्यताया व्ययो न सा अध्यात्मबहिर्धाशून्यता/ यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता/ यो भगवन् महाशून्यताया व्ययो न सा महाशून्यता/ यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता/ यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता/ यो भगवन् अत्यन्तशून्यताया व्ययो न सा अत्यन्तशून्यता/ यो भगवन् अनवराग्रशून्यताया व्ययो न सा अनवराग्रशून्यता/ यो भगवन् अनवकारशून्यताया व्ययो न सा अनवकारशून्यता/ यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता/ यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता/ यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता/ यो भगवन् अनुपलम्भशून्यताया व्ययो न सा अनुपलम्भशून्यता/ यो भगवन् अभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता/ यो भगवन् भावशून्यताया व्ययो न सा भावशून्यता/ यो भगवन् अभावशून्यताया व्ययो न सा अभावशून्यता/ यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता/ यो भगवन् परभावशून्यताया व्ययो न सा परभावशून्यता/ यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि/ यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि/ यो भगवन् ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः/ यो भगवन् इन्द्रियानां व्ययो न तानीन्द्रियानि/ यो भगवन् बलानां व्ययो न तानि बलानि/ यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि/ यो भगवन् मार्गानां व्ययो

न ते मार्गाः/ यो भगवन् अप्रमाणध्यानानां व्ययो न तान्य् अप्रमाणध्यानानि/ यो भगवन् आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः/ यो भगवन् दशबलानां व्ययो न तानि दशबलानि/ यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानि/ यो भगवन् प्रतिसंविदानां व्ययो न ताः प्रतिसंविदाः/ यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि/ यो भगवन् अष्टादशावेणिकानां बुद्धधर्मानां व्ययो न ते बुद्धधर्माः/ इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्/ तत् कस्य हेतोः/ तथा हि व्ययो न एको न द्वौ न बहवो}} न पृथक्/ तस्माद् यो

25603 बुद्धधर्माणां व्ययो न ते बुद्धधर्माः/ 25604 यत् पुनर् भगवन् उच्यते/ रूपम् इत्य् अद्वयस्यैषागणनाकृता/ वेदना संज्ञा संस्कारा 25605 यत् पुनर् उच्यते विज्ञानम् इत्य् अद्वयस्यैषागणनाकृता/ यत् कस्येति पुनर् उच्यते 25606 रूपं यावत् सर्वाकारज्ञतेत्य् अद्वयस्यैषागणनाकृता// [इति प्राप्तिनिर्याणे 25607 प्राप्यप्रापकसम्बन्धप्रतिषेधः//] 25608 अथ खल्व् {आयुष्मन्} {शारिपुत्र} आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो} 25609 महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् उपपरीक्षते/ कतम {आयुष्मन्} {सुभूते} 25610 बोधिसत्त्वः/ कतमा प्रज्ञापारमिता/ कतमा उपपरीक्षमाणा/ 25611 {सुभूतिर्} आह/ यद् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमो बोधिसत्त्व इति/ बोधि- 25612 र् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति/ तया च बोध्या सर्वधर्माणाम् आकारं 25613 जानाति/ न चात्राभिनिविशते/ 25614 कतमेषां धर्माणाम् आकारान् जानाति/ रूपस्याकारान् जानाति न 25615 चात्राभिनिविशते/ वेदनाया {{आकारान् जानाति न चात्राभिनिविशते/ संज्ञाया आकारान् जानाति न चात्राभिनिविशते/ संस्कारानाम् आकारान् जानाति न चात्राभिनिविशते/}} विज्ञानस्याकारान् {जानाति न चात्राभिनिविशते}/ एवं 25616 व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद्बोधि- 25617 पक्षाणां धर्माणाम् आकारान् {जानाति न चात्राभिनिविशते}/ एवम् अप्रमाणध्यानारूप्यसमापत्तीनां 25618 पारमितानां बलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणाम् आकारान् 25619 {जानाति न चात्राभिनिविशते}/ 25620 {शारिपुत्र} आह/ कतमे ते सुभूते सर्वधर्माणाम् आकाराः/

25621 {सुभूतिर्} आह/ यैर् {आयुष्मन्} {शारिपुत्र} आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः रूपशब्दगन्धर- 25622 सस्प्रष्टव्यधर्मा वा आध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकारैर् यैर् 25623 ते इम उच्यन्ते सर्वधर्माणाम् आकाराः/ 25624 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमा प्रज्ञापारमितेति/

25701 आरता आरमितैषा {आयुष्मन्} {शारिपुत्र} तेनोच्यते प्रज्ञापारमितेति/ कुत आरता 25702 आरमिता/ स्कन्धेभ्यो धातुभ्य आयतनेभ्य प्रतीत्यसमुत्पादाद् दानपारमितायाः 25703 शील{पारमितायाः} {{क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः}} प्रज्ञापारमिताया आरता आरमिता/ अध्यात्मशून्यताया 25704 {{बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया}} यावद् अभावस्वभावशून्यताया आरता आरमिता/ स्मृत्युपस्थानेभ्य 25705 आरता आरमिता/ सम्यक्प्रहाण्{{एभ्य ऋद्धिपादेभ्य इन्द्रियेभ्यो बलेभ्यो बोध्यङ्गेभ्यो मार्गेभ्यो ऽप्रमाणध्यानेभ्य आरूप्यसमापत्तिभ्यो दशबलेभ्यो वैशारद्येभ्यः प्रतिसंविद्भ्यो ऽष्टादशावेणिकेभ्यो}} बुद्धधर्मेभ्य आरता आरमिता/ 25706 यावत् सर्वज्ञताया आरता आरमिता/ एषा तेनोच्यते प्रज्ञापारमितेति/ अने- 25707 न्{आयुष्मन्} {शारिपुत्र} पर्यायेण आरता आरमिता एषा यद् उत प्रज्ञापारमिता/ 25708 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमा उपपरीक्षणेति/ इह्{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} 25709 महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति 25710 न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति 25711 न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति 25712 नाप्रणिहितम् इति उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/ 25713 न वेदनां न संज्ञां न संस्कारान् न विज्ञानं नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति

25714 {{न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}} एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति 25715 {{उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}} एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मा न नित्या इति

25716 {{उपपरीक्षन्ते/ नानित्या इति न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशाउन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षन्ते/ न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षन्ते/}} एवं चक्षुर्विज्ञानं {{न नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/ न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}}

25717 एवं चक्षुःसंस्पर्शो {{न नित्य इत्य् उपपरीक्षते/ नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्य् उपपरीक्षते/ न विविक्त इति नाविविक्त इत्य् उपपरीक्षते/ न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शो नित्य इत्य् उपपरीक्षते/ नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्य् उपपरीक्षते/ न विविक्त इति नाविविक्त इत्य् उपपरीक्षते/}} 25718 एवं चक्षुःसंस्पर्शप्रत्ययवेदना {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}}

25719 {{न श्रोत्रसंस्पर्शप्रत्ययवेदना न घ्राणसंस्पर्शप्रत्ययवेदना न जिह्वासंस्पर्शप्रत्ययवेदना न कायसंस्पर्शप्रत्ययवेदना न मनःसंस्पर्शप्रत्ययवेदना नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं दानपारमिता {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} 25720 {{न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवम् अध्यात्मशून्यता {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}}

25721 {{न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न शून्यताशून्यता न महाशून्यता न परमार्थशून्यता न संस्कृतशून्यता नात्यन्तशून्यता नानवराग्रशून्यता नानवकारशून्यता न प्रकृतिशून्यता न सर्वधर्मशून्यता न स्वलक्षणशून्यता नानुपलम्भशून्यता नाभावस्वभावशून्यता न भावशून्यता नाभावशून्यता न स्वभावशून्यता न परभावशून्यता नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं स्मृत्युपस्थानानि न नित्यानीति {{उपपरीक्षन्ते/ नानित्यानीति न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशाउन्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षन्ते/ न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षन्ते/}} 25722 एवं सम्यक्प्रहाणानि {{ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका}} बुद्धधर्माः/ समाधयः सर्व- 25723 धारणीमुखानि सर्वज्ञता न नित्येति {{उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं ह्य् {आयुष्मन्} {शारिपुत्र} 25724 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् उपपरीक्षते/

25725 {शारिपुत्र} आह/ केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यो रूपस्यानुत्पादो न तद् रू- 25726 पम्/ यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्/ 25727 एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्य- 25728 तासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु

25801 प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञासु अष्टादशावेणिकेषु बुद्धधर्मेषु यः 25802 सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति/ 25803 {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} शून्यं रूपेण/ या च्{आयुष्मन्} {शारिपुत्र} शून्यता न 25804 तद् रूपं नोत्पादः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्यानुत्पादो न तद् रूपम् वेदना 25805 संज्ञा संस्कारा विज्ञानं शून्यं विज्ञानेन/ या च्{आयुष्मन्} {शारिपुत्र} शून्यता न तद् विज्ञानं नोत्- 25806 पादः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्/ दान-

25807 पारमिता {आयुष्मन्} {{शारिपुत्र शून्या दानपारमिता/ या चायुष्मन् शारिपुत्र शून्यता न सा दानपारमिता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या प्रज्ञापारमितया/ या चायुष्मन् शारिपुत्र शून्यता न सा प्रज्ञापारमिता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता/ अध्यात्मशून्यता आयुष्मन् शारिपुत्र शून्या अध्यात्मशून्यता/ या चायुष्मन् शारिपुत्र शून्यता न सा अध्यात्मशून्यता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता शून्या परभावशून्यतया/ या चायुष्मन् शारिपुत्र शून्यता न सा परभावशून्यता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो परभावशून्यताया अनुत्पादो न सा परभावशून्यता/}}

25808 {{स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र शून्यानि स्मृत्युपस्थानानि/ या चायुष्मन् शारिपुत्र शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्य् आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञता शून्या सर्वाकारज्ञतया/ या चायुष्मन् शारिपुत्र शून्यता न सा सर्वाकारज्ञता नोत्पादः}}/ अनेन्{आयुष्मन्} {शारिपुत्र} 25809 पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता/ 25810 {शारिपुत्र} आह/ किं कारणम् {आयुष्मन्} {सुभूते} एवं वदसि/ यो रूपस्य व्ययो 25811 न तद् रूपम्/ यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञान- 25812 म् इति/ एवं व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु}} 25813 प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सा 25814 सर्वाकारज्ञता/ 25815 {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च 25816 वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न वि- 25817 संयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/ एवं

25818 व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु}} बुद्धधर्म- 25819 समाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञता यच् चाद्वैधीकारं सर्व एते 25820 धर्मा न संयुक्ताः {{अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/}} अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्य व्ययो 25821 न तद् रूपम्/ एवं वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् वि- 25822 ज्ञानम्/ एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु समाधि- 25823 धारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता/ 25824 {शारिपुत्र} आह/ केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यद् इदम् उच्यते रूपम् इत्य् अद्वय- 25825 स्यैषा गणना कृतेति/ वेदना संज्ञा संस्काराः/ यद् इदम् उच्यते विज्ञानम् इत्य् अ- 25826 द्वयस्यैषा गणना कृतेति यावद् यद् इदम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना 25827 कृतेति/ 25828 {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} नान्यो ऽनुत्पादो ऽन्यद् रूपम्/ अनुत्पाद एव

