Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
विग्रहव्यावर्तनी
- Tác giả
- नागार्जुन
- Thông tin
- GRETIL — Yoshiyasu Yonezawa: "Vigrahavyāvartanī, Sanskrit Transliteration and Tibetan Translation", Journal of Naritasan Institute for Buddhist Studies 31 (2008), pp. 209-333. = Vv.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
नागार्जुन: विग्रहव्यावर्तनी
॥ नमो बुद्धय ।
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् / त्वद्वचनम् अस्वभावं न निवर्तयितुम् स्वभावम् अलं // nagvv_1 //
यदि सर्वेषां भावानां हेतौ प्रत्ययेषु च हेतुप्रत्ययसामग्राञ् च पृथक् च यत्र सर्वत्र स्वभावो न विद्यत इति कृत्वा शून्याः सर्वभावा इति । न हि बिजे हेतुभूते ऽङ्कुरो स्ति । न पृथिव्यप्तेजोवाय्वादिनाम् एकेकस्मिन् प्रत्ययसंज्ञिते । न प्रत्ययेषु समग्रेषु न हेतुप्रत्ययेषु समग्रेषु न हेतुप्रत्ययसामग्रां न हेतुप्रत्ययविनिर्मुक्तः पृथग् एव वा । यस्माद् अत्र स्वभावो नास्ति तस्मान् निःस्वभावो ऽङ्कुरः । यस्मान् निःस्वभावः तस्मात् शून्यः । यथा चायम् अङ्कुरो निःस्वभावो निःस्वभावाच् च शून्यः तथा सर्वभावा निःस्वभावत्वाच् छून्य इति ।
अत्र वयं ब्रूमः । यद्य् एवं तवापि वचनं यद्य् एतच् छून्याः सर्वभावा इति तद् अपि शून्यं । किं कारणं तद् अपि हेतौ नास्ति । महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति । उरःकण्थोष्ठजिह्वादन्तमूलतालुनासिकामूर्धप्रभृतिषु यन् नैवोभयसामग्र्याम् अस्ति । हेतुप्रत्ययसमग्रीविनिर्मुक्तं पृथग् एव वा नास्ति । यस्माद् अत्र सर्वत्र नास्ति । तस्मान् निःस्वभावं । यस्मान् निःस्वभावं । तस्माच् छून्यं । तस्माद् अनेन सर्वभावस्वभावव्यवर्तनम् अशक्यं कर्तुं । किं कारणंन् । न ह्य् असदग्निना दग्धं । नाप्य् असता शास्त्रेण शक्यं छेत्तुं । नासतीभिर् अत्भिः शक्यं क्लेदयितुम् एवम् असत्ता वचनेन शक्यः सर्वभावस्वभावप्रतिषेधः कर्तुं न शक्यः सर्वभावस्वभावो निवर्तयितुं । तत्र यद् उक्तं सर्वभावस्वभावः प्रतिषिधः सर्वत्र भावस्वभावो विनिवर्तत इति । तन् न ॥
अथ सस्वभावम् एतद् वाक्यं पूर्वा हत प्रतिज्ञा ते / वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः // nagvv_2 //
अथापि मन्यसे मा भूद् एष दोष इति सस्वभावम् एतद् वाक्यं । सस्वभावत्वाच् चाशून्यं । तस्माद् अनेन सर्वभावस्वभावः प्रतिषिद्धः सर्वभावस्वभावो विनिवर्त इति ॥
अत्र ब्रूमः । या हि ते प्रतिज्ञा शून्याः स्वभावा इति । हता शा ॥ किञ्चान्यत् सर्वभावान्तर्गतञ् च तद्वचनम् । कस्मात् सर्वभावेषु त्वद्वचनम् अशून्यं येनाशून्यत्वात् सर्वभावस्वभावः प्रतिषिद्धः ॥ एवं षट्कोटिको वादः प्रसक्तः । स पुनः कथम् इति ।
हन्त चेत् पुनः शून्याः सर्वह्हावास् तेन त्वद्वचनं शून्यम् सर्वभावान्तर्गतत्वात् त्वद्वचनस्य । तेन शून्येन प्रतिषेधानुपपत्तिः । तत्र यः प्रतिषेधः शून्याः सर्वभाव इति अनुपपन्नः । 1 । उपपन्नश् चेत् पुनः शून्याः सर्वभावा इति प्रतिषेधस् तेन त्वद्वचनशून्यत्वाद् अनेन प्रतिषेधो अनुपपन्नः । 2 । अथ शून्याः सर्वभावास् त्वद्वचनञ् चाशून्यः येन प्रतिषेधस् तेन त्वद्वचनं सर्वत्रासंगृहीतं । (vv 222) तत्र दृष्टान्तविरोधः । 3 । सर्वत्र चेत् पुनः गृहीतं त्वद्वचनं सर्वभावाश् च शून्याः । तेन तद् अपि शून्यं शून्यत्वाद् अनेन नास्ति प्रतिषेधः । 4 । अथ शून्यम् अस्ति वानेन प्रतिषेधः शून्यः सर्वभावा इति तेन शून्यापि सर्वभावाः कार्यक्रियासमर्था समर्थभवेयुः । न चैतद् इष्टं । 5 । अथ शून्याः सर्वभावाः न च कार्यं क्रियासमर्थं भवंति मा भूत् दृष्टान्तविरोध इति कृत्वा शून्येन त्वद्वचनेन सर्वभावास्वभावो प्रतिषेधो नोपपन्न इति । 6 ।
किञ्चान्यत् । एवं तदस्तित्वात् वैषमिकत्वप्रसङ्गः । किञ्चित् शून्यं किञ्चिद् अशून्यम् इति । तस्मिंश् च वैसमिकत्वे विशेषहेतुर् वक्तव्यः । येन हि विशेषहेतुना किञ्चित् शून्यं किञ्चिद् अशून्यं स्यात् । स च नोपदिष्टो हेतुः । तत्र यद् उक्तं शून्याः सर्वभावा इति तन् न ॥
किञ्चान्यत्
मा शब्दवद् इत्य् एतत् स्यात् ते बुद्धिर् न चैतद् उपपन्नम् / शब्देनात्र सता भविष्यतो वारणं तस्य // nagvv_3 //
स्यात् ते बुद्धिः यथा नाम कश्चित् ब्रूयात् मा शब्दं कार्षीर् मा शब्दं कार्षीर् इति । तेन च शब्देन व्यावर्तनं क्रियते । एवम् एव शून्याः सर्वभावा इति । शून्येन वचनेन सर्वता सर्वभावस्वभावव्यावर्तनं क्रियत इति ।
अत्र वयं ब्रूमः । एतद् अप्य् अनुपपन्नं किं कारणं । सता ह्य् अत्र शब्देन ह्य् अत्र भविष्यतः शब्दस्य प्रतिषेधः क्रियते । न पुनर् इह भवतः सता वचनेन सर्वभावस्वभावप्रतिषेधः क्रियते । तव हि मतेन वचनम् अप्य् असत् । सर्वभावस्वभावो ऽप्य् असत् । तस्माद् अयं मा शब्दवद् इति विषयोपन्यासो ऽसन्न् इति ॥
किञ्च
प्रतिप्रतिषेध्यो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव / एवं तव प्रतिज्ञ लक्षणतो दूष्यते न मम // nagvv_4 //
स्यात् ते बुद्धिः प्रतिषेधः प्रतिषेध्यो ऽप्य् अनेनैव कल्पेनानुपपन्नः । तत्र यद् भवान् सर्वभावस्वभावप्रतिषेधशूचनं प्रतिषेधयति । तद् अनुपपन्नम् इति ।
अत्र वयं ब्रूमः । एतद् अशब्देन सद् एव । कस्मात् तव च हि प्रतिज्ञालक्षणप्राप्तम् एतन् न मम भवान् इह ब्रवीति । शून्याः सर्वभावा इति नाहं । तस्मात् त्वत्प्रतिज्ञान् न(?)पयामि । पूर्वकः पक्षो न मम । तत्र यद् उक्तं प्रतिषेधः प्रतिषेध्यो ऽप्य् एवं मतम् इति । उपपन्नंम् इति ॥ तन् न ।
किञ्चान्यत् ।
प्रत्यक्षेण हि तावद् यद्य् उपलभ्य विनिवर्तयसि भावान् / तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते // nagvv_5 //
यदि प्रत्यक्षतः सर्वभावान् उपलभ्य भवान् निवर्तयति शून्याः सर्वभावा इति । तद् अनुपपन्नं । कस्मात् प्रत्यक्षम् अपि हि प्रमाणं स्वभावान्तर्गतत्वात् शून्यं । यो ऽपि सर्वभावान् उपलभते सो ऽपि शून्यस् तस्मात् प्रत्यक्षेण प्रमाणेन नोपलम्भभावो अनुपलब्धस्य च प्रतिषेधानुपपत्तिः शून्यः सर्वभावा इति । तद् अनुपपन्नं
स्यात् ते बुद्धिः । अनुमानेनागमेनोपानेन वा सर्वभावान् उपलभ्य सर्वभावव्यावर्तनं क्रियत इति ॥
