Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
ललितविस्तर
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तत्र कतमा दुःखनिरोधगामिनी प्रतिपत्? एष एवार्याष्टाङ्गमार्गः / तद्यथा / सम्यग्दृष्टिर्यावत्सम्यक्समाधिरिति / इदमुच्यते दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति / इमानि भिक्षवश्चत्वार्यार्यसत्यानि / इति दुःखमिति मे भिक्षवः पुर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं विद्योत्पन्ना भूरिरुत्पन्ना मेघोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादुर्भूतः / अयं दुःखसमुदय इति मे भिक्षवः पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं विद्योत्पन्ना भूरिरुत्पन्ना मेघोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादुर्भूतः / अयं दुःखनिरोध इति मे भिक्षवः सर्वं पूर्ववद्यावदालोकः प्रादुर्भूतः / इयं दुःखनिरोधगामिनी प्रतिपदिति मे भिक्षवः पूर्ववदेव पेयालं यावदालोकः प्रादुर्भूतः / यत्खल्विदं दुःखं परिज्ञेयमिति मे भिक्षवः पूर्ववदेव पेयालं यावदालोकः प्रादुर्भूतः / स खल्वयं दुःखसमुदयः प्रहातव्य इति मे भिक्षवः पूर्वमश्रतेषु धर्मेषु सर्वं यावदालोक इति / स खल्वयं दुःखनिरोधः साक्षात्कर्तव्य इति मे भिक्षवः पूर्ववद्यावदालोक इति / सा खल्वियं दुःखनिरोधगामिनी प्रतिपद्भावयितव्येति पूर्ववद्यावदालोक इति / तत्खल्विदं दुःखं परिज्ञातमिति मे भिक्षवः पूर्वमश्रतेषु इति पेयालम् / स खल्वयं दुःखसमुदयः प्रहीण इति मे भिक्षवः पूर्वमश्रुतेति पेयालम् / स खल्वयं दुःखनिरोधः साक्षात्कृत इति मे भिक्षवः पूर्वमश्रुतेति पेयालम् /
सा खल्वियं दुःखनिरोधगामिनी प्रतिपद्भावितेति मे भिक्षवः पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं भूरिरुत्पन्ना विद्योत्पन्ना मेधोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादूर्भूतः //
इति हि भिक्षवो यावदेव मे एषु चतुर्ष्वार्यसत्येषु योनिशो मनसि कुर्वतो एवं त्रिपरिवर्तं द्वादशाकारं ज्ञानदर्शनमुत्पद्यते, न तावदहं भिक्षवो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽस्मि इति प्रतिज्ञासिषम् / न च मे ज्ञानदर्शनमुत्पद्यते / यतश्च मे भिक्षव एषु चतुर्ष्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं ज्ञानदर्शनमुत्पन्नम्, अकोप्या च मे चेतोविमुक्तिः, प्रज्ञाविमुक्तिश्च साक्षात्कृता, ततो ऽहं भिक्षवो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽस्मि इति प्रतिज्ञासिषम् / ज्ञानदर्शनं मे उदपादि / क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरस्माद्भवं प्रजानामि //
तत्रेदमुच्यते /
वाचाय ब्रह्मरुत किन्नरगर्जिताय अंशैः सहस्रनयुतेभि समुद्गताय / बहुकल्पकोटि सद सत्यसुभाविताय कौण्डिन्यमालपति शाक्यमुनिः स्वयंभूः // lal_26.31 //
चक्षुरनित्यमध्रुवं तथ श्रोत घ्राणं जिह्वा पि काय मन दुःखा अनात्म शून्या / जडास्वभाव तृणकुड्म इवा निरीहा नैवात्र आत्म न नरो न च जीवमस्ति // lal_26.32 //
हेतुं प्रतीत्य इमि संभुत सर्वधर्मा अत्यन्तदृष्टिविगता गगनप्रकाशा / न च कारको ऽस्ति तथ नैव च वेदको ऽस्ति न च कर्म पश्यति कृतं ह्यशुभं शुभं वा // lal_26.33 //
स्कन्धा प्रतीत्य समुदेति हि दुःखमेवं संभोन्ति तृष्ण सलिलेन विवर्धमाना / मार्गेण धर्मसमताय विपश्यमाना अत्यन्तक्षीण क्षयधर्मतया निरुद्धाः // lal_26.34 //
संकल्पकल्पजनितेन अयोनिशेन भवते अविद्य न पि संभवको ऽस्य कश्चि / संस्कारहेतु ददते न च संक्रमो ऽस्ति विज्ञानमुद्भवति संक्रमणं प्रतीत्य // lal_26.35 //
विज्ञान नाम तथ च रूप समुत्थितास्ति नामे च रूपि समुदेन्ति षडिन्द्रियाणि / षडिन्दियैर्निपतितो इति स्पर्श उक्तः स्पर्शेन तिस्र अनुवर्तति वेदना च // lal_26.36 //
यत्किंचि वेदयितु सर्व सतृष्ण उक्ता तृष्णात सर्व उपजायति दुःखस्कन्धः / उपादानतो भवति सर्व भवप्रवृत्तिः भवप्रत्यया च समुदेति हि जातिरस्य // lal_26.37 //
जातीनिदान जरव्याधिदुखानि भोन्ति उपपत्ति नैक विविधा भवपञ्जरे ऽस्मिन् / एवमेष सर्व इति प्रत्ययतो जगस्य न च आत्म पुद्गलु न संक्रमको ऽस्ति कश्चि // lal_26.38 //
यस्मिन्न कल्पु न विकल्पु योनिमाहुः यद्योनिशो भवति न तत्र अविद्य काचि / यस्मिन्निरोधु भवतीह अविद्यतायाः सर्वे भवाङ्ग क्षयक्षीण क्षयं निरुद्धा // lal_26.39 //
एवमेष प्रत्ययत बुद्ध तथागतेन तेन स्वयंभु स्वकमात्मनु व्याकरोति / न स्कन्ध आयतन धातु वदेमि बुद्धं नान्यत्र हेत्ववगमाद्भवतीह बुद्धः // lal_26.40 //
भूमिर्न चात्र परतीर्थिक निःसृतानां शून्या प्रवादि इह ईदृश धर्मयोगे / ये पूर्वबुद्धचरिता सुविशुद्धसत्त्वाः ते शक्नुवन्ति इमि धर्म विजाननाय // lal_26.41 //
एवं हि द्वादशाकारं धर्मचक्रं प्रवर्तितम् / कौण्डिन्येन च आज्ञातं निर्वृत्ता रतना त्रयः // lal_26.42 //
बुद्धो धर्मश्च संघश्च इत्येतद्रतनत्रयम् / परस्परां गतः शब्दो यावद् ब्रह्मपुरालयम् // lal_26.43 //
वर्तितं विरजं चक्रं लोकनाथेन तायिना / उत्पन्ना रतना त्रीणि लोके परमदुर्लभा // lal_26.44 //
कौण्डिन्यं प्रथमं कृत्वा पञ्चकाश्चैव भिक्षवः / षष्टीनां देवकोटीनां धर्मचक्षुर्विशोधितम् // lal_26.45 //
अन्ये चाशीतिकोट्यस्तु रूपधातुकदेवताः / तेषां विशोधितं चक्षु धर्मचक्रप्रवर्तने // lal_26.46 //
चतुरशीतिसहस्राणि मनुष्याणां समागता / तेषां विशोधितं चक्षु मुक्ता सर्वेभि दुर्गती // lal_26.47 //
दशदिशतु अनन्त बुद्धस्वरो गच्छि तस्मिं क्षणे रुत मधुर मनोज्ञ संश्रूयन्ते चान्तरीक्षे शुभ / एष दशबलेन शाक्यर्षिणा धर्मचक्रोत्तमं ऋषिपतनमुपेत्य वाराणसी वर्तितो नान्यथा // lal_26.48 //
