Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
Larger प्रज्ञापारमिता
- Thông tin
- GRETIL — Stefano Zacchetti: In Praise of the Light Ō A Critical Synoptic Edition with an Annotated Translation of Chapters 1-3 of Dharmarakṣa's Guang zan jing, Being the Earliest Chinese Translation of the Larger Prajñāpāramitā, Tokyo 2005 (Bibliotheca Philologica et Philosophica Buddhica, 8).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं चक्षुःशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं श्रोत्रघ्राणजिह्वाकायमनःशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं रूपशब्दगन्धरसस्पर्शधर्मशुन्यतायां युक्तो युक्त इति वक्तव्यः चक्षुर्धातुशुन्यतायां रूपधातुशुन्यतायां चक्षुर्विज्ञानधातुशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं श्रोत्रधातुशुन्यतायां शब्दधातुशुन्यतायां श्रोत्रविज्ञानधातुशुन्यतायां घ्राणधातुशुन्यतायां गन्धधातुशुन्यतायां घ्राणविज्ञानधातुशुन्यतायां जिह्वाधातुशुन्यतायां रसधातुशुन्यतायां जिह्वाविज्ञानधातुशुन्यतायां कायधातुशुन्यतायां स्पर्शधातुशुन्यतायां कायविज्ञानधातुशुन्यतायां मनोधातुशुन्यतायां धर्मधातुशुन्यतायां मनोविज्ञानधातुशुन्यतायां युक्तो युक्त इति वक्तव्यः दुःखशुन्यतायां समुदयशुन्यतायां निरोधशुन्यतायां मार्गशुन्यतायां युक्तो युक्त इति वक्तव्यः स्कन्धशुन्यतायां धातुशुन्यतायां आयतनशुन्यतायां युक्तो युक्त इति वक्तव्यः अविद्याशुन्यतायां युक्तो युक्त इति वक्तव्यः संस्कारशुन्यतायां विज्ञानशुन्यतायां नामरूपशुन्यतायां (ल्प्ग् 21र्) षडायतनशुन्यतायां स्पर्शशुन्यतातायां वेदनाशुन्यतायां तृष्णाशुन्यतायाम् उपादानशुन्यतायां भवशुन्यतायां जातिशुन्यतायां जरामरणशुन्यतायां युक्तो युक्त इति वक्तव्यः सर्वधर्मशुन्यतायाम् युक्तो युक्त इति वक्तव्यः । ये केचित् संज्ञागताः संस्कृतासंस्कृता धर्माः सर्वेषां धर्माणां शुन्यतायां युक्तो युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् प्रकृतिशुन्यतायां युक्तो युक्त इति वक्तव्य एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः // स आभिर् दशभिः शुन्यताभिः प्रज्ञापारमितायां चरन् न तावद् युक्त इति वा अयुक्त इति वा वक्तव्यः तत् कस्य हेतोः तथा हि स न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति । न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति । न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति । न वेदनां न संज्ञान् न संस्कारान् न विज्ञानम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति । न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति । न वेदनां न संज्ञां न संस्कारान् न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति । न रूपं वेदनया सार्धं समवसरतीति समनुपश्यति । न वेदना संज्ञया न संज्ञा संस्कारैर् न संस्कारा विज्ञानेन सार्धं समवसरन्तीति समनुपश्यति । न विज्ञानं संस्कारैः सार्धं समवसरतीति समनुपश्यति । तत् कस्य हेतोः तथा हि न स कश्चिद् धर्मः केनचिद् धर्मेण सार्धं समवसरति न विसरति । //
न युज्यते न वियुज्यते प्रकृतिशुन्यताम् उपादाय । या शारद्वतीपुत्र रूपशुन्यता न सा रूपं या वेदनाशुन्यता न सा वेदना । या संज्ञाशुन्यता न सा संज्ञा । या संस्कारशुन्यता न ते संस्कारा । या विज्ञानशुन्यता न सा विज्ञानं । तथा हि शारद्वतीपुत्र या रूपशुन्यता न सा रूपयति । या वेदनाशुन्यता न सा (ल्प्ग् 21व्) वेदयति । या संज्ञाशुन्यता न सा संजानाति । या संस्कारशुन्यता न साभिसंस्करोति । या विज्ञानशुन्यता न सा विजानाति । तत् कस्य हेतोः न हि शारद्वतीपुत्रान्यद् रूपम् अन्या शुन्यता नान्या शुन्यतान्यद् रूपम्* रूपम् एव शुन्यता शुन्यतैव रूपम्* एवं