Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 24/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथ खलु भगवतो एतद् अभूषि // किम् अधिमुक्ता जटिला जटिला खलु जटिलाधिमुक्ता ति भगवां जटिलसहस्रं अभिनिर्मिणित्वा प्रासादिकां प्रसादनीयां महेशाख्यां तेहि संपरिवारितो वैहायसेन ऋद्धीये उरुविल्वाकाश्यपस्य जटिलस्य उपसंक्रान्तो // उरुविल्वाकाश्यपः सपरिवारो सार्धं पंचहि जटिलशतेहि जटिलसहस्रं दृष्ट्वा प्रासादिकां च दर्शनीयां च संकोचम् आपन्नो / इमं वास्माकम् आश्रमं सर्वो उपस्थितो महाजनकायो आगमिष्यति ते चास्माकं अभिप्रसन्ना उरुविल्वाकाश्यपस्य ऋषिस्य सपरिवारस्य लोके समसमो नास्ति अयं च ऋषि जटिलसहस्रपरिवारो महर्द्धिको महानुभावो अद्यैवम् इहाश्रमं प्राप्तो सर्वजनकायो एतस्य ऋषिस्य सहस्रपरिवारस्य महर्द्धिकस्य महानुभावस्याभिप्रसीदिष्यति / अभिप्रसन्ना च प्रसन्नाधिकारं करिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति अपचायिष्यन्ति मम सपरिवारस्य न तथा समन्वाहरिष्यन्ति // अथ खलु भगवां उरुविल्वाकाश्यपस्य ऋषिस्य इमम् एवरूपं चेतसो परिवितर्कम् आज्ञाय स्वयं जटिलवेशम् अन्तरहायितं च निर्मितं च जटिलसहस्रं // अथ खलु उरुविल्वाकाश्यपो जटिलो तस्मिं जटिलसहस्रे अन्तर्हिते स्वकेन रूपेण च भगवन्तं दृष्ट्वा तथागतम् अर्हन्तं सम्यक्संबुद्धं विद्याचरणसंपन्नं सुगतं लोकविदं अनुत्तरं पुरुषदम्यसारथिं

[_mvu_3.425_] शास्तारं देवानां च मनुष्याणां च द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतं अशीतिह अनुव्यंजनेहि उपशोभितशरीरं अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवन्तं चतुर्हि वैशारद्येहि विशारदं प्रासादिकं प्रसादनीयं च शान्तेन्द्रियं शान्तमानसं उत्तमदमसमथप्राप्तं परमदमशमथप्राप्तं नागो विय कारितकारणो अवहिर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन गुप्तो नागो जितेन्द्रियो ह्रदम् इवाच्छो अनाविलो विप्रसन्नो रतनयूपं व अभ्युद्गतं सुवर्णबिम्बम् इव प्रभासयन्तं तेजोराशिं शिरीये दीप्यमानं द्वितीयम् इव आदित्यं उदयन्तं असेचनकं अप्रतिकूलं दर्शनाय / दृष्ट्वा च पुनर् उरुविल्वाकाश्यपो सपरिवारो विस्मितो अभूषि / महर्द्धिको श्रमणो गौतमो महानुभावो ऽयं अहं पुनर् महर्द्धिकतरो //

___अथ खलु सो जनकायो आगतागतो भगवन्तम् उपसंक्रमेन्सुः भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एव पुरस्करेन्सुः भगवतो दर्शनेन न तृप्येन्सुः // अथ उरुविल्वाकाश्यपस्य ऋषिस्य एतद् अभूषि // अहो पुनर् मे आश्रमातो श्रमणो गौतमो अन्येन प्रक्रमेया // अथ भगवान् उरुविल्वाकाश्यपस्य ऋषिस्य इमम् एवरूपं चेतसो परिवितर्कम् आज्ञाय तद्यथापि नाम बलवां पुरुषो संमिंजितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेण उरुविल्वाकाश्यपस्य ऋषिस्याश्रमातो वैहायसम् अभ्युद्गम्य उरुविल्वायां सेनापतिग्रामके प्रत्यस्थासि नद्या नैरंजनायास् तीरे अजपालस्य न्यग्रोधमूले // अथ खलु उरुविल्वाकाश्यपस्य जटिलवृत्तेः अपगतेन जनकायेन एतद् अभूषि // अहो पुनः श्रमणो गौतमो इहागच्छे इहागतो खादनीयं भोजनीयं परिभुंजेया // अथ खलु भगवां उरुविल्वाकाश्यपस्य जटिलस्य इमं एवरूपं चेतसः परिवितर्कम् आज्ञाय तद्यथापि नाम बलवां पुरुषो सम्मिंजितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेण अजपालस्य न्यग्रोधमूलातो वैहायसम् अभ्युद्गम्य उरुविल्वाकाश्यपस्य

[_mvu_3.426_] जटिलस्याश्रमे प्रत्यस्थासि // अथ खलु उरुविल्वाकाश्यपस्य जटिलस्य सपरिवारस्य एतद् अभूषि // महर्द्धिको श्रमणो गौतमो महानुभावो परसत्वानां परपुद्गलानां चित्तेन चित्तं जानाति महर्द्धिकतरा च वयं // अथ खलु उरुविल्वाकाश्यपो जटिलो भगवन्तं स्वहस्तेन प्रणीतेन खादनीयभोजनीयेन सन्तर्पयति // अथ खलु भगवां भुक्तावी धौतपात्र अपनीतपाणिर् उरुविल्वाकाश्यपस्य ऋषिस्य जटिलस्य तं देयधर्मं इमायानुमोदनायानुमोदये //

अग्निहोत्रमुखा यज्ञा सावित्री छन्दसां मुखं / राजा मुखं मनुष्याणां नदीनां सागरो मुखं //

नक्षत्राणां चन्द्रो मुखं . . . . . . . . . / आदित्यो तपसां ऊर्ध्वं तिर्यग् अधस् तपस्वतां / सदेवकस्य लोकस्य संबुद्धो वदतां वरो //

अथ खलु उरुविल्वाकाश्यपो सपरिवारो वैहायसम् अन्तरीक्षे स्थितो अग्निं जुह्वति तेषां तम् अग्निं न ज्वलति तेषाम् एतद् अभूषि // कस्यायम् अनुभावो येनाग्निर् न प्रज्वलति / नूनं श्रमणस्य गौतमस्यानुभावेन // सो दानि अग्निः प्रज्वलितो तेषाम् एतद् अभूषि // महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनः महर्द्धिकतरा // तहिं अग्निस्मिं आहुतिं प्रक्षिपति न च पतति तेषाम् एतद् अभूषि // कस्यायम् अनुभावो येनाग्निस्मिं आहुनी न पतति / नूनं श्रमणस्य गौतमस्यानुभावेन / यतो सानं एवं भवति श्रमणस्य गौतमस्यानुभावो ति ततः सा आहुतिर् अग्निहोत्रस्मिं पतति // अग्निं जुहुत्वान्तरीक्षातो

[_mvu_3.427_] ओतरिष्यामो ति न शक्नोन्ति ओतरितुं // तेषाम् एतद् अभूषि // कस्यायम् अनुभावो येनान्तरीक्षातो न शक्नोम आश्रमं ओतरितुं / नूनं श्रमणस्य गौतमस्यानुभावेन // यतः सानं एतद् अभूषि श्रमणस्यायं गौतमस्यानुभावो ति अथ ततो अन्तरीक्षातो आश्रमे प्रतिष्ठिता शिविकेषु स्वकस्वकेषु निषीदिष्यामो ति न च तानि शिविकानि अद्दशेन्सुः // तेषाम् एतद् अभूषि // कस्यायम् अनुभावो येन वयं शिविकां न दृशेम / नूनं श्रमणस्य गौतमस्यानुभावेन // यतो सानं एवं भवति श्रमणस्य गौतमस्यानुभावो ति अथ तानि सिविकानि अद्दसेन्सुः // तेषाम् एतद् अभूषि // महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनर् महर्द्धिकतरा / पानियकरकानि आदाय उदकहारा गमिष्यामो ति न च तानि करकानि अद्देन्सुः // तेषाम् एतद् अभूषि // कस्यायम् अनुभावो नूनं श्रमणस्य गौतमस्य / यतो सानं एवं भवति श्रमणस्य गौतमस्यानुभाओ ति अथ तानि स्वकस्वकानि करकानि अद्दशेन्सुः // तेषाम् एतद् अभूषि // महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनर् महर्द्धिकतरा // करकानि आदाय नैरंजनां नदीं उदकहारिं गता न च शक्नोन्ति तानि करकानि भरयितुं // तेषां एतद् अभूषि // कस्यायम् अनुभावो नूनं श्रमणस्य गौतमस्य // यतो सानं एवं भवति श्रमणस्यायं गौतमस्यानुभावो ति अथ तानि करकानि उदकेन भरेन्सुः // तेषाम् एतद् अभूषि // महर्द्धिको यं श्रमणो गौतमो महानुभावो वयं पुनर् महर्द्धिकतरा // आहारं करिष्यन्ति न च शक्नोन्ति आहारं कर्तुं // तेषाम् एतद् अभूषि //

[_mvu_3.428_] कस्यायम् अनुभावो नूनं श्रमणस्य गौतमस्य // यतो सानं एवं भवति श्रमणस्यायं गौतमस्यानुभावो त्ति ततः शक्नोन्ति आहारं कर्तुं // तेषाम् एतद् अभूषि // महर्द्धिको श्रमणो गौतमः महानुभावो वयं पुनर् महर्द्धिकतरा // कृताहारा काष्ठानि पातयिष्यामो ति उत्क्षिपितानि कुठाराणि न शक्नोन्ति निक्षिपितुं // तेषाम् एतद् अभूषि // कस्यायम् अनुभावो नूनं श्रमणस्य गौतमस्य // यतो सानं एवं भवति श्रमणस्य गौतमस्यायम् अनुभावो ति अथ तानि कुठाराणि उत्क्षिप्तानि निक्षेपेन्सुः तानि च काष्ठानि पातयेन्सुः // तेषां एतद् अभूषि // महर्द्धिको यं श्रमणो गौतमो महानुभावो वयं पुनर् महर्द्धिकतराः //