दश दिशित यि केचि बुद्धशता सर्वि तूष्णीभुताः तेष मुनिनये उपस्थायकाः सर्वि पृच्छी जिनां / किमिति दशबलेभि धर्माकथा छिन्न श्रुत्वा रूतं साधु भणत शीघ्र किं कारणं तूष्णीभावेन स्थिताः // lal_26.49 //
पुर्वभवशतेभि वीर्याबलै बोधि समुदानिया बहव शतसहस्र पश्चान्मुखा बोधिसत्त्वा कृताः / तेन हितकरेण उत्तप्तता प्राप्त बोधिः शिवा चक्र त्रिपरिवर्त प्रावर्तिता तेन तूष्णीभुताः // lal_26.50 //
इमु वचन श्रुणित्व तेषां मुनीसत्त्वकोट्यः शता मैत्रबल जनित्व संप्रस्थिता अग्रबोधिं शिवाम् / वयमपि अनुशिक्षि तस्या मुने वीर्यस्थामोद्गतं क्षिप्र भवेम लोकि लोकोत्तमा धर्मचक्षुर्ददाः // lal_26.51 //
इति //
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - इमे भगवन् दशदिग्लोकधातुसंनिपतिता बोधिसत्त्वा महासत्त्वा भगवतः सकाशाद्धर्मचक्रप्रवर्तनविकुर्वणस्य प्रवेशं श्रोतुकामाः / तत्साधु भगवान् देशयतु तथागतो ऽर्हन् सम्यक्संबुद्धः कियद्रूपं तथागतेन धर्मचक्रं प्रवर्तितम्? भगवानाह - गम्भीरं मैत्रेय धर्मचक्रं ग्राहानुपलब्धित्वात् / दुर्दर्शं तच्चक्रं द्वयविगतत्वात् / दुरनुबोधं तच्चक्रं मनसिकारामनसिकारत्वात् / दुर्विज्ञानं तच्चक्रं ज्ञानविज्ञानसमतानुबद्धत्वात् / अनाविलं तच्चक्रं अनावरणविमोक्षप्रतिलब्धत्वात् / सूक्ष्मं तच्चक्रं अनुपमोपन्यासविगतत्वात् / सारं तच्चक्रं वज्रोपमज्ञानप्रतिलब्धत्वात् / अभेद्यं तच्चक्रं पूर्वान्तसंभवत्वात् / अप्रपञ्चं तच्चक्रं सर्वप्रपञ्चोपारम्भविगतत्वात् /
अकोप्यं तच्चक्रं अत्यन्तनिष्ठत्वात् / सर्वत्रानुगतं तच्चक्रं आकाशसदृशत्वात् / तत्खलु पुनर्मैत्रेय धर्मचक्रं सर्वधर्मप्रकृतिस्वभावं संदर्शनविभवचक्रं अनुत्पादानिरोधासंभवचक्रं अनालयचक्रं अकल्पाविकल्पधर्मनयविस्तीरणचक्रं शून्यताचक्रं अनिमित्तचक्रं अप्रणिहितचक्रं अनभिसंस्कारचक्रं विवेकचक्रं विरागचक्रं विरोधचक्रं तथागतानुबोधचक्रं धर्मधात्वसंभेदचक्रम् / भूतकोट्यविकोपनचक्रं असङ्गानावरणचक्रं प्रतीत्यावतारोभयान्तदृष्टिसमतिक्रमणचक्रं अनन्तमध्यधर्मधात्वविकोपनचक्रं अनाभोगबुद्धकार्यप्रतिप्रश्रब्धचक्रं अप्रवृत्यभिनिर्वृत्तिचक्रं अत्यन्तानुपलब्धिचक्रं अनायूहानिर्यूहचक्रं (वैद्य 307) अनभिलाप्यचक्रं प्रकृतियथावच्चक्रं एकविषयसर्वधर्मसमतावतारचक्रं अक्षणसत्त्वविनयाधिष्ठानप्रत्युदावर्त्यचक्रं अद्वयसमारोपपरमार्थनयप्रवेशचक्रं धर्मधातुसमवसरणचक्रम् / अप्रेमयं तच्चक्रं सर्वप्रमाणातिक्रान्तम् / असंख्येयं तच्चक्रं सर्वसंख्यापगतम् / अचिन्त्यं तच्चक्रं चित्तपथसमतिक्रान्तम् / अतुल्यं तच्चक्रं तुलापगतम् / अनभिलाप्यं तच्चक्रं सर्वरुतघोषवाक्पथातीतम् / अप्रमाणमनुपममुपमागतमाकाशसमसदृशमनुच्छेदमशाश्वतं प्रतीत्यावताराविरुद्धशान्तमत्यन्तोपशमं तत्त्वं तथावितथानन्यथानन्यथीभावं सर्वसत्त्वरुतचरणम् / निग्रहो माराणां पराजयस्तीर्थिकानां समतिक्रामणं संसारविषयादवतारणं बुद्धविषये परिज्ञातमार्यपुद्गलैरनुबद्धं प्रत्येकबुद्धैः परिगृहीतं बोधिसत्त्वैः स्तुतं सर्वबुद्धैरसंभिन्नं सर्वतथागतैः /
एवंरूपं भैत्रेय तथागतेन धर्मचक्रं प्रवर्तितं यस्य प्रवर्तनात्तथागत इत्युच्यते / सम्यक्संबुद्ध इत्युच्यते / स्वयंभूरित्युच्यते / धर्मस्वामीत्युच्यते / नायक इत्युच्यते / विनायक इत्युच्यते / परिणायक इत्युच्यते / सार्थवाह इत्युच्यते / सर्वधर्मवशवर्तीत्युच्यते / धर्मेश्वर इत्युच्यते / धर्मचक्रप्रवर्तीत्युच्यते / धर्मदानपतिरित्युच्यते / यज्ञस्वामीत्युच्यते / सुयष्टयज्ञ इत्युच्यते / सिद्धिव्रत इत्युच्यते / पूर्णाभिप्राय इत्युच्यते / देशिक इत्युच्यते / आश्वासक इत्युच्यते / क्षेमंकर इत्युच्यते / शूर इत्युच्यते / रणंजह इत्युच्यते / विजितसंग्राम इत्युच्यते / उच्छ्रितछत्रध्वजपताक इत्युच्यते / आलोककर इत्युच्यते / प्रभंकर इत्युच्यते / तमोनुद इत्युच्यते / उल्काधारीत्युच्यते / महावैद्यराज इत्युच्यते / भूतचिकित्सक इत्युच्यते / महाशल्यहर्ता इत्युच्यते / वितिमिरज्ञानदर्शन इत्युच्यते / समन्तदर्शीत्युच्यते / समन्तविलोकित इत्युच्यते / समन्तचक्षुरित्युच्यते / समन्तप्रभ इत्युच्यते / समन्तालोक इत्युच्यते / समन्तमुख इत्युच्यते / समन्तप्रभाकर इत्युच्यते / समन्तचन्द्र इत्युच्यते / समन्तप्रासादिक इत्युच्यते / अप्रतिष्ठानायूहानिर्यूह इत्युच्यते / धरणीसम इत्युच्यते अनुन्नतावनतत्वात् / शैलेन्द्रसम इत्युच्यते अप्रकम्प्यत्वात् / सर्वलोकश्रीरित्युच्यते सर्वलोकगुणसमन्वागतत्वात् / अनवलोकितमूर्ध इत्युच्यते सर्वलोकाभ्युद्गतत्वात् / समुद्रकल्प इत्युच्यते गम्भीरदुरवगाहत्वात् / धर्मरत्नाकर इत्युच्यते सर्वबोधिपाक्षिकधर्मरत्नप्रतिपूर्णत्वात् / वायुसम इत्युच्यते अनिकेतत्वात् / असङ्गबुद्धिरित्युच्यते असक्ताबद्धामुक्तचित्तत्वात् /
अवैवर्तिकधर्म इत्युच्यते सर्वधर्मनिर्वेधिकज्ञानत्वात् / तेजःसम इत्युच्यते दुरासदसर्वमननाप्रहीणसर्वक्लेशदाहप्रत्युपस्थानत्वात् / अप्सम इत्युच्यते अनाविलसंकल्पनिर्मलकायचित्तवाहितपापत्वात् / आकाशसम इत्युच्यते असङ्गज्ञानविषयानन्तमध्येधर्मधातुगोचरज्ञानाभिज्ञप्राप्तत्वात् / अनावरणज्ञानविमोक्षविहारीत्युच्यते नानावरणीयधर्मसुप्रहीणत्वात् / सर्वधर्मधातुप्रसृतकाय इत्युच्यते गगनसमचक्षुःपथसमतिक्रान्तत्वात् / उत्तमसत्त्व इत्युच्यते सर्वलोकविषयासंक्लिष्टत्वात् / असङ्गसत्त्व इत्युच्यते / अप्रमाणबुद्धिरित्युच्यते / लोकोत्तरधर्मदेशिक इत्युच्यते / लोकाचार्य इत्युच्यते / लोकवैद्य इत्युच्यते / लोकाभ्युद्गत इत्युच्यते / लोकधर्मानुपलिप्त इत्युच्यते / लोकनाथ इत्युच्यते / लोकज्येष्ठ इत्युच्यते / लोकश्रेष्ठ इत्युच्यते / लोकेश्वर इत्युच्यते / लोकमहित इत्युच्यते / लोकपरायण (वैद्य 308) इत्युच्यते / लोकपारंगत इत्युच्यते / लोकप्रदीप इत्युच्यते / लोकोत्तर इत्युच्यते / लोकगुरुरित्युच्यते / लोकार्थकर इत्युच्यते / लोकानुवर्तक इत्युच्यते / लोकविदित्युच्यते / लोकाधिपतेयप्राप्त इत्युच्यते / महादक्षिणीय इत्युच्यते / पूजार्ह इत्युच्यते / महापुण्यक्षेत्र इत्युच्यते / महासत्त्व इत्युच्यते / अग्रसत्त्व इत्युच्यते / वरसत्त्व इत्युच्यते / प्रवरसत्त्व इत्युच्यते / उत्तमसत्त्व इत्युच्यते / अनुत्तरसत्त्व इत्युच्यते / असमसत्त्व इत्युच्यते / असदृशसत्त्व इत्युच्यते / सततसमाहित इत्युच्यते / सर्वधर्मसमताविहारीत्युच्यते / मार्गप्राप्त इत्युच्यते / मार्गदर्शक इत्युच्यते / मार्गदेशिक इत्युच्यते / सुप्रतिष्ठितमार्ग इत्युच्यते /