25901 रूपम्/ रूपम् एवानुत्पादः/ {वेदना संज्ञा संस्काराः}/ नान्यो ऽनुत्पादो ऽन्यद् विज्ञानम्/ विज्ञानम् एवा- 25902 नुत्पादो ऽनुत्पाद एव विज्ञानम्/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अ- 25903 द्वयस्यैषा गणना कृता/ {वेदना संज्ञा संस्काराः}/ यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता/ 25904 एवं व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु}} 25905 समाधिधारणीमुखेषु तथा ह्य् {आयुष्मन्} {शारिपुत्र} नान्यो ऽनुत्पादो ऽन्या सर्वाकारज्ञता 25906 अनुत्पाद एव सर्वाकारज्ञता/ सर्वाकारज्ञतैवानुत्पादः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण 25907 यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता/ 25908 पुनर् अपरम् {आयुष्मान्} {सुभूतिर्} भगवन्तम् एतद् अवोचत्/ यस्मिन् समये भगवन् {बोधिसत्त्वो} 25909 महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते तस्मिन् समये रूप- 25910 स्यानुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ {वेदना संज्ञा संस्काराः}/ विज्ञानस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ 25911 आत्मनो ऽनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ एवं सत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ एवं व्यस्तसमस्तानां 25912 स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञानाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ दानपारमिताया अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}

25913 {{शीलपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ क्षान्तिपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ वीर्यपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ ध्यानपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ प्रज्ञापारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अध्यात्मशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ बहिर्धाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अध्यात्मबहिर्धाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ शून्यताशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ महाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ परमार्थशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ संस्कृतशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अत्यन्तशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अनवराग्रशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अनवकारशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ प्रकृतिशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ सर्वधर्मशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ स्वलक्षणशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अनुपलम्भशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अभावस्वभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ भावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/

अभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ स्वभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ परभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}}/ स्मृत्यु-

25914 पस्थानानाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ एवं सम्यक्प्रहाण{{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिक}}बुद्धधर्माणां सर्वाकारज्ञताया 25915 अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ पृथग्जनस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ पृथग्जनधर्माणाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ एवं स्रोतआपन्नस्य 25916 स्रोतआपन्नधर्माणां {{सकृदागामिनः सकृदागामिधर्माणाम् अनागामिनो ऽनागामिधर्माणाम्}} अर्हतो अर्हद्धर्माणां प्रत्येकबुद्धस्य प्रत्येकबुद्ध- 25917 धर्माणां बोधिसत्त्वस्य बोधिसत्त्वधर्माणां बुद्धस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ बुद्धधर्माणाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ 25918 {शारिपुत्र} आह/ यथाहम् आयुष्मतः सुभूतेर् भाषितस्यार्थम् आजानामि तथा रूप- 25919 म् अनुत्पादो वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादो यावद् व्यस्तसमस्ता स्कन्धा 25920 अनुत्पादा धातवो ऽनुत्पादाः/

25921 {{आत्मानुत्पाददः सत्त्वो ऽनुत्पादो जीवो ऽनुत्पादो पोषो ऽनुत्पादो पुरुषो ऽनुत्पादो पुद्गलो ऽनुत्पादो मनुजो ऽनुत्पादो मानवो ऽनुत्पादो कारको ऽनुत्पादो वेदको ऽनुत्पादो जानकओ ऽनुत्पादो पश्यको ऽनुत्पादो/ एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञा अनुत्पादाः/ दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादो/ अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यत्नुत्पादः संस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादो भावशून्यतानुत्पादो ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादः परभावशून्यतानुत्पादः/ स्मृत्युपस्थानान्य् अनुत्पादाः सम्यक्प्रहाणान्य् अनुत्पादा ऋद्धिपादा अनुत्पादाः इन्द्रियान्य् अनुत्पादाः बलान्य् अनुत्पादाः बोध्यङ्गान्य् अनुत्पादाः मार्गा अनुत्पादा अप्रमाणध्यानान्य् अनुत्पादा आरूप्यसमापत्तयो ऽनुत्पादा दशबलान्य् अनुत्पादा वैशारद्यान्य् अनुत्पादाः प्रतिसंविदा अनुत्पादा अष्टादशावेणिका बुद्धधर्मा अनुत्पादाः सर्वाकारज्ञताअनुत्पादः/ पृथग्जनो ऽनुत्पादः पृथग्जनधर्मा अनुत्पादाः स्रोतआपन्नो ऽनुत्पादः स्रोतआपन्नधर्मा अनुत्पादाः सकृदागाम्य् अनुत्पादः सकृदागामिधर्मा अनुत्पादा अनागाम्य् अनुत्पादो ऽनागामिधर्मा अनुत्पादा अर्हन् अनुत्पादो ऽर्हद्धर्मा अनुत्पादा प्रत्येकबुद्धो ऽनुत्पादः प्रत्येकबुद्धधर्मा अनुत्पादा बोधिसत्त्वो ऽनुत्पादो

बोधिसत्त्वधर्मा अनुत्पादाः}}

25922 बुद्धो ऽनुत्पादो बुद्धधर्मा अनुत्पादाः/ यदि च्{आयुष्मन्} {सुभूते} रूपम् अप्य् अनुत्पादो यावद् बुद्ध- 25923 धर्मा अप्य् अनुत्पादाः/ नन्व् {आयुष्मन्} {सुभूते} प्राप्तैव श्रावकेण श्रावकबोधिः प्रत्येकबुद्ध- 25924 यानिकेन प्रत्येकबुद्धबोधिः/ बोधिसत्त्वेन प्राप्तैव सर्वाकारज्ञता भवति/ 25925 पञ्चानाञ् च गतीनां भेदो न भविष्यति/ प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन 25926 पञ्चविधा बोधिर् यदि च्{आयुष्मन्} {सुभूते} सर्वधर्मा अनुत्पादाः/ किम् अर्थं स्रोतआपन्नेन