अत्र ब्रूमः ।
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च / अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् च // nagvv_6 //
अनुमानम् अप्य् उपमानागमाश् च प्रत्यक्षेण प्रमाणेन प्रत्युक्ताः । यथा हि प्रत्यक्षं प्रमाणं शून्यं सर्वभावानां शून्यत्वात् । एवम् अनुमानमोपमागमापि शून्याः । सर्वभावानां शून्यत्वात् । ये ऽप्य् अनुमानसाध्यार्था आगमसाध्या उपमानसाध्याश् च । ते ऽपि शून्याः सर्वभावानां शून्यत्वात्* अनुमानोपमानागमैश् च यो ऽपि भावान् उपलभते सो ऽपि शून्यः तस्मात् ब्बावानाम् उपलम्भाभावो ऽनुपलब्धानाञ् च स्वभावप्रतिषेधानुपपत्तिः । तत्र यद् उक्तं शून्याः सर्वभावा इति । तन् न ॥
किञ्चान्यत् ।
कुशलानां धर्माणां धर्मावस्थविदश् च मन्यन्ते / कुशलं जनस्वभावं शेषेष्व् अप्य् एष विनियोगः // nagvv_7 //
इह धर्मावस्थाविदो मन्यन्ते कुशलानां धर्माणाम् एकोनविंशं शतं । तद्यथा एकदेशो विज्ञानस्य वेदनायाः । संज्ञायाश् चेतनायाः । स्पर्शस्य मनसिकारस्य छन्दस्याधिमोक्षस्य वीर्यस्य स्मृतेः समाधेः प्रज्ञाया उपेक्षायाः प्रयोगस्य संप्रयोगस्य प्राप्तो ऽध्याशयस्य प्रतिविरतेः व्यवसाया औत्सुक्यस्य । उन्मूर्धे उत्साहस्य अव्यार्त्यस्य वसितायाः प्रतिपत्तेर् अविप्रतीसारस्य धृतेर् अध्यवसायस्य । अनौक्षेकस्य अननुमूढ्यनुत्सारस्य । प्रापणायाः प्रणिधेः मदस्य विषयानां विप्रयोगस्य । अनिर्याणिकताया उत्सादस्य । स्थितेर् अनित्यतायाः समर्थागतस्य जरायाः परिद्रास्यतारतेः । वितर्कानां प्रीतेः प्रमादस्य अप्रस्रब्धेः । व्यवहारतायाः । प्रेक्षुप्रतिकूलस्य प्रदक्षिणग्राहस्य वैशारद्यगौरवस्य चित्रीकारस्य (vv 234) भक्तेर् अभक्तेः सुश्रूषायाः सादरस्यानादरस्य प्रस्रब्धेः । हासस्य वाचः विष्पन्दनायाः सिद्धस्याप्रसादस्य अप्रस्रब्धेः व्यवहारतायः । दाक्ष्यस्य सौरत्यस्य विप्रतिसारस्य शोकस्य । उपायासायस् वीतस्य । अप्रदक्षिणग्राहस्य संएपस्य संवराणां परिशुद्धेर् अध्याशयस्य रूपस्येति । श्रद्धा ह्रीर् आर्जवम् अवञ्चनं । उपसम अचामल सप्रसादमार्दवं प्रतिसंख्यानं निर्वेद ऽपरिदाहः । अमद अलोभ अदोष अमोह असर्वत्* अप्रतिनिःसर्गः विभव अपत्रया अपरिशुच्छदनं माननं कारुण्यं मैत्री अदीनतादरितमरि.(द्)ह + + नुपनाहः अली चेतसो पर्यादानं क्षान्तिः । व्यवसदु आसौरक्यम् इति भागान्वयं । पुण्यं । असंज्ञिसमापत्तिः । नैर्याणिकतासर्वज्ञतासंस्कृता धर्माः इत्य् एकोनविंशं शतं कुशलानां कुशलः स्वभावः ॥
तथाकुशलानाम् अकुशलः स्वभावः । निवृत्ताव्याकृतः । प्रकृताव्याकृतानां प्रकृताव्याकृतः । कामोक्तानां कामोक्तः । रूपोक्तानां रूपोक्तः । आरूप्योक्तानाम् आरूप्योक्तः । अनाश्रवाणाम् अनाश्रवः । दुःखोक्तानां दुःखोक्तः । समुदयोक्तानां समुदयोक्तः । निरोधोक्तानां निरोधोक्तः । मार्गोक्तानां मार्गोक्तः । भावनाप्रहातव्यानां भावनाप्रहातव्यः । अप्रहातव्यानाम् अप्रहातव्यः । प्रहातव्यानां प्रहातव्यः । यस्माद् एवम् अनेकप्रकारो धर्मस्वभावो दृष्टः । तस्माद् इह यद् उक्तं । निःस्वभावाः सर्वभावाः निःस्वभावत्वात् शून्य इति तन् न ।
किञ्चान्यत् ।
नैर्याणिकस्वभावो धर्मो नैर्याणिकाश् च ये तेषां / धर्मावस्थोक्तानाम् एव च नैर्याणिकादीनां // nagvv_8 //
इह च धर्मो ऽवस्थोक्तानां नैर्याणिकानां धर्माणां निर्याणिकः स्वभावः । अनैर्याणिकानाम् अनैर्याणिकः । बोध्यङ्गिकानां बोध्यङ्गिकः । अबोध्यङ्गिकानाम् अबोध्यङ्गिकः । बोधिपाक्षिकाणां बोधिपाक्षिकः । अबोधिपाक्षिकाणाम् अबोधिपाक्षिकः । एवं शेषाणां तद् यस्माद् एवम् अनेकप्रकारो धर्माणां स्वभावो दृष्टः । यस्माद् यद् उक्तं निःस्वभावाः सर्वभावाः । निःस्वभावत्वात् शून्या इति न ॥
किञ्चान्यत् ।
यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्य् एवं / नामापि भवेत् नैवं नामापि निर्वस्तुकन् नास्ति // nagvv_9 //
यदि च धर्माणां स्वभावो भावानां स्वभावानां सद्भावाच् चाशून्यः सर्वभावाः । तत्र यद् उक्तं निःस्वभावाः सर्वभावा निःस्वभावत्वात् शून्या इति तन् न ॥
किञ्चान्यत् ।
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् / धर्मैर् विना स्वभावः स यस्यास्ति तद् युक्तम् उपदेष्टुम् // nagvv_10 //
अथ मन्यसे मा भूद् अवस्तुकं नामेति कृत्वास्ति स्वभावः । स पुनर् धर्माणां न संभवति । एवं धर्मशून्यता च निःस्वभावत्वाद् धर्माणां सिद्धा भविष्यति । न च निर्वस्तुकन् नामेति ।
अत्र वयं ब्रूमः । एवं कस्येदानीं स स्वभावो धर्मविनिर्मुक्तस्यार्थस्य तद् युक्तम् उपदेष्टुम् अर्थः । स च नोपदिष्टस् तस्माद् या कल्पनास्ति स्वभावो न पुनर् धर्माणाम् इति सा हीना ॥
किञ्चान्यत् ।
सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् / दृष्टः प्रतिषेधो यं सतः स्वभावस्य ते तस्मात् // nagvv_11 //
इह च सतो ऽर्थस्य प्रतिषेधः क्रियते नामतः । तद्यथा नास्ति घटो गेह इति । सतो घटस्य प्रतिषेधः क्रियते । नासतः । एवम् एव नस्ति स्वभावो धर्माणाम् इति । सतः स्वभावस्य प्रतिषेधः प्राप्नोति नामतः । तत्र यद् उक्तं । निःस्वभावाः सर्वभावाः निःस्वभावत्वात् शून्या इति तन् न ॥ प्रतिषेधसंभवाद् एव हि सर्वभावस्वभावस्वभावो ऽप्रतिषिद्धः ॥
अथ नास्ति स स्वभावः किन् न प्रतिषिध्यते त्वयानेन / वचनेन र्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः // nagvv_12 //
नास्त्य् एव स्वभावा इत्य् अनेन वचनेन निःस्वभावा भावा इति किं भवता प्रतिषिध्यते । असतो हि वचाद् विना सिद्धः प्रतिषेधः । तद्यथाग्नेः शैत्यस्य । अयं स्थैर्यस्य ।
किञ्चान्यत् ।
बालानाम् इव मिथ्या मृगतृष्णायां यथाजलग्राहः / एवं मिथ्याः ग्राहः स्यात् ते प्रतिषिध्यते ह्य् असतः // nagvv_13 //
स्यात् ते बुद्धिः यथा बालानां मृगतृष्णायां मिथ्याजलम् इति ग्राहो भवति । ननु निर्जला सा मृगतृष्णेति तत्र पण्डितजातीयेन पुरुषेणोच्यते । तस्य मिथ्याग्राहस्य विनिवर्तनार्थम् एवन् निःस्वभावेषु यः स्वभावो ग्राहः सत्वानां तस्य व्यावर्तनार्थन् निःस्वभावाः सर्वभावा इत्य् उच्यत इति ॥
अत्र ब्रूमः ।
नन्व् एवं सत्य् अस्ति ग्राहो ग्राह्यञ् च तद्ग्रहीता च / प्रतिषेधः प्रतिषेध्यं प्रतिषेधा चेति षट्कं तत् // nagvv_14 //
