Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
मैत्रेयव्याकरण
- Thông tin
- GRETIL — 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
मैत्रेयव्याकरण
(दश मासांश् च) निखिलान् धारयित्वा महाद्युतिम् सुपुष्पिते ऽस्मिन् उद्याने मैत्रेयजननी ततः // MvyG_31
न निषण्णा निपन्ना वा स्थिता सा धर्मचारिणी द्रुमस्य शाखाम् आलम्ब्य मैत्रेयं जनयिष्यति // MvyG_32
अलिप्तो गर्भपङ्केन कुशेशयम् इवाम्बुना त्रैधातुकम् इदं सर्वं प्रभया पूरयिष्यति // MvyG_33
प्रीतो ऽथ तं सहस्राक्षो देवराजा शचीपतिः जायमानं ग्रहीता स मैत्रेयं द्विपदोत्तमम् // MvyG_34
पदानि जातमात्रश् च सप्तासौ प्रक्रमिष्यति पदे पदे निधनं च पद्मं पद्मं भविष्यति // MvyG_35
दिशश् चतस्रश् चोद्वीक्ष्य वाचं प्रव्याहरिष्यति इयं मे पश्चिमा जातिर् नास्ति भूयः पुनर्भवः न पुनर् अभ्यागमिष्यामि निर्वास्यामि निरास्रवः // MvyG_36
संसारार्णवमग्नानां सत्त्वानां दुःखभागिनाम् तृष्णाबन्धनबद्धानां करिष्यामि विमोचनम् // MvyG_37
श्वेतं चास्य सुराश् छत्त्रं धारयिष्यन्ति मूर्धनि शीतोष्णवारिधाराभ्यां नागेन्द्रौ स्नापयिष्यतः // MvyG_38
प्रतिगृह्य च तं धात्री द्वात्रिंशद्वरलक्षणम् श्रिया ज्वलन्तं मैत्रेयं मात्रे समुपनेष्यति // MvyG_39
मनोरमां च शिविकां नानारत्नविभुषिताम् आरूढां पुत्रसहितां वहिष्यन्ति च देवता // MvyG_40
ततस् तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम् प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति // MvyG_41
दृष्ट्वैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम् प्रत्यवीक्षाथ मन्त्रेषु तदा प्रीतो भविष्यति // MvyG_42
गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते नराधिपश् चक्रवर्ती बुद्धो वा द्वीपदोत्तमः // MvyG_43
स च यौवनसंप्राप्तो मैत्रेयाः पुरुषोत्तमः चिन्तयिष्यति धर्मात्मा दुःखिता खल्व् इयां प्रजाः // MvyG_44
ब्रह्मस्वरो महाघोषो हेमवर्णो महाद्युतिः विशालवक्षाः पीनाङ्सः पद्मपत्त्रनिभेक्षणः // MvyG_45
हस्तः पञ्चाशद् उच्छ्राय तस्य कायो भविष्यति विसृतश् च ततो ऽर्द्धेन शुभवर्णसमुच्छ्रयः // MvyG_46
अशीतिभिश् चतुर्भिश् च सहस्रैः संपुरस्कृतः माणवानां स मैत्रेयो मन्त्रान् अध्यापयिष्यति // MvyG_47
अथ शङ्खो नरपतिः यूपम् उच्छ्रापयिष्यति तिर्यञ् च षोडशव्यामम् ऊर्ध्वं व्यामसहस्रकम् // MvyG_48
स तं यूपं नरपतिर् नानारत्नविभूषितम् प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरःसरम् सप्तरत्नमयं यूपं ब्राह्मणेभ्यः प्रदास्यति // MvyG_49
तं च रत्नमयं यूपं दत्तमात्रं मनोरमम् ब्राह्मणानां सहस्राणि विकिरिष्यन्ति तत्क्षणात् // MvyG_50
यूपस्य तस्य मैत्रेयो दृष्ट्वा चैताम् अनित्यताम् कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति // MvyG_51
यत्व् अहं प्रव्रजित्वेह स्पृशेयम् अमृतं पदम् विमोचयेयं जनतां व्याधिमृत्युजराभयात् // MvyG_52
अशीतिभिः सहस्रैः स चतुर्भिश् च पुरस्कृतः निष्क्रमिष्यति मैत्रेयः प्रव्रज्याम् अग्रपुद्गलः // MvyG_53
नागवृक्षस् तदा तस्य बोधिवृक्षो भविष्यति पञ्चाशद्योजनान्य् अस्य शाखा ऊर्ध्वं समुच्छ्रिताः // MvyG_54
निषद्य तस्य चाधस्तान् मैत्रेयो पुरुषोत्तमः अनुत्तरां शिवां बोधिं समवाप्स्यति नायकः // MvyG_55
यस्याम् एव च रात्रौ स प्रव्रज्यां निष्क्रमिष्यति तस्याम् एव च रात्रौ हि परां बोधिम् अवाप्स्यति // MvyG_56
अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् // MvyG_57
प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् // MvyG_58
आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् तं चापि धर्मं संश्रुत्य प्रतिपत्स्यन्ति शासने // MvyG_59
उद्याने पुष्पसंच्छन्ने सन्निपातो भविष्यति पूर्णं च योजनशतं पर्षत् तस्य भविष्यति // MvyG_60
श्रुत्वा नरपति राजा शङ्खो नाम महायशाः दत्त्वा दानम् असंख्येयं प्रव्रज्यां निष्क्रमिष्यति // MvyG_61
अशीतिभिश् चतुर्भिश् च सहस्रैः परिवारितः नराधिपो विनिष्क्रम्य प्रव्रज्याम् उपयास्यति // MvyG_62
