Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/9

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

ललितविस्तर

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

मान्दारवैश्च कुसुमैस्तथ पारिजातैश्चन्द्रैः सुचन्द्र तथ स्थालविरोचमानैः / पुष्पाभिकीर्ण कपिलाह्वय तं करोम पूजार्थ पूर्वशुभकर्मसमुद्गतस्य // lal_5.40 //

यावच्च गर्भि वसते त्रिमलैरलिप्तो यावज्जरामरण चान्तकरः प्रसूतः / तावत्प्रसन्नमनसो अनुबन्धयाम एषा मतिर्मतिधरस्य करोम पूजाम् // lal_5.41 //

लाभा सुलब्ध विपुलाः सुरमानुषाणां द्रक्ष्यन्ति जानु इमु सप्तपदां क्रमन्तम् / शक्रैश्च ब्रह्मणकरैः परिगृह्यमानं गन्धोदकैः स्नपियमानि सुशुद्धसत्त्वम् // lal_5.42

(वैद्य 36) //

यावच्च लोकि अनुवर्तनतां करोति अन्तःपुरे वसति कामकिलेशघाती / यावच्च निष्क्रमति राज्यमपास्य सर्वं तावत्प्रसन्नमनसो अनुबन्धयामः // lal_5.43 //

यावदुपैति महिमण्डि तृणां गृहीत्वा यावच्च बोधि स्पृशते विनिहत्य मारम् / अध्येष्टु ब्राह्मणयुतेभि प्रवर्ति चक्रं तावत्करोम विपुलां सुगतस्य पूजाम् // lal_5.44 //

यद बुद्धकार्यु कृतु भेष्यति त्रिसहस्रे सत्त्वान कोटिनयुता अमृते विनीता / निर्वाणमार्गमुपयास्यति शीतिभावं तावन्महाशयमृषिं न जहाम सर्वे // lal_5.45 //

इति //

अथ खलु भिक्षवः कामधात्वीश्वराणां देवकन्यानां बोधिसत्त्वस्य रूपकायपरिनिष्पत्तिं दृष्ट्वा एतदभवत् - कीदृशी त्वसौ कन्या भविष्यति या इमं वरप्रवरशुद्धसत्त्वं धारयिष्यति / ताः कौतूहलजाता वरप्रवरपुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरपरिगृहीता दिव्यमनोमयात्मभावप्रतिलब्धाः पुण्यविपाकाधिस्थानाधिस्थिताः तस्मिन् क्षणे ऽमरपुरभवनादन्तर्हिताः कपिलाह्वये महापुरवरे उद्यानशतसहस्रपरिमण्डिते राज्ञः शुद्धोदनस्य गृहे धृतराष्ट्रे महाप्रासादे अमरभवनप्रकाशे विगलिताम्बरधारिण्यः शुभविमलतेजप्रतिमण्डिता दिव्याभरणस्तम्भितभुजाः शयनवरगतां मायादेवीमेकाङ्गुलिकयोपदर्शयन्त्यो गगनतलगताः परस्परं गाथाभिरभ्यभाषन्त -

अमरपुरगतान अप्सराणां रूप मनोरम दृष्ट्व बोधिसत्त्वे / मतिरियमभवत्तदा हि तासां प्रमद नु कीदृश बोधिसत्त्वमाता // lal_5.46 //

ताश्च सहितपुष्पमाल्यहस्ता उपगमि वेश्म नृपस्य जातकाङ्क्षा / पुष्प तथ विलेपनां गृहीत्वा दशनखअञ्जलिभिर्नमस्यमानाः // lal_5.47 //

विगलितवसनाः सलीलरूपाः करतल दक्षिणि अङ्गुलीं प्रणम्य / शयनगत विदर्शि मायदेवीं साधु निरीक्षथ रूप मानुषीणाम् // lal_5.48 //

वयमिह अभिमन्ययाम अन्ये परममनोरम सुरूप अप्सराणाम् / इम नृपतिवधूं निरीक्षमाणा जिह्म विपश्यथ दिव्य आत्मभावाम् // lal_5.49 //

रतिरिव सदृशी गुणान्विता च जननिरियं प्रवराग्रपुद्गलस्य / मणिरतन यथा सुभाजनस्थ तथ इव भाजन देवि देवदेवे // lal_5.50 //

करचरणतलेभि यावदूर्ध्वं अङ्ग महोरम दिव्य आतिरेकाः / प्रेक्षतु नयनान्न चास्ति तृप्तिं भूय प्रहर्षति चित्त मानसं च // lal_5.51 //

शशिरिव गगने विराजते ऽस्या वदनु वरं च विराज गात्रभासा / रविरिव विमला शशीव दीप्ता तथ प्रभ निश्चरते ऽस्य आत्मभावात् // lal_5.52 //

कनकमिव सुजातजातरूपा वर्ण विरोचति देविये तथैव / भ्रमरवरनिकाश कुन्तलानी मृदुकसुगन्धश्रवास्य मूर्धजानि // lal_5.53 //

कमलदलनिभे तथास्य नेत्रे दशनविशुद्ध नभेव ज्योतिषाणि / चाप इव तनूदरी विशाला पार्श्व समुद्गत मांसि नास्ति संधिः // lal_5.54 //

गजभुजसदृशे ऽस्य ऊरुजङ्घे जानु सुजात्वनुपूर्वमुद्गतास्य / करतलचरणा समा सुरक्ता व्यक्तमियं खलु देवकन्य नान्या // lal_5.55 //

एव बहुविधं निरीक्ष्य देवीं कुसुम क्षिपित्व प्रदक्षिणं च कृत्वा / सुपिय यशवती जिनस्य माता पुनरपि देवपुरं गता क्षणेन // lal_5.56 //

अथ चतुरि चतुर्दिशासु पालाः शक्र सुयाम तथैव निर्मिताश्च / देवगण कुम्भाण्ड राक्षसाश्च असुर महोरग किन्नराश्च वोचन् // lal_5.57 //

गच्छत पुरतो नरोत्तमस्य पुरुषवरस्य करोथ रक्षगुप्तिम् / मा कुरुत जगे मनःप्रदोषं मा च करोत विहेठ मानुषाणाम् // lal_5.58 //

यत्र गृहवरस्मि मायदेवी तत्र समग्र सपारिषद्य सर्वे / असिधनुशरशक्तिखङ्गहस्ता गगनतलस्मि स्थिता निरीक्षयाथ // lal_5.59 //

ज्ञात्व च्यवनकाल देवपुत्रा उपगमि मायसकाश हृष्टचित्ता / पुष्प तथ विलेपनां गृहीत्वा दशनखअञ्जलिभिर्नमस्यमानाः // lal_5.60 //

च्यव च्यव हि नरेन्द्र शुद्धसत्त्वा अयु समयो भवतो ऽद्य वादिसिंह / कृपकरुण जनित्व सर्वलोके अस्मि अध्येषम धर्मदानहेतोः // lal_5.61 //

