Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

Larger प्रज्ञापारमिता (bản Choong)

Thông tin
GRETIL — edition by Yoke Meei Choong. Zum Problem der Leerheit (śūnyatā) in der Prajñāpāramitā, Frankfurt 2006 (Europäische Hochschulschriften, Reihe 27, Bd. 97), pp. 109-133. = LPG(Ch).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

Larger प्रज्ञापारमिता

[ग्ब्म् 571.5 = ल्प्ग्(छ्) 202र्5] एवम् उक्ते आयुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्* महागुणसमन्वागतो भगवंन् अवैवर्तिको बोधिसत्वो मनासत्वः अप्रमेयासंख्येयापरिमाणगुणसमन्वागतो 6 भगवन्न् अवैवर्तिको बोधिसत्वो महासत्वः अपरिमितगुणसमन्वागतो भगवन्न् अवैवर्तिको बोधिसत्वो महासत्वः भगवान् आह* एवम् 7 एतत् सुभूते एवम् एतत्* महागुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः अप्रमेयासंख्येयापरिमाणगुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः 8 अपरिमितगुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः तत् कस्य हेतोः तथा ह्य् अनेनानन्तापर्यन्तं ज्ञानं प्रतिलब्धः असाधारणं सर्वश्रावकप्रत्येकबुद्धैः 9 तत्र च ज्ञाने स्थित्वा अवैवर्तिको बोधिसत्वो महासत्वः प्रतिसंविदो ऽभिनिर्हरति / याभिः प्रतिसंविद्भिः सदेवमानुषासुरेण लोकेन पृष्टः प्रतिवचनैर् न शक्यं पर्यादातुं सुभूतिर् आह / 10 प्रतिबलो भगवंस् तथागतो ऽर्हं सम्यक्संबुद्धो गंगानदीवालुकोपमान् कल्पान् अवैवर्तिकस्य बोधिसत्वस्य महासत्वस्याकारलिंगनिमित्तानि निर्देष्टुं / यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् अवैवर्तिको बोधिसत्वो 11 महासत्वः प्रभाव्यते / साधु भगवन् गंभीरगंभीरस्थानानि निर्देष्टव्यानि / यत्र स्थित्वा बोधिसत्वो महासत्वः षट्सु पारमितासु चरंश् चत्वारि स्मृत्युपस्थानानि परिपूरयति / यावत् सर्वाकारज्ञतां 12 परिपूरयति भगवान् आह / साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् अवैवर्तिकानां बोधिसत्वानां महासत्वानाम् अर्थाय तथागतं गंभीरगंभीराणि स्थानानि यान्य् अधिवचनं 13 यद् उत निर्वाणस्य / आह / निर्वाणस्यैवैतद् भगवन्न् अधिवचनन् न पुनः सर्वधर्माणां / भगवान् आह / सर्वधर्माणाम् अप्य् एतत् सुभूते अधिवचनं गंभीरम् इति / तत् कस्य हेतोः / रूपं सुभूते गंभीरन् वेदना

