Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शालिस्तम्बकमहायानसूत्रटीका
- Tác giả
- नागार्जुन
- Thông tin
- GRETIL — Sonam Rabten: Āryaśālistamba sutra kātikā, Varanasi/Sarnath : Central Institute of Higher Tibetan Studies, 2004.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इदमुच्यते विज्ञानप्रत्ययं नामरूपम् । नामरूपविवृद्धया षड्भिरायतनद्वारै कृत्यक्रियाः प्रवर्तन्ते । तन्नामरूपप्रत्ययं षडायतनमित्युच्यते । षड्भ्यश्चायतनेभ्यः षट्स्पर्शकायाः प्रवर्तन्ते । अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते । यज्जातीयः स्पर्शो भवति, तज्जातीया वेदना प्रवर्तते । इयमुच्यते स्पर्शप्रत्यया वेदनेति । यस्तां वेदनां विशेषेणास्वादयति, अभिनन्दति, अध्यवसायं तिष्ठति सा वेदनाप्रत्यया तृष्णेत्युच्यते । आस्वादनाध्यवसानाध्यवसायस्थानादात्मप्रियरूप-सातरूप-वियोगो माभूदिति यस्य भूयः प्रणिधानमियं तृष्णा प्रत्ययोपादानेत्युच्यते । एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च स उपादान-प्रत्ययो भव इत्युच्यते । तत्कर्मनिर्जातानां पञ्चस्कन्धानाम् अभिनिर्वृत्तिर्या सा भवप्रत्ययो जातिरित्युच्यते । जात्याभिनिर्वृत्तानां स्कन्धानामुपचयन-परिपाकाद्विनाशो भवति ।
तदिदं जातिप्रत्ययं जरामरणमित्युच्यते। पूर्वपूर्वाङ्गानामुत्तरोत्तराणां हेतुत्वात्, तानि उत्तरोद्भवात् प्रत्यय एव । एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादो-ऽन्योन्यहेतुकोद्भूतः ।
द्वादशाङ्गस्त्रिप्रवृत्तिर्नित्योच्छेदो ह्यनादिजः। प्रवृत्तेर्जलधारावद् वर्तते ऽनादिकालिकः ।
नानित्यः स तु सततं स्थितत्वात् । न संस्कृत इति तु संस्कारवियुक्तत्वात् । स न चेतनः चित्तवियुक्तत्वात् । न प्रत्ययसम्भव इति प्रत्ययवियुक्तत्वात् । न क्षयधर्मस्तूपचयवियुक्तत्वात् । न निरोधधर्मः उत्पाद-स्थिति-विनाश-वियुक्तत्वात् ।
अनादिकालप्रवृत्तस्तु सन्धिकाल-परिच्छेद-वियुक्तत्वात् । नदीस्त्रोतवत् स्त्रोतोद्भूत अनुच्छिन्नप्रवाहः ।
अथ आर्यशालिस्तम्बसूत्र-टीकायां चतुर्थो ऽन्तिमः पटलः ।
प्रतीत्यसमुत्पादो ऽयं नदीस्त्रोतवत् अविच्छिन्नो ऽनुप्रवर्तते । अथ चेमान्यस्य चत्वार्यङ्गानि हेतुः संघातकारकाणि च, द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते । तस्मात् कतमानि चत्वारि? इत्युक्तम्।
अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः ।
अविद्या, तृष्णा, कर्म, विज्ञानञ्चेति यथाक्रमम् । हेतुर्विज्ञानबीजं हि । विज्ञानं बीज-स्वभावत्वेन हेतुः । कर्म क्षेत्रमुदीरितम् । कर्म क्षेत्र-स्वभावत्वेन हेतुरित्युक्तम् । अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः ।
कर्मक्लेशा विज्ञानबीजत्वेन व्यवस्थिताः ।
कर्मक्लेशा विज्ञानबीजं जनयन्ति । तत्र
कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च । विज्ञाननामकं बीजं तृष्णया स्निह्यते परम् । विज्ञानबीजं चाविद्या किरति स्नेहनेन वै । कर्म तृष्णा तथाविद्या क्षेत्रं स्नेहो ऽवकीर्णनम् । विज्ञाने न करोमीदं न विज्ञानमितो मतम् ।
तत्र कर्मणो ऽपि नैवं भवति इत्यादि तु कर्मणो ऽपि नैवं भवति अहं विज्ञान-बीजस्य क्षेत्रकार्यं करोमि। तृष्णाया अपि इत्यादि तु एवं तृष्णाया अपि नैवं भवति अहं विज्ञानबीजं स्नेहयामीति । अविद्याया अपि इत्यादि तु अविद्याया अपि नैवं भवति अहं विज्ञानबीजमवकिरोमीति । विज्ञानस्यापि इत्यादि तु नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति ।
