Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
महाकर्मविभङ्ग
- Thông tin
- GRETIL — Sylvain Lévi: Mahākarmavibhaṅga et Karmavibhaṅgopadeśa, Paris 1932, pp. 21-105. Cf. also N. Kudo: The Karmavibhaṅga. Transliterations and Annotations of the Original Sanskrit Manuscripts from Nepal, Tokyo 2004 (Bibliotheca Philologica et Philosophica Buddhica, 7).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
lxiv. कतमे दशानुशंसाश् छत्त्रप्रदानस्य. उच्यते. छत्त्रभूतो भवति लोकस्य. अनवतप्तो भवति कायेन अनवतप्तो भवति चित्तेन. आधिपत्यसंवर्तनीयं चानेन कर्म कृतं भवत्य् उपचितम्. पुनः पुनश् च राजा भवति चक्रवर्ती. महेशाख्यो भवति. महेशाख्यैः सत्त्वैः समागमो भवति बुद्धैर् बुद्धश्रावकैश् च समागमो भवति. महाभोगो भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) अत्र गङ्गासंतारे भगवतः प्रत्येकबुद्धस्य स्तूपे दत्तस्य छत्त्रस्य विपाको वर्ण्यते. यथा चार्यसुन्दरनन्दो व्याकरोति.
जेन्ताकस्य च स्नानेन तालस्यालेपनेन च एकच्छत्त्रप्रदानाच् च प्राप्ता मे सुवर्णवर्णता.
एवमादि छत्त्रप्रदानस्य विपाको वक्तव्यः. आह च.
(mkv 86) [नोतेस् ओन्ल्य्]
यद् धार्यते प्रवरदण्डम् उदाररूपं कोदण्डदामपरिमण्डितवस्तिकोशम् छत्त्रं विशालम् अमलं शशिमण्डलाभम् छत्त्रप्रदानजनितेन जगद्धरस्य. श्रीचिह्नभूतं मणिहेमदण्डम् पटोज्ज्वलं काञ्चनम् आतपत्रम् यद् धार्यते मूर्ध्नि नराधिपस्य छत्त्रप्रदानेन जगद्धरस्य
इमे दशानुशंसश् छत्त्रप्रदानस्य.
lxv. कतमे दशानुशंसा घण्टाप्रदानस्य. उच्यते. अभिरूपो भवति. सुस्वरो भवति. मनोज्ञभाषी भवति. कलविङ्करुतभाषी भवति. आदेयवाक्यो भवति. नित्यं संप्रहार्यजातो भवति. पुनः पुनर् आनन्दं शब्दं शृणोति. स्वर्गेषूपपद्यते. महाभोगश् च भवति. क्षिप्रं च परिनिर्वाति.
अ) यथा विशाखया मृगारमात्रा भगवान् पृष्टः. कथं मम प्रासादे नित्यं कालं पञ्चाङ्गिकं तूर्यं सदैव वदेत्. भगवान् (mkv 88) आह. सर्वस्वरोपेतां घण्टाम् आरोपय. एवं ते नित्यं कालं प्रासादे पञ्चाङ्गिकतूर्यशब्दो भविष्यति. अनवद्यश् च. इमे दश गुणा घण्टाप्रदानस्य.
lxvi. कतमे दश गुणा वस्त्रप्रदानस्य. उच्यते. श्लक्ष्णछविर् भवति. स्निग्धच्छविर् भवति. न चरजश् चैलं काये श्लिष्यति. ह्रीरपत्राप्यसंपन्नो भवति प्रियदर्शनो भवति प्रभूतवस्त्रो भवति लाभी च भवति सूक्ष्माणां वस्त्राणाम् आस्तरणानाम्. महाभोगो भवति. स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति. यथोक्तं भगवता देवतासूत्रे. वस्त्रप्रदो भवति वर्णवान्. इमे दश गुणानुशंसा वस्त्रप्रदानस्य.
lxvii. कतमे दशानुशंसा आसनप्रदानस्य. उच्यते. गुरुस्थानीयो भवति लोकस्य. प्रियदर्शनो भवति. प्रासादिको भवति. पण्डितजनाभिगम्यो भवति. यशः कीर्तिश् चास्य लोके प्रथिता भवति. सुखसौमनस्यबहुलो भवति. स्वदेशे ऽभिरमति. आसनैर् अवैकल्यं भवति. उपस्थायकैर् अवैकल्यं भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दश गुणा आसनप्रदानस्य.
