Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/9

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

ललितविस्तर

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पश्यन्त्यनयना यद्वच्छ्रोत्रहीनाः श्रुणन्ति च / उन्मत्तकाः स्मृतीमन्तो भविता लोकचेतियः // lal_7.47 //

न बाधन्ते यथा क्लेशा जातं मैत्रजनं जगत् / निःसंशयं ब्रह्मकोटीनां भविता पूजनारहः // lal_7.48 //

यथा संपुष्पिताः शाला मेदिनी च समा स्थिता / ध्रुवं सर्वजगत्पूज्यः सर्वज्ञो ऽयं भविष्यति // lal_7.49 //

यथा निराकुलो लोको महापद्मो यथोद्भवः / निःसंशयं महातेजा लोकनाथो भविष्यति // lal_7.50 //

यथा च मृदुका वाता दिव्यगन्धोपवासिताः / शमेन्ति व्याधिं सत्त्वानां वैद्यराजो भविष्यति // lal_7.51 //

वीतरागा यथा चेमे रूपधातौ मरुच्छताः / कृताञ्जलिं नमस्यन्ते दक्षिणीयो भविष्यति // lal_7.52 //

यथा च मनुजा देवान् देवाः पश्यन्ति मानुषान् / हेठयन्ति न चान्योन्यं सार्थवाहो भविष्यति // lal_7.53 //

यथा च ज्वलनः शान्तः सर्वा नद्यश्च विस्थिताः / सूक्ष्मं च कम्पते भूमिः भविता तत्त्वदर्शकः // lal_7.54 //

इति //

इति हि भिक्षवः सप्तरात्रजातस्य बोधिसत्त्वस्य माता मायादेवी कालमकरोत् / सा कालगता त्रायत्रिंशति देवेषूपपद्यत / स्यात् खलु पुनर्भिक्षवो युष्माकमेवं बोधिसत्त्वापराधेन मायादेवी कालगतेति? न खल्वेवं द्रष्टव्यम् / तत्कस्माद्धेतोः? एतत् परमं हि तस्या आयुष्प्रमाणमभूत् / अतीतानामपि भिक्षवो बोधिसत्त्वानां सप्तरात्रजातानां जनेत्र्यः कालमकुर्वन्त / तत्कस्माद्धेतोः? विवृद्धस्य हि बोधिसत्त्वस्य परिपूर्णेन्द्रियस्याभिनिष्क्रामतो मातुर्हृदयं स्फुटेत् //

इति हि भिक्षवः सप्तमे दिवसे यादृशेनैव व्यूहेन मायादेवी कपिलवस्तुनो महानगरादुद्यानभूमिमभिनिष्क्रान्ताभूत्, ततः कोटीशतसहस्रगुणोत्तरेण महाव्यूहेन बोधिसत्त्वः कपिलवस्तु महानगरं प्राविक्षत् / तस्य च प्रविशतः पञ्च पूर्णकुम्भसहस्राणि गन्धोदकपरिपूर्णानि पुरतो नीयन्ते स्म / एवं पञ्चकन्यासहस्राणि मयूरहस्तकम्परिगृहीतानि पुरतो गच्छन्ति स्म / पञ्च च कन्यासहस्राणि तालवृक्षकपरिगृहीतानि पुरतो गच्छन्ति स्म / पञ्च स कन्यासहस्राणि गन्धोदकभृङ्गारपरिगृहीतानि पुरतो गच्छन्ति स्म, मार्गमवसिञ्चन्ति स्म / पञ्च च कन्यासहस्राणि विचित्रपटलकपरिगृहीतानि पुरतो गच्छन्ति स्म / पञ्च च कन्यासहस्राणि नवविचित्रप्रलम्बनमालापरिगृहीतानि पुरतो गच्छन्ति स्म / पञ्च च कन्यासहस्राणि रत्नभद्रालंकारपरिगृहीतानि पुरतो गच्छन्ति स्म, मार्गं शोधयन्ति स्म / पञ्च च कन्यासहस्राणि भद्रासनपरिगृहीतानि पुरतो गच्छन्ति स्म / पञ्च च ब्राह्मणसहस्राणि घण्टापरिगृहीतानि माङ्गल्यशब्दं श्रावयन्तः पुरतो गच्छन्ति स्म / विंशति नागसहस्राणि सर्वालंकारविभूषितानि पुरतो गच्छन्ति स्म / विंशति हयसहस्राणि सुवर्णालंकारसंछन्नानि सर्वालंकारविभूषितानि पुरतो गच्छन्ति स्म / अशीति रथसहस्राणि उछ्रितछत्रध्वजपताकाकिङ्किणीजालसमलंकृतानि बोधिसत्त्वस्य पृष्ठतो ऽनुच्छन्ति स्म / चत्त्वारिंशत्पदातिसहस्राणि शूराणां वीराणां वराङ्गुरूपिणां संनद्धदृढवर्मकवचानां बोधिसत्त्वं गच्छन्तमनुगच्छन्ति स्म /

गगनतलगतानि चाप्रमेयासंख्येयान्यभिज्ञातानि कामावचराणां रूपावचरदेवपुत्रकोटीनयुतशतसहस्राणि नानाप्रक्रारमनेकव्यूहैर्बोधिसत्त्वस्य पूजां कुर्वन्तो ऽनुगच्छन्ति स्म / यस्मिंश्च वरप्रवररथे बोधिसत्त्वः समभिरूढो ऽभूत्, स कामावचरैर्देवैरनेकैर्महाव्यूहैः समलंकृतो ऽभूत् / विंशति च देवकन्यासहस्राणि सर्वालंकारविभूषितानि रत्नसूत्रपरिगृहीतानि तं रथं वहन्ति स्म / द्वयोश्चाप्सरसोर्मध्ये एका मानुषी कन्या द्वयोर्मानुषीकन्ययोर्मध्ये एकाप्सरा / न चाप्सरसो मानुषीणामामगन्धं जिघ्रन्ति स्म / न च मानुषा अप्सरसां रूपं दृष्ट्वा प्रमादमापद्यन्ते स्म यदिदं बोधिसत्त्वस्य तेजोनुभावेन //

इति हि भिक्षवः कपिलाह्वये पुरवरे सर्वार्थसिद्धाय पञ्चमात्रैः शाक्यशतैः पञ्चगृहशतानि निर्मापितान्यभूवन् बोधिसत्त्वमुद्दिश्य / ते बोधिसत्त्वं नगरं प्रविशन्तं स्वस्वगृहद्वारमूले स्थित्वा कृताञ्जलिपुटा अभिनतकायाः सगौरवा एवमाहुः - इह भोः सर्वार्थसिद्ध प्रविश / इह भो देवातिदेव प्रविश / इह भोः शुद्धसत्त्व प्रविश / इह भोः सारथिवर प्रविश / इह भोः प्रीतिप्रामोद्यकर प्रविश / इह भो अनिन्दितयशः प्रविश / इह भोः समन्तचक्षु प्रविश / इह भो असमसम प्रविश / इह भो असदृशगुणतेजोधर लक्षणानुव्यञ्जनस्वलंकृतकाय प्रविशेति / ततश्चोपादाय कुमारस्येह सर्वार्थसिद्धः सर्वार्थसिद्ध इति संज्ञामगमत् //

तत्र राजा शुद्धोदनस्तेषां सर्वेषामनुवर्तनार्थं बोधिसत्त्वं सर्वगृहेषु प्रवेश्य चतुर्णां मासानामत्ययाद्बोधिसत्त्वं स्वगृहे प्रवेशयति स्म / तत्र च नानारत्नव्यूहो नाम (वैद्य 72) महाप्रासादस्तं बोधिसत्त्वः समारूढो ऽभूत् / तत्र ते बृद्धवृद्धाः शाक्याः संनिपत्यैवं मतं चारयन्ति स्म - का नु खलु समर्था बोधिसत्त्वं गोपायितुं केलयितुं ममायितुं हितचित्ततया मैत्रचित्ततया गुणचित्ततया सौम्यचित्ततया चेति / तत्र पञ्चमात्राणि शाक्यवधूशतानि / एकैका एवमाहूः - अहं कुमारमुपस्थास्य इति / तत्र महल्लकमहल्लिकाः शाक्या एवमाहुः - सर्वा एता वधूका नवा दह्नास्तरुण्यः रूपयौवनमदमत्ताः / नैताः समर्था बोधिसत्त्वं कालेन कालमुपस्थापयितुम् / अथ च पुनरियं महाप्रजापती गौतमी कुमारस्य मातृस्वसा / एषा समर्था कुमारं सम्यक्सुखेन संवर्धयितुम्, राजानं च शुद्धोदनमभिधारयितुम् / इति हि ते सर्वे समग्रा भूत्वा महाप्रजापतीं गौतमीमुत्साहयन्ति स्म / इति हि महाप्रजापती गौतमी कुमारं संवर्धयति स्म / तत्र बोधिसत्त्वस्यार्थे द्वात्रिंशद्धात्र्यः संस्थापिता अभुवन् अष्टावङ्गधात्र्यः, अष्टौ क्षीरधात्र्यः, अष्टौ मलधात्र्यः, अष्टौ क्रीडाधात्र्यः //

ततो राजा शुद्धोदनः सर्वं शाक्यगणं संनिपात्यैवं मीमांसते स्म - किं नु खल्वयं कुमारो राजा भविष्यति चक्रवर्ती, आहोस्विदभिनिष्क्रमिष्यति प्रव्रज्यायै?

तेन च समयेन हिमवतः पर्वतराजस्य पार्श्वे असितो नाम महर्षिः प्रतिवसति स्म पञ्चाभिज्ञः सार्धं नरदत्तेन भागिनेयेन / स बोधिसत्त्वस्य जातमात्रस्य बहून्याश्चर्याद्भुतप्रातिहार्याण्यद्राक्षीत् / गगनतलगतांश्च देवपुत्रान् बुद्धशब्दमनुश्रावयतो ऽम्बराणि च भ्रामयत इतस्ततः प्रमुदितान् भ्रमतो ऽद्राक्षीत् / तस्यैतदभूत् - यन्न्वहं व्यवलोकयेयमिति / स दिव्येन चक्षुषा सर्वं जम्बुद्वीपमनुविलोकयन्नद्राक्षीत् कपिलाह्वये महापुरवरे राज्ञः शुद्धोदनस्य गृहे कुमारं जातं शतपुण्यतेजस्तेजितं सर्वलोकमहितं द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतगात्रम् / दृष्ट्वा च पुनर्नरदत्तं माणवकमामन्त्रयते स्म - यत् खलु माणवक जानीया जम्बुद्वीपे महारत्नमुत्पन्नम् / कपिलवस्तुनि महानगरे राज्ञः शुद्धोदनस्य गृहे कुमारो जातः शतपुण्यतेजस्तेजितः सर्वलोकमहितो द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः / सचेत्सो ऽगारमध्यावसिष्यति, राजा भविष्यति चतुरङ्गश्चक्रवर्ती विजितवान् धार्मिको धर्मराजो जानपदस्थामवीर्यप्राप्तः सप्तरत्नसमन्वागतः / तस्येमानि सप्त रत्नानि भवन्ति / तद्यथा - चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् / एवं सप्तरत्नसंपूर्णश्च / अस्य पुत्रसहस्रं भविष्यति शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् / स इमं महापृथिवीमण्डलं समुद्रपरिखमदण्डेनाशस्त्रेण स्वेन (धर्मेण) बलेनाभिभूयाभिनिर्जित्य राज्यं करिष्यत्यैश्वर्याधिपत्येन / सचेत्पुनरगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यति अर्हन् सम्यक्संबुद्धो नेता अनन्यनेयः शास्ता लोके संबुद्धः / तदेतर्ह्युपसंक्रमिष्यावस्तद् द्रष्टुमिति //

अथ खल्वसितो महर्षिः सार्धं नरदत्तेन भागिनेयेन राजहंस इव गगनतलादभ्युद्गम्य समुत्प्लुत्य येन कपिलवस्तु महानगरं तेनोपसंक्रामत् / उपसंक्रम्य ऋद्धिं प्रतिसंहृत्य पद्भ्यामेव कपिलवस्तु महानगरं प्रविश्य येन राज्ञः शुद्धोदनस्य निवेशनं तेनोपसंक्रामत् / उपसंक्रम्य राज्ञः शुद्धोदनस्य गृहद्वारे ऽस्थात् //

इति हि भिक्षवो ऽसितो महर्षिः पश्यति स्म राज्ञः शुद्धोदनस्य गृहद्वारे ऽनेकानि प्राणिशतसहस्राणि संनिपतितानि / अथ खल्वसितो महर्षिर्दौवारिकमुपसंक्रम्यैवमाह - गच्छ त्वं भोः पुरुष राज्ञः शुद्धोदनस्य, निवेदय द्वारे ऋषिर्व्यवस्थित इति / परमेति दौवारिको ऽसितस्य महर्षेः प्रतिश्रुत्य येन राजा शुद्धोदनस्तेनोपसंक्रामत् / उपसंक्रम्य कृताञ्जलिपुटो राजानं शुद्धोदनमेवमाह - यत् खलु देव जानीया ऋषिर्जीर्णो वृद्धो महल्लको द्वारे स्थितः / एवं च वदति - राजानमहं द्रष्टुकाम इति / अथ राजा शुद्धोदनो ऽसितस्य महर्षेरासनं प्रज्ञाप्य तं पुरुषमेवमाह - प्रविशतु ऋषिरिति / अथ स पुरुषो राजकुलान्निष्क्रम्यासितं महर्षिमेवमाह - प्रविशेति //

अथ खल्वसितो महर्षिर्येन राजा शुद्धोदनस्तेनोपसंक्रामत् / उपसंक्रम्य पुरतः स्थित्वा राजानं शुद्धोदनमेवमाह - जय जय महाराज, चिरमायुः पालय, धर्मेण राज्यं कारयेति //

अथ स राजा शुद्धोदनो ऽसितस्य महर्षेरर्घपाद्यमर्चनं च कृत्वा साधु सुष्ठु च परिगृह्य आसनेनोपनिमन्त्रयते स्म / सुखोपविष्टं चैनं ज्ञात्वा सगौरवः सुप्रतीत एवमाह - न स्मराम्यहं तव ऋषे दर्शनम् / तत्केनार्थेनेहाभ्यागतो ऽसि, किं प्रयोजनम्?