यद्य् एवं नन्व् एवं सत्य् अस्ति तावत् सत्वानां मिथ्याग्राहः । अस्ति ग्राह्यं सन्ति सत्वा ग्रहीतारः । अस्ति प्रतिषेधः तस्यापि मिथ्याग्राहस्यास्ति प्रतिषेध्यं यद् इदं मिथ्याग्राह्यं नाम । सन्ति प्रतिषेधारो युष्मदादयो ऽस्य मिथ्याग्राहस्येति सिद्धं षट्कम् । षट्कस्यास्य प्रसिद्धत्वात् । यद् उक्तं शून्याः सर्वभावा इति तन् न ॥
अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः / प्रतिषेधः प्रतिषेध्यं प्रतिषेधारो ऽप्य् अत न सन्ति // nagvv_15 //
अथ मा भूद् एष दोष इति कृत्वा नैव ग्राहो ऽस्ति नैव ग्राह्यं न च ग्रहीतार इति । एवं सति यो ऽसौ ग्राहस्य प्रतिषेधः निःस्वह्हावाः सर्वभावा इति । सो ऽपि नास्ति प्रतिषेध्यम् अपि नास्ति प्रतिषेधारो ऽपि न सन्ति ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेधाराअश् च यद्य् उत न सन्ति / सिद्धा हि सर्वभावा येषाम् एवं स्वभावश् च // nagvv_16 //
यदि च न प्रतिषेधो न प्रतिषेध्यं न प्रतिषेद्धारः सन्त्य् अप्रतिसिद्धाः सर्वभावा अस्ति च सर्वभावानां स्वभावः ॥
किञ्चान्यत् ।
हेतोः स्वतो न सिद्धिः नैःस्वाभाव्यात् कुतो हि ते हेतुः / निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य // nagvv_17 //
निःस्वभावाः सर्वभावा इत्य् एतस्मिन् अर्थे ते हेतोर् असिद्धिः । किं कारणं निःस्वभावत्वाद् धि सर्वभावानां शून्यत्वान् न ततो हेतुः । असति हेतौ निर्हेतुकस्यार्थस्य शून्याः सर्वभावा इति कुत एव प्रसिद्धिः ॥ तत्र यद् उक्तं शून्याः सर्वभावा इति तन् न ॥
किञ्चान्यत् ।
यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति / स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धं // nagvv_18 //
अथ मन्यसे नैर्हेतुकी सिद्धिः निःस्वभावत्वस्य भावानाम् इति । यथा तव स्वभावनिर्वर्तनं निर्हेतुकं सिद्धं । तथा ममापि स्वभावसत्भावो ऽपि निर्हेतुकः सिद्धः ॥
अथ हेतोर् अस्तित्वं भावानैःस्वाभाव्यम् इत्य् अनुपपन्नम् / लोको नैःस्वभाव्यान् न हि कश्चन विद्यते भावः // nagvv_19 //
इह यदि हेतोर् अस्तित्वं मन्यसे । निःस्वभावाः सर्वभावा इति तद् अनुपपन्नं ॥ किं करणं । न हि लोके निःस्वभावः कश्चिद् भावो ऽस्ति ॥
किञ्चान्यत् ।
पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इति न चोपपन्नम् / यश् चानुपपन्नो युगपच् च यतः स्वभावो ऽसन् // nagvv_20 //
इह पूर्वं चेत् प्रतिषेधः पश्चाच् च प्रतिषेध्यं । निःस्वभाव्यं नोपपन्नं । असति हि प्रतिषेध्ये कस्य प्रतिषेधः ॥ अथ पश्चात् प्रतिषेधः पूर्वं प्रतिषेध्यम् इति च नोपपन्नं । सिद्धे हि प्रतिषेध्ये किं प्रतिषेधः करोति । अथ युगपत्प्रतिषेधः प्रतिषेध्ये तथापि न प्रतिषेध्यः प्रतिषेध्यस्यार्थस्य कारणं प्रति न प्रतिषेध्यः । न प्रतिषेधस्य च । यथा युगपदुत्पन्नयोर् गोविषाणयोः नैव दक्षिणं सव्यस्य कारणं सव्यं वा दक्षिणस्य गारणं भवतीति । तत्र यद् उक्तं निःस्वभावाः सर्वभावा इति तन् न ।
अत्रोच्यते । यत् तावद् भवतोक्तं
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् । त्वद्वचनम् अस्वभावं न निवर्तयितुं स्वभावम् अलम् इति । [1]
अत्र ब्रूमः ।
हेतुप्रत्ययसामग्रां पृथग्भावे ऽपि मद्वचो न यदि / ननु शून्यत्वं सिद्धं भावानाम् अस्वभावत्वात् // nagvv_21 //
यदि मद्वचो हेतौ नास्ति महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति । उरःकण्थोजिह्वादन्ततालुनासिकमूर्धप्रभृतिषु य + + सामग्र्याम् अस्ति हेंप्रत्ययसामग्रीं विनिर्मुक्तं पृथग् वास्ति । तस्मान् निःस्वभावा निःस्वभावत्वाच् छून्यं । एवं । ननु शून्यत्वं सिद्धं निःस्वभावत्वाद् अस्य मदीयवचसः । यथा चैतन् मद्वचं निःस्वभावत्वाच् छून्यं । तथा सर्वभावा निःस्वभावत्वाच् छून्या इति । यद् भवतोक्तं त्वदीयवचसः शून्यत्वात् शून्यता सर्वभावानां नोपपद्यत इति तन् न ॥
किञ्चान्यत् ।
यश् च प्रतीत्य भावानां शून्यतेति तं ब्रू + + / यस् तु प्रतीत्यभावो भवति हि तस्यास्वभावत्वं // nagvv_22 //
शून्यतार्थञ् च भवान् भावानाम् अनवसम्य शून्यतार्थम् अज्ञात्वा प्रवृत्ति उपालम्भं वक्तुं त्वद्वचनस्य शून्यत्वात् त्वद्वचनस्य निःस्वभावत्वाद् एवं त्वद्वचनेन निःस्वभावेन भावानां स्वभावप्रतिषेधो नोपपद्यत इति । इह हि यः प्रतीत्य भवानां भावः सा शून्यता । कस्मान् निःस्वभावत्वात् । ये हि प्रतीत्यसमुत्पान्ना भावास् ते स सस्वभावा भवन्ति । स्वभावाभावात् । तस्माद् धेतुप्रत्ययापेक्षत्वात् । यदि हि स्वभावतो भावा भवेयुः । प्रत्याख्यायापि हेतुप्रत्ययांश् च भवेयुः । न चेवं भवन्ति । तस्मान् निःस्वभावाः निःस्वभावत्वाच् छून्या इत्य् अभिधीयन्ते । एवं मदीयम् अपि वचनं । प्रतीत्यसमुत्पन्नत्वान् निःस्वभावं निःस्वभावत्वात् शून्यम् इत्य् उपपन्नं ।
यथा च प्रतीत्यसमुत्पन्नत्वात् स्वभावशून्याः । रथपटघटादयः स्वेषु स्वेषु कार्येषु काष्ठाहणमृत्तिकहरणमधूदकपयसां धारणा शीतवातातपपरित्राणप्रभृतिषु वर्तन्ते । एवम् इदं मदीयवचनं प्रत्ययसमुत्पन्नत्वान् निःस्वभावं निःस्वभावत्वप्रसाधनं प्रत्ययभावानां वर्तते । त्र यद् उक्तं । निःस्वभवत्वात् त्वदीयवचनस्य शून्यत्वं शून्यत्वात् तस्य च तेन सर्वभावस्वभावप्रतिषेध उपपन्नम् इति तन् न ॥
किञ्चान्यत् ।
निर्मितको निर्मितकं मायापुरुष स्वमायया सृष्टम् / प्रतिषेधयति यद्वत् प्रतिषेधो यं तथैव स्यात् // nagvv_23 //
यथा निर्मितकः पुरुषम् अभ्यापतं तु कश्चिद् अर्थेन वर्तमानं प्रतिषेधयेत् । मायाकारेण वा सृष्टो मायापुर्न्षो ऽन्यं मायापुरुष समभ्यव तन् न कस्मिन्श्चिद् अर्थे वर्तमानं प्रतिषेधयेत् । तत्र यो निर्मितकः पुरुषः प्रतिषेध्यते स शून्यः यः प्रतिषेधयति सो ऽपि मायापुरुषः शून्य एवम् एव मद्वचनेन शून्येन सर्वभावानां स्वभावप्रतिषेध उपपन्नः ॥ तत्र यद् भवतोक्तं । शून्यत्वात् त्वद्वचनस्य सर्वभावस्वभावप्रतिषेधो नोपपन्नम् इति न तन् न । षट्कोटिको वाद उक्तः स एवं प्रतिसिद्धः नैव ह्य् एवं सति न सर्वभावान्तर्गतं मद्वचनं नाप्य् अशून्यं नापि सर्वभावाशून्याः ।
यत् पुनर् भवतोक्तम्
अथ सस्वभावम् एतद् वाक्यं पूर्वा हता प्रतिज्ञा ते वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्य इत्य् [2]