___एवं भगवां उरुविल्वाकाश्यपस्य संमुखा त्रयो भ्रातरां सपरिवारां पंचहि प्रातिहार्यशतेहि विनयेसि / पश्चिमं प्रातिहार्यं // भगवां प्रतिसंलीयितुकामो उरुविल्वाकाश्यपम् आह // काश्यप अत्र अग्निशरणम्हि ते संलयिष्यामीति // उरुविल्वाकाश्यपो आह // सो गौतम अग्निशरणो अप्रवेश्यो केनचित्* मनुष्येण वा अमनुष्येण वा अत्र सरणे दुष्टनागो प्रतिवसति / वयं पि तावद् एतं अग्निशरणं दूरे परिवर्जेम तस्य दुष्टनागस्य भयेन // भगवान् आह // अनुजानाहि त्वं काश्यप प्रतिसंलयिष्यामि अहम् अत्राग्निशरणे // उरुविल्वाकाश्यपो आह // न ते भो गौअतम अग्निशरणं अनुजानामि / अत्र दोष एव आख्यायति एतं अग्निशरणं इमानि च बहूनि तृणकुटिकापर्णकुटिकाशतानि यत्र भवां गौतमो नन्दति तत्र प्रतिलीयतु // अथ खलु भगवां उत्थायासनातो उरुविल्वाकाश्यपस्याग्निशरणं

[_mvu_3.429_] प्रविशित्वा निषीदे प्रतिसंलयनाय // भगवान् दानि अग्निशरणे तेजोधातुं समापन्नो / सो दानि भगवतः तेजं असहन्तो यतो भगवतो पात्रं चतुर्हि महाराजेहि दिन्नं तत्र ओकस्तो / भगवता च मैत्र्या स्फुटो दमितो च निर्विषो संवृत्तो न च भूयो क्रोधं व्यावहति // अग्निशरणो भगवतो तेजेन एकज्वालीभूतो दृश्यति // तेषां जटिलानाम् एतद् अभूषि // दुष्टनागेन गौतमो श्रमणो दग्धो अग्निशरणो च सर्वं आदीप्तं // ते दानि उदकम् आदाय प्रधाविता अग्निशरणं निर्वापयिष्यामो त्ति श्रमणं च गौतमं परिमोचयिष्यामो त्ति // भगवां तं नागं दमेत्वा निर्विषं कृत्वा पात्रेणादाय उरुविल्वाकाश्यपस्योपनामयति // उरुविल्वाकाश्यपो भगवतो पात्रगतं तन् नागं सपरिवारो विस्मितो / महर्द्धिको श्रमणो गौतमो महानुभावो यत्र हि नाम पश्य भगवन् मनुष्येण वा अमनुष्येण वा न शक्यं प्रवेष्टुं ति सो श्रमणस्य गौतमस्य तेजेन पर्यादिन्नो // अथ खलु उरुविल्वाकाश्यपस्य संमुखा ते त्रयो भ्रातरो सपरिवारा भगवता इमेन पश्चिमेन प्रातिहार्येण सर्वे अभिप्रसादिता //

दमयित्वा उरगराजं उरुविल्वाकाश्यप-अग्निशरणस्मिं / पात्रेण नीहरित्वा काश्यपशिरिणो उपनयासि //

एषो स्य पश्य काश्यप पर्यादिन्नो स्वतेजसा तेजो / यस्य भवनं न शक्यं प्रवेष्टुम् इह केनचिल् लोके //

संहृष्टरोमकूपो उरुविल्वाकाश्यपो सपरिवारो / नरनागेन हि नागो दान्तो उपशमयितो दृष्टो //

सो नागो यस्यार्थं महर्षिभवनं आसीद् दुःप्रवेशो / सो दान्तो निर्विषश् च कृतो यं बुद्धानुभावेन //

[_mvu_3.430_] भगवान् आह //

मया विनीते न सन्ति दोषा अत्रानियतो काश्यप न विद्यते / नभं पतेय पृथिवी फलेय च न बुद्धदान्तो सविषो चरेत्* //

विसर्जितो भगवता स संवर्तनाग ति पन्नगो भणितो / मानुषकायो भूत्वा प्रणिपते चरणेषु सुगतस्य //

शरणं भवाहि नरवर अयं न मे अत्ययो महाप्रज्ञ / यस्य मम आसि चित्तं प्रदुष्टम् अपविद्धं प्रत्यक्षं //

बाह्यं कृतं नरोत्तम अपराधो मम अनत्ययो यम् अहं / तं खलु विनायकवर पुन ते शरणं अहं गच्छे //

वंदित्व वन्दनीयं बहुशो च प्रदक्षिणीकरित्वान / गुरुगारवेण महता नमस्य नागो अपक्रान्तो //

भगवता उरुविल्वाकाश्यपो पंचशतपरिवारो नदीकाश्यपो च त्रिशतपरिवारो गयाकाश्यपो च द्विशतपरिवारो सर्वे त्रयो भ्रातरो पंचहि प्रातिहार्यशतेहि बलवशीभावे विनीता एहिभिक्षुकाये सर्वे प्रव्राजिता उपसंपादिता / एथ भिक्षवश् चरथ तथागते ब्रह्मचर्यं // तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यत् किंचिद् ऋषिलिंगं ऋषिगुप्ति ऋषिध्वजं ऋषिकल्पं सर्वं समन्तरहितं त्रिचीवरा च सानं प्रादुर्भवेन्सुः सुम्भका च पात्रा प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो सानं संस्थिहे तद्यथा वर्षशतोपसंपन्नानां भिक्षूणां / एवम् आयुष्मन्तानाम् उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानां त्रयाणां भ्रातॄणां सपरिवाराणां उपसंपदा भिक्षुभावो //

[_mvu_3.431_]___तेषां दानि उपसेनो नाम भागिनेयो तस्यैव नद्या नैरंजनायास् तीरे आश्रमं मापयित्वा पत्रोपेतं पुष्पोपेतं फलोपेतं तत्रासौ प्रतिवसति त्रिशतपरिवारो चतुर्ध्यानलाभी पंचाभिज्ञो महर्द्धिको महानुभावो // तेहि दानि उरुविल्वाकाश्यपप्रमुखेहि भिक्षूहि सर्वन्तं ऋषिभाण्डं अजिनोपानहचीवरा च कठीनका च कमण्डलुं च नद्यां नैरंजनायां प्रवाहिता / सो अस्माकं भागिनेयो उपसेनो एतेन ऋषिभाण्डेन सपरिवारो कार्यं करिष्यति // तेहि तं भाण्डं नैरंजनायां वुह्यन्तं दृष्ट्वा तेहि तं भाण्डं सर्वं उत्कड्ढितं // तस्य दानि उपसेनस्य ऋषिस्य एतद् अभूषि / मा हैव मे मातुलका केनचिद् विहेठिता भविष्यन्ति // सो दानि शीघ्रशीघ्रं त्वरमाणरूपो सपरिवारो उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानां आश्रमं आगतो भगवां च सपरिवारो कृतभक्तकृत्यो / भिक्षुसंघो नद्यां नैरंजनायां पात्राणि निमज्जेत्वा शोधेन्ति परिमार्जन्ति //

___अथ खलु उपसेनो ऋषिर् येन उरुविल्वाकाश्यपो तेनोपसंक्रमित्वा आयुष्मन्तं उरुविल्वाकाश्यपं गाथाये अध्यभाषे //

मोहं ते जुहितो अग्नि मोहन् ते सो तपो कृतो / यं जहे पश्चिमे काले जीर्णां व उरगो त्वचं //

अथ खल्व् आयुष्मां उरुविल्वाकाश्यपो उपसेनं ऋषिं गाथाये प्रत्यभाषे //

मोहं मे जुहितो अग्नि मोहं मे सो तपो कृतो / यं जहे पश्चिमे काले जीर्णां व उरगो त्वचं //

सो पि च भगवता सपरिवारो बलवशीभावे विनीतो एहिभिक्षुकाये प्रव्राजितो

[_mvu_3.432_] उपसंपादितो / एथ भिक्षवो चरथ तथागते ब्रह्मचर्यं // तेषां भगवता एहिभिक्षुकाये आभाष्टानां यत् किंचिद् ऋषिलिंगं ऋषिगुप्ति ऋषिध्वजं ऋषिकल्पं सर्वं समन्तरहितं त्रिचीवरं सानं च प्रादुर्भूतं सुम्भकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्या च संस्थिहे तद्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणां / एषो आयुष्मतो उपसेनस्य अर्धत्रिशतपरिवारस्य प्रव्रज्या उपसंपदा भिक्षुभावो // इदं भगवतो प्रथमं श्रावकसंनिपातं अर्धत्रयोदश भिक्षुशतानि //