मारविषयसमतिक्रान्त इत्युच्यते / मारमण्डलविध्वंसकर इत्युच्यते / अजरामरशीतीभाव इत्युच्यते / विगततमोन्धकार इत्युच्यते / विगतकण्टक इत्युच्यते / विगतकाङ्क्ष इत्युच्यते / विगतक्लेश इत्युच्यते / विनीतसंशय इत्युच्यते / विमतिसमुद्धटित इत्युच्यते / विरक्त इत्युच्यते / विमुक्त इत्युच्यते / विशुद्ध इत्युच्यते / विगतराग इत्युच्यते / विगतदोष इत्युच्यते / विगतमोह इत्युच्यते / क्षीणाश्रव इत्युच्यते / निःक्लेश इत्युच्यते / वशीभूत इत्युच्यते / सुविमुक्तचित्त इत्युच्यते / सुविमुक्तप्रज्ञ इत्युच्यते / आजानेय इत्युच्यते / महानाग इत्युच्यते / कृतकृत्य इत्युच्यते / कृतकरणीय इत्युच्यते / अपहृतभार इत्युच्यते / अनुप्राप्तस्वकार्थ इत्युच्यते / परिक्षीणभवसंयोजन इत्युच्यते / समताज्ञानविमुक्त इत्युच्यते / सर्वचेतोवशिपरमपारमिताप्राप्त इत्युच्यते / दानपारग इत्युच्यते / शीलाभ्युद्गत इत्युच्यते / क्षान्तिपारग इत्युच्यते / वीर्याभ्युद्गत इत्युच्यते / ध्यानाभिज्ञप्राप्त इत्युच्यते / प्रज्ञापारंगत इत्युच्यते / सिद्धप्रणिधान इत्युच्यते / महामैत्रविहारीत्युच्यते / महाकरुणाविहारीत्युच्यते / महामुदिताविहारीत्युच्यते / महोपेक्षाविहारीत्युच्यते / सत्त्वसंग्रहप्रयुक्त इत्युच्यते / अनावरणप्रतिसंवित्प्राप्त इत्युच्यते / प्रतिशरणभूत इत्युच्यते / महापुण्य इत्युच्यते / महाज्ञानीत्युच्यते / स्मृतिमतिगतिबुद्धिसंपन्न इत्युच्यते / स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादेन्द्रियबलबोध्यङ्गसमर्थविदर्शनालोकप्राप्त इत्युच्यते / उत्तीर्णसंसारार्णव इत्युच्यते / पारग इत्युच्यते / स्थलगत इत्युच्यते / क्षेमप्राप्त इत्युच्यते / अभयप्राप्त इत्युच्यते /
मर्दितक्लेशकण्टक इत्युच्यते / पुरुष इत्युच्यते / महापुरुष इत्युच्यते / पुरुषसिंह इत्युच्यते / विगतभयलोमहर्षण इत्युच्यते / नाग इत्युच्यते / निर्मल इत्युच्यते / त्रिमलमलप्रहीण इत्युच्यते / वेदक इत्युच्यते / त्रैविद्यानुप्राप्त इत्युच्यते / चतुरोघोत्तीर्ण इत्युच्यते / पारग इत्युच्यते / क्षत्रिय इत्युच्यते / ब्राह्मण इत्युच्यते / एकरत्नछत्रधारीत्युच्यते / वाहितपारधर्म इत्युच्यते / भिक्षुरित्युच्यते / भिन्नाविद्याण्डकोश इत्युच्यते / श्रमण इत्युच्यते / अर्थसङ्गपथसमतिक्रान्त इत्युच्यते / श्रोत्रिय इत्युच्यते / निःसृतक्लेश इत्युच्यते / बलवानित्युच्यते / दशबलधारीत्युच्यते / भगवानित्युच्यते / भावितकाय इत्युच्यते / राजातिराज इत्युच्यते / धर्मराज इत्युच्यते / वरप्रवरधर्मचक्रप्रवर्त्यनुशासक इत्युच्यते / अकोप्यधर्मदेशक इत्युच्यते / सर्वज्ञज्ञानाभिषिक्त इत्युच्यते / असङ्गमहाज्ञानविमलविरुक्तपट्टबद्ध इत्युच्यते / सप्तबोध्यङ्गरत्नसमन्वागत इत्युच्यते / सर्वधर्मविशेषप्राप्त (वैद्य 309) इत्युच्यते / सर्वार्यश्रावकामात्यावलोकितमुखमण्डल इत्युच्यते / बोधिसत्त्वमहासत्त्वपुत्रपरिवार इत्युच्यते / सुविनीतविनय इत्युच्यते / सुव्याकृतबोधिसत्त्व इत्युच्यते / वैश्रवणसदृश इत्युच्यते / सप्तार्यधनविश्राणितकोश इत्युच्यते / त्यक्तत्याग इत्युच्यते / सर्वसुखसंपत्तिसमन्वागत इत्युच्यते / सर्वाभिप्रायदातेत्युच्यते / सर्वलोकहितसुखानुपालक इत्युच्यते / इन्द्रसम इत्युच्यते / ज्ञानबलवज्रधारी इत्युच्यते / समन्तनेत्र इत्युच्यते / सर्वधर्मानावरणज्ञानदर्शीत्युच्यते / समन्तज्ञानविकुर्वण इत्युच्यते /
विपुलधर्मनाटकदर्शनप्रविष्ट इत्युच्यते / चन्द्रसम इत्युच्यते / सर्वजगदतृप्तदर्शन इत्युच्यते / समन्तविपुलविशुद्धप्रभ इत्युच्यते / प्रीतिप्रामोद्यकरप्रभ इत्युच्यते / सर्वसत्त्वाभिमुखदर्शनाभास इत्युच्यते / सर्वजगच्चित्ताशयभाजनप्रतिभासप्राप्त इत्युच्यते / महाव्यूह इत्युच्यते / शैक्षाशैक्षज्योतिर्गणपरिवार इत्युच्यते / आदित्यमण्डलसम इत्युच्यते / विधूतमोहान्धकार इत्युच्यते / महाकेतुराज इत्युच्यते / अप्रमाणानन्तरश्मिरित्युच्यते / महावभाससंदर्शक इत्युच्यते / सर्वप्रश्नव्याकरणनिर्देशासंमूढ इत्युच्यते / महाविद्यान्धकारविध्वंसनकर इत्युच्यते / महाज्ञानालोकविलोकितबुद्धिनिर्विकल्प इत्युच्यते / महामैत्रीकृपाकरुणासर्वजगत्समरश्मिप्रमुक्तप्रमाणविषय इत्युच्यते / प्रज्ञापारमितागम्भीरदुरासददुर्निरीक्षमण्डल इत्युच्यते / ब्रह्मसम इत्युच्यते / प्रशान्तेर्यापथ इत्युच्यते / सर्वेर्यापथचर्याविशेषसमन्वागत इत्युच्यते / परमरूपधारी इत्युच्यते / असेचनकदर्शन इत्युच्यते / शान्तेन्द्रिय इत्युच्यते / शान्तमानस इत्युच्यते / शमथसंभारपरिपूर्ण इत्युच्यते / उत्तमशमथप्राप्त इत्युच्यते / परमदमशमथप्राप्त इत्युच्यते / शमथविदर्शनापरिपूर्णसंभार इत्युच्यते / गुप्तो जितेन्द्रियो नाग इव सुदान्तो ह्रद इवाच्छो ऽनाविलो विप्रसन्न इत्युच्यते / सर्वक्लेशवासनावरणसुप्रहीण इत्युच्यते / द्वात्रिंशन्महापुरुषलक्षणसमन्वागत इत्युच्यते / परमपुरुष इत्युच्यते / अशीत्यनुव्यञ्जनपरिवारविचित्ररचितगात्र इत्युच्यते / पुरुषर्षभ इत्युच्यते / दशबलसमन्वागत इत्युच्यते / चतुर्वैशारद्यप्राप्तानुत्तरपुरुषदम्यसारथिरित्युच्यते /