इति //

अथ खलु भिक्षवो बोधिसत्त्वस्य च्यवनकालसमये पूर्वस्या दिशो बहूनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धास्तुषितवरभवनवासिनो येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे / एवं दशभ्यो दिग्भ्यो एकैकस्या दिशो बहूनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धास्तुषितवरभवनवासिनो येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे / चातुर्महाराजकायिकेभ्यो देवेभ्यश्चतुरशीत्यप्सरःशतसहस्राण्येवं त्रयत्रिंशतो यामेभ्यस्तुषितेभ्यो निर्माणरतिभ्यः परनिर्मितवशवर्तिभ्यो देवेभ्यश्चतुरशीत्यप्सरः - शतसहस्राणि नानातूर्यसंगीतिवादितेन येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे //

अथ खलु बोधिसत्त्वः श्रीगर्भसिंहासने सर्वपुण्यसमुद्गते सर्वदेवनागसंदर्शने महाकूटागारे निषद्य सार्धं बोधिसत्त्वैर्देवनागयक्षकोटिनियुतशतसहस्रैः परिवृतः पुरस्कृतस्तुषितवरभवनात् (वैद्य 39) प्रचलति स्म / प्रचलता च भिक्षवो बोधिसत्त्वेन तथारूपा कायात् प्रभा मुक्ताभूद् यया प्रभया अयं त्रिसाहस्रमहासाहस्रो लोकधातुरेवं विपुलविस्तीर्णो महतोदारेण सुप्रचलितपूर्वेण दिव्यप्रभासमतिक्रान्तेनावभासेन परिस्फुटो ऽभूत् / या अपि ता लोकान्तरिका अघा अघस्फुटा अन्धकारास्तमिस्रा यत्रेमौ चन्द्रसूर्यावेवं महर्द्धिकावेवं महानुभावावेवं महेशाख्यौ आभया आभां वर्णेन वर्णं तेजसा तेजो नाभितपतो नाभिविरोचतः, तत्र ये सत्त्वा उपपन्नास्ते स्वकानपि बाहुप्रसारितान्न पश्यन्ति / तथापि तस्मिन् समये महत उदारस्यावभासस्य प्रादुर्भावो ऽभूत् / ये च तत्र सत्त्वा उपपन्नास्ते तेनैवावभासेन स्फुटाः समाना अन्योन्यं सम्यक् पश्यन्ति स्म / अन्योन्यं संजानन्ते स्म / एवं चाहुः - अन्ये ऽपि किल भोः सत्त्वा इहोपपन्नाः किल भो इति //

अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमष्टादशमहानिमित्तमभूत् / अकम्पत् प्राकम्पत् संप्राकम्पत् / अवेधत् प्रावेधत् संप्रावेधत् / अचलत् प्राचलत् संप्राचलत् / अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत् / अरणत् प्रारणत् संप्रारणत् / अगर्जत् प्रागर्जत् संप्रागर्जत् / अन्ते ऽवनमति स्म, मध्ये उन्नमति स्म / मध्ये ऽवनमति स्म, अन्ते उन्नमति स्म / पूर्वस्यां दिश्यवनमति स्म, पश्चिमायां दिश्युन्नमति स्म / पश्चिमायां दिश्यवनमति स्म, पूर्वस्यां दिश्युन्नमति स्म / दक्षिणस्यां दिश्यवनमति स्म, उत्तरस्यां दिश्युन्नमति स्म / उत्तरस्यां दिश्यवनमति स्म, दक्षिणस्यां दिश्युन्नमति स्म / तस्मिन् समये हर्षणीयास्तोषणीयाः प्रेमणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया निर्वर्णनीया असेचनीया अप्रतिकूला अनुत्त्रासकराः शब्दाः श्रूयन्ते स्म / न च कस्यचित् सत्त्वस्य तस्मिन् क्षणे विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वाभूत् / न च भूयः सूर्याचन्द्रमसोर्न ब्रह्मशक्रलोकपालानां तस्मिन् क्षणे प्रभा प्रज्ञायते स्म / सर्वनरकतिर्यग्योनियमलोकोपपन्नाश्च सत्त्वास्तस्मिन् क्षणे विगतदुःखा अभूवन् सर्वसुखसमर्पिताः / न च कस्यचित् सत्त्वस्य रागो बाधते स्म, द्वेषो वा मोहो वा, ईर्ष्या वा मात्सर्यं वा, मानो वा म्रक्षो वा, मदो वा क्रोधो वा, व्यापादो वा परिदाहो वा / सर्वसत्त्वास्तस्मिन् क्षणे मैत्रचित्ता हितचित्ताः परस्परं मातापितृसङ्गिनो ऽभूवन् / अघट्टितानि च दिव्यमानुष्यकाणि तूर्यकोटिनियुतशतसहस्राणि मनोज्ञघोषमुत्सृजन्ति स्म / देवकोटीनयुतशतसहस्राणि पाणिभिरंसैः शिरोभिस्तं महाविमानं वहन्ति स्म / तानि चाप्सरःशतसहस्राणि स्वां स्वां संगीतिं संप्रयुज्य पुरतः पृष्ठतो वामदक्षिणेन च स्थित्वा बोधिसत्त्वं संगीतिरुतस्वरेणाभिस्तुवन्ति स्म -

पूर्वकर्मशुभसंचितस्य ते दीर्घरात्रकुशलोदितस्य ते / सत्यधर्मनयशोधितस्य ते पूज अद्य विपुला प्रवर्तते // lal_5.62 //

पूर्वि तुभ्य बहुकल्पकोटियो दानु दत्तु प्रियपुत्रधीतरा / तस्य दानचरितस्य तत्फलं येन दिव्य कुसुमाः प्रवर्षिताः // lal_5.63 //

आत्ममांस तुलयित्व ते विभो सो ऽभिदत्तु प्रियपक्षिकारणात् / तस्य दानचरितस्य तत्फलं प्रेतलोकि लभि पानभोजनम् // lal_5.64 //

पूर्वि तुभ्य बहुकल्पकोटियो शील रक्षितमखण्डनव्रतम् / तस्य शीलचरितस्य तत्फलं येन अक्षण अपाय शोधिताः // lal_5.65 //

पूर्वि तुभ्य बहुकल्पकोटियो क्षान्ति भावित निदानबोधये / तस्य क्षान्तिचरितस्य तत्फलं मैत्रचित्त भुत देवमानुषाः // lal_5.66 //

पूर्वि तुभ्य बहुकल्पकोटियो वीर्यु भावितमलीनमुत्तमम् / तस्य वीर्यचरितस्य तत्फलं येन कायु यथ मेरु शोभते // lal_5.67 //

पूर्वि तुभ्य बहुकल्पकोटियो ध्यान ध्यायित किलेशध्येषणात् / तस्य ध्यानचरितस्य तत्फलं येन क्लेश जगतो न बाधते // lal_5.68 //