तथापि बीजविज्ञाने कर्मक्लेशप्रतिष्ठिते । विज्ञानबीजमित्युक्तं कीर्णे ऽविद्यास्ववस्करे ।
तृष्णाजलेन संसिक्ते
अविद्या-स्ववस्कर इति स्ववस्करेण च सदृशेन स्ववस्करं सर्वेष्वनुगत-त्वात् । कीर्णे स्ववस्करे इति स्ववस्करेण प्रच्छादनम् । तृष्णाजलेन संसिक्ते तृष्णैव जलम् । संसिक्ते इति तु स्नेहने ।
हेतुतो नामरूपयोः । अङ्कुरोत्पादभासो हि ।
इति तु हेतु प्रत्ययसामग्या उत्पादस्तु नामरूपाङ्कुरमभिनिर्वर्तयति । नामरूपाङ्कुरम् इत्यादेस्तु ।
न स्वपरोभयादिताः । नामरूपमिदं जातं ।
नामरूपाङ्कुरमिदं तु स्वयं परत उभयादितो नोत्पन्नम् । अथ कीदृशम् इति चेत् ।
पितुर्मातुः समागमात् । अविरोधादृतोश्चापि ।
पितुर्मातुः समागमाद् इत्यादि तु पितृमातृसंयोगो वा सक्तिः, समागमः, युक्तत्वम्, पुत्रप्रसूतिसामर्थ्यम्, ऋतुमत्वञ्च । ऽत्रिदिवसात्यये रजोनिवृत्तिस्तुऽ स हि स्त्रीणाम् ऋतुरुच्यते । तदा पुरुषसमागमे शुक्रशोणितसंयोगे, स्वयं गन्धर्वस्यापि चित्त-विपर्यये ऽपि मातापितृक्रियाधिमुक्तौ गर्भोत्पादक्रमेण कलल-अर्बुद-पेशी-घन-प्रशाखावस्थामतिक्रम्य प्रसूतस्य, शैशव-कौमार्य-मध्यता-यौवन-वृद्धत्त्वादि-दशावस्था भवन्ति । तस्मादप्युक्तम्-
किञ्चिदास्वादवे धितम् । बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः । नामरूपाङ्कुरोत्पादः ।
अथ च मातापितृसंयोगाद्-ऋतुसमवायाद् अन्येषां च प्रत्ययानां समवायात्तत्रास्वादविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति ।
न वैकल्याच्च प्रत्ययैः । विरोधत्वाच्च हेतूनां मायानैरात्म्यनिग्रहे । उत्पादो ऽपि न संभवः ।
तस्माद् अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यादित्युक्तम् ।
अस्वामिकेषु इति तु अन्तः करणं पुरुषादि अनुपलम्भनस्वभावमस्ति । तत्राभिनिवेशेनोत्पन्नो य आग्रहः । धर्मस्तु स्कन्धधातु-आयतन-स्वभावः । अमम इति आत्मात्मीयरहितः । अपरिग्रह इति तु ईश्वरादि-परिग्रहानुपलम्भात् । मायालक्षण-स्वभाव इति यथा माया तु अभूतापि विविधव्यवहारं प्रतिपादयति, तद्वत् मायास्वभावस्य सर्वधर्मेषु क्रियादिर्विविधोपलभ्यते । हेतुप्रत्यय-संनिपात-व्यतिरिक्तं हेतुप्रत्ययादिधर्मः किञ्चिदपि न उत्पद्यते, विनश्यति वा । यथापि हेतुप्रत्ययवैकल्यत्वाद् भावानाम् अनुत्पादस्तदवबोधयितुअम् उपमा ।
चक्षुर्विज्ञानमप्यतः । पञ्चभिर्हेतुभिर्जातम् । इत्युक्तम् ।
तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते । कतमैः पञ्चभिरित्यादिस्तु - चक्षूरूपावभासनैः । नभस्तज्ज मनस्कारैः । इति ।
तस्मात् चक्षुः प्रतीत्य रूपञ्चालोकञ्चाकाशञ्च तज्जमनसिकारञ्च इत्यादि उक्तम् । तत्र चक्षुरिति रूपं द्रष्टुं चक्षुरिन्द्रियं विकलं भवति ।
तस्मादेव चक्षुर्विज्ञानस्याश्रयकृत्यं करोति इत्युक्तम् । आलोक इति चन्द्र-नक्षत्राग्नि-औषधि-मणि-प्रभानाम् अभिव्यक्त्यै आलोको ऽपि उपस्थितः । आकाशो ऽपि नानावृत्ति-विकलो भवति । तज्जमनसिकारो ऽपि समन्वाहार-कार्ये ऽविकलो भवति ।
पञ्चावैकल्यतस्तथा । चक्षुर्विज्ञानमुद्भूतम् ।
चक्षुर्विज्ञानस्य प्रत्ययेषु कस्यचिदप्यभावे न चक्षुर्विज्ञानस्योत्पादः, सति चोत्पादो भवति ।
