Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 11/12

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1

Thông tin
GRETIL — Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

23801 पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ 23802 यावज् जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या/ चक्षुरसत्तया श्रोत्रघ्राण- 23803 जिह्वाकायमनो ऽसत्ता वेदितव्या/ मनो ऽसत्तया आकाशासत्ता वेदितव्या/ 23804 आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येया- 23805 परिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता 23806 वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां 23807 सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये 23808 च सर्वधर्माः सर्व एते नोपलभ्यन्ते/ 23809 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} 23810 दानपारमितासत्ता वेदितव्या दानपारमितासत्तया शील{{पारमितासत्ता वेदितव्या शीलपारमितासत्तया}} क्षान्ति{{पारमितासत्ता वेदितव्या क्षान्तिपारमितासत्तया}} वीर्य{{पारमितासत्ता वेदितव्या वीर्यपारमितासत्तया}} 23811 ध्यान{{पारमितासत्ता वेदितव्या ध्यानपारमितासत्तया}} प्रज्ञापारमितासत्ता वेदितव्या/ प्रज्ञापारमितासत्तया आकाशासत्ता 23812 {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}}

23813 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} 23814 अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभाव- 23815 शून्यतासत्ता वेदितव्या/ अभावस्वभावशून्यतासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23816 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} 23817 स्मृत्युपस्थानासत्ता वेदितव्या स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता 23818 वेदितव्या सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या/ 23819 {{ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या इन्द्रियासत्तया बलासत्ता वेदितव्या बलासत्तया बोध्यङ्गासत्ता वेदितव्या बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या मार्गासत्तया वैशारद्यासत्ता वेदितव्या वैशारद्यासत्तया प्रतिसंविदासत्ता वेदितव्या प्रतिसंविदासत्तया पारमितासत्ता वेदितव्या पारमितासत्तया तथागतबलासत्ता वेदितव्या तथागतबलासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या}}

23820 आवेणिकबुद्धधर्मासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23821 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} गोत्रभूम्यसत्ता वेदितव्या/ गोत्रभूम्यसत्तया 23822 अष्टमकभूम्यसत्ता वेदितव्या 23823 {{अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या दर्शनभूम्यसत्तया तनुभूम्यसत्ता वेदितव्या तनुभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या}} कृताविभूम्यसत्तया 23824 आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}}

23901 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} स्रोतआपन्नासत्ता वेदितव्या स्रोतआपन्ना- 23902 सत्तया सकृदागाम्यसत्ता वेदितव्या {{सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या अनागाम्यसत्तया अर्हदसत्ता वेदितव्या अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या}} 23903 प्रत्येकबुद्धासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23904 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} श्रावकयानासत्ता वेदितव्या श्रावकयानासत्तया 23905 प्रत्येकबुद्धयानासत्ता वेदितव्या प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या 23906 तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या/ सर्वाकारज्ञतासत्तया आकाशा- 23907 सत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23908 तद् यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरि- 23909 माणानां सत्त्वानाम् अवकाशः/ एवम् एव सुभूते तस्मिन् महायाने {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}/ तद् 23910 यथापि नाम सुभूते आकाशे {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}/ एवम् एव सुभूते तस्मिन् महायाने {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}//

23911 [इति सत्त्वार्थनिर्याणम्//] 23912 यद् अपि सुभूतिर् एवम् आह/ नापि तस्य महायानस्य आगतिर् दृश्यते नापि 23913 गतिर् न स्थानं दृश्यत इति/ एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते 23914 नापि गतिर् न स्थानं दृश्यते/ तत् कस्य हेतोः/ अचला हि सुभूते सर्वधर्मास् ते 23915 न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति/ तत् कस्य 23916 हेतोः/ न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न 23917 क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य 23918 प्रकृतिः कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ 23919 {{न हि सुभूते रूपस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ न हि सुभूते रूपस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ न हि सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति न क्वचित् तिष्ठति}}/ न सुभूते चक्षुषः 23920 प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न 23921 क्वचित् तिष्ठति/ एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते 23922 मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् 23923 गच्छति न क्वचित् तिष्ठति/ {{न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न अब्धातोर् न तेजोधातोर् न वायुधातोर्}} 23924 {{न सुभूते आकाशधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ {{न सुभूते धर्मधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न तथताया न भूतकोटेर् न सुभूते अचिन्त्य-}}

24001 {{धातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ {{न सुभूते दानपारमितायाः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न शीलपारमितायाः न क्षान्तिपारमितायाः न वीर्यपारमितायाः न ध्यानपारमितायाः न सुभूते प्रज्ञापारमितायाः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ न सुभूते स्मृत्युपस्थानानां प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां न इन्द्रियाणां न बलानां न बोध्यङ्गानां न सुभूते मार्गस्य प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ 24002 {{न सुभूते अप्रमाणध्यानारूप्यसमापत्तीनां प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न तथागतबलानां न वैशारद्यानां न प्रतिसंविदां न सुभूते अष्टादशावेणिकानां बुद्धधर्मानां न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ 24003 {{न सुभूते बोधेः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ न सुभूते असंस्कृतस्य न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}// [इत्य् अनाभोगनिर्याणम्//]

24004 यद् अपि तत् सुभूतिर् एवम् आह/ नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त 24005 {उपलभ्यते} मध्य {उपलभ्यते} त्र्यध्वसमं तद् यानं तस्मात् महायानं महायानम् इत्य् उ- 24006 च्यते/ एवम् एतत् सुभूते एवम् एतत्/ नास्य यानस्य पूर्वान्त {उपलभ्यते} 24007 {{नापरान्त उपलभ्यते मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मात् महायानं महायानम् इत्य्}} उच्यते/ तत् कस्य हेतोः/ तथा हि सुभूते अतीतो ऽध्वा- 24008 तीतेनाध्वना शून्यः/ अनागतो ऽध्वा अनागतेनाध्वना शून्यः/ प्रत्युत्- 24009 पन्नो ऽध्वा प्रत्युत्पन्नेनाध्वना शून्यः/ त्र्यध्वसमता त्र्यध्वसमतया शून्या/ 24010 महायानं महायानेन शून्यम् बोधिसत्त्वो बोधिसत्त्वेन शून्यः/ न सुभूते 24011 शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षट् वा सप्त वा अष्ट वा 24012 नव वा दश वा तस्मात् त्र्यध्वसम्तया समम् इदं यानं {बोधिसत्त्वस्य} महासत्त्वस्य 24013 नापि तत्र समम् उपलभ्यते न विषमं नापि तत्र वा राग उपलभ्यते न विरागः/ 24014 न दोष {उपलभ्यते} नादोषः/ न मोह {उपलभ्यते} नामोहः/ न नाम {उपलभ्यते} नानाम/ यावन् न 24015 कुशलम् {उपलभ्यते} नाकुशलम्/ न सास्रवम् {उपलभ्यते} नानास्रवम्/ न सावद्यम् {उपलभ्यते} नानवद्यम्/ 24016 न क्लेश {उपलभ्यते} नाक्लेशः/ न क्लेशक्षय {उपलभ्यते} नाक्लेशक्षयः/ न लौकिकम् {उपलभ्यते} न 24017 लोकोत्तरम्/ न संक्लेश {उपलभ्यते} न व्यवदानम्/ न संसार {उपलभ्यते} न निर्वाणम्/ 24018 नाप्य् अत्र नित्यम् {उपलभ्यते} नानित्यम्/ न सुखम् {उपलभ्यते} न दुःखम्/ नात्मा {उपलभ्यते} नानात्मा/