अनेनैव प्रमाणेन मानवानां पुरस्कृतः मैत्रेयस्य पिता तत्र प्रव्रज्याम् निष्क्रमिष्यति // MvyG_63
ततो गृहपतिस् तत्र सुधनो नाम विश्रुतः प्रव्रजिष्यति शुद्धात्मा मैत्रेयस्यानुशसने // MvyG_64
स्त्रीरत्नम् अथ शङ्खस्य विशाखा नाम विश्रुता अशीतिभिश् चतुर्भिश् च सहस्रैः संपुरस्कृता नारीणां अभिनिष्क्रम्य प्रव्रज्याम् रोचयिष्यति // MvyG_65
प्राणिनः तत्र समये सहस्राणि शतानि च प्रव्रज्याम् उपयास्यन्ति मैत्रेयस्यानुशासने // MvyG_66
सुपुष्पिते ऽस्मिन् उद्याने सन्निपातो भविष्यति समन्ततो योजनशतं पर्षत् तस्य भविष्यति // MvyG_67
ततः कारुणिकः शास्ता मैत्रेयः पुरुषोत्तमः समितिं व्यवलोक्याथ इदम् अर्थं प्रवक्ष्यति // MvyG_68
सर्वे ते शाक्यसिंहेन गुणिश्रेष्ठेन त्रायिना अर्थतो लोकनाथेन दृष्ट्वा सद्धर्मधातुना रोपिता मोक्षमार्गेण विक्षिप्ता मम शासने // MvyG_69
छत्त्रध्वजपताकाभिर् गन्धमाल्यविलेपनैः कृत्वा स्तूपेषु सत्कारम् आगता हि ममान्तिकम् // MvyG_70
सङ्घे दत्त्वा च दानानि चीवरं पानभोजनम् विविधं ग्लानभैषज्यम् आगता हि ममान्तिकम् // MvyG_71
कुङ्कुमोदकसेकं च चन्दनेनानुलेपनम् दत्त्वा शाक्यमुनेः स्तूपेष्व् आगता हि ममान्तिकम् // MvyG_72
शिक्षापदानि चादाय शाक्यसिंहस्य शासने परिपाल्य यथाभूतम् आगता हि ममान्तिकम् // MvyG_73
उपोषधम् उपोष्येह आर्यम् अष्टाङ्गिकं शुभम् चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा प्रातिहारिकपक्षं चाप्य् अष्टाङ्गं सुसमाहितम् // MvyG_74
शीलानि च समादाय संप्राप्तानि च शासनम् बुद्धं धर्मं च सङ्घं च सत्त्वास् ते शासनं गताः कृत्वा च कुशलं कर्म मच्छासनम् उपागताः // MvyG_75
तेनैते प्रेषिताः सत्त्वाः प्रतीष्टाश् च मयाप्य् अमी गणिश्रेष्ठेण मुनिना परीता भूरिमेधसा // MvyG_76
प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति श्रुत्वा च ते ततो धर्मं प्राप्स्यन्ति पदम् उत्तमम् // MvyG_77
प्रातिहार्यत्रयेणासौ श्रावकान् विनयिष्यति सर्वे ते अस्रवास् तत्र क्षिपयिष्यन्ति सुरताः // MvyG_78
प्रथमः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णाः षण्नवतिकोट्यः श्रावकाणां भवच्छिदाम् // MvyG_79
द्वितीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णाश् चतुर्नवतिः कोट्यः शान्तानां भूरिमेधसाम् // MvyG_80
तृतीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णा द्वाविंशतिः कोट्यः शान्तानां शान्तचेतसाम् // MvyG_81
धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान् सार्धं श्रावकसङ्घेन पुरे पिण्डं चरिष्यति // MvyG_82
ततः प्रविशतस् तस्यां रम्यां केतुमतीं पुरीम् मान्दारकाणि पुष्पानि पतिष्यन्ति पुरोत्तमे देवताः प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ // MvyG_83
चत्वारश् च महाराजाः शक्रश् च त्रिदशाधिपः ब्रह्मा देवगणैः सार्धं पूजां तस्य करिष्यति // MvyG_84
उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकम् अगुरुं चन्दनं चापि दिव्यं माल्यं पतिष्यति // MvyG_85
चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः तं लोकनाथम् उद्वीक्ष्य प्रविशन्तं पुरोत्तमम् // MvyG_86
दिव्यश् च तूर्यनिर्घोषो दिव्यं माल्यं पतिष्यति देवता प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ // MvyG_87
ये तु केतुमतीं के चिद् वासयिष्यन्ति मानुषाः ते पि तं पूजयिष्यन्ति प्रविशन्तं पुरोत्तमम् // MvyG_88
पथि भूम्यास्तरं तत्र मृदुतूलपिचोपमम् विचित्रं च शुभं माल्यं विकिरिष्यन्ति ते तदा // MvyG_89
छत्त्रध्वजपताकाभिर् अर्चयिष्यन्ति मानुषाः शुभैश् च तूर्यनिर्घोषैः प्रसन्नमनसो नराः // MvyG_90
तं च शक्रः सहस्राक्षो देवराजः शचीपतिः प्रहृष्टः प्राञ्जलिर्भूत्वा मैत्रेयं स्तोष्यते जिनम् // MvyG_91
नमस् ते पुरुषाजन्य नमस् ते पुरुषोत्तम अनुकम्पस्व जनतां भगवन्न् अग्रपुद्गल // MvyG_92
महर्द्धिको देवपुत्रस् तस्य मारो भविष्यति स चापि प्राञ्जलिर्भूत्वा स्तोष्यते लोकनायकम् // MvyG_93
शुद्धावाससहस्रैश् च बहुभिः परिवारितः प्रवेक्ष्यते च मैत्रेयो लोकनाथो विनायकः // MvyG_94