नान्या वेदनान्या शुन्यता । नान्या संज्ञा नान्या शुन्यता । नान्ये संस्कारा अन्या शुन्यता । नान्यद् विज्ञानम् अन्या शुन्यता । नान्या शुन्यतान्यद् विज्ञानं । विज्ञानम् एव शुन्यता शुन्यतैव विज्ञानं । या शारद्वतीपुत्र शुन्यता न सा उत्पद्यते न निरुध्यते । न संक्लिश्यते न व्यवदायते । न हीयते न वर्धते । नातीता नानागता न प्रत्युत्पन्ना या नोत्पद्यते न निरुध्यते । न संक्लिश्यते न व्यवदायते । न हीयते न वर्धते । नातीता नानागता न प्रत्युत्पन्ना : न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा कायो न मनः न रूपं न शब्दो न गन्धो न रसो न स्पर्शो न धर्माः न तत्र स्कन्धा न धातवो नायतनानि न तत्र चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञानधातुर् न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः न कायधातुर् न स्प्रष्टव्यधातुर् न
कायविज्ञानधातुर् न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् न तत्राविद्या नाविद्यानिरोधः न संस्कारा न्न संस्कारनिरोधः न विज्ञानं न विज्ञाननिरोधः न नामरूपं न नामरूपनिरोधः न षडायतनं न षडायतननिरोधः न स्पर्शो न स्पर्शनिरोधः न वेदना न वेदनानिरोधः न तृष्णा न तृष्णानिरोधः नोपादानं नोपादाननिरोधः न भवो न भवनिरोधः न जातिर् न जातिनिरोधः न जरामरणं न जरामरणनिरोधः न दुःखं न समुदयो न निरोधो न मार्गः न प्राप्तिर् नाभिसमयः न स्रोतआपन्नो न स्रोतआपत्तिफलं न सकृदागामी (ल्प्ग् 22र्) न सकृदागामिफलं नानागामी नानागामिफलं नार्हन् नार्हत्वम्* न प्रत्येकबोधिर् न प्रत्येकबुद्धः न तत्र मार्गाकारज्ञता न बोधिसत्वः न तत्र बोधिर् न बुद्धः एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः स एवं प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति । न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति । न चक्षुर् युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति । न श्रोत्रं न घ्राणं न जिह्वां न कायं न मनो युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति । न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति । न शब्दं न गन्धं न रसं न स्पर्शं न धर्मान् न चक्षुर्धातुं युक्तम् इति वा अयुक्तम् इति वा
समनुपश्यति । न रूपधातुं न चक्षुर्विज्ञानधातुं यावन् न मनोधातुं न धर्मधातुं न मनोविज्ञानधातुं युक्त इति वा अयुक्त इति वा समनुपश्यति । न स्मृत्युपस्थानेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न सम्यक्प्रहाणेषु न रिद्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यंगेषु न मार्गे युक्त इति वा अयुक्त इति वा समनुपश्यति । यावन् न दशसु तथागतबलेषु न चतुर्षु वैशारद्येषु न चतसृषु प्रतिसंवित्सु नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । यावन् न सर्वज्ञतायां न सर्वाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । अनेनापि शारद्वतीपुत्र पर्यायेण बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः सर्वधर्मायोगावियोगताम् (ल्प्ग् 22व्) उपादाय । पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न शुन्यतां शुन्यतया योजयति न वियोजयति । न शुन्यतायोगम्* नानिमित्तम् आनिमित्तेन योजयति न वियोजयति । नानिमित्तयोगम्* नाप्रणिहितम् अप्रणिहितेन योजयति न वियोजयति । नाप्रणिहितयोगम् । तत् कस्य हेतोः तथा हि शुन्यता न योगो न वियोगः एवम् आनिमित्तम् अप्रणिहितं न योगो न वियोगः एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशुन्यताम् अवतरति । एवम् अवतरन् न रूपं योजयति न वियोजयति । न वेदनां न संज्ञां न संस्कारान् न विज्ञानं योजयति न वियोजयति । न रूपं पूर्वान्तेन योजयति न वियोजयति । तथा हि पूर्वान्तम् एव न समनुपश्यति । न रूपम् अपरान्तेन योजयति न वियोजयति । तथा