24019 न शान्तम् {उपलभ्यते} नाशान्तम्/ न कामधातुर् {उपलभ्यते} न कामधातुसमतिक्रमः/ न रूप- 24020 धातुर् {उपलभ्यते} न रूपधातु{समैक्रमः}/ नारूप्यधातुर् {उपलभ्यते} नारूप्यधातु{समैक्रमः}/ तत् कस्य 24021 हेतोः/ तथा हि तस्य स्वभावो नोपलभ्यते अतीतं सुभूते रूपम् अतीतेन रूपेण 24022 शून्यम्/ {{अनागतं रूपम् अनागतेन रूपेण शून्यम्/ प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यं}}/ एवम् अतीता वेदना 24023 संज्ञा संस्काराः/ अतीतं विज्ञानम् अतीतेन विज्ञानेन शून्यम्/ 24024 {{अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यम्/ प्रत्युत्पन्नं विज्ञानम् प्रत्युत्पन्नेन विज्ञानेन शून्यम्/}}/ तत् कस्य हेतोः/ न शून्यतायाम् अतीतं रूपम् उप-

24101 लभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते कुतः पुनः शून्यतायाम् अतीतं 24102 रूपम् उपलप्स्यते/ न शून्यतायाम् अतीता वेदना उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} 24103 अतीता वेदना उपलप्स्यते/ 24104 {{न शून्यतायाम् अतीता संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीता संज्ञा उपलप्स्यते/ न शून्यतायाम् अतीताः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीताः संस्कारा उपलप्स्यते/ न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीतं विज्ञानम् उपलप्स्यते}}/ एवं न शून्यतायाम् अनागतं रूपं वेदनासंज्ञासंस्कारा व्ज्ञानम् उपलभ्यते/ 24105 न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} प्रत्युत्पन्नं रूपम् उपलप्स्यते/

24106 {{न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते}}/ न शून्यतायाम् अतीतानागत- 24107 प्रत्युत्पन्नं रूपम् उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते/ 24108 न शून्यतायाम्

24109 {{अतीतानागतप्रत्युत्पन्ना वेदना उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्ना संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना संज्ञा उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्नं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं विज्ञानम् उपलप्स्यते}}/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते} {कुतः पुनः शून्यतायां}/ 24110 पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते/ अपरान्ततो ऽपि {सुभूते} दान{पारमिता नोपलभ्यते}/ 24111 प्रत्युत्पन्नतो ऽपि {सुभूते} दान{पारमिता नोपलभ्यते}/ अध्वसमतया दान{पारमिता नोपलभ्यते}/ न {सुभूते} अध्वसमताया- 24112 म् अतीताध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते/ कुतः पुनः समताया- 24113 म् अतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यते/ एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अ- 24114 ध्वसु शील{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} क्षान्ति{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} वीर्य{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} ध्यान{पारमिता नोपलभ्यते}/ पूर्वान्ततः {सुभूते}

24115 प्रज्ञा{पारमिता नोपलभ्यते} {{अपरान्ततो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते/ प्रत्युत्पन्नतो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते/ अध्वसमतया प्रज्ञापारमिता नोपलभ्यते/ न सुभूते अध्वसमतायाम् अतीताध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते/ कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना}} प्रज्ञापारमितोपलप्स्यते/ 24116 पुनर् अपरं सुभूते {पूर्वान्तापरान्तमध्येषु} स्मृत्युपस्थानानि नोपलभ्यन्ते/ त्र्यध्वसमतायां 24117 स्मृत्युपस्थानानि नोपलभ्यन्ते/ न {सुभूते} समतायाम् अतीतानागतप्रत्युत्पन्ना 24118 ऽध्वान उपलभ्यन्ते/ समतैव समतायां नोपलभ्यते/ कुतः पुनः समतायाम् अती-

24201 तानागतप्रत्युत्पन्नानि स्मृत्युपस्थानानि उपलप्स्यन्ते/ एवं सम्यकप्रहाणानि 24202 {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} {नोपलभ्यन्ते}/ ऋद्धिपादाः {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} {नोपलभ्यन्ते}/ 24203 {{इन्द्रियाणि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ बलानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ बोध्यङ्गानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ मार्गः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यते/ अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ तथागतबलानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ वैशारद्यानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ प्रतिसंविदः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/}} कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना 24204 अष्टादशावेणिका बुद्धधर्मा उपलप्स्यन्ते/ 24205 पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते अपरान्ततः {पृथग्जनो नोपलभ्यते}/ प्रत्युत्- 24206 पन्नतः {पृथग्जनो नोपलभ्यते}/ त्र्यध्वसमतया {पृथग्जनो नोपलभ्यते}/ तत् कस्य हेतोः/ सत्त्वानुपलधिताम् उपा- 24207 दाय/ एवं श्रावकप्रत्येकबुद्धबोधिसत्त्वाः/ पूर्वान्ततः {तथागतो नोपलभ्यते}/ अपरान्ततः {तथागतो नोपलभ्यते}/ 24208 मध्यतः {तथागतो नोपलभ्यते}/ त्र्यध्वसमतया {तथागतो नोपलभ्यते}/ तत् कस्य हेतोः/ सत्त्वानुपलब्धिताम् उपा- 24209 दाय/ एवं हि {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु

24210 शिक्षित्वा सर्वाकारज्ञता परिपूरैतव्या/ इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य त्र्यध्व- 24211 समतया महायानम्/ अत्र स्थितो {बोधिसत्त्वो} महासत्त्वः सदेवमानुषासुरं लोकम् अभि- 24212 भवन् सर्वाकारज्ञतायां निर्यास्यति// [इत्य् अन्तनिर्याणम्//] 24213 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ साधु साधु भगवन् 24214 सुभाषितम् इदं भगवतो {बोधिसत्त्वानां} महासत्त्वानां महायानम्/ अत्र भगवन् महायाने 24215 शिक्षमाणैर् अतीते ऽध्वनि {बोधिसत्त्वैर्} महासत्त्वैः सर्वाकारज्ञता अनुप्राप्ता/ अनागता अपि 24216 {बोधिसत्त्वा} महासत्त्वा अत्र महायाने शिक्षमाणाः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति/ 24217 ये ऽपि भगवन् दशदिशि लोके ऽसंख्येयेषु लोकधातुषु {बोधिसत्त्वा} महासत्त्वाः प्रत्युत्पन्ना- 24218 स् ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति/ तस्मात् तर्हि 24219 भगवन् महायानम् इदं {बोधिसत्त्वानां} महासत्त्वानां यद् उत त्र्यध्वसमतानाम्/ अथ 24220 खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ एवम् एतत् सुभूते एवम् एतत्/ अत्र 24221 महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना {बोधिसत्त्वा} महासत्त्वाः सर्वाकारज्ञता- 24222 म् अनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति च/ 24223 अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत्/ अयं भगवन्