एवमुक्ते ऽसितो महर्षी राजानं शुद्धोदनमेतदवोचत् - पुत्रस्ते महाराज जातस्तमहं द्रष्टुकाम इहागत इति //

राजा आह - स्वपिति महर्षे कुमारः / मुहूर्तमागमय यावदुत्थास्यतीति //

ऋषिरवोचत् - न महाराज तादृशा महापुरुषाश्चिरं स्वपन्ति / जागरशीलास्तादृशाः सत्पुरुषा भवन्ति //

इति हि भिक्षवो बोधसत्त्वो ऽसितस्य महर्षेरनुकम्पया जागरणनिमित्तमकरोत् / अथ खलु राजा शुद्धोदनः सर्वार्थसिद्धं कुमारमुभाभ्यां पाणिभ्यां साधु च सुष्ठु चानुपरिगृह्य असितस्य महर्षेरन्तिकमुपनामयति स्म //

इति हि असितो महर्षिर्बोधिसत्त्वमवलोक्य द्वात्रिंशता महापुरुषलक्षणैः समन्वागतमशीत्यनुव्यञ्जनसुविचित्रगात्रं शक्रब्रह्मलोकपालातिरेकवपुषं दिनकरशतसहस्रातिरेकतेजसं सर्वाङ्गसुन्दरं दृष्ट्वा चोदानमुदानयति स्म - आश्चर्यपुद्गलो बतायं लोके प्रादुर्भूत, महाश्चर्यपुद्गलो बतायं लोके प्रादुर्भूतः इत्युत्थायासनात्कृताञ्जलिपुटो बोधिसत्त्वस्य चरणयोः प्रणिपत्य प्रदक्षिणीकृत्य च बोधिसत्त्वमङ्केन परिगृह्य निध्यायन्नवस्थितो ऽभूत् / सो ऽद्राक्षीद्बोधिसत्त्वस्य द्वात्रिंशन्महापुरुषलक्षणानि यैः समन्वागतस्य पुरुषपुद्गलस्य द्वे गती भवतो नान्या / सचेदगारमध्यावसति राजा भवति चतुरङ्गश्चक्रवर्ती पूर्ववद्यावदेवैश्वर्याधिपत्येन / सचेत्पुनरगारादनगारिकां प्रव्रजति तथागतो भविष्यति विघुष्टशब्दः सम्यक्संबुद्धः / स तं दृष्ट्वा प्रारोदीदश्रूणि च प्रवर्तयन् गम्भीरं च निश्वसति स्म //

अद्राक्षीद्राजा शुद्धोदनो ऽसितं महर्षिं रुदन्तमश्रूणि च प्रवर्तयमानं गम्भीरं च निश्वसन्तम् / दृष्ट्वा च संहर्षितरोमकूपजातस्त्वरितत्वरितं दीनमना असितं महर्षिमेतदवोचत् - किमिदमृषे रोदसि अश्रूणि च प्रवर्तयसि गम्भीरं च निश्वससि? मा खलु कुमारस्य काचिद्विप्रतिपत्तिः //

एवमुक्ते ऽसितो महर्षी राजानं शुद्धोदनमेवमाह - नाहं महाराज कुमारस्यार्थेन रोदिमि, नाप्यस्य काचिद्विप्रतिपत्तिः / किं त्वात्मानमहं रोदिमि / तत्कस्माद्धेतोः? अहं च महाराज जीर्णो वृद्धो महल्लकः / अयं च सर्वार्थसिद्धः कुमारो ऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यति / अभिसंबुध्य चानुत्तरं धर्मचक्रं प्रवर्तयिष्यति अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा अन्येन वा पुनः केनचिल्लोके सहधर्मेण / सदेवकस्य लोकस्य हिताय सुखाय धर्मं देशयिष्यति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् / स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं सत्त्वानां संप्रकाशयिष्यति / अस्मात्तं धर्मं श्रत्वा जातिधर्माणः सत्त्वा जात्या परिमोक्षन्ते / एवं जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्षन्ते / रागद्वेषमोहाग्निसंतप्तानां सत्त्वानां सद्धर्मजलवर्षेण प्रह्लादनं करिष्यति / नानाकुदृष्टिग्रहणप्रस्कन्धानां सत्त्वानां कुपथप्रयातानामृजुमार्गेण निर्वाणपथमुपनेष्यति / संसारपञ्जरचारकावरुद्धानां क्लेशबन्धनबद्धानां बन्धननिर्मोक्षं करिष्यति / अज्ञानतमस्तिमिरपटलपर्यवनद्धनयनानां सत्त्वानां प्रज्ञाचक्षुरुत्पादयिष्यति / क्लेशशल्यविद्धानां सत्त्वानां शल्योद्धरणं करिष्यति / तद्यथा महाराज औदुम्बरपुष्पं कदाचित्कर्हिचिल्लोके उत्पद्यते, एवमेव महाराज कदाचित्कर्हिचिद्बहुभिः कल्पकोटिनयुतैर्बुद्धा भगवन्तो लोके उत्पद्यन्ते / सो ऽयं कुमारो ऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / अभिसंबुध्य च सत्त्वकोटीनियुतशतसहस्राणि संसारसागरात् पारमुत्तारयिष्यति, अमृते च प्रतिष्ठापयिष्यति / वयं च तं बुद्धरत्नं न द्रक्ष्यामः / इत्येव तदहं महाराज रोदिमि परिदीनमना दीर्घं च निश्वसामि यदहमिमं नारोग्ये ऽपि राधयिष्यामि //

यथा ह्यस्माकं महाराज मन्त्रवेदशास्त्रेष्वागच्छति - नार्हति सर्वार्थसिद्धः कुमारो ऽगारमध्यावसितुम् / तत्कस्य हेतोः? तथा हि महाराज सर्वार्थसिद्धः कुमारो द्वात्रिंशता महापुरुषलक्षणैः समान्वागतः / कतमैर्द्वात्रिंशता? तद्यथा / उष्णीषशीर्षो महाराज सर्वार्थसिद्धः कुमारः / अनेन महाराज प्रथमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः / भिन्नाञ्जनमयूरकलापाभिनीलवल्लितप्रदक्षिणावर्तकेशः / समविपुलललाटः / ऊर्णा महाराज सर्वार्थसिद्धस्य कुमारस्य भ्रुवो र्मध्ये जाता हिमरजतप्रकाशा / गोपक्ष्मनेत्रः / अभिनीलनेत्रः / समचत्त्वारिंशद्दन्तः / अविरलदन्तः / शुक्लदन्तः / ब्रह्मस्वरो महाराज सर्वार्थसिद्धः कुमारः / रसरसाग्रवान् / प्रभूततनुजिह्वः / सिंहहनुः / सुसंवृत्तस्कन्धः / सप्तोत्सदः / चितान्तरांसः / सूक्ष्मसुवर्णवर्णच्छविः / स्थितो ऽनवनतप्रलम्बबाहु / सिंहपूर्वार्धकायः / न्यग्रोधपरिमण्डलो महाराज सर्वार्थसिद्धः कुमारः / एकैकरोमा / ऊर्ध्वाग्राभिप्रदक्षिणावर्तरोमाः / (वैद्य 75) कोशोपगतबस्तिगुह्यः / सुविवर्तितोरुः / एणेयमृगराजजङ्घः / दीर्घाङ्गुलिः / आयतपार्ष्णिपादः / उत्सङ्गपादः / मृदुतरुणहस्तपादः / जालाङ्गुलिहस्तपादः / दीर्घाङ्गुलिरधःक्रमतलयोर्महाराज सर्वार्थसिद्धस्य कुमारस्य चक्रे जाते चि (अर्चिष्मती प्रभास्वरे सिते) सहस्रारे सनेमिके सनाभिके / सुप्रतिष्ठितसमपादो महाराज सर्वार्थसिद्धः कुमारः / अनेन महाराज द्वात्रिंशत्तमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः / न च महाराज चक्रवर्तिनामेवंविधानि लक्षणानि भवन्ति / बोधिसत्त्वानां च तादृशानि लक्षणानि भवन्ति //

संविद्यन्ते खलु पुनर्महाराज सर्वार्थसिद्धस्य कुमारस्य काये ऽशीत्यनुव्यञ्जनानि, यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम् / अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै / कतमानि च महाराज तान्यशीत्यनुव्यञ्जनानि? तद्यथा - तुङ्गनखश्च महाराज सर्वार्थसिद्धः कुमारः / ताम्रनखश्च स्निग्धनखश्च वृत्ताङ्गुलिश्च अनुपूर्वचित्राङ्गुलिश्च गूढशिरश्च गूढगुल्फश्च घनसंधिश्च अविषमसमपादश्च आयतपार्ष्णिश्च महाराज सर्वार्थसिद्धः कुमारः / स्निग्धपाणिलेखश्च तुल्यपाणिलेखश्च गम्भीरपाणिलेखश्च अजिह्मपाणिलेखश्च अनुपूर्वपाणिलेखश्च बिम्बोष्ठश्च नोच्चवचनशब्दश्च मृदुतरुणताम्रजिह्वश्च गजगर्जिताभिस्तनितमेघस्वरमधुरमञ्जुघोषश्च परिपूर्णव्यञ्जनश्च महाराज सर्वार्थसिद्धः कुमारः / प्रलम्बबाहुश्च शुचिगात्रवस्तुसंपन्नश्च मृदुगात्रश्च विशालगात्रश्च अदीनगात्रश्च अनुपूर्वोन्नतगात्रश्च सुसमाहितगात्रश्च सुविभक्तगात्रश्च पृथुविपुलसुपरिपूर्णजानुमण्डलश्च वृत्तगात्रश्च महाराज सर्वार्थसिद्धः कुमारः / सुपरिमृष्टगात्रश्च अजिह्मवृषभगात्रश्च अनुपूर्वगात्रश्च गम्भीरनाभिश्च अजिह्मनाभिश्च अनुपूर्वनाभिश्च शुच्याचारश्च ऋषभवत्समन्तप्रासादिकश्च परमसुविशुद्धवितिमिरालोकसमन्तप्रभश्च नागविलम्बितगतिश्च महाराज सर्वार्थसिद्धः कुमारः / सिंहविक्रान्तगतिश्च ऋषभविक्रान्तगतिश्च हंसविक्रान्तगतिश्च अभिप्रदक्षिणावर्तगतिश्च वृत्तकुक्षिश्च मृष्टकुक्षिश्च अजिह्मकुक्षिश्च चापोदरश्च व्यपगतछन्ददोषनीलकालकादुष्टशरीरश्च वृत्तदंष्ट्रश्च महाराज सर्वार्थसिद्धः कुमारः /

तीक्ष्णदंष्ट्रश्च अनुपूर्वदंष्ट्रश्च तुङ्गनासश्च शुचिनयनश्च विमलनयनश्च प्रहसितनयनश्च आयतनयनश्च विशालनयनश्च नीलकुवलयदलसदृशनयनश्च सहितभ्रूश्च महाराज सर्वार्थसिद्धः कुमारः / चित्रभ्रूश्च असितभ्रूश्च संगतभ्रूश्च अनुपूर्वभ्रूश्च पीनगण्डश्च अविषमगण्डश्च व्यपगतगण्डदोषश्च अनुपहतक्रुष्टश्च सुविदितेन्द्रियश्च सुपरिपूर्णेन्द्रियश्च महाराज सर्वार्थसिद्धः कुमारः / संगतमुखललाटश्च परिपूर्णोत्तमाङ्गश्च असितकेशश्च सहितकेशश्च (सुसंगतकेशश्च) सुरभिकेशश्च अपरुषकेशश्च अनाकुलकेशश्च अनुपूर्वकेशश्च सुकुञ्चितकेशश्च श्रीवत्सस्वस्तिकनन्द्यावर्तवर्धमानसंस्थानकेशश्च महाराज सर्वार्थसिद्धः कुमारः / इमानि तानि महाराज सर्वार्थसिद्धस्य कुमारस्याशीत्यनुव्यञ्जनानि, (वैद्य 76) यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम् / अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै //

अथ खलु राजा शुद्धोदनो ऽसितस्य महर्षेः सकाशात्कुमारस्येदं व्याकरणं श्रुत्वा संतुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजात उत्थायासनाद्बोधिसत्त्वस्य चरणयोः प्रणिपत्येमां गाथामभाषत -

वन्दितस्त्वं सुरैः सेन्द्रैः ऋषिभिश्चासि पूजितः / वैद्य सर्वस्य लोकस्य वन्दे ऽहमपि त्वां विभो // lal_7.55 //

इति हि भिक्षवो राजा शुद्धोदनो ऽसितं महर्षि सार्धं नरदत्तेन भागिनेयेनानुरूपेण भक्तेन संतर्पयति स्म / संतर्प्याभिच्छाद्य प्रदक्षिणमकरोत् / अथ खल्वसितो महर्षिस्तत एवर्द्ध्या विहायसा प्राक्रमत्, येन स्वाश्रमस्तेनोपासंक्रामत् //

अथ खलु द्वयं संक्रम्य तत्र खल्वसितो महर्षिर्नरदत्तं माणवकमेतदवोचत् - यदा त्वं नरदत्त शृणुया बुद्धो लोके उत्पन्न इति, तदा त्व गत्वा तस्य शासने प्रव्रजेः / तत्ते भविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति //

तत्रेदमुच्यते - दृष्ट्वा देवगणान्नभस्तलगतान् बुद्धश्रवोद्गारिणो देवर्षीरसितो ऽद्रिकन्दरगतः प्रीतिं परां प्राप्तवान् / बुद्धो नाम पदं किमेतदिह भो हर्षावहं प्राणिनां प्रह्लाद मम काय एति सुखितं शान्तं च चित्तं परम् // lal_7.56 //

किं देवो त्वसुरो ऽथवापि स भवेद् गरुडो ऽथवा किन्नरः बुद्धो नाम किमेतदश्रुतपदं प्रीतिकरं मोदनम् / दिव्या चक्षुष प्रेक्षते दश दिशः शैलान् महीं सागरान् भूयः पश्यति चाद्भुतं बहुविधं भूमौ गिरौ सागरे // lal_7.57 //