पूर्वि तुभ्य बहुकल्पकोटियो प्रज्ञ भावित किलेशछेदनी / तस्य प्रज्ञचरितस्य तत्फलं येन आभ परमा विरोचते // lal_5.69 //

मैत्रवर्मित किलेशसूदना सर्वसत्त्वकरुणाय उद्गता / मोदिप्राप्त परमा उपेक्षका ब्रह्मभूत सुगता नमो ऽस्तु ते // lal_5.70 //

प्रज्ञ उल्कप्रभ तेजसोद्गता सर्वदोषतममोहशोधका / चक्षुभूत त्रिसहस्रिनायका मार्गदेशिक मुने नमो ऽस्तु ते // lal_5.71 //

ऋद्धिपादवरभिज्ञकोविदा सत्यदर्शि परमार्थि शिक्षिता / तीर्ण तारयसि अन्यप्राणिनो दाशभूत सुगता नमो ऽस्तु ते // lal_5.72 //

सर्वोपायवरभिज्ञकोविदा दर्शयसि च्युतिमच्युतिच्युतिम् / लोकधर्मभवनाभिवर्तसे नो च लोकि क्वचि ओपलिप्यसे // lal_5.73 //

लाभ तेष परमा अचिन्तिया येषु दर्शन श्रवं च एष्यसे / किं पुनः शृणुय यो तिधर्मतां श्रद्ध प्रीति विपुला जनेष्यसे // lal_5.74 //

जिह्म सर्व तुषितालयो भुतो जम्बुद्वीपि पुरि यो उदागतः / प्राणिकोटिनयुता अचिन्तियां बोधयिष्यसि प्रसुप्त क्लेशतो // lal_5.75 //

ऋद्ध स्फीत पुरमद्य भेष्यती देवकोटिनयुतैः समाकुलम् / अप्सरोभि तुरियैर्निनादितं राजगेहि मधुरं श्रुणिष्यति // lal_5.76 //

पुण्यतेजभरिता शुभकर्मणा नारि सा परमरूपौपेता / यस्य पुत्र अयमेव समृद्धः तिस्रलोकि अभिभाति शीरिये // lal_5.77 //

नो भुयो पुरवरस्मि देहिनां लोभदोषकलहा विवादका / सर्व मैत्रमनसः सगौरवा भाविनो नरवरस्य तेजसा // lal_5.78 //

राजवंश नृपतेः प्रवर्धते चक्रवर्तिकुलराजसंभवः / भेष्यते कपिलसाह्वयं पुरं रत्नकोषभरितं सुसमृद्धम् // lal_5.79 //

यक्षराक्षसकुम्भाण्डगुह्यका देवदानवगणाः सैन्द्रकाः / ये स्थिता नरवरस्य रक्षकाः तेषु मोक्ष नचिरेण भेष्यते // lal_5.80 //

पुण्युपार्जितु स्तवित्व नायकं प्रेमगौरवमुपस्थपिस्व ना / सर्व बोधि परिणामयामहे क्षिप्र भोम यथ त्वं नरोत्तम // lal_5.81 //

इति //

इति श्रीललितविस्तरे प्रचलपरिवर्तो नाम पञ्चमो ऽध्यायः //

स्तर्त् परिवर्त 6

गर्भावक्रान्तिपरिवर्तः षष्ठः /

इति हि भिक्षवः शिशिरकालविनिर्गते वैशाखमासे विशाखानक्षत्रानुगते ऋतुप्रवरे वसन्तकालसमये तरुवरपत्राकीर्णे वरप्रवरपुष्पसंकुसुमिते शीतोष्णतमोरजोविगते मृदुशाद्वले सुसंस्थिते त्रिभुवनज्येष्ठो लोकमहितो व्यवलोक्य ऋतुकालसमये पञ्चदश्यां पूर्णमास्यां पोषधगृहीताया मातुः पुष्यनक्षत्रयोगेन बोधिसत्त्वस्तुषितवरभवनाच्च्युत्वा स्मृतः संप्रजानन् पाण्डुरो गजपोतो भूत्वा षड्दन्त इन्द्रगोपकशिराः सुवर्णराजीदन्तः सर्वाङ्गप्रत्यङ्गो ऽहीनेन्द्रियो जनन्या दक्षिणायां कुक्षाववक्रामत् / अवक्रान्तश्च स दक्षिणावचरो ऽभून्न जातु वामावचरः / मायादेवी सुखशयनप्रसुप्ता इमं स्वप्नमपश्यत् -

हिमरजतनिभश्च षड्विषाणः सुचरण चारुभुजः सुरक्तशीर्षः / उदरमुपगतो गजप्रधानो ललितगतिर्दृढवज्रगात्रसंधिः // lal_6.1 //

न च मम सुख जातु एवरूपं दृष्टमपि श्रुतं नापि चानुभूतम् / कायसुखचित्तसौख्यभावा यथरिव ध्यानसमाहिता अभूवम् // lal_6.2 //

अथ खलु मायादेवी आभरणविगलितवसना प्रह्लादितकायचित्ता प्रीतिप्रामोद्यप्रसादप्रतिलब्धा शयनवरतलादुत्थाय नारीगणपरिवृता पुरस्कृता प्रासादवरशिखरादवतीर्य येनाशोकवनिका तेनोपजगाम / सा अशोकवनिकायां सुखोपविष्टा राज्ञः शुद्धोदनस्य दूतं प्रेषयति स्म - आगच्छतु देवो देवी ते द्रष्टुकामेति //

अथ स राजा शुद्धोदनस्तद्वचनं श्रुत्वा प्रहर्षितमना आकम्पितशरीरो भद्रासनादुत्थाय अमात्यनैगमपार्षद्यबन्धुजनपरिवृतो येनाशोकवनिका तेनोपसंक्रामत्, उपसंक्रान्तश्च न शक्नोति स्म अशोकवनिकां प्रवेष्टुम् / गुरुतरमिवात्मानं मन्यते स्म / अशोकवनिकाद्वारे स्थितो मुहूर्तं संचिन्त्य तस्यां वेलायामिमां गाथामभाषत -

न स्मरि रणशौण्डि मूर्धसंस्थस्य मह्यम् एव गुरु शरीरं मन्यमी यादृशो ऽद्य / स्वकुलगृहमद्य न प्रभोमि प्रवेष्टुं किमिह मम भवे ऽङ्गो कान्व पृच्छेय चाहम् // lal_6.3 //

इति //

अथ खलु शुद्धावासकायिका देवपुत्रा गगनतलगता अर्धकायमभिनिर्माय राजानं गाथयाध्यभाषन्त -

व्रततपगुणयुक्तस्तिस्रलोकेषु पूज्यो मैत्रकरुणलाभी पुण्यज्ञानाभिषिक्तः / तुषितपुरि च्यवित्वा बोधिसत्त्वो महात्मा नृपति तव सुतत्वं मायकुक्षौपपन्नः // lal_6.4 //

