Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

अद्वयसिद्धि

Tác giả
योगिनी लक्ष्मीङ्करा
Thông tin
GRETIL — Yoginī Lakṣmīṅkarā: »Advayasiddhi.« In: Samdhong Rinpoche and Vrajvallabh Dwivedi (eds.): Guhyādi-aṣṭasiddhisaṅgraha. Sarnath, Varanasi 1987 (Rare Buddhist texts series 1), pp. 161-164.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

योगिनी लक्ष्मीङ्करा: अद्वयसिद्धि

अद्वयसिद्धि योगिनी लक्ष्मीङ्करा विरचिता

ओं नमः श्रीवज्रसत्त्वाय

प्रकृतिप्रभास्वरं नाथं सर्वज्ञं त्रिभवोद्भवम् / प्रणम्य शिरसा वज्रम् ईप्सितार्थफलप्रदम् // ADvS_1

देशकालतिथिवारनक्षत्रैर् मण्डलैर् विना / वक्ष्ये हं वज्रसत्त्वस्य संक्षेपात् साधनं परम् // ADvS_2

नियमव्रतोपवासैर् अक्षरोच्चारणभावनैः / अतत्त्वयोगो न सिद्ध्येत् कल्पकोटिशतैर् अपि // ADvS_3

विड्वज्रोदकबीजाद्यैर् नासिकाभ्यन्तरोद्भवैः / पूजयेद् सततं मन्त्री आत्मानं तत्त्वभावनैः // ADvS_4

जननीं भगिनीश् चैव दुहितृभागिनेयिकान् / प्रज्ञ्नोपायविधानेन पूजयेद् योगवित् सदा // ADvS_5

एकाङ्गविकलां हीनां शिल्पनीं श्वपचीं तथा / योषितां पूजयेन् नित्यं ज्ञानवज्रप्रभावनैः // ADvS_6

तत्रेमानि बीजपदानि - ओं आः हूं

येन येन हि बद्ध्यन्ते जन्तवो रौद्रकर्मणा / सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् // ADvS_7

समयान् अहरहः कुर्याद् दिव्यान् पञ्चकुलोद्भवान् / पूजयेच् च प्रदीपाद्यैः सक्षीरैर् विश्वसम्भवैः // ADvS_8

प्रोत्फुल्लनयनो मन्त्री नित्यं प्रहसिताननः / चित्तम् आरोप्य संबोधौ भावयेज् ज्ञानसागरम् // ADvS_9

यावत् स्थिरचला भावा सन्त्य् अत्र त्रिभवालये / सर्वे ते तत्त्वयोगेन द्रष्टव्या वज्रधृग् यथा // ADvS_10

परवादिनश् च केचिल् लिन्गभेदैर् व्यवस्तिताः / ते ऽप्य् अत्र नावमन्तव्या वज्रसत्त्वविकुर्वितैः // ADvS_11

सर्वान् समरसीक्र्त्य भावान् नैरात्म्यनिःसृतान् / भावयेत् सततं मन्त्री देहं प्रकृतिनिर्मलम् // ADvS_12

गन्धमाल्यादिभिर् वस्त्रैर् धूपनैवेद्यकैस् तथा / गीतवाद्यैस् तथा नृत्यैः सोपायैर् भजते विभुः // ADvS_13

न कष्टकल्पनां कुर्यान् नोपवासं न च क्रियाम् / स्नानं शौचं न चैवात्र ग्रामधर्मविवर्जनं // ADvS_14

न चापि वन्दयेद् देवान् काष्ठपाषाणमृण्मयान् / पूजाम् अस्यैव कायस्य कुर्वान् नित्यं स्माहितः // ADvS_15

मक्षिकाच्छर्दिसंमिश्रैर् विण्मूत्राद्यैश् च भावितैः / पञ्चप्रदीपसंयुक्तैः पूजयेद् वज्रधारिणम् // ADvS_16

अबला स्वयम्भुकुसुमैः सक्षीरैर् विश्वसम्भवैः / पूजयेद् देवतां तेन देहस्थां तत्त्वभावनैः // ADvS_17