आभेयं प्रविराजते सुरुचिरा प्रह्लादयन्ती तनुं जाताश्चैव यथा हि शैलशिखरे स्निग्धाः प्रवालाङ्कुराः / वृक्षाश्चैव यथा सुपुष्पभरिता नानाफलैर्मण्डिताः सुव्यक्तं त्रिभवे भविष्यति लघु रत्नोद्भवः शोभनः // lal_7.58 //

भूमिर्भाति यथा च पाणिसदृशा सर्वा समा निर्मला देवाश्चैव यथा प्रहृष्टमनसः खे भ्रामयन्त्यम्बरान् / यद्वत् सागरनागराजनिलये रत्नाः प्लवन्ते ऽद्भुताः सुव्यक्तं जिनरत्न जम्बुनिलये धर्माकरस्योद्भवः // lal_7.59 //

यद्वच्छान्त अपाय दुःखविगताः सत्त्वाश्च सौख्यान्विताः यद्वद्देवगणा नभस्तलगता गच्छन्ति हर्षान्विताः / यथ च स्निग्धरवं मनोज्ञ शृणुया दिव्यान संगीतिनां रतनस्या इव प्रादुर्भावु त्रिभवे यस्या निमित्ता इमे // lal_7.60 //

असितः प्रेक्षति जम्बुसाह्वयमिदं दिव्येन वै चक्षुषा सो ऽद्राक्षीत् कपिलाह्वये पुरवरे शुद्धोदनस्यालये / जातो लक्षणपुण्यतेजभरितो नारायणस्थामवान् दृष्ट्वा चात्तमना उदग्रमनसः स्थामास्य संवर्धितः // lal_7.61 //

उद्युक्तस्त्वरितो ऽतिविस्मितमना चासौ स्वशिष्यान्वितः आगत्वा कपिलाह्वयं पुरवरं द्वारि स्थितो भूपतेः / अनुबद्धा बहुप्राणिकोटिनयुता दृष्ट्वा ऋषिर्जीर्णकः अवची सारथि राज्ञ वेदय लघुं द्वारे ऋषिस्तिष्ठति // lal_7.62 //

श्रुत्वा चाशु प्रविश्य राजभवनं राज्ञस्तमाख्यातवान् द्वारे देव तपस्वि तिष्ठति महान् जीर्णो ऋषिर्जर्जरः / सो चापी अभिनन्दते ऋषिवरः प्रावेष्टु राज्ञो गृहं आज्ञा दीयतु ताव पार्थिववरा देमि प्रवेशं तेसा // lal_7.63 //

स्थाप्या चासनमस्य चाह नृपतिः गच्छ प्रवेशं दद असितः सारथिवाक्य श्रुत्व मुदितः प्रीत्या सुखेनान्वितः / शीतं वारि यथाभिकाङ्क्षि तृषितो भुक्त्वादितो चाशनं तद्वत्सुख्यभिनन्दितो ऋषिवरः तं द्रष्टु सत्त्वोत्तमम् // lal_7.64 //

जय भोः पार्थिव इत्युवाच मुदितो चायुं चिरं पालय वृद्धिं कृत्व निषण्ण दान्तमनसः शान्तेन्द्रियः सूरतः / राजा वै अभिवाद्य तं सुनिभृतं प्रोवाच किं कारणं आगामस्तव पार्थिवेन्द्र निलये तद् ब्रूहि शीघ्रं मुने // lal_7.65 //

पुत्रस्ते वररूप पारमिगतो जातो महातेजवान् द्वात्रिंशद्वरलक्षणैः कवचितो नारायणस्थामवान् / तं द्रष्टुं हि ममेप्सितं नरपते सर्वार्थसिद्धं शिशुम् इत्यर्थं समुपागतो ऽस्मि नृपते नास्त्यन्यकार्यं मम // lal_7.66 //

साधु स्वागतु याचसे किलमितः प्रीतो ऽस्मि ते दर्शनात् एषो ऽसौ शयितः कुमार वरदो द्रष्टुं न शक्यो ऽधुना / साधू ताव मूहूर्तमागम इहा यद् द्रक्ष्यसे निर्मलं चन्द्रं वा यथ पूर्णमासि विमलं तारागणैर्मण्डितम् // lal_7.67 //

यद चासौ प्रतिबुद्ध सारथिवरः परिपूर्णचन्द्रप्रभः तद राजा प्रतिगृह्य वह्निवपुषं सूर्यातिरेकप्रभम् / हन्ता पश्य ऋषे नृदेवमहितं हेमाग्रबिम्बोपमम् असितो दृष्ट्व च तस्य तौ सुचरणौ चक्राङ्कितौ शोभनौ // lal_7.68 //

प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणानि सो वन्दते अङ्के गृह्य महात्मशास्त्रकुशलो निध्यायतो प्रेक्षते / सो ऽपश्यद्वरलक्षणैः कवचितं नारायणस्थामवं शीर्षं कम्प्य स वेदशास्त्रकुशलो द्वे तस्य पश्यद्गती // lal_7.69 //

राजा वा भवि चक्रवर्ति बलवान् बुद्धो व लोकोत्तमः बाष्पं त्यक्त सुदीनकायमनसो गम्भीर निश्वस्य च / उद्विग्नश्च बभूव पार्थिववरः किं ब्राह्मणो रोदिती मा विघ्नं खलु पश्यते ऽयमसितः सर्वार्थसिद्धस्य मे // lal_7.70 //

भूतं व्याहर किं तु रोदिषि ऋषे श्रेयो ऽथ किं पापकं पापं नास्ति न चान्तरायमिह भोः सर्वार्थसिद्धस्य ते / आत्मानं बहु शोचमी नरपते जीर्णो ऽस्मि यज्जर्जरः यदयं भेष्यति बुद्ध लोकमहितो धर्मं यदा वक्ष्यते // lal_7.71 //

न द्रक्षे अहु लब्धप्रीतिमनसो इत्यर्थ रोदाम्यहं यस्या कायि भवन्ति लक्षणवरा द्वात्रिंशति निर्मला / द्वे तस्या गतयो न अन्य तृतिया जानीष्व एवं नृप राजा वा भवि चक्रवर्ति बलवान् बुद्धो ऽथ लोकोत्तमः // lal_7.72 //

नायं कामगुणेभिरर्थिकु पुनः बुद्धो अयं भेष्यति श्रुत्वा व्याकरणं ऋषेः स नृपतिः प्रीतिं सुखं लब्धवान् / प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणावसौ वन्दते देवैस्त्वं स्वभिपूजितः सुबलवान् ऋषिभिश्च संवर्णितः // lal_7.73 //

वन्दे त्वां वरसार्थवाह त्रिभवे सर्वे जगे पूजितं असितः प्राह च भागिनेय मुदितः संश्रूयतां भाषतो / बुद्धा बोधि यदा शृणोषि जगतो वर्तेति चक्रं ह्ययं शीघ्रं प्रव्रज शासने ऽस्य मुनये तत्प्राप्स्यसे निर्वृतिम् // lal_7.74 //

वन्दित्वा चरणौ ह्यसौ मुनिवरः कृत्वा च प्रादक्षिणं लाभा ते नृपते सुलब्ध विपुला यस्येदृशस्ते सुतः / एषो लोक सदेवकं समनुजं धर्मेण तर्पेष्यति निष्क्रामं कपिलाह्वयादृषिवरो ऽरण्ये स्थितः स्वाश्रमे // lal_7.75 //

इति //

इति हि भिक्षवो जातमात्रस्य बोधिसत्त्वस्य महेश्वरो देवपुत्रः शुद्धावासकायिकान् देवपुत्रानामन्त्र्यैवमाह - यो ऽसौ मार्षा असंख्येयकल्पकोटिनियुतशतसहस्रसुकृतकर्मदानशीलक्षान्तिवीर्यध्यानप्रज्ञोपायश्रतचरणव्रततपःसुचरितचरणः महामैत्रीमहाकरुणामहामुदितासमन्वागतः उपेक्षासमुद्गतचित्तः सर्वसत्त्वहितसुखोद्यतः दृढवीर्यकवचसुसंनाहसंनद्धः पूर्वजिनकृतकुशलमूलोदितः शतपुण्यलक्षणसमलंकृतः सुकृतनिश्चयपराक्रमः परचक्रप्रमथनः सुविमलशुद्धाशयसंपन्नः सुचरितचरणो महाज्ञानकेतुध्वजः मारबलान्तकरणः त्रिसाहस्रमहासाहस्रसार्थवाहः देवमनुष्यपूजितमहायज्ञयष्टः सुसमृद्धपुण्यनिचयनिःसरणाभिप्रायो जातिजरामरणान्तकरः सुजातजातः इक्ष्वाकुराजकुलसंभूतो जगद्विबोधयिता बोधिसत्त्वो महासत्त्वो मनुष्यलोक उपपन्नः / न चिरादसावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / हन्त गच्छामस्तमभिवन्दितुं मानयितुं पूजयितुमभिस्तोतुमन्येषां च मानाभिभूतानां देवपुत्राणां मानमददर्पच्छेदनार्थम् / ते ऽस्मानभिवन्दमानान् दृष्ट्वा ते ऽपि बोधिसत्त्वं वन्दिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति च / तत्तेषां भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय यावदमृताधिगमाय / राज्ञश्च शुद्धोदनस्य जयवृद्धिरनुश्राविता भविष्यति / तत्त्वव्याकरणेन च बोधिसत्त्वं व्याकृत्य पुनरप्यागमिष्याम इति //

अथ खलु महेश्वरो देवपुत्रो द्वादशभिर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतः सर्वकपिलवस्तुमहानगरमवभासेन स्फुरयित्वा येन राज्ञः शुद्धोदनस्य निवेशनं तेनोपसंक्रामत् / उपसंक्रम्य दौवारिके निवेद्य राज्ञाभ्यनुज्ञातो राजकुलं प्रविश्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्यैकांसमुत्तरासङ्गं कृत्वां अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य बोधिसत्त्वमङ्के समारोप्य राजानं शुद्धोदनमाश्वासयति स्म - तुष्टो महाराज भव परमप्रीतश्च / तत्कस्माद्धेतोः? यथा महाराज बोधिसत्त्वस्य लक्षणैरनुव्यञ्जनैश्च कायः समलंकृतः, यथा च कुमारो ऽभिभवति सदेवमानुषासुरलोकं वर्णेन तेजसा च यशसा लक्ष्म्या च, निःसंशयं महाराज बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते //

इति हि भिक्षवो महेश्वरो देवपुत्रः सार्धं शुद्धावासकायिकैर्देवपुत्रैर्बोधिसत्त्वस्य महत्पूजोपस्थानं कृत्वा बोधिसत्त्वं तत्त्वव्याकरणेन व्याकृत्य पुनरपि स्वभवनं प्राक्रामत् //

तत्रेदमुच्यते -

जातस्य तस्य गुणसागरसागरस्य ज्ञात्वा सुरेश्वरमरुद् ब्रुवते उदग्रः / यस्या सुदुर्लभश्रवो बहुकल्पकोट्या हन्तेथ तं व्रजम पूजयितुं मुनीन्द्रम् // lal_7.76 //

परिपूर्णद्वादशसहस्र मरुद्विशुद्धा मणिरत्नचूडसमलंकृत इर्यवन्तः / कपिलाह्वयं पुरवरं समुपेत्य शीघ्रं द्वारि स्थिता नरपतेः सुविलम्बचूडाः // lal_7.77 //

ते द्वारपालमवदन् सुमनोज्ञघोषाः प्रतिवेदयस्व नृपते भवनं प्रविश्य / दौवारिको वचन श्रुत्व गृहं प्रविष्टः प्रह्वः कृताञ्जलिपुटो नृपतिं बभाषे // lal_7.78 //

जय देव नित्यमनुपालय दीर्घमायुः द्वारे स्थिता विपुलपुण्यविशुद्धभासः / मणिरत्नचूडसुविभूषित इर्यवन्तः परिपूर्णचन्द्रवदना शशिनिर्मलाभाः // lal_7.79 //

छायां न तेष नृपते क्वचिदप्यपश्यन् शब्दं न चैव चरणोत्क्षिपणे शृणोमि / न च मेदिनीं विचरतो रजमुत्क्षिपन्ति तृप्तिं न यान्ति च जनाः समुदीक्षतां वै // lal_7.80 //

कायप्रभा सुविपुला च विभाति तेषां वाचा मनोज्ञ यथ नास्ति ह मानुषाणाम् / गम्भिरश्लक्ष्णसुशिला च सुआकरा च शङ्का हि मे सुरगणा न हि ते मनुष्याः // lal_7.81 //

वरपुष्पमाल्यअनुलेपनपट्टदामा पाणी गृहीत्वन उदीक्षिषु गौरवेण / निःसंशयं नृपति द्रष्टु कुमारमेते देवाधिदेव मरुतागत पूजनार्थम् // lal_7.82 //

राजा निशाम्य वचनं परमं उदग्रो गच्छा भणाहि प्रविशन्तु गृहं भवन्तः / न हि मानुषाण इयमीदृश ऋद्धि काचि यथ भाषसे च गुण तेष यथा च इर्या // lal_7.83 //

दौवारिकः कृतपुटो मरुतैवमाह प्रविशी भवन्त अनुज्ञातु नराधिपेन / ते हृष्टतुष्टमनसो वरमाल्यहस्ता गेहं प्रविष्ट नृपतेरमरालयं वा // lal_7.84 //

दृष्ट्वा च तां सुरवरां प्रविशन्त गेहं प्रत्युत्थितो नृपतिरञ्जलि संप्रगृह्य / संविद्ययन्त इम आसन रत्नपादा अत्रा निषीदत भवन्ननुकम्प्य बुद्ध्या // lal_7.85 //

ते मानदर्पविगता स्थित आसनेषु यस्यार्थि आगत इहा नृपते शृणुष्व / पुत्रस्तवातिपृथुपुण्यविशुद्धकायो जातः सुजातचरणं वय द्रष्टुकामाः // lal_7.86 //

अस्मो विधिज्ञ वरलक्षणलक्षणज्ञा येषां तथा भवति या गति यः प्रयोगः / तत्साधु पार्थिववर प्रजहस्व खेदं पश्याम लक्षणविचित्रविभूषिताङ्गम् // lal_7.87 //

स स्त्रीगणैः परिवृतो नृपतिः प्रहृष्टो गृह्य कुमारमसमं ज्वलनार्चिवर्णम् / उपनामयन् सुरवरां सुविलम्बचूडां द्वारात्तु निष्क्रमतु कम्पित त्रिसहस्राः // lal_7.88 //