अत्रापि ब्रूमः ।
न स्वाभाविकम् एतद् वाक्यं तस्मान् न वादहानिर् मे / नास्ति च वैषमिकत्वं विशेसहेतुश् च न निगद्यः // nagvv_24 //
न तावद् एतन् मम वचनं प्रतीत्यसमुत्पन्नत्वात् स्वभावोपपन्नं यथा पूर्वम् उक्तं । स्वभावानुपपन्नत्वात् शून्यं । यस्माच् च इदम् अपि मद्वचनं शून्यं शेषापि सर्वभावाः शून्यास् तस्मान् नास्ति वैषमिकत्वं । यदि हि वयं ब्रूमः । इदं वचनम् अशून्यं शेषाः सर्वभावाः शून्या इति ततो वैषमिकत्वं । स्यान् न चैतद् एवं तस्मान् न वैषमिकत्वं । यस्माच् च वैषमिकत्वं न संभवति इदं वचनम् अशून्यं शेषाः पुनः सर्वभावाः शून्या इति । तस्माद् अस्माभिर् विशेषहेतुर् अपि न वक्तव्यः अनेन इदं वचनं अशून्यं सर्वभावाः पुनः शून्या इति । तत्र यद् भवतोक्तं वादहानिस् ते वैषमिकत्वं च विशेषहेतुश् च त्वया वक्तव्य इति तन् न ।
यत् पुनर् भवतोक्तं ।
मा शब्दवद् इत्य् एतद् अस्मात् ते बुद्धिर् न चैतद् उपपन्नं । शब्देन ह्य् अत्र सता भविष्यतो वारणं तस्येति । [3]
अत्र ब्रूमः ।
मा शब्दवद् इति नायं दृष्टान्तो यस् त्वया ममारह्धः / शब्देन हि तच् च शब्दस्य वारणं नैदम् एव चः // nagvv_25 //
नाप्य् अयम् अस्माकं दृष्टान्तः । यथा कश्चिन् मा शब्दं कर्षीर् इति ब्रुवं शब्दम् एव करोति शब्दञ् च प्रतिषेधयति । यद्वत् शून्येन वचनेन शून्यतां प्रतिषेधयति । किं कारणं । अत्र हि दृष्टान्ते शब्देन शब्दस्य व्यावर्तनं क्रियते । न चैतद् एवं वयं ब्रूमः । निःस्वभावाः सर्वभावाः निःस्वभावत्वात् तद् अशून्याम् इति ।
किं करणं
नैःस्वभाव्यानां चेन् नैःस्वाभाव्येन वारणं यदि हि / नैःस्वभाव्यनिर्वृत्तौ स्वभाव्यं हि प्रसिद्धं स्यात् // nagvv_26 //
यथा मा शब्दम् इति शब्देन शब्दस्य व्यावर्तनं क्रियते । एवं यदि नैःस्वभाव्येन वचनेन नैःस्वभाव्यानां व्यावर्तनं क्रियते ततो ऽयं दृष्टान्तोपपन्नः स्यात् । इह तु नैःस्वभाव्येन वचनेन भावानां स्वभावप्रतिषेधः क्रियते । एवं यदि नैःस्वभाव्येन वचनेन निःस्वभावानां नैःस्वभाव्यप्रतिषेधः क्रियते । नैःस्वभव्यप्रतिषेधाद् एव सस्वभावा भवेयुः । सस्वभावत्वाद् अशून्याः स्युः । शून्यताञ् च वयं भावानाम् आचक्ष्महे नाशून्यताम् इत्य् अदृष्टान्त एवायम् इति ।
अथ वा निर्मितकायां यथा स्त्रियां स्त्रियम् इत्य् असत्ग्राहम् / निर्मितकः प्रतिहन्यात् कस्यचिद् एवं भवेद् एत्तत // nagvv_27 //
अथ वा कस्यचित् पुरुषस्य निर्मितकायां स्त्रियां स्वभावशून्यायां परमार्थतः स्त्रियम् इत्य् असद्ग्राहः । स्याद् एव तस्यां तेनासद्ग्राहेण रागम् उत्पादयेत् । तद् यथा तथागतेन वा तच्छ्रावकेण वा निर्मितको निर्मितः स्यात् । तथागताधिष्ठानेन वा तथागतस्रावकाधिष्ठानेन वा तस्य तम् असद्ग्राहं विनिवर्तयेत् । एवम् एव निर्मितकोपमेन शून्येन वचनेन निर्मितकस्त्रीसदृश्येषु निःस्वभावेषु यो ऽयं स्वब्बावग्राहः स निवर्त्यते स प्रतिषिध्यते । तस्माद् अयम् अत्र दृष्टान्तः शून्यताप्रसाधनं प्रत्युपपद्यमानो नेतरः ।
अथ वा साध्यसमो यं हेतुर् न हि विद्यते ध्वनेः सत्ता / संव्यवहारञ् च वयं नानभ्युपगम्य कथयामः // nagvv_28 //
मा शब्दवद् इति साध्यसम एवायं हेतुः । कस्मात् सर्वभावानां नैःस्वभाव्येनाविशिष्टत्वात् । न हि तस्य ध्वनेः प्रतीत्यसमुत्पन्नत्वात् । स्वभवं सत्ताः विद्यते । तस्याः स्वभावसत्तायाः अविद्यमानत्वात् ।
यद् उक्तं
शब्देन ह्य् अत्र सत्ता भविष्यतो वारणं तस्येति ।
तत् व्याहन्यते ।
अपि च न वयं व्यवहारसत्यं प्रत्याख्याय व्यवहारसत्यम् अनभ्युपगम्य कथयामः । शून्याः सर्वभावा इति । न हि व्यवहारसत्यम् अनागम्य शक्या धर्मदेशना कर्तुं ।
यथोक्तं
व्यवहारम् अनाश्रित्य परमार्थो न देश्यते । परमार्थम् अनागम्य निर्वाणं नाधिगम्यत इति । [= म्म्क् 24.18]
तस्मान् मद्वचनवत् शून्याः सर्वभावाः सर्वभावानाञ् च निःस्वभावत्वम् उभयथोपपद्यमानम् इति ॥
यत् पुनर् भवतोक्तं ।
प्रतिषेधः प्रतिषेध्यो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव । एवं तव प्रतिज्ञा लक्षणतो दूष्येत न ममेति । [4]
अत्र ब्रूमः ।
यदि काचन प्रतिज्ञा तत्र स्यान् न मे तत्* एष मे भवेद् दोषः / नास्ति च मम प्रतिज्ञा तस्मान् नैवास्ति मे दोषः // nagvv_29 //
यदि च काचिन् मम प्रतिज्ञा स्यात् ततो मम प्रतिज्ञालक्षणप्राप्तत्वात् स पूर्वको दोषः । यथा त्वयोक्तं भावाः तथा मम स्यान् न च मम काचिद् अस्ति प्रतिज्ञा । तस्मात् सर्वह्हावेषु शून्येष्व् अत्यन्तोपशान्तेषु प्रकृतिविविक्तेषु कुतः प्रतिज्ञालक्षणप्राप्तिः कुतः प्रतिज्ञालक्षणताप्राप्तिकृतो दोषः । तत्र यत् भवतोक्तं प्रतिज्ञालक्षणप्राप्तत्वात् तवैव दोष इति तन् नास्ति ।
यत् पुनर् भवतोक्तं
प्रत्यक्षेण हि तावद् यद्य् उपलभ्य निवर्तयसि भावान् तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यंत । [5]
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने चानुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् चेति । [6]
अत्र वयं ब्रूमः ।
यदि किञ्चिद् उपलभेयं प्रवर्तेयं निवर्तयेयं वा / प्रत्यक्षादिभिर् अर्थैस् तदभावान् मे ऽनुपालम्भः // nagvv_30 //
यद्य् अहं किञ्चिद् अर्थम् उपलभेयं प्रत्यक्षानुमानोप + + + + हेतुभिः प्रमाणैः । चतुर्णां वा प्रमाणानां । अन्यतमान्यतमेन । अत एवं प्रवर्तयेयं वार्थम् एवाहं किञ्चिन् नोपलभते तस्मान् न प्रवर्तयामि न निवर्तयामि । तत्रैवं सति यौ भवतोपालम्भोक्तः । यदि प्रत्यक्षादीनां प्रमाणानाम् अन्यतमेन उपलभ्य भावान् विनिवर्तयसीति । ननु भवतोक्तानि प्रमाणानि न सन्ति तैश् च प्रमाणैर् अपि गम्यार्था इति स मे भवत्य् एवानुपालम्भ इति ।
+ + + + ।
यदि च प्रमाणतस् तेषां तेषां प्रसिद्धिर् अर्थानाम् / तेषां पुनः प्रसिद्धिं ब्रूहि कथं तेषां प्रमाणानां // nagvv_31 //
प्रसिद्धिर् इति
यदि च प्रमाणतस् तेषां तेषाम् अर्थानां प्रमेयानां सिद्धिं मन्यसे यथा मानैर् मेयानां । तथा तेषाम् इदानीं प्रत्यक्षानुमानोपमानागमानां चतुर्णां प्रमाणानां कुतः प्रसिद्धिः । यदि तावन् निःप्रमाणानां प्रमाणं स्यान् नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य । यदि पुनः मन्यसे प्रमाणैः प्रसिद्धिः प्रमाणतो ऽर्थानां प्रसिद्धिर् इति । हीयते प्रतिज्ञा ।