मया ते जनिता इति । विकल्पो न यथोदेति
इति तत्र चक्षुषो नैवं भवति ऽअहं चक्षुर्विज्ञानस्याश्रय-कृत्यं करोमीति । रूपस्यापि नैवं भवति, अहं चक्षुर्विज्ञानस्यालम्बनकृत्यं करोमीति । आलोकस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति । आकाशस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावरणकृत्यं करोमीति । तज्जमनसिकारस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्य समन्वाहार-कृत्यं करोमीति । चक्षुर्विज्ञानस्यापि नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति ।
अथ च पुनः सत्स्वेषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर्भवति । असत्स्वेषु न भवति । एवं
श्रोत्रज्ञानादिका खिलम् । उत्पादस्य क्रमश्चैवं
तद्वत् श्रोत्रेन्द्रियादीनां पञ्चभिर्हेतुभिरुत्पादक्रमो ऽवगन्तव्यः ।
हेतुप्रत्ययसङ्ग्रहात् । कर्त्रादीनां च वैकल्याद् अहंकारवियोगतः । उत्पादो ऽपि यथापूर्वं तथा चापि प्रतीत्यजम् । हेतुमत्संविजानीयात्
तथा चापि हेतुप्रत्ययक्रमो ऽनन्तरोक्त-क्रमः । एवं सर्वधर्माणाम् उत्पाद-स्थिति-विनाशा अवगन्तव्याः ।
अस्माल्लोकात् परंनहि ।
कश्चिद्धर्मो क्वचिद् गन्ता हेतुप्रत्ययतस्तथा । कर्मणःफलमभ्येति
तत्र धर्मस्तु चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मन-आदयो धर्माः । रूप-शब्द-गन्ध-रस-स्पर्शादयो धर्माः, स्कन्ध-धात्वायतन-प्रतीत्यसमुत्पादादयो धर्माः । अस्मादिति तु अस्माल्लोकात् परं लोकम् अथवा परलोकाद् अमुं लोकं कश्चिद्धर्मो न संक्रामति । यद्येवं नित्यवादो वा अहेतु-प्रतिकूल-हेतुवादो वा भविष्यतीति चेत् । उच्यते । हेतुप्रत्ययवैकल्याभावात् कर्मणः फलमभ्येति इति ।
तत्र सङ्क्रान्त्यभावे ऽपि कर्मफलाविनाशित्वं प्रत्यक्षानुमान-विश्वस्तागम-प्रख्यातेन अनेनोदाहरणेन ज्ञातव्यम् ।
यथादर्शे विशोधिते । दृश्यन्ते मुखबिम्बानि दर्पणे ऽपि च बिम्बकम् । संक्रामितं भवेन्नैव
तस्माद् उक्तम् । तद्यथा- सुपरिशुद्ध आदर्शमण्डले मुख-प्रतिबिम्बकं दृश्यते । न च तत्रादर्शमण्डले मुखं संक्रामति । अस्ति च मुख प्रतिविज्ञप्ति र्हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्यवते नाप्यन्यत्रोत्पद्यते । अस्ति च कर्मफलविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् ।
तदन्योन्याविकल्पनम् । कर्तृक्रियाविहीनं तत् तथोत्पादावभासनम् । पूर्ववृद्धिक्रमाच्च स्यात्
तदिति तु मुखम् आदर्शश्च । अन्योन्यम् इति परस्परम् अन्योन्यम् । अविकल्पनमिति विकल्पनाभावः । कर्तृक्रियाविहीनं तद् इति तत्र कर्ता क्रिया च न स्तः । किं तन्नोच्छिद्यत इति चेत्- तथोत्पादावभासनम् इत्युक्तम् । कथं कर्तृविहीनं क्रिया कर्म च भविष्यतीति उच्यते- पूर्ववृद्धिक्रमाच्च स्यात् ।
दूरस्थश्चन्द्रमा यथा । परीत्तो दकपात्रान्ते दृश्यते न च क्रामति । अस्ति क्रिया च कर्मापि ।
तद्यथा - चन्द्रमण्डलं [द्वि] चत्वारिंशद्योजन-शतमूर्ध्वं स्थितम् । अथ च पुनः परीत्ते ऽभ्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते । न च चन्द्रमण्डलं तस्मात्स्थानाच् च्युतम् । अथ च पुनः परीत्ते ऽभ्युदकस्थभाजने दृश्यते । अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिद् च्यवते नाप्युत्पद्यते । अस्ति च कर्मफल-प्रतिविज्ञप्तिः हेतुप्रत्ययानामवैकल्यात् ।