दृष्ट्वैव ते सुरवरा क्रम नायकस्य ताम्रा नखां विमलपत्रविशुद्धतेजा / ते उत्थिता त्वरित रूपविलम्बचूडा मूर्ध्नाभिवन्दिषु क्रमां विमलप्रभस्य // lal_7.89 //

यथ लक्षणा यथ च दर्शित लक्षिता च यथ पुण्यतेजि शिरि मूर्ध विलोकितं च / यथ इर्य नेत्र विमलाप्रभ ऊर्णकोशा निःसंशयं स्पृशति बोधि विजित्य मारम् // lal_7.90 //

ते तं स्तुवन्ति गुणभूत यथार्थदर्शी ध्यायी गुणां विगतक्लेशतमोनुदस्य / सुचिरेण सत्त्वरतनस्य हि प्रादुर्भावो जातीजरामरणक्लेशरणंजहस्य // lal_7.91 //

आदीप्त सर्वत्रिभवं त्रिभिरग्नितप्तं संकल्परागविषयारणिउच्छ्रितेन / त्वं धर्ममेघ त्रिसहस्र स्फरित्व धीरा अमृतोदकेन प्रशमेष्यसि क्लेशतापम् // lal_7.92 //

त्वं मैत्रवाक्य करुणान्वित श्लक्ष्णवाक्य ब्रह्मस्वरारचितघोष मनोज्ञवाणि / त्रिसहस्र आज्ञपरिविज्ञपनी जगस्य क्षिप्रं प्रमुञ्च भगवन् महबुद्धघोषम् // lal_7.93 //

भग्ना कुतीर्थिकगणा विपरीतदृष्टिः भवरागबन्धननिमग्न स्थिता भवाग्रे / हेतु प्रतीत्य भव शून्य श्रुणित्व धर्मा सिंहस्य क्रोष्टुकगणैव पलायिनास्ते // lal_7.94 //

भित्त्वा अविद्यपटलं महक्लेशधूमं पर्युत्थिता जनतये नियतप्रकाशे / ज्ञानार्चिप्रज्ञप्रभविद्युविलोकितेन सर्वं जगे विधमये महदन्धकारम् // lal_7.95 //

लाभा सुलब्ध विपुला मरुमानुषाणां यत्रोद्भवा ऽद्भुत इहेदृशि शुद्धसत्त्वे / पिथिता अपायपथ स्फीत मरुत्पथानि भेष्यन्ति सत्त्वरतनेन विबोधकेन // lal_7.96 //

वर्षित्व दिव्यकुसुमां कपिलाह्वये ऽस्मिन् कृत्वा प्रदक्षिण स्तवित्व च गौरवेण / बुद्ध सुबुद्ध इति वाक्यमुदीरयन्तः प्रक्रान्त ते सुरगणा गगने सलीलाः // lal_7.97 //

इति //

इति श्रीललितविस्तरे जन्मपरिवर्तो नाम सप्तमो ऽध्यायः //

स्तर्त् परिवर्त 8

देवकुलोपनयनपरिवर्तो ऽष्टमः /

इति हि भिक्षवो यामेव रात्रिं बोधिसत्त्वो जातस्तस्यामेव रात्र्यां विंशति कन्यासहस्राणि क्षत्रियब्राह्मणनैगमगृहपतिमहाशालकुलेषु जाताः / ताश्च सर्वा मातापितृभिर्बोधिसत्त्वाय दत्ता उपस्थानपरिचर्यायै / विंशति च कन्यासहस्राणि राज्ञा शुद्धोदनेन दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै / विंशति च कन्यासहस्राणि मित्रामात्यात्मज्ञातिसालोहितैर्दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै / विंशति च कन्यासहस्राणि अमात्यपार्षद्यैर्दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै //

तदा च भिक्षवो महल्लकमहल्लिकाः शाक्याः संनिपत्य राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः - यत्खलु देव जानीयाः - देवकुलं कुमार उपनीयतामिति / राजा आह - साधु, उपनीयतां कुमारः / तेन हि मण्ड्यतां नगरम् / उपशोभ्यन्तां वीथिचत्वरशृङ्गाटकान्तरापणरथ्यामुखानि / अपनीयन्ताममङ्गल्याः काणकुब्जबधिरान्धमूकविसंस्थितविरूपरूपा अपरिपूर्णेन्द्रियाः / उपनाम्यन्तां मङ्गलानि / घुष्यन्तां पुण्यभेर्यः / ताड्यन्तां मङ्गल्यघण्टाः / समलंक्रियन्तां पुरवरद्वाराणि / वाद्यन्तां सुमनोज्ञतूर्यतालावचराणि / संनिपात्यन्तां सर्वकोट्टराजानः / एकीभवन्तु श्रेष्ठिगृहपत्यमात्यदौवारिकपारिषद्याः / युज्यन्तां कन्यारथाः / उपनाम्यन्तां पूर्णकुम्भाः / संनिपात्यन्तामधीयाना ब्राह्मणाः / अलंक्रियन्तां देवकुलानि / इति हि भिक्षवो यथोक्तपूर्वं सर्वं कृतमभूत् //

ततो राजा शुद्धोदनः स्वगृहं प्रविश्य महाप्रजापतीं गौतमीमामन्त्र्यैवमाह - अलंक्रियन्तां कुमारः देवकुलमुपनेष्यत इति / साध्विति प्रतिश्रुत्य महाप्रजापती गौतमी कुमारं मण्डयति स्म //

ततः कुमारो मण्ड्यमानः प्रहसितवदनो व्यपगतभृकुटिकः परममधुरया वाचा मातृस्वसारमेवमाह - अम्ब कुत्राहमुपनेष्यत इति / आह - देवकुलं पुत्रेति / ततः कुमारः स्मितमुपदर्शयन् प्रहसितवदनो मातृस्वसारं गाथाभिरध्यभाषत -

जातस्य मह्यमिह कम्पित त्रिसहस्रं शक्रश्च ब्रह्म असुराश्च महोरगाश्च / चन्द्रश्च सूर्य तथ वैश्रवणः कुमारो मूर्ध्ना क्रमेषु निपतित्व नमस्ययन्ति // lal_8.1 //

कतमो ऽन्यु देव मम उत्तरि यो विशिष्टो यस्मिन् मम प्रणयसे त्वमिहाद्य अम्ब / देवातिदेव अहु उत्तमु सर्वदेवैः देवो न मे ऽस्ति सदृशः कुत उत्तरं वा // lal_8.2 //

लोकानुवर्तन प्रती इति अम्ब यास्ये दृष्त्वा विकुर्वित ममा जनता उदग्राः / अधिमात्रु गौरव करिष्यति चित्रकारः ज्ञास्यन्ति देवमनुजा स्वय देवदेवः // lal_8.3 //

इति हि भिक्षवः सर्वैर्वर्णैः स्तुतिमङ्गलैः प्रत्युपस्थितैरपरिमितालंकारालंकृतेषु वीथिचत्वरशृङ्गाटकान्तरापणमुखेष्वन्तःपुरे कुमारस्य रथमलंकृत्य राजा शुद्धोदनो ब्राह्मणनैगमश्रेष्ठिगृहपत्यमात्यकोट्टराजदौवारिकपारिषद्यमित्रज्ञातिपरिवृतः पुरस्कृतो धूपनधूपितेन मुक्तपुष्पाभिकीर्णेन हयगजरथपत्तिकलिलेनोच्छ्रितछत्रध्वजपताकेन नानातूर्यसंप्रवादितेन मार्गेण कुमारं गृहीत्वा गच्छति स्म / देवताशतसहस्राणि बोधिसत्त्वस्य रथं वहन्ति स्म / अनेकानि च देवपुत्राप्सरःकोटिनियुतशतसहस्राणि गगनतलगतानि पुष्पवर्षाण्यभिप्रवर्षन्ति स्म / तूर्याणि च प्रवादयन्ति स्म / इति हि राजा शुद्धोदनो महता राजव्यूहेन महता राजर्द्ध्या महता राजानुभावेन कुमारं गृहीत्वा देवकुलं प्रविशति स्म / समनन्तरप्रतिष्ठापितश्च बोधिसत्त्वेन दक्षिणश्चरणयोः क्रमतलस्तस्मिन् देवकुले अथ ता अचेतन्यो देवप्रतिमाः तद्यथा - शिवस्कन्दनारायणकुबेरचन्द्रसूर्यवैश्रवणशक्रब्रह्मलोकपालप्रभृतयः प्रतिमाः - सर्वाः स्वेभ्यः स्वेभ्यः स्थानेभ्यो व्युत्थाय बोधिसत्त्वस्य क्रमतलयोर्निपतन्ति स्म / तत्र देवमनुष्यशतसहस्राणि हीहीकारकिलकिलाप्रमुखैः प्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् / चैलविक्षेपाणि चाकार्षुः / सर्वं च कपिलवस्तुमहानगरं षङ्विकारं प्राकम्पितम् / दिव्यानि च कुसुमानि प्रावर्षन् / तूर्यशतसहस्राणि चाघट्टितानि प्रणेदुः / येषां च देवानां ताः प्रतिमाः, ते सर्वे स्वस्वरूपमुपदर्श्येमा गाथा अभाषत -

नो मेरू गिरिराज पर्वतवरो जातू नमे सर्षपे नो वा सागर नागराजनिलयो जातू नमे गोष्पदे / चन्द्रादित्य प्रभंकरा प्रभकरा खद्योतके नो नमे प्रज्ञापुण्यकुलोदितो गुणधरः कस्मान्नमे देवते // lal_8.4 //

यद्वत् सर्षप गोष्पदे व सलिलं खद्योतका वा भवेत् एवं च त्रिसहस्र देवमनुजा ये केचि मानाश्रिताः / मेरूसागरचन्द्रसूर्यसदृशो लोके स्वयंभूत्तमो यं लोको ह्यभिवन्द्य लाभ लभते स्वर्गं तथा निर्वृतिम् // lal_8.5 //

अस्मिन् खलु पुनर्भिक्षवो बोधिसत्त्वेन महासत्त्वेन देवकुले प्रवेशे संदर्श्यमाने द्वात्रिंशतां देवपुत्रशतसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पद्यन्ते / अयं भिक्षवो हेतुरयं प्रत्ययो येनोपेक्षको बोधिसत्त्वो भवति स्म देवकुलमुपनीयमान इति //

इति श्रीललितविस्तरे देवकुलोपनयनपरिवर्तो नाम अष्टमो ऽध्यायः //

स्तर्त् परिवर्त 9

आभरणपरिवर्तो नवमः /

अथ खलु भिक्षव उदयनो नाम ब्राह्मणो राज्ञः पुरोहित उदायिनः पिता, स पञ्चमात्रैर्ब्राह्मणशतैः परिवृतो हस्तोत्तरे चित्रानक्षत्रे राजानं शुद्धोदनमुपसंक्रम्यैवमाह - यत्खलु देवो जानीयादाभरणानि कुमाराय क्रियन्तामिति / तं राजा आह - बाढम् / गाढं क्रियतामिति //

तत्र राज्ञा शुद्धोदनेन पञ्चमात्रैश्च शक्यशतैः पञ्चमात्राण्याभरणशतानि कारितान्यभूवन् / तद्यथा - हस्ताभरणानि पादाभरणानि मूर्धाभरणानि कण्ठाभरणानि मुद्रिकाभरणानि कर्णिकायाकेयूराणि मेखलासुवर्णसूत्राणि किङ्किणीजालानि रत्नजालानि मणिप्रत्युप्तानि पादुका नानारत्नसमलंकृता हाराः कटका हर्षा मुकुटानि / कारयित्वा च पुष्यनक्षत्रयोगेनानुयुक्तेन ते शाक्या राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः - हन्त देव मण्ड्यतां कुमार इति / राजा आह - अलमलंकृतश्च पूजितश्च भवद्भिः कुमारः / मयापि (कुमारस्य) सर्वाभरणानि कारितानि / ते ऽवोचन् - सप्तसप्तरात्रिंदिवान्यप्यस्माकमाभरणानि कुमारः काय आबध्नातु / ततो ऽस्माकममोघो व्यायामो भविष्यतीति //

तत्र रात्रौ विनिर्गतायामादित्य उदिते विमलव्यूहनामोद्यानं तत्र बोधिसत्त्वो निर्गतो ऽभूत् / तत्र महाप्रजापत्या गौतम्या बोधिसत्त्वो ऽङ्के गृहीतो ऽभुत् / अशीतिश्च स्त्रीसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म / दश च कन्यासहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म / पञ्च च ब्राह्मणसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म / तत्र यानि भद्रिकेण शाक्यराजेनाभरणानि कारितान्यभूवन्, तानि बोधिसत्त्वस्य काये आबध्यन्ते स्म / तानि समनन्तराबद्धानि बोधिसत्त्वस्य कायप्रभया जिह्मीकृतान्यभूवन्, न भासन्ते स्म, न तपन्ति स्म, न विरोचन्ति स्म / तद्यथापि नाम जाम्बूनदस्य सुवर्णस्य पुरतो मसिपिण्ड उपनिक्षिप्तो न भासति न तपति न विरोचते, एवमेव तान्याभरणानि बोधिसत्त्वस्य कायप्रभयास्पृष्टानि न भासन्ते न तपन्ति न विरोचन्ते स्म / एवं या या आभरणविकृतिर्बोधिसत्त्वस्य काय आबध्यते स्म, सा सा जिह्मीभवति स्म तद्यथापि नाम मसिपिण्डः //

तत्र विमला नामोद्यानदेवता सा औदारिकमात्मभावमभिसंदर्श्य पुरतः स्थित्वा राजानं शुद्धोदनं तं च महान्तं शाक्यगणं गाथाभिरभिभाषते स्म -

सर्वेयं त्रिसहस्र मेदिनी सनगरनिगमा पूर्णा काञ्चनसंचिता भवेत् सुरुचिर विमला / एका काकिणि जाम्बुकाञ्चने भवति उपहता ना भासी इतरः स काञ्चन प्रभसिरिरहितः // lal_9.1 //

जाम्बूकाञ्चनसंनिभा पुनर्भवेत् सकर इय मही रोमे आभ प्रमुक्त नायके हिरिसिरिभरिते / ना भासी न तपी न शोभते न च प्रभवति आभाये सुगतस्य कायि नो भवति यथ मसिः // lal_9.2 //