26001 त्रयाणां संयोजनानां प्रहाणाय मार्गो भावयितव्यः/ सकृदागामिना रागदोष- 26002 मोहानां तनुतायै मार्गो भावयितव्यः/ अनागामिना पञ्चानाम् अवरभागीयानां 26003 संयोजनानां प्रहाणाय मार्गो भावयितव्यः/ अर्हता पञ्चोर्ध्वभागीयानां संयोज- 26004 नानां प्रहाणाय मार्गो भावयितव्यः/ प्रत्येकबुद्धयानिकैः प्रत्येकबोधिप्राप्तये 26005 मार्गो भावयितव्यः/ किं कारणं बोधिसत्त्वो दुष्करचारिकां चरति यानि 26006 तानि सत्त्वानां कृतशो दुःखानि प्रत्यनुभवति/ किं कारणं तथागतेनार्हता सम्यक्- 26007 संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा/ किं कारणं तथागतेनार्हता सम्यक्- 26008 संबुद्धेन धर्मचक्रं प्रवर्तितम्/ 26009 {सुभूतिर्} आह/ नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य प्राप्तिम् इच्छामि नाप्य् अभि- 26010 समयं नाहम् अनुत्पादस्य स्रोतआपन्नम् इच्छामि/ न स्रोतआपत्तिफलं {{न सकृदागामिनं न सकृदागामिफलं नानागामिनं नानागामिफलं}} 26011 नार्हत्वं नार्हत्वफलं नानुत्पादस्य प्रत्येकां बोधिम् इच्छामि न प्रत्येकबुद्धत्वं नाह- 26012 म् {आयुष्मन्} {शारिपुत्र} इच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्कर- 26013 संज्ञया चरति/ तत् कस्य हेतोः/ न हि शक्य {आयुष्मन्} {शारिपुत्र} दुष्करसंज्ञायां स्थित्वा 26014 अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्/ अपि तु खलु पुन- 26015 र् {आयुष्मन्} {शारिपुत्र} मातृसंज्ञां सर्वसत्त्वेषु जनयित्वा पितृसंज्ञां भ्रातृसंज्ञां पुत्रसंज्ञाम् आत्मसंज्ञां 26016 जनयित्वा शक्यो ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थम् कर्तुम्/

26017 अपि तु खलु पुनर् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वेन} महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्/ यथा 26018 आत्मा आत्मेति चोच्यते अत्यन्ततया अनुत्पन्न आत्मा एवं सर्वेष्व् आध्यात्मिक- 26019 बाह्येषु धर्मेषु संज्ञोत्पादयितव्या/ सचेद् एवं संज्ञाम् उत्पादयिष्यति न दुष्करसंज्ञां 26020 भविष्यति/ तत् कस्य हेतोः/ तथा हि ते बोधिसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं 26021 कञ्चिद् धर्मं नोत्पादयन्ते नोपलभन्ते/ नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पादतथागत- 26022 म् इच्छामि नाप्य् अनुत्तरां सम्यक्संबोधिं नापि धर्मचक्रप्रवर्तनं नापीच्छामि 26023 अनुत्पन्नेन धर्मेणानुत्पन्नां प्राप्तिं प्राप्यमाणाम्/ 26024 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नेन धर्मेण उत्पन्ना प्राप्तिः प्राप्यते/ 26025 अथ उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते/

26101 {सुभूतिर्} आह/ नाहम् {आयुष्मन्} {शारिपुत्र} उत्पन्नेन धमेणानुत्पन्नां प्राप्तिं प्राप्य- 26102 माणाम् इच्छामि नाप्य् अनुत्पन्नेनोत्पन्नां प्राप्तिं प्राप्यमाणाम्/ 26103 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छसि/ 26104 अथ वोत्पन्नेन धर्मेण प्राप्तिम् इच्छसि/ 26105 {सुभूतिर्} आह/ नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छामि/ 26106 नाप्य् उत्पन्नेन धर्मेण प्राप्तिम् इच्छामि/ 26107 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} नास्ति प्राप्तिर् नास्त्य् अभिसमयः/ 26108 {सुभूतिर्} आह/ अस्त्य् {आयुष्मन्} {शारिपुत्र} प्राप्तिर् अस्त्य् अभिसमयो न पुनर् द्वयम्/ अपि तु 26109 खलु पुनर् {आयुष्मन्} {शारिपुत्र} लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च प्रज्ञप्यते लोकव्यवहारेण 26110 स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा 26111 बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमाथेन प्राप्तिर् नाभिसमयो 26112 न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन् न प्रत्येकबुद्धो न बोधि- 26113 सत्त्वो न बुद्धः/ 26114 {शारिपुत्र} आह/ अनुत्पन्नो धर्म इत्य् {आयुष्मन्} {सुभूते} प्रतिभाति मन्त्रयितुम्/ 26115 {सुभूतिर्} आह/ अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् {आयुष्मन्} {शारिपुत्र} यद् वदसि प्रतिभाति 26116 मन्त्रयितुम् इति/ अनुत्पादो ऽपि ये {आयुष्मन्} {शारिपुत्र} प्रतिभाति मन्त्रयितुम्/ 26117 तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} यश् चानुत्पन्नो धर्मो यच् च प्रतिभानं ये च मन्त्रा 26118 या चानुत्पत्तिः सर्वे एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना 26119 अप्रतिघा एकलक्षणा यद् उतालक्षणाः/

26120 {शारिपुत्र} आह/ अनुत्पादो ऽप्य् {आयुष्मन्} {सुभूते} मन्त्रः/ अनुत्पादः प्रतिभान- 26121 म् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्/ 26122 {सुभूतिर्} आह/ एवम् एतद् {आयुष्मन्} {शारिपुत्र} अनुत्पादो मन्त्रः/ 26123 {{अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्/}} तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} 26124 रूपम् अनुत्पादः/ एवं {वेदना संज्ञा संस्काराः}/ विज्ञानम् अनुत्पादः/ एवं व्यस्तसमस्ताः स्कन्धधातवः 26125 {{आयतनानि प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षा धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्मा अनुत्पादाः/