[ग्ब्म् 572.1 = ल्प्ग्(छ्) 202व्] संज्ञा संस्कारा विज्ञानं सुभूते गंभीरं चक्षुर् अपि सुभूते गंभीरं यावन् मनो ऽपि सुभूते गंभीरं यावद् बोधिर् अपि सुभूते गंभीरा कथं च सुभूते रूपं गंभीरं / यथा रूपस्य तथता तथा गंभीरं / यथा वेदनाया 2 संज्ञाया संस्काराणां यथा विज्ञानस्य तथता तथा गंभीरं यावद् यथा बोधेस् तथता तथा गंभीरं / आह / कथं भगवं रूपस्य तथता यावत् कथं बोधेस् तथता / भगवान् आह / यत्र सुभूते रूपतथतायां न 3 रूपं नान्यत्र रूपात् तथता यावद् यत्र सुभूते विज्ञानतथतायां न विज्ञानं नान्यत्र विज्ञानात् तथता यावद् यत्र बोधितथतायां न बोधिर् नान्यत्र बोधेस् तथता / आह / आश्चर्यं भगवन् यावच् चेदं सूक्ष्मेणोपायेनावैवर्तिको 4 बोधिसत्वो महासत्वो रूपाच् च निवारितो निर्वाणं च सूचितः वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानाच् च निवारितो निर्वाणं च सूचित सर्वग्रहेभ्यश् च लौकिकलोकोत्तरेभ्यः साधारणासाधारणेभ्यः 5 सास्रवानास्रवेभ्यो निवारितो निर्वाणं च सूचितः भगवान् आह / यः सुभूते बोधिसत्वो महासत्व इमानि गंभीरगंभीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि चिन्तयिष्यति / 6 तुलयिष्यत्य् उपनिध्यास्यति / एवं मया स्थातव्यं / यथा प्रज्ञापारमितायाम् आज्ञप्तम् एवं मया शिक्षितव्यम्* यथा प्रज्ञापारमितायाम् उपदिष्टम्* अयं सुभूते बोधिसत्वो महासत्वः तथैव 7 संपादयन् यथा प्रज्ञापारमितायाम् आख्यातं तथोपनिध्यायंस् तथोपपरीक्षमाणस् तथा युज्यमानस् तथा घठमानस् तथा व्यायच्छमानो यथा प्रज्ञापारमितायाम् उपदिष्टं /

एकेन चित्तोत्पादेनासंख्येयाप्रमेयान्य् 8 अपरिमाणानि कुशलमूलानि परिग्रहीष्यति / सो ऽपरिमाणां कल्पां संसाराच् छोरयिष्यति / कः पनर् वादो यः अव्यवकीर्णः प्रज्ञापारमितायां चरं बोधिप्रतिसंयुक्तैर् 9 मनसिकारैर् विहरिष्यति / तद्यथापि नाम स्यात् सुभूते पुरुषो रागचरितो वितर्कचरितस् तेनान्यतरया स्त्रिया सार्धम् अभिरूपया प्रासादिकया दर्शनीयया संकेतः कृतो भवेत्* 10 सा च स्त्री परपरिगृहीता न शक्नुयाद् गृहान् निष्क्रान्तुं / तत् किं मन्यसे सुभूते किंप्रतिसंयुक्तास् तस्य पुरुषस्य वितर्का भवेयुः / आह / स्त्रीप्रतिसंयुक्ता एव भगवंस् तस्य पुरुषस्य वितर्का भवेयुः 11 इमम् एति इयम् आगता एतया सार्धं निषत्स्यामि परिचारयिष्यामि भगवान् आह तत् किं मन्यसे सुभूते रात्रेर् अत्ययाद् दिवसस्यात्ययात् कियन्तस् तस्य पुरुषस्य वितर्का वर्तेरन्* आह बहवो भगवं बहवस् 12 सुगत तस्य पुरुषस्य रात्रेर् अत्ययाद् दिवसस्य चात्ययाद् वितर्का वर्तेरन्* / भगवान् आह / यावन्तः सुभूते तस्य पुरुषस्य रात्रेश् च दिवसस्य चात्ययाद् वितर्का वर्तेरन्न् इयन्तः कल्पान् बोधिसत्वो महासत्वः 13 संसाराच् छोरयति विपृष्ठीकरोति य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां शिक्षेत / उपपरीक्षेत उपनिध्यायति / तथा च योगम् आपद्यते / यथा तां दोषान् विवर्जयति 14 यैर् दोषैर् बोधिसत्वो महासत्वो विवर्तते ऽनुत्तरस्याः सम्यक्संबोधेः एवं योगम् अनुयुक्तः सुभूते बोधिसत्वो महासत्वो ऽनेन विहारेण विहरन् यथा प्रज्ञापारमितायाम् उपदिष्टम् एकदिवसेन