स्वे तेजेन अयं स्वलंकृतो गुणशतभरितो नो तस्याभरणा विरोचिषू सुविमलवपुषः / चन्द्रसूर्यप्रभाश्च ज्योतिषा तथ मणिज्वलनाः शक्रबह्मप्रभा न भासते पुरत शिरिघने // lal_9.3 //

यस्या लक्षणि कायु चित्रितः पुरिमशुभफलैः किं तस्याभरणेभिरित्वरैः परकृतकरणैः / अपनेथा भरणा म हेठता अबुध बुधकरं नायं कृत्तिमभूषणार्थिक परममतिकरः // lal_9.4 //

चेटस्याभरणानि देथिमे सुरुचिर विमला सहजातो य सुभूषि छन्दको नृपतिकुलशुभे / तुष्टा शाकिय विस्मिताश्च अभवन्प्रमुदितमनसो वृद्धिः शाक्यकुलनन्दस्य चोत्तमा भविष्यति विपुला // lal_9.5 //

इत्युक्त्वा सा देवता बोधिसत्त्वं दिव्यैः पुष्पैरभ्यवकीर्य तत्रैवान्तरधात् //

// इति श्रीललितविस्तरे आभरणपरिवर्तो नाम नवमो ऽध्यायः //

स्तर्त् परिवर्त 10

लिपिशालासंदर्शनपरिवर्तो दशमः /

इति हि भिक्षवः संवृद्धः कुमारः / तदा माङ्गल्यशतसहस्रैः लिपिशालामुपनीयते स्म दशभिर्दारकसहस्रैः परिवृतः पुरस्कृतः, दशभिश्च रथसहस्रैः खादनीयभोजनीयस्वादनीयपरिपूर्णैर्हिरण्यसुवर्णपरिपूर्णैश्च / येन कपिलवस्तुनि महानगरे वीथिचत्वररथ्यान्तरापणमुखेष्वभ्यवकीर्यते स्म अभिविश्राम्यन्ते / अष्टाभिश्च तूर्यशतसहस्रैः प्रघुष्यमाणैर्महता च पुष्पवर्षेणाभिप्रवर्षता वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलेषु कन्याशतसहस्राणि सर्वालंकारभूषिताः स्थिता अभूवन् / बोधिसत्त्वं प्रेक्षमाणाः कुसुमानि च क्षिपन्ति स्म / अष्टौ च मरुत्कन्यासहस्राणि विगलितालंकाराभरणालंकृतानि रत्नभद्रंकरेण गृहीतानि मार्गं शोधयन्त्यो बोधिसत्त्वस्य पुरतो गच्छन्ति स्म / देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश्चार्धकायिका गगनतलात्पुष्पपट्टदामान्यभिप्रलम्बयन्ति स्म / सर्वे च शाक्यगणाः शुद्धोदनं राजानं पुरस्कृत्य बोधिसत्त्वस्य पुरतो गच्छन्ति स्म / अनेनैवंरूपेण व्यूहेन बोधिसत्त्वो लिपिशालामुपनीयते स्म //

समनन्तरप्रवेशितश्च बोधिसत्त्वो लिपिशालाम् / अथ विश्वामित्रो नाम दारकाचार्यो बोधिसत्त्वस्य श्रियं तेजश्चासहमानो धरणितले निविष्टो ऽधोमुखः प्रपतति स्म / तं तथा प्रपतितं दृष्ट्वा शुभाङ्गो नाम तुषितकायिको देवपुत्रो दक्षिणेन करतलेन परिगृह्योत्थापयति स्म / उत्थाप्य च गगनतलस्थो राजानं शुद्धोदनं तं च महान्तं जनकायं गाथाभिरभ्यभाषत् -

शास्त्राणि यानि प्रचलन्ति मनुष्यलोके संख्या लिपिश्च गणनापि च धातुतन्त्रम् / ये शिल्पयोग पृथु लौकिक अप्रमेयाः तेष्वेषु शिक्षितु पुरा बहुकल्पकोट्यः // lal_10.1 //

किं तू जनस्य अनुवर्तनतां करोति लिपिशालमागतु सुशिक्षितु शिष्यणार्थम् / परिपाचनार्थ बहुदारक अग्रयाने अन्यांश्च सत्त्वनयुतानमृते विनेतुम् // lal_10.2 //

लोकोत्तरेषु चतुसत्यपथे विधिज्ञो हेतुप्रतीत्यकुशलो यथ संभवन्ति / यथ चानिरोधक्षयु संस्थितु शीतिभावः तस्मिन्विधिज्ञ किमथो लिपिशास्त्रमात्रे // lal_10.3 //

नेतस्य आचरिय उत्तरि वा त्रिलोके सर्वेषु देवमनुजेष्वयमेव जेष्ठः / नामापि तेष लिपिनां न हि वित्थ यूयं यत्रेषु शिक्षितु पुरा बहुकल्पकोट्यः // lal_10.4 //

सो चित्तधार जगतां विविधा विचित्रा एकक्षणेन अयु जानति शुद्धसत्त्वः / अदृश्यरूपरहितस्य गतिं च वेत्ति किं वा पुनो ऽथ लिपिनो ऽक्षरदृश्यरूपाम् // lal_10.5 //

इत्युक्त्वा स देवपुत्रो बोधिसत्त्वं दिव्यैः कुसुमैरभ्यर्च्य तत्रैवान्तर्दधे / तत्र धात्र्यश्च चेटीवर्गाश्च स्थापिता अभूवन् / परिशेषाः शाक्याः शुद्धोदनप्रमुखाः प्रक्रामन्तः //

अथ बोधिसत्त्व उरगसारचन्दनमयं लिपिफलकमादाय दिव्यार्षसुवर्णतिरकं समन्तान्मणिरत्नप्रत्युप्तं विश्वामित्रमाचार्यमेवमाह - कतमां मे भो उपाध्याय लिपिं शिक्षापयसि / ब्राह्मीखरोष्टीपुष्करसारिं अङ्गलिपिं वङ्गलिपिं मगधलिपिं मङ्गल्यलिपिं अङ्गुलीयलिपिं शकारिलिपिं ब्रह्मवलिलिपिं पारुष्यलिपिं द्राविडलिपिं किरातलिपिं दाक्षिण्यलिपिं उग्रलिपिं संख्यालिपिं अनुलोमलिपिं अवमूर्धलिपिं दरदलिपिं खाष्यलिपिं चीनलिपिं लूनलिपिं हूणलिपिं मध्याक्षरविस्तरलिपिं पुष्पलिपिं देवलिपिं नागलिपिं यक्षलिपिं गन्धर्वलिपिं किन्नरलिपिं महोरगलिपिं असुरलिपिं गरुडलिपिं मृगचक्रलिपिं वायसरुतलिपिं भौमदेवलिपिं अन्तरीक्षदेवलिपिं उत्तरकुरुद्वीपलिपिं अपरगोडानीलिपिं पूर्वविदेहलिपिं उत्क्षेपलिपिं निक्षेपलिपिं विक्षेपलिपिं प्रक्षेपलिपिं सागरलिपिं वज्रलिपिं लेखप्रतिलेखलिपिं अनुद्रुतलिपिं शास्त्रावर्तां गणनावर्तलिपिं उत्क्षेपावर्तलिपिं निक्षेपावर्तलिपिं पादलिखितलिपिं द्विरुत्तरपदसंधिलिपिं यावद्दशोत्तरपदसंधिलिपिं मध्याहारिणीलिपिं सर्वरुतसंग्रहणीलिपिं विद्यानुलोमाविमिश्रितलिपिं ऋषितपस्तप्तां रोचमानां धरणीप्रेक्षिणीलिपिं गगनप्रेक्षिणीलिपिं सर्वौषधिनिष्यन्दां सर्वसारसंग्रहणीं सर्वभूतरुतग्रहणीम् / आसां भो उपाध्याय चतुष्षष्टीलिपीनां कतमां त्वं शिष्यापयिष्यसि?

अथ विश्वामित्रो दारकाचार्यो विस्मितः प्रहसितवदनो निहतमानमददर्प इमां गाथामभाषत -

आश्चर्यं शुद्धसत्त्वस्य लोके लोकानुवर्तिनो / शिक्षितः सर्वशास्त्रेषु लिपिशालामुपागतः // lal_10.6 //

येषामहं नामधेयं लिपीनां न प्रजानमि / तत्रैष शिक्षितः सन्तो लिपिशालामुपागतः // lal_10.7 //

वक्त्रं चास्य न पश्यामि मूर्धानं तस्य नैव च / शिष्ययिष्ये कथं ह्येनं लिपिप्रज्ञाय पारगम् // lal_10.8 //

देवदेवो ह्यतिदेवः सर्वदेवोत्तमो विभुः / असमश्च विशिष्टश्च लोकेष्वप्रतिपुद्गलः // lal_10.9 //

अस्यैव त्वनुभावेन प्रज्ञोपाये विशेषतः / शिक्षितं शिष्ययिष्यामि सर्वलोकपरायणम् // lal_10.10 //

इति हि भिक्षवो दश दारकसहस्राणि बोधिसत्त्वेन सार्धं लिपिं शिष्यन्ते स्म / तत्र बोधिसत्त्वाधिस्थानेन तेषां दारकाणां मातृकां वाचयतां यदा अकारं परिकीर्तयन्ति स्म, तदा अनित्यः सर्वसंस्कारशब्दो निश्चरति स्म / आकारे परिकीर्त्यमाने आत्मपरहितशब्दो निश्चरति स्म / इकारे इन्द्रियवैकल्यशब्दः / ईकारे ईतिबहुलं जगदिति / उकारे उपद्रवबहुलं जगदिति / ऊकारे ऊनसत्त्वं जगदिति / एकारे एषणासमुत्थानदोषशब्दः / ऐकारे ऐर्यापथः श्रेयानिति / ओकारे ओघोत्तरशब्दः / औकारे औपपादुकशब्दः / अंकारे अमोघोत्पत्तिशब्दः / अःकारे अस्तंगमनशब्दो निश्चरति स्म / ककारे कर्मविपाकावतारशब्दः / खकारे खसमसर्वधर्मशब्दः / गकारे गम्भीरधर्मप्रतीत्यसमुत्पादावतारशब्दः / घकारे घनपटलाविद्यामोहान्धकारविधमनशब्दः / ङकारे ऽङ्गविशुद्धिशब्दः / चकारे चतुरार्यसत्यशब्दः / छकारे छन्दरागप्रहाणशब्दः / जकारे जरामरणसमतिक्रमणशब्दः / झकारे झषध्वजबलनिग्रहणशब्दः / ञकारे ज्ञापनशब्दः / टकारे पटोपच्छेदनशब्दः / ठकारे ठपनीयप्रश्नशब्दः / डकारे डमरमारनिग्रहणशब्दः / ढकारे मीढविषया इति / णकारे रेणुक्लेशा इति / तकारे तथतासंभेदशब्दः / थकारे थामबलवेगवैशारद्यशब्दः / दकारे दानदमसंयमसौरभ्यशब्दः / धकारे धनमार्याणां सप्तविधमिति / नकारे नामरूपपरिज्ञाशब्दः / पकारे परमार्थशब्दः / फकारे फलप्राप्तिसाक्षात्क्रियाशब्दः / बकारे बन्धनमोक्षशब्दः / भकारे भवविभवशब्दः / मकारे मदमानोपशमनशब्दः / यकारे यथावद्धर्मप्रतिवेधशब्दः / रकारे रत्यरतिपरमार्थरतिशब्दः / लकारे लताछेदनशब्दः / वकारे वरयानशब्दः / शकारे शमथविपश्यनाशब्दः / षकारे षडायतननिग्रहणाभिज्ञज्ञानावाप्तिशब्दः / सकारे सर्वज्ञज्ञानाभिसंबोधनशब्दः / हकारे हतक्लेशविरागशब्दः / क्षकारे परिकीर्त्यमाने क्षणपर्यन्ताभिलाप्यसर्वधर्मशब्दो निश्चरति स्म //

इति हि भिक्षवस्तेषां दारकाणां मातृकां वाचयतां बोधिसत्त्वानुभावेनैव प्रमुखान्यसंख्येयानि धर्ममुखशतसहस्राणि निश्चरन्ति स्म //

तदानुपूर्वेण बोधिसत्त्वेन लिपिशालास्थितेन द्वात्रिंशद्दारकसहस्राणि परिपाचितान्यभूवन् / अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि द्वात्रिंशद्दारिकासहस्राणि / अयं हेतुरयं प्रत्ययो यच्छिक्षितो ऽपि बोधिसत्त्वो लिपिशालामुपागच्छति स्म //

// इति श्रीललितविस्तरे लिपिशालासंदर्शनपरिवर्तो नाम दशमो ऽध्यायः //

स्तर्त् परिवर्त 11

कृषिग्रामपरिवर्त एकादशः /

इति हि भिक्षवो यावद्विवृद्धः कुमारः / अथापरेण समयेन कुमारस्तदन्यैः कुमारैरमात्यपुत्रैः सार्धं कृषिग्रामवलोकयितुं गच्छति स्म / अवलोक्य च कृषिकर्मान्तमन्यत उद्यानभूमिं प्रविशति स्म / संविग्नमनास्तत्र बोधिसत्त्व एकाकी अद्वितीयो ऽनुचंक्रम्यमाणो ऽनुविचरन् जम्बुवृक्षमपश्यत् प्रासादिकं दर्शनीयम् / तत्र बोधिसत्त्वश्छायायां पर्यङ्केन निषीदति स्म / निषण्णश्च बोधिसत्त्वश्चित्तैकाग्रतामासादयति स्म / आसाद्य च विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति स्म / स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति स्म / स प्रीतेर्विरागादुपेक्षको विहरति स्म स्मृतिमान् संप्रजानन् / सुखं च कायेन प्रतिसंवेदयति स्म / यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुसंपद्य विहरति स्म / स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात् पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति स्म //

तेन च समयेन पञ्च ऋषयो बाह्याः पञ्चाभिज्ञाः ऋद्धिमन्तो विहायसंगमा दक्षिणाया दिश उत्तरां दिशं गच्छन्ति स्म / ते तस्य वनखण्डस्योपरि गच्छन्तः प्रत्याहता इव न शक्नुवन्ति स्म गन्तुम् / ते संविग्नरोमकूपजाता इमां गाथामभाषन्त -