lxviii. कतमे दशानुशंसा भाजनप्रदानस्य. उच्यते. भाजनभूतो भवति गुणानां स्निग्धसंततिर् भवति. न च तृषाबहुलो भवति. तृषार्तस्य पानीयं प्रादुर्भवति. न च प्रेतेषूपपद्यते. भाजनैर् अवैकल्यं भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दशानुशंसा भाजनप्रदानस्य.
lxix. कतमे दशानुशंसा भोजनप्रदानस्य. उच्यते. बलवान् भवति. वर्णवान् भवति. सुखितो भवति. प्रतिभानवान् भवति. दीर्घायुर् भवति. महाजनाभिगम्यो भवति. प्रियदर्शनो भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. अ) यथोक्तं भगवता वैशाल्यां सिंहस्य राजपुत्रस्य. ददन् सिंह प्रियो भवति. सन्तो जना भजन्ति. कल्याणशब्दो भवति. विशारदः पर्षदम् अवगाहति. कालगतो देवेषूपपद्यते. गाथा चोक्ता. ते तत्र नन्दन्ति रमन्ति च मोदयन्ति समर्पिताः कामगुणेषु पञ्चसु कृत्वा हि वाक्यम् अमितस्य तायिनो मोदन्ति ते सुगतवरस्य श्रावकाः.
एतद् दानस्य फलं भगवतोक्तम्.
स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति. आह च.
नानारसव्यञ्जनसुप्रणीतं काले शुभं गन्धरसोपपन्नम् ददाति यः पात्रम् अवेक्ष्य दानं सदार्यसंघस्य गुणान् विचिन्त्य आयुश् च वर्णं च यशो बलं च संप्राप्य भोगान् प्रतिभां सुखं च दिवीह चैव प्रथितोत्तमश्रीः सुखात् सुखं याति विमोक्षम् अन्ते.
इमे दश गुणा भोजनप्रदानस्य.
lxx. कतमे दश गुणा यानप्रदानस्य. उच्यते. सुकुमारचरणो भवति. स्न्प्रतिष्ठितचरणो भवति. मार्गक्लमथो न भवति. न च बह्वमित्रो भवति. पुनः पुनः ऋद्धिपादान् प्रतिलभते. हस्त्यश्वादिभिर् यानैर् अवैकल्यं भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) यथा चोक्तं देवतासूत्रे. यानदः सुखितो भवति. यो ददात्य् उपानहौ. यथा चोक्तम् अभिधर्मे चक्रवर्तिसूत्रे. कतमस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वादीनि वाहनानि प्रतिलभते. दीर्घरात्रं राजा चक्रवर्ती मातरं वा पितरं वोपाध्यायं वा स्कन्धेन वहति वा वाहयति वा. हस्त्यश्वादिभिः शिविकायानैर् वा वहति वा. दुर्गसंक्रमं वा करोति. सेतुबन्धं करोति. उपानहप्रदानानि वा ददाति. कारुण्येन महाटव्यां सार्थम् अतिक्रामयति. तस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वादीनि प्रतिलभते. तत्रारूढः समुद्रपर्यन्तां पृथिवीं दिवसचतुर्भागेन पर्यटति. इमे दश गुणा यानप्रदानस्य.
(mkv 95) [नोतेस् ओन्ल्य्] lxxi. कतमे दश गुणाः प्रतिश्रयप्रदानस्य. उच्यते. राजा भवति प्रादेशिकः. राजा भवति माण्डलिकः. राजा भवति जम्बुद्वीपाधिपतिः. राजा भवति द्वीपद्वयाधिपतिः. राजा भवति द्वीपत्रयाधिपतिः. राजा भवति चतुर्द्वीपाधिपतिश् चक्रवर्ती. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
यथा सुमेधाया भिक्षुण्या गाथा. भगवति कोनागमुनौ संघारामे च निवेशे सख्यस् त्रयो वयं स विहारं ददौ पूर्वम्.