[ग्ब्म् 573.1 = ल्प्ग्(छ्) 203र्] यत् कुशलमूलं परिगृह्णाति तेन गंगानदीवालुकोपमाल् लोकधातवः परिपूर्णा भवेयुर् न तत् तस्य कुशलमूलस्य शततमीम् अपि कलान् नोपैति / सहस्रतमीम् अपि शतसहस्रतमीम् 2 अपि यावत् संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि नोपैति //

पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरं / गंगानदीवालुकोपमान् कल्पान् दानन् दद्यात् 3 त्रिषु रत्नेषु / बुद्धरत्ने धर्मरत्ने संघरत्ने तत् किं मन्यसे सुभूते अपि नु स बोधिसत्वो महासत्वस् ततोनिदानं बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत अप्रमेयम् असंख्येयम् 4 अपरिमाणम् अतुल्यं भगवान् आह / अयम् एव ततः सुभूते बोधिसत्वो महासत्वो बहुतरं पुन्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथानिर्दिष्टायां योगम् आपद्यते / तत् कस्य 5 हेतोः एषो हि बोधिसत्वानां महासत्वानां नयो येन नयेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगनदीवालुकोपमां 6 कल्पांस् तिष्ठन्* श्रोतआपन्नेषु दक्षिणां प्रतिष्ठापयेत् सकृदागामिष्व् अनागामिष्व् अर्हत्सु प्रत्येकबुद्धेषु तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु दक्षिणां प्रतिष्ठापये तत् किं मन्यसे सुभूते 7 अपि नु स बोधिसत्वो महासत्वः ततोनिदनं बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत / भगवान् आह / अयम् एव सुभूते कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* 8 य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्येत / तत् कस्य हेतोः अत्र हि प्रज्ञापारमितायां चरं बोधिसत्वो महासत्वः श्रावकप्रत्येकबुद्धभूमीम् अतिक्रम्य 9 बोधिसत्वन्यामम् अवक्रामति / यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां कल्पांस् तिष्ठं यापयं 10 दानं दद्याच् छीलं रक्षे क्षान्त्या

संपादयेद् वीर्यम् आरभेत ध्यानानि समापद्येत प्रज्ञां भावयेत्* अपि नु स ततोनिदानं बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत भगवान् आह / अतः स 11 सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि दानं दद्याच् छीलं रक्षेत्* क्षान्त्या संपादयेद् वीर्यम् आरभेत 12 ध्यानानि समापद्येत प्रज्ञां भावये तत् कस्य हेतोः तथा हि सुभूते मातैषा बोधिसत्वानां महासत्वानां यद् उत प्रज्ञापारमिता जनयित्र्यैषा बोधिसत्वाणां महासत्वाणां यद् उत प्रज्ञापारमिता / अत्र सुभूते 13 प्रज्ञापारमितायां स्थित्वा बोधिसत्वा महासत्वाः सर्वधर्मां परिपूरयंति / यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो 14 गंगानदीवालुकोपमां कल्पांस् तिष्ठन्* धर्मदानं दद्यात्* अपि स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत भगवान् आह / अतः स सुभूते

[ग्ब्म् 574.1 = ल्प्ग्(छ्) 203व्] कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि धर्मदानं दद्यात्* तत् कस्य हेतोः तथा हि सुभूते बोधिसत्वो महासत्वः 2 प्रज्ञापारमिताया विरहितः स सर्वाकारज्ञतया विरहितो यः पुनः सुभूते बोधिसत्वो महासत्वः अविरहितः सर्वाकारज्ञतया अविरहितः तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्तरां 3 सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितया अविरहितेन भवितव्यं / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीबालुकोपमान् कल्पांस् तिष्ठन् 4 योगम् आपद्येत चतुर्षु स्मृत्युपस्थानेषु याव शुन्यतानिमित्ताप्रणिहितेषु यावद् योगम् आपद्येत सर्वसमाधिषु / तत् किं मन्यसे सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु 5 पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत भगवान् आह / अयम् एव स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायाम् 6 एकदिवसम् अपि योगम् आपद्येत चतुर्षु स्मृत्युपस्थानेषु यावद् अष्टादशष्व् आवेणिकेषु बुद्धधर्मेषु / तत् कस्य हेतोः / अस्थानं सुभूते अनवकाशः यद् बोधिसत्वो महासत्वः 7 प्रज्ञापारमितया अविरहितः सर्वाकारज्ञतया विवर्तते / नेदं स्थानं विद्यते / स्थानं खलु पुनः सुभूते विद्यते यद् बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितः सर्वाकारज्ञतया न्विवर्तेत 8 स्थानाम् एतद् विद्यते / तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितया अविरहितेन भवितव्यं /

तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां 9 कल्पांस् तिष्ठंस् तच् चामिषदानं तच् च धर्मदानं तांश् च प्रतिसंलयनप्रतिसंयुक्तां मनसिकारान् अनुत्तरस्यै सम्यक्संबोधये परिणामयेद् अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं 10 बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत / भगवान् आह / अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां 11 यथोपदिष्टायां स्थित्वा एकदैवसिकं चामिषदानं तच् च धर्मदानं तांश् च प्रतिसंलयनप्रतिसंयुक्तान् अननसिकारान् अनुत्तरस्यां सम्यक्संबोधौ परिणमयेत्* तत् कस्य हेतोः एष हि परमः परिणामो 12 यद् उत प्रज्ञापारमितापरिणामः यः पुनः प्रज्ञापारमितया विना परिणामो नासौ परिणामः / तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन 13 प्रज्ञापारमितापरिणमनाकुशलमूलेन भवितव्यं / तत् किं मन्यसे सुभूते / यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां कल्पांस् तिष्ठन्न्

[ग्ब्म् 575.ल् = ल्प्ग्(छ्) 204र्] अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानाम् यत् कुशलमूलं तत् सर्वम् अनुत्तरस्यां सम्यक्संबोधौ परिणामयेद् अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* 2 आह बहु भगवं बहु सुगत भगवान् आह / अतस् स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदैवसिकम् 3 अपि कुसलमूलम् अनुत्तरस्यां सम्यक्संबोधौ परिणमयेत्* तत् कस्य हेतोः प्रज्ञापारमिता पूर्वंगता हि सुभूते सर्वपरिणमनात् तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्तरां 4 सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितापरिणमनाकुशलेन भवितव्यं / आह / यत् पुनर् भगवंन् अभिसंस्कारः कल्पित उक्तो भगवता तत् कथं स कुलपुत्रो वा कुलदुहिता 5 वा बहुतरं पुण्यं प्रसवेत्* स च भगवंन् अनभिसंस्कारेण शक्यं सम्यग्दृष्टिं चोत्पादयितुं न्यामं चावक्रमितुम्* श्रोतआपत्तिफलं चानुप्राप्तुम्* यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्* 6 भगवान् आह /