परस्वहरणं कुर्यात् परदारनिषेवनम् / वक्तव्यं च मृषावाक्यं सर्वबुद्धांश् च घातयेत् // ADvS_18

शैलमृण्मयचैत्यादीन् न कुर्यात् पुस्तके रतिम् / न मण्डलानि स्वप्ने ऽपि कायवाक्चित्तकर्मणा // ADvS_19

जुगुप्सां नैव कुर्वीत सर्ववस्तुषु मन्त्रवित् / वज्रसत्त्वः स्वयं तत्र साक्षाद् रूपेण संस्थितः // ADvS_20

गम्यागम्यविकल्पं तु भक्ष्याभक्ष्यं तथैव च / पेयापेयं तथा मन्त्री कुर्यान् नैव समाहितः // ADvS_21

वैरोचनसमुद्भूतान् सर्वप्राण्यङ्गसम्भवान् / प्राणकान् गुह्यतत्त्वज्ञो भक्षयेत् सिद्धिहेतुना // ADvS_22

सर्ववर्णसमुद्भूता जुगुप्स्या नैव योषितः / सैव भगवती प्रज्ञा संवृत्या रूपम् आश्रित्या // ADvS_23

न तिथिर् न च नक्षत्रं नोपवासो विधीयते / अद्वयज्ञानयुक्तस्य सिद्धिर् भवति सौगती // ADvS_24

बहुनात्र किम् उक्तेन यद् भवेद् उपलब्धिकम् / तत् सर्वं तत्त्वयोगेन द्रष्टव्यं तत्त्ववेदिना // ADvS_25

हस्त्यश्वखरगावोष्ट्रप्रदीपं श्वानसम्भवम् / महाप्रदीपसंमिश्रं भक्षयेद् योगवित् सदा // ADvS_26

न चाध्यासक्तिं कुर्वीत एकस्मिन्न् अपि योगवित् / समताचित्तयोगेन भावनीयो भवार्णवः // ADvS_27

उत्पत्तिस्थितिनिरोधं चासम्पृक्तं पृथग्जनैः / तस्य भावे तु संसारो नान्यत्र प्रलयोद्भवः // ADvS_28

दिनं तु भगवान् वज्री नक्तं प्रज्ञा विधीयते / एवं तु भावयेद् योगी लघु सिद्धिम् अवाप्नुयात् // ADvS_29

यत् तद् अव्यक्तरूपं तु सर्वसत्त्वेषु संस्थितम् / गुरुवक्त्रात् परं तत्त्वं प्राप्यते नात्र सम्शयः // ADvS_30

अप्रतिष्ठितनिर्वाणं निर्निमित्तं निरालयम् / व्यापकं सर्वसत्त्वेषु संबोधिः परमं पदम् // ADvS_31

एवं मत्वा तु वै योगी यो ऽभ्यसेद् बुद्धिमान् सदा / स सिद्ध्यति न सन्देहो मन्दपुण्यो ऽपि मानवः // ADvS_32

आचार्यात् परतरं नास्ति त्रैलोक्ये सचराचरे / यस्य प्रसादात् प्राप्यन्ते सिद्धयो ऽनेकधा बुधैः // ADvS_33

वज्रसत्त्वः स वै ज्ञेयः सर्वबुद्धैर् नमस्कृतः / आचार्यः परमो देवः पूजनीयः प्रयत्नतः // ADvS_34

स एव तथतारूपी लोकानुग्रहहेतुना / रूपम् आश्रित्य संवृत्या संस्थितो योगपीठके // ADvS_35

मृत्युर् एष विकल्पो यं न भावः सर्ववस्तुषु / हन्यते स्वविकल्पेन पृथग्जनविजृम्भितैः // ADvS_36

श्रीमदोडीयानविनिर्गता महायोगपीठागता ऽखिलयोगतन्त्रतत्त्वगर्भा श्रीलक्ष्मीमुखकमलाद् विनिःसृता स्वाधिष्ठानक्रमोदया अद्वयसिद्धिर् नाम साधनोपायिका समाप्तेति

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.