एता गाथा सुमेधायाः. धर्मदिन्ना च भिक्षुणी विशाख्या च मृगारमाता. ताभिः पूर्वं दरिद्रस्त्रीभिश् चत्वारि काष्ठानि निखन्य काशकटकम् उपरि दत्त्वा भगवान् कोनागमुनिर् बुद्धो निमन्त्रितः. स तत्र भिक्षुभिः सार्धं मुहूर्तं विश्रान्तः. ताभिश् चित्तानि प्रसादितानि. तेन कर्मणा शतसहस्रं वारान् देवेषूपपन्नाः. अपरिमितानि चक्रवर्तिराष्ट्रान्य् अनुभूतानि. सुमेधागाथाश् चास्मिन्न् अर्थे सर्वा विस्तरेण प्रत्येकम् अवगन्तव्याः. इमे दश गुणाः प्रतिश्रयप्रदानस्य.
lxxii. कतमे दश गुणाः पानकप्रदानस्य. उच्यते. सर्वेन्द्रियसंपन्नो भवति. प्रसन्नवदनो. विशुद्धललाटः. स्निग्धच्छविः. संगतभाषी भवति. न च तृषाबहुलो भवति. तृषितस्य (mkv 98) पानीयं प्रादुर्भवति. न च प्रेतेषूपपद्यते. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. यथा चाह.
मनोज्ञवर्णं रसगन्धयुक्तं सर्वेन्द्रियप्रीतिविवर्धनं च अकालिकं सत्पुरुषप्रशस्तं ददाति संघाय तु पानकं यः सकृत्पिपासाविगतो विशोको रसान् प्रधानाञ् चतुरो ऽनुभूय जगच् च सद्धर्मरसेन तर्प्य तृषाक्षयं याति सुखं सुखेन.
इमे दश गुणाः पानकप्रदानस्य.
lxxiii. कतमे दश गुणा मालाप्रदानस्य. उच्यते. मालाभूतो भवति लोकस्य. कायाद् दौर्गन्ध्यम् अपैति सौगन्ध्यं प्रादुर्भवति. नित्यसुगन्धो नित्यालंकृतो भवति. अभेद्यपरिवारो भवति. सर्वजनप्रियो भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) अह च.
माल्यं विचित्रं प्रवरं सुगन्धं प्रहर्षणं प्रीतिकरं नराणाम् प्रसन्नचित्तो मुनिधातुगर्भे तथागतेभ्यश् च ददाति यो वै स दिव्यमाल्याभरणोज्ज्वलाङ्गः श्रीमत् सुखं प्राप्य दिवीह चैव बोध्यङ्गदामप्रतिभूषितात्मा मोक्षं परं याति गुणाग्रगन्धः.
ब्) तथान्यतरस्य दरिद्रगृहपतेर् दुहिता. सा खलु द्वारे स्थिता जनपदं सर्वालंकारभूषितं पश्यति. उत्सवे रममाणम्. सा पितरम् आह. माम् अप्य् अलंकुरुष्वेति. पिताह. कुतो ऽस्माकं दरिद्राणाम् अलंकारः. एष जनपदः कृतपुण्यो ऽनेकशो बुद्धे भगवति कृताधिकारः. तेन च कर्मणा कर्णेसुमनस्य स्थविरस्यावदानं विस्तरशस् तस्योक्तम्. एवम् अल्पो ऽपि भगवति कृतः प्रसादो महाफलो भवति. तया पितातीवोपरोधितः प्रयच्छ मम किंचिद् एषो ऽग्रतो विहारः अत्र भगवतः पूजाम् उपरिष्यामीति. तेन दुःखार्तेन विभवे ऽविद्यमाने पलालमयीं मालां कृत्वा दत्ता. सा तां पलालमयीं मालां गृह्य बुद्धप्रतिमायाः शिरसि दत्त्वा पादयोः प्रणिपत्य आह. भगवन्न् अनेन कुशलमूलेन संसारे संसरत्या मा भूयः दारिद्र्यं स्याद् इति. तस्याः प्रसादजातायास् तद् अहर् एव मानुष्यं स्त्रीभावम् अतिक्रान्तं दिव्यं रूपं प्रादुर्भूतम्. तद्विषयप्रतिवासिना च राज्ञाग्रदेवी स्थापिता. कालगता देवेषूपपन्ना. पश्चिमे ऽपि च भवे चम्पायाम् अग्रकुलिकस्य (mkv 100) दुहिता प्रत्याजाता परमकल्याणी सौवर्णा चास्या माला सर्वरत्नमण्डिता शिरसि सहसैव प्रादुर्भूता. मातापितृभ्यां विस्मयजाताभ्यां मालिनीत्य् एवास्या नाम कृतम्. यदा च भगवान् अभिसंबुद्धो राजगृहाच् चम्पाम् अनुप्राप्तः. सा चोपसंक्रान्ता. तस्याश् च भगवता धर्मदेशना कृता प्रव्रजिता चार्हन्ती संवृत्ता. साह चित्तोत्पादाद् एवास्या मा मे भूयो माला भवत्व् इत्य् अन्तर्हिता. तां च दृष्ट्वा विस्मयप्राप्ता देवता गाथाम् अनुगायते यथाह.