एवम् एतत् सुभूते एवम् एतत्* न ह्य् अनभिसंस्कारेण शक्यं सम्यग्दृष्टिं चोत्पादयितुं न्यामं चावक्रमितुम्* श्रोतआपत्तिफलं चानुप्राप्तुम्* यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्* 7 अपि तु खलु पुनः सुभूते तद् अपि दानम् अनभिसंस्कारो बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः शुन्यकम् एवाख्याति रिक्तकम् एव तुच्छकम् एवासारकम् एवाख्याति 8 तत् कस्य हेतोः तथा हि सुभूते बोधिसत्वो महासत्वो अध्यात्मशुन्यतायां सुशिक्षितो बहिर्धाशुन्यतायाम् अध्यात्मबहिर्धाशुन्यतायां सुशिक्षितः शुन्यताशुन्यतायां महाशुन्यतायां परमार्थशुन्यतायां 9 संस्कृतशुन्यतायाम् असंस्कृतशुन्यतायाम् अत्यंतशुन्यतायाम् अनवराग्रशुन्यतायाम् अनवकारशुन्यतायां प्रकृतिशुन्यतायां सर्वधर्मशुन्यतायां स्वलक्षणशुन्यतायाम् 10 अनुपलंभशुन्यतायाम् अभावशुन्यतायां स्वभावशुन्यतायाम् अभावस्वभावशुन्यतायां सुशिक्षितः स खलु पुनः सुभूते बोधिसत्वो महासत्वः आसु शुन्यतासु स्थित्वा यथा यथा 11 तान् संस्कारां प्रत्यवेक्षते / तथा तथा बोधिसत्वो महासत्वः प्रज्ञापारमितया अविरहितो भवति / यथा यथा बोधिसत्वो महासत्वः प्रज्ञापारमितया अविरहितो भवति / तथा तथा 12 असंख्येयम् अप्रमेयम् अपरिमाणं पुण्यं प्रसवति आह / असंख्येयस्य च भगवंन् अप्रमेयस्य चापरिमाणस्य च को विशेषः भगवान् आह / असंख्येयम् अपि195 सुभूते यत् संख्यां नोपैति 13 संस्कृते वा धातव् असंस्कृते व धातौ अप्रमेयम् इति सुभूते यस्य प्रमाणं नोपलभ्यते अतीतानागतप्रत्युत्पन्नेषु धर्मेषु / अपरिमाणम् इति सुभूते यन् न शक्यं प्रमातुं /

[ग्ब्म् 576.ल् = ल्प्ग्(छ्) 204व्] आह / स्याद् भगवं पैयायो यद् रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* वेदना संज्ञा संस्कार विज्ञानम् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* भगवान् आह / स्यात् सुभूते पर्यायो 2 येन पर्यायेण रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* आह / कतमेन भगवन् पर्यायेण रूपम् अप्य् 3 असंख्येयम् अप्रमेयम् अपरिमाणं भवेद् वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् भवेत्* भगवान् आह / रूपम् अपि सुभूते शुन्यम् असंख्येयम् अप्रमेयम् 4 अपरिमाणं / वेदना संज्ञा संस्कारा विज्ञानम् अपि सुभूते शुन्यम् असंख्येयम् अप्रमेयम् अपरिमाणं आह / किं पुनर् भगवंन् रूपम् एव शुन्यं वेदना संज्ञा संस्कारा विज्ञानम् एव शुन्यं / न पुनः 5 सर्वधर्माः शुन्याः भगवान् आह / तत् किं मन्यसे सुभूते ननु मया सर्वधर्माः शुन्या इत्य् आख्याताः आह / शुन्या भगवन् सर्वधर्मा इति तथागतेनाख्याता या च भगवंन् शुन्यता / अक्षयापि 6 सा / अप्रमेयापि सा अपरिमाणापि सा न हि भगवं शुन्यतायाः संख्योपलभ्यते न प्रमाणं न परिमाणम् उपलभ्यते / तस्मात् तर्हि भगवं नैषान् धर्माणाम् अर्थतो 7 वा व्यंजनतो वा नानाकरणम् उपलभ्यते / भगवान् आह / एवम् एतत् सुभूते एवम् एतत्* नैषान् धर्माणाम् अर्थतो वा व्यंजनतो वा नानाकरणम् उपलभ्यते / अनभिलाप्यम् एतत् सुभूते तथागतेनाभिलप्तम् 8 अक्षयम् इति वा अप्रमेयम् इति वा /