ह्य् अपरान्तम् एव न समनुपश्यति । न रूपं प्रत्युत्पन्नेन योजयति न वियोजयति । तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं पूर्वान्तापरान्तप्रत्युत्पन्नैर् योजयति न वियोजयति । तथा हि पूर्वान्तापरान्तप्रत्युत्पन्नान्य् एव न समनुपश्यति । //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति न वियोजयति । नापरान्तं पूर्वान्तेन योजयति न वियोजयति । न प्रत्युत्पन्नं पूर्वान्तेनापरान्तेन वा योजयति न वियोजयति । न पूर्वान्तम् अपरान्तं वा प्रत्युत्पन्नेन योजयति न वियोजयति । अध्वसमताशुन्यताम् उपादाय । // एवं हि युक्तः शारद्वतीपुत्र बोधिसत्वो महासत्वः (ल्प्ग् 23र्) प्रज्ञापारमितायां युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् एवं युज्यते यथा युज्यमानो न सर्वज्ञताम् अतीतेन योजयति तथा ह्य् अतीतम् एव न समनुपश्यति । असमनुपश्यन् । कथं सर्वज्ञताम् अतीतेन योजयिष्यति । न सर्वज्ञताम् अनागतेन योजयिष्यति । तथा ह्य् अनागतम् एव न समनुपश्यत्य् असमनुपश्यन् कथं सर्वज्ञताम् अनागतेन योजयिष्यति । न सर्वज्ञतां प्रत्युत्पन्नेन योजयति । तथा हि प्रत्युत्पन्नम् एव न समनुपश्यत्य् असमनुपश्यन् कथं सर्वज्ञतां प्रत्युत्पन्नेन योजयिष्यति । एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
पुनर् अपरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न रूपं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपम् एव न समनुपश्यत्य् असमनुपश्यन् कथं रूपं सर्वज्ञतया योजयिष्यति । // एवं न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं सर्वज्ञतया योजयति न वियोजयति । तथा हि विज्ञानम् एव न समनुपश्यति । यावन् न चक्षुः सर्वज्ञतया योजयति न वियोजयति । तथा हि चक्षुर् एव न समनुपश्यति । एवन् न श्रोत्रं न घ्राणं न जिह्वां न कायन् न मनः सर्वज्ञतया योजयति न वियोजयति । तथा हि मन एव न समनुपश्यति । एवं न रूपं सर्वज्ञतया योजयति न वियोजयति । तथा हि रूपम् एव न समनुपश्यति । एवं न शब्दगन्धरसस्पर्शधर्मान् सर्वज्ञतया योजयति न वियोजयति । तथा हि धर्मान् एव न समनुपश्यति । एवं न स्कन्धान् सर्वज्ञतया योजयति न वियोजयति । (ल्प्ग् 23व्) तथा हि स्कन्धान् एव न समनुपश्यति । न धातून् सर्वज्ञतया योजयति न वियोजयति । तथा हि धातून् एव न समनुपश्यति । नायतनानि सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् आयतनान्य् एव न समनुपश्यति । // न चक्षुर्धातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि चक्षुर्धातुम् एव न समनुपश्यति । // न रूपधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि रूपधातुम् एव न समनुपश्यति । न चक्षुर्विज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि चक्षुर्विज्ञानधातुम् एव न समनुपश्यति । यावन् न मनोधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि मनोधातुम् एव न समनुपश्यति । न धर्मधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि धर्मधातुम् एव न समनुपश्यति । न मनोविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति । तथा हि मनोविज्ञानधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं मनोविज्ञानधातुं सर्वज्ञतया योजयिष्यति । एवं चरंच् छारद्वतिपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वज्ञतया योजयति न वियोजयति । तथा हि दानपारमिताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति । एवं न शीलपारमितां न क्षान्तिपारमितां न वीर्यपारमितां न ध्यानपारमितां न प्रज्ञापारमितां सर्वज्ञतया योजयति न वियोजयति । तथा हि प्रज्ञापारमिताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति । एवं न स्मृत्युपस्थानानि न सम्यक्प्रहाणर्धिपादेन्द्रियबलबोध्यंगमार्गान् सर्वज्ञतया योजयति न वियोजयति । एवन् न