वयमिह मणिवज्रकूटं गिरिं मेरुमभ्युद्गतं तिर्यगत्यर्थवैस्तारिकं गज इव सहकारशाखाकुलां वृक्षवृन्दां प्रदारित्व निर्धावितानेकशः / वयमिह मरूणां पुरे चाप्यसक्ता गता यक्षगन्धर्ववेश्मनि चोर्ध्वं नभे निश्रिता इम पुन वनखण्डमासाद्य सीदाम भोः कस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम् // lal_11.1 //

इति //

अथ या तत्र वनखण्डदेवता सा तानृषीन् गाथयाध्यभाषत् - नृपतिपतिकुलोदितः शाक्यराजात्मजो बालसूर्यप्रकाशप्रभः स्फुटितकमलगर्भवर्णप्रभश्चारुचन्द्राननो लोकज्येष्ठो विदुः / अयमिह वनमाश्रितो ध्यानचिन्तापरो देवगन्धर्वनागेन्द्रयक्षार्चितो भवशतगुणकोटिसंवर्धितस्तस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम् // lal_11.2 //

इति //

ततस्ते ऽधस्तादवलोकयन्तो ऽद्राक्षुः कुमारं श्रिया तेजसा च जाज्वल्यमानम् / तेषामेतदभूत् - को न्वयं निषण्णः? मा हैव वैश्रवणो धनाधिपतिर्भवेत् / आहोस्विन्मारः कामाधिपतिः / अथ महोरगेन्द्रः / (वैद्य 91) अथेन्द्रो वज्रधरः / अथ रुद्रः कुम्भाण्डाधिपतिः / अथ कृष्णो महोत्साहः / उत चन्द्रो देवपुत्रः / उत सूर्यः सहस्ररश्मिः / उत राजा चक्रवर्ती भविष्यति? तस्यां च वेलायामिमां गाथामभाषन्त -

रूपं वैश्रवणातिरेकवपुषं व्यक्तं कुबेरो ह्ययं आहो वज्रधरस्य चैव प्रतिमा चन्द्रो ऽथ सूर्यो ह्ययम् / कामाग्राधिपतिश्च वा प्रतिकृती रूद्रस्य कृष्णस्य वा श्रीमान् लक्षणचित्रिताङ्गमनघो बुद्धो ऽथ वा स्यादयम् // lal_11.3 //

इति //

ततः सा वनदेवता तानृषीन् गाथया प्रत्यभाषत् -

या श्री च वैश्रवणे च वै निवसते या वा सहस्रेक्षणे लोकानां परिपालकेषु चतुषू या चासुरेन्द्रश्रिया / ब्रह्मे या च सहापतौ निवसते कृष्णे च या च श्रिया सा श्री प्राप्य इमं हि शाक्यतनयं नोपैति कांचित्कलाम् // lal_11.4 //

अथ खलु ते ऋषयस्तस्या देवताया वचनमुपश्रित्य धरणीतले प्रतिष्ठन्ते / ते पश्यन्ति स्म बोधिसत्त्वं ध्यायन्तमानिञ्ज्यमानेन कायेन तेजोराशिमिव ज्वलन्तम् / ते बोधिसत्त्वमुपनिध्याय गाथाभिरभितुष्टुवुः / तत्रैक आह -

लोके क्लेशाग्निसंतप्ते प्रादुर्भूतो ह्ययं ह्रदः / अयं तं प्राप्स्यते धर्मं यज्जगद् ह्लादयिष्यति // lal_11.5 //

अपरो ऽप्याह -

अज्ञानतिमिरे लोके प्रादुर्भूतः प्रदीपकः / अयं तं प्राप्स्यते धर्मं यज्जगद्भासयिष्यति // lal_11.6 //

अपरो ऽप्याह -

शोकसागरकान्तारे यानश्रेष्ठमुपस्थितम् / अयं तं प्राप्स्यते धर्मं यज्जगत्तारयिष्यति // lal_11.7 //

अपरो ऽप्याह -

क्लेशबन्धनबद्धानां प्रादुर्भूतः प्रमोचकः / अयं तं प्राप्स्यते धर्मं यज्जगन्मोचयिष्यति // lal_11.8 //

अपरो ऽप्याह -

जराव्याधिकिलिष्टानां प्रादुर्भूतो भिषग्वरः / अयं तं प्राप्स्यते धर्मं जातिमृत्युप्रमोचकम् // lal_11.9 //

अथ खलु ते ऋषयो बोधिसत्त्वमाभिर्गाथाभिरभिस्तुत्वा त्रिप्रदक्षिणीकृत्य विहायसा प्रक्रान्ताः / राजापि शुद्धोदनो बोधिसत्त्वमपश्यन् बोधिसत्त्वेन विना न रमते स्म / सो ऽवोचत् - कुमारः क्व गतः? नैनं पश्यामीति / तत्र महाजनकायो निर्धावितो ऽभूत् कुमारं परिगवेषमाणः / ततो ऽन्यतम अमात्यो बोधिसत्त्वं पश्यति स्म जम्बुच्छायायां पर्यङ्कनिषण्णं ध्यायन्तम् / सर्ववृक्षाणां च तस्मिन् समये छाया परिवृत्ताभूत् / जम्बुच्छाया च बोधिसत्त्वस्य कायं न विजहाति स्म / स तं दृष्ट्वा आश्चर्यप्राप्तस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः शीघ्रं शीघ्रं त्वरमाणरूपो राजानं शुद्धोदनमुपसंक्रम्य गाथाभ्यामध्यभाषत -

पश्य देव कुमारो ऽयं जम्बुच्छायाहि ध्यायति / यथा शक्रो ऽथवा ब्रह्मा श्रिया तेजेन शोभते // lal_11.10 //

यस्य वृक्षस्य छायायां निषण्णो वरलक्षणः / सैनं न जहते छाया ध्यायन्तं पुरूषोत्तमम् // lal_11.11 //

अथ राजा शुद्धोदनो येन स जम्बुवृक्षस्तेनोपसंक्रामत् / सो ऽद्राक्षीद्बोधिसत्त्वं श्रिया तेजसा च ज्वलन्तम् / दृष्टा चैमां गाथामभाषत् -

हुताशनो वा गिरिमूर्ध्नि संस्थितः शशीव नक्षत्रगणानुचीर्णः / वेपन्ति गात्राणि मि पश्यतो इमं ध्यायन्तु तेजो नु प्रदीपकल्पम् // lal_11.12 //

स बोधिसत्त्वस्य पादावभिवन्द्येमां गाथामभाषत् -

यदा चासि मुने जातो यदा ध्यायसि चार्चिमन् / एकद्विरपि ते नाथ पादौ वन्दे विनायक // lal_11.13 //

तत्र त्रिफलवाहका दारकाः शब्दं कुर्वन्ति स्म / तानमात्या एवमाहुः - मा शब्दं मा शब्दं कार्ष्टेति / ते ऽवोचन् - किमेतदिति / अमात्या आहुः -

व्यावृत्ते तिमिरनुदस्य मण्डले ऽपि व्योमाभं शुभवरलक्षणाग्रधारिम् / ध्यायन्तं गिरिनिचलं नरेन्द्रपुत्रं सिद्धार्थं न जहति सैव वृक्षछाया // lal_11.14 //

तत्रेदमुच्यते -

ग्रीष्मे वसन्त समुदागत जेष्ठमासे संपुष्पिते कुसुमपल्लवसंप्रकीर्णे / क्रोञ्चामयूरशुकसारिकसंप्रघुष्टे भूयिष्ठ शाकियसुता अभिनिष्क्रमन्ति // lal_11.15 //

छन्दो ऽभ्युवाच परिवारितु दारिकेभिः हन्ता कुमार वनि गच्छम लोचनार्थम् / किं ते गृहे निवसतो हि यथा द्विजस्य हन्त व्रजाम वय चोदननारिसंघम् // lal_11.16 //

मध्याह्नकालसमये सुविशुद्धसत्त्वः पञ्चाशतैः परिवृतैः सह चेटकेभिः / न च मातु नैव च पितुः प्रतिवेदयित्वा सो ऽबुद्ध निष्क्रामिति गच्छि कृषाणग्रामम् // lal_11.17 //

तस्मिंश्च पार्थिववरस्य कृषाणग्रामे जम्बुद्रुमो ऽभवदनेकविशालशाखः / दृष्ट्वा कुमार प्रतिबुद्ध दुखेन चोत्तो धिक्संस्कृतेति बहुदुःख कृषी करोति // lal_11.18 //

सो जम्बुछायमुपगम्य विनीतचित्तो तृणकानि गृह्य स्वय संस्तरु संस्तरित्वा / पर्यङ्कमाभुजिय उज्जु करित्व कायं चत्वारि ध्यान शुभ ध्यायि स बोधिसत्त्वः // lal_11.19 //

पञ्चा ऋषी खगपथेन हि गच्छमाना जम्बूय मूर्ध्नि न प्रभोन्ति पराक्रमेतुम् / ते विस्थिता निहतमानमदाश्च भूत्वा सर्वे समग्रसहिता समुदीक्षयन्तो // lal_11.20 //

वय मेरुपर्वतवरं तथ चक्रवालान् निर्भिद्य गच्छम जवेन असज्जमानाः / ते जम्बुवृक्ष न प्रभोम अतिक्रमेतुं को न्वत्र हेतुरयमद्य भविष्यतीह // lal_11.21 //

अवतीर्य मेदिनितले च प्रतिष्ठिहित्वा पश्यन्ति शाक्यतनयं तहि जम्बुमूले / जम्बुनदार्चिसदृशं प्रभतेजरश्मिं पर्यङ्कबन्धु तद ध्यायतु बोधिसत्त्वम् // lal_11.22 //

ते विस्मिता दशनखा करियान मूर्ध्नि प्रणता कृताञ्जलिपुटा निपतन् क्रमेषु / साधो सुजात सुमुखं करुणा जगस्य शीघ्रं विबुद्ध अमृते विनयस्व सत्त्वान् // lal_11.23 //

परिवृत्त सूर्य न जही सुगतस्य छाया ओलम्बते द्रुमवरं यथ पद्मपत्रम् / देवा सहस्र बहवः स्थित अञ्जलीभिः वन्दन्ति तस्य चरणौ कृतनिश्चयस्य // lal_11.24 //

शुद्धोदनश्च स्वगृहे परिमार्गमाणः संपृच्छते क्व नु गतः स हि मे कुमारः / मातृस्वसा अवचि मार्गत नो लभामि संपृच्छता नरपते क्व गतः कुमारः // lal_11.25 //

शुद्धोदनस्त्वरितु पृच्छति काञ्चुकीयं दौवारिकं तथपि चान्तजनं समन्तात् / दृष्टं कुमार मम केनचि निष्क्रमन्तो शृणुते वरूपगतु देव कृषाणग्रामम् // lal_11.26 //

सो शीघ्रमेव त्वरितं सह शाकियेभिः निष्क्रान्तु प्रेक्षि कृषिग्रामगिरिं प्रविष्टम् / यथ सूर्यकोटिनियुतानि समुद्गतानि तथ प्रेक्षते हितकरं शिरिया ज्वलन्तम् // lal_11.27 //

मुकुटं च खङ्ग तथ पादुक छोरयित्वा कृत्वा दशाङ्गुलि शिरे अभिवन्दिते तम् / साधू सुभूतवचना ऋषयो महात्मा व्यक्तं कुमार अभिनिष्क्रमि बोधिहेतोः // lal_11.28 //

परिपूर्ण द्वादशशता सुप्रसन्नदेवाः पच्चाशता उपगता यथ शाकियानाम् / दृष्ट्वा च ऋद्धि सुगते गुणसागरस्य संबोधिचित्तु जनयं दृढआशयेन // lal_11.29 //

सो कम्पयित्व त्रिसहस्र अशेषभूमिं स्मृतु संप्रजानु प्रतिबुद्ध ततः समाधेः / ब्रह्मस्वरः पितरमालपते द्युतीमान् उत्सृज्य तात कृषिग्रामभतो गवेष // lal_11.30 //

यदि स्वर्णकार्यु अहु स्वर्ण प्रवर्षयिष्ये यदि वस्त्रकार्यु अहमेव प्रदास्यि वस्त्रां / अथ धान्यकार्यु अहमेव प्रवर्षयिष्ये सम्यक्प्रयुक्त भव सर्वजगे नरेन्द्र // lal_11.31 //

अनुशासयित्व पितरं जनपारिषद्यां तस्मिन् क्षणे पुरवरं पुन सो प्रवेक्षी / अनुवर्तमान जगतः स्थिहते पुरेस्मिं नैष्म्क्रम्ययुक्तमनसः सुविशुद्धसत्त्वः // lal_11.32 //

इति //

// इति श्रीललितविस्तरे कृषिग्रामपरिवर्तो नाम एकादशो ऽध्यायः //

स्तर्त् परिवर्त 12

शिल्पसंदर्शनपरिवर्तो द्वादशः /

इति हि भिक्षवः संवृद्धे कुमारे राजा शुद्धोदनो ऽपरेण समयेन शाक्यगणेन सार्धं संस्थागारे निषण्णो ऽभूत् / तत्र ते महल्लकमहल्लकाः शाक्या राजानं शुद्धोदनमेवमाहुः - यत्खलु देवो जानीयात् / अयं सर्वार्थसिद्धकुमारो नैमित्तिकैर्ब्राह्मणैः कृतनिश्चयैश्च देवैर्यद्भूयसैवं निर्दिष्टो यदि कुमारो ऽभिनिष्क्रमिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धः / उत नाभिनिष्क्रमिष्यति राजा भविष्यति चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतः / तस्येमानि सप्त रत्नानि भविष्यन्ति / तद्यथा - चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् / एवं सप्तरत्नम् / संपूर्णं चास्य पुत्रसहस्रं भविष्यति शूराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् / स इमं पृथिवीमण्डलमदण्डेनाशस्त्रेणाभिनिर्जित्याध्यावसिष्यति सह धर्मेणेति / तस्मान्निवेशनं कुमारस्य क्रियतामिति / तत्र स्त्रीगणपरिवृतो रतिं वेत्स्यति, नाभिनिष्क्रमिष्यति / एवमस्माकं चक्रवर्तिवंशस्य चानुपच्छेदो भविष्यति / मानिताश्च भविष्यामो ऽनवद्याश्च सर्वकोटराजभिः //