24301 सुभूतिः स्थविरस् तथागतेन प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानम् उपदेष्टाअव्यं 24302 मन्येत/ 24303 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ मा हैवाहं भगवन् प्रज्ञा- 24304 पारमितां व्यतिक्रम्य महायानम् उपदिशामि/ 24305 भगवान् आह/ न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि/ 24306 तत् कस्य हेतोः/ तथा हि सुभूते ये केचित् कुशला बोधिपक्षा 24307 धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्ध- 24308 धर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति/ 24309 सुभूतिर् आह/ कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः 24310 {{वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं}} गच्छन्ति/ 24311 भगवान् आह/ तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि 24312 चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि 24313 आर्याष्टाङ्गमार्गाः/ शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य् अ- 24314 प्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः/ दान{पारमिता} 24315 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}/ दश तथागत- 24316 बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महा- 24317 करुणा अष्टादशावेणिका बुद्धधर्माः/ असंप्रमुषितधर्मता सदो- 24318 पेक्षाविहारिता/ इमे {सुभूते} कुशला बोधिपक्षा धर्माः श्रावकधर्माः

24319 प्रत्येकबुद्धधर्माः {{बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं}} गच्छन्ति/ 24320 यच् च {सुभूते} महायानं या च ध्यान{पारमिता} या च वीर्य{पारमिता} या च 24321 क्षान्ति{पारमिता} या च शील{पारमिता} या च दान{पारमिता} यच् च रूपं या च वेदना या च 24322 संज्ञा ये च संस्कारा यच् च विज्ञानं यच् च चक्षुर् यच् च श्रोत्रं 24323 {{यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपंं यश् च शब्दो यश् च गन्धो यश् च रसो यच् च स्प्रष्टव्यं यश् च धर्मो यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजा वेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदना या च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना}} 24324 {{यानि च चत्वारि स्मृत्युपस्थानानि यानि च चत्वारि सम्यक्प्रहाणानि ये च चत्वार ऋद्धिपादाः यानि च पञ्चेन्द्रियाणि यानि च पञ्च बलानि यानि च सप्त बोध्यङ्गानि यश् च आर्याष्टाङ्ग-}} 24325 मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि

24401 च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च 24402 शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो 24403 यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या 24404 चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च 24405 यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च 24406 यावद् अष्टादशावेणिका बुद्धधर्मा यश् च तथागतप्रवेदितो धर्मविनयो यश् च धर्मधातु- 24407 र् या च तथता या च भूतकोटिः यश् चाचिन्त्यधातुर् यच् च निर्वाणम् सर्व एते धर्मा न 24408 संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/ 24409 अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि/ 24410 तत् कस्य हेतोः/ न हि सुभूते अन्यत् महायानम् अन्या प्रज्ञापारमिता अन्या 24411 ध्यान{पारमिता} {{अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता}} अन्या दान{पारमिता}/ इति हि महायानञ् च प्रज्ञा{पारमिता} ध्यानवीर्य- 24412 क्षान्तिशीलदान{पारमिता} चाद्वयम् एतद् अद्वैधीकारं न सुभूते अन्यत् महायानं अन्यानि 24413 स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारम्/

24414 एवं नान्यत् {{महायानं अन्यानि सम्यक्प्रहाणानि इति हि महायानं सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये ऋद्धिपादा इति हि महायानम् ऋद्धिपादाः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि इन्द्रियानि इति हि महायानम् इन्द्रियानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि बलानि इति हि महायानम् बलानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि बोध्यङ्गानि इति हि महायानम् बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये मार्गा इति हि महायानम् मार्गाः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि अप्रमाणध्यानानि इति हि महायानम् अप्रमाणध्यानानि चाद्वयम् एतद् अद्वैधीकारम्/}} 24415 {{नान्यत् महायानं अन्या आरूप्यसमापत्तयः इति हि महायानम् आरूप्यसमापत्तयः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि दशबलानि इति हि महायानम् दशबलानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि वैशारद्यानि इति हि महायानम् वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्याः प्रतिसंविदाः इति हि महायानम् वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये अष्टादशावेणिका बुद्धधर्मा इति हि महायानम् अष्टादशावेणिका बुद्धधर्मा चाद्वयम् एतद् अद्वैधीकारम्/}} 24416 अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि//

24417 [इति प्राप्तिनिर्याणम्//] 24418 सुभूतिर् आह/ अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति/ 24419 अपरान्ततो {बोधिसत्त्वो नोपैति}/ मध्यतो {बोधिसत्त्वो नोपैति}/ रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता 24420 वेदितव्या/ एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता 24421 वेदितव्या/ रूपं बोधिसत्त्व इति/ एवम् अपि न विद्यते नोपलभ्यते/ एवं 24422 {वेदनासंज्ञासंस्काराः} विज्ञानं बोधिसत्त्व इति/ एवम् अपि न विद्यते नोपलभ्यते/ एवं हि 24423 भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् 24424 कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि/

24501 अपि तु खलु पुनर् भगवन् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति/ यथा आत्मा 24502 आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा/ एवम् अभावस्वभावानां 24503 धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्/ एवं कतमे ते {वेदनासंज्ञासंस्काराः} कतम्त् तद् वि- 24504 ज्ञानं यद् अनभिनिवृत्तम्/ ये चानभिनिवृत्ता न ते {वेदनासंज्ञासंस्काराः}/ यच् चानभिनिवृत्तं न 24505 तद् विज्ञानम् तत् किं अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अवव- 24506 दिष्याम्य् अनुशासिष्यामि/ न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो 24507 बोधाय चरेत्/ सचेद् एवं निर्दिश्यमाने {बोधिसत्त्वस्य} महासत्त्वस्य चित्तं नावलीयते 24508 न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न 24509 सन्त्रासम् आपद्यते चरति {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाम्/ 24510 शारिपुत्र आह/ केन कारणेनायुष्मन् सुभूते एवं वदसि पूर्वान्ततो बोधि- 24511 सत्त्वो नोपैति {{अपरान्ततो बोधिसत्त्वो नोपैति/ मध्यतो बोधिसत्त्वो नोपैति}}/ {केन कारणेनायुष्मन् सुभूते एवं वदसि} रूपापर्यन्ततया बोधि- 24512 सत्त्वापर्यन्तता वेदितव्या {{एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या/}} {केन कारणेनायुष्मन् सुभूते एवं वदसि} रूपं बोधिसत्त्व

24513 इति/ एवम् अपि न विद्यते {{नोपलभ्यते/ एवं वेदनासंज्ञासंस्काराः विज्ञानं बोधिसत्त्व इति/ एवम् अपि न विद्यते नोपलभ्यते/ एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि/}} {केन कारणेनायुष्मन् सुभूते एवं वदसि} यावद् एव 24514 नामधेयमात्रम् एतत् {{यद् उत बोधिसत्त्व इति/ यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा/ एवम् अभावस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्/ एवं कतमे ते वेदनासंज्ञासंस्काराः कतम्त् तद् विज्ञानं यद् अनभिनिवृत्तम्/ ये चानभिनिवृत्ता न ते वेदनासंज्ञासंस्काराः/ यच् चानभिनिवृत्तं न तद् विज्ञानम् तत् किं अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य्}} अनुशासिष्यामि/ 24515 {केन कारणेनायुष्मन् सुभूते एवं वदसि} न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्/ {केन कारणेनायुष्मन् सुभूते एवं वदसि} स- 24516 चेद् एवम् उपदिष्यमाने {{बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न सन्त्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्/}} 24517 सुभूतिर् आह/ सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो 24518 नोपैति/ सत्त्वशून्यतया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}/ सत्त्वविविक्ततया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}/ सत्त्वास्वभाव-