दशनख तद कृत्वा स्वं शिरं कम्पयन्तो नृपतिरनुप्रविष्टश्चित्रिकारानुयुक्तः / माय तद निरीक्ष्य मानदर्पोपनीतां वदहि कुरुमि किं ते किं प्रयोगो भणाहि // lal_6.5 //

देव्याह -

हिमरजतनिकाशश्चन्द्रसूर्यातिरेकः सुचरण सुविभक्तः षड्विषाणो महात्मा / गजवरु दृढसंधिर्वज्रकल्पः सुरूपः उदरि मम प्रविष्टस्तस्य हेतुं श्रुणुष्व // lal_6.6 //

वितिमिर त्रिसहस्रां पश्यमी भ्राजमानां देवनयुत देवा ये स्तुवन्ती सयाना / न च मम खिलदोषो नैव रोषो न मोहो ध्यानसुखसमङ्गी जानमी शान्तचित्ता // lal_6.7 //

साधु नृपति शीघ्रं ब्राह्मणानानयास्मिन् वेदसुपिनपाठा ये गृहेषू विधिज्ञाः / सुपिनु मम हि येमं व्याकरी तत्त्वयुक्तं किमिद मम भवेया श्रेयु पापं कुलस्य // lal_6.8 //

वचनमिमु श्रुणित्वा पार्थिवस्तत्क्षणेन ब्राह्मण कृतवेदानानयच्छास्त्रपाठान् / माय पुरत स्थित्वा ब्राह्मणानामवोचत् सुपिन मयि ह दृष्टस्तस्य हेतुं शृणोथ // lal_6.9 //

ब्राह्मणा आहुः - ब्रूहि देवि त्वया कीदृशं स्वप्नं दृष्टम् / श्रुत्वा ज्ञास्यामः /

देव्याह -

हिमरजतनिकाशश्चन्द्रसूर्यातिरेकः सुचरण सुविभक्तः षड्विषाणो महात्मा / गजवरु दृढसंधिर्वज्रकल्पः सुरूपः उदरि मम प्रविष्टस्तस्य हेतुं शृणोथ // lal_6.10 //

वचनमिमु श्रुणित्वा ब्राह्मणा एवमाहुः प्रीति विपुल चिन्त्या नास्ति पापं कुलस्य / पुत्र तव जनेसी लक्षणैर्भूषिताङ्गं राजकुलकुलीनं चक्रवर्ति महात्मं // lal_6.11 //

स च पुर विजहित्वा कामराज्यं च गेहं प्रव्रजित निरपेक्षः सर्वलोकानुकम्पी / बुद्धो भवति एषो दक्षिणीयस्त्रिलोके अमृतरसवरेणा तर्पयेत् सर्वलोकम् // lal_6.12 //

व्याकरित्व गिरं सौम्यां भुक्त्वा पार्थिवभोजनम् / आच्छादनानि चोद्गृह्य प्रक्रान्ता ब्राह्मणास्ततः // lal_6.13 //

इति हि भिक्षवो राजा शुद्धोदनो ब्राह्मणेभ्यो लक्षणनैमित्तिकवैपञ्चकेभ्यः स्वप्नाध्यायीपाठकेभ्यः प्रतिश्रुत्य हृष्टस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तान् ब्राह्मणान् प्रभूतेन खादनीयभोजनीयास्वादनीयेन संतर्प्य संप्रवार्याच्छादनानि च दत्वा विसर्जयति स्म / तस्यां वेलायां कपिलवस्तुनि महानगरे चतुर्षु नगरद्वारेषु सर्वनगरचत्वरशृङ्गाटकेषु च दानं दापयति स्म अन्नमन्नार्थिकेभ्यः, पानं पानार्थिकेभ्यः, वस्त्राणि वस्त्रार्थिकेभ्यः, यानानि यानार्थिकेभ्यः / एवं गन्धमाल्यविलेपनशय्योपाश्रयं प्राजीविकं प्राजीविकार्थिभ्यो यावदेव बोधिसत्त्वस्य पूजाकर्मणे //

अथ खलु भिक्षवो राज्ञः शुद्धोदनस्यैतदभवत् - कतमस्मिन् गृहे मायादेवी सुखमनुपक्लिष्टा विहरेदिति / अथ तत्क्षणमेव चत्वारो महाराजानो राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः -

अल्पोत्सुको देव भव सुखं तिष्ठ उपेक्षको / वयं हि बोधिसत्त्वस्य वेश्म वै मापयामहे // lal_6.14 //

अथ खलु शक्रो देवानामिन्द्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह -

हीना विमाना पालानां त्रयत्रिंशानमुत्तमाः / वैजयन्तसमं वेश्म बोधिसत्त्वस्य दाम्यहम् // lal_6.15 //

अथ खलु सुयामो देवपुत्रो राजानं शुद्धोदनमुसंक्रम्यैवमाह -

मदीयं भवनं दृष्ट्वा विस्मिताः शक्रकोटयः / सुयामभवनं श्रीमद्बोधिसत्त्वस्य दाम्यहम् // lal_6.16 //

अथ खलु संतुषितो देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह -

यत्रैव उषितः पूर्वं तुषितेषु महायशाः / तदेव भवनं रम्यं बोधिसत्त्वस्य दाम्यहम् // lal_6.17 //

अथ खलु सुनिर्मितो देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह -

मनोमयमहं श्रीमद्वश्म तद्रतनामयम् / बोधिसत्त्वस्य पूजार्थमुपनेष्यामि पार्थिव // lal_6.18 //

अथ खलु परनिर्मितवशवर्ती देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह - यावन्तः कामधातुस्था विमानाः शोभनाः क्वचित् / भाभिस्ते मद्विमानस्य भवन्त्यभिहतप्रभाः // lal_6.19 // तत् प्रयच्छाम्यहं श्रीमद्वेश्म रत्नमयं शुभम् / बोधिसत्त्वस्य पूजार्थमानयिष्यामि पार्थिव // lal_6.20 //

दिव्यैः पुष्पैः समाकीर्णं दिव्यगन्धोपवासितम् / उपनामयिष्ये विपुलं यत्र देवी वसिष्यति // lal_6.21 //

इति हि भिक्षवः सर्वैः कामावचर्रैदैवेश्वरैर्बोधिसत्त्वस्य पूजार्थं कपिलाह्वये महापुरवरे स्वकस्वकानि गृहाणि मापितान्यभूवन् / राज्ञा चपि शुद्धोदनेन मनुष्यातिक्रान्तं दिव्यासंप्राप्तं गृहतरं प्रतिसंस्कारितमभूत् / तत्र बोधिसत्त्वो महासत्त्वो महाव्यूहस्य समाधेरनुभावेन सर्वेषु तेषु गृहेषु मायादेवीमुपदर्शयति स्म / अभ्यन्तरगतश्च बोधिसत्त्वो मायादेव्याः कुक्षौ दक्षिणे पार्श्वे पर्यङ्कमाभुज्य निषण्णो ऽभूत् / सर्वे च ते देवेश्वरा एकैकमेवं संजानीते स्म - ममैव गृहे बोधिसत्त्वमाता प्रतिवसति नान्यत्रेति //