शास्तेत्युच्यते / अष्टादशावेणिकबुद्धधर्मपरिपूर्ण इत्युच्यते / अनिन्दितकायवाङ्मनस्कर्मान्त इत्युच्यते / सर्वाकारवरोपेतसुपरिशोधितज्ञानदर्शनमण्डलत्वाच्छून्यताविहारीत्युच्यते / प्रतीत्यसमुत्पादसमताभिसंबोधादानिमित्तविहारीत्युच्यते / परमार्थसत्यनयप्रतिवेधादप्रणिहितविहारीत्युच्यते / सर्वप्रस्थानालिप्तत्वादनभिसंस्कारगोचर इत्युच्यते / सर्वसंस्कारप्रतिप्रश्रब्धत्वाद्भूतवादीत्युच्यते / भूतकोट्यविकोपितज्ञानविषयत्वादवितथानन्यथावादीत्युच्यते / तथताधर्मधात्वाकाशलक्षणालक्षणविषयत्वादरण्यधर्मसुप्रतिलब्ध इत्युच्यते / मायामरीचिस्वप्नोदकचन्द्रप्रतिश्रुत्कप्रतिभाससमतासर्वधर्मविहारित्वादमोघदर्शनश्रवण इत्युच्यते / परिनिर्वाणहेतुजनकत्वादमोघपदविक्रमीत्युच्यते / सत्त्वविनयपराक्रमविक्रान्तत्वादुत्क्षिप्तपरिखेद इत्युच्यते / अविद्याभवतृष्णासमुच्छिन्नत्वात्स्थापितसंक्रम इत्युच्यते / नैर्याणिकप्रतिपत्सुदेशकत्वान्निर्जितमारक्लेशप्रत्यर्थिक इत्युच्यते / सर्वमारविषयचर्याननुलिप्तत्वादुत्तीर्णकामपङ्क इत्युच्यते / कामधातुसमतिक्रान्तत्वात्पातितमानध्वज (वैद्य 310) इत्युच्यते / रूपधातुसमतिक्रान्तत्वादुच्छ्रितप्रज्ञाध्वज इत्युच्यते / आरुप्यधातुसमतिक्रान्तत्वात्सर्वलोकविषयसमतिक्रान्त इत्युच्यते / धर्मकायज्ञानशरीरत्वान्महाद्रुम इत्युच्यते / अनन्तगुणरत्नज्ञानसंकुसुमितविमुक्तिफलसुसंपन्नत्वादुदुम्बरपुष्पसदृश इत्युच्यते / दुर्लभप्रादुर्भावदर्शनत्वाच्चिन्तामणिरत्नमणिराजसम इत्युच्यते / यथानयनिर्वाणभिप्रायसुप्रतिपूरणत्वात्सुप्रतिष्ठितपाद इत्युच्यते /
दीर्घरात्रं त्यागशीलतपोव्रतब्रह्मचर्यदृढसमादानाचलाप्रकम्प्यत्वाद्विचित्रस्वस्तिकनन्द्यावर्तसहस्राचक्राङ्कितपादतल इत्युच्यते / दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयधार्मिकरक्षापरिपालनतया शरणागतानां चापरित्यागत्वादायतपार्ष्णिरित्युच्यते / दीर्घरात्रं प्राणातिपातोपरतत्वाद्दीर्घाङ्गुलीत्युच्यते / दीर्घरात्रं प्राणातिपातवैरमण्यंपरसत्त्वसमादायनत्वाद्बहुजनत्रातेत्युच्यते / दीर्घरात्रं प्राणातिपातवैरमण्यंगुणवर्णसंप्रकाशनत्वान्मृदुतरुणहस्तपाद इत्युच्यते / दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयोपस्थानपरिचर्यास्नानानुलेपनसर्पितैलाभ्यङ्गस्वहस्तशरीरपरिकर्मपरिखेदत्वाज्जालाङ्गुलीहस्तपाद इत्युच्यते / दीर्घरात्रं दानप्रियवद्यतार्थक्रियासमानार्थतासंग्रहवस्तुजालेन सत्त्वसंग्रहकौशल्यंसुशिक्षितत्वादुच्छङ्गपाद इत्युच्यते / दीर्घरात्रमुत्तरोत्तरि विशिष्टतरकुशलमूलाध्यालम्बनत्वादूर्ध्वाङ्गदक्षिणावर्तरोमकूप इत्युचते / दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयतथागतचैत्यप्रदक्षिणीकरणधर्मश्रवणचित्रीकाररोमहर्षणपरसत्त्वसंहर्षणधर्मदेशनाप्रयोगत्वादेणेयजङ्घ इत्युच्यते / दीर्घरात्रं सत्कृत्य धर्मश्रवणग्रहणधारणवाचनविज्ञापनार्थपदनिश्चयनिस्तीरणकौशल्येन जराव्याधिमरणाभिमुखानां च सत्त्वानां शरणगमनानुप्रदानसत्कृत्यधर्मदेशनापरिभवबुद्धित्वात्कोशोपगतबस्तिगुह्य इत्युच्यते /
दीर्घरात्रं श्रमणब्राह्मणानां तदन्येषां च ब्रह्मचारिणां ब्रह्मचर्यानुग्रहसर्वपरिस्कारानुप्रदाननग्नबलानुप्रदानपरदारागमनब्रह्मचर्यगुणवर्णसंप्रकाशनह्र्यपत्राप्यानुपालनदृढसमादानत्वात्प्रलम्बबाहुरित्युच्यते / दीर्घरात्रं हस्तसंयतपादसंयतसत्त्वाविहेठनप्रयोगमैत्रकायकर्मवाक्कर्ममनस्कर्मसमन्वागतत्वान्न्यग्रोधपरिमण्डल इत्युच्यते / दीर्घरात्रं भोजनमात्रां ज्ञाता अल्पाहारतोदारसंयमग्लानभैषज्यानुप्रदानहीनजनापरिभवानाथानवमर्दनतथागतचैत्यविशीर्णप्रतिसंस्कारणस्तूपप्रतिष्ठापनत्वाद्भयार्दितेभ्यश्च सत्त्वेभ्यो ऽभयप्रदानत्वान्मृदुतरुणसूक्ष्मच्छविरित्युच्यते / दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां स्नानानुलेपनसर्पिस्तैलाभ्यङ्गशीते उष्णोदकमुष्णे शीतोदकच्छायातपऋतुसुखपरिभोगानुप्रदानमृदुतरुणतूलसंस्पर्शसुकुमारवस्त्रास्तीर्णशयनासनानुप्रदानतथागतचैत्यगन्धतैलसेकसूक्ष्मपट्टध्वजपताकागुणप्रदानत्वात्सुवर्णच्छविरित्युच्यते / दीर्घरात्रं सर्वसत्त्वाप्रतिघातमैत्रीभावनायोगक्षान्तिसौरत्येपरसत्त्वसमादापनावैरव्यापादगुणवर्णसंप्रकाशनतया तथागतचैत्यतथागतप्रतिमानां च सुवर्णखचनसुवर्णपुष्पसुवर्णचूर्णाभिकिरणसुवर्णवर्णपट्टपताकाध्वजालंकारसुवर्णभाजनसुवर्णवस्त्रानुप्रदानत्वादेकैकनिचितरोमकूप इत्युच्यते / दीर्घरात्रं पण्डितोपसंक्रमणकिंकुशलाकुशलपरिपृच्छनसावद्यानवद्यसेव्यहीनमध्यप्रणीतधर्मपरिपृच्छनार्थमीमांसनपरितुलनासंमोहतथागतचैत्यकीटलूतालयाञ्जलियानिर्माल्यनानातृणशर्करासमुद्धरणसंप्रयोगत्वात्सप्तोत्सद इत्युच्यते /
(वैद्य 311) दीर्घरात्रं मातापितृज्येष्ठश्रेष्ठपूज्यश्रमणब्राह्मणकृपणवनीपकादिभ्य उपागतेभ्यः सत्कृत्य यथाभिप्रायमन्नपानासनवस्त्रापश्रयप्रदीपकल्पितजीविकपरिस्कारसंप्रदानकूपपुष्करिणीशीतजलपरीपूर्णमहाजनोपभोगानुप्रदानत्वात्सिंहपूर्वार्धकाय इत्युच्यते / दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयावनमनप्रणमनाभिवादनाभयप्रदानदुर्बलापरिभवशरणागतापरित्यागदृढसर्गदानानुत्सर्गत्वाच्चितान्तरांस इत्युच्यते / दीर्घरात्रं स्वदोषपरितुलनप्रस्खलितपरछिद्रादोषदर्शनविवादमूलपरभेदकरमन्त्रपरिवर्जनसुप्रतिनिस्सर्गमन्त्रस्वारक्षितवाक्कर्मान्तत्वात्सुसंवृत्तस्कन्ध इत्युच्यते / दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां प्रत्युत्थानप्रत्युद्रमनाभिवादनकामानां च सर्वशास्त्रवैशारद्येन विवादकामसत्त्वनिग्रहस्वधर्मविनयानुलोमनसम्यक्प्रवृत्तराजामात्यसम्यक्प्रवृत्तकुशलधर्मपथप्रतिष्ठापनप्रभावनतथागतशासनपरिग्रहसंधारणसर्वकुशलचर्यासमादापन पूर्वंगमत्वात्सिंहहनुरित्युच्यते / दीर्घरात्रं सर्ववस्तुपरित्यागयथाभिप्राययाचनकप्रियाभिधानमुपसंक्रान्तानां चाविमाननाजिह्मीकरणाविक्षेपं सर्वेषां यथाभिप्रायपरिपूरणदानपरित्यागदृढसमादानानुत्सर्गत्वाच्चत्वारिंशत्समदन्त इत्युच्यते / दीर्घरात्रं पिशुनवचनपरिवर्जनभेदमन्त्राग्रहणसंधिसामग्रीरोचनसमग्राणां चेदाचित्तेन पिशुनवचनविगर्हणसंधिसामग्रीगुणवर्णप्रकाशनप्रयोगत्वात्सुशुक्लदन्त इत्युच्यते /
