Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अचिन्त्यस्तव
- Tác giả
- नागार्जुन
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
नागार्जुन: अचिन्त्यस्तव
प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगाद यः । तं नमाम्य् असमज्ञानम् अचिन्त्यम् अनिदर्शनम् ॥ nagast_01
यथा त्वया महायाने धर्मनैरात्म्यम् आत्मना । विदितं देशितं तद्वद् धीमद्भ्यः करुणावशात् ॥ nagast_02
प्रत्ययेभ्यः समुत्पन्नम् अनुत्पन्नं त्वयोदितम् । स्वभावेन न तज् जातम् इति शून्यं प्रकाशितम् ॥ nagast_03
यद्वच् छब्दं प्रतीत्येह प्रतिशब्दसमुद्भवः । मायामरीचिवच् चापि तथा भवसमुद्भवः ॥ nagast_04
मायामरीचिगन्धर्वनगरप्रतिबिम्बकाः । यद्य् अजाताः सह स्वप्नैर् न स्यात् तद्दर्शनादिकम् ॥ nagast_05
हेतुप्रत्ययसंभूता यथैते कृतकाः स्मृताः । तद्वत् प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् ॥ nagast_06
अस्त्य् एतत् कृतकं सर्वं यत् किंचिद् बाललापनम् । रिक्तमुष्टिप्रतीकाशम् अयथार्थप्रकाशितम् ॥ nagast_07
कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् । कस्य नाशाद् अतीतं स्याद् उत्पित्सुः किम् अपेक्षते ॥ nagast_08
स्वस्मान् न जायते भावः परस्मान् नोभयाद् अपि । न सन् नासन् न सदसन् कुतः कस्योदयस् तदा ॥ nagast_09
अजाते न स्वभावो ऽस्ति कुतः स्वस्मात् समुद्भवः । स्वभावाभावसिद्ध्यैव परस्माद् अप्य् असंभवह् ॥ nagast_10
स्वत्वे सति परत्वं स्यात् परत्वे स्वत्वम् इष्यते । आपेक्षिकी तयोः सिद्धिः पारावारम् इवोदिता ॥ nagast_11
यदा नापेक्षते किं चित् कुतः किं चित् तदा भवेत् । यदा नापेक्षते दीर्घं कुतो ह्रस्वादिकं तदा ॥ nagast_12
अस्तित्वे सति नास्तित्वं दीर्घे ह्रस्वं तथा सति । नास्तित्वे सति चास्तित्वं यत् तस्माद् उभयं न सत् ॥ nagast_13
एकत्वं च तथानेकम् अतीतानागतादि च । संक्लेशो व्यवदानं च सम्यङ्मिथ्या स्वतः कुतः ॥ nagast_14
स्वत एव हि यो नास्ति भावः सर्वो ऽस्ति कस् तदा । पर इत्य् उच्यते यो ऽयं न विना स्वस्वभावतः ॥ nagast_15
न स्वभावो ऽस्ति भावानां परभावो ऽस्ति नो यदा । भावग्रहग्रहावेशः परतन्त्रो ऽस्ति कस् तदा ॥ nagast_16
आदाव् एव समं जाताः स्वभावेन च निर्वृताः । अनुत्पन्नाश् च तत्त्वेन तस्माद् धर्मास् त्वयोदिताः ॥ nagast_17
निःस्वभावास् त्वया धीमन् रूपाद्याः संप्रकाशिताः । फेनबुद्बुदमायाभ्रमरीचिकदलीसमाः ॥ nagast_18
इन्द्रियैर् उपलब्धं यत् तत् तत्त्वेन भवेद् यदि । जातास् तत्त्वविदो बालास् तत्त्वज्ञानेन किं तदा ॥ nagast_19