शुन्यम् इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा अनभिसंस्कारम् इति वा अनुत्पाद इति वा विराग इति वा निरोध इति वा निर्वाणम् 9 इति वा / देशनाभिनिर्हारनिर्देश एष तथागतस्याक्षयम् इति वा यावन् निर्वाणम् इति वा / आह / आश्चर्यं भगवन् यावच् चेदं धर्माणां धर्मता तथागतेन देशिता अनभिलाप्या / यथाहम् भगवतो 10 भाषितस्यार्थम् आजानामि / सर्वधर्मा एव भगवन्न् अनभिलाप्याः / भगवान् आह / एवम् एतत् सुभूते एवम् एतत्* सर्वधर्मा सुभूते अनभिलाप्याः या सुभूते धर्माणाम् अनभिलाप्यता सा 11 शुन्यता न च शुन्यतायां किं चिद् अभिलपितं नापि शुन्यता शक्या अभिलपितुं आह / कच्चित् पुनर् भगवंन् अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा / भगवान् आह / नो हीदं सुभूते न सुभूते 12 अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा / आह / सचेत् पुनर् भगवंन् अनभिलाप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिस् तद् दानपारमितया अपि भगवं न वृद्धिर् न परिहाणिर् भविष्यति / एवं 13 शीलपारमितयाः क्षान्तिपारमितयाः वीर्यपारमितयाः ध्यानपारमितयाः प्रज्ञापारमितयाः अपि न वृद्धिर् न परिहाणिर् भविष्यति / चतुर्णां स्मृत्युपस्थानानां यावद् आर्याष्टांगस्य

[ग्ब्म् 577.1 = ल्प्ग्(छ्) 205र्] मार्गस्य अष्टानां विमोक्षाणां नवानाम् अनुपूर्वसमापत्तीनां दशानां तथागतबलाणां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्धधर्माणां 2 न वृद्धिर् न परिहाणिर् भविष्यति / षण्णां पारमितानाम् अभावो भविष्यति / यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अभावो भविष्यति / एषां च धर्माणाम् अभावात् सर्वाकारज्ञताया अप्य् अभावो 3 भविष्यति / सर्वाकारज्ञताया अभावात् को ह्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते / अभिसंभोत्स्यते वा / भगवान् आह / एवम् एतत् सुभूते एवम् एतत्* नानभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा / स 4 चेत् पुनः सुभूते बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायाञ् चरतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवत्य् अहं प्रज्ञापारमितायां 5 विवर्धे एवं यावद् दानपारमितायां विवर्धे / अथ च पुनर् अस्यैवं भवति नामधेयमात्रम् एतद् यद् उत दानपारमिता / स दानपारमितायां चरंस् तां मनसिकारांस् तांश् चित्तोत्पादांस् 6 तानि च कुशलमूलानि अनुत्तरस्यां सम्यक्संबोधौ परिणमयति तथा च परिणमयति / यथा सानुत्तरा सम्यक्संबोधिः एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां 7 ध्यानपारमितायां प्रज्ञापारमितायां चरंस् तां मनसिकारांस् तांश् चित्तोत्पादांस् तानि कुशलमूलानि अनुत्तरस्यां सम्यक्संबोधौ परिणमयति / तथा च परिणमयति / यथानुत्तरा 8 सम्यक्संबोधिः आह कथं भगवंन् अनुत्तरा सम्यक्संबोधिः / भगवान् आह / या सुभूते सर्वधर्माणां तथता सानुत्तरा सम्यक्संबोधिः /

आह / कतमेषां भगवं सर्वधर्माणां तथतानुत्तरा 9 सम्यक्संबोधिः / भगवान् आह / या सुभूते रूपस्य तथता यावद् या निर्वाणस्य तथता सानुत्तरा सम्यक्संबोधिः सा नैव वर्धते न परिहीयते तत् सुभूते बोधिसत्वो महासत्वः 10 प्रज्ञापारमितया अविरहितो भीक्ष्णं बहुलं विहरति न कस्य चिद् धर्मस्य वृद्धिर् वा परिहाणिं वा समनुपश्यति / एवं खलु सुभूते अनभिलाप्यस्यार्थस्य नैव वृद्धिर् न 11 परिहाणि / एवं खलु सुभूते दानपारमिताया शीलपारमिताया क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया प्रज्ञापारमिताया नैव वृद्धिर् न परिहाणिः / एवं 12 यावत् प्रतिसंविदां न वृद्धिर् न परिहाणिः / एवं खलु सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरितव्यं / अवृद्ध्यपरिहाणियोगेन /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.