दीर्घरात्रं कृष्णपक्षपरिवर्जनशुक्लपक्षकुशलोपचयकृष्णकर्मकृष्णविपाकपरिवर्जनशुक्लकर्मशुक्लविपाकसंवर्णनक्षीरभोजनशुक्लवस्त्रप्रदानतथागतचैत्येषु सुधाकृतकक्षीरमिश्रसंप्रदानसुमनावार्षिकीधानुस्कारिमालागुणपुष्पदामशुक्लवर्णकुसुमानुप्रदानत्वादविरलदन्त इत्युच्यते / दीर्घरात्रं हास्योच्चट्यनविवर्जनानन्दकरणवागनुरक्षणानन्दकरणवागुदीरणपरस्खलितापरछिद्रापरिमार्गणसर्वसत्त्वसमचित्तसमादापनसमप्रयोगसमधर्मदेशनदृढसमादानापरित्यागत्वाद्रसरसाग्रवानित्युच्यते / दीर्घरात्रं सर्वसत्त्वाविहेठनाविहिंसनविविधव्याधिस्पृष्टोपस्थानग्लानभैषज्यानुप्रदानत्वात्सर्वरसार्थिकेभ्यश्च सर्वरसप्रदानापरिखेदत्वाद्बह्मस्वर इत्युच्यते / दीर्घरात्रमनृतपरुषकर्कशशाठ्यपरकटुकपराभिषङ्गिन्यप्रियपरमर्भघट्टनवाक्परिवर्जनमैत्रीकरुणाप्रयोगमुदिताप्रामोद्यकरणीस्निग्धममधुरश्लक्ष्णहृदयंगमसर्वेन्द्रियप्रह्लादकरणीसम्यग्वाक्यसम्यक्प्रयोगत्वादभिनीलनेत्र इत्युच्यते / दीर्घरात्रं मातापितृवत्सर्वसत्त्वाप्रतिहतचक्षुप्रयोगैकपुत्रवद्याचनकमैत्रीकारुण्यपूर्वंगमसंप्रेक्षणाजिह्मीकरणप्रसन्नेन्द्रियतथागतचैत्यानिमिषनयनसंप्रेक्षणपरसत्त्वतथागतदर्शनसमादापनदृढसमादानत्वाद्गोपेक्षनेत्र इत्युच्यते / दीर्घरात्रं हीनचेतोविवर्जनोदारविपुलाधिमुक्तिपरिपूरणानुत्तरधर्मछन्दसत्त्वसमादापनभृकुटीमुखविवर्जनस्मितमुखसर्वकल्याणमित्रोपसंक्रमणाभिमुखपूर्वंगमसर्वकुशलोपचयावैवर्तिकत्वाप्रभूतजिह्व इत्युच्यते /
दीर्घरात्रं सर्ववाग्दोषविवर्जनसर्वश्रावकप्रत्येकबुद्धधर्मभाणकाप्रमाणगुणवर्णसंप्रकाशनतथागतसूत्रान्तलिखनवाचनपठनविज्ञापनं तेषां च धर्माणामर्थपदप्रभेदपरसत्त्वसंप्रापणकौशल्यत्वादुष्णीषानवलोकितमूर्ध इत्युच्यते / दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां मूर्ध्नां चरणतलप्रणिपतनप्रव्रजितवन्दनाभिवादनकेशावरोपणसुगन्धतैलमूर्ध्निपरिषिञ्चनं सर्वयाचनकेभ्यश्चूर्णमाल्यमालागुणमूर्धाभरणानुप्रदानत्वाद् (वैद्य 312) भ्रूमध्ये सुजातप्रदक्षिणावर्तोत्तप्तविशुद्धवर्णाभासोर्ण इत्युच्यते / दीर्घरात्रं निरर्गलसर्वयज्ञयजनसमादपनसर्वकल्याणमित्रानुशासन्यनुद्धरधर्मभाणकानां दौत्यप्रेक्षणे दिग्गमनागमनापरिखेदनसर्वबुद्धबोधिसत्त्वप्रत्त्येकबुद्धार्यश्रावकधर्मभाणकमातापितृगुरुदक्षिणीयतमोन्धकारविधमनतैलधृततृणोल्काप्रदीपनानागन्धतैलप्रदीपसर्वाकारवरोपेतप्रासादिकतथागतप्रतिमाकारणक्षीरप्रतिभासरत्नोत्तीर्णकोशप्रतिमण्डनपरसत्त्वबोधचित्तामुखीकरणकुशलसंभारविशेषत्वान्महास्थामप्राप्त इत्युच्यते / महानारायणबलोपेतत्वान्महानारायण इत्युच्यते / कोटीशतमारधर्षणबलोपेतत्वात्सर्वपरप्रमर्दक इत्युच्यते / दशतथागतबलोपेतत्वाद्दशतथागतबलोपेत इत्युच्यते / स्थानास्थानज्ञानकुशलहीनप्रादेशिकयानविवर्जनमहायानगुणसमुदानयनबलोपेतातृप्तबलप्रयोगत्वात्स्थानज्ञानबलोपेत इत्युच्यते / अतीतानागतप्रत्युत्पन्नकर्मसमादानहेतुशोविपाकशोज्ञानबलोपेतत्वादतीतानागतप्रत्युत्पन्नसर्वकर्मसमादानहेतुविपाकज्ञानबलोपेत इत्युच्यते /
सर्वसत्त्वेन्द्रियवीर्यविमात्रताज्ञानबलोपेतत्वात्सर्वसत्त्वेन्द्रियवीर्यविमात्रताज्ञानबलोपेत इत्युच्यते / अनेकधातुनानाधातुलोकप्रवेशज्ञानबलोपेतत्वादनेकधातुनानाधातुलोकप्रवेशज्ञानबलोपेत इत्युच्यते / अनेकाधिमुक्तिनानाधिमुक्तिनिरवशेषाधिमुक्तिविमुक्तिज्ञानबलोपेतत्वादनेकाधिमुक्तिनानाधिमुक्तिसर्वनिरवशेषाधिमुक्तिज्ञानबलोपेत इत्युच्यते / सर्वत्रगामिनीप्रतिपज्ज्ञानबलोपेतत्वात्सर्वत्रगामिनीप्रतिपज्ज्ञानबलोपेत इत्युच्यते / सर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्यवस्थापनज्ञानबलोपेतत्वासर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्यवस्थापनज्ञानबलोपेत इत्युच्यते / अनेकविधपूर्वनिवासानुस्मृत्यासङ्गज्ञानबलोपेतत्वादनेकविधपूर्वनिवासानुस्मृत्यासङ्गज्ञानबलोपेत इत्युच्यते / निरवशेषसर्वरूपानावरणदर्शनदिव्यचक्षुर्ज्ञानबलोपेतत्वान्निरवशेषसर्वरूपानावरणदर्शनदिव्यचक्षुर्ज्ञानबलोपेत इत्युच्यते / सर्वंवासनानुसंधिगतनिरवशेषसर्वाश्रवक्षयज्ञानबलोपेतत्वात्सर्ववासनानुसंधिगतनिरवशेषसर्वाश्रवक्षयज्ञानबलोपेत इत्युच्यते / निरवशेषसर्वधर्माभिसंबुद्धप्रतिज्ञारोहणसदेवलोकानभिभूतप्रतिज्ञावैशारद्यप्राप्तत्वान्निरवशेषसर्वधर्माभिसंप्रबुद्धतिज्ञारोहणसदेवलोके ऽनभिभूतप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते / सर्वसांक्लेशिकान्तरायिकधर्मान्तरायकरणानिर्वाणस्येतितत्प्रतिज्ञारोहणसदेवके लोके ऽनाछेद्यप्रतिज्ञावैशारद्यप्राप्तत्वासर्वसांक्लेशिकान्तरायिकधर्मान्तरायकरणानिर्वाणस्येति तत्प्रतिज्ञारोहणसदेवके लोके ऽनाछेद्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते /
नैर्याणिकीं प्रतिपदं प्रतिपद्यमानो निर्वाणमारागयिष्यतीति प्रतिज्ञारोहणसदेवके लोके ऽप्रतिचोद्यप्रतिज्ञावैशारद्यप्राप्तत्वान्नैर्याणिकीं प्रतिपदं प्रतिपद्यमानो निर्वाणमारागयिष्यतीति प्रतिज्ञारोहणसदेवके लोके ऽप्रतिचोद्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते / सवाश्रवक्षयज्ञानप्रहाणज्ञानप्रतिज्ञारोहणसदेवके लोके ऽविवर्त्यप्रतिज्ञावैशारद्यप्राप्तत्वात्सर्वाश्रवक्षयज्ञानप्रहाणज्ञानप्रतिज्ञारोहणसदेवके लोके ऽविवर्त्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते / अस्खलितपदधर्मदेशकत्वादस्खलितपदधर्मदेशक इत्युच्यते / अरुतानभिलाप्यधर्मस्वभावानुबुद्धत्वादरुतानभिलाप्यधर्मस्वभावानुबुद्ध इत्युच्यते / अविरतत्वादविरत इत्युच्यते / सर्वसत्त्वरुताप्रमाणबुद्धधर्मरुतनिर्घोषाधिष्ठानसमर्थत्वात्सर्वसत्त्वरुताप्रमाणबुद्धधर्मरुतनिर्घोषाधिष्ठानसमर्थ इत्युच्यते / (वैद्य 313) अमुषितस्मृतित्वादमुषितस्मृतिरित्युच्यते / नानात्वसंज्ञाविगतत्वान्नानात्वसंज्ञाविगत इत्युच्यते / सर्वचित्तसमाहितसुमाहितसत्त्वात्सर्वचित्तसमाहितसुसमाहित इत्युच्यते / अप्रतिसंख्यासमुपेक्षकत्वादप्रतिसंख्यासमुपेक्षक इत्युच्यते / छन्दसंस्कारसमाध्यपरिहीनत्वाच्छन्दसंस्कारसमाध्यपरिहीन इत्युच्यते / वीर्यसंस्कारसमाध्यनाछेद्यापरिहीनवीर्यत्वाद्वीर्यसंस्कारसमाध्यपरिहीनवीर्य इत्युच्यते / स्मृत्यपरिहीनत्वादपरिहीनस्मृतिरित्युच्यते / अपरिहीनप्रज्ञत्वादपरिहीनप्रज्ञ इत्युच्यते / विमुक्त्यपरिहीनत्वादपरिहीनविमुक्तिरित्युच्यते / विमुक्तिज्ञानदर्शनाप्रहीनत्वादपरिहीनविमुक्तिज्ञानदर्शन इत्युच्यते /
सर्वकायकर्मवाक्कर्ममनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवर्तिसमन्वागतत्वात्सर्वकायवाङ्भमनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवर्तिज्ञानसमन्वागत इत्युच्यते / अतीतानागतप्रत्युत्पन्नेष्वध्वस्वसङ्गाप्रतिहतज्ञानदर्शनसमन्वागतत्वात् त्र्यध्वासङ्गाप्रतिहतज्ञानदर्शनसमन्वागत इत्युच्यते / अनावरणविमोक्षप्रतिलब्धत्वादनावरणविमोक्षप्रतिलब्ध इत्युच्यते / अधिष्ठितसर्वसत्त्वचरितप्रवेशकौशल्यावस्थितत्वोदधिष्ठितसर्वसत्त्वचरितप्रवेशकौशल्यावस्थित इत्युच्यते / यथाप्रत्यर्हधर्मदेशनाकुशलत्वाद्यथाप्रत्यर्हधर्मदेशनाकुशल इत्युच्यते / सर्वस्वराङ्गमण्डलपरमपारमिताप्राप्तत्वात्सर्वस्वराङ्गमण्डलपरमपारमिताप्राप्त इत्युच्यते / सर्वरुतप्रतिरुतनिश्चारणकौशल्यप्राप्तत्वाद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुत इत्युच्यते / ब्रह्मस्वररुतरवितनिर्घोष इत्युच्यते / कलविङ्करुतस्वर इत्युच्यते / दुन्दुभिसंगीतिरुतस्वर इत्युच्यते / धरणीतलनिर्नादनिर्घोषस्वर इत्युच्यते / सागरनागेन्द्रमेघस्तनितगर्जितघोषस्वर इत्युच्यते / सिंहवृषभिताभिगर्जितनिर्घोषस्वर इत्युच्यते / सर्वसत्त्वरुतरवितानुचरणसंतोषणस्वर इत्युच्यते / असङ्गानावरणसर्वपर्षन्मण्डलाभिराधनस्वर इत्युच्यते / एकरुतात्सर्वरुतसंप्रापनस्वर इत्युच्यते / ब्रह्मेन्द्रपूजित इत्युच्यते / देवेन्द्रसत्कृत इत्युच्यते / नागेन्द्रनमस्कृत इत्युच्यते / यक्षेन्द्रावलोकितमुखमण्डल इत्युच्यते / गन्धर्वेन्द्रोपगीत इत्युच्यते / राक्षसेन्द्रप्रसन्नेन्द्रियानिनिमिषनयनसंप्रेक्षित इत्युच्यते / असुरेन्द्राभिप्रणत इत्युच्यते / गरुडेन्द्राविहिंसाप्रेक्षित इत्युच्यते /
किन्नरेन्द्राभिष्टुत इत्युच्यते / महोरगेन्द्राभिलषितदर्शन इत्युच्यते / मनुजेन्द्राभिसंपूजित इत्युच्यते / अहर्गणसेवित इत्युच्यते / सर्वबोधिसत्त्वसमादायकसमुत्तेजकसंहप्रर्षक इत्युच्यते / निरामिषधर्मदेशक इत्युच्यते / अक्षुण्णपदव्यञ्जनावन्ध्यधर्मदेशक इत्युच्यते / कालानतिक्रमणधर्मदेशक इत्युच्यते / इदं तन्मैत्रेय धर्मचक्रप्रवर्तनं तथागतगुणवर्णप्रदेशस्य यत्किंचिदवतारमात्रं संक्षेपेण निर्देशितः विस्तरेण पुनमैत्रेय तथागतः कल्पं वा कल्पावशेषं वा निर्दिशेत् / न चास्य निर्दिश्यमानस्य पर्यन्तो भवेत् //
अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत् -
गम्भीरं दुर्दृशं सूक्ष्मं धर्मचक्रं प्रवर्तितम् / यत्र मारा न गाहन्ते सर्वे च परतीर्थिकाः // lal_26.52 //
अनालयं निष्प्रपञ्चं अनुत्पादमसंभवम् / विविक्तं प्रकृतीशून्यं धर्मचक्रं प्रवर्तितम् // lal_26.53 //
अनायूहमनिर्यूहमनिमित्तमलक्षणम् / समताधर्मनिर्देशं चक्रं बुद्धेन वर्णितम् // lal_26.54 //
मायामरीचि स्वप्नं च दकचन्द्र प्रतिश्रुत्का / यथैते तथा तच्चक्रं लोकनाथेन वर्तितम् // lal_26.55 //
प्रतीत्यधर्मओतारमनुच्छेदमशाश्वतम् / सर्वदृष्टिसमुच्छेदो धर्मचक्रमिति स्मृतम् // lal_26.56 //
आकाशेन सदा तुल्यं निर्विकल्पं प्रभास्वरम् / अनन्तमध्यनिर्देशं धर्मचक्रमिहोच्यते // lal_26.57 //
अस्तिनास्तिविनिर्मुक्तमात्म्यनैरात्म्यवर्जितम् / प्रकृत्याजातिनिर्देशं धर्मचक्रमिहोच्यते // lal_26.58 //
भूतकोटीमकोटीं च तथतायां तथत्वतः / अद्वयो धर्मनिर्देशो धर्मचक्रं निरुच्यते // lal_26.59 //
चक्षुः स्वभावतः शून्यं श्रोतं घ्राणं तथैव च / जिह्वा कायं च चित्तं च शून्यात्मानो निरीहकः // lal_26.60 //
इदं तदीद्दशं चक्रं धर्मचक्रं प्रवर्तितम् / बोधयत्यबुधान् सत्त्वांस्तेन बुद्धो निरुच्यते // lal_26.61 //
स्वयं मयानुबुद्धो ऽयं स्वभावो धर्मलक्षणम् / ऋते परोपदेशेन स्वयंभूस्तथ चक्षुमान् // lal_26.62 //
सर्वधर्मवशिप्राप्तो धर्मस्वामी निरुच्यते / नयानयज्ञो धर्मेषु नायकस्तेन चोच्यते // lal_26.63 //
यथा भवन्ति वैनेया विनयाम्यमितां जनां / विनेयपारमिप्राप्तस्तेन प्रोक्तो विनायकः // lal_26.64 //
नष्टमार्गा हि ये सत्त्वा मार्गं देशेमि उत्तमम् / नयामि पारिमं तीरं तस्मादस्मि विनायकः // lal_26.65 //
संग्रहावस्तुज्ञानेन संगृह्य जनतामहम् / संसाराटविनिस्तीर्णः सार्थवाहस्ततो ह्यहम् // lal_26.66 //
वशवर्ती सर्वधर्मेषु तेन धर्मेश्वरो जिनः / धर्मचक्रं प्रवर्तित्वा धर्मराजो निरुच्यते // lal_26.67 //
धर्मदानपतिः शास्ता धर्मस्वामी निरुत्तरः / सुयष्टयज्ञसिद्धार्थः पूर्णाशः सिद्धमङ्गलः // lal_26.68 //
आश्वासकः क्षेमदर्शी शूरो महारणंजहः / उत्तीर्णसर्वसंग्रामो मुक्तो मोचयिता प्रजाः // lal_26.69 //