26201 स्रोतआपन्नः {{सकृदागाम्य् अनागाम्य् अर्हन्}} प्रत्येकबुद्धो बोधिसत्त्वः सर्वज्ञः सर्वाकारज्ञः सर्वाकारज्ञता 26202 ऽप्य् अनुत्पादः/ 26203 {शारिपुत्र} आह/ एवम् एतद् {आयुष्मन्} {सुभूते} अनुत्पादो मन्त्रः 26204 {{अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्/}} यावत् स्कन्धधात्वायतन{{प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षा धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्माः/ पेयालम्/ 26205 यावत् सर्वाकारज्ञताप्य् अनुत्पादः/ 26206 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च 26207 एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति/ 26208 {सुभूतिर्} आह/ एवम् एतद् {आयुष्मन्} {शारिपुत्र} एवम् एतत्/ यथैव 26209 {{लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति/}} नात्र खलु पुनः परमार्थेन/ तत् 26210 कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} परमार्थे न कर्म न विपाको नोत्पादो न निरोधो 26211 न संक्लेशो न व्यवदानम्/ 26212 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नो धर्म उत्पद्यते उताहो 26213 उत्पन्नो धर्म उत्पद्यते/ 26214 {सुभूतिर्} आह/ नाहम् {आयुष्मन्} {शारिपुत्र} उत्पन्नस्य धर्मस्य उत्पादम् इच्छामि नाप्य् अ- 26215 नुत्पन्नस्य धर्मस्य उत्पादम् इच्छामि/ 26216 {शारिपुत्र} आह/ कतमस्य्{आयुष्मन्} {सुभूते} अनुत्पन्नस्य धर्मस्योत्पादं नेच्छामि/

26217 {सुभूतिर्} आह/ रूपस्याहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य स्वभावशून्योत्पादं 26218 नेच्छामि/ {वेदनया संज्ञया संस्कारानाम्}/ विज्ञानस्याहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य स्वभावशून्योत्- 26219 पादं नेच्छामि/ एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां 26220 {{प्रतीत्यसमुत्पादानां पारमितानां सर्वशून्यतानां सर्वबोधिपक्षानां धर्माणां अप्रमाणध्यानारूप्यसमापत्तीनां बलानां वैशारद्यानां प्रतिसंविदां समाधिधारणीमुखानाम् अभिज्ञानां अष्टादशावेणिकानां}} बुद्धधर्माणां बोधेर् अप्य् अहम् {आयुष्मन्} {शारिपुत्र} 26221 अनुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि/ 26222 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} उत्पाद उत्पद्यते अथानुत्पाद उत्पद्यते/ 26223 {सुभूतिर्} आह/ न ह्य् {आयुष्मन्} {शारिपुत्र} उत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते/ तत् 26224 कस्य हेतोः/ तथा हि {आयुष्मन्} {शारिपुत्र} यश् चोत्पादो यश् चानुत्पादो द्वाव् अप्य् एतौ धर्मौ न 26225 संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उता- 26226 लक्षणौ/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण नोत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते/ 26227 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानम्/ अनुत्पादो 26228 धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्/

26301 {शारिपुत्र} आह/ धर्मकायिकानाम् आयुष्मान् सुभूतिर् अग्रतायां स्थापयितव्यः/ तत् 26302 कस्य हेतोः/ तथा हि {आयुष्मान्} सुभूतिर् यद् यद् एव परिप्रश्नीक्रियते ततस् तत एव 26303 निःसरति/ 26304 {सुभूतिर्} आह/ धर्मतैषा {आयुष्मन्} {शारिपुत्र} तथागतश्रावकाणाम् अनिश्रितसर्व- 26305 धर्माणां ते यतो यत एव परिपृच्छ्यन्ते ततस् तत एव निःसरन्ति/ तत् कस्य 26306 हेतोः/ यथापि नामानिश्रितत्वात् सर्वधर्माणाम्/ 26307 {शारिपुत्र} आह/ कथम् {आयुष्मन्} {सुभूते} अनिश्रिताः सर्वधर्माः/ 26308 {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धा- 26309 निश्रितं नोभयम् अन्तरेणोपलभ्यते/ {वेदना संज्ञा संस्काराः}/ विज्ञानम् {आयुष्मन्} {शारिपुत्र} प्रकृतिशून्यं तं 26310 नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/

26311 {{चक्षुर् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ श्रोत्रं घ्राणं जिह्वा कायः/ मन आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ रूपम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ शब्दो गन्धो रसः स्प्रष्टव्यम्/ धर्म आयुष्मन् शारिपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते/ चक्षुर्विज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्/ मनोविज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यन्ते/ सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्य् आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः/}} 26312 {{अष्टादशावेणिका बुद्धधर्मा आयुष्मन् शारिपुत्र प्रकृतिशून्याः ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यन्ते}}/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्यताम् उपादाय/ 26313 एवं हि {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वेन} महासत्त्वेन षट्सु पारमितासु चरतो रूपं परि- 26314 शोधयितव्यम्/ {वेदना संज्ञा संस्काराः}/ विज्ञानं परिशोधयितव्यम्/ एवं व्यस्तसमस्ताः स्कन्धधातवः

