Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

विग्रहव्यावर्तनीकारिका

Tác giả
नागार्जुन
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नागार्जुन: विग्रहव्यावर्तनीकारिका

विग्रहव्यावर्तनी-कारिका ॥

सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् । त्वद्वचनम् अस्वभावं न निवर्तयितुं स्वभावम् अलम् ॥ nagvvy_01

अथ सवभावम् एतद् वाक्यं पूर्वा हता प्रतिज्ञा ते । वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः ॥ nagvvy_02

मा शब्दवद् इत्य् एतत् स्यात् ते बुद्धिर् न चैतद् उपपन्नम् । शब्देन ह्य् अत्र सता भविष्यतो वारणं तस्य ॥ nagvvy_03

प्रतिषेधप्रतिषेधो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव । एवं तव प्रतिज्ञा लक्षङतो दूष्यते न मम ॥ nagvvy_04

प्रत्यक्षेण हि तावद् यद्य् उपलभ्य विनिवर्तयसि भावान् । तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ nagvvy_05

अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च । अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् च ॥ nagvvy_06

कुशलानां धर्मावस्थाविदश् च मन्यन्ते । कुशलं जनाः स्वभावं शेषेष्व् अप्य् एष विनियोगः ॥ nagvvy_07

नैर्याणिकस्वभावो धर्मा नैर्याणिकाश् च ये तेषाम् । धर्मावस्थोक्तानाम् एवं अनैर्याणिकादीनाम् ॥ nagvvy_08

यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्य् एवम् । नामापि भवेन् नैवं नाम हि निर्वस्तुकं नास्ति ॥ nagvvy_09

अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् । धर्मैर् विना स्वभावः स यस्य तद् युक्तम् उपदेष्टुम् ॥ nagvvy_10

सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् । दृष्टः प्रतिषेधो ऽयं सतः स्वभावस्य ते तस्मात् ॥ nagvvy_11

अथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन । वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः ॥ nagvvy_12

बालानां इव मिथ्या मृगतृष्नायां यथाजलग्राहः । एवं मिथ्याग्राहः स्यात् ते प्रतिषेध्यतो ह्य् असतः ॥ nagvvy_13

नन्व् एवं सत्य् अस्ति ग्राहो ग्राह्यं च तद्ग्रहीता च । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् ॥ nagvvy_14

अथ नैवास्ति ग्राहो नैव ग्राह्यं न च ग्रहीतारः । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारो ननु स सन्ति ॥ nagvvy_15

प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश् च यद्युत न सन्ति । सिद्धा हि सर्वभावास् तेषम् एव स्वभावश् च ॥ nagvvy_16 हेतोश् च ते न सिद्धिर् नैःस्वाभाव्यात् कुतो हि ते हेतुः । निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य ॥ nagvvy_17

यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति । स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ॥ nagvvy_18

अथ हेतोर् अस्तित्वं भावास्वाभाव्यम् इत्य् अनुपपन्नम् । लोकेषु निःस्वभावो न हि कश् चन विद्यते भावः ॥ nagvvy_19

पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इत्य् अनुपपन्नम् । पश्चाच् चानुपपन्नो युगपच् च यतः स्वभावः सन् ॥ nagvvy_20

हेतुप्रत्ययसामग्र्यां च पृथक् चापि मद्वचो न यदि । मनु शून्यत्वं सिद्धं भावानाम् अस्वभावत्वात् ॥ nagvvy_21

यश् च प्रतीत्यभावो भावानां शून्यतेति सा प्रोक्ता । यश् प्रतीत्यभावो भवति हि तस्यास्वभावत्वम् ॥ nagvvy_22

निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् । प्रतिषेधयेत यद्वत् प्रतिषेधो ऽयं तथैव स्यात् ॥ nagvvy_23

न स्वाभाविकम् एतद् वाक्यं तस्मान् न वादहानिर् मे । नास्ति च वैषमिकत्वं विशेषहेतुश् च न निगद्यः ॥ nagvvy_24

मा शब्दवद् इति नायं दृष्टान्तो यस् त्वया समारब्धः । शब्देन हि तच् छब्दस्य वारणं नैवम् एतच् च ॥ nagvvy_25

नैःस्वाभाव्यानां चेन् नैःस्वाभाव्येन वारणं यदि हि । नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ nagvvy_26