___भिक्षू भगवन्तम् आहन्सुः // कस्य भगवं कर्मस्य विपाकेन आयुष्मन्ता उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपा त्रयो भ्रातरो महर्द्धिका महानुभावा क्षिप्राधिगमा च // भगवान् आह // एतेषाम् एव भिक्षवः पूर्वप्रणिधानं बुद्धे ओरुप्तस्य कुशलमूलस्य विपाको यत् ते महर्द्धिका च महानुभावाश् च क्षिप्राधिगमाश् च // भूतपूर्वं भिक्षवो तीतमध्वाने हस्तिनापुरे राजा महेन्द्रो नामाभूषि कृतपुण्यो महेशाख्यो धार्मिको धर्मराजा सुसंगृहीतपरिवारो दानसंविभागशीलो / तस्य दानि राज्ञो पुष्पो नाम तथागतो र्हन् सम्यक्संबुद्धो सश्रावकसंघो हस्तिनापुरे याचितको वसति // कलिंगेषु सिंहपुरं नाम नगरं तत्र त्रयो भ्रातरो एकमातृका राज्यं कारयंति / तेषां दानि तत्र राज्ये रतनं उत्पन्नं ते तं रतनम् आदाय ततः सिंहपुरातो हस्तिनापुरम् आगता / तेहि तं रतनं राज्ञो महेन्द्रकस्य उपनामितं // सो दानि राजा महेन्द्रको तेन प्राभृतेन तेषां भ्रातॄणां प्रीतो संजातो // सो आह // किं वो करिष्यामि // ते दानि आहन्सुः // इच्छामो भगवां पुष्पो अस्माकं नगरे वर्षावासं वसेथ अस्माकम् अनुकम्पाय / अद्यैव तेन प्राप्तेन महन्तम् आपूर्तं कर्तुकामा // सो दानि राजा महेन्द्रको आह // पुनो पि भगवां पुष्पो अस्माकं नगरे वसिष्यति //

[_mvu_3.433_] यूयम् अपीमेन पुण्येन संगृहीता भवथ // तेहि दानि भ्रातॄहि भगवां पुष्पो सश्रावकसंघो तहिं स्वके नगरे याचितो / भगवां तत्रैव वस्सं वुस्तो परिनिर्वृतो / तेहि भगवतो पुष्पस्य निर्वृतस्य शरीरपूजा च स्तूपो च कारितो //

राज्ञो महेन्द्रस्य महिं प्रशासतो धर्मेण ज्ञानं च समादायवर्तिनो / त्रयो भ्रातरो आसि समानचारिणो पुत्रा च दारा च तदानुवर्तका //

ते एकदा सुसमानचारिणो धर्मेण वै ऐश्वरियं अकासि / प्रभूतभोगा रतनानुबद्धा ताव बहूनि वर्षाणि तोषये //

ते एकराज्यसमानभोजना बुद्धं अद्दशेन्सु द्विपदानम् उत्तमं / नक्षत्रनामो . . . पारमीं गतो स्वशक्तितो देवमनुष्यपूजितो //

परिनिर्वृते कारुणिकस्मिं शास्तुनि स्तूपं अकरिम्ह वयं सप्रज्ञा / सपुत्रदारा सह ज्ञातिबान्धवैः आर्या च श्रेष्ठा नगरस्मिं आत्मनो //

हस्तीहि अश्वेहि रथेहि पत्तिहि नृत्येन गीतेन च वादितेन च /

[_mvu_3.434_] गन्धेन माल्येन विलेपनेन च पूजां अकरिम्ह वयं महर्षिणो //

ते स्तूपपूजाय फलेन संप्रति कल्पां न एम द्वानवति दुर्गा / तेनैव कर्मेण महामुने . . . . सर्वे स्म दान्ता तव धीर शासने //

_____समाप्तं आयुष्मन्तानां उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानां जातकं //

___भगवां उरुविल्वाकाश्यपस्य आश्रमातो महता भिक्षुसंघेन सार्धं अर्धत्रयोदशभिर् भिक्षुशतैर् महर्षिणाम् आश्रमपदं धर्मारण्यं गतो // तहिं दानि सप्त जटिलशतानि प्रतिवसन्ति सर्वाणि चतुर्ध्यानलाभीनि पंचाभिज्ञानि सविंशशतवर्षिकानि जातीये सर्वाणि च परिपक्वकुशलमूलानि चरमभविकानि / भगवान् तेषां अनुग्रहार्थं तहिं आश्रमपदं गतो / तेषां भगवां जटिलानां धर्मपदेषु सहस्रवर्गं भाषति //

सहस्रम् अपि वाचानां अनर्थपदसंहिता / एका अर्थवती श्रेया यां श्रुत्वा उपशाम्यति //

सहस्रम् अपि गाथानाम् अनर्थपदसंहिता / एका अर्थवती श्रेया यां श्रुत्वा उपशाम्यति //

यो शतानि सहस्राणां संग्रामे मनुजा जये / यो चैकं जये आत्मानं स वै संग्रामजित्* वरः //

यो जयेत सहस्राणां मासे मासे शतं शतं / न सो बुद्धे प्रसादस्य कलाम् अर्घति षोडशीं //

[_mvu_3.435_] यो जयेत सहस्राणां मासे मासे शतं शतं / न सो धर्मे प्रसादस्य कलाम् अर्घति षोडशीं //

यो जयेत सहस्राणां मासे मासे शतं शतं / न सो संघे प्रसादस्य कलाम् अर्घति षोडशीं //

यो जयेत सहस्राणां मासे मासे शतं शतं / सो व संपन्नशीलानां कलां नार्घति षोडशीं //

यो जयेत सहस्राणां मासे मासे शतं शतं / न सो स्वाख्यातधर्माणां कलाम् अर्घति षोडशीं //

मासे मासे कुशाग्रेण बालो भुंजेय भोजनं / न सो बुद्धे प्रसादस्य कलाम् अर्घति षोडशीं //

मासे मासे कुशाग्रेण बालो भुंजेय भोजनं / न सो धर्मे प्रसादस्य कलाम् अर्घति षोडशीं //

मासे मासे कुशाग्रेण बालो भुंजेय भोजनं / न सो संघे प्रसादस्य कलाम् अर्घति षोडशीं //

मासे मासे कुशाग्रेण बालो भूम्जेय भोजनं / न सो ध्यानप्रसादानां कलाम् अर्घति षोडशीं //

मासे मासे कुशाग्रेण बालो भुंजेय भोजनं / न सो सम्पन्नशीलानां कलाम् अर्घति षोडशीं //

मासे मासे कुशाग्रेण बालो भुंजेय भोजनं / न सो स्वाख्यातधर्माणां कलाम् अर्घति षोडशीं //

यो च वर्षशतं जीवे अग्निपरिचरं चरेत्* / पत्राहारो छवावासी करोन्तो विविधं तपं //

यो चैकं भावितात्मानं मुहूर्तम् अपि पूजयेत् / सा एकपूजना श्रेयो न च वर्षशतं हुतं //

यत् किंचिद् इष्टं च हुतं च लोके

[_mvu_3.436_] संवत्सरं यजति पुण्यप्रेक्षी / सर्वं पि तं न चतुर्भागम् एति अभिवादनं उज्जुगतेषु श्रेयं //

यो च वर्षशतं जीवे दुःशीलो असमाहितः / एकाहं जीवितं श्रेयं शीलवन्तस्य ध्यायतो //

यो च वर्षशतं जीवे कुशिदो हीनवीर्यवान्* / एकाहं जीवितं श्रेयो वीर्यम् आरंभतो दृढं //

यो च वर्षशतं जीवे अपश्यं बुद्धशासनं / एकाहं जीवितं श्रेयो पश्यतो बुद्धशासनं //

यो च वर्षशतं जीवे अपश्यं धर्मम् उत्तमं / एकाहं जीवितं श्रेयो पश्यतो धर्मम् उत्तमं //

यो च वर्षशतं जीवे अपश्यं उदयव्ययं / एकाहं जीवितं श्रेयो पश्यतो उदयव्ययं //

यो च वर्षशतं जीवे अपश्यं अच्युतं पदं / एकाहं जीवितं श्रेयो पश्यतो अच्युतं पदं //

यो च वर्षशतं जीवे अपश्यं अमृतं पदं / एकाहं जीवितं श्रेयं पश्यतो अमृतं पदं //

ते च दानि भगवता बलवशीभावे विनीता सर्वे च ते परिनिर्वृता / तेषां भगवां शरीरपूजां च कृत्वा स्तूपां च धर्मारण्यातो अजपालस्य न्यग्रोधमागतो //

___भगवां सम्यक्संबुद्धो यद् अर्थं समुदागतो तद् अर्थं अभिसंभावयित्वा उरुविल्वायां विहरति नद्या नैरंजनायास् तीरे अजपालस्य न्यग्रोधमूले अचिराभिसंबुद्धो // तेन

[_mvu_3.437_] खलु पुनः समयेन राज्ञो श्रेणियस्य बिम्बिसारस्य ब्राह्मणो पुरोहितो राजाचार्यो उपरिप्रासादवरगतो रात्र्या प्रत्यूषकालसमये द्वात्रिंशन्महापुरुषलक्षणानां वाचाविस्तरेण स्वाध्यायं करोति // अश्रोषीत् खलु राजा श्रेणियो बिंबिसारो ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य उपरिप्रासादवरगतस्य रात्र्या प्रत्यूषकालसमये द्वात्रिंशन्महापुरुषलक्षणानां वाचाविस्तरेण स्वाध्यायं करोन्तस्य श्रुत्वा च पुनर् अस्य भगवतो स्मृति उदपासि // अहो पुनर् मे विजिते बुद्धो भगवां उत्पद्ये तं चाहं भगवन्तं पश्येयं दृष्ट्वा च पुनर् मे प्रवृत्ते प्रसीदेय प्रसन्नचित्तो च नं पर्युपासेयं सो च मां भगवां धर्मं देशेय तस्य चाहं धर्मं श्रुत्वा आजानेयं //