तथापि
अन्यैः यदि प्रमाणैः प्रमाणसिधिर् भवत्य् अनवस्था स्यान् / नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य // nagvv_32 //
यदि पुनर् मन्यसे । प्रमाणैः प्रमेयाणां प्रसिद्धिस् तेषां प्रमाणानाम् अन्यैः प्रमाणैः प्रसिद्धिर् अनवस्थाप्रसङ्गः । अनवस्थाप्रसङ्गे को दोषः ।
नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य ।
अस्यानवस्थाप्रसङ्गे आदेः सिद्धिर् नास्ति । किं कारणं तेषम् अपि हि प्रमाणानाम् अन्यैः प्रमाणैः सिद्धिस् तेषाम् अन्यैर् इति नास्त्य् आदिः । आदेर् असद्भावात् कुतो मध्यं कुतो अन्तः । तस्मात् तेषां प्रमाणानाम् अन्यैः प्रमाणैः प्रसिद्धिः नोपपद्यतेति ।
तेषाम् अथ प्रमाणैर् विना प्रसिद्धिः विहीयते वादः / वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः // nagvv_33 //
अथ मन्यसे तेषां प्रमाणानां विना प्रमाणैः प्रसिद्धिः प्रमेयानां पुनर् अर्थानां प्रमाणैः प्रसिद्धिर् इति । एवं सति यस् ते वादः प्रमाणैः प्रसिद्धिर् अर्थानाम् इति हीयते वैषमिकत्वञ् च भवति । केषाञ्चित् । अर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन् नेति विशेषहेतुश् च वक्तव्यः । येन हेतुना केषांचिद् अर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन् नेति । सा च नोपदिष्टः तस्माद् इयम् अपि कल्पना नोपपन्नेति ।
अत्राह । प्रमाणान्य् एव मम स्वात्मानं परात्मानञ् च प्रसाधयन्ति । यथोक्तं ।
द्योतयति स्वात्मानं यथा हुतासः तथा परात्मानं । स्वपरात्मानाव् एषां प्रसाधयन्ति प्रमाणानि ।
परम् इव स्वात्मानं परात्मानञ् चेति ॥
अत्रोच्यते ।
विषमोपन्यासो ऽयं न ह्य् आत्मानं प्रकाशयत्य् अग्निः / न हि तस्यानुपलब्धिः दृष्टा तमसीव कुम्भस्य // nagvv_34 //
विषम एवायम् उपन्यासः । अग्निवत् प्रमाणानि स्वात्मानञ् च प्रसाधयन्ति परात्मानञ् च प्रसाधयन्तीति । न ह्य् अग्निर् आत्मानं प्रकाशयति । यदि हि यथा प्राग् एवाग्निना अप्रकाशितस् तमसि कुम्भो नोपलभ्यते । अथोत्तरकालम् उपलभ्यते ऽग्निना प्रकाशितः सन् एवम् एव यद्य् अग्निना न प्रकाशितः प्राग् अग्निः स्याद् उत्तरकालम् अग्नेः प्रकाशनं स्यात् । अतः स्वात्मानं प्रकाशयेन् नैतद् एवं । तस्माद् इयम् अपि कल्पना नोपपद्यन्तेति ।
किञ्चान्यत् ।
यदि च स्वात्मानम् अयं त्वद्वचनेन प्रकाशयत्य् अग्निः / परम् इव न त्व् आत्मानं परिधक्ष्यत्य् अपि हुताशः // nagvv_35 //
यदि च त्वद्वचनेन यथा परात्मानं प्रकाशयत्य् अग्निः एवम् एव स्वात्मानम् अपि प्रकाशयत्य् अग्निर् इति । ननु यथा परात्मानं दहति । एवम् एव स्वात्मानम् अपि धक्ष्यतीति । न चैतद् एवं । तत्र यद् उक्तं परात्मानम् इव स्वात्मानं प्रकाशयत्य् अग्निर् इति तन् न ॥
किञ्चान्यत् ।
यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्य् अग्निः / प्रछादयिष्यति तमः स्वपरात्मानौ हुताश इव // nagvv_36 //
यदि च भवतो भवतो मतेन स्वात्मापरात्मानौ प्रकाशयत्य् अग्निः । नन्व् इदानीं प्रतिपक्षभूततमो ऽपि स्वपरात्मानौ छादयेत् । नैतद् इष्टं । तत्र यद् उक्तं स्वपरात्मानौ प्रकाशयत्य् अग्निर् इति तन् न ॥
किञ्चान्यत् ।
नास्ति तमश् च ज्वलने यत्र च तिष्ठते परात्मनि ज्वलनः / कुरुते कथं प्रकाशं स हि प्रकाशो अन्धकारवधः // nagvv_37 //
इह चाग्नौ नास्ति तमः । नापि च यत्राग्निस् तत्रास्ति तमः । प्रकाशश् च नाम तमसः प्रतिघातस् तत्र कथम् अस्य तमसः । प्रतिघातम् अग्निः करोति । यस्य प्रतिघातत् स्वपरात्मानौ प्रकाशयतीति ॥
आह । यद् यस्माद् एवं नाग्नौ तमो ऽस्ति । नापि यत्राग्निस् तत्र तमो ऽस्ति । यस्माद् एवं स्वपरात्मानौ न प्रकाशयत्य् अग्निः । तेन ह्य् उत्पद्यमानेनैवाग्निना तमसः प्रतिघतः कुतः तस्मान् नाग्नौ तमो ऽस्ति । नापि यत्राग्निः तत्र तमो ऽस्ति । यस्माद् उत्पद्यमान एवोभयं प्रकाशयत्य् अग्निः स्वात्मानं परात्मानञ् चेति ।
अत्रोच्यते
उत्पद्यमान एव प्रकाशयत्य् अग्निर् इत्य् असद्वादः / उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः // nagvv_38 //
अयम् अग्निर् उत्पद्यमान एव प्रकाशयति स्वात्मानं परात्मानञ् चेति । नायम् उपपद्यते वादः । कस्मान् न ह्य् उत्पद्यमान एवाग्निः तमः प्राप्नोति । अप्राप्तत्वान् नैवोपहन्ति । तमसश् चानुपघातान् नास्ति प्रकाशः ।
अप्राप्तो ऽपि ज्वलनो यदि वा पुनर् अन्धकारम् उपहन्यात् / सर्वेषु लोकधातुषु तमो ऽयम् इह संस्थित उपहन्यात् // nagvv_39 //
अथापि मन्यसे अप्राप्तो ऽप्य् अग्निर् अन्धकारम् उपहन्तीति । नन्व् इदानीम् इह संस्थितो अग्निः सर्वलोकधातुस्थम् उपहनिष्यति तमः तुल्यायाम् अप्राप्तो न चैतद् एवं दृष्टं । तस्माद् अप्राप्यैवाग्निर् अन्धकारम् उपहन्तीति यद् इष्टं । तन् न ।
यदि च स्वतः प्रमाणसिद्धिर् अनपेक्ष्य ते प्रमेयाणि / भवति प्रमाणसिद्धिः नापरापेक्षा हि सिद्धिर् इति // nagvv_40 //
यदि चाग्निवत् स्वतः प्रमाणसिद्धिर् इति मन्यसे । अनपेक्षापि प्रमेयाणि प्रमाणानां सिद्धिः भविष्यतीति किं कारणं । न हि स्वतः परम् अपेक्षते । अथापेक्ष्यते न स्वतः प्रसिद्धिः ।
अत्राह । यदि नापेक्ष्यन्ते प्रमेयान् अर्थान् अप्रमाणानि को दोषो भविष्यतीति । अत्रोच्यते ।
अनापेक्सा हि प्रमेयान् अर्थान् यदि ते प्रमाणसंसिद्धिः / भवति न भवन्ति कस्यचिद् एवम् इमानि प्रमाणानि // nagvv_41 //
यदि प्रमेयान् अर्थान् अनपेक्ष्य सिद्धिर् भवति प्रमाणानाम् इति । तानीमानि प्रमाणानि न कस्यचित् प्रमाणानि भवन्ति । एवं दोषः ॥ अथ कस्यचित् भवन्ति प्रामाणानि । नैवेदानीम् अनपेक्ष्य प्रमेयान् अर्थान् प्रमाणानि भवन्ति ॥
अथ मतम् अपेक्ष सिद्धिस् तेषाम् इति अत्र भवति को दोषः / सिद्धस्य न साधनं स्यान् नासिद्धो पेक्षते ह्य् अन्यत् // nagvv_42 //
अथापि मतम् अपेक्ष्य प्रमेयान् अर्थान् प्रमाणानां सिद्धिर् भवतीति । एवं ते सति सिद्धस्य प्रमाणचतुष्टयस्य साधनं भवतीति । किं कारणं । न ह्य् असिद्धस्यार्थस्यापेक्षणं भवति । न ह्य् असिद्धो देवदत्तः कञ्चिद् अर्थम् अपेक्षते न च सिद्धस्य साधनम् इष्टं कृतस्य कारणम् अनुपपत्तेर् इति ॥