24519 तया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}/ एवम् अपरान्ततो मध्यतश् च वक्तव्यम्/ तत् कस्य हेतोः/ सत्त्वासत्तया 24520 शून्यताविविक्ततास्वभावतापूर्वान्तादीनाम् अनुपलब्धेः/ न चान्यत्र सत्त्वा-

24601 सत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वो ऽन्यत् पूर्वान्तादि इति हि 24602 या च सत्त्वासत्ता यावद् यच् च मध्यं सर्वम् एतद् अद्वैधीकारम्/ रूपासत्तया 24603 पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ रूपशून्यतया रूपविविक्ततया 24604 रूपास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ एवं 24605 {{वेदना संज्ञा संस्काराः/ विज्ञानासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ विज्ञानशून्यतया विज्ञानविविक्ततया विज्ञानास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/}} 24606 एवम् आयतनेषु धातुषु प्रतीत्यसमुत्पादाङ्गेषु च पूर्वान्तापरान्त- 24607 मध्यतो बोधिसत्त्वो नोपैतीति वक्तव्यम्/ 24608 {{दानपारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ दानपारमिताशून्यतया दानपारमिताविविक्ततया दानपारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता/ प्रज्ञापारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ प्रज्ञापारमिताशून्यतया प्रज्ञापारमिताविविक्ततया प्रज्ञापारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/}} 24609 तत् कस्य हेतोः/ न ह्य् आयुष्मन् शारिपुत्र दानशीलक्षान्तिवीर्यध्यानप्रज्ञा- 24610 पारमितासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उ- 24611 पलभ्यन्ते/ न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता 24612 अन्या अस्वभावता अन्यो बोधिसत्त्वः अन्या दानपारमिता {{अन्या शीलपारमिता अन्या क्षान्तिपारमिता अन्या वीर्यपारमिता अन्या ध्यानपारमिता}}

24613 अन्या प्रज्ञापारमिता अन्यानि पूर्वान्तापरान्तमध्यानि/ इति ह्य् आयुष्मन् 24614 शारिपुत्र या चासत्ता यावद् अभावस्वभावता याश् च षट् पारमिता यश् च बोधिसत्त्वो 24615 यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्/ एवं ह्य् आयुष्मन् शारि- 24616 पुत्र पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ अध्यात्मशून्यतासत्तया शून्य- 24617 तया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ 24618 एवं यावद् अभावस्वभावशून्यतासत्तया {{विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो}} 24619 नोपैति/ 24620 तत् कस्य हेतोः/ न ह्य् आयुष्मन् शारिपुत्र अध्यात्मशून्यतासत्तायां शून्यतायां 24621 विविक्ततायाम् अस्वभावतायां च अभावस्वभावशून्यतासत्तायां शून्यतायां 24622 विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते/ न च शारि- 24623 पुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता 24624 अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि/ इति ह्य् आयुष्मन् शारिपुत्र

24701 या चाध्यात्मशून्यता असत्ता शून्यता विविक्तता अस्वभावता यावद् अभाव- 24702 स्वभावशून्यता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो 24703 यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्/ अनेनायुष्मन् शारि- 24704 पुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ 24705 पुनर् अपरम् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तया शून्यतया विविक्ततया 24706 अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/

24707 {{सम्यक्प्रहाणासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ ऋद्धिपादानासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ इन्द्रियासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ बलासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ बोध्यङ्गासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ मार्गासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ अप्रमाणध्यानारूप्यसमापत्त्यसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ अप्रमाणध्यानासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ आरूप्यसमापत्त्यसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ तथागतबलासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ वैशारद्यासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ प्रतिसंविदसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ बुद्धधर्मासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/}}

24708 {{तत् कस्य हेतोः/ न ह्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तयां शून्यतायां विविक्ततायाम् अस्वभावतायां च बुद्धधर्मासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते/ न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि/ इति ह्य् आयुष्मन् शारिपुत्र यानि च स्मृत्युपस्थानान्य् असत्ता शून्यता विविक्तता अस्वभावता यावद् बुद्धधर्मा असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि}} सर्वम् एतद् अद्वैधीकारम्/ अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्ता- 24709 परान्तमध्येषु बोधिसत्त्वो नोपैति/ 24710 पुनर् अपरम् आयुष्मन् शारिपुत्र सर्वसमाध्यसत्तया सर्वधारणीमुखासत्तया 24711 धर्मधात्वसत्तया तथतासत्तया भूतकोट्यसत्तया भूतकोटिशून्यतया भूतकोटि- 24712 विविक्ततया भूतकोट्यस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ 24713 तत् कस्य हेतोः/ न ह्य् आयुष्मन् शारिपुत्र समाध्यसत्तायां यावद् भूतकोट्यसत्तायां 24714 {{शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते/ न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि/}} 24715 {{इति ह्य् आयुष्मन् शारिपुत्र ये च समाधयः असत्ता शून्यता विविक्तता अस्वभावता यावद् भूतकोटिर् असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्/ अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति}}/

24716 पुनर् अपरम् आयुष्मन् शारिपुत्र श्रावकासत्तया शून्यतया विविक्ततया अस्वभाव- 24717 तया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ प्रत्येकबुद्धासत्तया बोधि- 24718 सत्त्वासत्तया सर्वज्ञासत्तया सर्वज्ञशून्यतया सर्वज्ञविविक्ततया सर्वज्ञास्वभाव- 24719 तया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ तत् कस्य हेतोः/ न 24720 {{ह्य् आयुष्मन् शारिपुत्र श्रावकासत्तायां यावद् सर्वज्ञतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते/ न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि/}} 24721 {{इति ह्य् आयुष्मन् शारिपुत्र यश् च श्रावको ऽसत्ता शून्यता विविक्तता अस्वभावता यावद् सर्वज्ञता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्/ अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति}}// [इति प्राप्तिनिर्याणप्राप्यप्रतिषेधः//] 24722 यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि केन कारणेन रूपापर्यन्ततया 24723 बोधिसत्त्वापर्यन्तता वेदितव्या/ वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया 24724 बोधिसत्त्वापर्यन्तता वेदितव्येति/ रूपम् आयुष्मन् {शारिपुत्र} आकशसमम्/ {वेदनासंज्ञासंस्काराः} 24725 आकाशसमम् विज्ञानम् आयुष्मन् {शारिपुत्र} आकाशसमम्/ तत् कस्य हेतोः/ तद्