तत्रेदमुच्यते -

महाव्यूहाय स्थितः समाधिये अचिन्तिया निर्मित निर्मिणित्वा / सर्वेष देवानभिप्राय पूरिता नृपस्य पूर्णश्च तदा मनोरथः // lal_6.22 //

अथ खलु तस्यां देवपर्षदि केषांचिद्देवपुत्राणामेतदभवत् - ये ऽपि तावच्चातुर्महाराजकायिका देवास्ते ऽपि तावन्मनुष्याश्रयगतत्वेन निर्विद्यापक्रमन्ति / कः पुनर्वादो ये तदन्ये उदारतमा देवाः त्रायत्रिंशा वा यामा वा तुषिता वा / तत्कथं हि नाम सर्वलोकाभ्युद्गतो बोधिसत्त्वः शुचिर्निरामगन्धः सत्त्वरत्नः संतुषिताद्देवनिकायाच्च्युत्वा दुर्गन्धे मनुष्याश्रये दशमासान् मातुः कुक्षौ स्थित इति //

अथ खल्वायुष्मानानन्दो बुद्धानुभावेन भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावज्जुगुप्सनीयश्च मातृग्रामस्तथागतेनोक्तो यावद्रागचरितश्च / इदं तु भगवन् आश्चर्यतरम् / कथं हि नाम सर्वलोकाभ्युद्गतो भगवान् पूर्वं बोधिसत्त्वभूत एव तुषिताद्देवनिकायाच्च्यवित्वा मनुष्याश्रये (दुर्गन्धे) मातुर्दक्षिणे (पार्श्वे) कुक्षावुपपन्न इति / नाहं भगवन् इदमुत्सहे एवं वक्तं यथैव पूर्वे भगवता व्याकृतमिति / भगवानाह - इच्छसि त्वमानन्द रत्नव्यूहं बोधिसत्त्वपरिभोगं द्रष्टुं यो मातुः कुक्षिगतस्य बोधिसत्त्वस्य परिभोगो ऽभूत् / आनन्द आह - अयमस्य भगवन् कालः, अयं सुगत समयः, यत्तथागतस्तं बोधिसत्त्वपरिभोगमुपदर्शयेद् यं दृष्ट्वा प्रीतिं वेत्स्यामः //

अथ खलु भगवांस्तथारूपनिमित्तमकरोत्, यद् ब्रह्मा सहापतिः सार्धमष्टषष्टिब्रह्मशतसहस्रैर्ब्रह्मलोके ऽन्तर्हितो भगवतः पुरतः प्रत्यस्थात् / स भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिप्रदक्षिणीकृत्यैकान्ते ऽस्थात् प्राञ्जलीभूतो भगवन्तं नमस्यन् / तत्र खलु भगवान् जानन्नेव ब्रह्माणं सहापतिमामन्त्रयते स्म - गृहीतस्त्वया ब्रह्मन् स बोधिसत्त्वपरिभोगो दशमासिको यो मम पूर्वं बोधिसत्त्वभूतस्य मातुः कुक्षिगतस्याभूत् / ब्रह्मा आह - एवमेतद्भगवन्, एवमेतत् सुगत / भगवानाह - क्व स इदानीं ब्रह्मन्? उपदर्शय तम् / ब्रह्मा चाह - ब्रह्मलोके स भगवन् / भगवानाह - तेन हि त्वं ब्रह्मन् उपदर्शय तं दशमासिकं बोधिसत्त्वपरिभोगम्, ज्ञास्यन्ति कियत्संस्कृतमिति //

अथ खलु ब्रह्मा सहापतिस्तान् ब्राह्मणानेतदवोचत् - तिष्ठतु तावद्भवन्तो यावद्वयं रत्नव्यूहं बोधिसत्त्वपरिभोगमानयिष्यामः //

अथ खलु ब्रह्मा सहापतिर्भगवतः पादौ शिरसाभिवन्दित्वा भगवतः पुरतो ऽन्तर्हितस्तत्क्षणमेव ब्रह्मलोके प्रत्यस्थात् //

अथ खलु ब्रह्मा सहापतिः सुब्रह्माणं देवपुत्रमेतदवोचत् - गच्छ त्वं मार्षा इतो ब्रह्मलोकमुपादाय यावत्त्रायत्रिंशद्भवनम् - शब्दमुदीरय, घोषमनुश्रावय / रत्नव्यूहं बोधिसत्त्वपरिभोगं वयं तथागतस्यान्तिकमुपनामयिष्यामः / यो युष्माकं द्रष्टुकामः स शीघ्रमागच्छत्विति //

अथ खलु ब्रह्मा सहापतिश्चतुरशीत्या देवकोट्या नयुतशतसहस्रः सार्धं तं रत्नव्यूहं बोधिसत्त्वपरिभोगं परिगृह्य महति ब्राह्मे विमाने त्रियोजनशतिके प्रतिष्ठाप्यानेकैर्दैवकोटीनयुतशतसहस्रैः समन्ततो ऽनुपरिवार्य जम्बूद्वीपमवतारयति स्म //

तेन खलु पुनः समयेन कामावचराणां देवानां महासंनिपातो ऽभूत् भगवत्सकाशे गन्तुम् / स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगो दिव्यैर्वस्त्रैर्दिव्यैर्माल्यैर्दिव्यैर्गन्धैर्दिव्यैः पुष्पैर्दिव्यैर्वाद्यैर्दिव्यैश्च परिभौगैरभिसंस्कृतो ऽभूत् / तावन्महेशाख्यैश्च देवैः परिवृतो ऽभूद् यच्छक्रो देवानामिन्द्रः सुमेरौ(समुद्रे) स्थित्वा दूरत एव मुखे तालच्छत्रकं दत्त्वा शीर्षव्यवलोकनेनानुविलोकयति स्म उन्मेषध्यायिकया वा / न च शक्नोति स्म द्रष्टुम् / तत्कस्मात्? महेशाख्या हि देवा ब्राह्मणाः / इतरास्त्रायत्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनः / कः पुनर्वादः शक्रो देवानामिन्द्रः / मोहं ते वै यान्ति स्म //

अथ खलु भगवांस्तं दिव्यं वाद्यनिर्घोषमन्तर्धापयति स्म / तत्कस्मात्? यत्सहश्रवणादेव जाम्बुद्वीपका मनुष्या उन्मादमापत्स्यन्त इति //