अपि च, तद्यथाग्निरुपादाने प्रत्यये सति ज्वलति उपादान-वैकल्यान्न ज्वलति । एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्रोपपत्त्यायतन-प्रतिसन्धौ मातुःकुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति । अस्वामिकेषु धर्मेषु अपरिग्रहेषु परस्पर-प्रत्ययमन्मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् ।
सन्ति ते कल्पनात्मकाः । बाह्यकर्मक्रिया हेतुः
तत्र बाह्यप्रतीत्यसमुत्पादस्य क्रियाकर्म-व्यवस्था तु कल्पनात्मिका ज्ञेया ।
अध्यात्मपरतन्त्रतः । पञ्चविज्ञानसंभूतः
तत्र परतन्त्र-प्रतीत्यसमुत्पादस्य लक्षणमध्यात्म-पञ्चेन्द्रिय-विषय-विज्ञप्त्यवभासाकारत्वेन वेदितव्यम् ।
परमार्थो ऽविचार्यतः । परिनिष्पन्न आख्यातः
यो विकल्प-परतन्त्रात्माकारो विज्ञप्त्यवभासाकाररहितो निर्विकल्पः सुपरिशुद्धश्च, अब्धातु-सुवर्ण-आकाशवत् परिशुद्धः । क्लेश-ज्ञेयावरण-स्वरूप-परिशुद्धः चन्द्रोदयवद्, अचिन्त्यगुणः, अप्रमेय-प्रभाव-भासात्मकः, असंक्रान्तः सर्वसत्त्वार्थम् अनाभोगाविच्छेदकः, आदिमध्यान्तरहितः, त्रिधातु-समतीतो निर्मलो-ऽमलो मलप्रहाण-स्वरूपः । प्रतिस्वसंविद्-गोचरात्मक-काय-वाक्-चित्तकर्म-समतीतः, स्वसंवेदनः, अपराधीनो विश्वरूपमणिरत्नराज इव अनुत्तरो धर्मकाय इत्युच्यते ।
सहेतुप्रत्ययोद्भवः । सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा । तुच्छशून्यादिनिः सारः
तस्मात् तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः । इत्युक्तम् । कतमैः पञ्चभिः? उक्तम् । न शाश्वततो । यस्मादन्ये मरणान्तिकाः स्कन्धा अन्य औपपत्त्यंशिकाः स्कन्धाः । न तु य एव मरणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । य एवोपपत्ति-हेतवस्त एव विनाशकाः । य एव विनाश-हेतुस्स एवापि औपपत्तिको भविष्यति । अतो मरणान्तिकाः स्कन्धा निरुध्यन्ते औपपत्त्यंशिका स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । न च पूर्वनिरुद्धेषु मरणान्तिकेषु स्कन्धेषु इति निरुद्धय न चिरं गतत्वाद् औपपत्त्यंशिका इति औपपत्त्यंशे निश्रितत्वाद् औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । मरणान्तिका अनिरुद्धा एव । औपपत्त्यंशिकः स्कन्धः प्रादुर्भवेत्, तद-युक्तत्वादुक्तम्- अपि तु मरणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिका स्कन्धा प्रार्दुभवन्ति, तुलादण्डोन्नामावनामवत् । अतो नोच्छेदतः, विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तितः परीत्तकर्म क्रियते, विपुलः फलविपाको ऽनुभूयते ।
अतः परीत्त-हेतुतो विपुलफलमभिनिर्वर्तितम् । यथावेदनीयं कर्म क्रियते तदावेदनीयो विपाको ऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । यः कश्चिद् इमं प्रतीत्यसमुत्पादं सम्यक्प्रणीतमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बं शिवमभयमव्युपशमस्वभावं पश्यति । असतः तुच्छतः, रिक्ततः, असारतः रोगतः, गण्डतः, अघतः, अनित्यतः, दुःखतः, शून्यतः, अनात्मतः । इति ।