ब्राह्मणपरिवारेण ब्रह्मा चापि गिरास्फुटम् कथयिष्यति सद्धर्मं ब्रह्मं घोषम् उदीरयन् // MvyG_95
आकीर्णा पृथिवी सर्वा अर्हद्भिश् च भविष्यति क्षीणास्रवैर् वान्तदोषैः प्रहीणभवबन्धनैः // MvyG_96
हृष्टा देवमनुष्याश् च गन्धर्वा यक्षराक्षसाः शास्तुः पूजां करिष्यन्ति नागाश् चापि महर्द्धिकाः // MvyG_97
ते वै नूनं भविष्यन्ति च्यानघाश् (?) छिन्नसंचयाः उत्क्षिप्तपरिखाः धीरा अनादाना निरुत्सकाः ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने // MvyG_98
ते ऽपि नूनं भविष्यन्ति अममा अपरिग्रहाः अजातरूपरजता अनिकेता असंस्तवाः ब्रह्मचर्यं चरिष्यन्ति ये मैत्रेयानुशसने // MvyG_99
ते वै पानं गमिष्यन्ति छित्वा जालम् एव भुजात् ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने // MvyG_100
षष्टिं वर्षसहस्राणि मैत्रेयो द्विपदोत्तमः देशयिष्यति सद्धर्मं शास्ता लोकानुकम्पया // MvyG_101
शतानि च सहस्राणि प्राणिनं स विनायकः विनीय धर्मकायेन ततो निर्वाणम् एष्यति // MvyG_102
तस्मिंश् च निर्वृते धीरे मैत्रेये द्विपदोत्तमे दशवर्षसहस्राणि सद्धर्मः स्थास्यति क्षितौ // MvyG_103
प्रसादयति चित्तानि तस्माच् छाक्यमुनौ जिने ततो दृक्षथ मैत्रेयं संबुद्धं द्विपदोत्तमम् // MvyG_104
तस्माद् धर्मे च बुद्धे च सङ्घे चापि गणोत्तमे प्रसादयति चित्तानि भविष्यति महर्द्धिकम् // MvyG_105
तं तादृशं कारुणिकं मैत्रेयं द्विपदोत्तमम् आराधयित्वा कालेन ततो निर्वाणम् एष्यथ // MvyG_106
इदम् आश्चर्यकं श्रुत्वा दृष्ट्वा च विभवानल्पिकाम् को विद्वान् न प्रसीदेत अपि कृष्णासु जातिषु // MvyG_107
तस्माद् इहात्मकामेन माहात्म्यम् अभिकाङ्क्षताः सद्धर्मो गुरुकर्तव्यः स्मरता बुद्धशासनम् // MvyG_108
मैत्रेयव्याकरणं समाप्तम् //
एलापत्त्रश् च गान्धारे शङ्खो वाराणसीपुरे // MvyC_25
चतुर्भिर् एभिर् निधिभिः स राजा सुसमन्वितः भविष्यति महावीरश् शतपुण्यबलोदितः // MvyC_26
ब्राह्मणस् तस्य राज्ञश् च सुब्राह्मणः पुरोहितः बहुश्रुतश् चतुर्वेदस् तस्योपध्यायो भविष्यति // MvyC_27
अध्यापको मन्त्रधरः स्मृतिमान् वेदपारगः कैटाभे स निर्घण्टे च पदव्याकरणे तथा // MvyC_28
तदा ब्रह्मावती नाम तस्य भार्या भविष्यति दर्शनीया प्रासादिका अभिरूपा यशस्विनी // MvyC_29
तुषितेभ्यश् च्यवित्वा तु मैत्रेयो ह्य् अग्रपुद्गलः तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहीष्यति // MvyC_30
दश मासांश् च निखिलान् धारयित्वा महाद्युतिः सुपुष्पिते च उद्याने गत्वा मैत्रेयमातरा // MvyC_31
न निषण्णा न सुप्तासौ स्थिता सा धर्मचारिणी द्रुमस्य शाखाम् आलम्ब्य मैत्रेयं जनयिष्यति // MvyC_32
निष्क्रमिष्यति पार्श्वेन दक्षिणेन नरोत्तमः अभ्रकूटाद् यथा सूर्यो निर्गतश् च प्रभासते // MvyC_33
अलिप्तो गर्भपङ्केन पद्मं चैव यथाम्भसा त्रैधातुकम् इदं सर्वं प्रभया पूरयिष्यति // MvyC_34
अथ प्रीतस् सहस्राक्षो देवराजश् शचीपतिः ग्रहीष्यति कुमारं तं जायमानं नरोत्तमम् // MvyC_35
श्रिया ज्वलन्तं मैत्रेयं द्वात्रिंशद्वरलक्षणम् मुञ्च मुञ्च सहस्राक्ष जातमात्रो वदिष्यति // MvyC_36
पदानि जातमात्रस् तु सप्तासौ प्रक्रमिष्यति पदे पदे निधनं च पद्मं पद्मं भविष्यति // MvyC_37
दिशश् चतस्रश् चोद्वीक्ष्य वाचं प्रव्याहरिष्यति इयं मे पश्चिमा जातिर् नास्ति भूयः पुनर्भवः // MvyC_38
न पुनर् आगमिष्यामि निर्वास्यामि निराश्रवः शीतोष्णवारिधाराभिस् स्नापयिष्यन्ति पन्नगाः // MvyC_39
दिव्याम्बराणि पुष्पाणि पतिष्यन्ति नभस्तलात् श्वेतं तस्य सुराश् छत्त्रं धारयिष्यन्ति मूर्धनि // MvyC_40
हृष्टश् चैव सहस्राक्षो देवराजो शचीपतिः ग्रहीष्यति तं कुमारं द्वात्रिंशद्वरलक्षणम् श्रिया ज्वलन्तं मैत्रेयं मातुर् हस्ते प्रदास्यति // MvyC_41
मनोरमां च शिविकां नानारत्नविभुषिताम् आरूढा पुत्रसहिता वहिष्यते च देववत् // MvyC_42
ततस् तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम् प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति // MvyC_43
तस्मिंश् च दिवसे भार्या गुर्विण्यः प्रसविष्यन्ति सर्वास् ता जनयिष्यन्ति पुत्रान् क्षेमेण स्वस्तिना // MvyC_44