अथ खलु चत्वारो महाराजानः शक्रं देवानामिन्द्रमुपसंक्रम्यैवमाहुः - कथं देवानामिन्द्र करिष्यामो न लभामहे रत्नव्यूहं बोधिसत्त्वपरिभोगं द्रष्टुम् / स तानवोचत् - किमहं मार्षाः करिष्यामि? अहमपि न लभे द्रष्टुम् / अपि तु खलु पुनर्मार्षा भगवत्समीपमुपनीतं द्रक्ष्यामः / ते तदा आहुः - तेन हि देवानामिन्द्र तथा कुरु यथास्य क्षिप्रं दर्शनं भवेत् / शक्र आह - आगमयत मार्षा मुहूर्तं यावदतिक्रान्तातिक्रान्ततमा देवपुत्रा भगवन्तं प्रतिसंमोदयन्ते स्म / तदेकान्ते स्थित्वा शीर्षोन्मिञ्जितकया भगवन्तमनुविलोकयन्ति स्म //

अथ खलु ब्रह्मा सहापतिः सार्धं तैश्चतुरशीत्या देवकोटीनयुतशतसहस्रैस्तं रत्नव्यूहं बोधिसत्त्वपरिभोगं गृहीत्वा येन भगवांस्तेनोपसंक्रामयति स्म / स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगो ऽभिरूपः प्रासादिको दर्शनीयश्चतुरस्रश्चतुष्ठूणः / उपरिष्टाच्च कूटागारसमलंकृतः / एवंप्रमाणः तद्यथापि नाम षण्मासजातो

दारक उच्चैस्त्वेन / तस्य खलु पुनः कूतागारस्य मध्ये पर्यङ्कः प्रज्ञप्तः तद्यथापि नाम षण्मासजातस्य दारकस्य भित्तीफलकः / स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोग एवं वर्णसंस्थानो यस्य न कश्चित् सदेवके लोके समारके सब्रह्मके सदृशो ऽस्ति आकृत्या वा वर्णेन वा / देवाः खल्वपि तं दृष्ट्वा आश्चर्यप्राप्ता अभुवन् / चक्षूंषि तेषां विभ्रमन्ति स्म / स च तथागतस्यान्तिक उपनीतो ऽतीव भासते तपति विरोचते स्म / तद्यथापि नाम द्विनिर्धान्तं सुवर्णं कुशलेन कर्मकारेण सुपरिनिष्ठितमपगतकाचदोषम्, एवं (तस्मिन् समये) स कूटागारो विराजते स्म / तस्मिन् खलु पुनर्बोधिसत्त्वपरिभोगे पर्यङ्कः प्रज्ञप्तो यस्य सदेवके लोके नास्ति कश्चित् सदृशो वर्णेन वा संस्थानेन वा अन्यत्र कम्बुग्रीवाया (वैद्य 49) बोधिसत्त्वस्य / यत् खलु महाब्रह्मणा चीवरं प्रावृतमभूत्, तत्तस्य बोधिसत्त्वपर्यङ्कस्याग्रतो न भासते स्म तद्यथापि नाम वातवृष्ट्याभिहतः कृष्णकम्बलः / स खलु पुनः कूटागार उरगसारचन्दनमयो यस्यैकसुवर्णधरणी साहस्रं लोकधातुं मूल्यं क्षमते, तथाविधेनोरगसारचन्दनेन स कूटागारः समन्तादनुपलिप्तः / तादृश एव द्वितीयः कूटागारः कृतो यस्तस्मिन् प्रथमे कूटागारे ऽभ्यन्तरतः असक्तो ऽबद्धस्थितः / तादृश एव तृतीयो ऽपि कूटागारो यस्तस्मिन् द्वितीये कूटागारे ऽभ्यन्तरे ऽसक्तो ऽबद्धस्थितः / स च पर्यङ्कस्तस्मिन् गन्धमये तृतीये कूटागारे व्यवस्थितः संप्रतिच्छन्नः / तस्य खलु पुनरुरगसारचन्दनस्यैवंरूपो वर्णः तद्यथापि नाम अभिजातस्य नीलैवडूर्यस्य / तस्य खलु पुनर्गन्धकूटागारस्योपरि समन्ताद्यावन्ति कानिचिद्दिव्यातिक्रान्तानि पुष्पाणि सन्ति, तानि सर्वाणि तस्मिन् कूटागारे बोधिसत्त्वस्य पूर्वकुशलमूलविपाकेनानुप्राप्तान्येव जायन्ते स्म / स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगो दृढसारो ऽभेद्यो वज्रोपमः स्पर्शेन च काचिलिन्दिकसुखसंस्पर्शः / तस्मिन् खलु पुन रत्नव्यूहे बोधिसत्त्वपरिभोगे ये केचित् कामावचराणां देवानां भवनव्यूहास्ते सर्वे तस्मिन् संदृश्यन्ते स्म //

यामेव च रात्रिं बोधिसत्त्वो मातुः कुक्षिमवक्रान्तस्तामेव रात्रिमध आपस्कन्धमुपादाय अष्टषष्टियोजनशतसहस्राणि महापृथिवीं भित्त्वा यावद् ब्रह्मलोकं पद्मभ्युद्गतमभूत् / न च कश्चित्तं पद्मं पश्यति स्म अन्यत्र सारथिनरोत्तमाद्दशशतसाहस्रिकाच्च महाब्रह्मणः / यच्चेह त्रिसाहस्रमहासाहस्रलोकधातावोजो वा मण्डो व रसो वा, तत्सर्वं तस्मिन् महापद्मे मधुबिन्दुः संतिष्ठते स्म //

तमेनं महाब्रह्मा शुभे वैडूर्यभाजने प्रक्षिप्य बोधिसत्त्वस्योपनामयति स्म / तं बोधिसत्त्वः परिगृह्य भुङ्क्ते स्म महाब्रह्मणो ऽनुकम्पामुपादाय / नास्ति स कश्चित् सत्त्वः सत्त्वनिकाये यस्य स ओजोबिन्दुः परिभुक्तः सम्यक् सुखेन परिणामेदन्यत्र चरमभविकाद्बोधिसत्त्वात् सर्वबोधिसत्त्वभूमिपरिपूर्णात् / कस्य च कर्मणो विपाकेन स ओजोबिन्दुर्बोधिसत्त्वस्योपतिष्ठते स्म? दीर्घरात्रं खल्वपि बोधिसत्त्वेन पूर्वं बोधिसत्त्वचर्यां चरता ग्लानेभ्यः सत्त्वेभ्यो भैषज्यं दत्तमाशत्पराणां सत्त्वानामाशाः परिपूरिताः, शरणागताश्च न परित्यक्ताः, नित्यं चाग्रपुष्पमग्रफलमग्ररसं तथागतेभ्यस्तथागतचैत्येभ्यस्तथागतश्रावकसंघेभ्यो मातापितृभ्यश्च दत्त्वा पश्चादात्मना परिभुक्तम् / तस्य कर्मणो विपाकेन महाब्रह्मा बोधिसत्त्वस्य तं मधुबिन्दुमुपनामयति स्म //