दश तथागतबलानि न चत्वारि वैशारद्यानि न चतस्रः प्रतिसंविद (ल्प्ग् 24र्) नाष्टादशावेणिकान् बुद्धधर्मान् सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् आवेणिकबुद्धधर्मान् न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति । एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वज्ञतया योजयति न वियोजयति । न सर्वज्ञतां बुद्धेन योजयति न वियोजयति । तथा हि बुद्धम् एव न समनुपश्यति सर्वज्ञताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति । न बोधिं सर्वज्ञतया योजयति न वियोजयति । न बोद्ध्या सर्वज्ञतां योजयति न वियोजयति । तथा हि बोधिम् एव न समनुपश्यति । सर्वज्ञताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति । एवं हि शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न रूपं भाव इति योजयति न रूपं विभाव इति योजयति । न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं भाव इति न विज्ञानं विभाव इति योजयति । //
न रूपं नित्यम् इति योजयति । न रूपम् अनित्यम् इति योजयति एवन् न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं नित्यम् इति योजयति । न विज्ञानम् अनित्यम् इति योजयति न रूपं सुखम् इति योजयति न रूपं दुःखम् इति योजयति । एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं सुखम् इति योजयति । न विज्ञानं दुःखम् इति योजयति । न रूपम् आत्मेति योजयति । न रूपम् अनात्मेति योजयति । एवं न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् आत्मेति योजयति । न विज्ञानम् अनात्मेति योजयति । न रूपं शान्तम् इति योजयति । न रूपम् अशान्तम् इति योजयति । एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं शान्तम् इति (ल्प्ग् 24व्) योजयति । न विज्ञानम् अशान्तम् इति योजयति । न रूपं शुन्यम् इति वा अशुन्यम् इति युज्यते । न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं शुन्यम् इति वा अशुन्यम् इति वा युज्यते । न रूपं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते । न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते । न रूपं प्रणिहितम् इति वा अप्रणिहितम् इति वा युज्यते । न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं प्रणिहितम् इति वा अप्रणिहितम् इति वा युज्यते । न रूपम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । एवं न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् उत्पद्यत इति वा निरुध्यय इति वा युज्यते । न रूपम् अतीतम् इति युज्यते । न रूपम् अनागतम् इति युज्यते । न रूपं प्रत्युत्पन्नम् इति युज्यते एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् अतीतम् इति युज्यते न विज्ञानम् अनागतम् इति युज्यते । न विज्ञानं प्रत्युत्पन्नम् इति युज्यते । न
रूपं सारम् इति न दुर्बलम् इति युज्यते । एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् सारम् इति न दुर्बलम् इति युज्यते । न रूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते । एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । स प्रज्ञापारमितायां चरतीति नोपैति । न चरतीति नोपैति । चरतीति च न चरति चेति नोपैति । नैव चरति च न चरतीति नोपैति । एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न प्रज्ञापारमितायाः कृते प्रज्ञापारमितायां चरति । न दानपारमिताया न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमितायाः कृते प्रज्ञापारमितायां चरति । नावैवर्त्यभूमेः कृते प्रज्ञापारमितायां चरति । न सत्वपरिपाकहेतोः न बुद्धक्षेत्रपरिशोधनार्थं न दशानां (ल्प्ग् 25र्) तथागतबलानां कृते । न चतुर्णां वैशारद्यानां कृते । न चतस्र्णां प्रतिसंविदानां कृते । नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां कृते प्रज्ञापारमितायां चरति । नाध्यात्मशुन्यतायाः कृते प्रज्ञापारमितायां चरति । न बहिर्धाशुन्यताया नाध्यात्मबहिर्धाशुन्तताया । न शुन्यताशुन्यताया न महाशुन्यताया न परमार्थशुन्यताया न संस्कृतशुन्यताया नासंस्कृतशुन्यताया नात्यन्तशुन्यताया । नावराग्रशुन्यताया । नावकारशुन्यताया । न प्रकृतिशुन्यताया । न स्वलक्षणशुन्यताया । न सर्वधर्मशुन्यताया । नानुत्पादशुन्यताया । नाभावस्वभावशुन्यतायाः कृते । न तथतायाः कृते । न धर्मधातोर् न भूतकोटेः कृते प्रज्ञापारमितायां चरति । तत् कस्य हेतोः न हि बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य भेदं वा नानाकरणं वा विशेषं वा समनुपश्यति । एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः // स न दिव्यस्य चक्षुषः कृते प्रज्ञापारमितायां चरति । न दिव्यस्य श्रोत्रस्य न परचित्तज्ञानस्य न पूर्वनिवासानुस्मृतेर् नर्धिपादानां कृते प्रज्ञापारमितायां चरति । एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा दिव्येन चक्षुषा पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सत्करिष्यामि गुरुकरिष्यामि मानयिष्यामि पूजयिष्यामि // एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सत्करिष्यामि गुरुकरिष्यामि मानयिष्यामि पूजयिष्यामि न चास्यैवं (ल्प्ग् 25व्) भवति यत् ते बुद्धा भगवन्तो भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोष्यामि । अहं तत्र लोकधातुषु सत्वानां चेतसैव चित्तं ज्ञास्ये । अहं एषां पूर्वेनिवासान् अनुस्मरिष्यामि । अहं दिव्येन चक्षुषा तां सत्वांश् च्यवमानान् उपपद्यमानान् उपपन्नांश् च द्रक्ष्यामि । अहम् अप्रमेयासंख्येयान् सत्वान् परिनिर्वापयिष्यामि ति । // एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः // एवं खलु शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो मारः पापीयान् अवतारं न लभते । यान्य् अपि कानिचिल् लौकिकलोकोत्तराणि करणीयानि तान्य् अपि सर्वाणि प्रदक्षिणीभवन्त्य् अनाभोगेनापरिकल्पितानि // ये च ते पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो ये च दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि बुद्धा भगवन्तस् तं बोधिसत्वं महासत्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति । ये च चत्वारो महाराजा यावद् अघनिष्ठा देवास् ते ऽपि तं बोधिसत्वं महासत्वम्म् आरक्षन्ति मा हैव कश्चिद् बोधिसत्वस्य महासत्वस्यान्तरायं कार्षीत्* ये च केचित् कायिका रोगास् ते ऽपि तस्य दृष्टे ऽपि धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोः तथा हि बोधिसत्वो महासत्वः सर्वसत्वान् मैत्र्या स्फरति । // एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः अल्पकृच्छ्रेण धारणीमुख समाधिमुखानि प्रतिभानप्रतिसंविन्मुखान्य् आमुखीभवन्ति । // तथागतांश् चार्हतः (ल्प्ग् 26र्) सम्यक्संबुद्धान् आरागयति । तैश् च बुद्धैर् भगवद्भिर् न कदाचिद् विरहितो भवति । यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते । //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति । अस्ति कश्चिद् धर्मो यो धर्मैः सार्धं संयुज्यते वा विसंयुज्यते वा । समेति वा न समेति वा । तत् कस्य हेतोः । तथा हि स तद् धर्मं न समनुपश्यति । यो युज्येत वा वियुज्येत वा । समेयाद् वा न समेयाद् वा : एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति * कच्चिद् अहं धर्मधातुम् अभिसंबुद्ध्येय न वाभिसंबुध्येय तत् कस्य हेतोर् न हि धर्मधातुम् अभिसंबुद्धो नाभिसंबुध्यते । नाभिसम्भोत्स्यते । एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न कंचिद् धर्मं धर्मधातुव्यतिरिक्तं समनुपश्यति । एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न धर्मधातोर् धर्माणां च नानाकरणं करोति । //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति // धर्मधातुं प्रतिविध्येय वा न वा प्रतिविध्येय । तथा हि स न कंचिद् धर्मं समनुपश्यति । येन धर्मेण यो धर्मः प्रतिविध्येत तथा हि न स धर्मधातुं शुन्यम् इति योजयति । नाशुन्यम् इति योजयति । एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
