Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
महादण्डधारणीशीतवती
- Thông tin
- GRETIL — Hidas, Gergely (2017) Mahā-Daṇḍadhāraṇī-Śītavatī: A Buddhist Apotropaic Scripture. In: V. Vergiani, D. Cuneo, C.A. Formigatti (eds.) Indic Manuscript Cultures through the Ages. Material, Textual, and Historical Investigations. De Gruyter, Berlin: 449-486.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
महादण्डधारणीशीतवती
महादण्डधारणीशीतवती
[0] [सिद्धम्] नमः सर्वबुद्धबोधिसत्त्वेभ्यः ।
[1] एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म । शीतवने महाश्मशाने इङ्घिकायतनप्रत्युद्देशे । तत्रायुष्मान् राहुलो ऽतीव विहेठ्यते देवग्रहैर् नागग्रहैर् यक्षग्रहै राक्षसग्रहैः किन्नरग्रहैर् गरुडग्रहैर् महोरगग्रहैर् मनुष्यग्रहैर् अमनुष्यग्रहैः प्रेतग्रहैर् भूतग्रहैः पिशाचग्रहैः कुम्भाण्डग्रहैर् द्वीपिभिः काकैर् उलूकैः कीटैः सरीसृपैऋ अन्यैश् च मनुष्यामनुष्यैः सत्त्वैः ।
[2] अथायुष्मान् राहुलो येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसाभिवन्दित्वा भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पुरतो रुदन्न् अश्रूणि प्रवर्तयति स्म ।
[3] अथ भगवान् जानन्न् एव राहुलम् आमन्त्रयते स्म । किं त्वं राहुल मम पुरतः स्थित्वा अश्रूणि प्रवर्तयसि । एवम् उक्ते आयुष्मान् राहुलो भगवन्तम् एतद् अवोचत् । इहाहं भगवन् राजगृहे विहरामि । शीतवने महाश्मशाने इङ्घिकायतनप्रत्युद्देशे । सो ऽहं भगवंस् तत्र विहेठ्ये देवग्रहैर् नागग्रहैर् यक्षग्रहै राक्षसग्रहैः किन्नरग्रहैर् गरुडग्रहैर् महोरगग्रहैर् मनुष्यग्रहैर् अमनुष्यग्रहैः प्रेतग्रहैर् भूतग्रहैः पिशाचग्रहैः कुम्भाण्डग्रहैर् द्वीपिभिः काकैर् उलूकैः कीटैः सरीसृपैर् अन्यैश् च मनुष्यामनुष्यैः सत्त्वैर् इति ।
[4] अथ खलु भगवान् आयुष्मन्तं राहुलम् आमन्त्रयते स्म । उद्गृह्ण त्वं राहुल इमां महादण्डधारणीं विद्याम् । चतसृणां पर्षदां रक्षावरणगुप्तये भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपासिकानां च दीर्घरात्रम् अर्थाय हिताय सुखाय भविष्यति ।
[5] तद्यथा । अङ्गा । वङ्गा । भङ्गा । वरङ्गा । संसारतरङ्गा । सासदङ्गा । भङ्गा । जेसुरा । एकतरा । अर वीरा । तर वीरा । कर वीरा । कर कर वीरा । इन्द्रा । इन्द्रकिसरा । हंसा । हंसकिसरा । पिचिमला । महाकिच्चा । विहेठिका । कालुच्छिका । अङ्गोदरा । जया । जयालिका । वेला । एला । चिन्तालि । चिलि चिलि । हिलि हिलि । सुमति । वसुमति । चुलु नट्टे । चुलु चुलु नट्टे । चुलु नाडि । कुनाडि । हारीटकि । कारीटकि । गौरि । गन्धारि । चण्डालि । मातङ्गि । धरणि धारणि । उष्ट्रपालिके । कच कारिके । चल नाटिके । काकलिके । ललमति । रक्षमति । वराकुले । मन्मते उत्पले । कर वीरे । तर वीरे । तर तर वीरे । कुरु वीरे । कुरु कुरु वीरे । चुरु वीरे । चुरु चुरु वीरे । महावीरे । इरमति । वरमति । रक्षमति । सर्वार्थसाधनि । परमार्थसाधनि । अप्रतिहते । इन्द्रो राजा । यमो राजा । वरुणो राजा । कुबेरो राजा । मनस्वी राजा । वासुकी राजा । दण्डाग्नी राजा । ब्रह्मा सहस्राधिपती राजा । बुद्धो भगवान् धर्मस्वामी राजा । अनुत्तरो लोकानुकम्पकः । मम सर्वसत्त्वानां च रक्षां कुर्वन्तु । परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु । जीवतु वर्षशतं पश्यतु शरदां शतम् ।