24801 यथापि नाम आयुष्मन् {शारिपुत्र} यथा आकाशस्य न पूर्वान्त उपलभ्यते नापरान्त 24802 {उपलभ्यते} न मध्य {उपलभ्यते} अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते एव- 24803 म् एवायुष्मन् {शारिपुत्र} रूपस्य नैव पूर्वान्त {उपलभ्यते} नापरान्त {उपलभ्यते} न मध्यम् {उपलभ्यते}/ तत् 24804 कस्य हेतोः/ रूपशून्यताम् उपादाय/ न च शून्यतायाः पूर्वान्तो वा अपरान्तो 24805 वा मध्यं नोपलभ्यते/ वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य नैव पूर्वान्त 24806 {उपलभ्यते} नापरान्त {उपलभ्यते} मध्यम् {उपलभ्यते}/ तत् कस्य हेतोः/ विज्ञानशून्यताम् उपादाय/ 24807 न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते/ शून्यतेति च 24808 व्यवह्रियते/ अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वा- 24809 पर्यन्तता वेदितव्या/ {वेदना संज्ञा संस्काराः/} विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या/ 24810 एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु यावज् जरामरणशोक- 24811 परिदेवदुःखदौर्मनस्योपायासेषु/ स्मृत्युपस्थानानि {{सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः अष्टादशावेणिका}} बुद्धधर्मा आयुष्मन् 24812 {शारिपुत्र} आकाशसमाः/ तत् कस्य हेतोः/ तद् यथापि नामायुष्मन् {शारिपुत्र} 24813 आकाशस्य नैवादिर् नान्तो न मध्यम् उपलभ्यते अनन्तापर्यन्ततया आकाश- 24814 म् इति च व्यवह्रियते एवम् एवायुष्मन् {शारिपुत्र} बुद्धधर्माणां नादिर् नान्तो न मध्य-

24815 म् उपलभ्यते/ बुद्धधर्मशून्यताम् उपादाय/ न च शून्यतायाः पूर्वान्तो वा अपरान्तो 24816 वा मध्यं नोपलभ्यते/ अनेआयुष्मन् {शारिपुत्र} पर्यायेण बुद्धधर्मापर्यन्ततया 24817 बोधिसत्त्वापर्यन्तता वेदितव्या/ 24818 यत् पुनर् आयुष्मन् {शारिपुत्र} एवं वदसि/ केन कारणेन रूपं बोधिसत्त्वैत्य् एव- 24819 म् अपि न विद्यते नोपलभ्यते/ {वेदना संज्ञा संस्कारा} विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न 24820 {विद्यते नोपलभ्यते} इति/ रूपम् आयुष्मन् शारिपुत्र रूपेण शून्यम् {वेदनासंज्ञासंस्कारा} विज्ञानम् आयुष्मन् 24821 {शारिपुत्र} विज्ञानेन शून्यम्/ तत् कस्य हेतोः/ न ह्य् आयुष्मन् {शारिपुत्र} शून्यतायां रूपं 24822 संविद्यते/ नापि शून्यतायां बोधिसत्त्वः संविद्यते/ {वेदना संज्ञा संस्काराः}/ न शून्यतायां

24901 विज्ञानं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यते/ अनेनायुष्मन् शारिपुत्र 24902 पर्यायेण रूपं बोधिसत्त्व इति एवम् अपि न {विद्यते नोपलभ्यते}/ {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति 24903 एवम् अपि न {विद्यते नोपलभ्यते}/ 24904 पुनर् अपरम् आयुष्मन् {शारिपुत्र} दानपारमिता दानपारमितया शून्या {{शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या}} 24905 प्रज्ञापारमिता प्रज्ञापारमितया शून्या/ तत् कस्य हेतोः/ न हि शून्यतायां 24906 दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते एवं शील{पारमिता} {{क्षान्तिपारमिता वीर्यपारमिता}} 24907 ध्यान{पारमिता}/ न शून्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो 24908 विद्यते/ अध्यात्मशून्यता {आयुष्मन्} {शारिपुत्र} अध्यात्मशून्यतया शून्या एवं यावद् अ- 24909 भावस्वभावशून्यता अभावस्वभावशून्यतया शून्या/ स्मृत्युपस्थानानि 24910 स्मृत्युपस्थानैः शून्यानि एवं सम्यक्प्रहाणानि ऋद्धिपादाः {{इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः}} अष्टादशा- 24911 वेणिका बुद्धधर्मा अष्टादशावेणिकैः बुद्धधर्मैः शून्या/ धर्मधातुर् धर्मधातुना शून्यः 24912 समाधिः समाधिना शून्यः {{धारणीमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या}}

24913 {{मार्गज्ञता मार्गज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं}}/ 24914 श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस् तथागतत्वेन 24915 तथागतः शून्यः/ तत् कस्य हेतोः/ न हि शून्यतायां तथागतो विद्यते न 24916 शून्यतायां बोधिसत्त्वो विद्यते/ अनेनायु{ष्मन्} {शारिपुत्र} पर्यायेण रूपं बोधिसत्त्व 24917 इति एवम् अपि न {विद्यते नोपलभ्यते}/ {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति एवम् अपि न {विद्यते नोपलभ्यते}/ 24918 यद् अप्य् {आयुष्मान्} {शारिपुत्र} आह/ केन कारणेनैवं वदसि/ एवम् अहं {बोधिसत्त्वं} महासत्त्वं 24919 सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां 24920 प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति/ रूपम् {आयुष्मन्} {शारिपुत्र} रूपे न 24921 {संविद्यते नोपलभ्यते}/ रूपं वेदनायां न {संविद्यते नोपलभ्यते}/ वेदना वेदनायां न {संविद्यते नोपलभ्यते}/ वेदना रूपे न {संविद्यते नोपलभ्यते}/ 24922 रूपं वेदना च संज्ञायां न {संविद्यते नोपलभ्यते}/ संज्ञा संज्ञायां न {संविद्यते नोपलभ्यते}/ संज्ञा रूपे न {संविद्यते नोपलभ्यते} 24923 संज्ञा रूपवेदनयोर् न {संविद्यते नोपलभ्यते}/ रूपं वेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}/ संस्काराः संस्कारेषु 24924 न {संविद्यन्ते नोपलभ्यन्ते}/ संस्कारा रूपवेदनासंज्ञासु न {संविद्यते नोपलभ्यते}/ रूपवेदनासंज्ञासंस्कारा विज्ञाने न

25001 {संविद्यन्ते नोपलभ्यन्ते}/ विज्ञानं विज्ञाने न {संविद्यते नोपलभ्यते}/ विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}/ 25002 {{चक्षुः चक्षुसि संविद्यते नोपलभ्यते श्रोत्रं श्रोत्रे संविद्यते नोपलभ्यते घ्राणं घ्राणे संविद्यते नोपलभ्यते जिह्वा जिह्वायां संविद्यते नोपलभ्यते कायः काये संविद्यते नोपलभ्यते मनो मनसि संविद्यते नोपलभ्यते/ तत्रापीतरान्य् इतरेषु च न संविद्यन्ते नोपलभ्यन्ते/ रूपं रूपे संविद्यते नोपलभ्यते शब्दः शब्दे संविद्यते नोपलभ्यते गन्धो गन्धे संविद्यते नोपलभ्यते रसो रसे संविद्यते नोपलभ्यते स्प्रष्टव्यं स्प्रष्टव्ये संविद्यते नोपलभ्यते धर्मो धर्मे संविद्यते नोपलभ्यते/ तत्रापीतरे इतरेषु च न संविद्यते नोपलभ्यते/ चक्षुर्विज्ञानं चक्षुर्विज्ञाने संविद्यते नोपलभ्यते श्रोत्रविज्ञानं श्रोत्रविज्ञाने संविद्यते नोपलभ्यते घ्राणविज्ञानं घ्राणविज्ञाने संविद्यते नोपलभ्यते जिह्वाविज्ञानं जिह्वाविज्ञाने संविद्यते नोपलभ्यते कायविज्ञानं कायविज्ञाने संविद्यते नोपलभ्यते मनोविज्ञानं मनोविज्ञाने संविद्यते नोपलभ्यते/ तत्रापीतरान्य् इतरेषु च न संविद्यन्ते नोपलभ्यन्ते/}}