ततो राजा शुद्धोदन एवमाह - यद्येवं तेन हि व्यवलोकयत कमता कन्या कुमारस्यानुरूपा स्यात् /

तत्र पञ्चमात्राणि शाक्यशतानि / एकैक एवमाह - मम दुहिता अनुरूपा स्यात् कुमारस्य / सुरूपा मम दुहितेति /

राजा प्राह - दुरासदः कुमारः / तत् प्रतिवेदयिष्यामस्तावत् कुमारस्य, कतमा ते कन्या रोचत इति /

ततश्च ते सर्वे संनिपत्य कुमारस्यैनां प्रकृतिमारोचयन्ति स्म / तान् कुमार उवाच - सप्तमे दिवसे प्रतिवचनं श्रोष्यथेति //

ततो बोधिसत्त्वस्यैतदभवत् -

विदित मम अनन्त कामदोषाः सरणसर्वैरसशोकदुःखमूलाः / भयकर विषपत्रसंनिकाशाः ज्वलननिभा असिधारतुल्यरूपाः // lal_12.1 //

कामगुणि न मे ऽस्ति छन्दरागो न च अहु शोभमि इस्त्रिगारमध्ये / यन्नु अहु वने वसेय तूष्णीं ध्यानसमाधिसुखेन शान्तचित्तः // lal_12.2 //

इति //

स पुनरपि मीमांसोपायकौशल्यमामुखीकृत्य सत्त्वपरिपाकमवेक्षमाणो महाकरूणां संजनय्य तस्यां वेलायामिमां गाथामभाषत -

संकीर्णि पङ्कि पदुमानि विवृद्धिमन्ति आकीर्ण राज नरमध्यि लभाति पूजाम् / यद बोधिसत्त्व परिवारबलं लभन्ते तद सत्त्वकोटिनयुतान्यमृते विनेन्ति // lal_12.3 //

ये चापि पूर्वक अभूद्विदु बोधिसत्त्वाः सर्वेभि भार्य सुत दर्शित इस्त्रिगाराः / न च रागरक्त न च ध्यानसुखेभि भ्रष्टाः हन्तानुशिक्षयि अहं पि गुणेषु तेषाम् // lal_12.4 //

न च प्राकृता मम वधू अनुकूल या स्याद् यस्या न इष्यतु गुणा सद सत्यवाक्यम् / या चिन्ति मह्यमभिराधयते ऽप्रमत्ता रूपेण जन्मकुलगोत्रतया सुशुद्धा // lal_12.5 //

सो गाथलेख लिखिते गुणअर्थयुक्ता या कन्य ईदृश भवे मम तां वरेथा / न ममार्थु प्राकृतजनेन असंवृतेन यस्या गुणा कथयमी मम तां वरेथा // lal_12.6 //

या रूपयौवनवरा न च रूपमत्ता माता स्वसा व यथ वर्तति मैत्रचित्ता / त्यागे रता श्रमणब्राह्मणदानशीला तां तादृशां मम वधूं वरयस्व तात // lal_12.7 //

यस्या न मानु न खिलो न च दोषमस्ति न च शाठ्य ईर्ष्य न च माय न उज्जुभ्रष्टा / स्वप्नान्तरे ऽपि पुरूषे न परे ऽभिरक्ता तुष्टा स्वकेन पतिना शयते ऽप्रमत्ता // lal_12.8 //

न च गर्विता न पि च उद्धत न प्रगल्भा निर्मान मानविगतापि च चेटिभूता / न च पानगृद्ध न रसेषु न शब्दगन्धे निर्लोभभिध्यविगता स्वधनेन तुष्टा // lal_12.9 //

सत्ये स्थिता न पि च चञ्चल नैव भ्रान्ता न च उद्धतोन्नतस्थिता हिरिवस्त्रछन्ना / न च दृष्टिमङ्गलरता सद धर्मयुक्ता कायेन वाच मनसा सद शुद्धभावा // lal_12.10 //

न च स्त्यानमिद्धबहुला न च मानमूढा मीमांसयुक्त सुकृता सद धर्मचारी / श्वश्रौ च तस्य श्वशुरे यथ शास्तृप्रेमा दासी कलत्र जनि यादृशमात्मप्रेम // lal_12.11 //

शास्त्रे विधिज्ञ कुशला गणिका यथैव पश्चात् स्वपेत् प्रथममुत्थिहते च शय्यात / मैत्रानुवर्ति अकुहापि च मातृभूता एतादृशीं मि नृपते वधुकां वृणीष्व // lal_12.12 //

इति //

अथ खलु भिक्षवो राजा शुद्धोदन इमा गाथा वाचयित्वा पुरोहितमामन्त्रयते स्म - गच्छ त्वं महाब्राह्मण कपिलवस्तुमहानगरे / सर्वगृहाण्यनुप्रविश्य कन्या व्यवलोकय / यस्या एते गुणाः संविद्यन्ते क्षत्रियकन्याया वा ब्राह्मणकन्याया वा वैश्यकन्याया वा शूद्रकन्याया वा तां कन्यामस्माकं प्रतिवेदय / तत्कस्माद्धेतोः? न हि कुमारः कुलार्थिको न गोत्रार्थिकः / गुणार्थिक एव कुमारः //

तस्यां च वेलायामिमां गाथामभाषत -

ब्राह्मणीं क्षत्रियां कन्यां वेश्यां शूद्रीं तथैव च / यस्या एते गुणाः सन्ति तां मे कन्यां प्रवेदय // lal_12.13 //

न कुलेन न गोत्रेण कुमारो मम विस्मितः / गुणे सत्ये च धर्मे च तत्रास्य रमते मनः // lal_12.14 //

इति //

अथ खलु भिक्षवः स पुरोहितस्तं गाथालेखं गृहीत्वा कपिलवस्तुनि महानगरे गृहाद्गृहं व्यवलोकयन् गत्वा हिण्डन् कन्यां पर्येषते स्म / एवंगुणयुक्तामपश्यन् (न चैव गुणयुक्तां कन्यां) / सो ऽनुपूर्वेण विचरन् येन दण्डपाणेः शाक्यस्य निवेशनं तेनोपसंक्रामत् / स तं निवेशनं प्रविष्टो ऽद्राक्षीत् कन्यामभिरूपां प्रासादिकां दर्शनीयां परमया शुभवर्णपुष्करतया समन्वागतां नातिदीर्घां नातिह्रस्वां नातिस्थूलां नातिकृशां नातिगौरां नातिकृष्णां प्रथमयौवनावस्थां स्त्रीरत्नमिव ख्यायमानाम् /

अथ सा दारिका पुरोहितस्य चरणौ गृहीत्वा एवमाह - केन ते महाब्राह्मण कार्यम्?

पुरोहित आह -

शुद्धोदनस्य तनयः परमाभिरूपो द्वात्रिंशलक्षणधरो गुणतेजयुक्तः / तेनेति गाथ लिखिता गुणये वधूनां यस्या गुणास्ति हि इमे स हि तस्य पत्नी // lal_12.15 //

स तस्यास्तं लेखमुपनामयति स्म //

अथ सा दारिका तं गाथालेखं वाचयित्वा स्मितमुपदर्श्य तं पुरोहितं गाथयाध्यभाषत् -

मह्येति ब्राह्मण गुणा अनुरूप सर्वे सो मे पतिर्भवतु सौम्य सुरूपरूपः / भणहि कुमारु यदि कार्य म हू विलम्ब मा हीनप्राकृतजनेन भवेय वासः // lal_12.16 //

इति //

अथ स खलु पुरोहितो राजानं शुद्धोदनमुपसंक्रम्यैव तमर्थमारोचयति स्म - दृष्टा मया देव कन्या या कुमारस्यानुरूपा स्यात् / आह - कस्यासौ? आह - दण्डपाणेर्देव शाक्यस्य दुहिता //

अथ राज्ञः शुद्धोदनस्यैतदभवत् - दुरासदः कुमारः शुभाधिमुक्तश्च / प्रायेण च मातृग्रामो ऽसंविद्यमानगुणो ऽपि गुणानामात्मनि प्रजानीते / यन्न्वहमशोकभाण्डकानि कारयेयम्, यानि कुमारः सर्वदारिकाभ्यो ऽनुप्रयच्छेत् / तत्र यस्यां दारिकायां कुमारस्य चक्षुरभिनिवेश्यति, तां कुमारस्य वरयिष्यामीति //

अथ खलु राजा शुद्धोदनो ऽशोकभाण्डानि कारयति स्म सुवर्णमयानि रूप्यमयानि नानारत्नमयानि / कारयित्वा च कपिलवस्तुनि महानगरे घण्टाघोषणां कारयामास - सप्तमे दिवसे कुमारो दर्शनं दास्यति, अशोकभाण्डकानि च दारिकाभ्यो विश्राणयिष्यति / तत्र सर्वदारिकाभिः संस्थागारे संनिपतितव्यमिति //

इति हि भिक्षवः सप्तमे दिवसे बोधिसत्त्वः संस्थागारमुपसंक्रम्य भद्रासने न्यषीदत् / राजापि शुद्धोदनो ऽदृश्यपुरुषान् स्थापयति स्म - यस्यां दारिकायां कुमारस्य चक्षुः संनिविशेत्, तां ममारोचयध्वमिति //

इति हि भिक्षवो यावन्त्यः कपिलवस्तुनि महानगरे दारिकास्ताः सर्वा येन संस्थागारो येन च बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य दर्शनाय अशोकभाण्डकानि च प्रतिगृहीतुम् //

इति हि भिक्षवो बोधिसत्त्वो यथागताभ्यस्ताभ्यो दारिकाभ्यो ऽशोकभाण्डकान्यनुप्रयच्छति स्म / ताश्च दारिका न शक्नुवन्ति स्म बोधिसत्त्वस्य श्रियं तेजश्च सोढुम् / ता अशोकभाण्डकानि गृहीत्वा शीघ्रं शीघ्रमेव प्रक्रामन्ति स्म //

अथ दण्डपाणेः शाक्यस्य दुहिता गोपा नाम शाक्यकन्या, सा दासीगणपरिवृता पुरस्कृता येन संस्थागारो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्यैकान्ते ऽस्थात् बोधिसत्त्वमनिमेषाभ्यां नयनाभ्यां प्रेक्षमाणा / तद्यदा बोधिसत्त्वेन सर्वाण्यशोकभाण्डानि दत्तानि, तदा सा बोधिसत्त्वमुपसंक्रम्य प्रहसितवदना बोधिसत्त्वमेवमाह - कुमार किं ते मयापनीतं यस्त्वं मां विमानयसि?

आह - नाहं त्वां विमानयामि, अपि तु खलु पुनस्त्वमभिपश्चादागतेति / स तस्यै चानेकशतसहस्रमूल्यमङ्गुलीयकं निर्मुच्य प्रादात् //

सा प्राह - इदमहं कुमार तवान्तिकादर्हामि? आह - इमानि मदीयान्याभरणानि, गृह्यताम् / सा आह - न वयं कुमारं व्यलंकरिष्यामः? अलंकरिष्यामो वयं कुमारम् / इत्युक्त्वा सा कन्या प्रक्रामत् //

ततस्तैर्गुह्यपुरुषै राजानं शुद्धोदनमुपसंक्रम्यैष वृत्तान्तो निवेदितो ऽभूत् - देव दण्डपाणेः शाक्यस्य दुहिता गोपा नाम शाक्यकन्या, तस्यां कुमारस्य चक्षुर्निविष्टम्, मुहूर्तं च तयोः संलापो ऽभूत् //

इत्येतत्खलु वचनं श्रुत्वा राजा शुद्धोदनो दण्डपाणेः शाक्यस्य पुरोहितं दौत्येन प्रेषयति स्म - या ते दुहिता, सा मम कुमारस्य प्रदीयतामिति //

दण्डपाणिराह - आर्य कुमारो गृहे सुखसंवृद्धः / अस्माकं चायं कुलधर्मः शिल्पज्ञस्य कन्या दातव्या नाशिल्पज्ञस्येति / कुमारश्च न शिल्पज्ञो नासिधनुष्कलापयुद्धसालम्भविधिज्ञः / तत्कथमशिल्पज्ञायाहं दुहितरं दास्यामि?

इत्येतच्च राज्ञः प्रतिवेदितम् / ततो राज्ञ एतदभवत् - द्विरपीदमहं सहधर्मेण चोदितः / यदापि मयोक्तं कस्माच्छाक्यकुमाराः कुमारस्योपस्थानाय नागच्छन्तीति तदाप्यहमभिहितः - किं वयं मण्डकस्योपस्थानं करिष्याम इति / एतर्ह्यप्येवमिति प्रध्यायन्निषण्णो ऽभूत् //

बोधिसत्त्वश्चैनं वृत्तान्तमश्रोषीत् / श्रुत्वा च येन राजा शुद्धोदनस्तेनोपसंक्रामत् / उपसंक्रम्यैवमाह - देव किमिदं दीनमनास्तिष्ठसि?

राजा आह - अलं ते कुमार अनेन /

कुमार आह - देव सर्वथा तावदवश्यभेवमाख्यातव्यम् / यावत्त्रिरपि बोधिसत्त्वो राजानं शुद्धोदनं परिपृच्छति स्म //

ततो राजा शुद्धोदनो बोधिसत्त्वाय तां प्रकृतिमारोचयति स्म / तां श्रुत्वा बोधिसत्त्व आह - देव अस्ति पुनरिह नगरे कश्चिद्यो मया सार्धं समर्थः शिल्पेन शिलपमुपदर्शयितुम्?