आलोकभूतो लोकस्य प्रज्ञाज्ञानप्रभंकरः / अज्ञानतमसो हन्ता उल्काधारि महाप्रभः // lal_26.70 //
महावैद्यो महाज्ञानी महाक्लेशचिकित्सकः / सत्त्वानां क्लेशविद्धानां शल्यहर्ता निरुत्तरः // lal_26.71 //
सर्वलक्षणसंपन्नः सर्वव्यञ्जनशोभितः / समन्तभद्रकायेन हीनानां चानुवर्तकः // lal_26.72 //
दशभिर्बलभिर्बलवान् वैशारद्यविशारदः / आवेणिकैरष्टदशै अग्रयानी महामुनिः // lal_26.73 //
एष संक्षेपनिर्देशो धर्मचक्रप्रवर्तने / तथागतगुणवर्णः परीत्तो ऽयं प्रकाशितः // lal_26.74 //
बुद्धज्ञानमनन्तं हि आकाशविपुलं समम् / क्षपयेत्कल्प भाषन्तो न च बुद्धगुणक्षयः // lal_26.75 //
इति //
इति श्रीललितविस्तरे धर्मचक्रप्रवर्तनपरिवर्तो नाम षड्विंशतितमो ऽध्यायः //
स्तर्त् परिवर्त 27
निगमपरिवर्तः सप्तविंशः /
अथ खलु देवपुत्रा यैस्तथागतो ऽधीष्टो ऽभूदस्य धर्मपर्यायस्य संप्रकाशनाय सह महेश्वरनन्दसुनन्दचन्दनमहितशान्तप्रशान्तविनीतेश्वरप्रमुखा अष्टादशः शुद्धावासकायिका देवपुत्रसहस्राणि ये तथागतस्य धर्मचक्रप्रवर्तने ऽपि संनिपतिता अभूवन् / तत्र भगवांस्तान् महेश्वरदेवपुत्रप्रमुखान् शुद्धावासकायिकान् देवपुत्रानामन्त्रयते स्म - अयं स मार्षा ललितविस्तरो नाम धर्मपर्यायसूत्रान्तो महावैपुल्यबोधिसत्त्वविक्रीडितः बुद्धविषये ललितप्रवेश आत्मोपनायिकस्तथागतेन भाषितः / तं यूयमुद्गृह्णीध्वं धारयत वाचयत च / एवमियं धर्मनेत्री वैस्तारिकी भविष्यति / बोधिसत्त्वयानिकाश्च पुद्गला इमं धर्मपर्यायं श्रुत्वा दृढतरं वीर्यमालप्स्यन्ते / अनुत्तरायां सम्यक्संबोधावुदाराधिमुक्तिकाश्च सत्त्वा महाधर्मवर्षवेगं संजानयिष्यन्ति / मारपक्षश्च निगृहीतो भविष्यति / सर्वपरप्रवादिनश्चावतारं न लप्स्यन्ते / युष्माकं च तद्धर्मदेशनाध्येषणा कुशलमूलं महार्थिकं भविष्यति महाफलं महानुशंसम् //
यः कश्चिन्मार्षा अस्य ललितविस्तरस्य धर्मपर्यायस्याञ्जलिं संप्रगृहीतं करिष्यति, सो ऽष्टावुत्कृष्टान् धर्मान् प्रतिलप्स्यते / कतमानष्टौ? तद्यथा - उत्कृष्ट रूपं प्रतिलप्स्यते / उत्कृष्टबलं प्रतिलप्स्यते / उत्कृष्टपरिवारं प्रतिलप्स्यते / उत्कृष्टप्रतिभानं प्रतिलप्स्यते / उत्कृष्टनैष्क्रम्यं प्रतिलप्स्यते / उत्कृष्टचित्तपरिशुद्धिं प्रतिलप्स्यते / उत्कृष्टसमाधिपदं प्रतिलप्स्यते / उत्कृष्टप्रज्ञावभासं प्रतिलप्स्यते / इमान्यष्टावुत्कृष्टान् धर्मान् प्रतिलप्स्यते //
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाषितुकामस्य धर्मभाणकस्य धर्मासनं प्रज्ञापयिष्यति, तस्याष्टावासनप्रतिलम्भाः प्रतिकाङ्क्षितव्याः सहप्रज्ञप्ते आसने / कतमे ऽष्टौ? तद्यथा - श्रेष्ठ्यासनप्रतिलम्भः / गृहपत्यासनप्रतिलम्भः / चक्रवर्त्यासनप्रतिलम्भः / लोकपालासनप्रतिलम्भः / शक्रासनप्रतिलम्भः / वशवर्त्यासनप्रतिलम्भः / ब्रह्मासनप्रतिलम्भः / बोधिमण्डवराग्रगतस्य बोधिसत्त्वभूतस्याप्रत्युदावर्त्यनिहतमारप्रत्यर्थिकसिंहासनप्रतिलम्भः / अनुत्तरासम्यक्संबोधिमभिसंबुद्धस्य अतो ऽनुत्तरधर्मचक्रप्रवर्तनासनप्रतिलम्भश्च प्रतिकाङ्क्षितव्यः / इमे ऽष्टावासनप्रतिलम्भाः प्रतिकाङ्क्षितव्याः //
य कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाषमाणाय साधुकारं दास्यति, सो ऽष्टौ वाक्परिशुद्धीः प्रतिलप्स्यते / कतमा अष्टौ? तद्यथा - यथावादितथाकारितां सत्यानुपरिवर्तिवाक्कर्मपरिशुद्ध्या / आदेयवचनतां पर्षदभिभवनतया / ग्राह्यवचनतां अनुद्धुरतया / श्लक्ष्णमधुरवचनतां अपारुष्यसत्त्वसंग्रहणतया / कलविङ्करुतस्वरतां कायचित्तोद्बिल्यकरणतया / तदुक्तवचनतां सर्वसत्त्वैरनभिभवनतया / ब्रह्मस्वरतां सर्वस्वराभिभवनतया / सिंहघोषाभिगर्जितस्वरतां सर्वपरप्रवादिभिरनभिभवनतया / (वैद्य 317) बुद्धस्वरतां सर्वसत्त्वेन्द्रियपरितोषणतया / इमा अष्टौ वाक्कर्मपरिशुद्धीः प्रतिलप्स्यते //
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं पुस्तकलिखितं कृत्वा धारयिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, अमात्सर्यचित्ततया चतुर्दिशमस्य धर्मपर्यायस्य वर्णनां भाषिष्यते वर्णनां चोच्चारयिष्यति - आगच्छतेमं धर्मपर्यायं लिखितं धारयत वाचयत चिन्तयत स्वाध्यायतेति, सो अष्टौ महानिधानानि प्रतिलप्स्यते / कतमान्यष्टौ महानिधानानि? यदुत स्मृतिनिधानं असंमोषणतया / मतिनिधानं बुद्धिप्रभेदनतया / गतिनिधानं सर्वसूत्रान्तार्थगत्यनुरागतया / धारणीनिधानं सर्वश्रुताधारणतया / प्रतिभाननिधानं प्रतिलभते सर्वसत्त्वसुभाषितसंभाषणतया / धर्मनिधानं प्रतिलभते सद्धर्मप्रतिलक्षणतया / बोधिचित्तनिधानं त्रिरत्नवंशानुपच्छेदनतया / प्रतिपत्तिनिधानं चानुत्पत्तिकधर्मक्षान्तिप्रतिलम्भतया / इमान्यष्टौ निधानानि प्रतिलप्स्यते //
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं सुप्रवर्तितं कृत्वा धारयिष्यति, सो ऽष्टौ संभारान् परिपुरयिष्यति / कतमानष्टौ? तद्यथा - यदुत दानसंभारं परिपूरयिष्यति अमात्सर्यचित्ततया / शीलसंभारं परिपूरयिष्यति सर्वकल्याणाभिप्रायपरिपूरणतया / श्रुतसंभारं परिपूरयिष्यति असङ्गप्रज्ञासमुदानयनतया / शमथसंभारं परिपूरयिष्यति सर्वसमाधिसमापत्त्यामुखीकरणतया / विदर्शनासंभारं परिपूरयिष्यति त्रैविद्यविद्याप्रतिपूर्या / पुण्यसंभारं परिपूरयिष्यति लक्षणानुव्यञ्जनबुद्धक्षेत्रालंकारविशुद्ध्या / ज्ञानसंभारं परिपूरयिष्यति सर्वसत्त्वयथाधिमुक्तिसंतोषणतया / महाकरुणा संभारं परिपूरयिष्यति सर्वसत्त्वपरिपाचनापरिखेदतया / इमानष्टौ संभारान् परिपूरयिष्यति //