य इमं प्रतीत्यसमुत्पादमिति आध्यात्मिकप्रतीत्यसमुत्पादम् । यदिमं सम्यग् इति अविपरीतम् । प्रज्ञया इति लोकोत्तरप्रज्ञया । यथाभूतमिति तु तथतायथावत् । सततसमितमिति सर्वकालमविच्छिन्नम् । अजीवम् इति प्राण-कर्त्राdi-viyukta-tvआदजीवम् । अजातमिति जातिरहितत्वात् । अभूतमिति स्थिति-रहितत्वात् । अकृतमिति कर्तुरभावात् । असंस्कृतमिति संस्कृत-लक्षण-रहितत्वात् । अप्रतिघमिति आवरण-रहितत्वात् । अनालम्बनमिति आलम्ब्यालम्बक-रहितत्वात् । शिवमिति शान्तत्वात् । अभयमिति तु उत्पादादि-भयरहितत्वात् । अनाहार्यमिति क्लेश-पारतन्त्र्य-रहितत्वात् । अव्ययमिति सततं व्यवस्थितत्वात् । अव्युपशममिति एकान्तशमगतिरहितत्वात् । ऽअसतःऽ स्कन्धात् पृथगन्याभावात् । तुच्छत इति मुक्तात्मनो ह्रस्वलोहवद् एकान्तस्य अभावात् । रिक्तत इति अन्तस्थित-स्वरूपात्मद्रव्याभावात् । असारत इति स्फरणात्मकताभावात् । रोगत इति रोगात्मक-स्कन्धात् पृथक्त्वाभावत् । गण्डत इति स्कन्धानतिरिक्तबाधकान्तरा-भावात् । अप्रतिघत इति कर्मक्लेशातिरिक्त-बाधकस्वरूपान्तराभावात् । अनित्यत इति सहोपपादविनाशः स्कन्धात् पृथगन्यन स्वभावात् । दुःखत इति संस्कारविपरिणामदुःखाभ्यां पार्थक्याभावात् । शून्यत इति कल्पना स्वभावतया अभूत-परिकल्पनायाः पृथकत्वाभावात् । अनात्मत इति स्कन्धानतिरिक्तमात्मद्रव्याभावात् ।
कर्त्रादिरहितस्तथा । तुच्छशून्यादिनिःसारः प्रज्ञयैवं य ईक्षितः । किं कथं वा कुतः केन कल्पवादादि हानितः। अनन्ताचिन्त्य गुण्यकम् । शान्तं धर्मात्मकं कायम् ।
तथतार्थं स एव पूर्वान्तं न प्रतिसरति इत्युक्तम् । किं न्वहमभूवमतीत इति नायं मोहोत्पादः । असंमोहे ज्ञानोत्पादत्वाद् अहमतीत एतन्नर-सदृशो ऽभूवमित्यादि च । अहं देवो वा गन्धर्वो वा किं सुखविहारो दुःखविहारो ऽभूवमित्ययं मोहोऽभाव एव । अहं सुगतौ दुर्गतौ वा, चिरम्, अचिरम् वा कथमभूवमिति मोहो ऽप्यभाव एव । अनागतान्ते न प्रतिसरति । किं न्वहं भविष्याम्यनागते ऽध्वनि इति च आहोस्विन्न भविष्यामि इति मोहो ऽप्यत्र नास्त्येव । किं न्वहं भविष्याम्यनागते ऽध्वनि इति अनागते ऽध्वनि देवो वा पिशाचो वा नरो वा किं वा भविष्यामीति अत्र मोहस्याप्यनुद्भव एव । सुखी वा दुःखी वा सुरूपो वा कुरूपो वा कथं भविष्यामि इति मोहो ऽप्यत्र नास्ति । अन्तरपि न प्रतिसरति इति अन्तर्न मुह्यति । किं न्विदमिति आत्मा निरात्मा वा इति । कथं न्विदमिति किं सरूपो ऽथवा विरूपो वेति मोहो ऽत्र नोद्भवति । के सन्त इति सुकृत-कर्मकारिणः दुष्कृत-कर्मकारिणो वेति न मोहोत्पादः । अयं सत्त्वो देवगतेर्नरगतेर्वा कुत आगत इतश्च्युतो देवेषु मनुष्येषु नरके प्रेते तिर्यञ्चि वा कुत्र गमिष्यतीति मोहो ऽत्र न सम्भवति । श्रमण-ब्राह्मणानां पृथग्लोके दृष्टिगतानि भविष्यन्ति इत्यादि । दृष्टिगतानि इति दृष्टिस्थानि । पृथगिति भिन्नमेव । तद्यथेति तु निदर्शनार्थम् । आत्मवाद-प्रतिसंयुक्तानीति स्कन्ध-व्यतिरिक्त-आत्मभावः । अविचारत आत्मात्मीयेति स्वभावात्मग्रह-संयुक्तत्वाद् आत्मवादप्रति-संयुक्तानीत्युक्तम् । विपरीतधारणा-समुत्थानार्थं पुद्गलवाद-प्रतिसंयुक्तानीत्यादि तु पुनर्गमनत्वात् पुद्गल इति स्कन्ध-व्यतिरिक्तः । यस्यामुं लोकं त्यक्त्वा परलोक-गमनस्य