[6] तद्यथा । बलवति । वरमति । तलमति । लक्षमति । रक्षमति । हुरु हुरु । फुरु फुरु । चर चर । खर खर । खुरु खुरु । मति मति । भूमिचण्डे । कालिकेटि । अकिसला । पीने । सामलते । हूले स्थूले । स्थूलशिखरे । जय स्थूले । जय नट्टे । चल नासि । चुलु नासि । वाग्बन्धनि । विरोहणि । सोलोहिते । अण्डरे । पण्डरे । कराले । किन्नरे । केयूरे । केतुमति । भूतंगमे । भूतमति । धन्ये । मङ्गल्ये । महाबललोहितमूले । अचलचण्डे । धुरंधरा । जयालिके । जया । गोरोहणि । चुरु चुरु । रुन्ध रुन्ध । धुरु धुरु । खुरु खुरु । खुरुमति । बन्धुमति । धुरंधरे । धरे धरे । विधरे विमति । विष्कम्भणि । नाशनि विनाशनि । बन्धनि । मोक्षणि । मोचनि । मोहनि । भावनि । शोधनि । संशोधनि विशोधनि । संखिरणि । संछिन्दनि । साधु तुरुमाणे । हर हर बन्धुमति । हिरि हिरि । खिरि खिरि । खरलि । हुरु हुरु । पिङ्गले । नमो ऽस्तु बुद्धानां भगवतां स्वाहा ।
[7] अस्यां खलु राहुल महादण्डधारण्यां विद्यायाम् अन्तशो ऽष्टोत्तरशतपदानां सूत्रं ग्रन्थिं बद्धायां हस्तेन धार्यमाणायां कण्ठेन धार्यमाणायां समन्ताद् योजनशतस्य रक्षा कृता भविष्यति । गन्धैर् वा पुष्पैर् वा मुद्राभिर् वा नैव मनुष्यो वामनुष्यो वाभिभविष्यति । न विषं न शस्त्रं न रोगो न ज्वरो न प्रज्वरो न विद्यामन्त्रो न वेताडः । न व्याधौ नाग्नौ न विषोदकेन कालं करिष्यति । विद्यामन्त्रप्रयोगानां च सर्वेषां साधुप्रयुक्तानां च बन्धनी । परबन्धानां च प्रमोचनी । सर्वरोगशोकविघ्नविनाशनकरी । कलिकलुषप्रशमनकरी । सर्वग्रहविमोचनकरी । यो ग्रहो न मुञ्चेत् सप्तधास्य स्फुटेन् मूर्धा अर्जकस्येव मञ्जरी । वज्रपाणिश् चास्य महायक्षसेनापतिर् वज्रेणादीप्तेन सम्प्रज्वालितेन एकज्वालीभूतेन ध्यायित्वा मूर्धानं स्फोटयेत् । चत्वारश् च महाराजानो ऽयोमयेन चक्रेण क्षुरधाराप्रहारेण विनाशयेयुः । तस्माद् यक्षलोकाच् च्यवनं भवेत् । अडकवत्यां राजधान्यां न लभते वासम् ।
[8] अस्यां खलु राहुल महादण्डधारण्यां विद्यायां सकृत्परिवर्तितायां राजचौरोदकाग्निविषशस्त्राटवीकान्तारपर्वतदुर्गमध्यगतः सर्वभयेभ्यः प्रतिमुच्यते । इयं खलु महादण्डधारणीविद्या एकनवतिगङ्गानदीवालिकासमैर् बुद्धैर् भाषिता भाष्यते भाषिष्यते च सिद्धा परमसिद्धा सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभिर् वन्दिता सर्वजनगणपरिवृता । सर्वभयोपद्रवेषु मम सर्वसत्त्वानां च शिवम् आरोग्यं भवतु ।
[9] इदम् अवोचद् भगवान् आत्तमना आयुष्मान् राहुलो भगवतो भाषितम् अभ्यनन्दन्न् इति ।
[10] आर्यमहादण्डधारणीशीतवती समाप्ता ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