(ल्प्ग् 26व्) पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं शुन्यतया योजयति । न शुन्यतां चक्षुर्धातुना योजयति । न रूपधातुं शुन्यतया योजयति । न शुन्यतां रूपधातुना योजयति । न चक्षुर्विज्ञानधातुं शुन्यतया योजयति । न शुन्यतां चक्षुर्विज्ञानधातुना योजयति । एवं न श्रोत्रधातुं न शब्दधातुं न श्रोत्रविज्ञानधातुं न घ्राणधातुं न गन्धधातुं न घ्राणविज्ञानधातुं न जिह्वाधातुं न रसधातुं न जिह्वाविज्ञानधातुम् । न कायधातुं न स्प्रष्टव्यधातुं । न कायविज्ञानधातुं । यावन् न मनोधातुं शुन्यतया योजयति । न शुन्यतां मनोधातुना योजयति । न धर्मधातुं शुन्यतया योजयति । न शुन्यतां धर्मधातुना योजयति । न मनोविज्ञानधातुं शुन्यतया योजयति । न शुन्यतां मनोविज्ञानधातुना योजयति । एष हि शारद्वतीपुत्र परमो योगो यद् उत शुन्यतायोगः शुन्यतायां शारद्वतीपुत्र चरन् बोधिसत्वो महासत्वो न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति । बुद्धक्षेत्रं च परिशोधयति । सत्वांश् च परिपाचयति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते ये केचिच् छारद्वतीपुत्र योगाः प्रज्ञापारमितायोगस् तेषाम् अग्र्य-म्-आख्यायते । श्रेष्ठ वरः प्रवरः प्रणीत-म्-आख्यायते तत् कस्य हेतोः अनुत्तर एष योगो यद् उत प्रज्ञापारमितायोगः शुन्यतानिमित्ताप्रणिहितयोग । एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वो व्याकृतो वक्तव्यः असन्निभूतश् चानुत्तरायाः सम्यक्संबोधेः एवं युज्यमानः (ल्प्ग् 27र्) शारद्वतीपुत्र बोधिसत्वो महासत्वो ऽप्रमेयाणाम् असंख्येयानां सत्वानाम्म् अर्थं करोति न चास्यैवं
भवत्य् अहं प्रज्ञापारमितायां युज्ये ऽति वा वियुज्ये ऽति वा मां बुद्धा भगवन्तो व्याकरिष्यन्त्य् अहम् आसन्नीभूतो व्याकरणस्य //
अहं बुद्धक्षेत्रं परिशोधयिष्यामि । अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्ये । // तत् कस्य हेतोस् तथा हि स धर्मधातुं न व्यतिरेकीकरोति । // न च धर्मधातोः कंचिद् अन्यधर्मं समनुपश्यति । यः प्रज्ञापारमितायां चरेद् यो वा बुद्धैर् भगवद्भिर् व्याकृयेत । यो वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत : तत् कस्य हेतोः तथा हि तस्य बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो न सत्वसंज्ञोत्पद्यते । न जीवसंज्ञा न पुद्गलसंज्ञा न जानकपश्यककारकवेदकसंज्ञोत्पद्यते । // तत् कस्य हेतोः तथा ह्य् अत्यन्तं सत्वो नोपलभ्यते न निरुध्यते । न हि सत्वस्योत्पादो न निरोधः यस्य च नोत्पादो न निरोधः कथं स प्रज्ञापारमितायां चरिष्यति । एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः सत्वानुत्पादतया प्रज्ञापारमितायां चरति । सत्वशुन्यतया प्रज्ञापारमितायां चरति । सत्वानुपलब्ध्या सत्वविविक्ततया सत्वप्रकृत्या । सत्वास्वभावतया प्रज्ञापारमितायां चरति । एष शारद्वतीपुत्र बोधिसत्वानां महासत्वानां परमो योगो यद् उत शुन्यतायोगः अयं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः परमो योगः यस् तदन्यान् योगान् अभिभूय तिष्ठति । अत्र च शारद्वतीपुत्र योगे चरन् बोधिसत्वो महासत्वो महामैत्रीम् अभिनिर्हरति । महाकरुणां चाभिनिर्हरति । अत्र शारद्वतीपुत्र योगे चरन् बोधिसत्वो महासत्वो न मात्सर्यचित्तम् उत्पादयति । न दौःशील्यचित्तं न व्यापादचित्तं न कौसीद्यचित्तं (ल्प्ग् 27व्) न विक्षेपचित्तं न दौष्प्रज्ञचित्तम् उत्पादयति ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