दृष्ट्वा च पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम् प्रत्यवेक्ष्य च मन्त्रेषु ततः प्रीतो भविष्यति // MvyC_45
गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते नराधिपश् चक्रवर्ती बुद्धो वा द्वीपदोत्तमः // MvyC_46
स च यौवनसंप्राप्तो मैत्रेयो ह्य् अग्रपुद्गलः चिन्तयिष्यति धर्मात्मा दुःखिताह् खल्व् इमाः प्रजाः // MvyC_47
ब्रह्मस्वरो महाघोषो हेमवर्णो महाद्युतिः विशालवक्षाः पीनाङ्गः पद्मपत्त्रनिभेक्षणः // MvyC_48
समुच्छ्रयेण हस्ताशीतिस् तस्य कायो भविष्यति विस्तारं विंशहस्तानि ततो ऽर्धम् मुखमण्डलम् // MvyC_49
अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः माणवानां च मैत्रेयो मंत्रान् अध्यापयिष्यति // MvyC_50
ततः शङ्खो महाराजो यूपम् उच्छ्रापयिष्यति षोडशव्यामविस्तारम् ऊर्ध्वं व्यामसहस्रकम् // MvyC_51
स तं यूपं नरपतिर् नानारत्नविभूषितम् प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरस्सरम् सप्तरत्नमयं यूपं ब्राह्मणेभ्यः प्रदास्यति // MvyC_52
तं च रत्नमयं यूपं दत्तमात्रं मनोरमम् ब्राह्मणानां सहस्राणि विकरिष्यन्ति तत्क्षणात् // MvyC_53
तस्य यूपस्य मैत्रेयो दृष्ट्वा चैनाम् अनित्यताम् कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति // MvyC_54
यत्राहं प्रव्रजित्वेह स्पृशेयम् अमृतं पदम् विमोचयेयं जनतां व्याधिमृत्युजराभयात् // MvyC_55
अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः निष्क्रमिष्यति मैत्रेयः प्रव्रज्याम् अग्रपुद्गलः // MvyC_56
नागवृक्षस् तदा तस्य बोधिवृक्षो भविष्यति पञ्चाशद्योजनास् तस्य ऊर्ध्वं शाखाः समुद्गताः षट्क्रोशविटपाण्य् अस्य विवृतानि समन्ततः // MvyC_57
तस्य मूले निषण्णो ऽसौ मैत्रेयो द्विपदोत्तमः अनुत्तरां च संबोधिं प्राप्स्यति नात्र संशयः // MvyC_58
अष्टाङ्गोपेतया वाचा ततः स मुनिसत्तमः देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् // MvyC_59
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् // MvyC_60
प्रसन्नान् जनतां दृष्ट्वा सत्यानि कथयिष्यति तं चास्य धर्मं संश्रुत्य प्रतिपद्यन्ति शासने // MvyC_61
सुपुष्पिते च उद्याने सन्निपातो भविष्यति पूर्णं च योजनं शतं पर्षत् तस्य भविष्यति // MvyC_62
ततः श्रुत्वा नरपतिः शङ्खो राजा महायशाः दत्त्वा दानम् असंख्येयं प्रव्रज्यां रोचयिष्यति // MvyC_63
अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः नराधिपो विनिष्क्रम्य प्रव्रज्याम् उपयास्यति // MvyC_64
तेनैव च प्रमाणेन मानवानां पुरस्कृतः मैत्रेयस्य पिता चैव प्रव्रज्याम् उपयास्यति // MvyC_65
ततो गृहपतिः x x सुधनो नाम विश्रुतः प्रव्रजिष्यति धर्मात्मा सहस्रैः परिवारितः // MvyC_66
स्त्रीरत्नम् अथ शङ्खस्य विशाखा नाम विश्रुता अशीतिभिश् चतुर्भिश् च सहस्रैः सा पुरस्कृता नारीणां सह निष्क्रम्य प्रव्रज्याम् उपयास्यति // MvyC_67
प्राणिनां तत्र समये सहस्राणि शतानि च प्रव्रज्याम् उपयास्यन्ति मैत्रेयस्यानुशासने // MvyC_68
ततः कारुणिकः शास्ता मैत्रेयो द्विपदोत्तमः समितिं व्यवलोक्याथ इदम् अर्थं प्रवक्ष्यति // MvyC_69
सर्वे ते शाक्यमुनिना मुनिश्रेष्ठेन तायिना अर्थतो लोकनाथेन दृष्टाः सद्धर्मधातुना रोपिता मोक्षमार्गणे विक्षिप्ता मम शासने // MvyC_70
छत्त्रध्वजपताकाभिर् गन्धमाल्यानुलेपनैः कृत्वा शाक्यमुनेः पूजां ह्य् आगता मम शासने // MvyC_71
कुङ्कुमोदकरसेन चन्दनेनानुलेपनम् दत्त्वा शाक्यमुनेः स्तूपे ह्य् आगता मम शासने // MvyC_72
बुद्धं धर्मं च सङ्घं च गत्वा तु शरणं सदा कृत्वा तु कुशलं कर्म आगता मम शासने // MvyC_73
śikṣāpadāni samādāya x śākyamuniśāsane प्रतिपाल्य यथाभूतं ह्य् आगता मम शासने // MvyC_74
दत्त्वा सङ्घे च दानानि चीवरपानभोजनम् विचित्रं ग्लानभैषज्यं ह्य् आगता मम शासने // MvyC_75
चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा प्रातिहारकपक्षं च अष्टाङ्गं सुसमाहितम् उपवासम् उपोषित्वा ह्य् आगता मम शासने // MvyC_76
प्रातिहार्यत्रयेणासौ श्रावकान् वेदयिष्यति सर्वे ते ह्य् अस्रवान् धर्मान् क्षपयिष्यन्ति x x x // MvyC_77