26315 {{आयतनानि प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षानि धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्माः परिशोध- 26316 यितव्याः/ यावत् सर्वाकारज्ञता परिशोधयितव्या// [इति सर्वाकारज्ञता- 26317 निर्याणम्//] 26318 {शारिपुत्र} आह/ कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् 26319 बोधिसत्त्वमार्गं परिशोधयति/ 26320 {सुभूतिर्} आह/ अस्ति {आयुष्मन्} {शारिपुत्र} दानपारमिता लौकिकी अस्ति लोकोत्तरा/ 26321 एवं शील{पारमिता} {{लौकिकी अस्ति लोकोत्तरा क्षान्तिपारमिता लौकिकी अस्ति लोकोत्तरा वीर्यपारमिता लौकिकी अस्ति लोकोत्तरा ध्यानपारमिता लौकिकी लोकोत्तरा}} अस्ति प्रज्ञा{पारमिता} लौकिकी अस्ति लोकोत्तरा/ 26322 {शारिपुत्र} आह/ कतमा {आयुष्मन्} {सुभूते} दान{पारमिता} लौकिकी कतमा लोकोत्तरा/ 26323 {सुभूतिर्} आह/ लौकिकी {आयुष्मन्} {शारिपुत्र} दान{पारमिता} इह {बोधिसत्त्वो} महासत्त्वो दायको भवति 26324 दानपतिः/ श्रमणब्राह्मणकृपणवनीपकाध्वगेभ्यो याचनकेभ्यो दाता भवति/ 26325 अन्नार्थिकेभ्यो ऽन्नं ददाति/ पानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासो-

26401 पाश्रयप्रतिश्रयजीवितपरिष्कारोपकरणशयनासनभैषज्यार्थिकेभ्यो ऽन्नपान{{यानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रय-}} 26402 प्रतिश्रयान्यतरान्यतरजीवितपरिष्कारोपकरणभैषज्यदाता भवति/ पुत्रार्थिकेभ्यः 26403 पुत्रं ददाति/ दुहित्र्यर्थिकेभ्यो दुहितरं ददाति/ भार्यार्थिकेभ्यो भार्यां ददाति/ 26404 राष्ट्रार्थिकेभ्यो राज्यानि ददाति/ शिरोर्थिकेभ्यः शिरो ददाति/ अङ्गार्थिकेभ्यो 26405 ऽङ्गानि ददाति/ मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जानो ददाति/ 26406 तच् च सन्निश्रितं परित्यजति/ तस्यैवं भवति अहं ददामि एष परिगृह्णीते 26407 इदं दानम् अहं निर्मत्सरः सर्वस्वं परित्यजामि/ अहं बुद्धाज्ञां करोमि/ 26408 अहं दानपारमितायां चरामि/ अहम् एतद् दानं सर्वसत्त्वसाधारणं कृत्वा 26409 अनुत्तरायै सम्यक्संबोधये परिणामयामि तच् चानुपलम्भयोगेन/ अनेन 26410 च दानेन दानफलेन च सर्वसत्त्वा दृष्ट एव धर्मे सुखिता भवन्तु अनुपादाय 26411 परिनिर्वान्तु/ स त्रिभिः सङ्गैः सक्तो दानं ददाति/ कतमैस् त्रिभिर् यद् उत आत्म- 26412 संज्ञया परसंज्ञया दानसंज्ञया च एभिस् त्रिभिः सङ्गैः सक्तो दानं ददाति// [इयम् उच्यते 26413 लौकिकी दानपारमितेति//] 26414 तथा हि {आयुष्मन्} {शारिपुत्र} लोकतो न चलति नोच्चलति न संक्रामति/ 26415 तेनोच्यते लौकिकी दानपारमिता इति/ 26416 तत्र कतमा लोकोत्तरा दानपारमिता यद् उत त्रिमण्डलपरिशुद्धिः/ तत्र कतमा 26417 त्रिमण्डलपरिशुद्धिः/ इह {बोधिसत्त्वो} महासत्त्वो दानं ददत् नात्मानम् उपलभते प्रतिग्राहकं 26418 {नोपलभते}/ दानञ् च {नोपलभते}/ तद् विपाकञ् च {नोपलभते}/ इयम् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य त्रिम- 26419 ण्डलपरिशुद्धिः/ पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो दानं ददत् न सर्वसत्त्वेभ्य- 26420 स् तद् दानं निर्यातयति/ सत्त्वांश् च {नोपलभते}/ आत्मानं च {नोपलभते}/ तच् च दानम् अनुत्तरायै 26421 सम्यक्संबोधये परिणामयति/ न च बोधिम् उपलभते// [इयम् उच्यते लोकोत्तरा 26422 दानपारमितेति//]

26501 केन कारणेनोच्यते लोकोत्तरा दानपारमितेति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} 26502 लोकाच् चलति उच्चलति संक्रामति/ तेन कारणेनोच्यते लोकोत्तरा दानपार- 26503 मितेति/ एवं शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ 26504 {शारिपुत्र} आह/ कतमा {आयुष्मन्} {सुभूते} प्रज्ञा{पारमिता} लौकिकी/ कतमा 26505 लोकोत्तरा/ 26506 {सुभूतिर्} आह/ लौकिकी {आयुष्मन्} {शारिपुत्र} प्रज्ञापारमिता/ इह {बोधिसत्त्वो} महासत्त्वो 26507 दानं ददाति उपलम्भनिश्रितो मात्सर्यचित्तं मया निग्रहीतव्यम् इति/ तच् चात्म- 26508 सत्त्वदानसंज्ञानिश्रितः सर्वस्वं परित्यजति बाह्यं वा आध्यात्मिकं वा 26509 वस्तु उपात्तं वा अनुपात्तं वा नास्ति किञ्चिद् यत् न परित्यजति/ तच् च कुशल- 26510 मूलं बोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भनिश्रितः/ स 26511 शीलं सेवते धूतगुणप्रतिष्ठितः/ कायवाक्चित्तोपलम्भनिश्रितस् तांश् च दशकुशलान् 26512 कर्मपथान् सेवमानः आत्मदृष्ट्यां सत्त्वदृष्ट्यां कुशलदृष्ट्यां निश्रितः 26513 बोधिम् उपलभ्य सर्वसत्त्वसाधारणानि शीलानि बोधये परिणामयति तच् चोपल- 26514 म्भेन/ आत्मानम् उत्कर्षयति परान् पंसयति स सर्वसत्त्वानां दुष्कृतानि क्षमते/ 26515 आत्मसत्त्वक्षान्तिदृष्टिनिश्रितस् तच् च कुशलम् अनुत्तरायै सम्यक्संबोधये परिणाम- 26516 यति सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेन/ स वीर्यम् आरभते कायम् उपलम्भ- 26517 मानः चित्तम् {उपलम्भमानः} पुण्यसम्भारम् {उपलम्भमानो} ज्ञानसम्भारम् {उपलम्भमान} आत्मानम् {उपलम्भमानो} बोधिम् {उपलम्भमानः}