25003 {{चक्षुःसंस्पर्शः चक्षुःसंस्पर्शे संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शे संविद्यते नोपलभ्यते घ्राणसंस्पर्शो घ्राणसंस्पर्शे संविद्यते नोपलभ्यते जिह्वासंस्पर्शः जिह्वासंस्पर्शे संविद्यते नोपलभ्यते कायसंस्पर्शः कायसंस्पर्शे संविद्यते नोपलभ्यते मनःसंस्पर्शः मनःसंस्पर्शे संविद्यते नोपलभ्यते/ तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यते/ चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते कायसंस्पर्शजा वेदना कायसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते/ तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यते/}} 25004 तत्रापीतरा इतरासु च 25005 सा न {संविद्यन्ते नोपलभ्यन्ते}/ स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न {संविद्यन्ते नोपलभ्यते}/ एवं 25006 सम्यक्प्रहाणानि ऋद्धिपादाः {{इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः}} अष्टादशावेणिका बुद्धधर्मा अष्टादशा- 25007 वेणिकेषु बुद्धधर्मेषु न {संविद्यन्ते नोपलभ्यन्ते}/ तत्रापीतरे इतरेषु च ते न {संविद्यन्ते नोपलभ्यन्ते}/

25008 {{अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते}} 25009 {{समाधिः समाधौ न संविद्यते नोपलभ्यते धारणी धारणीयां न संविद्यते नोपलभ्यते}}/ पृथग्जनभूमिः गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनु- 25010 भूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः 25011 सवज्ञताभूमिः/ स्रोतआपन्न स्रोतआपन्नत्वे न {संविद्यते नोपलभ्यते}/ एवं सकृदागामी 25012 अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न {संविद्यते नोपलभ्यते}/ बोधिसत्त्वो बोधिसत्त्वत्वे 25013 न {संविद्यते नोपलभ्यते}/ तथागतस् तथागतत्वे न {संविद्यते नोपलभ्यते}/ प्रज्ञापारमिता प्रज्ञापारमितायां न {संविद्यते नोपलभ्यते}/ 25014 प्रज्ञापारमितायाम् अववादानुशासनी न {संविद्यते नोपलभ्यते}/ अववादानुशासन्यां प्रज्ञापारमिता 25015 न {संविद्यते नोपलभ्यते}/ एवं ह्य् {आयुष्मन्} {शारिपुत्र} सर्वधर्मा संविद्यमानत्वेन अनुपलम्भेन बोधि- 25016 सत्त्वो न {संविद्यते नोपलभ्यते}// [इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः//] 25017 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ केन कारणेन नामधेयमात्रम् एतत् यद् उत 25018 बोधिसत्त्व इति/ केन कारणेन्{आयुष्मन्} सुभूते एवं वदसि आगन्तुकम् एतन् नाम- 25019 धेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} नाम दशभ्यो 25020 दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव

25021 बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ 25022 आगन्तुकम् एतन् नामधेयं तथा हि यद्रूपं यद्वेदना यत्संज्ञा यत्संस्कारा यद्विज्ञान- 25023 म् इति नामधेयं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् कस्य 25024 हेतोः/ तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम/ तेन कारणेन

25101 नोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति/ पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} नामधेयमात्र- 25102 म् एतद् यद् उत दानपारमितेति/ न च दानपारमितायां नाम न च नाम्नि दानपार- 25103 मिता/ तत् कस्य हेतोः/ यच् च नाम या च दानपारमिता उभयम् एतन् न {संविद्यते नोपलभ्यते}/ 25104 तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति/ एवं नामधेयमात्रम् एतद् यद् उत 25105 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} नामधेयमात्रम् एतद् यद् उत प्रज्ञा{पारमिता} 25106 इति {{न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता/ तत् कस्य हेतोः/ यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते/ तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति/}}/ {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत बोधिसत्त्व इति/ 25107 नामधेयमात्रम् एतद् यद् उत अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् अ- 25108 भावस्वभाव{शून्यता}/ न चाध्यात्मन्यतायां नाम न च नाम्नि अध्यात्म{शून्यता} 25109 बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् भावस्वभाव{शून्यता}/ तत् कस्य हेतोः/ 25110 तथा हि यच् च नाम या चाध्यात्म{शून्यता} या च बहिर्धा{शून्यता} या चाध्यात्मबहिर्धा{शून्यता} 25111 या च यावद् भावस्वभाव{शून्यता} सर्व एते न {संविद्यन्ते नोपलभ्यन्ते}/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण 25112 नामधेयमात्रम् एतत् यद् उत बोधिसत्त्व इति/ {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत स्मृत्युपस्थानानि न 25113 च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि

25114 {{तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयं एतन् न संविद्यन्ते नोपलभ्यन्ते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत सम्यक्प्रहाणानि न च सम्यक्प्रहाणेषु नाम न च नाम्नि सम्यक्प्रहाणानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत ऋद्धिपादा न च ऋद्धिपादेषु नाम न च नाम्नि ऋद्धिपादाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च ऋद्धिपादाः उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत इन्द्रियानि न च इन्द्रियेषु नाम न च नाम्नि इन्द्रियानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च इन्द्रियान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत बलानि न च बलेषु नाम न च नाम्नि बलानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च बलान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत बोध्यङ्गानि न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च बोध्यङ्गान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत मार्गा न च मार्गेषु नाम न च नाम्नि मार्गाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च मार्गा उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत अप्रमाणध्यानानि न च अप्रमाणध्यानेषु नाम न च नाम्नि अप्रमाणध्यानानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च अप्रमाणध्यानान्य् उभयं एतन् न

संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत आरूप्यसमापत्तयो न च आरूप्यसमापत्तिषु नाम न च नाम्नि आरूप्यसमापत्तयः/ तत् कस्य हेतोः/ तथ हि यच् च नाम याश् च आरूप्यसमापत्तय उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत दशबलानि न च दशबलेषु नाम न च नाम्नि दशबलानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च दशबलान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत वैशारद्यानि न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च वैशारद्यान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत प्रतिसंविदा न च प्रतिसंविदासु नाम न च नाम्नि प्रतिसंविदाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम याश् च प्रतिसंविदा उभयं एतन् न संविद्यते नोपलभ्यते/}}