___अथ खलु राजा श्रेण्यो बिंबिसारो तस्यैव रात्र्यात्ययेन अन्यतरं पुरुषम् आमंत्रयति // एहि त्वं पुरुष क्षिप्रम् एव भद्राणि यानानि योजापेहि युक्तानि च मे प्रतिवेदेहि // साधु महाराज त्ति स पुरुषो राज्ञो श्रेणियस्य बिंबिसारस्य प्रतिश्रुत्वा क्षिप्रम् एव भद्राणि यानानि योजयति युक्तानि च तं प्रतिवेदयति / युक्तानि ते महाराज भद्राणि यानानि यस्येदानिं कालं मन्यसे // अथ खलु राजा श्रेण्यो बिम्बिसारो अन्यतरं भद्रं यानम् अभिरुहित्वा महता राजर्द्ध्या महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगपणवशंखसन्निनादेन राजगृहातो नगरातो निर्यात्वा येनान्यतरा उद्यानभूमी प्रायासि // अथ खलु राजा श्रेण्यो बिम्बिसारो यावतिका यानस्य भूमि तावतकं यानेन यात्वा यानातो प्रत्योरुह्य पदसा येव तां उद्यानभूमिं अनुचंक्रमन्तो अनुविचरन्तो निषीदे सुवर्णमये पर्यंके प्राचीनाभिमुखो स्त्र्यागारपरिवृतो अमात्यपारिषद्यपुरस्कृतो // अथ खलु राज्ञो

[_mvu_3.438_] बिम्बिसारस्य राजगृहं नगरम् अभिविलोकयन्तस्य राजगृहेयकानि च पर्वतानि पुष्किरिणीं च पौराणां चार्यकां मृतां प्रेतां समनुस्मरन्तस्य कामेषु जुगुत्सुनो उत्पद्ये योनिसो मनसिकारो //

उद्यानभूमितो निर्यात्वा अङ्गानां राष्ट्रवर्धनो / पर्यंकस्मिं निषीदेसि अवदातसुवर्णमण्डले //

तंत्रिघोषाभिनादिता सम्यक्कालप्रबोधना / पुष्पिता साला तस्मिं काले संपन्नकुसुमिता वरा //

व्यालमृगानुविचीर्णां गोलांगुलनिषेवितां / पर्वतां स संवीक्षन्तो पृथुसिंहनिषेवितां //

निषीदेत् प्राङ्मुखो राजा पौअराणानि अनुस्मरन्* / अश्रुपूर्णेहि नेत्रेहि इमां गाथाम् अभाषिथ //

तिष्ठे यं पाण्डरो गिरि कैलासवत् तथैव विपुलो / अथ मे पितरो पितामहा प्रेता कालगता अवीततृष्णा //

वरा रम्या वना विचित्रा पुष्किरिण्यो शिलोच्चयो / यानीमानि गमापेन्सुः कां नु ते दिशतां गता //

तथैवेमानि राष्ट्राणि इमा पृथुस्रवन्तियो / यानीमानि गमापेन्सुः कां नु ते दिशताम् गता //

तथैवेमानि वस्त्राणि इमा निष्का सकुण्डला / यानीमानि गमापेन्सुः कां नु ते दिशतां गताः //

इमा पुष्किरिणी रम्या नानाद्विजनिकूजिता /

[_mvu_3.439_] पुण्डरीकेहि संछन्ना कुमुदसौगन्धिकेहि च / ये च ते अत्र स्नायेन्सुः कां नु ते दिशतां गताः //

तथैवम् आसना रम्या दिव्या हरितशाद्वला / आसन्नोदकसंछन्ना शीतच्छाया मनोरमाः / यानि ते चात्र गमापेन्सुः कां नु ते दिशतां गताः //

तान्य् एव प्राणिशतानां निवेशनानि पर्वता / इमे च मे प्रचारिता अद्य जन्मम् अपश्यतो //

शून्यता व मे आख्यायन्ति दिशा पि मे नुचारिता / एवं मर्त्यजीवितं किंस्य परीत्तं च दुःखसंयुतं //

अनन्तरं जीवितस्य मरणं मरनं ध्रुवं / जातस्यामरणं नास्ति एतद् धर्मा हि प्राणिनो //

गच्छति खेदेन प्राणी प्रतिपन्नो क्वचिज् जनो / रात्रिंदिवं च यान्तीह यमदूता शसनाहरा //

अथ खलु अन्यतरस्य राजामात्यस्य एतद् अभूषि // राज्ञो किल श्रेण्यस्य बिंबिसारस्य दौर्मनस्यम् उत्पन्नं को नु खल्व् अस्यात् पर्यायो येनाहं राज्ञो श्रेण्यस्य बिम्बिसारस्य दौर्मनस्यं प्रतिविनोदयेयं // अथ खलु तस्य राजामात्यस्यैतद् अभूषि // राज्ञो किल श्रेण्यस्य बिंबिसारस्य राजगृहं नगरं प्रियं च मनापं च //

[_mvu_3.440_] यन्नूनं अस्याहं पुरतो राजगृहस्य नगरस्य वर्णं भाषेयं // अथ खलु सो राजामात्यो राजं श्रेण्यं बिंबिसारं गाथाये अध्यभाषे //

पर्वता इमे सलीला इमे रम्या शिलोच्चया / ये इमे राजगृहस्मिं सिक्ता दिविजेन वारिणा //

भिन्नकटका च श्रवन्ति . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . अथ खलु राजा श्रेण्यो बिम्बिसारो तं राजामात्यं अपसादये // अस्ति नाम त्वं मोहपुरुषो यं यद् एव वयं विगर्हाम तद् एव त्वं प्रशंसितव्यं मन्यसि // अथ खलु राज्ञो श्रेण्यस्य बिम्बिसारस्य भूयस्या मात्रया कामेषु व्याकुत्सना उत्पद्ये चित्तस्य दुःखदौर्मनस्यं योनिसो मनसिकारो // अथ खलु ब्राह्मणस्य पुरोहितस्य राजाचार्यस्यैतद् अभूषि // राज्ञो श्रेण्यस्य बिंबिसारस्य दुःखदौर्मनस्यम् उत्पन्नं को नु खल्व् अस्यात् पर्यायो येनाहं राज्ञो श्रेण्यस्य बिम्बिसारस्य दुःखदौर्मनस्यं प्रतिविनोदयेयं // अथ खलु ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य एतद् अभूषि // राज्ञो खलु श्रेण्यस्य बिम्बिसारस्य बुद्धो भगवान् प्रियो मनापो च यं नूनाहं तस्य पुरतो बुद्धस्य वर्णं भाषेयं // अथ खलु ब्राह्मणो पुरोहितो राजाचार्यो राजानं श्रेणियं बिम्बिसारं गाथाये अध्यभाष //

लाभो स्ति राष्ट्राधिपते शिरीमतो आंगस्य राज्ञो मगधाधिपस्य / यस्योदपासि विजिते तथागतो विघुष्टशब्दो हिमवां व पर्वतो //

[_mvu_3.441_] शीलेन क्षान्त्या तपसा उपेतो लोकान्तको उषितब्रह्मचर्यो //

समागम्य सहस्राणि शतानि नयुतानि च / संप्राप्नोति अमृतं शान्तं योगक्षेमम् अनुत्तरं //

___अथ खलु राजा श्रेणियो बिम्बिसारो ब्राह्मणं पुरोहितं राजाचार्यं गाथाये प्रत्यभाषे //

प्रियं मे कीर्तये राज्ये प्रियं मे कीर्तये प्रिय / प्रियस्य बुद्धस्य लोक-अर्थचरस्य ब्राह्मण //

ददामि ते ग्रामवराणि षोडश युक्तानि आजान्यरथानि च दश / दासीशतं च गवां शतं च प्रियस्य बुद्धस्य यशो प्रकीर्तये //

___अथ खलु भगवां मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः येन मगधानां राजगृहं नगरं तद् अनुसारि तद् अनुप्राप्तो तत्रैव विहरति अन्तगिरिस्मिं यष्टीवने उद्याने // अश्रोषीद् राजा श्रेणियो बिम्बिसारो ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य / भगवां किल मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं त्रयोदशभिक्षुशतैर् येन मगधानां राजगृहं नगरं तद् अनुसारि तद् अनुप्राप्तस् तत्रैव विहरति अन्तगिरिस्मिं उद्याने यष्टीवने / श्रुत्वा पुनः अन्यतरं राजामात्यम् आमन्त्रयसि / भो भणे अमात्य भगवतो बुद्धस्य प्रत्युद्गमनं गमिष्यामि राजगृहं अलंकारापेहि भद्राणि च यानानि योजापेहि सर्वेहि च राजगृहकेहि ब्राह्मणगृहपतिकेहि सर्वेहि च शिल्पायतनेहि सर्वेहि च श्रेणीहि मया सह भगवतो

[_mvu_3.442_] बुद्धस्य प्रत्युद्गमनं गन्तव्यन् ति // साधु महाराज त्ति स राजामात्यो श्रेण्यस्य बिंबिसारस्य प्रतिश्रुत्वा क्षिप्रम् एव भद्राणि यानानि योजापेसि राजगृहे घोषणां कारापेसि चत्वरशृंगाटक-अन्तरापणमुखेषु // बुद्धो भगवां राजगृहे अन्तगिरिस्मिं यष्टीवनं उद्यानं समनुप्राप्तो तत्र सर्वेहि भवन्तेहि राज्ञा श्रेण्येन बिम्बिसारेण सार्धं भगवतो प्रत्युद्गमनं गन्तव्यं //