तस्मिन् खलु पुनः कूटागारे यानि कानिचित् सन्त्यतिक्रान्तातिक्रान्तानि मायागुणरतिक्रीडासमवसृतस्थानानि, तानि सर्वाणि तस्मिन् प्रादुर्भावानि संदृश्यन्ते स्म बोधिसत्त्वस्य पूर्वकर्मविपाकेन //

तस्मिन् खलु पुन रत्नव्यूहे बोधिसत्त्वपरिभोगे शतसहस्रव्यूहं नाम वासोयुगं प्रादुर्भूतम् / न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यस्य तत्प्रादुर्भवेदन्यत्र चरमभविकाद् बोधिसत्त्वात् / (वैद्य 50) न च ते केचन उदारोदारा रूपशब्दगन्धरसस्पर्शा ये तस्मिन् कूटागारे न संदृश्यन्ते स्म / सचेत्कूटागारपरिभोग एवं सुपरिभोग एवं सुपरिनिष्पन्नः सान्तरबहिरेवं सुपरिनिष्ठित एवं मृदुकश्च / तद्यथापि नाम काचिलिन्दिकसुखसंस्पर्शो निदर्शनमात्रेण, न तु तस्योपमा संविद्यते / धर्मता खल्वेषा बोधिसत्त्वस्य पूर्वकेण च प्रणिधानेन इयं चेतना ऋद्धाववश्यं बोधिसत्त्वेन महासत्त्वेन मनुष्यलोक उपपत्तव्यमभिनिष्क्रम्य चानुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयितव्यम् / यस्या मातुः कुक्षावुपपत्तिर्भवति, तस्या दक्षिणे कुक्षावादित एव रत्नव्यूहकूटागारो ऽभिनिर्वर्तते / पश्चाद्बोधिसत्त्वस्तुषितेभ्यश्च्युत्त्वा तस्मिन् कूटागारे पर्यङ्कनिषण्णः संभवति / न हि चरमभविकस्य बोधिसत्त्वस्य कललार्बुदघनपेशीभावं कायः संतिष्ठते स्म / अथ तर्हि सर्वाङ्गप्रत्यङ्गलक्षणसंपन्नः संनिषण्ण एव प्रादुर्भवति / स्वप्नान्तरगता च बोधिसत्त्वमाता मायादेवी महानागकुञ्जरमवक्रान्तं संजानीते स्म //

तस्य खलु पुनस्तथा निषण्णस्य शक्रो देवानामिन्द्रश्चत्वारश्च महाराजानो ऽष्टाविंशतिश्च महायक्षसेनापतयो गुह्यकाधिपतिश्च नाम यक्षकुलं यतो वज्रपाणेरुत्पत्तिस्ते बोधिसत्त्वं मातुः कुक्षिगतं विदित्वा सततं समितमनुबद्धा भवन्ति स्म / सन्ति खलु पुनश्चतस्रो बोधिसत्त्वपरिचारका देवताः - उत्खली च नाम समुत्खली च नाम ध्वजवती च नाम प्रभावती च नाम / ता अपि बोधिसत्त्वं मातुः कुक्षिगतं विदित्वा सततं समितं रक्षन्ति स्म / शक्रो ऽपि देवानामिन्द्रः सार्धं पञ्चमात्रैर्देवपुत्रशतैर्बोधिसत्त्वं मातुः कुक्षिगतं ज्ञात्वा सततं समितमनुबध्नाति स्म //

बोधिसत्त्वस्य खलु पुनर्मातुः कुक्षिगतस्य कायस्तथाविधो ऽभूत्, तद्यथापि नाम पर्वतमूर्धनि रात्रावन्धकारतमिस्रायां महानग्निस्कन्धो योजनादपि दृश्यते स्म, यावत् पञ्चभ्या योजनेभ्यो दृश्यते स्म / एवमेव बोधिसत्त्वस्य मातुः कुक्षिगतस्यात्मभावो ऽभिनिर्वृत्तो ऽभूत् प्रभास्वरो ऽभिरूपः प्रासादिको दर्शनीयः / स तस्मिन् कूटागारे पर्यङ्कनिषण्णो ऽतीव शोभते स्म / वैडूर्यप्रत्युप्तमिवाभिजातं जातरूपम् / बोधिसत्त्वस्य माता च निध्याय स्थिता पश्यति स्म कुक्षिगतं बोधिसत्त्वम् / तद्यथापि नाम महतो ऽभ्रकूटाद्विद्युतो निःसृत्य महान्तमवभासं संजनयन्ति, एवमेव बोधिसत्त्वो मातुः कुक्षिगतः श्रिया तेजसा वर्णेन च तं प्रथमं रत्नकूटागारमवभासयति स्म / अवभास्य द्वितीयं गन्धकूटागारमवभासयति स्म / द्वितीयं गन्धकूटागारमवभास्य तृतीयं रत्नकूटागारमवभासयति स्म / तृतीयं रत्नकूटागारमवभास्य सर्वावन्तं मातुरात्मभावमवभासयति स्म / तमवभास्य यत्र चासने निषण्णो भवति स्म तदवभासयति स्म / तदवभास्य सर्वं गृहमवभासयति स्म / सर्वं गृहमवभास्य गृहस्योपरिष्टान्निःसृत्य पूर्वां दिशमवभासयति स्म / एवं दक्षिणां पश्चिमां उत्तरामध ऊर्ध्वं समन्ताद्दशदिशः क्रोशमात्रमेकैकस्यां दिशि मातुः कुक्षिगतो बोधिसत्त्वः श्रिया तेजसा वर्णेन चावभासयति स्म //

आगच्छन्ति स्म खलु पुनर्भिक्षवश्चत्वारो महाराजानो ऽष्टाविंशच्च महायक्षसेनापतयः सार्धं पञ्चमात्रयक्षशतैः पूर्वाह्णकालसमये बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च / तदा बोधिसत्त्वस्तानागतान् विदित्वा दक्षिणं पाणिमभ्युत्क्षिप्य एकाङ्गुलिकया आसनान्युपदर्शयति स्म / निषीदन्ति स्म ते लोकपालादयो यथाप्रज्ञप्तेष्वासनेषु / पश्यन्ति स्म बोधिसत्त्वं मातुः कुक्षिगतं जातरूपमिव विग्रहं हस्तं चालयन्तं विचालयन्तम् उत्क्षिपन्तं प्रतिष्ठापयन्तम् / ते प्रीतिप्रामोद्यप्रसादप्रतिलब्धा बोधिसत्त्वं नमस्कुर्वन्ति स्म / निषण्णांश्च तान् विदित्वा बोधिसत्त्वो धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म / यदा च प्रक्रमितुकामा भवन्ति तदा बोधिसत्त्वस्तेषां चेतसैव विचिन्तितं विज्ञाय दक्षिणं पाणिमुत्क्षिप्य संचारयति स्म / संचार्य विचारयति स्म / मातरं च न बाधते स्म / तदा तेषां चतुर्णां महाराजानामेवं भवति स्म - विसर्जिताः स्म वयं बोधिसत्त्वेनेति / ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य प्रक्रामन्ति स्म / अयं हेतुरयं प्रत्ययो यद्बोधिसत्त्वो रात्र्यां प्रशान्तायां दक्षिणं पाणिं संचार्य विचारयति स्म / विचार्य पुनरपि स्मृतः संप्रजानंस्तं पाणिं प्रतिष्ठापयति स्म / पुनरपरं यदा बोधिसत्त्वस्य केचिद्दर्शनायागच्छन्ति स्म स्त्रियो वा पुरुषो वा दारको वा दारिका वा, तान् बोधिसत्त्वः पूर्वतरमेव प्रतिसंमोदयते स्म, पश्चाद्बोधिसत्त्वस्य माता //