प्रथमः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णाः षण्नवतिः कोट्यः श्रावकाणां भवच्छिदाम् // MvyC_78
द्वितीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णाश् चतुर्नवतिः कोट्यो मुक्तानां क्लेशबन्धनात् // MvyC_79
तृतीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णा द्वानवतिः कोट्यो मुक्तानां शान्तचेतसाम् // MvyC_80
धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान् सार्धं श्रावकसङ्घेन पुरे पिण्डं चरिष्यति // MvyC_81
ततः प्रविशतस् तस्य रम्यां केतुमतीपुरीम् मान्दारवाणि पुष्पानि पतिष्यन्ति नरोत्तमे देवताः प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ // MvyC_82
चत्वारश् च महाराजाः शक्रश् च त्रिदशाधिपः ब्रह्मदेवगणैः सार्धं पूजां तस्य करिष्यति // MvyC_83
उत्पलकुमुदपद्मपुण्डरीकसुगन्धिकम् अगुरुं चन्दनं चैव दिव्यमालास् तथैव च // MvyC_84
चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः तं लोकनाथम् उद्वीक्ष्य प्रविशन्तं पुरोत्तमम् // MvyC_85
पथि भूमिः स्थिता तत्र मृदुतूलपिचूपमा विचित्रं च श्रुतं माल्यं विस्तरिष्यन्ति ते पथि // MvyC_86
छत्त्रध्वजपताकानि गन्धमाल्यानुलेपनैः श्रुतैश् च तूर्यनिर्घोषैः प्रसन्नमनसो नराः शास्तुः पूजां करिष्यन्ति देवपुत्रा महर्द्धिकाः // MvyC_87
स च शक्रः सहस्राक्षो देवराजो महाद्युतिः प्रहृष्टः प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् // MvyC_88
नमस् ते पुरुषाजन्य नमस् ते पुरुषोत्तम अनुकम्पस्व जनतां भगवन्न् अग्रपुद्गल // MvyC_89
महर्द्धिको देवपुत्रस् तस्य मारो भविष्यति स चैव प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् // MvyC_90
ब्राह्मणपरिवारेण ब्रह्मा चैव पुरस्कृतः कथयिष्यति सद्धर्मं ब्रह्मघोषम् उदीरयन् // MvyC_91
आकीर्णा पृथिवी सर्वा अर्हद्भिश् च भविष्यति क्षीणास्रवैर् वान्तदोषैः प्रहीणभवबन्धनैः // MvyC_92
हृष्टा देवा मनुष्याश् च गन्धर्वा यक्षराक्षसाः शास्तुः पूजां करिष्यन्ति नागाश् चापि महर्द्धिकाः // MvyC_93
ते च नूनं भविष्यन्ति अखिलाश् छिन्नसंचयाः छिन्नस्रोता अनादीना उत्तीर्नाभवसागराः ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने // MvyC_94
ते वै नूनं भविष्यन्ति अममा अपरिग्रहाः अजातरूपरजता अनिकेता असंस्तवाः ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने // MvyC_95
ते वै नूनं भविष्यन्ति छिन्नजालविशक्तिकाः ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने // MvyC_96
षष्टिवर्षसहस्राणि मैत्रेयो द्विपदोत्तमः देशयिष्यति सद्धर्मं सर्वभूतानुकम्पकम् // MvyC_97
शतलक्षसहस्राणि प्राणिनं स विनायकः विनयित्वा च सद्धर्मं ततो निर्वाणम् एष्यति // MvyC_98
parinirvṛtasya x x tasyaiva x mahāmuneḥ दशवर्षसहस्राणि सद्धर्मः स्थास्यते तदा // MvyC_99
प्रसादयित्वा चित्तानि तस्मिन् शाक्यमुनौ जिने ततो द्रक्ष्यथ मैत्रेयं संबुद्धं द्विपदोत्तमम् // MvyC_100
इदम् आश्चर्यकं श्रुत्वा इमाम् ऋद्धिम् अनुत्तमाम् को विद्वान् न प्रसीदेत अतिकृष्णाभिजातिकः // MvyC_101
तस्माद् इहात्मकामेन माहात्म्यम् अभिकाङ्क्षिणा सद्धर्मो गुरुकर्तव्यः स्मरता बुद्धशासनम् // MvyC_102
मैत्रेयव्याकरणं समाप्तम् // ये धर्मा (एत्च्.) // चीनदेशीविनिर्गतः भिक्षु पुण्यकीर्तिर् यद् अत्र पुण्यं तद् भवत्व् आचार्योपाध्यायमातापितृपूर्वङ्गमं क्र्त्वा सकलसत्त्वराशेर् अनुत्तरज्ञानफलाप्तय इति // श्रीमद् गोपालदेवराज्यसंवत् 57 फाल्गुन दिने 9 घोसलीग्रामे लिखति / ओं हारीती महायक्षिणी हर हर मम सर्वपापानि स्वाहा //
ओं नमो मैत्रेयनाथाय //
एवं मया श्रुतम् एकस्मिं समये भगवान् राजगृहे विहरति स्म / वेणुवने कलन्दकनिवासे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः //
अथ खल्व् आयुष्माञ्
छारिपुत्र महाप्रज्ञो धर्मसेनापतिर् विभुः लोकस्य अनुकम्पार्थं शास्तारं परिपृच्छति // MvyK_1
यो ऽसाव् अनागतो बुद्धो निर्दिष्टो लोकनायकः मैत्रेय इति नाम्ना ऽसौ सूत्रपूर्वापरान्तिके // MvyK_2