दत्त्वा तु पलालमयीं मालां सा मालिनी सुगतस्य चैत्ये वरकनकरत्नमालां लेभे बोध्यङ्गमालां च.
इमे दश गुणा मालाप्रदानस्य.
lxxiv. कतमे दश गुणा मुक्तपुष्पप्रदानस्य. उच्यते. पुष्पभूतो भवति लोकस्य. घ्राणेन्द्रियं विशुध्यति. कायदौर्गन्ध्यं समपैति. सौगन्ध्यं प्रादुर्भवति. दश दिशः शीलगन्धः ख्यातिं गच्छति. अभिगमनीयश् च भवति. लाभी च भवति (mkv 101) इष्टानां धर्माणाम्. महाभोगश् च भवति. स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति.
अ) अत्र कर्णेसुमनस्य पूर्वजन्मनि प्रसादे जाते एकैकपुष्पप्रदानस्य विपाको वक्तव्यः. यथा स एव आह.
एकपुष्पप्रदानेन अशीतिकल्पकोटयः दुर्गतिं नाभिजानामि बुद्धपूजाय तत् फलम्.
इमे दश गुणा मुक्तपुष्पप्रदानस्य.
lxxv. कतमे दश गुणा दीपप्रदानस्य. उच्यते. प्रदीपभूतो भवति लोकस्य. मांसचक्षुर् नश्यति. दिव्यचक्षुः प्रादुर्भवति. अविद्यान्धकारं विधमति. ज्ञानालोक उत्पद्यते. कुशलाकुशलान् धर्मान् क्षिप्रं प्रज्ञया प्रतिविध्यति. संसारे संसरतो ऽविद्यान्धकारो न भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) यथा चोक्तम् अभिधर्मे चक्रवर्तिसूत्रविभङ्गे. कस्य कर्मणो विपाकेन राजा चक्रवर्ती मणिरत्नं प्रतिलभते. दीर्घरात्रं राज्ञा चक्रवर्तिना दीपप्रदानानि प्रदत्तानि. प्रदीपैकदानानि च. अन्धकारे रत्नप्रदीपा धारिता. ये चक्षुष्मन्तस् ते समविषमाणि रूपाणि पश्यन्तु. आह च.
बुद्धप्रशस्तं लभते च चक्षुश् चक्षुस् तु यस्योत्तमहेतुभूतम् लोकावभासं भवतीह रूपम् प्रदीपदानेन जगद्धरस्य. तेजोऽधिको नार्थम् उदीक्षणीयः अतीव तुष्टः शुभकर्मदर्शी संप्राप्य सौख्यं दिवि चेह चैव विशुद्धचक्षुः प्रशमं परैति.