25115 {{आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत अष्टादशावेणिका बुद्धधर्मा न च अष्टादशावेणिकेषु बुद्धधर्मेषु नाम न च नाम्नि अष्टादशावेणिका बुद्धधर्माः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च अष्टादशावेणिका बुद्धधर्मा उभयं एतन् न संविद्यते नोपलभ्यते}}/ 25116 {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत समाधिर् इति यावत् सर्वज्ञतेति/ न च सर्वज्ञतायां नाम 25117 न च नाम्नि सर्वज्ञता/ तत् कस्य हेतोः/ तथा हि यच् च नाम या च सर्वज्ञता 25118 उभयम् एतन् न {संविद्यते नोपलभ्यते}/ 25119 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेनोच्यते यथा आत्मात्मेति 25120 चोच्यते अत्यान्ततया चानभिनिवृत्त आत्मेति/ आत्मा {शारिपुत्र} अत्यन्ततया न {संविद्यते नोपलभ्यते}/ 25121 कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया {आयुष्मन्} {शारिपुत्र} सत्त्वो जीवः 25122 पोषः {{पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः}} पश्यको न {संविद्यते नोपलभ्यते}/ {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ अत्यन्ततया {आयुष्मन्} {शारिपुत्र} रूपं न {संविद्यते नोपलभ्यते}/ 25123 {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ वेदना संज्ञा संस्कारा अत्यन्ततया {आयुष्मन्} {शारिपुत्र} विज्ञानं न {संविद्यते नोपलभ्यते}/

25124 {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ {{अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर् न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ अत्यन्ततया आयुष्मन् शारिपुत्र मनो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं शब्दो गन्धो रसः स्प्रष्टव्यम्/ अत्यन्ततया आयुष्मन् शारिपुत्र धर्मो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्/ अत्यन्ततया आयुष्मन् शारिपुत्र मनोविज्ञानं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः/ अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/}}

25201 {{अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना/ अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र दानपारमिता न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता/ अत्यन्ततया आयुष्मन् शारिपुत्र प्रज्ञापारमिता न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र अध्यात्मशून्यता न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ एवं शीलपारमिता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता/ यावद् अत्यन्ततया आयुष्मन् शारिपुत्र अभावस्वभावशून्यता न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते/ कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति/ एवं सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः/}} 25202 {{अत्यन्ततया आयुष्मन् शारिपुत्र अष्टादशावेणिका बुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते/ कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति/}} अत्यन्ततया समाधयो धारणीमुखानि न {संविद्यन्ते नोपलभ्यन्ते}/ {कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति}/ अत्यन्ततया

25203 श्रावकः प्रत्येकबुद्धो बोधिसत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धो न {संविद्यते नोपलभ्यते}/ {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ 25204 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण आत्मात्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त 25205 आत्मा/ 25206 पुनर् अपरं यद् {आयुष्मान्} {शारिपुत्र} एवम् आह/ अभावस्वभावाः सर्वधर्मा इति/ 25207 एवम् एतत्/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः/ 25208 {शारिपुत्र} आह/ कस्य्{आयुष्मन्} {सुभूते} नास्ति सांयोगिकः स्वभावः/ 25209 {सुभूतिर्} आह/ रूपस्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः/ वेदनायाः 25210 संज्ञायाः संस्काराणां विज्ञानस्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः/

25211 {{चक्षुस आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनस आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ रूपस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ शब्दस्य गन्धस्य रसस्य स्प्रष्टव्यस्य धर्मस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ चक्षुर्विज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनसोविज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ चक्षुःसंस्पर्शस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ श्रोत्रसंस्पर्शस्य घ्राणसंस्पर्शस्य जिह्वासंस्पर्शस्य कायसंस्पर्शस्य मनःसंस्पर्शस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ चक्षुःसंस्पर्शप्रत्ययवेदनाया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ श्रोत्रसंस्पर्शप्रत्ययवेदनाया घ्राणसंस्पर्शप्रत्ययवेदनाया जिह्वासंस्पर्शप्रत्ययवेदनायाः कायसंस्पर्शप्रत्ययवेदनाया मनःसंस्पर्शप्रत्ययवेदनाया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/}} 25212 {{दानपारमिताया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः/}} नास्ति प्रज्ञापारमिताया सांयोगिकः 25213 स्वभावः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेणास्वभावाः सर्वधर्माः/ 25214 पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} अनित्याः सर्वधर्मा न कस्यचिद् विगमेन/ 25215 {शारिपुत्र} आह/ कतमे ते {आयुष्मन्} {सुभूते} अनित्याः सर्वधर्मा न कस्यचिद् विगमेन/

25216 {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} अनित्यं न कस्यचिद् विगमेन/ {वेदना संज्ञा संस्कारा} विज्ञान- 25217 म् {आयुष्मन्} {शारिपुत्र} अनित्यं न कस्यचिद् विगमेन/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} 25218 यद् अनित्यं सो ऽभावः क्षयश् च एवं दुःखाः अनात्मानः शान्ताः शून्या अनिमित्ता 25219 अप्रणिहिता न कस्यचिद् विगमेन सर्वधर्माः कुशला अनवद्या अनास्रवा 25220 निःक्लेशा लोकोत्तरा अव्यवदाना असंस्कृताः/ तत् कस्य हेतोः/ तथा 25221 ह्य् {आयुष्मन्} {शारिपुत्र} यो ऽसंस्कृतः सो ऽभावः क्षयश् चाने{आयुष्मन्} {शारिपुत्र} पर्यायेण निःस्वभावाः 25222 सर्वधर्मा न कस्यचिद् विगमेन/ 25223 पुनर् अपरं {शारिपुत्र} अकूटस्था अविनाशिनः सर्वधर्माः/ 25224 {शारिपुत्र} आह/ केन कारणेन्{आयुष्मन्} {सुभूते} अकूटस्था ऽविनाशिनः सर्वधर्माः/

25301 {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} अकूटस्थम् अविनाशि/ तत् कस्य हेतोः/ 25302 प्रकृतिर् अस्यैषा/ {वेदना संज्ञा संस्कारा} विज्ञानम् {आयुष्मन्} {शारिपुत्र} {अकूटस्थम् अविनाशि}/ {तत् कस्य हेतोः}/ {प्रकृतिर् अस्यैषा}/ एवं कुशलम् अकुशलं 25303 सावद्यम् अनवद्यं सास्रवम् अनास्रवं संक्लेशं निःक्लेशं लौकिकं लोकोत्तरं संस्कृतम् अ- 25304 संस्कृतं संक्लेशो व्यवदानं संसारो निर्वाणं {अकूटस्थम् अविनाशि}/ {तत् कस्य हेतोः}/ {प्रकृतिर् अस्यैषा}/ अनेन्{आयुष्मन्} {शारिपुत्र} 25305 पर्यायेणाभावस्वभावाः सर्वधर्माः/ 25306 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह/ केन कारणेन रूपम् अनभिसंस्कृतम् एवं {वेदना संज्ञा संस्काराः} केन 25307 कारणेन विज्ञानम् अनभिसंस्कृतम् इति/ 25308 {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} रूपम् अनभिनिवृत्तं {वेदना संज्ञा संस्कारा} विज्ञानम् अनभि- 25309 निवृत्तम्/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} अभिसंस्कर्त्ता नास्ति/ चक्षु- 25310 र् {आयुष्मन्} {शारिपुत्र} अनभिसंस्कृतम्/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} अभि- 25311 संस्कर्त्ता नास्ति/ एवं श्रोत्रम् {{घ्राणं जिह्वा कायो}} मनो ऽनभिसंस्कृतम् 25312 {{तत् कस्य हेतोः/ तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति/}} पुनर् अपरं {शारिपुत्र} रूपम् {{शब्दो गन्धो रसः स्प्रष्टव्यं}} धर्मा अनभिसंस्कृताः/ तत् कस्य हेतोः/ 25313 तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते यावत् सर्वधर्मा अनभिसंस्कृताः/ तत् कस्य 25314 हेतोः/ तथा ह्य् अभिसंस्कर्त्ता नोपलभते/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण रूप{{वेदनासंज्ञासंस्कार-}}