तस्याहं विस्तरञ् चैवं श्रोतुम् इच्छामि नायक ऋद्धिञ् चास्यानुभावञ् च तन् मे ब्रूहि नरोत्तम // MvyK_3
अथैनम् अवदच् छास्ता व्याकरिष्याम्य् अहं तव विस्तरन् तस्य बुद्धस्य मैत्रेयस्य शृणोहि मे // MvyK_4
उदधिस् तेन कालेन द्वात्रिंशत्शतयोजनः शोषम् आयास्यते यस्माच् चक्रवर्ती यथा ह्य् असौ // MvyK_5
दशयोजनसाहस्रा जम्बुद्वीपो भवैष्यति आलयः सर्वभूतानां विस्तरेण समन्ततः // MvyK_6
ऋद्धिस्फीता जनपदा अदण्डा अनुपद्रवाः तत्र काले भविष्यन्ति नरास् ते शुभकर्मिनः // MvyK_7
अकण्टका वसुमती समाहरितशाद्वला उन्नमन्ती नमन्ती च मृदुतूलपिचूपमा // MvyK_8
अकृष्टोत्पद्यते शालिमधुनाश् च सुगन्धि च चैलवृक्षा भविष्यन्ति नानारङ्गोपशोभिताः // MvyK_9
पुष्पपत्रफलोत्पता वृक्षाश् च क्रोशम् उच्छ्रिताः अशीतिवर्षसहस्राणि आयुस् तेषां भविष्यति // MvyK_10
निरामयाश् च ते सत्वा वीतशोका महोत्सवाः वर्णवन्तो महाशख्या महानागबलाच् चिताः // MvyK_11
त्रया रोगा भविष्यन्ति इच्छा अनशनं जरा पञ्चवर्षशता कन्या स्वामिनम् वरयिष्यति // MvyK_12
तदा केतुमती नाम राजधानी भविष्यति आवासः शुद्धसत्वानां प्राणिनां शुभकर्मिणम् // MvyK_13
योजनद्वादशायामं सप्तयोजनविस्तरम् नगरं कृतपुण्यानां भविष्यति मनोरमम् // MvyK_14
सप्तरत्नमयाश् चैव प्रकाराः क्रोशम् उच्चिताः इष्टका द्वारखण्डानां नानारत्नविभूषिताः // MvyK_15
परिषाश् च भविष्यन्ति रत्न इष्टकसंचिताः पद्मोत्पलसमान् कीर्णाश् चक्रवाकोपशोभिताः // MvyK_16
समन्ततः परिवृताः सप्तभिस् तलापङ्क्तिभिः चतूरत्नमयास् तालाः किंकिणी जालशोभिताः // MvyK_17
वातेनेरिततालेभ्यस् तदा श्रुति मनोहराः भविष्यन्ति शुभा शब्दा तूर्यास् पञ्चाङ्गिका इव // MvyK_18
ये च तस्मिन् पुरे मर्त्याः क्रीडारतिसुखान्विताः तेनैव तालशब्देन क्रीडिष्यन्ति प्रमोदिताः // MvyK_19
पुष्करिणो भविष्यन्ति कुमुदोत्पलसंचेताः उद्यानवनसंपन्नं भविष्यति च तत् पुरम् // MvyK_20
भविष्यति तदा राजा शम्खो नाम महाद्युतिः महाबलचक्रवर्ती चतुर्द्वीपेश्वरः प्रभुः // MvyK_21
चतुरङ्गबलोपेतः सप्तरत्नसमन्वितः पूर्णसहस्रपुत्राणां तस्य राज्ञो भविष्यति // MvyK_22
इमां समुद्रपर्यन्ताम् अदण्डेन वसुन्धराम् पालयिष्यति धर्मेण समेन स नराधिपः // MvyK_23
महानिधानाश् चत्वारो नयुतशतलक्षिताः भविष्यन्ति तदा तस्य राज्ञः शंखस्य भूपतेः // MvyK_24
पिङ्गलश् च कलिङ्गेषु मिथिलायाम् च पाण्डुकः एलापत्रश् च गान्धारे शंखो वाराणसीपुरे // MvyK_25
चतुर्भिर् एभिर् निधिभिः स राजा सुसमन्वितः भविष्यति महावीरः शतपुण्यफलार्पितः // MvyK_26
ब्राह्मणस् तस्य राज्ञो ऽथ सुब्रह्मा नाम्ना पुरोहितः बहुश्रुतश् चतुर्वेदी उपध्यायो भविष्यति // MvyK_27
अध्यापको मन्त्रधरः स्मृतिवान् वेदपारगः कैटाभे च स निर्घण्टे पदव्याकरणे तथा // MvyK_28
तस्य ब्रह्मवती नाम तदा भार्या भविष्यति दर्शनीया प्रासादिका अभिरूपा यशस्विनी // MvyK_29
तुषितेभ्यस् ततश् च्युत्वा मैत्रेयो ह्य् अग्रपुद्गलः तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहिष्यति // MvyK_30
दश मासांश् च निखिलान् धारयित्वा महाद्युतिम् सुपुष्पिते च उद्याने गत्वा मैत्रेयमातरः // MvyK_31
न निषण्णा निपन्ना वा स्थिता सा ब्रह्मचारिणी द्रुमस्य शाखाम् आलम्ब्य मैत्रेयं जनयिष्यति // MvyK_32
निष्क्रमिष्यति पार्श्वेन दक्षिणाङ्गे नरोत्तमः अभ्रकूटाद् यथा सूर्यो निर्गतश् च प्रभायते // MvyK_33
करिष्यते समालोकं सनरामरवन्दितः अलिप्तो गर्भपङ्केन पद्मं चैव यथाम्भुवा त्रैधातुकम् इदं सर्वं प्रभया पूरयिष्यति // MvyK_34
पदे पदे निधानं च पद्मं पद्मं भविष्यति दिशश् चतस्रो उद्वीक्ष्य वाचं प्रव्याहरिष्यति इयं मे पश्चिमा जातिर् नास्ति भूयः पुनर्भवः // MvyK_35
न पुनर् आगमिष्यामि निर्वास्यामि निराश्रवः शीतोष्णवारिधाराभिः स्नापयिष्यन्ति पुन्नगाः // MvyK_36
दिव्यासुराणि पुष्पाणि पतिष्यन्ति नभस्तलात् श्वेतं तस्य सुराश् छत्त्रं धारयिष्यन्ति मूर्धनि // MvyK_37
हृष्टश् चैव सहस्राक्षो देवराजः शचीपतिः प्रग्रहीष्यति कुमारं तं द्वात्रिंशलक्ष्णान्वितम् श्रिया ज्वलन्तं मैत्रेयं मातुर् हस्ते प्रदास्यति // MvyK_38