अथ वा निर्मितकायां यथा स्त्रियां स्त्रीयम् इत्य् असद्ग्राहम् । निर्मितकः प्रतिहन्यात् कस्य चिद् एवं भवेद् एतत् ॥ nagvvy_27

अथ वा साध्यसमो ऽयं हेतुर् न हि विद्यते ध्वनेः सत्ता । संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥ nagvvy_28

यदि का चन प्रतिज्ञा स्यान् मे तत एष मे भवेद् दोषः । नास्ति च मम प्रतिज्ञा तस्मान् नैवास्ति मे दोषः ॥ nagvvy_29

यदि किं चिद् उपलभेयं प्रवर्तयेयं निवर्तयेयं वा । प्रत्यक्षादिभिर् अर्थैस् तदभावान् मे ऽनुपालम्भः ॥ nagvvy_30

यदि च प्रमाणतस् ते तेषां तेषां प्रसिद्धिर् अर्थानाम् । तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम् ॥ nagvvy_31

अन्यैर् यदि प्रमाणैः प्रमाणसिद्धिर् भवेत् तद् अनवस्था । नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य ॥ nagvvy_32

तेषाम् अथ प्रमाणैर् विना प्रसिद्धिर् विहीयते वादः । वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः ॥ nagvvy_33

विषमोपन्यासो ऽयं न ह्य् आत्मानं प्रकाशयत्य् अग्निः । न हि तस्यानुपलब्धिर् दृष्टा तमसीव कुम्भस्य ॥ nagvvy_34

यदि च स्वात्मानम् अयं त्वद्वचनेन प्रकाशयत्य् अग्निः । परम् इव नन्व् आत्मानं स्वं परिधक्ष्यत्य् अपि हुताशः ॥ nagvvy_35

यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्य् अग्निः । प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ nagvvy_36

नास्ति तमश् च ज्वलने यत्र च तिष्ठति परात्मनि ज्वलनः । कुरुते कथं प्रकाशं स हि प्रकाशो ऽन्धकारवधः ॥ nagvvy_37

उत्पद्यमान एव प्रकाशयत्य् अग्निर् इत्य् असद्वादः । उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः ॥ nagvvy_38

अप्राप्तो ऽपि ज्वलनो यदि वा पुनर् अन्धकारम् उपहन्यात् । सर्वेषु लोकधातुषु तमो ऽयम् इह संस्थितो हन्यात् ॥ nagvvy_39

यदि स्वतश् च प्रमाणसिद्धिर् अनपेक्ष्य तव प्रमेयाणि । भवति प्रमाणसिद्धिर् न परापेक्षा स्वतःसिद्धिः ॥ nagvvy_40

अनपेक्ष्य हि प्रमेयान् अर्थान् यदि ते प्रमाणसिद्धिर् इति । न भवन्ति कस्य चिद् एवम् इमानि तानि प्रमाणानि ॥ nagvvy_41

अथ मतम् अपेक्ष्य सिद्धिस् तेषाम् इत्य् अत्र भवति को दोषः । सिद्धस्य साधनं स्यान् नासिद्धो ऽपेक्षते ह्य् अन्यत् ॥ nagvvy_42

सिध्यन्ति हि प्रमेयाण्य् अपेक्ष्य यदि सर्वथा प्रमाणानि । भवति प्रमेयसिद्धिर् नापेक्ष्यैव प्रमाणानि ॥ nagvvy_43

यदि च प्रमेयसिद्धिर् नापेक्ष्यैव भवति प्रमाणानि । किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥ nagvvy_44

अथ तु प्रमाणसिद्धिर् भवत्य् अपेक्ष्यैव ते प्रमेयाणि । व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥ nagvvy_45

अथ ते प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या च । भवति प्रमाणसिद्धिर् नास्त्य् उभयस्यापि ते सिद्धिः ॥ nagvvy_46

सिध्यन्ति हि प्रमाणैर् यदि प्रमेयाणि तानि तैर् एव । साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति ॥ nagvvy_47

सिध्यन्ति च प्रमेयैर् यदि प्रमाणानि तानि तैर् एव । साध्यानि च प्रमाणैस् तानि कथं साधयिष्यन्ति ॥ nagvvy_48

पित्रा यद्य् उत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण । उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ nagvvy_49