___ते दानि घोषणां श्रुत्वा क्षिप्रमेव राजकुलद्वारे सन्निपतिता कुमारामात्यपारिषद्याः पुरोहितप्रमुखा ब्राह्मणाः श्रेष्ठिप्रमुखो निगमो सार्थवाहप्रमुखो वणिजग्रामो सर्वा च राजगृहका अष्टादश श्रेणीयो / तद्यथा चक्रिकतालिकगन्धर्विका नटनर्तक-ऋल्लमल्लपाणिस्वरिका शोभिका लंघका कुंभतूणिका वेलंबका द्विस्त्वलभाणका पंचवटुका गायनका गुणवर्ता ताण्डविका चेतयिका गणिका हास्यकारका भेरिशंखमृदंगपाटहिका तूणपणववीणावल्लकी-एकादशायेल्लवाद्यका अन्ये च बहुवाद्यकरा राजकुलद्वारे सन्निपतेन्सुः सर्वायो च श्रेण्यो / तद्यथा सौवर्णिकहैरण्यिकप्रावारिका मणिप्रस्तारका गन्धिका कोशाविका तैलिका घृतकुण्डिका गोलिका दध्यिका कार्पासिका खण्डकारका मोदककारका कंडुका समितकारका शक्तुकारका फलवाणिजा मूलवाणिजा चूर्णकुट्टा गन्धतैलका अट्टवाणिजा आविद्धका गुडपाचका मधुकारका शर्करवाणिजा ये च अन्ये पि व्यवहारिका सर्वा च शिल्पायतना / तद्यथा लोहकारका ताम्रकुट्टा सुवर्णकारा तद्धुकारा प्रच्चोपका

[_mvu_3.443_] रोष्यणा त्रपुकारका सीसपिच्चटकारा यन्त्रकारका मालाकारा पुरिमकारका कुंभकारका चर्मकारा कन्दुकारका वरूथतन्त्रवायका रक्तजका सूचका तूलवाया चित्रकारा वर्धकिरूपकारका कालपात्रिका पेशलका पुस्तककारका नापिता कल्पिका छेदका लेपका स्थपतिसूत्रधारका उत्तकोष्ठकारका कूपखानका मृत्तिकावाहका काष्ठवाहका वल्कलवाणिजा स्तंबवाणिजा वंशवाणिजा नाविका ओडुम्पिका सुवर्णधोवका मोट्टिका एते चान्ये च उच्चावचा जनता हीनोत्कृष्टमध्यमा सर्वे राजकुले संनिपतेन्सुः //

___अथ खलु स राजामात्यो संनिपतितं जनकायं विदित्वा भद्राणि यानानि योजापयित्वा येन राजा श्रेण्यो बिम्बिसारस् तेनोपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारम् एतद् अवोचत्* // युक्तानि महाराज भद्राणि यानानि महाजनकायं च सन्निपतितं / यस्येदानि देव कालं मन्यसि // अथ खलु राजा श्रेण्यो बिम्बिसारः भद्रं यानम् अभिरुहित्वा मागधकेहि ब्राह्मणगृहपतिकेहि सार्धं द्वादशेहि नयुतेहि संपरिवृतो महता राज-ऋद्धीये महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगमरुपटहशंखसंनिनादेन राजगृहातो नगरातो निर्यात्वा येन अन्तगिरिस्मिं यष्टीवनम् उद्यानं तेन प्रयासि //

___अथ खलु राजा श्रेण्यो बिम्बिसारो यावद् एव यानभूमिस् तावद् एव यानेन यात्वा यानातो प्रत्योरुह्य पदसा येव येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदेत्* // अप्य् एकत्या भगवता सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदेन्सुः / अप्य् एकत्या भगवतो स्वकस्वकानि मातापितृकानि नामगोत्राणि अनुश्रावयित्वा एकमन्ते निषीदेन्सुः / अप्य् एकत्या येन भगवांस् तेनांजलिं प्रणामयित्वा

[_mvu_3.444_] एकान्ते निषीदेन्सुः / अप्य् एकत्या मागधका ब्राह्मणगृहपतिका तूष्णीभूता एकान्ते निषीदेन्सुः // तेन खलु पुनः समयेन उरुविल्वाकाश्यपो भगवतो अविदूरे संनिषण्णो अभूषि // अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानाम् एतद् अभूषि / किं नु खलूरुविल्वाकाश्यपो श्रमणे गौतमे ब्रह्मचर्यं चरति उताहो महाश्रमणो गौतमो उरुविल्वाकाश्यपो ब्रह्मचर्यं चरति // अथ खलु भगवान् तेषां ब्राह्मणगृहपतिकानाम् इदम् एवरूपं चेतसः परिवितर्कम् आज्ञाय आयुष्मन्तं उरुविल्वाकाश्यपं गाथाये अध्यभाषे //

किम् एव दृष्ट्वा उरुविल्ववासि प्रहाय अग्निं कृशको वदानो / पृच्छामि ते काश्यप एतम् अर्थं कथं प्रहीनं तव अग्निहोत्रं //

एवम् उक्ते आयुष्मान् उरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे //

अन्नानि पानानि अथो रसानि कामां स्त्रियो चाभिवदंति यज्ञे / एतं मलन् ति उपधीषु ज्ञात्वा तस्मान् न यज्ञे न हुते रमामि //

अथ खलु भगवान् आयुष्मन्तम् उरुविल्वाकाश्यपं गाथाये प्रत्यभाषे //

एतेषु त्वं न मनो अकासि अन्नेषु पानेषु तथा रसेषु / अपरं नु तं देवमनुष्यश्रेष्ठं यहिं रतं काश्यप तुह्य चित्तं //

[_mvu_3.445_] अथ खल्व् आयुष्मान् उरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे //

दृष्ट्वा मुनिं शान्तम् अनुपधीकं अकिंचनं सर्वभवेष्व् असक्तं / अनन्यथाभावम् अनन्यनेयं तस्मान् न यष्टे न हुते रमामि //

अथ खलु भगवान् आयुष्मन्तम् उरुविल्वाकाश्यपं गाथाये प्रत्यभाषे //

मोहन् ते जुहितो अग्नि मोहन् ते सो तपो कृतो //

यं जहे पश्चिमे काले जीर्णां व उरगो त्वचं / अथ खल्व् आयुष्मान् उरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे //

मोहं नो जुहितो अग्नि मोहं मे सो तपो कृतो / यं जहे पश्चिमे काले जीर्णां व उरगो त्वचं //

अग्नीहि यज्ञेषु च विप्रमुच्चति इति स्म मे आसि पुरे अजानतो / अन्धस्य जातीमरणानुसारिणो अपश्यतो उत्तमम् अच्युतं पदं //

सो दानि पश्यामि अनाविलं पदं सुदेशितं नागवरेण तायिना / अत्यन्तनिष्ठापदम् आस्पृशे अहं संसारजातीमरणं प्रहाय //

बहू सत्वा विहन्यन्ति करोन्ता विविधां तपां / निष्ठां अनधिगच्छन्ता अवितीर्णकथंकथा //

[_mvu_3.446_] दीर्घरात्रं किलिष्टो स्मि दृष्टिसंदानसंदितो / सर्वग्रन्थेषु मे भगवां परिमोचेसि चक्षुमां //

शास्ता मे भगवां श्रावको हं अस्मि सुगते //

___अथ खल्व् आयुष्मान् उरुविल्वाकाश्यपो उत्थायासनातो एकांशम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिखुत्तं प्रदक्षिणीकृत्वा भगवतो पृष्ठतो अस्थासि भगवन्तं मोरहस्तेन वीजयमानो // अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानां एतद् अभूषि / उरुविल्वाकाश्यपो श्रमणे गौतमे ब्रह्मचर्यं चरति //

___अथ खलु भगवां तेषां मागधकानां ब्राह्मणगृहपतिकानां धार्म्यां कथां प्रणामये // रूपं ब्राह्मणगृहपतये उत्पद्यति पि निरुध्यति पि वेदना उत्पद्यति पि निरुध्यति पि संज्ञा उत्पद्यति पि निरुध्यति पि संस्कारा उत्पद्यन्ति पि निरुध्यन्ति पि विज्ञानं उत्पद्यति पि निरुध्यति पि // आर्यश्रावको च ब्राह्मणगृहपतयो रूपं उत्पादव्ययधर्मो ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानम् अनित्यन् ति समनुपश्यति / रूपम् अनित्यन्ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानम् अनित्यन् ति समनुपश्यन्तो रूपं दुःखं ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानं दुःखं ति समनुपश्यन्तो रूपम् अनात्मेति समनुपश्यति वेदना संज्ञा संस्कारा विज्ञानं अनात्मेति समनुपश्यति / सो रूपं अनात्मेति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानं अनात्मेति समनुपश्यन्तो

[_mvu_3.447_] रूपम् उदयव्ययं ति प्रजानाति / रूपम् उदयव्ययं प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानम् उदयव्ययन् ति प्रजानाति / प्रजानन्तो रूपम् अनित्यन् ति प्रजानाति / प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानम् अनित्यन् ति प्रजानाति / प्रजानन्तो रूपं दुःखन् ति प्रजानाति / प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानं दुःखं ति प्रजानाति / प्रजानन्तो रूपम् अनात्मेति प्रजानाति / प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानं अनात्मेति प्रजानाति / प्रजानन्तो किंचिल् लोके न उपादीयति / अनुपादीयन्तो प्रत्यात्मम् एव परिनिर्वायति / क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नोपरिम् इत्थत्वम् इति प्रजानाति //

___अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानां एतद् अभूषि // यतो किल भो रूपम् अनात्मा वेदना संज्ञा संस्कारा विज्ञानम् अनात्मा अथ को तर्हि कारको वा कारापको वा उत्थापको वा समुत्थापको वा निक्षेपको वा यो इमां संस्कारां आदीयति वा निक्षिपति वा यस्यिमे संस्कारा शून्या अनात्मनीया आत्मेन वा आत्मनीयेन वा // अथ खलु भगवां तेषां मागधकानां ब्राह्मणगृहपतिकानां इमम् एवरूपं चेतसो परिवितर्कम् आज्ञाय भिक्षून् आमन्त्रयति // प्रज्ञपेति भिक्षवो बालो अभ्युपगतो अनात्मा वेदना संज्ञा संस्कारा विज्ञानो मे आत्मा न च पुनर् अहं एवं वदेमि / अहं सो अत्र कारको वा कारापको वा उत्थापको वा आदीयको वा निक्षेपको वा यो इमां च संस्कारान् निक्षिपति अन्यां च उपादीयति अन्यत्र // अथ खलु संस्कारा एव उत्पद्यन्ति संस्कारा एव निरुध्यन्ति ते च सहेतुका उत्पद्यन्ति सहेतुका एव निरुध्यन्ति // सहेतुका संस्कारप्रतिसंधिर् भिक्षवस् तथागतो आत्मा ति

[_mvu_3.448_] आदीयको ति // सत्वानां च्युतोपपादं प्रज्ञपयामि // पश्याम्य् अहं भिक्षवः दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां च्यवन्तां उपपद्यन्तां सुवर्णां दुर्ववर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां प्रजानामि न च पुनः अहं एवं वदामि / अहं सो अत्र कारको वा कारापको वा उत्थापको वा समुत्थापको वा आदीयको वा निक्षेपको वा यो इमां च संस्कारा निक्षिपति अन्यां च उपादीयति अन्यत्र / अथ खलु संस्कारा एव उत्पद्यन्ति संस्कारा एव निरुध्यन्ति // ते च सहेतुप्रत्यया उत्पद्यन्ति सहेतुप्रत्यया निरुध्यन्ति // सहेतुदृष्टी भवाभवदृष्टी // सहेतुसंस्कारसमुदयं भिक्षवो यथाभूतं सम्यक्प्रज्ञया पश्यतो या भवदृष्टि शाश्वतदृष्टि सा न भवति / सहेतुसंस्कारनिरोधं च भिक्षवः यथाभूतं सम्यक्प्रज्ञया पश्यतो या विभवदृष्टि उच्छेददृष्टि सापि न भवति / तेन भिक्षवो उभौ अन्तौ अनुगम्य मध्येन तथागतो धर्मं देशयति //

___अविद्याप्रत्यया संस्कारा संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययं स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानं उपादानप्रत्ययो भवो भवप्रत्यया जातिर् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपयासा / एवम् अस्य महतो दुःखस्कंधस्य समुदयो भवति // इति पि अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात्* षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात्

[_mvu_3.449_] तृष्णानिरोधः तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधः भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणनिरोधो जरामरणनिरोधा शोकपरिदेवदुःखदौर्मनस्योपयासा निरोध्यन्ते / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवदि //

___इदम् अवोचद् भ्गवान् राजगृहे विहरन्तो अन्तगिरिस्मिं यष्टीवने इमस्मिंश् च पुनर् व्याकरणे भाष्यमाणे राज्ञो श्रेण्यस्य बिम्बिसारस्य तत्रैवासने निषण्णस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं एकादशानां च नयुतानां विरजं विगतमलं धर्मेषु धर्मचक्षुं विशुद्धं // ये पि ते द्वादशनयुता युग्यपाला यानपाला ते पि ततो पश्चाद् बुद्धं शरणं गता धर्मं शरणं गताः संघं शरणं गता // आत्तमना ते भिक्षू राजा श्रेण्यो बिम्बिसारो मागधका च ब्राह्मणगृहपतिका भगवतो भाषितम् अभिनन्दे //

___भिक्षू भगवन्तम् आहन्सुः // किस्य भगवं कथं इमेन राज्ञा श्रेणियेन बिम्बिसारेण इमस्य पुरोहितस्य सकाशातो भगवतो श्रवणगतेन विपुलो आच्छायो दिन्नो // भगवान् आह // न भिक्षवो एतरहिम् एव एतेन राज्ञा श्रेण्येन बिंबिसारेण पुरोहितस्य सकाशातो मम श्रवणगतेन विपुलो आच्छायो दिन्नो अन्यदापि दिन्नो // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो //

___भूतपूर्व भिक्षवः अतीतम् अध्वानं नगरे मिथिलायां विदेहजनपदे महाराजधान्यां राजा अरिन्दमो राज्यं कारेसि धार्मिको धर्मराजा सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महावाहनो / तस्य षष्टिं नागसहस्राणि सर्वालंकारविभूषितानि षष्टिं अश्वसहस्राणि सर्वालंकारविभूषितानि षष्टिं रथसहस्राणि द्वीपिचर्मपरिवाराणि सिंहचर्मपरिवाराणि सवैजयन्तिकानि सनन्दिघोषाणि

[_mvu_3.450_] महाप्रवाराणि उच्छ्रितध्वजपताकानि षष्टिं धेनुसहस्राणि वत्सदोहिनी / तस्य षष्टिं कन्यासहस्राणि षष्टिं पर्यंकसहस्राणि सौवर्णमयानि रूप्यमयानि दन्तमयानि // अरिन्दमस्य खलु पुनर् भिक्षवो राज्ञो षष्टिं सुवर्णपारिसहस्राणि षष्टिं रूप्यपारिसहस्राणि अभून्सुः // अरिंदमस्य खलु पुनर् भिक्षवो राज्ञो पितृपितामहानि षष्टिं निधिसहस्राणि षष्टिं नगरसहस्राणि ऋद्धिस्फीतानि अकण्टकानि // अरिंदमस्य राज्ञो श्रोणो नाम पुरोहितपुत्रो अभूषि त्रयाणां वेदानां पारगो अक्षरप्रभेदानां इतिहासपंचमानां सनिघण्टुकैटभानां अनुपदकव्याकरणकुशलो ब्राह्मणवेदेषु दश कुशलां कर्मपथां समादायवर्ती कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो // तेन दानि बाहिरकेण मार्गेण युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानान्य् उत्पादितानि पंचाभिज्ञा च साक्षीकृता महर्द्धिको महानुभावो ऋषी संवृत्तो //

___अथ खलु भिक्षवो श्रोणस्य ऋषिस्य दीर्घस्याध्वनो त्ययेन एतद् अभूषि // राजा अरिन्दमो मम दारकवयस्यो सहपांशुक्रीडितो तस्य चाद्य चतुराशीति वर्षसहस्राणि महाराज्यं कारयन्तस्य समयो खलु राज्ञो अरिन्दमस्य प्रव्रज्याये यं नूनम् अस्याहं संचोदयेयं // अथ खलु भिक्षवो श्रोणको ऋषिस् तद्यथापि नाम बलवां पुरुषो संमिञ्जितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेणानुहिमवंतातो आश्रमातो वैहायसम् अभ्युद्गम्य महादेवाम्रवने प्रत्यस्थासि // अद्राक्षीद् भिक्षवो अरिन्दमस्य ब्राह्मणपुरोहितो राजाचार्यः श्रोणकं ऋषिं महादेवाम्रवने अन्यतमस्मिं आम्रमूले निषण्णं दृष्ट्वा च पुनर् येन श्रोणको ऋषी तेनोपसंक्रमित्वा श्रोणकम् ऋषिं साधु च सुष्ठु च प्रतिसंमोदित्वा श्रोणकं ऋषिं अभिवादेत्वा येन

[_mvu_3.451_] मिथिला तेन प्रक्रमे राज्ञो अरिन्दमस्य वेदनाय // तदहो एव च भिक्षवः राज्ञो अरिन्दमस्य कामेषु व्याकुत्सना उत्पद्ये योनिशो मनसिकारो श्रोणकस्य ऋषिस्य दर्शनकामता उदपासि // अथ खलु भिक्षवो राजा अरिन्दमस् ताये वेलाये इमां गाथाम् अध्यभाषेत्* //

तस्य ग्रामवरं देमि नारियो च अलंकृता / यो मे श्रोणकम् आख्यासि सहायं पान्सुक्रीडकं //

तस्य च ब्राह्मणो आसि कुलीनो अध्यापको / सुदुःखिदुर्मनं दृष्ट्वा इदं वचनम् अब्रवीत्* //

मह्यं ग्रामवरं देहि नारीयो च स्वलंकृता / अहं श्रोणकम् आख्यास्यं सहायं पान्सुक्रीडकं //

तुह्यं हि ताव विजिते तुह्यं उद्यानभूमिये / पुष्पिता फलिता आम्रा तत्र सो आसते ऋषी //

ततो स राजा त्वरमानो अमात्यम् अध्यभाषति //

क्षिप्रम् अस्माकं योजय कृत्स्ना नागां अलंकृता / भेरीपटहा वाद्यन्तु एको शंखो च मध्यमः //

वयस्यं द्रष्टुम् इच्छामि श्रोणकं पर्युपासितुं / नानावृक्षफलोपेतं प्रयासि . . . वनं //

राजा . . . . . . . . . . . . . . / . . . . . . . . श्रोणको यत्र ध्यायते //

तं च सो ऋषिं अद्दर्शि सहायं पान्सुक्रीडकं / दृष्ट्वा च श्रोणकं तस्मिं इदं वचनम् अब्रवीत्* //

[_mvu_3.452_] कृपणो व कथं भिक्षो मुण्डसंघाटिको धनो / समातापितृको ध्यायं वृक्षमूले पि तिष्ठसि //

अथ खलु भिक्षवो श्रोणको ऋषि राजानम् अरिन्दमं गाथाये प्रत्यभाषे //

न राज कृपणो भवति धर्मकायस्य श्रियापि च / यो च धर्मं समुपक्रम्य तद्धर्मे न रतो नरो / स राज कृपणो भवति ज्योतिष्टोमपरायणो //