26518 तेन च वीर्यारम्भेन मन्यते/ तच् च सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेना- 26519 नुत्तरायै सम्यक्संबोधये परिणामयति/ स मैत्रीकरुणामुदितोपेक्षां भावयति 26520 ध्यानसमापत्तीः समापद्यते व्युत्तिष्ठते च ता आस्वादयति/ ता आस्वादयन् 26521 मन्यते/ सर्वसत्त्वसाधारणानि च कुशलमूलानि उपलम्भदृष्टिको बोधये परि- 26522 णामयति// [इयम् उच्यते लौकिकी प्रज्ञापारमिता//] 26523 स शून्यतां भावयन् रूपं शून्यम् इति उपलभते/ {वेदना संज्ञा संस्काराः}/ विज्ञानं शून्यम् इति 26524 उपलभते/ यावद् बुद्धबोधिं चोपलभते उपलम्भयोगेन/ तानि कुशलमूलानि 26525 सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ तं

26601 चोपलम्भयोगेन/ सर्वपापं प्रतिदेशयत्य् उपलम्भयोगेन आत्मनश् च परेषां च 26602 पुण्यम् अनुमोदते/ आत्मनश् च परस्य चार्थाय उपलभमानः सर्वबुद्धान् अध्येषयते/ 26603 अनुपायेन त्रिःकृत्वः पुण्यं सर्वज्ञतायै परिणामयति सर्वसत्त्वसाधारणं कृत्वा//

26604 [इयम् उच्यते लौकिकी प्रज्ञापारमिता//] 26605 तत्र कतमा लोकोत्तरा प्रज्ञापारमिता/ आत्मसत्त्वदेयबोध्यनुपलब्ध्या 26606 त्रिमण्डलपरिशुद्ध्या दानपारमितां परिशोधयति/ बोधाय आत्मसत्त्वशील- 26607 बोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} शीलपारमितां {परिशोधयति}/ बोधाय आत्मसत्त्वक्षमाबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} क्षान्ति- 26608 पारमितां {परिशोधयति}/ बोधाय चात्मकायचित्तवीर्यपुण्यज्ञानबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} वीर्यपार- 26609 मितां {परिशोधयति}/ बोधाय आत्मसत्त्वध्यानसमाधिसमापत्तिबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} ध्यान- 26610 पारमितां {परिशोधयति}/ बोधाय आत्मसत्त्वसर्वधर्मा{नुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} प्रज्ञापारमितां {परिशोधयति}/ 26611 बोधाय सर्वकुशलमूलानि चानुत्तरायै सम्यक्संबोधये परिणामयति निर्विशेष- 26612 परिणामेनानुत्तरपरिणामेन असमसम{परिणामेन} अचिन्त्यातुल्य{परिणामेन} अप्रमेय{परिणामेन}//

26613 [इयम् उच्यते लोकोत्तरा प्रज्ञापारमिता//] 26614 केन कारणेन लौकिकी/ लोको याभिर् भवति/ लोकं वा याभिर् निवर्तयति/ 26615 लोकेन वा याः समाः/ लोकाय वा याभिर् दीयते/ लोकात् वा याभिर् निःसरति/ 26616 लोकस्य वा या भवाय/ लोके वा भवा यास् ता लौकिक्यः/ 26617 तत्र कतमा लोकोत्तरा/ लोको याभिर् उत्तारयति/ लोकं याभिर् उत्तारयति/ 26618 लोकेन वा याभिर् उत्तार्यते/ आलोकाय वा या भवति/ लोकात् वा याभिर् निः- 26619 सरति/ लोकस्य वा या उत्तरणाय/ लोके वा या उत्तरास् ता लोकोत्तरा इति/ 26620 एवं ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं 26621 परिशोधयति/ 26622 {शारिपुत्र} आह/ कतम {आयुष्मन्} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य बोधिमार्गः/

26701 {सुभूतिर्} आह/ चत्वार्य् {आयुष्मन्} {शारिपुत्र} स्मृत्युपस्थानानि {बोधिसत्त्वस्य} महासत्त्वस्य बोधि- 26702 मार्गः/ चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि 26703 बोध्यङ्गानि आर्याष्टाङ्गो मार्गः शून्यता{विमोक्षमुखम्} अनिमित्त{विमोक्षमुखम्} अप्रणिहित{विमोक्षमुखम्} 26704 अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् अभावस्वभाव{शून्यता} सर्वसमाधयः 26705 सर्वधारणीमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमा- 26706 पत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशा- 26707 वेणिका बुद्धधर्मा महाकरुणा अयम् उच्यते {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य 26708 बोधिमार्गः/ 26709 {शारिपुत्र} आह/ कतमस्या {आयुष्मन् सुभूते} पारमिताया अयं पुरुषकारः/ 26710 {सुभूतिर्} आह/ प्रज्ञापारमिताया {आयुष्मन्} {शारिपुत्र} अयं पुरुषकारः/ तत् कस्य 26711 हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} प्रज्ञापारमिता जनयित्री सर्वेषां कुशलानां धर्माणां 26712 श्रावकप्रत्येकबुद्ध{धर्माणां} बोधिसत्त्व{धर्माणां} बुद्ध{धर्माणाम्}/ प्रज्ञापारमिता {आयुष्मन्} {शारिपुत्र} 26713 प्रतिग्राहिका सर्वेषां कुशलानां {धर्माणां} श्रावकप्रत्येकबुद्ध{धर्माणां} बोधिसत्त्व{धर्माणाम्}/ प्रज्ञापार- 26714 मितायाम् {आयुष्मन्} {शारिपुत्र} शिक्षित्वा तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा 26715 सम्यक्संबोधिर् अभिसंबुद्धा/ अनागता अप्य् {आयुष्मन्} {शारिपुत्र} तथागता अर्हन्तः