ततो राजा शुद्धोदनः प्रहसितवदनो बोधिसत्त्वमेवमाह - शक्यसि पुनस्त्वं पुत्र शिल्पमुपदर्शयितुम्? स आह - बाढं शक्यामि देव / तेन हि संनिपात्यन्तां सर्वशिल्पज्ञाः, येषां पुरतः स्वं शिल्पमुपदर्शयिष्यामि //

ततो राजा शुद्धोदनः कपिलवस्तुनि महानगरवरे घण्टाघोषणां कारयति स्म - सप्तमे दिवसे कुमारः स्वं शिल्पमुपदर्शयति / तत्र सर्वशिल्पज्ञैः संनिपतितव्यम् //

तत्र सप्तमे दिवसे पञ्चमात्राणि शाक्यकुमारशतानि संनिपतितान्यभूवन् / दण्डपाणेश्च शाक्यस्य दुहिता गोपा नाम शाक्यकन्या जयपताका स्थापिताभूत् - यो वा अत्र असिधनुष्कलापयुद्धसालम्भेषु जेष्यति, तस्यैषा भविष्यतीति //

तत्र सर्वपुरतो देवदत्तः कुमारो नगरादभिनिष्क्रामति स्म / श्वेतश्च हस्ती महाप्रमाणो बोधिसत्त्वस्यार्थे नगरं प्रवेश्यते स्म / तत्र देवदत्तः कुमार ईर्ष्यया च शाक्यबलमदेन च मत्तः / स तं हस्तिनागं वामेन पाणिना शुण्डायां गृहीत्वा दक्षिणेन पाणिना चपेटया एकप्रहारेणैव हतो ऽभूत् //

तस्यानन्तरं सुन्दरनन्दकुमारो ऽभिनिष्क्रामति स्म / सो ऽद्राक्षीत्तं हस्तिनागं नगरद्वारे हतम् / दृष्ट्वा च पर्यपृच्छत् - केनायं हत इति / तत्र महाजनकाय आह - देवदत्तेनेति / स आह - अशोभनमिदं देवदत्तस्य / स तं हस्तिनागं लाङ्गूले गृहीत्वा नगरद्वारादपकर्षति स्म //

तदनन्तरं बोधिसत्त्वो रथाभिरूढो ऽभिनिष्क्रामति स्म / अद्राक्षीद्बोधिसत्त्वस्तं हस्तिनं हतम् / दृष्ट्वा च पर्यपृच्छत् - केनायं हत इति / आहुः - देवदत्तेनेति / आह - अशोभनं देवदत्तस्य / केन पुनरस्मान्नगरद्वारादपकर्षित इति / आहुः - सुन्दरनन्देनेति / आह - शोभनमिदं सुन्दरनन्दस्य / किं तु महाकायो ऽयं सत्त्वः / सो ऽयं क्लिन्नः सर्वनगरं दौर्गन्धेन स्फुरिष्यतीति //

ततः कुमारो रथस्य एवैकं पादं भूमौ प्रसार्य पादाङ्गुष्ठेन तं हस्तिनागं लाङ्गूले गृहित्वा सप्त प्राकारान् सप्त च परिखानतिक्रम्य बहिर्नगरस्य क्रोशमात्रे प्रक्षिपति स्म / यत्र व प्रदेशे स हस्ती पतितस्तस्मिन् प्रदेशे महद्बिलं संवृत्तं यत्सांप्रतं हस्तिगर्तेत्यभिधीयते //

तत्र देवमनुजाः शतसहस्राणि हाहाकारकिलकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् / चैलविक्षेपांश्चाकार्षुः / गगनतलगताश्च देवपुत्रा इमे गाथे ऽभाषन्त -

यथ मत्तगजेन्द्रगतीनां पादाङ्गुष्ठतलेन गजेन्द्रम् / सप्त पुरापरिखा अतिक्रम्य क्षिप्तु बहिः स्वपुरातु अयं हि // lal_12.17 //

निःसंशयमेष सुमेधा मानबलेन समुच्छ्रितकायान् / संसारपुरातु बहिर्धा एक क्षपिष्यति प्रज्ञबलेन // lal_12.18 //

इति हि पञ्चमात्राणि शाक्यकुमारशतानि नगरान्निष्कम्य येनान्यतमः पृथिवीप्रदेशो यत्र शाक्यकुमाराः शिल्पमुपदर्शयन्ति स्म तेनोपसंक्रामन् / राजापि शुद्धोदनो महल्लकमहल्लकाश्च शाक्या महांश्च जनकायो येनासौ पृथिवीप्रदेशस्तेनोपसंक्रामन् बोधिसत्त्वस्य चान्येषां च शाक्यकुमाराणां शिल्पविशेषं द्रष्टुकामाः //

तत्र आदित एव ये शाक्यकुमारा लिप्यां पटुविधिज्ञास्ते बोधिसत्त्वेन सार्धं लिपिं विशेषयन्ति स्म / तत्र तैः शाक्यैर्विश्वामित्र आचार्यः साक्षी स्थापितो ऽभूत् - स त्वं व्यवलोकय कतमो ऽत्र कुमारो लिपिज्ञाने विशिष्यते यदि वा लेख्यतो यदि वा बहुलिपिनिर्याणतः / अथ विश्वामित्र आचार्यः प्रत्यक्षो बोधिसत्त्वस्य लिपिज्ञाने स्मितमुपदर्शयन्निमे गाथे ऽभाषत -

मनुष्यलोके ऽथ च देवलोके गन्धर्वलोके ऽप्यसुरेन्द्रलोके / यावन्ति केचिल्लिपि सर्वलोके तत्रैष पारंगतु शुद्धसत्त्वः // lal_12.19 //

नामापि यूयं च अहं च तेषां लिपीन जानाम न चाक्षराणाम् / यान्येष जानाति मनुष्यचन्द्रो अहमत्र प्रत्यक्षु विजेष्यते ऽयम् // lal_12.20 //

शाक्या आहुः - विशिष्यतां तावत्कुमारो लिपिज्ञाने / संख्याज्ञाने कुमारो विशेषयितव्यो जिज्ञास्यश्च / तत्रार्जुनो नाम शाक्यगणको महामात्रः संख्यागणनासु पारंगतः, स साक्षी स्थापितो ऽभूत् - स त्वं व्यवलोकय कतमो ऽत्र कुमारो विशिष्यते संख्याज्ञानत इति / तत्र बोधिसत्त्वश्चोद्दिशति स्म, एकश्च शाक्यकुमारो निक्षिपति स्म, न च परिप्रापयति स्म / बोधिसत्त्वस्यैक द्वौ त्रयश्चत्वारः पञ्चदश विंशत्त्रिंशच्चत्वारिंशत्पञ्चाशच्छतं यावत्पञ्चापि शाक्यकुमारशतानि युगपत्काले निक्षिपन्ति स्म, न च परिप्रापयन्ति स्म / ततो बोधिसत्त्व आह - उद्दिशत यूयम्, अहं निक्षेप्स्यामीति / तत्रैकशाक्यकुमारो बोधिसत्त्वस्योद्दिशति स्म, न च परिप्रापयति स्म / द्वावपि त्रयो ऽपि पञ्चापि दशापि विंशत्यपि त्रिंशदपि चत्वारिंशदपि पञ्चाशदपि यावत्पञ्चापि शाक्यकुमारशतानि युगपदुद्दिशन्ति स्म / न च परिप्रापयन्ति स्म बोधिसत्त्वस्य निक्षिपतः //

बोधिसत्त्व आह - अलमलमनेन विवादेन / सर्व इदानीमेकीभूत्वा ममोद्दिशत, अहं निक्षेप्स्यामीति / तत्र पञ्चमात्राणि शाक्यकुमारशतान्येकवचनोदाहारेणापूर्वचरितं समुद्दिशन्ति स्म, बोधिसत्त्वश्चासंमूढो निक्षिपति स्म / एवमपर्यन्ताः सर्वशाक्यकुमाराः, अथ पर्यन्तश्च बोधिसत्त्वः //

ततो ऽर्जुनो गणकमहामात्र आश्चर्यप्राप्त इमे गाथे ऽभाषत -

ज्ञानस्य शीघ्रता साधु बुद्धे संपरिपृच्छता / पञ्चमात्रशतान्येते धिष्ठिता गणनापथे // lal_12.21 //

ईदृशी च इयं प्रज्ञा बुद्धिर्ज्ञानं स्मृतिर्मतिः / अद्यापि शिक्षते चायं गणितं ज्ञानसागरः // lal_12.22 //

ततः सर्वशाक्यगण आश्चर्यप्राप्तः परमविस्मयापन्नो ऽभूत् / एककण्ठाश्चेमां वाचमभाषन्त - जयति जयति भोः सर्वार्थसिद्धः कुमारः / सर्वे चासनेभ्य उत्थाय कृताञ्जलिपुटा भूत्वा बोधिसत्त्वं नमस्कृत्य राजानं शुद्धोदनमेतदवोचन् - लाभास्ते महाराज परमसुलब्धाः, यस्य ते पुत्र एवं शीघ्रलघुजवचपलपरिपृच्छाप्रतिभान इति //

अथ स राजा शुद्धोदनो बोधिसत्त्वमेवमाह - शक्यसि पुत्र अर्जुनेन गणकमहामात्रेण सार्धं संख्याज्ञानकौशल्यगणनागतिमनुप्रवेष्टुम्? तेन हि गण्यताम् / अथार्जुनो गणकमहामात्रो बोधिसत्त्वमेवमाह - जानीषे त्वं कुमार कोटिशतोत्तरां नाम गणनागतिम्? बोधिसत्त्व आह - शक्यामि देव / आह - जानाम्यहम् / आह - कथं पुनः कोटिशतोत्तरा गणनागतिरनुप्रवेष्टव्या? बोधिसत्त्व आह - शतं कोटीनामयुतं नामोच्यते / शतमयुतानां नियुतो नामोच्यते / शतं नियुतानां कङ्करं नामोच्यते / शतं कङ्कराणां विवरं नामोच्यते / शतं विवराणामक्षोभ्यं नामोच्यते / शतमक्षोभ्याणां विवाहं नामोच्यते / शतं विवाहानामुत्सङ्गं नामोच्यते / शतमुत्सङ्गानां बहुलं नामोच्यते / शतं बहुलानां नागबलं नामोच्यते / शतं नागबलानां तिटिलम्भं नामोच्यते / शतं तिटिलम्भानां व्यवस्थानप्रज्ञप्तिर्नामोच्यते / शतं व्यवस्थानप्रज्ञप्तीनां हेतुहिलं नामोच्यते / शतं हेतुहिलानां करकुर्नामोच्यते / शतं करकूणां हेत्विन्द्रियं नामोच्यते / शतं हेत्विन्द्रियाणां समाप्तलम्भं नामोच्यते / शतं समाप्तलम्भानां गणनागतिर्नामोच्यते / शतं गणनागतीनां निरवद्यं नामोच्यते / शतं निरवद्यानां मुद्राबलं नामोच्यते / शतं मुद्राबलानां सर्वबलं नामोच्यते / शतं सर्वबलानां विसंज्ञागती नामोच्यते / शतं विसंज्ञागतीनां सर्वसंज्ञा नामोच्यते / शतं सर्वसंज्ञानां विभूतंगमा नामोच्यते / शतं विभूतंगमानां तल्लक्षणं नामोच्यते / इति हि तल्लक्षणगणनया सुमेरूपर्वतराजो लक्षनिक्षेपक्रियया परिक्षयं गच्छेत् /

अतो ऽप्युत्तरि ध्वजाग्रवती नाम गणना, यस्यां गणनायां गङ्गानदीवालिकासमा लक्षनिक्षेपक्रियया परिक्षयं गच्छेयुः / अतो ऽप्युत्तरि ध्वजाग्रनिशामणी नाम गणना / अतो ऽप्युत्तरि वाहनप्रज्ञप्तिर्नाम / अतो ऽप्युत्तरि इङ्गा नाम / अतो ऽप्युत्तरि कुरुटु नाम / अतो ऽप्युत्तरि कुरुटावि नाम / अतो ऽप्युत्तरि सर्वनिक्षेपा नाम गणना, यस्यां गणनायां दश गङ्गानदीवालिकासमा लक्षनिक्षेपक्रियया परिक्षयं गच्छेयुः / अतो ऽप्युत्तरि अग्रसारा नाम गणना, यत्र कोटीशतं गङ्गानदीवालिकासमा लक्षनिक्षेपाः परिक्षयं गच्छेयुः / अतो ऽप्युत्तरि परमाणुरजःप्रवेशानुगतानां गणना, यत्र तथागतं स्थापयित्वा बोधिमण्डवराग्रगतं च सर्वंधर्माभिषेकाभिमुखं बोधिसत्त्वं नान्यः कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते य एतां गणनां प्रजानाति अन्यत्राहं वा यो वा स्यान्मादृशः / एवं चरमभाविको विनिष्क्रान्तगृहवासो बोधिसत्त्वः //

अर्जुनो ऽवोचत् - कथं कुमार परमाणुरजःप्रवेशगणनानुप्रवेष्टव्या? बोधिसत्त्व आह - सप्त परमाणुरजांस्यणुः / सप्ताणवस्त्रुतिः / सप्तत्रुतेरेकं वातायनरजः / सप्त वातायनरजांस्येकं शशरजः / सप्त शशरजांस्येकमेडकरजः / सप्तैडकरजांस्येकं गोरजः / सप्त गोरजांस्येकं लिक्षारजः / सप्त लिक्षाः सर्षपः / सप्तसर्षपाद्यवः / सप्तयवादङ्गुलीपर्व / द्वादशाङ्गुलीपर्वाणि वितस्तिः / द्वे वितस्ती हस्तः / चत्वारो हस्ता धनुः / धनुःसहस्रं मार्गध्वजाक्रोशः / चत्वारः क्रोशा योजनम् / तत्र को युष्माकं योजनपिण्डं प्रजानाति? कियन्ति तानि परमाणुरजांसि भवन्ति? अर्जुनो ऽवोचत् - अहमेव तावत्कुमार संमोहमापन्नः, किमङ्ग पुनर्ये चान्ये ऽल्पबुद्धयः / निर्दिशतु कुमारो योजनपिण्डं कियन्ति तानि परमाणुरजांसि भवन्तीति / बोधिसत्त्वो ऽवोचत् - तत्र योजनपिण्डः परमाणुरजसां परिपूर्णमक्षोभ्यनयुतमेकं त्रिंशच्च कोटीनयुतशतसहस्राणि षष्टिश्च कोटीशतानि द्वात्रिंशतिश्च कोट्यः पञ्च च दशशतसहस्राणि द्वादश च सहस्राणि एतावान् योजनपिण्डः परमाणुरजोनिक्षेपस्य / अनेन प्रवेशेनायं जम्बुद्वीपः सप्तयोजनसहस्राणि / गोदानीयो ऽष्टौ योजनसहस्राणि / पूर्वविदेहो नव योजनसहस्राणि / उत्तरकुरुद्वीपो दशयोजनसहस्राणि /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.