अथ खलु भिक्षवो राजा अरिन्दमो श्रोणकं ऋषिं गाथाये प्रत्यभाषे //

कथं भवां सुखं शयति वनप्रान्तस्मिं श्रोणक / कथं अरण्ये विहरन्तो एकाकी रमसे कथं //

कथं भगवं कायस्य परितापो न विद्यते / रक्षां व ते संविधेमि अथ नगरं नयामि ते //

अथ खलु भिक्षवः श्रोणको ऋषि राजानम् अरिन्दमं गाथाये प्रत्यभाषे //

एकस्य चरतो राज किं मे राष्ट्रं करिष्यति / प्रथमं खु भद्रम् अधनस्य अनागारस्य भिक्षुणो //

यो हं ग्रामातो प्रक्रमामि राष्ट्राणि निगमा तथा / अनपेक्षो व प्रक्रमामि न कोचिद् उपरुध्यति / द्वितीयं खु भद्रम् अधनस्य अनागारस्य भिक्षुणो //

पन्थेन गच्छमानस्य ये भोन्ति परिपन्थका / पात्रचीवरम् आदाय सुखं गच्छति सर्वतो / तृतीयं खु भद्रम् अधनस्य अनागारस्य भिक्षुणो //

[_mvu_3.453_] मिथिलायां दह्यमानायां नास्य दह्यति किंचन / चतुर्थं खु भद्रम् अधनस्य अनागारस्य भिक्षुणो //

नते कोष्ठस्मिं ओसरन्ति न कुंभेन कुलोपकं / परितिष्ठति एषाणो तेन यायन्ति सुव्रता / पंचमं भद्रम् अधनस्य अनागारस्य भिक्षुणो //

नानाकुले प्रव्रजिता नानाजनपदाश्रिता / अन्यमन्यं प्रियायन्ति पश्य धर्मस्य धर्मतां //

अथ खलु भिक्षवः राजा अरिन्दमो श्रोणकं ऋषिं गाथाये प्रत्यभाषे //

नित्यं खलु तेषां भद्रं येषां कीर्तेसि श्रोणक / वयन् तु गृद्धा कामेषु किं करिष्यामि श्रोणक //

अथ खलु भिक्षवः श्रोणको ऋषी राजानं अरिन्दमं गाथाये प्रत्यभाषे //

उपमान् ते महाराज करिष्यन् तं शृणोहि मे / उपमाये इहैकत्या अर्थं जानन्ति पण्डिता //

भूतपूर्वं महाराज कुंजरो षष्टिहायनो / पतितो गिरिदुर्गेषु गंगावेगेन वुह्यते //

तत्र कालो विचिन्तेति अल्पप्रज्ञो अचेतसो / यानं इमं लब्धं भद्रं भद्रो व्यायाम अल्पको //

तस्य रात्रिं दिवं वापि तत्रासि नियतो मनो / खादन्तो नागमान्सानि पिबन्तो भागीरथीजलं / पश्यन्तो वरचित्राणि उपयाति विहंगमो /

[_mvu_3.454_] सा तं भागीरथी गंगा प्रमत्तं कुणपाश्रितं / समुद्रं अभिसारेति अगती यत्र पक्षिणां //

मकरा (तिमि)तिमिंगिला बालं नं वधित्वान खादति / कामापेक्षा एवम् एव राज प्रपद्यन्ति पुद्गला //

तं ते राज अहं ब्रूमि मा राज धर्मे प्रमादय / अथ घोररूपं नरकं प्रपतिष्ये अवाक्शिरो //

संजीवं कालसूत्रं च संघातं द्वौ च रौरवौ / अथापरं महावीचिं तपनं संप्रतापनं //

इत्य् एते अष्ट महानरका आख्याता दुरतिक्रमा / आकीर्णा रौद्रसत्वेहि प्रत्येकं षोडशोत्सदा //

चतुकर्णा चतुर्द्वारा विभक्ता भागशो मिता / उद्गता योजनशतं समन्ता योजनशतं //

अथ ये नरकप्रक्षिप्ता अयसा प्रतिकुब्जिता / तेषाम् अयोमया भूमि प्रज्वलिता तेजसंयुता //

कदर्यतपना घोरा अर्चिमन्तो दुरासदा / रोमहर्षणरूपा च भीष्मप्रतिभया दुःखा //

महद्भयंकरा सर्वे अर्चिशतसमाकुला / एकैकं योजनशतं आभाये संप्रभासति //

यत्र सत्वा बहू रौद्रा महाकिल्विषकारका / चिरं कालं प्रतप्यंति अपि वर्षशतान्य् अपि //

अयोमयेहि दण्डेहि स्थूलेहि नरकपालका / हनन्ति प्रत्यमित्राणि ये भोन्ति कतकिल्विषा //

[_mvu_3.455_] तन् ते हं कीर्तयिष्यामि गाथाये अनुपूर्वशः / श्रोत्रं मो दत्त्वा सक्तृत्यं शृणोहि मम भाषतो //

संजीवस्मिं च निरये ऊर्धपादां अधोशिरां / प्रलंबयित्वा तक्षन्ति वासीहि परशूहि च //

ततो नखेहि तीक्ष्णेहि आयसेहि स्वयंभुहि / अन्यमन्यं पि पाटेन्ति क्रुद्धा क्रोधवसानुगा //

असिनो चायसा तेषां तीक्ष्णा हस्तेषु जायिथा / येहि च्छिन्दन्ति अन्योन्यं प्रदुष्टमानसा नराः //

तेषां संछिन्नगात्राणां शीतो वायुः प्रवायति / सर्वाङ्गजनितो तेषां पूर्वकर्मविपाकशः //

एवं तेषाम् अभिज्ञाय श्रोणको तस्य राजिनो / संजीवकन् ति आख्यासि आवासं पापकर्मणां //

संजीवतश् च निर्मुक्ता कुक्कुलम् अवगाहथ / अन्यमन्यं समागम्य दीर्घायतनविस्तरा //

सर्वे ते खु प्रधावन्ति योजनानि अनेकशः / दह्यमाना कुक्कुलेषु दुःखां वेदन्ति वेदनां //

कुक्कुलातो च निर्मुक्ता कुणपं अवगाहिथ / दीर्घं महन्तं विस्तीर्णं उद्विद्धं शतपौरुषं //

तम् एनं कृपया तत्र तीक्ष्णशक्तिमुखा खरा / छविं भित्त्वान खादन्ति मान्सशोणितभोजना //

कुणपातो समुत्तीर्णा द्रुमां पश्यन्ति शोभनां / हरितपत्रसंछन्नान् ते उपेन्ति सुखार्थिनः //

[_mvu_3.456_] तम् एनं कुलला गृद्धा काकोलूका अयोमुखा / ऊर्धवृक्षे व नां दृष्ट्वा खादन्ति रुधिरम्रक्षिता //

यदा च खादिता भोन्ति अस्थीनि अवशेषिता / अथ तेषां छविमान्सं रुधिरं चोपजायते //

ते च भीत्वा उत्पत्तित्वान अलेना लेनसंज्ञिनो / असिपत्रवनं घोरं क्षण्यमाना उपागमि //

ततो क्षता च आर्त्ता च बहुरुधिरम्रक्षिता / असिपत्रवना मुक्ता यान्ति वैतरणीं नदीं //

ते तां च अवगाहन्ति तत्र क्षारोदकां नदीं / तेषां च अङ्गमङ्गानि वर्धिता प्रतिविध्यति //

ततो अंकुशेहि विज्झित्वा आयसेहि यमपौरुषा / उत्क्षिपित्वा नदीतीरे भुंजावेन्ति अयोगुडां //

ताम्रलोहं च संतप्तं पायायन्ति विलीनकं / तन् तेषां अन्त्रम् आदाय अधोभागेन गच्छति //

एवं पापीयकर्मान्ता निरयं प्रतिपद्यथ / अकृत्वा कुशलं कर्म काममार्गानुसारिणः //

ये च पापानि कर्माणि परिवर्जेन्ति मानुषाः / एकान्तकुशलाकारा न ते गच्छन्ति दुर्गतिं //

तस्मा दुरूपम् आगम्य कर्म कल्याणपापकं / पापानि परिवर्जेत्वा कल्याणं आचरे शुभं //

अथ वा पुनर् भावेय आर्यं अष्टांगिकं शुभं / सर्वदुःखप्रहाणाय ज्ञात्वा धर्मं निरोपधिं //

[_mvu_3.457_] एवंरूपां महाराज सत्वा वेदन्ति वेदनां / नरकेषु पापकर्मान्ता प्रमत्ता बालबुद्धिनो //

तन् ते राज अहं ब्रूमि मा राज धर्मे प्रमादय / मा घोररूपं नरकं प्रपतिष्ये अवाक्शरो //

संविग्नमनसो राजा श्रोणकस्य सुभाषितं / श्रुत्वा संवेगम् आपद्ये अद्भुतरोमहर्षणं //

ततो राजा त्वरमाणो अमात्यं अध्यभाषत / क्षिप्रं कुमारम् आनेथ दीर्घायुं राष्ट्रवर्धनं //

अस्ति मे दहरः पुत्रो दीर्घायु राष्ट्रवर्धनः / तं राज्ये स्थापयिष्यामि सो वो राजा भविष्यति //

ततो च राजदूता च अमात्या चानुकंपका / क्षिप्रं कुमारम् आनेन्ति दीर्घायुं राष्ट्रवर्धनं //

अथ खलु भिक्षवो राजा अरिन्दमो दीर्घायुं कुमारं गाथाये ध्यभाषे //

आमन्त्रेमि भवन् तव प्रव्रज्या मम रोचति / अहं काको व दुर्मेधो मा कामानां वशम् अन्वगा //

