Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

युक्तिषष्टिककारिका-fragments

Tác giả
नागार्जुन
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नागार्जुन: युक्तिषष्टिककारिका-fragments

अस्तिनास्तिव्यतिक्रान्ता बुद्धिर् येषां निराश्रया । गम्भीरस् तैर् निरालम्बः प्रत्ययार्थो विभाव्यते ॥ nagysk_01

...

संसारं चैव निर्वाणं मन्यन्ते ऽतत्त्वदर्शिनः । न संसारं न निर्वाणं मन्यन्ते तत्त्वदर्शिनः ॥ nagysk_05

निर्वाणं च भवश् चैव द्वयम् एतन् न विद्यते । परज्ञानं भवस्यैव निर्वाणम् इति कथ्यते ॥ nagysk_06

...

तत् तत् प्राप्य यद् उत्पन्नं नोत्पन्नं तत् स्वभावतः । स्वभावेन यन् नोत्पन्नम् उत्पन्नं नाम तत् कथम् ॥ nagysk_19

...

सर्वम् अस्तीति वक्तव्यम् आदौ तत्त्वगवेषिणः । पश्चाद् अवगतार्थस्य निःसङ्गस्य विविक्तता ॥ nagysk_30

...

ममेत्य् अहम् इति प्रोक्तं यथा कार्यवशाज् जिनैः । तथा कार्यवशात् प्रोक्ताः स्कन्धायतनधातवः ॥ nagysk_33

महाभूतादि विज्ञाने प्रोक्तं समवरुध्यते । तज्ज्ञाने वगमं याति ननु मिथ्या विकल्पितम् ॥ nagysk_34

...

हेतुतः संभवो यस्य स्थितिर् न प्रत्ययैर् विना । विगमः प्रत्ययाभावात् सो ऽस्तीत्य् अवगतः कथम् ॥ nagysk_39

...

रागद्वेषोद्भवस् तीव्रदुष्टदृष्टिपरिग्रहः । विवादास् तत्समुत्थाश् च भावाभ्युपगमे सति ॥ nagysk_46

स हेतुः सर्वदृष्टीनां क्लेशोत्पत्तिर् न तं विना । तस्मात् तस्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः ॥ nagysk_47

परिज्ञा तस्य केनेति प्रतीत्योत्पाददर्शनात् । प्रतीत्य जातं चाजातम् आह तत्त्वविदां वरः ॥ nagysk_48

...

बालाः सज्जन्ति रूपेषु वैराग्यं यान्ति मध्यमाः । स्वभावज्ञा विमुच्यन्ते रूपस्योत्तमबुद्धयः ॥ nagysk_55

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

copyright (c) 2003 by chr. lindtner - denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.