26716 सम्यक्संबुद्धा इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्- 26717 स्यन्ते/ ये ऽप्य् एतर्हि {आयुष्मन्} {शारिपुत्र} दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्- 26718 संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति ते ऽपि सर्वे इहैव 26719 प्रज्ञापारमितायां शिक्षित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः/ 26720 सचेत् पुनर् {आयुष्मन्} {शारिपुत्र} अस्यां प्रज्ञापारमितायां भाष्यमाणायां {बोधिसत्त्वस्य} 26721 महासत्त्वस्य न भवति कांक्षायितत्वं न भवति धन्वायितत्वं वेदितव्यम् एतद् {आयुष्मन्} 26722 {शारिपुत्र} विहरत्य् अयं {बोधिसत्त्वो} महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेण 26723 यद् उत सर्वसत्त्वपरित्राणाय सर्वसत्त्वापरित्यागमनसिकारेण महाकरुणामनसि- 26724 कारेण/ 26725 {शारिपुत्र} आह/ यद् {आयुष्मान्} {सुभूतिर्} एवम् आह/ विहरत्य् अयं {बोधिसत्त्वो} महासत्त्वो ऽनेन 26726 विहारेणाविरहितश् चानेन मनसिकारेणेति/ एवं सत्य् {आयुष्मन्} {सुभूते} सर्वसत्त्वा अपि

26801 बोधिसत्त्वा भविष्यन्ति/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {सुभूते} सर्वसत्त्वा 26802 अविरहिता मनसिकारेण/ 26803 {सुभूतिर्} आह/ साधु साधु {आयुष्मन्} {शारिपुत्र} उपालप्स्ये त्वां अर्थ एवायुष्मता 26804 शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः/ तत् कस्य हेतोः/ सत्त्वासत्तय्{आयुष्मन्} 26805 {शारिपुत्र} मनसिकारासत्ता वेदितव्या/ सत्त्वशून्यतया मनसिकारशून्यता {वेदितव्या}/ 26806 सत्त्वास्वभावतया मनसिकारास्वभावता {वेदितव्या}/ सत्त्वविविक्ततया मनसिकार- 26807 विविक्तता {वेदितव्या}/ सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता 26808 {वेदितव्या}/ रूपासत्तया रूपशून्यतया रूपास्वभावतया रूपविविक्ततया 26809 रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता {वेदितव्या}/ वेदना संज्ञा 26810 संस्काराः/ विज्ञानासत्तया {{विज्ञानशून्यतया विज्ञानास्वभावतया विज्ञानविविक्ततया विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता}} {वेदितव्या}/ एवं व्यस्तसमस्तेषु 26811 स्कन्ध{{धात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञासु अष्टादशावेणिकेषु}} बुद्धधर्मेषु सर्वाकारज्ञतासत्तया सर्वाकारज्ञता- 26812 शून्यतया {{सर्वाकारज्ञतास्वभावतया सर्वाकारज्ञताविविक्ततया सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता}} {वेदितव्या}/ अनेन्{आयुष्मन्} {शारिपुत्र} विहारेणानेन च 26813 मनसिकारेण अविरहितो बोधिसत्त्वो महासत्त्व इति/

26814 अथ खलु भगवान् आयुष्मते स्हूतये साधुकारम् अदात्/ साधु साधु सुभूते/ 26815 एवं हि सुभूते {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितोपदेष्टव्या यथा त्वम् उपदिशसि 26816 यथापि नाम तथागतानुभावेनैवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां 26817 चरितव्यं यथा त्वम् उपदिशसि/ 26818 अस्मिन् खलु पुनः प्रज्ञापारमितापरिवर्ते आयुष्मता सुभूतिना भाष्यमाणे 26819 त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितो यावत् पूर्वोत्तरदक्षिण- 26820 पश्चिमायां विदिश्य् उन्नामावनामं गच्छति स्म/ 26821 अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्/ अथ खल्व् {आयुष्मान्} 26822 {सुभूतिर्} भगवन्तम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययः स्मितस्य 26823 प्रादुर्भावाय/ भगवान् आह/ यथैव सुभूते इह लोकधातौ तथागतः 26824 प्रज्ञापारमितां निर्दिशति तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु 26825 तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां 26826 भ्गाषन्ते/ एवं समन्ताद् दशसु दिक्ष्व् असंख्येयेष्व् अप्रमेयेषु

26901 {{लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां}} निर्दिशन्ति/ अस्मिन् खलु पुनः सुभूतिना प्रज्ञापारमितानिर्देशे निर्दिश्यमाने 26902 द्वादशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो 26903 ऽभूत्/ तेषाम् अपि बुद्धानां भगवतां समन्ताद् दशसु दिक्षु लोकधातुषु इमां 26904 प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषमाणानाम् असंख्येयानाम् अ- 26905 परिमाणानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि// [इति 26906 मार्गनिर्याणम् इत्य् उक्ता निर्याणप्रतिपत्तिर् इत्य् उक्ता सर्वाकारज्ञता//] 26907 आर्यपञ्चविंशतिसाहस्रिकायां बोधिसत्त्वधर्माणां भवत्यां प्रज्ञापारमितायाम् अभि- 26908 समयालङ्कारानुसारेण संशोधितायां सर्वाकारज्ञताधिकारः सुभूतिपरिवर्तः प्रथमः//

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.