कश् च पिता कः पुत्रस् तत्र त्वं ब्रूहि ताव् उभाव् अपि च । पितृपुत्रलक्षणधरौ यतो भवति नो ऽत्र संदेहः ॥ nagvvy_50

नैव स्वतः प्रसिद्धिर् न परस्परतः परप्रमाणैर् वा । न भवति न च प्रमेयैर् न चाप्य् अकस्मात् प्रमाणानां ॥ nagvvy_51

कुशलानां धर्माणां धर्मावस्थाविदो ब्रुवीरन् यत् । कुशलं स्वभावम् एवं प्रविभागेनाभिधेयः स्यात् ॥ nagvvy_52

यदि च प्रतीय कुशलः स्वभाव उत्पद्यते स कुशलानाम् । धर्माणां परभावः स्वभाव एवं कथं भवति ॥ nagvvy_53

अथ न प्रतीत्य किं चित् स्वभाव उत्पद्यते स कुशलानाम् । धर्माणम् एवं स्याद् वासो न ब्रह्मचर्यस्य ॥ nagvvy_54

नाधर्मो धर्मो वा संव्यवहाराश् च लौकिका न स्युः । नित्याश् च सस्वभावाः स्युर् नित्यत्वाद् अहेतुमतः ॥ nagvvy_55

एवम् अकुशलेष्व् अव्याकृतेषु नैर्याणिकादिषु च दोषः । तस्मात् सर्वं संस्कृतम् असंस्कृतं ते भवत्य् एव ॥ nagvvy_56

यः सद्भूतं नामात्र ब्रूयात् सस्वभाव इत्य् एवम् । भवता प्रतिवक्तव्यो नाम ब्रूमश् च न वयं सत् ॥ nagvvy_57

नामासद् इति च यद् इदं तत् किं नु सतो भवत्य् उताप्य् असतः । यदि हि सतो यद्य् असतो द्विधापि ते हीयते वादः ॥ nagvvy_58

सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् । स उपालम्भस् तस्माद् भवत्य् अयं चाप्रतिज्ञायाः ॥ nagvvy_59

अथ विद्यते स्वभावः स च धर्माणां न विद्यत इतीदम् । आशङ्कितं यद् उक्तं भवत्य् अनाशङ्कितं तच् च ॥ nagvvy_60

सत एव प्रतिषेधो यदि शून्यत्वं ननु प्रसिद्धम् इदम् । प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ nagvvy_61

प्रतिषेधयसे ऽथ त्वं शून्यत्वं तच् च नास्ति शून्यत्वम् । प्रतिषेधः सत इति ते नन्व् एष विहीयते वादः ॥ nagvvy_62

प्रतिषेधयामि नाहं किं चित् प्रतिषेध्यम् अस्ति न च किं चित् । तस्मात् प्रतिषेधयसीत्य् अधिलय एष त्वया क्रियते ॥ nagvvy_63

यच् चाहर्ते वचनाद् असतः प्रतिषेधवचनसिद्धिर् इति । अत्र ज्ञापयते वाग् असद् इति तन् न प्रतिनिहन्ति ॥ nagvvy_64

मृगतृष्णादृष्टान्ते यः पुनर् उक्तस् त्वया महांश् चर्चः । तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥ nagvvy_65

स यदि स्वभावतः स्याद् ग्राहो न स्यात् प्रतीत्य संभूतः । यश् च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ nagvvy_66

यदि च स्वभावतः स्याद् ग्राहः कस् तं निवर्तयेद् ग्राहम् । शेषेष्व् अप्य् एष विद्धिस् तस्माद् एषो ऽनुपालम्भः ॥ nagvvy_67

एतेन हेत्वभावः प्रत्युक्तः पूर्वम् एव स समत्वात् । मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक् ॥ nagvvy_68

यस् त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वम् एव स समत्वात् । त्रैकाल्यप्रतिहेतुश् च शून्यतावादिनां प्राप्तः ॥ nagvvy_69

प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः । प्रभवति न तस्य किं चिन् न प्रभवति शून्यता यस्य ॥ nagvvy_70

यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदं च । एकार्थां निजगाद प्रणमामि तम् अप्रतिमबुद्धम् ॥ nagvvy_71

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

copyright (c) 2003 by chr. lindtner - denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.