परलोकं विहाय अमुं एतल्लोकगमनस्य चाभावात् ग्रहण-दुर्विपरीतग्रहणमित्युक्तम् । कौतुक-मङ्गलवाद-प्रतिसंयुक्तानीति । कौतुकस्तु लोकशिल्पस्थानं, यच्च विविधविद्यास्थाने उत्सव-आवाह-विवाह-कलह-युद्धैः, उद्यान-नदी-सागर-पर्वत-वनेषु तत्तद्-भिन्नेषु च आर्यस्य गमन-दर्शन-संक्रमण-प्रवृत्ति-आवासानुरमणक्रीडा-सुखा-स्वाद-नृत्य-गीत-पदालाप-धावन-लंघनैः, अद्भुत-पुरुष-स्त्री-दारक-दारिका-विग्रहकथा-वाद-प्रहेलिकोक्तिभिः, गजाश्वादि-योधनैः, दूर्वा-दधि-गोरोचना-क्षेत्रहल-मुद्गर-पुष्प-फल-कलश-शङ्ख-मत्स्या-दिभिः, ब्राह्मण-ऋषभ-चन्द्र-सूर्य-ग्रह-नक्षत्र-तारा-क्षण-योग-करणादिनैमित्तिका-दिभिः आत्मशुद्धयन्वेषणम् । विपरीतानेकाकार-प्रलम्ब-रज्जुलम्ब्ये ऽमार्गे मार्गसंज्ञा, अशुचौ शुचिसंज्ञा, अमुनौ मुनिसंज्ञया षड्जगच्चक्र-प्रविष्ट-बुद्धिमतो गमनं गम्यं च संसारमेवानुसरन्ति न तु निर्वाणमिति । तेषां सम्यक् प्रज्ञया दर्शने चतुर्विधविपर्यय-रहितत्वात् समुच्छिन्नमूलानि तालवृक्षमस्तकवदनाभासगतानि आयत्यामनुत्पाद-निरोधधर्माणि इति । तस्मादेवोक्तम् ।
तथा कश्चिच्च न च्युतः । जन्माभासो ऽप्यसंल्लोके
तस्माद् उदाहरणम्-
यथापादपसङ्गतः । वह्निस्त्रोतप्रवृत्तिः स्यात् हेतुवैकल्यतस्तथा । नानुप्रवर्तते ह्यग्निः
तथा इति यथा चन्द्रस्य रूपे दूरस्थिते ऽपि परीत्तजलभाजनेषु जले विपुलतैलपात्रेषु वा अवभासते । चन्द्ररूपसंक्रान्तिरनेकत्वं वापि नास्ति, तथापि अनेकजलपात्रेषु दृश्यते । एवम् अस्मान्न कश्चिच्च्युतो न गतो नागतो, हेतुप्रत्ययवैकल्यात् च्युति-गमनागमनावभासाः । तद्वज्जलभाजनवत् सत्त्वसन्तानस्य जगतः स्थानान्तरेषु बहुरूपेण चित्तचन्द्रबिम्बोत्पादः, हेतुप्रत्ययावैकल्यात् । कुशलाकुशलानेञ्ज्यादि-हेतोर्यथाक्षेपा तत्रावभासाकारा विज्ञप्तिरुद्भवति । आत्मात्मीयवियुक्तः सर्वभावेषु प्रतीत्यसमुत्पादक्रमो ऽवगन्तव्यः । अविच्छेदो - दाहरणम्- यथापादपसङ्गतः । वह्निस्त्रोतः प्रवृत्तिः स्यात् । कर्मक्लेश-लिप्त-चित्तसन्तानं वह्निस्त्रोतोनिबद्धमिन्धनं तु कर्मक्लेशत एव स्यादिति परीक्ष्यते । यथा - अग्नीन्धनहेतुकं ज्वलनम् अविच्छिन्नम् । इन्धनाभावे विच्छिन्नम्, तद्वद् अत्रापि कर्मक्लेशेन्धनमुच्छिद्य संक्लेशालय-विज्ञानबीजओ-सन्ताने ज्ञानाग्नि-संयोगाद् दग्धे सति हेतु-निरोधान् न फलोद्भवः । तस्मादेवोक्तम् - यान्येकेषां श्रमण-ब्राह्माणानां तद्यथा इति इतो बाह्यानाम् लोकस्तु लोकः ।
नश्यन्-नश्यन् गत्यर्थः, लुज्यतत्वाल्लोकः । विशीर्यमाण इत्यधिवचनम् । दृष्टिगतानीति दृग्दर्शनम् विपरीत-शास्त्रश्रवणचिन्तनादिमिथ्या-ज्ञानोद्भवं मिथ्या-ज्ञानं तु दृष्टिरित्युच्यते । पृथक् तु भिन्नम् । तद्यथा - आत्मवाद-प्रतिसंयुक्तानीत्यादि तु पञ्चोपादान-स्कन्धेषु रूप-वेदना-संज्ञा-संस्कार-विज्ञार्नोष्वति आत्मात्मीय-रहितेषु, आत्मत्वेन सम्यग्दृष्टिर्या क्लिष्टप्रज्ञा सा दृष्टिः । सत्कायान्तदृष्टि-शील-व्रत-मिथ्यादृष्टिपूर्वकं कुप्रज्ञाविद्यासंप्रयुक्तत्वाद् दृष्टिरिति । तदविद्यापूर्वकं रागप्रतिघाकाराविद्यादृष्टि-विचिकित्सोपक्लेश-संप्रयुक्तो दृष्टि-लक्षण-धात्वाकारभेदम् अनधिगम्य संक्लिष्टालय-विज्ञान-वासनावस्थित-तदाकार-विज्ञानावभासपोषणात् प्रागेव लोकोत्तर-मार्गाश्रितचतुरार्यसत्यभावना-भ्यासक्रमेण दुःख-समुदय-निरोध-मार्ग-दर्शन-भावना-विमुक्ति-विशेषानन्तरेण प्रहाण-साक्षात्कारः । यश्चापि सप्तत्रिंशद्बोधिपक्षधर्मस्मृत्युपस्थान-सम्यक्प्रहाण-ऋद्धिपाद-इन्द्रिय-बल-बोध्यङ्ग-मार्ग-प्रतीत्यसमुत्पाद-ध्यान-अरूपि-अप्रमाण-षडनुस्मृत्यादियधर्मपुद्गलनैरात्म्य-बोधिचित्तभावना-समाधि-धारणा-श्रद्धा-वीर्य-समाधि-प्रज्ञा-भूमि-वशीकारा-भिज्ञान-ज्ञान-पारमिता-विमुक्तिद्वार-क्षान्ति-भावनादि-क्रमेण