किञ्चान्यत् ।
सिध्यन्ति हि प्रमेयाण्य् अपेक्ष्य यदि सर्वथा प्रमाणानि / भवन्ति प्रमेयसिद्धिर् अनपेक्ष्यैव प्रमाणानि // nagvv_43 //
यदि प्रमेयाण्य् अपेक्ष्य प्रमाणानि सिध्यन्ति । नेदानीं प्रमाणान्य् अपेक्ष्य प्रमेयाणि सिध्यन्ति । किं कारणं न हि साध्यं साधनं साधनं साधयति । साधनानि च । किल प्रमेयाणां प्रमाणानि ॥
किञ्चान्यत् ।
यदि च प्रमेयसिद्धिर् अनपेक्षैव भवति प्रमाणानि / किन् ते प्रमाणसिद्ध्या तानि यद् अर्थं प्रसिद्धं तत // nagvv_44 //
यदि च मन्यसे ऽनपेक्ष्यैव प्रमाणानि प्रमेयानां प्रसिद्धिर् भवति । किम् इदानीं ते प्रमाणसिद्ध्या पर्यन्विष्टया किं कारणं । यद् अर्थं हि तानि प्रमाणानि पर्यन्विष्येरन् । ते प्रमेयार्था विना प्रमाणैः सिद्धाः तत्र किं प्रमाणैः कृत्यं ।
अथ तु प्रमाणसिद्धिर् भवत्य् अपेक्ष्यैव ते प्रमेयाणि / व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणां // nagvv_45 //
अथापि मन्यसे ऽपेक्ष्यैव प्रमेयान् अर्थान प्रमाणनि भवन्ति । एवं ते सति मा भूत् पूर्वोक्तदोष इति कृत्वा । एवं ते सति व्यत्ययः + + + + + याणां भवति । प्रमाणानि ते प्रमेयाणि भवन्ति । प्रमेयैः साधितत्वत् । प्रमाणानि च प्रमेयाणि भवन्ति । प्रमाणानां साधकत्वात् ।
अथ ते प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या च / भवति प्रमाणसिद्धिः नास्त्य् उभयस्यापि ते सिद्धिः // nagvv_46 //
अथ मन्यसे प्रमाणसिद्ध्या प्रमेयसिद्धिर् भवति प्रमाणापेक्षत्वात् । प्रमेयसिद्ध्या च प्रमाणसिद्धिर् भवति प्रमेयापेक्षत्वाद् इति ॥ एवं सत्य् उभयस्यापि सिद्धिर् न .य्. + + + + णं
सिध्यन्ति हि प्रमाणैर् यदि प्रमेयाणि तानि तैर् एवा / साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति // nagvv_47 //
यदि हि प्रमाणैः प्रमयाणि सिध्यन्ति तानि प्रमाणानि तैर् एव प्रमेयैः साधयितव्यानि । नन्व् असिद्धेषु प्रमेयेषु कारणस्यासिद्धत्वाद् असिद्धानि कथं साधयिस्यन्ति प्रमेयाणीति ।
सिध्यन्ति च प्रमेयैः यदि प्रमाणानि तानि तैर् एव / साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति // nagvv_48 //
यदि प्रमेयैः प्रमाणानि सिध्यन्ति तानि च प्रमेयाणि तैर् एव प्रमाणैः साधयितव्यानीति । नन्व् असिद्धेषु प्रमाणेषु कारणस्यासिद्धत्वाद् असिद्धानि कथं साधयिष्यन्ति प्रमाणानि ।
पित्र यद्य् उत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण / उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कं // nagvv_49 //
तद्यथापि नाम कश्चित् ब्रूयात् । पित्रा पुत्र उत्पादनीयः स च पिता पुत्रेणोत्पादनीय इति । तत्रेदानीं ब्रूहि केन क उत्पादयितव्यः । तथैव खलु भवान् ब्रवीति । प्रमाणैः प्रमेयानि साधयितव्यानि तान्य् एव च पुनः प्रमाणानि तैः प्रमेयैः तत्रेदानीं तु कतमैः कतमानि साधयितव्यानि ।
कश् च पिता कः पुत्रः तत्र त्वं ब्रूहि कथं ताव् उभाव् अपि च / पित्रेपुत्रलक्षणधरौ यतो नस् तत्र संदेहः // nagvv_50 //
तयोश् च पूर्वोपदिष्टयोः पितापुत्रयोः वद कतरः पुत्रः कतरः पिता उभाव् अपि ताव् उत्पादकत्वात् पितृलक्षणधरौ । उत्पाद्यत्वाच् च पुत्रलक्षणधराव् अत्र नः सन्देहो भवति । कतरस् तत्र पिता कतरस् तत्र पुत्र इति । एवम् एव यान्य् एतानि भवति । प्रमाणप्रमेयणि । तत्र कतराणि प्रमाणानि कतराणि प्रमेयाणि । उभयान्य् अपि ह्य् एतानि प्रमाणानि तानि प्रमेयाणि साध्यत्वात् प्रमेयाणीति । अत्र नः सन्देहो भवति । कतराण्य् अत्र प्रमाणानि कतराणि प्रमेयाणीति ।
नैव स्वतः प्रसिद्धिर् न परस्परतः प्रमाणैर् वा / भवति न च प्रमेयैः न चाप्य् अकस्मात् प्रमाणानां // nagvv_51 //
न स्वतः प्रसिद्धिः प्रत्यक्षस्य तेनैव प्रत्यक्षेणानुमानस्य तेनैवानुमाने । उपमानस्य तेनैवोपमानेन । आगमस्य तेनैवागमेन ॥ नापि परस्यात् प्रत्यक्षस्यानुमानोपमानागमैर् अनुमानस्य प्रत्यक्षोपमानागमैर् उपमानस्य प्रत्यक्षानुमानागमैः । आगमस्य प्रत्यक्षानुमानोपमानैः । नापि प्रत्यक्षानुमानोपमानागमाद् अन्यैः प्रत्यक्षानुमानोपमानागमैर् यथास्वं नापि प्रमेयैः समस्तव्यस्तैः स्वविषयपरविषतागृहीतैः नाप्य् अकस्मान् नास्ति समुच्चयेन । एतेषां कारणानां पूर्वोद्दिष्टानां विंशस् त्रिंशच् चत्वारिशत् षट्विंशतिर् वा तत्र यद् उक्तं । प्रमाणाधिगम्यत्वात् प्रमेयाणां भावानां सन्ति तु प्रमेया भावास् तानि च प्रमाणानि यैस् तु प्रमाणैः प्रमेया भावाः सन्तश् च भावाः समाधिगता इति तन् न ॥
यत् पुनर् भवतोक्तम् ।
कुशलानां धर्माणां धर्मावस्थाविदश् च मन्यन्ते । कुशलं जनस्वभावं मन्यन्ते शेषेष्व् अप्य् एष विनियोगः । [7]
अत्र ब्रूमः ।
कुशलानां धर्माणां धर्मावस्थविदो ब्रूवते यत् / कुशलस्वभावम् एवं प्रविभागेनाभिधेयः स्यात् // nagvv_52 //
कुशलानां धर्माणां धर्मावस्थविदः कुशलं जनस्वभावं मन्यन्ते । स च भवता प्रविभागेनोपदेष्टव्यः । स्याद् अयं स कुशलः स्वभावः इमे ते कुशला धर्मा इति । इदं तत्कुशलविज्ञानम् अयं कुशलविज्ञानस्वभाव एवं सर्वेषां न चैतद् एवं दृष्टं । तस्माद् यद् उक्तम् उपदिष्टः स्वभावो धर्माणाम् इति तन् न ॥
किञ्चान्यत् ।
यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् / धर्माणां परभावः स्वभाव एव कथं भवति // nagvv_53 //
यदि च कुशलानां धर्माणां स्वभावो हेतुप्रत्ययसामग्रीं प्रतीत्योत्पद्यते । परभावाद् उत्पन्नः कुशलानां धर्माणां कथं स्वभावो भवति । एवम् एवाकुशलप्रभृतीनां । तत्र यद् उक्तं । कुशलाव्याकृतानां ना .य्. + + + धर्माणां कुशलः स्वभावोपदिष्टः । एवम् अकुशलानाम् अकुशलादिर् इति । तन् न ॥
किञ्चान्यत् ।
अथ न प्रतीत्य किञ्चित् स्वभाव उत्पद्यते स कुशलानाम् / धर्माणाम् एवं स्याद् वासो न ब्रह्मचर्यस्य // nagvv_54 //
अथ मन्यसे । न किञ्चित् प्रतीत्य कुशलानां धर्माणां कुशलस्वभाव उत्पद्यते । एवम् अकुशलानां धर्माणाम् अकुशलः अव्याकृतानाम् अव्याकृत इति । एवं सत्य् अब्रह्मचर्यवासो भवति किं कारणं । प्रतीत्यसमुत्पादस्य हि एवं सति प्रत्याख्यानं भवति । प्रतीत्यसमुत्पादस्य प्रत्याख्यानात् प्रतीत्यसमुत्पाददर्शणं प्रत्याख्यानं भवति । न ह्य् अविद्यमानस्य प्रतीत्यसमुत्पादस्य दर्शनम् उत्पद्यमानं भवति । असति प्रतीत्यसमुत्पाददर्शने धर्मदर्शनं न भवति । उक्तं हि । भगवता यो हि भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति । धर्मदर्शनाभावाद् ब्रह्मचर्यवासाभावः ॥