षष्टिं नगरसहस्राणि स्फीतं राज्यम् अकण्टकं / तत् पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते //

अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे / न हि न संगमन् तेन महासैन्येन मृत्युना / माहं काको व दुर्मेधो कामानां वशम् अन्वगा //

षष्टि नागसहस्राणि अत्र सर्वे स्वलंकृता /

[_mvu_3.458_] दन्तिनो बलसंपन्ना हेमकल्पितवाससो //

आरूढा प्रासशूलयष्टीतोमरनिगडायुधा / तां पुत्र प्रतिपद्यस्व राज्यं निर्यातयामि ते //

अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे / न हि न संगतं तेन महासैन्येन मृत्युना / माहं काको व दुर्मेधो कामानां वशम् अन्वगात्* //

षष्टिम् अश्वसहस्राणि सैन्धवा शीघ्रवाहिनो / सर्वालंकारभूषितानि शूरारूढा च सर्वशो //

. . . . . . . . . . . . . . . . . माहं काको वा सुर्मेधो कामानां वशम् अन्वगा //

षष्टिं धेनुसहस्राणि सर्वे वत्सोपदोहिनी / तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते //

अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे / माहं काको व दुर्मेधो कामानां वशम् अन्वगा //

षष्टि कन्यासहस्राणि आमुक्तमणिकुण्डला / तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते //

अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे / माहं काको व दुर्मेधो कामानां वशम् अन्वगा //

षष्टिं पर्यंकसहस्राणि सौवर्णरूप्यमयानि च / तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते //

अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे /

[_mvu_3.459_] न हि न संगतं तेन महासैन्येन मृत्युना / माहं काको व दुर्मेधो कामानां वसम् अन्वगा //

षष्टि पारिसहस्राणि सौवर्णरूप्यमयानि च / तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते //

अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे / न हि न संगतं तेन महासैन्येन मृत्युना / माहं काको व दुर्मेधो कामानां वशम् अन्वगा //

षष्टि निधानसहस्राणि जातरूपमनल्पकं / तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते //

अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे / न हि न संगतं तेन महासैन्येन मृत्युना / माहं काको व दुर्मेधो कामानां वशम् अन्वगा //

षष्टिं निधिसहस्राणि सप्तरत्नम् अनल्पकं / तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते //

अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे / न हि न संगतं तेन महासैन्येन मृत्युना / माहं काको व दुर्मेधो कामानां वसम् अन्वगा //

अथ खलु दीर्घायु कुमारो राजानं गाथाये प्रत्यभाषे //

पुरे श्रुतं मया एतं माता कालगता मम / नैवाहं शक्तो भेष्यामि देवेन विना जीवितुं //

यथा आरण्यकं नागं पृष्ठतो न्वेति पायको / एवं ते अन्वयिष्यामि आदाय तव सुंभकं //

[_mvu_3.460_] अथ खलु भिक्षवो राजा अरिन्दमो अमात्यपारिषद्यां गाथाये अध्यभाषे //

यथा सामुद्रिकां नावां वाणिजान धनार्थिनां / मकरो तत्र पाटेय वाणिजा व्यसनं गता //

मा वयं अन्तरायं करोम . . . . . . मम / . . . . . . . . . . . . . . . . . //

इमं कुमारं गृह्णीत्वा दीर्घायुं राष्ट्रवर्धनं / क्षिप्रम् अन्तःपुरं नेथ प्रासादं रतिवर्धनं / तत्र तं च रमेष्यन्ति देवकन्योपमा शुभा //

ततो कुमारं गृह्णित्वा महामात्रा यशस्विनः / महता राजानुभावेन प्रविशेन्सु मिथिलां पुरीं //

ततो खु एका उत्थाय राजकन्या अलंकृता / आमुक्तमाल्याभरणा राजानम् एतम् अब्रवीत्* //

तं नो ब्रवीहि गन्धर्वो शक्रो वासि पुरंदरः / राजाणत्तीं ते पृच्छामि . . . . . . . . //

कथं त्वम् अस्माञ् जहासि राज्यं स्फीतम् अकण्टकं / दीर्घायुं कुमारं तथा सामात्यं सधनधान्यकं //

अथ राजा तां राजकन्यां आह //

देवो न नागो न गन्धर्वो न शक्रो न पुरन्दरः / मानुषो हं उत्रस्तो कामेषु श्रुत्वा ऋषेर् अनुशासनीं //

माहं काको व दुर्मेधो कामानां वशम् अन्वगा /

[_mvu_3.461_] अद्यैव च कुर्याद् इष्तं को जाने मरणं शुवे / न हि न संगतं तेन बहुसैन्येन मृत्युना //

इत्य् उक्त्वा स च राजा तस्यैव श्रोणकस्य ऋषेर् अन्तिकात् प्रव्रजितः //

___भगवान् आह // तत् किं मन्यध्वं भिक्षवो अन्यो सो तेन कालेन तेन समयेन श्रोणको नाम ऋषिर् अभूषि न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं स तेन कालेन तेन समयेन श्रोणको नाम र्षि अभुषि / नान्यो राजा अरिन्दमो द्रष्टव्यो / अयं सो राजा श्रेणियो बिम्बिसारो // तदापि एषो यो अस्य श्रोणकं कथेसि तस्य विपुलो दायो दिन्नो / इदानीं पि एतेन पुरोहितपुत्रस्य विपुलो दायो दिन्नो मम बुद्धस्य वर्णं कथेसि इति //

_____अरिन्दमराजजातकं समाप्तं //

___इदम् अवोचद् भगवान् आत्तमना च देवासुरगरुडकिन्नरमहोरगा सा च सर्वावती वर्षत् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन् //

___इति आर्यमहासांघिकानां लोकोत्तरवादिनां पाठेन इति श्रीमहावस्तु-अवदानं समाप्तं //

ये धर्मा हेतुप्रभावा हेतुन् तेषां तथागतो / ह्य् अवदत् तेषां च यो निरोधो एवंवादी महाश्रमणः //

___[_mvu_3.462_] (लेस् मनुस्च्रित्स् अजोउतेन्त् ले चोलोफोन सुइवन्त्:) यः शृणोति मुनेर् धर्मं श्रुत्वा चाभिनिवेशति / सर्वपापविनिर्मुक्तो स गच्छति सुखावतीं //

श्रद्धया श्रोतव्यं तस्मात् सुगत्स्यायं सुभाषितः / नानाविदर्शनैः तैस् तैः जिनेन भाषितः पुरा //

सो यं सुभाषितं भक्त्या सुगतस्यानुभावतः / मया संपूर्णलिखितं कैवल्यवर्त्मदेशकः //

अतो यं मम पुण्यं स्यात् सर्वकिल्विषनाशनं / अपायद्वारनाशार्हं बोधिमार्गोपदेशकं //

तेन पुण्यानुभावेन सर्वभूतानि सर्वशः / सर्वक्लेशविनिर्मुक्ता प्रयान्तु हि सुखावतीं //

ये सत्वाः अन्धा काणा च तथा कुब्जा विचित्रका / अन्ये पिपासिताः क्षुद्धाः सर्वदुःखनिपीडिताः //

तेन पुण्येन ते सर्वे सर्वसुखसमन्विता / विविधा भोगा संभुक्ता लभन्तु मोक्षम् अव्ययं //

षट्सु गतीषु ये सत्वाः मग्नाः जातिजराकुला / ते सर्वे मम पुण्येन भवन्तु बोधिमार्गगाः //

ये सत्वाः बालजातीयाः सद्धर्मेण विवर्जिताः / पापेषु सततं सक्ताः रागदोषेण मोहिताः //

ते सर्वे मम पुण्येन भूयो जातिस्मरास् तदा / दानशीलादिसंयुक्ता चरन्तु बोधिचारिकां //

राजा भवतु क्षेमावान्* चरन्तु मन्त्रिणो नये / वीरा भवन्तु सततं संग्रामे जितशत्रवः //

[_mvu_3.463_] काले वर्षन्तु मेघाश् च शस्यपूर्णा मही सदा / एतन् मे प्रणिधानेन यत् पुण्यं जायते शुभं //

तेन पुण्यानुभावेन भवेयं बोधिपारगः / संसारार्णवतीर्णाय देहिनां कुशलाय च //

__शुभमस्तु सर्वदा //

श्रीमन् नैपालिके वर्षे विन्दुस् तनग्रहगते / मासे आषाढे शुक्लपक्षे पूर्णिमातिथिसंगमे //

उत्तराषाढसंयुक्ते योगे इन्द्रसमागमे / रवे वासरसंयोगे तस्मिं एव शुभे दिने //

श्रीनन्दाचार्येण स्वार्थं लिखितो यं सुभाषितः / श्रीमत् महामुने भक्त्या संपूर्णम् अगमच् छुभं //

_____ग्रन्थप्रमाणं श्लोक 25000 //

संवत्* 842 आषाढमासे शुक्लपक्षे पूर्णमास्यां तिथौ उत्तराषाढानक्षत्रे इन्द्रयोगे आदित्यवासरेः थ्वकुह्नुसिधयकाजुरो // ललितपत्तनमहानगरेः जशोधरमहाविहारावासितवज्राचार्यकुलिसश्रीनन्दवेदेन स्वहस्तेन लिखितं शुभं // सकोयावजाचार्य श्रीगजेन्द्रवज्रयात चोस्यंविया //

__शुभम् अस्तु सर्वदा //

यादृशी पुस्तकं दृष्ट्वा तादृशी लिखितं मया / यदि शुद्धम् अशुद्धं वा शोधनीयं महद्बुधैः //

_____शुभम् अस्तु सर्वदाकालं //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.