मनोरमां च शिविकां नानारत्नविभुषिताम् आरूढां पुत्रसहितां वहिष्यन्ति च देवताः // MvyK_39
ततस् तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम् प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति // MvyK_40
तस्मिंश् च दिवसे नार्यो गुर्विण्यः प्रसविष्यन्ति सर्वास् ता जनयिष्यन्ति पुत्रान् क्षेमेण स्वस्तिना // MvyK_41
दृष्ट्वैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम् प्रत्यवेक्ष्य सुमन्त्रेण ततः प्रीतो भविष्यति // MvyK_42
गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते नराधिपश् चक्रवर्ती बुद्धो वा द्वीपदोत्तमः // MvyK_43
स च यौवनसंप्राप्तो मैत्रेयो ह्य् अग्रपुद्गलः चिन्तयिष्यति धर्मात्मा दुःखिता खल्व् इयं प्रजा // MvyK_44
ब्रह्मस्वरो महावेगो हेमवर्णो महाद्युतिः विशालचक्षुः पीनाङ्गः पद्मपत्त्रनिभेदेक्षणः // MvyK_45
उच्छ्रयेण हस्ताशीतिः कायस् तस्य भविष्यति विस्तारं विंशतिर् हस्ता ततो ऽर्धम् मुखमण्डलम् // MvyK_46
अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः माणवानां स मैत्रेयो मन्त्रान् अध्यापयिष्यति // MvyK_47
ततः शङ्खो महाराजो यूपम् उच्छ्रापयिष्यति षोडशव्यामविस्तारम् ऊर्ध्वव्यामसहस्रकम् // MvyK_48
स तं यूपं नरपतिर् नानारत्नविभूषितम् सप्तरत्नसमाकीर्णं ब्राह्मणेभ्यः प्रदास्यति // MvyK_49
तच् च रत्नमयं यूपं दत्तमात्रं मनोरमम् ब्राह्मणानां सहस्राणि विकरिष्यन्ति तत्क्षणात् // MvyK_50
तस्य यूपस्य मैत्रेयो दृष्ट्वा चैनाम् अनित्यताम् कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति // MvyK_51
यत्व् अहं प्रव्रजित्वेह स्पृशेयम् अमृतं पदम् विमोचयेयं जनतां व्याधिमृत्युजराभयात् // MvyK_52
अशीतिभिश् चतुर्भिश् च सहस्रैः संपुरस्कृतः निःक्रमिष्यति मैत्रेयः प्रव्रज्यार्थम् अग्रपुद्गलः // MvyK_53
नागवृक्षस् तदा तस्य बोधिवृक्षो भविष्यति पञ्चाशद्योजनास् तस्य ऊर्ध्वं शाखाः भविष्यन्ति षट्क्रोशविटपाद्यानि विधूतानि समन्ततः // MvyK_54
तस्य मूले निषण्णो ऽसौ मैत्रेयो द्विपदोत्तमः अनुत्तरां च संबोधिं प्राप्स्यते नात्र संशयः // MvyK_55
अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् // MvyK_56
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् आर्याष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् // MvyK_57
प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति तथास्य धर्मं संश्रुत्वा प्रतिपद्यन्ति शासने // MvyK_58
सुपुष्पिते च उद्याने सन्निपातो भविष्यति संपूर्णं योजनशतं पर्षत् तस्य भविष्यति // MvyK_59
ततः श्रुत्वा नरपतिः शंखो नाम महायशाः दत्त्वा दानम् असंख्येयं प्रव्रज्यां रोचयिष्यति // MvyK_60
अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः नराधिपो ऽपि निष्क्रम्य प्रव्रज्याम् उपयास्यति // MvyK_61
तेनैव च प्रमाणेन मानवानां पुरस्कृतः मैत्रेयस्य पिता चैव प्रव्रज्याम् उपयास्यति // MvyK_62
ततो गृहपतिस् तत्र सुधनो नाम विश्रुतः प्रव्रजिष्यति धर्मात्मा सहस्रैः परिवारितः // MvyK_63
स्त्रीरत्नम् अथ शंखस्य विशाखा नाम विश्रुता अशीतिभिश् चतुर्भिश् च सहस्रैः सा पुरस्कृता नारीणां सह निष्क्रम्य प्रव्रज्याम् उपयास्यति // MvyK_64
प्राणिनां तत्र समये सहस्राणि शतानि च प्रव्रज्याम् उपयास्यन्ति मैत्रेयस्यानुशासने // MvyK_65
ततः कारुणिकः शास्ता मैत्रेयो द्विपदोत्तमः समितिं व्यवलोक्याथ इदम् अर्थं प्रवक्ष्यते // MvyK_66
सर्वे ते शाक्यमुनिना मुनिश्रेष्ठेन तायिना अर्थतो लोकनाथेन दृष्टाः सद्धर्मधातुना आरोपिता मोक्षमार्गे निक्षिप्ता मम शासने // MvyK_67
छत्रध्वजपताकाभिर् गन्धमाल्यानुलेपनैः कृत्वा शाक्यमुनेः पूजां ह्य् आगता मम शासने // MvyK_68
कुंकुमोदकसेकेन चन्दनेनानुलेपनम् दत्त्वा शाक्यमुनेः स्तूपे ह्य् आगता मम शासने // MvyK_69
बुद्धं धर्मं च संघं च गत्वा तु शरणं सदा कृत्वा तु कुशलं कर्म ह्य् आगता मम शासने // MvyK_70
शिक्षापदान् समादाय शाक्यसिंहस्य शासने प्रतिपाद्य यथाभूतं ह्य् आगता मम शासने // MvyK_71