अथवा प्रतीत्यसमुत्पादप्रत्याख्यानात् । दुःखसमुदायप्रत्याख्यानं भवति । प्रतीत्यसमुत्पादो हि दुःखस्य समुदयः । दुःखसमुदयस्य प्रत्याख्यानाद् दुःखप्रत्याख्यानं भवति । असति हि समुदये तत् कुतो दुःखं समुदेष्यति । दुःखसमुदयप्रत्याख्यानाच् च दुःखनिरोधस्य प्रत्याख्यानं । असति हि दुःखसमुदये कस्य प्रहाणान् निरोधो भविष्यति । असति हि दुःखनिरोधे कस्य प्राप्तये मार्गो भविष्यति । दुःखनिरोधगामी । एवं चतुर्णाम् आर्यसत्यानाम् अभावाच् छ्रामण्यफलाभावः । सत्यदर्शनादिश्रमण्यफलानि समाधिगम्यन्ते । श्रामण्यफलानाम् अभावाद् अब्रह्मचर्यवास इति ॥
किञ्चान्यत् ।
नाधर्मो धर्मो वा सत्यव्यवहाराश् च लोकिका नि स्युः / नित्याश् च सर्वभावाः स्युः नित्यत्वाद् अहेतुमतः // nagvv_55 //
एवं सति प्रतीत्यसमुत्पादं प्रत्याचक्षणस्य भवतः को दोष प्रसज्यते । धर्मो न भवति अधर्मो न भवति । संव्यवहाराश् च लौकिका न सम्भवन्ति । किं कारणं प्रतीत्यसमुत्पन्नं ह्य् एतत् सर्वम् असति प्रतीत्यसमुत्पादे कुतो भविष्यति । अपि च सस्वभावो ऽप्रतीत्यसमुत्पन्नो निर्हेतुको नित्यः स्यात् । किं कारणं निर्हेतुका हि भावा नित्यास् तत्र स एव चाब्रह्मचर्यवासः प्रसज्येत् स्वसिद्धान्तविरोधश् च । किं कारणम् अनित्या हि भगवता सर्वे संस्कारा निर्देष्टास् ते स्वभावनित्यत्वान् नित्या हि भवन्ति ।
एष चाकुशलेष्व् अव्याकृतेषु नैर्याणादिषु च दोषस् / तस्मात् सर्वं संस्कृतम् असंस्कृतं ते भवत्य् एवं // nagvv_56 //
यश् चैष कुशलेषु निर्देष्टः कल्पः स एवाकुशलेषु स एवाव्याकृतेषु स एवानैर्याणिकप्रभृतिषु दोषस् तस्मात् सर्वम् इदं संस्कृतम् असंस्कृतं संपद्यते ॥ किंकारणं हेतो ह्य् असत्य् उत्पादस्थितिभङ्गा न भवन्ति । उत्पादस्थितिभङ्गेष्व् असत्सु संस्कृतलक्षणाभावात् । सर्वं संस्कृतम् असंस्कृतं संपद्यते । तत्र यद् उक्तं कुशलादीनां भावानां स्वभावसद्भावाद् अशून्याः सर्वभावा इति तन् न ॥
यत् पुनर् भवतोक्तं ।
यदि च न भवेत् स्वभावो भावानां न स्वभाव इत्य् एवं नामापि भवेद् एवं नाम हि निर्वस्तुकं नास्ति । [9]
यः सद्भूतं नाम ब्रूयात् सस्वभाव इत्य् एवम् / भवता प्रतिवक्तव्यो नाम ब्रूमश् च न वयं सत // nagvv_57 //
यो नाम सद्भूतं ब्रूयात् सस्वभाव इति स भवता प्रतिवक्तव्यः स्यात् । यस्य सद्भूतं नाम स्वभावस्य । तस्मात् तेनापि स्वभावेन सद्भूतेन भवितव्यं । न ह्य् असद्भूतस्य स्वभावस्य सद्भूतं नाम भवतीति । न पुनर् वयं नाम सद्भूतं ब्रूमस् तद् अपि हि स्वभावस्याभावान् नाम निःस्वभावत्वात् शून्यं शून्यत्वाद् असद्भूतम् । तत्र यद् भवतोक्तं नामसद्भावात् सद्भूतः स्वह्हावा इति । तन् न ॥
किञ्चान्यत् ।
नामासद् इति च यद् इदं तत् किं नु सतो भवत्य् उतासतः / यदि हि सतो यद्य् असतो द्विधापि ते हीयते वादः // nagvv_58 //
यच् चैतन् नामासद् इति तत् किं सतः असतः । यदि हि सतस् तन् नाम यद्य् असत उभयथापि प्रतिज्ञा हीयते । तत्र यदि तावत् सत । असद् इति प्रतिज्ञा हीयते । न हीदनीं तद् असद् इदानीं सत्* अथासत । असद् इति नाम या प्रतिज्ञा असद्भूतस्य नाम न भवति अस्तित्वस्वभाव इति नाम तस्मात् सद्भूतः स्वभाव इति । सा हीना ॥
किञ्चान्यत् ।
सर्वेषां भावानां शून्यत्वञ् चोपपादितं पूर्वम् / स उपालम्भः तस्माद् भवत्य् अयञ् चाप्रतिज्ञायाः // nagvv_59 //
इह चास्माभिः पूर्वम् एव सर्वेषां भावानं विस्तरतः शून्यत्वम् उपपादितम् । तत्र प्राग् नामनो ऽपि शून्यत्वम् उक्तं संभवा अशून्यत्वं परिगृह्य प्रवृत्तो वक्तुं । यदि भावानां स्वाभावो न स्याद् अस्वभाव इति नामापीदन् न स्याद् इति । तस्माद् अप्रतिज्ञोपालम्भो यं भवतः संपद्यते । न हि वयं नाम सद्भूतम् इति ब्रूमः ॥
यत् पुनर् भवतोक्तं ।
अथ विद्यते स्वभावस् स च धर्माणां न विद्यते स तस्मात् धर्मैर् विना स्वभावः स यस्य तद् युक्तम् उपदेष्टुं । [10]
अथ विद्यते स्वभावः स च धर्माणां न विद्यतत् इति इदम् / आशङ्कितं यद् उक्तं भवत्य् अनाशङ्कितं तच् च // nagvv_60 //
न हि वयं धर्माणां स्वभावं प्रतिषेधयामः । धर्मविनिर्मुक्तस्य वा कस्यचिद् अर्थस्य स्वभावम् अभ्युपगच्छामः । नन्व् एवं सति य उपालम्भो भवति । यदि धर्मा निःस्वभावाः कस्य खल्व् इदानीम् अन्यस्यार्थस्य धर्मविनिर्मुक्तस्य स्वभावो भवति । स युक्तम् एवोपदेष्टम् इति । दूरापकृष्टम् एवैतत् भवति ।
यत् पुनर् भवतोक्तं ।
सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् । दृष्टः प्रतिषेधो ऽयं मतः स्वभावस्य ते तस्मात् । [11] इत्य्
अत्र ब्रूमः ।
सत एव प्रतिषेधो यदि शून्यत्वं नन्व् अप्रतिसिद्धम् इदम् / प्रतिषेधयते हि ह्हवान् भावानां निःस्वभावत्वं // nagvv_61 //
यदि स्वत एव प्रतिषेधो भवति । नामतो भावानां निःस्वभावत्वं प्रतिषेधयति । ननु प्रतिसिधं सर्वभावानां निःस्वभावत्वं त्वद्वचनेन । प्रतिषेधयसि त्वं सद्भावात् । निःस्वभावत्वस्य च सर्वभावानां प्रतिसिधत्वात् । प्रतिसिद्धा शून्यतेति
प्रतिषेधयसे अथ त्वं शून्यत्वं तच् च नास्ति शून्यत्वम् / प्रतिषेधः सत इति ते नन्व् एष विहीयते वादः // nagvv_62 //
अथ शून्यत्वं प्रतिषेधयसि त्वं । सर्वभावानां निःस्वभावत्वं शून्यत्वं नास्ति तच् च शून्यत्वम् । या तर्हि ते प्रतिज्ञा सतः प्रतिषेधो भवति नासत इति सा हीना ॥
किञ्चान्यत् ।
प्रतिषेधयामि नाहं किञ्चित् प्रतिषेध्यम् अस्ति न च किञ्चित् / तस्मात् प्रतिषेधयसीत्य् अधिलय एव त्वया क्रियते // nagvv_63 //
एवम् अपि तु कृत्वा यद्य् अहं किञ्चित् प्रतिषेधयामि ततो युक्तम् एव वक्तुं स्यात् । न चैवहं किञ्चित् प्रतिषेधयामि तस्मान् न किञ्चित् प्रतिषेधव्यम् अस्ति । तस्मात् शून्येषु सर्वभावेष्व् अविद्यमाने प्रतिषेध्ये प्रतिषेधयसीत्य् एष त्वयात्र सद्भूतो ऽधिलयः क्रियत इति ॥
यत् पुनर् भवतोक्तं ।
अथ नास्ति स स्वभावः किन् नु प्रतिषिध्यते त्वयानेन वचनेन र्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः ॥ [12]