जडत्वम् अप्रमाणत्वम् अथाव्याकृतताम् अपि । विपरीतपरिज्ञानम् इन्द्रियानां त्वम् ऊचिवान् ॥ nagast_20
अज्ञानेनावृतो येन यथावन् न प्रपद्यते । लोकस् तेन यथाभूतम् इति मत्वा त्वयोदितम् ॥ nagast_21
अस्तीति शाश्वती दृष्तिर् नास्तीत्य् उच्छेददर्शनम् । तेनान्तद्वयनिर्मुक्तो धर्मो ऽयं देशितस् त्वया ॥ nagast_22
चतुष्कोटिविनिर्मुक्तास् तेन धर्मास् त्वयोदिताः । विज्ञानस्याप्य् अविज्ञेया वाचां किम् उत गोचराः ॥ nagast_23
स्वप्नेन्द्रजालिकोद्भूतं द्विचन्द्रोद्वीक्षणं यथा । भूतं तद्वस्तु नो भूतं तथा दृष्टं जगत् त्वया ॥ nagast_24
उत्पन्नश् च स्थितो नष्टः स्वप्ने यद्वत् सुतस् तथा । न चोत्पन्नः स्थितो नष्ट उक्तो लोको ऽर्थतस् त्वया ॥ nagast_25
कारणात् संभवो दृष्टो यथा स्वप्ने तथेतरः । संभवः सर्वभावानां विभवो ऽपि मतस् तथा ॥ nagast_26
रागादिजं यथा दुःखं संक्लेशसंसृती तथा । संभारपूरणान् मुक्तिः स्वप्नवद् भाषिता त्वया ॥ nagast_27
जातं तथैव नो जातम् आगतं गतम् इत्य् अपि । बद्धो मुक्तस् तथा ज्ञानी द्वयम् इच्छेन् न तत्त्ववित् ॥ nagast_28
उत्पत्तिर् यस्य नैवास्ति तस्य का निर्वृतिर् भवेत् । मायागजप्रकाशत्वाद् आदिशान्तत्वम् अर्थतः ॥ nagast_29
उत्पन्नो ऽपि न चोत्पन्नो यद्वन् मायागजो मतः । उत्पन्नं च तथा विश्वम् अनुत्पन्नं च तत्त्वतः ॥ nagast_30
अमेयैर् अप्रमेयानां प्रत्येकं निर्वृतिः कृता । लोकनाथैर् हि सत्त्वानां न कश् चिन् मोचितश् च तैः ॥ nagast_31
ते च सत्त्वाश् च नो जाता ये निर्वान्ति न ते स्फुटम् । न कश् चिन् मोचितः कैश् चिद् इति प्रोक्तं महामुने ॥ nagast_32
मायाकारकृतं यद्वद् वस्तुशून्यं तथेतरत् । वस्तुशून्यं जगत् सर्वं त्वयोक्तं कारकस् तथा ॥ nagast_33
कारको ऽपि कृतो ऽन्येन कृतत्वं नातिवर्तते । अथ वा तत्क्रियाकर्तृ कारकस्य प्रसज्यते ॥ nagast_34
नाममात्रं जगत् सर्वम् इत्य् उच्चैर् भाषितं त्वया । अभिधानात् पृथग्भूतम् अभिधेयं न विद्यते ॥ nagast_35
कल्पनामात्रम् इत्य् अस्मात् सर्वधर्माः प्रकाशिताः । कल्पनाप्य् असती प्रोक्ता यया शून्यं विकल्प्यते ॥ nagast_36
भावाभावद्वयातीतम् अनतीतं च कुत्र चित् । न च ज्ञानं न च ज्ञेयं न चास्ति न च नास्ति यत् ॥ nagast_37
यन् न चैकं न चानेकं नोभयं न च नोभयम् । अनालयम् अथाव्यक्तम् अचिन्त्यम् अनिदर्शनम् ॥ nagast_38
यन् नोदेति न च व्येति नोच्छेदि न च शाश्वतम् । तद् आकाशप्रतीकाशं नाक्षरज्ञानगोचरम् ॥ nagast_39
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । तथाविधश् च सद्धर्मस् तत्समश् च तथागतः ॥ nagast_40