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, एवंचित्तो यदुत कथममी सत्त्वा एषामेवरूपाणां धर्माणां लाभिनो भवेयुरिति, स तेन कुशलमूलेनाष्टौ महापुण्यताः प्रतिलप्स्यते / कतमा अष्टौ? तद्यथा - राजा भवति चक्रवर्ती, इयं प्रथमा महापुण्यता / चतुर्महाराजकायिकानां देवानामाधिपत्यं कारयिष्यति, इयं द्वितीया महापुण्यता / शक्रो भविष्यति देवेन्द्रः इयं तृतीया महापुण्यता / सुयामो भविष्यति देवपुत्रः, इयं चतुर्थी महापुण्यता संतुषितो भविष्यति, इयं पञ्चमी महापुण्यता / सुनिर्मितो भविष्यति, इयं षष्ठी महापुण्यता / वशवर्ती भविष्यति देवराजः, इयं सप्तमी महापुण्यता / ब्रह्मा भविष्यति महाब्रह्मा, इयं अष्टमी महापुण्यता / अन्ते च तथागतो भविष्यति अर्हन् सम्यक्संबुद्धः सर्वाकुशलधर्मप्रहीनः सर्वकुशलधर्मसमन्वागतः / इमा अष्टौ महापुण्यताः प्रतिलप्स्यते //
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाष्यमाणमवहितश्रोतः श्रोष्यति, सो ऽष्टौ चित्तनिर्मलताः प्रतिलप्स्यते / कतमा अष्टौ? तद्यथा - यदुत मैत्रीं प्रतिलप्स्यते सर्वदोषनिर्घाताय / करुणां प्रतिलप्स्यते सर्वविहिंसोत्सर्गाय / मुदितां प्रतिलप्स्यते सर्वारत्यपकर्षणतायै / उपेक्षां प्रतिलप्स्यते अनुनयप्रतिघोत्सर्गाय / चत्वारि ध्यानानि प्रतिलप्स्यते सर्वरूपधातुवशवर्तितायै / चतस्र (वैद्य 318) आरूप्यसमापत्तीः प्रतिलप्स्यते चित्तवशवर्तितायै / पञ्चाभिज्ञाः प्रतिलप्स्यते अन्यबुद्धक्षेत्रगमनतायै / सर्ववासनानुसंधिसमुद्धारं प्रतिलप्स्यते शूरंगमसमाधिप्रतिलम्भाय / इमा अष्टौ चित्तनिर्मलताः प्रतिलप्स्यते //
यस्मिंश्च मार्षा ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा चंक्रमे वा विहारे वा अयं ललितविस्तरो धर्मपर्यायः प्रचरिष्यति, तत्राष्टौ भयानि न प्रभविष्यन्ति स्थापयित्वा पूर्वकर्मविपाकम् / कतमान्यष्टौ? तद्यथा - यदुत राजसंक्षोभभयं न भविष्यति / चौरसंक्षोभभयं न भविष्यति / व्यालसंक्षोभभयं न भविष्यति / दुर्भिक्षकान्तारसंक्षोभभयं न भविष्यति / अन्योन्यकलहविवादविग्रहसंक्षोभभयं न भविष्यति / देवसंक्षोभभयं न भविष्यति / नागसंक्षोभभयं न भविष्यति / यक्षसंक्षोभभयं न भविष्यति / सर्वोपद्रवसंक्षोभभयं न भविष्यति / इमानि मार्षास्तत्राष्टौ भयानि न भविष्यन्ति (स्थापयित्वा पूर्वकर्मविपाकम्) //
संक्षेपान्मार्षा यदि तथागतः कल्पस्थितिकेनायुष्प्रमाणेन रात्रिंदिवमधिष्ठमानो ऽस्य धर्मपर्यायस्य वर्णं भाषते, नैवास्य धर्मपर्यायस्य वर्णपर्यन्तो भवेन्न च तथागतप्रतिभानस्य क्षयो भवेत् / अपि तु खलु पुनर्मार्षा यथैव तथागतस्य शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनमप्रमाणमपर्यन्तम्, एवमेव मार्षा य इमं धर्मपर्यायमुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति लिखिष्यति लेखयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति, पर्षन्मध्ये च विस्तरेण संप्रकाशयिष्यति - अनेन चित्तेन कथममी सत्त्वा एवमुदारस्य धर्मस्य लाभिनः स्युरिति, तेषामपि नास्ति पुण्यपर्यन्तः //
ततः खलु भगवानायुष्मन्तं महाकाश्यपमामन्त्रयते स्म आयुष्मन्तं चानन्दं मैत्रेयं च बोधिसत्त्वं महासत्त्वम् - इमामहं मार्षा असंख्येयकल्पकोटिनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिदाम्यनुपरिन्दामि परमया परिन्दनया, स्वयं चैवमिमं धर्मपर्यायं धारयत, परेभ्यश्च विस्तरेण संप्रकाशयत //
इत्युक्त्वा च भगवानस्यैव धर्मपर्यायस्य भूयस्या मात्रयानुपरिन्दनार्थं तस्यां वेलायामिमां गाथामभाषत -
सत्त्वा दृष्टा ये मया बुद्धदृष्ट्या स्युस्ते ऽर्हन्तः शरिपुत्रेण तुल्याः / तांश्चेत्कश्चित्पूजयेत्कल्पकोटी तुल्यां गङ्गावालिकाभियथैव // lal_27.1 //
प्रत्येकबुद्धाय तु यश्च पूजां कुयादहोरात्रमपि प्रहृष्टः / माल्यैः प्रकारैश्च तथापरैश्च तस्मादयं पुण्यकृतो विशिष्यते // lal_27.2 //
स्युः सर्वसत्त्वा यदि प्रत्ययैर्जिना तां पूजयेत्कश्चिदिहाप्रमत्तः / पुष्पैश्च गन्धैश्च विलेपनैश्च कल्पाननेकां सततं हि तत्परम् // lal_27.3 //
एकस्य यश्चैव तथागतस्य कुर्यात्प्रणामं अपि चैकशो ऽपि / प्रसन्नाचित्तो ऽथ वदेन्नमो ऽर्हते तस्मादिदं श्रेष्ठतरं च पुण्यम् // lal_27.4 //
बुद्धा भवेयुर्यदि सर्वसत्त्वा तां पूजयेद्यश्च यथैव पूर्वम् / दिव्यैश्च पुष्पैरथ मानुर्षैर्वरैः कल्पाननेकां बहुभिः प्रकारैः // lal_27.5 //
यश्चैव सद्धर्मविलोपकात्ले त्यक्त्वा स्वकाये च तथैव जीवितम् / वद्यादहोरात्रमिदं हि सूत्रं विशिष्यते पुण्यमिदं हि तस्मात् // lal_27.6 //
यस्येप्सितं पूजयितुं विनायकां प्रत्येकबुद्धांश्च तथैव श्रावकां / दृढं समुत्पाद्य स बोधिचित्त इदं सदा सूत्रवरं दधातु // lal_27.7 //
राजा ह्ययं सर्वसुभाषितानां यो ऽभ्युद्गतः सर्वतथागतानाम् / गृहे स्थितस्तस्य तथागतः सदा तिष्ठेदिदं यत्र हि सूत्ररत्नम् // lal_27.8 //
प्रतिभां स प्राप्नोति शुभामनन्तां एकं पदं वक्ष्यति कल्पकोटी / न व्यञ्जना भ्रश्यति नापि चार्था दद्याच्च यः सूत्रमिद परेभ्यः // lal_27.9 //
अनुत्तरो ऽसौ नरनायकानां सत्त्वो न कश्चित्सदृशो ऽस्य विद्यते / भवेत्समुद्रेण समश्च सो ऽक्षयः श्रुत्वा हि यो धर्ममिमं प्रपद्यते // lal_27.10 //
इति //
इदमवोचद्भगवानात्तमनाः / ते महेश्वरदेवपुत्रपूर्वंगमाः शुद्धावासकायिका देवपुत्रा मैत्रेयपूर्वंगमाश्च सर्वबोधिसत्त्वा महासत्त्वा महाकाश्यपपूर्वंगमाश्च सर्वमहाश्रावकाः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन् //
इति //
// इति श्रीललितविस्तरे निगमपरिवर्तो नाम सप्तविंशतितमो ऽध्यायः //
समाप्तं चेदं सर्वबोधिसत्त्वचर्याप्रस्थानम् //
// श्रीललितविस्तरो नाम महायानसूत्रं रत्नराजं परिसमाप्तम् //
* * * * * ये धर्म हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निरोध एवं वादी महाश्रमणः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