अत्र ब्रूमः ।
यच् चाहं ते वचनाद् असतः प्रतिषेधवचनसिद्धिर् इति / अत्र ज्ञापयते वाग् असद् इति तन् न प्रतिनिहन्ति // nagvv_64 //
य च भवान् ब्रवीति । सते ऽपि वचनाद् असतः प्रतिषेधः प्रतिसिद्धः तत्र किन् निःस्वभावाः सर्वभावाः इति । एतद् वचनं करोतीति ॥ अत्र ब्रूमः निःस्वभावा इति एतत् खलु वचनं न निःस्वभावान् सर्वभावान् करोति । किन्त्व् असत स्वभाव भावानाम् असत स्वभावानाम् इति ज्ञापयति । तत्र कश्चित् ब्रूयाद् अविद्यमाहगृहे देवदत्तस् तम् अस्ति गृहे देवदत्त इति । तत्रैनं कश्चित् प्रतिब्रूयान् नास्तीति । न तद्. + + + + + देवदत्तस्यासंभवां करोति । किन्तु ज्ञापयति केवलम् असद्भावं गृहे देवदत्तस्येति ॥ तद्वा नास्ति स्वभावो भावानाम् इत्य् एतद्वचनं न स्वभावानां निःस्वभावत्वं करोति । भावेषु स्वभावस्याभावं ज्ञापयति ॥ तत्र यद् भवतोक्तं किम् असति स्वभावे नास्ति स्वभाव इत्य् एतद्वचनं करोति । ऋते ऽपि वचनात् प्रसिद्धिः स्वभावस्याभाव इति । तत् ते न युक्तं
यद् उक्तं
बालानाम् इव मृगतृष्णायां स यथाजलग्राहः । एवं मिथ्याग्राहः स्यात् ते प्रसिध्यते ह्य् असतः । [13]
यत् पुनर् भवतो मृगातृष्णायाम् इत्य् अत्र ब्रूमः ।
मृगतृष्णादृष्टान्ते यः पुनर् उक्तं त्वया महांश् चर्चः / तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः // nagvv_65 //
य एव त्वया मृगतृष्णादृष्टान्ते महांश् चर्च उक्तः । तत्रापि तया निर्णयः स श्रूयतां उपपन्न एव दृष्टान्तो भवति ।
स यदि स्वभावतः स्याद् भावो न स्यात् प्रतीत्य समुद्भूतः / यश् च प्रतीत्य ह्हवति ग्राहो ननु शून्यता सैव // nagvv_66 //
यदि च मृगतृष्णायां स यथाजलग्राहः स्वभावतः स्यात् । न स्यात् प्रतीत्यसमुत्पन्नो । यतो मृगतृष्णाञ् च प्रतीत्य विपरीतञ् च दर्शनं प्रतीत्य योनिशोमनस्कारञ् च प्रतीत्य प्रादुर्भूतो अतः प्रतीत्यसमुत्पन्नः यतश् च प्रतीत्यसमुत्पन्नो ऽतः स्वभावतः शून्य एव । यथा पूर्वम् उक्तं तथा
किञ्चान्यत् ।
यदि च स्वभावतः स्याद् ग्राहः कस् तं विनिवर्तयेद् ग्राहम् / शेषेष्व् अप्य् एष विधिः तस्माद् एषो ऽनुपालम्भः // nagvv_67 //
यदि च मृगतृष्णायां जलग्राहः स्वभावतः स्यात् । क एव तं विनिवर्तयेता । न हि स्वभावः शक्यो निवर्तयितुं । तथाग्नेर् उष्णत्वम् अपां द्रवत्वम् आकाशस्य निरववरणत्वं । दृष्टं चास्य विनिवर्तनं । तस्माच् छून्यस्वभावः ग्राहः । यदा चैतद् एवं शेषेष्व् अपि धर्मेष्व् एष क्रमः प्रत्यवगन्तव्यः ग्राह्यप्रवृत्तिषु पञ्चसु । तत्र यद् भवतो + + + + पाद् अशून्याः सर्वभावा इति तन् न ॥
यत् पुनर् भवतोक्तं ।
हेतोश् च ते न सिद्धिर् नैःस्वब्बाव्यात् कुतो हि ते हेतुः निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य [ल्7] इति ॥
अत्र ब्रूमः ।
एतेन हेत्वभावः प्रत्युक्तः पूर्वम् एव स समत्वात् / मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राग् // nagvv_68 //
एतेनैव चेदानीं चर्चेन पूर्वोक्तेन हेत्वभावो ऽपि प्रत्यवगन्तव्यः । य एव हि चर्चः पूर्वस्मिन् हेताव् उक्तः षट्कप्रतिषे + + + + + + हापि चर्चयितव्यः ।
यत् पुनर् भवतोक्तं ।
पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इल्य् अनुपपन्नं । पश्चाच् चानुपपन्नो युगपच् च यतः स्वभावो ऽसन ॥ [20]
अत्र ब्रूमः ।
यत् त्रैकाल्ये हेतुः प्रत्युक्तं पूर्वम् एव स समत्वात् / त्रैकाल्यप्रतिहेतुश् च शून्यभावादिना प्राप्तः // nagvv_69 //
स एष हेतुः त्रैकाल्ये प्रतिषेधवाची स तूक्तोत्तरः प्रत्यवमन्तः । कस्मात् साध्यसमत्वात् । यथा हि प्रतिषेधस् त्रैकाल्ये नोपपद्य्.ए + + + + + + प्रतिषेधप्रतिषेधे ऽपि । तस्मात् प्रतिषेधप्रतिषेध्ये ऽसति भवान् मन्यते प्रतिषेधः प्रतिसिद्ध इति तन् न । यतश् चैष त्रिकालप्रतिषेधवाची हेतुर् एष एव शून्यतावादिनां प्राप्तः सर्वभावस्वभावप्रतिषेधकत्वान् न भवतः ।
अथ वा कथम् एतद् उक्तोत्तरं ।
प्रतिषेधयामि नाहं किञ्चित् प्रतिषेध्यम् अस्ति न च किञ्चित् तस्मात् प्रतिषेधयसीत्य् अधिलय एष त्वया क्रियत [63] इति ॥
अथ मन्यसे त्रिष्व् अपि कालेषु + + + + + + + दृष्टः पूर्वकालीनो ऽपि हेतुः उत्तरकालीनो ऽपि । युगपत्कालीनो ऽपि हेतुः । कथं पूर्वकलीनः । यथा पिता पुत्रस्य त्वद्वचनेन पश्चात्कालीनः । यथा शिष्याचार्यस्य युगपत्कालीनः यथा प्रदीपः प्रकाशस्येति ॥ अत्र ब्रूमः । न चैतद् एव युक्ता ह्य् एतस्मिं त्रये पूर्वदोषः ॥ अपि च पुनः यद्य् एवं कमः । प्रतिषेधसद्भावस् त्वयाभ्युपगम्यते । प्रतिज्ञाहानिश् च ते भवति । ए + + + + + + + स्वभा + + + .एधो ऽपि सि + + भवतीति ।
प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः / प्रभवति न तस्य किन्न प्रभवति शून्यता यस्येति // nagvv_70 //
यस्य शून्यतेयं प्रभवति तस्य सर्वार्था लौकिकलोकोत्तराः प्रभवन्ति । किं कारणं । यस्य हि शून्यता प्रभवति तस्य प्रतीत्यसमुत्पादः प्रभवति । यस्य प्रतीत्यसमुत्पादः प्रभवति तस्य चत्वार्य् आर्यसत्यानि प्रभवन्ति । यस्य चत्वार्य् आर्यसत्यानि + + + + + + + मण्यफलानि भवन्ति । सर्वविशेषाधिगमः भवन्ति । यस्य सर्वविशेषाधिगमाः प्रभवन्ति । तस्य त्रीणि रंआणि बुद्धधर्मसंघाः प्रभवन्ति । यस्य प्रतीत्यसमुत्पादः प्रभवन्ति तस्य धर्मो धर्महेतुर् धर्मफलञ् च प्रभवन्ति । तस्याधर्मो ऽधर्महेतुश् चाधर्मफलञ् च प्रभवति । तस्य क्लेशः क्लेशसमुदयः क्लेशवस्तूनि च प्रभवन्ति । यस्यैतत् सर्वं भवति पूर्वोक्तं तस्य सुगतिं दुर्गतिं व्यवस्था + + + + + + + गतिदुर्गतिगमनं । सुगतिदुर्गतिगामी मार्गः । सुगतिदुर्गतिगमनव्यतिक्रमणं सुगतिदुर्गतिव्यतिक्रमोपायः सर्वसंव्यवहाराश् च लोकिकाः स्वयम् अधिगन्तव्याः । अनया दिशा किञ्चित् शक्यं वचनोपदेष्टम् इति ।
भवति चात्र
यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदम् अनेकार्थां निजगाद प्रणमामि तम् अप्रतिमं तु बुद्धिम् इति ॥
कृतिर् इयम् आचार्यनागार्जुनपादाना + + + + + एकत्र श्लोकशत 450 ॥
॥ लिखितम् इदं श्रीध्रमकिर्तिना सर्वसत्वहेतोः यथालब्धम् इति ॥
॥ विग्रहव्यावर्तिणी ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