लोकोत्तरमार्गानुगत-त्वाद् अधिमुक्तिचर्यायां प्रतिस्थाप्य निर्याण-प्रयोग-साक्षात्काराद् इन्द्रिय-बल-अभयओ-असंसृष्ट-प्रतिसंविद्-व्यञ्जन-महापुरुष-लक्षण-ऋद्धिपादादि भावनां परिपूर्य अनुत्तरसम्यक्-समवबोधावबोधात् शमथ-विपश्यनानुकूल-समभावो भावने ऽनन्ता-चिन्त्यगुण्यं शान्तस्वभावकायं, आदिमध्यान्तवर्जितं, ज्ञात्वा प्राप्नोति बुद्धत्वम् इत्युक्तम् । तत्र रूपस्कन्धस्तु रूपावभासाकार-विज्ञप्त्यवभास-विकल्पोद्भूतो ऽनेक-द्रव्यात्मको भूतभौतिक-रूप-लक्षण एकादशओ-सामान्यात्मक-पञ्चद्रव्याकारारोप-संघट्टितः चक्षुः-श्रोत्रादिरूप-शब्दादिकाम-रूप-अरूप-प्रतिसंयुक्ताभूतपरिकल्पना-लक्षणः स्कन्धो धात्वायतन-इन्द्रिय-विज्ञान-विषयात्मको ऽथ च तादृगन्यतादृग्रूप-लक्षणो धर्मस्तु रूपस्कन्ध इति ।
तत्र वेदनास्कन्ध इति सुख-दुःखोभयाकारेण आस्वादाकार-विज्ञप्त्यवभासः । विषयेन्द्रियविज्ञानभेदेन वेदना षट्काया । धात्वाकारविशेषभेदेन क्लेशोप-क्लेशसंप्रयुक्तत्वाद् अनन्ताः प्रभेदाः स्युः । सुख-दुःख-सौमनस्य-दौर्मनस्यो-पेक्षान्वितत्वात् षडाकारमात्मद्रव्यमेव अभूतसंकल्प-विकल्पालय-विज्ञानवासनोप-निबद्धत्वाद् राग-द्वेष-मोहादित्रिधातु-विकल्पवशोद्भूत-द्रव्य-संगृहीतत्वाद् वेदना-स्कन्ध इति । संज्ञा सूक्ष्म-स्थूल-महाङ्गतादि-चित्रीकाराव-भासाकार-विज्ञप्ति-र्विकल्पनावशोद्भूत-पूर्वहसन-नन्दन-क्रीडनादि-काननुस्मृत्य स्त्री-पुरुषादि-निमित्तविशेषग्रहणात्मिका विषयेन्द्रिय-विज्ञानभेदेन षट्काया संज्ञा । राग-द्वेष-मोह-निबन्धनत्वाद् धात्वाकार-विशेषभेदेन तु अनन्तप्रसरा । संक्लिष्टस्यालयविज्ञान-वासना-सम्बन्धत्वाद् आत्ममोहादि-संयुक्तात्मता तु संज्ञेति । संस्कारस्तु संप्रयुक्ता-प्रयुक्त-प्रज्ञप्ति-संस्कृता-संस्कृतावभासांकार-विज्ञप्तिः-विकल्पनावशेनोद्भूतः । पूर्वाक्षिप्तालय-विज्ञानाद् अस्तित्व-वासना-भेदेन तु धातोः आकार-विशेषानन्त-प्रसरान्वितस्य संस्कार-स्कन्ध-संगृहीतत्वात् संस्कारस्कन्ध इति । तत्र विज्ञान-स्कन्धस्त्वष्टविधः । विषयेन्द्रिय-विज्ञानानां विशिष्टावभासाकार-विज्ञप्तिः । विकल्पनावशोद्भूतालय-विज्ञानस्य वासनोपनिबद्धत्वाद् धातोराकार-विशेष-भेदेनानन्तप्रसरो हि विज्ञानस्कन्ध इति ।
तेषामप्येवं धात्वायतन-सास्रव-संस्कृत-संक्लेशादि-पर्यायभेदेन स्व-लक्षणसम्बन्धेन संक्षिप्य स्कन्धो धातुरायतनमिति । एवं संक्लिष्टालयविज्ञान-बीजान्विता अभूतसंकल्पसमुत्त्थत्रैधातुकोद्गतास्ते चित्तचैतसिकादयस्तु संसार इति । तथापि तत्र आदावेव कर्त्रादिरहितो रिक्तस्तुच्छो ऽसार इति विदित्वा चतुरार्यसत्य-भावनानुलोमप्रवृत्त्या निर्णीतो लोकोत्तर-ज्ञानाग्नि-समुद्भूतो-ऽविद्यान्धकारादि-रहितो हेतुप्रत्ययार्थतथतापरिज्ञानात् शान्तो धर्मकायो ऽवगम्यते ।
तस्माद् दुःख-समुदय-निरोध-मार्ग-दर्शन-भावनामार्गक्रमः। तत्र दुःख-सत्यम्-अनित्यता-दुःखता-शून्यता-नैरात्म्य-सम्यगनुदर्शनज्ञानेन क्षान्त्i-mukti-prahआण-विशेषानान्तर्यज्ञानेन च तद्-दुःखमवगम्य क्लेशालयविज्ञानवासनां संनिहत्य पुद्गलधर्मनैरात्म्यम् अवबुध्य, त्रैधातुकावभासिताभूतसंकल्पोद्भूतं अस्मिन् चित्तमात्रे माया-मरीचि-गन्धर्वनगर-अलातचक्र-प्रतिश्रुत्क-उदकचन्द्र-प्रतिबिम्बवद् विभावने, स्कन्धादौ धातौ आयतने च ग्राह्य-ग्राहकतां विहाय धर्मनैरात्म्यसमतायां प्रविशे, स्वचित्तमेव