तत् तत्त्वं परमार्थो ऽपि तथता द्रव्यम् इष्यते । भूतं तद् अविसंवादि तद्बोधाद् बुद्ध उच्यते ॥ nagast_41
बुद्धानां सत्त्वधातोश् च तेनाभिन्नत्वम् अर्थतः । आत्मनश् च परेषां च समता तेन ते मता ॥ nagast_42
भावेभ्यः शून्यता नान्या न च भावो ऽस्ति तां विना । तस्मात् प्रतीत्यजा भावास् त्वया शून्याः प्रकाशिताः ॥ nagast_43
हेतुप्रत्ययसंभूता परतन्त्रा च संवृतिः । परतन्त्र इति प्रोक्तः परमार्थस् त्व् अकृत्रिमः ॥ nagast_44
स्वभावः प्रकृतिस् तत्त्वं द्रव्यं वस्तु सद् इत्य् अपि । नास्ति वै कपितो भावो परतन्त्रस् तु विद्यते ॥ nagast_45
अस्तीति कल्पिते भावे समारोपस् त्वयोदितः । नास्तीति कृतकोच्छेदाद् उच्छेदश् च प्रकाशितः ॥ nagast_46
तत्त्वज्ञानेन नोच्छेदो न च शाश्वतता मता । वस्तुशून्यं जगत् सर्वं मरीचिप्रतिमं मतम् ॥ nagast_47
मृगतृष्णाजलं यद्वन् नोच्छेदि न च शाश्वतम् । तद्वत् सर्वं जगत् प्रोक्तं नोच्छेदि न च शाश्वतम् ॥ nagast_48
द्रव्यम् उत्पद्यते यस्य तस्योच्छेदादिकं भवेत् । अन्तवान् नान्तवांश् चापि लोकस् तस्य प्रसज्यते ॥ nagast_49
ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति । यत्रोभयम् अनुत्पन्नम् इति बुद्धं तदास्ति किम् ॥ nagast_50
इति मायादिदृष्तान्तैः स्फुटम् उक्त्वा भिषग्वरः । देशयाम् आस सद्धर्मं सर्वदृष्टिचिकित्सकम् ॥ nagast_51
एतत् तत् परमं तत्त्वं निःस्वभावार्थदेशना । भावग्रहगृहीतानां चिकित्सेयम् अनुत्तरा ॥ nagast_52
धर्मयाज्ञिक तेनैव धर्मयज्ञो निरुत्तरः । अभीक्ष्णम् इष्टस् त्रैलोक्ये निष्कपाटो निरर्गलः ॥ nagast_53
वस्तुग्राहभयोच्छेदी कुतीर्थ्यमृगभीकरः । नैरात्म्यसिंहनादो ऽयम् अद्भुतो नदितस् त्वया ॥ nagast_54
शून्यताधर्मगम्भीरा धर्मभेरी पराहता । नैःस्वाभाव्यमहानादो धर्मशङ्खः प्रपूरितः ॥ nagast_55
धर्मयौतुकम् आख्यातं बुद्धानां शासनामृतम् । नीतार्थम् इति निर्दिष्टं धर्माणां शून्यतैव हि ॥ nagast_56
या तूत्पादनिरोधादिसत्त्वजीवादिदेशना । नेयार्था च त्वया नाथ भाषिता संवृतिश् च सा ॥ nagast_57
प्रज्ञापारमिताम्भोधेर् यो ऽत्यन्तम् पारम् आगतः । स पुण्यगुणरत्नाढ्यस् त्वद्गुणार्णवपारगः ॥ nagast_58
इति स्तुत्वा जगन्नाथम् अचिन्त्यम् अनिदर्शनम् । यद् अवाप्तं मया पुण्यं तेनास्तु त्वत्समं जगत् ॥ nagast_59
॥ इत्य् अचिन्त्यस्तवः समाप्तः ॥
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
copyright (c) 2003 by chr. lindtner - denmark
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