दत्त्वा संघे च दानानि चीवरं पानभोजनम् विचित्रं ग्लानभैषज्यं ह्य् आगता मम शासने // MvyK_72
चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा प्रातिहारकपक्षं च अष्टाङ्गं सुसमाहितः उपवासम् उपोष्येह ह्य् आगता मम शासने // MvyK_73
प्रातिहार्यत्रयेणासौ श्रावकान् विनयिष्यति सर्वे ते सास्रवान् धर्मान् क्षययिष्यन्ति सुरताः // MvyK_74
प्रथमः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णाः षण्नवति कोट्यः श्रावकाणां भविष्यति // MvyK_75
द्वितीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णाश् चतुर्नवति कोट्यः क्लेशमुक्ता क्षणाट् // MvyK_76
तृतीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति पूर्णा द्वानवति कोट्यो मुक्तानां शान्तचेतसाम् // MvyK_77
धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान् सार्धं श्रावकसंघेन पुरे पिण्डं चरिष्यति // MvyK_78
ततः प्रवेशतस् तस्य रम्यां केतुमतीपुरीम् मान्दारवाणि पुष्पानि पतिष्यन्ति पुरोत्तमे देवताः प्रक्रमिष्यन्ति तस्मिन् पुरे गते मुनौ // MvyK_79
चत्वारश् च महाराजानः शक्रश् च त्रिदशाधिपः ब्रह्म देवगणैः सार्धं पूजां तस्य विधास्यति // MvyK_80
उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकम् अगुरुं चन्दनं चैव दिव्यमाल्यं तथैव च // MvyK_81
चैलक्षेपं विधास्यन्ति देवपुत्रा महर्द्धिकाः तं लोकनाथम् उद्वीक्ष्य प्रविशन्तं पुरोत्तमम् // MvyK_82
पथि तत्र स्थिता भूमिर् मृदुस् तूलपिचूपमा विचित्रं च ततो माल्यं विकरिष्यन्ति ते पथि // MvyK_83
छत्त्रध्वजपताकाभिर् गन्धमाल्यानुलेपनैः शुभैश् च तूर्यनिर्घोषैः प्रसन्नमनसो नराः शास्तुः पूजां करिष्यन्ति देवपुत्रा महर्द्धिकाः // MvyK_84
स च शक्रः सहस्राक्षो देवराजो महाद्युतिः प्रहृष्टः प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् // MvyK_85
नमस् ते पुरुषसिंह नमस् ते पुरुषोत्तम अनुकम्पस्व जनतां भगवन्न् अग्रपुद्गल // MvyK_86
महर्द्धिको देवपुत्रस् तस्य मारो भविष्यति स चैव प्राञ्जलिं भूत्वा स्तोष्यते लोकनायकम् // MvyK_87
शुद्धावाससहस्रैश् च बहुभिः परिवारितः प्रवेक्षते केतुमतीं मैत्रेयो लोकनन्दनः // MvyK_88
ब्राह्मणपरिवारेण ब्रह्मा चैव पुरस्कृतः कथयिष्यति सद्धर्मं ब्रह्मघोषम् उदीरयन् // MvyK_89
आकीर्णा पृथिवी सर्वा अर्हद्भिश् च भविष्यति क्षीणास्रवैर् वान्तदोषैः प्रहीणभवबन्धनैः // MvyK_90
हृष्टा देवमनुष्याश् च गन्धर्वा यक्षराक्षसाः शास्तुः पूजां करिष्यन्ति नागाश् चापि महर्द्धिकाः // MvyK_91
ते वै नूनं भविष्यन्ति अखिलाश् छिन्नसंशयाः छिन्नस्रोता अनादाता उत्तीर्ना भवसागरात् ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने // MvyK_92
ते वै नूनं भविष्यन्ति अममा अपरिग्रहाः अजातरूपरजता अनिकेता असंभवाः ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने // MvyK_93
ते वै नूनं भविष्यन्ति छिन्नजालम् अशक्तिकाः ध्यानान्य् उपसंपाद्य प्रीतिसौख्यसमन्विताः ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने // MvyK_94
षष्टिवर्षसहस्राणि मैत्रेयो द्विपदोत्तमः देशयिष्यति सद्धर्मं सर्वभूतानुकम्पकः // MvyK_95
शतलक्षसहस्राणि प्राणिनं स विनायकः विनयित्वा च सद्धर्मे ततो निर्वाणम् एष्यति // MvyK_96
परिनिर्वृतस्य तस्यैव मैत्रेयस्य महामुनेः दशवर्षसहस्राणि सद्धर्मः स्थास्यते तदा // MvyK_97
प्रसादयिष्यथ चित्तानि तस्मिं शाक्यमुनौ जिने ततो द्रक्ष्यथ मैत्रेयं संबुद्धं द्विपदोत्तमम् // MvyK_98
इदम् आश्चर्यकं श्रुत्वा इमाम् ऋद्धिम् अनुत्तमाम् को विद्वान् न प्रसीदेत अपि कृष्णाभिजातिकः // MvyK_99
तस्माद् इहात्मकामेन माहात्म्यम् अभिकांक्षता सद्धर्मो गुरुकर्तव्यः स्मरतां बुद्धशासनम् // MvyK_100
इति मैत्रेयव्याकरणं नाम महायानसूत्रं समाप्तम् । ये धर्मा हेतुप्रभवा हेतु तेषां तथागतो ह्य् अवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥ शुभम् अस्तु ॥ अब्देग्लावग्निद्विरदे शित माघे गुहानने । पूषायां पूष्णदिवसे सर्व्वानन्द समाप्त कृत् ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