25315 विज्ञानान्य् अनभिनिवृत्तानि/ 25316 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेन यद् अनभिनिवृत्तं न तद् रूपं न 25317 वेदना न संज्ञा न संस्कारा न विज्ञानम् इति/ 25318 {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} रूपं प्रकृतिशून्यम्/ यच् च प्रकृतिशून्यं न 25319 तस्योत्पादो न व्ययः/ यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते/ 25320 {वेदना संज्ञा संस्कारा} विज्ञानं प्रकृतिशून्यं {{यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः/ यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते/}} एवं यावत् सर्वधर्माः 25321 प्रकृतिशून्या ये च {{प्रकृतिशून्या न तेषाम् उत्पादो न व्ययः/ येषां च नोत्पादो न व्ययो न तेषाम् अन्यथात्वं प्रज्ञायते/}} अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण 25322 यद् अनभिनिवृत्तं न तद् रूपं {{वेदना संज्ञा संस्कारा}} न विज्ञानम्/

25401 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह/ केन कारणेनैवं वदसि/ तत् किम् अनभि- 25402 निवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति/ यथा 25403 ह्य् {आयुष्मन्} {शारिपुत्र} या अनभिनिवृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सा 25404 अनभिनिवृत्तिः/ इति हि प्रज्ञापारमिता चानभिनिवृत्तिश् चाद्वयम् एतद् अद्वैधीकारम्/ 25405 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेणैवं वदामि/ तत् {{किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति/}} 25406 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह/ न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते 25407 यो बोधाय चरेद् इति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् 25408 नान्याम् अनभिनिवृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति/ इति ह्य् अनभिनिवृत्तिश् च बोधि- 25409 सत्त्वश् चाद्वयम् एतद् अद्वैधीकारं नान्यत्रानभिनिवृत्तेः रूपं समनुपश्यति 25410 {{इति ह्य् अनभिनिवृत्तिश् च रूपं चाद्वयम् एतद् अद्वैधीकारं/ इति ह्य् अनभिनिवृत्तिश् च वेदना चाद्वयम् एतद् अद्वैधीकारं/ इति ह्य् अनभिनिवृत्तिश् च संज्ञा चाद्वयम् एतद् अद्वैधीकारं/ इति ह्य् अनभिनिवृत्तिश् च संस्काराश् चाद्वयम् एतद् अद्वैधीकारं/ इति ह्य् अनभिनिवृत्तिश् च विज्ञानं चाद्वयम् एतद् अद्वैधीकारं/}} 25411 इति ह्य् अनभिनिवृत्तिश् च चक्षुश् चाद्वयम् एतद् अद्वैधीकारम्/

25412 {{इति ह्य् अनभिनिवृत्तिश् च श्रोत्रं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च घ्राणं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च जिह्वा चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च कायश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मनश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च रूपं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च शब्दश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च गन्धश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च रसश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च स्प्रष्टव्यं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च धर्मश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च श्रोत्रविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च घ्राणविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च जिह्वाविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च कायविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मनोविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च चक्षुःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च श्रोत्रसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च घ्राणसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च जिह्वासंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च कायसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शश् चाद्वयम् एतद्

अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च चक्षुःसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च श्रोत्रसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च घ्राणसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च जिह्वासंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च कायसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/}}

25413 {{इति ह्य् अनभिनिवृत्तिश् च सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च ऋद्धिपादाश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च इन्द्रियानि चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च बलानि चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मार्गाश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च अप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारम्/}} 25414 {{इति ह्य् अनभिनिवृत्तिश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्/}} इति ह्य् अनभिनिवृत्तिश् च दशबलवैशारद्याष्टादशावेणिका बुद्ध- 25415 धर्माश् चाद्वयम् एतद् अद्वैधीकारम्/ यावद् इति ह्य् अनभिनिवृत्तिश् च सर्वधर्माश् चाद्वयम् एतद् अद्वैधी- 25416 कारम्/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण नान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो 25417 बोधाय चरेत्/ 25418 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह/ केन कारणेनैवं वदसि/ सचेद् {बोधिसत्त्वस्य} 25419 महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति 25420 मानसं नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते चरति {बोधिसत्त्वो} महासत्त्वः

25421 प्रज्ञापारमितायाम् इति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः सर्वधर्मान् 25422 निरीहान् समनुपश्यति मायोपमान् स्वप्नोपमान् मरीच्युपमान् प्रतिश्रुत्- 25423 कोपमान् प्रतिबिम्बोपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरो- 25424 पमान् समनुपश्यति/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण {बोधिसत्त्वस्य} महासत्त्वस्य एवम् उ- 25425 पदिश्यमाने चित्तं नावलीयते {{न संलीयते न विप्रतिसारी भवति मानसं नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति/}}

25501 अथ खल्व् {आयुष्मान्} {सुभूतिर्} भगवन्तम् एतद् अवोचत्/ यस्मिन् समये भगवन् {बोधिसत्त्वो} 25502 महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये 25503 रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एत- 25504 द् इति/ यस्मिन् समये {{भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये वेदनां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वेदना एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये संज्ञां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संज्ञा एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये संस्कारान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संस्कारा एते इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति विज्ञानम् एतद् इति/}}

25505 {{यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये चक्षुर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये श्रोत्रं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति श्रोत्रम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये घ्राणं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति घ्राणम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये जिह्वां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति जिह्वा एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये कायं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति काय एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये मनो नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मन एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/

तस्मिन् समये शब्दं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शब्द एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये गन्धं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति गन्ध एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये रसं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रस एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये स्प्रष्टव्यं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्प्रष्टव्यम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये धर्मं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति धर्म एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये चक्षुर्विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर्विज्ञानं एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये श्रोत्रविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति श्रोत्रविज्ञानम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये घ्राणविज्ञानं नोपैति नोपाददाति नाधितिष्ठति

नाभिनिविशते न प्रज्ञपयति घ्राणविज्ञानम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये जिह्वाविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति जिह्वाविज्ञानं एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये कायविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति कायविज्ञानम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये मनोविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मनोविज्ञानम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये दानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दानपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये शीलपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शीलपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये क्षान्तिपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति क्षान्तिपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये वीर्यपारमितां नोपैति नोपाददाति नाधितिष्ठति

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.