अत्रार्यानिरुद्धस्य दीपे दिव्यचक्षुर् ऋषीणां च चक्षूत्पाटनमोक्षायणे वक्तव्यम्. यथा दीपमालाप्रदानेन दीपङ्करेण बुद्धत्वं प्राप्तम्. या च श्रावस्त्यां चक्षुविकलेन प्रदीपमाला कारिता. सप्रसादो जातः. प्रणिधानं कृतवान्. उत्थितस्य चास्य यथा पौराणं चक्षुः संवृत्तम्. इमे दश गुणा दीपप्रदानस्य.
lxxvi. कतमे दश गुणा गन्धप्रदानस्य. उच्यते. गन्धभूतो भवति लोकस्य. घ्राणेन्द्रियं विशुध्यति. कायदौर्गन्ध्यम् अपैति. सौगन्ध्यं प्रादुर्भवति. दश दिशः शीलगन्धः प्रवाति. अभिगमनीयो भवति. लाभी च भवति इष्टानां धर्माणाम्. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) यथोक्तम् अभिधर्मे चक्रवर्तिसूत्रे. कस्य कर्मणो विपाकेन राज्ञश् चक्रवर्तिनः स्त्रीरत्नस्य रोमकूपेभ्यः शरीराद् गन्धो निर्गच्छति. तद्यथा गन्धसमुद्गकस्य. दीर्घरात्रं तया स्त्रिया चैत्यगर्भगृहेषु गन्धोपलेपनानि दत्तानि. सुरभीणि च पुष्पाणि धूपश् च दत्ताः. स्तूपेषु च गन्धस्नापनानि कृतानि. तस्य कर्मणो विपाकेन राज्ञश् चक्रवर्तिनः स्त्रीरत्नस्य शरीराद् एवंरूपो गन्धो निर्गच्छति. तद्यथा गन्धकरण्डस्य. इमे दश गुणा गन्धप्रदानस्य.
lxxvii. कतमे दश गुणाः प्रव्रज्यायाः. उच्यते. पुत्रभार्यदुहितृधनतृष्णास्य न भवति. कामस्य परिग्रहो न भवति. अरण्यवासे प्रीतिं प्रतिलभते. बुद्धगोचरं सेवते. बालगोचरं विवर्जयति. दुर्गतिगमनीयान् धर्मान् विवर्जयति. सुगतिगमनीयान् धर्मान् सेवते. देवा अस्य स्पृहयन्ति. नित्यं सुगतवचने प्रव्रज्यां प्रतिलभते. इमे दश गुणाः प्रव्रज्याया भवन्ति.
lxxviii. कतमे दश गुणा अरण्यवासस्य. उच्यते. संगणिका विवर्जयति. प्रविवेकं सेवते. ध्यानालम्बनं चित्तं भवति. न च बहुकर्मकृत्यतां प्राप्नोति. बुद्धानां स्मृतिं याति. प्रीतिसुखसौमनस्यं कायो न जहाति. अन्तरायाश् च न भवन्ति. ब्रह्मचर्यस्य अल्पायासेन समाधिम् अधिगच्छति. उद्दिष्टं चास्य पदव्यञ्जनं न नश्यति. यथाश्रुतानां धर्माणां विस्तरेणार्थम् आजानति. इमे दश गुणा अरण्यवासस्य.
lxxix. कतमे दश गुणाः पैण्डपातिकत्वे. उच्यते. चङ्क्रमो ऽस्य उपार्जितो भवति. गोचरो ऽस्य प्रहतो भवति. मानो ऽस्य निहतो (mkv 105) भवति. आत्मानं लाभेन योजयति. परान् पुण्ये प्रतिष्ठापयति. शास्तुः शासनं दीपयति. पश्चिमाया जनताया आलोकः कृतो भवति. सब्रह्मचारिणाम् उपघातः कृतो न भवति. नीचचित्तम् उपस्थापितं भवति. पिण्डपातपरचित्तस्य भिक्षोः सर्वा दिशो ऽप्रतिकूला भवन्ति गमनाय. इमे दश गुणाः पिण्डपातिकत्वे.
lxxx. दश वैशारद्यानि. कतमानि दश. उच्यते. विशारदो ग्रामं प्रविशति. विशारदो ग्रामान् निष्क्रामति. विशारदः पिण्डपातं परिभुङ्क्ते. विशारदः परिषदि धर्मं देशयति. विशारदः संघमध्यम् अवतरति. विशारद आचार्योपाध्यायान् उपसंक्रामति. विशारदो मैत्रचित्तः शिष्यान् अनुशास्ति. विशारदश् चीवरपिइइडपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते. ग्राह्यं चास्य वचो भवति. इमानि दश वैशारद्यानि.
कर्मविभङ्गसूत्रं समाप्तम्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