आद्यमनुत्पन्नमिति शून्यज्ञानप्रवेशे, सर्वधर्मनिःस्वभावताज्ञानस्य करुणामूलक-बोधिचित्तस्य हेतूभूत-विविधोपाय-पुण्यज्ञानसम्भारसंचये दशपारमिताहेतुभिः दशभूम्याधार दशज्ञानालम्बन-दशवशिताफलान्विते ऽनन्ताचिन्त्य-गुणाकारः शान्तधर्मकायो ऽवबुध्यते । एवं समुदय-सत्य-समुदय-हेतु-प्रभव-प्रत्यय-आनन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शन-अनुलोम-प्रतिलोम-भावनाकारेण संक्लिष्ट-आलयविज्ञान-वासना-मल-रहितत्वे शान्तधर्मकाये प्रवेशः । निरोध-सत्ये ऽपि निरोध-शान्त-प्रणीत-निःसरणता-आनन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शन-भावनामार्गक्रमेण संक्लिष्टा-लयविज्ञानवासनासमुद्घातेन आनन्तर्य-प्रहाण-विमुक्ति-विशेष-भावनया पुद्गल-धर्मनैरात्म्याधिगमे शान्तधर्मकायप्राप्तिः । हेतुप्रत्ययओ-रहितत्वात् मार्गसत्ये ऽपि मार्ग-न्याय-प्रतिपत्ति-नैर्याणिक-सन्दर्शने एवं दर्शन-भावना-आनन्तर्य-प्रहाण-विमुक्ति-विशेषमार्गानुकूलतायै आलयविज्ञाने विद्यमानां वासनां संनिहत्य पुद्गलधर्म-नैरात्म्य-समतावबोधात् त्रिकायाधिष्ठान-शान्त-धर्मकायस्याचिन्त्या-प्रमेयगुण-गणस्य आदिमध्यान्तरहितस्य अविच्छिन्न-नाभोगकरणात्मक-सर्वार्थानां अनुत्तरं सर्वज्ञत्वं प्राप्नोति । अपि चोक्तम् -
य एवं तथताक्षमः । तस्मै व्याक्रियते नूनं
य एवमनन्तरोक्त-प्रतीत्यसमुत्पाद-पुद्गलधर्मनैरात्म्य-तत्त्व-क्षम इच्छति, स एव पुद्गलधर्मनैरात्म्यक्षमतान्वितत्वाद् अनुत्तरसम्यक्सम्बोधिं व्याकृतवत् पश्येत्, जानीयाच्चेत्यर्थः । तस्मात् सूत्रे- यो भदन्त शारिपुत्र कुलपुत्रो कुलदुहिता वा एवंविध-धर्मक्षान्ति-समन्वितः, तस्य तथागतो ऽर्हत् सम्यक्सम्बुद्धो ऽनुत्तरः सम्यक्सम्बोधिं व्याकरोति इत्युक्तम् ।
मैत्रेयस्तु स्वयं तथा । उवाच शारिपुत्राय
एवम् शारिपुत्रो बोधिसत्त्वो मैत्रेयमपृच्छत् । बोधिसत्त्वो मैत्रेयो ऽपि शालिस्तम्बोपमा कृता इदं सूत्रम् विस्तरेण विभज्य भाषितवान् । बोधिसत्त्वमैत्रेयेण भाषितां शालिस्तम्बोपमां कृत्वा शारिपुत्रस्तु तच्छ्रुत्वा इति शालिस्तम्बोपमा कृता । संस्तुतो धृत सारश्च देवसंघान् इति । धृतसार इति धर्मार्थतथतावबोधत्वात् सारग्रहणम् । देवसंघानिति देव-नाग-यक्ष-गन्धर्व-आदि-सहितान् । अनुमोदितेति अनुमोद्य । सःस्तुत इति त्वया यथोक्तः तथैव अस्ति नान्यथेति, अवधारयन् निर्जातत्वात् ।
गत्वोत्त्थाय प्रहर्षितः । आख्यातवांश्च भिक्षुभ्यः
तस्मादेव सूत्रे- अथ आयुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य भाषितम् अभिनन्द्य उत्थायासनात् प्रक्रान्त इत्युक्तम् । मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन एवमुक्तं मैत्रेयेण बोधिसत्त्वेन, एवमिति शारिपुत्रेण कथितम् । अनुमोदितम् । शारिपुत्रः तच्छुत्वा प्रहर्षितः सन्तुष्ट इत्यर्थः । गत्वा भिक्षुभ्यो गम्भीरोदाराद्भुतं सूत्रं यथाश्रुतवत् सर्वसत्त्वहिताय भाषितम् ।
शालिस्तम्बस्य सूत्रस्य विस्तराख्या सुभद्रिका । हीनबुद्धि प्रबोधार्थं शतैर्द्वादशभिः कृता ।
आचार्यनागार्जुनेन विरचिता शालिस्तम्बकविस्तराख्याटीका समाप्ता ।
भारतीयोपाध्यायेन धर्मश्रीभद्रेण लोकचक्षुषा भदन्तसाधुमतिना ज्ञान कुमारेण चानूदिता । महासंशोधक-लोकचक्षुषा भदन्त-श्रीकुटीरेण संशोध्य निर्णीता ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