इति हि भिक्षवो बोधिसत्त्वो मातुः कुक्षिगतः सन् सत्त्वान् प्रतिसंमोदनकुशलो भवति स्मेति / न च कश्चिद्देवो वा नागो वा यक्षो वा मनुष्यो वा अमनुष्यो वा यः शक्नोति स्म बोधिसत्त्वं पूर्वतरं प्रतिसंमोदितुम् / अथ तर्हि बोधिसत्त्व एव तावत् पूर्वतरं प्रतिसंमोदते स्म, पश्चाद्बोधिसत्त्वमाता //

निर्गते खलु पुनः पूर्वाह्णकालसमये मध्याह्नकालसमये प्रत्युपस्थिते अथ खलु शक्रो देवानामिन्द्रो निष्क्रान्तः / अभिनिष्क्रान्ताश्च त्रायत्रिंशद्देवपुत्रा बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय / धर्मश्रवणाय चागच्छन्ति स्म / तांश्च बोधिसत्त्वो दूरत एवागच्छतो दृष्ट्वा दक्षिणं सुवर्णवर्णं बाहुं प्रसार्य शक्रं देवानामिन्द्रं देवांश्च त्रायत्रिंशान् प्रतिसंमोदते स्म / एकाङ्गुलिकया चासनान्युपदर्शयति स्म / न च शक्नोति स्म भिक्षवः शक्रो देवानामिन्द्रो बोधिसत्त्वस्याज्ञां प्रतिरोद्धुम् / निषीदति स्म शक्रो देवानामिन्द्रस्तदन्ये च देवपुत्रा यथाप्रज्ञप्तेष्वासनेषु / तान् बोधिसत्त्वो निषण्णान् विदित्वा धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म / येन च बोधिसत्त्वः पाणिं संचारयति स्म, तन्मुखा बोधिसत्त्वमाता भवति स्म / ततस्तेषामेवं भवति स्म - अस्माभिः सार्धं बोधिसत्त्वः संमोदते स्म / एकैकश्चैवं संजानीते स्म - मयैव सार्धं बोधिसत्त्वः संलपति, मामेव प्रतिसंमोदते स्म इति //

तस्मिन् खलु पुनः कूटागारे शक्रस्य देवानामिन्द्रस्य त्रायत्रिंशानां देवानां च प्रतिभासः संदृश्यते स्म / न खलु पुनरन्यत्रैवं परिशुद्धो बोधिसत्त्वपरिभोगो भवति यथा मातुः कुक्षिगतस्य बोधिसत्त्वस्य / यदा च भिक्षवः शक्रो देवानामिन्द्रस्तदन्ये च देवपुत्राः प्रक्रमितुकामा भवन्ति स्म, तदा बोधिसत्त्वस्तेषां चेतसैव चेतःपरिवितर्कमाज्ञाय दक्षिणं पाणिमुत्क्षिप्य संचारयन्ति स्म / संचार्य विचार्य पुनरपि स्मृतः संप्रजानन् प्रतिष्ठापयति स्म / मातरं च न बाधते स्म / तदा शक्रस्य देवानामिन्द्रस्यान्येषां च त्रायत्रिंशानां देवानामेवं भवति स्म - विसर्जिता वयं बोधिसत्त्वेनेति / ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य प्रक्रामन्ति स्म //

निर्गते च खलु पुनर्भिक्षवो मध्याह्नकालसमये सायाह्नकालसमये प्रत्युपस्थिते अथ खलु ब्रह्मा सहापतिरनेकैर्ब्रह्मकायिकैर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतस्तं दिव्यमोजोबिन्दुमादाय येन बोधिसत्त्वस्तेनोपसंक्रामति स्म बोधिसत्त्वं द्रष्टुं वन्दितुं पर्युपासितुं धर्मं च श्रोतुम् / समन्वाहरति स्म भिक्षवः बोधिसत्त्वो ब्रह्माणं सहापतिमागच्छन्तं सपरिवारम् / पुनरेव च बोधिसत्त्वो दक्षिणं सुवर्णवर्णपाणिमुत्क्षिप्य ब्रह्माणं सहापतिं ब्रह्मकायिकांश्च देवपुत्रान् प्रतिसंमोदते स्म / एकाङ्गुलिकया चासनान्युपदर्शयति स्म / न च शक्तिरस्ति भिक्षवो ब्रह्मणः सहापतेर्बोधिसत्त्वस्याज्ञां प्रतिरोद्धुम् / निषीदति स्म भिक्षवो ब्रह्मा सहापतिस्तदन्ये च ब्रह्मकायिका देवपुत्रा यथाप्रज्ञप्तेष्वासनेषु / तान् बोधिसत्त्वो निषण्णान् विदित्वा धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म / येन च बोधिसत्त्वः पाणिं संचारयति स्म, तन्मुखैव मायादेवी भवति स्म / ततस्तेषामेकैकस्यैवं भवति स्म - मया सार्धं बोधिसत्त्वः संलपति, मामेव प्रतिसंमोदते स्म इति / यदा च ब्रह्मा सहापतिस्तदन्ये च ब्रह्मकायिका देवपुत्रा गन्तुकामा भवन्ति स्म, तदा बोधिसत्त्वस्तेषां चेतसैव चेतःपरिवितर्कमाज्ञाय दक्षिणं सुवर्णवर्णं बाहुमुत्क्षिप्य संचारयति स्म / संचार्य विचारयति स्म / संचार्य विचार्य अवसादताकारेण पाणिं संचारयति स्म / मातरं च न बाधते स्म / ततो ब्रह्मणः सहापतेस्तदन्येषां च ब्रह्मकायिकानां देवपुत्राणामेवं भवति स्म - विसर्जिता वयं बोधिसत्त्वेनेति / ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य पुनरेव प्रक्रामन्ति स्म / बोधिसत्त्वश्च स्मृतः संप्रजानन् पाणिं प्रतिष्ठापयति स्म //

आगच्छन्ति स्म खलु पुनर्भिक्षवः पूर्वदक्षिणपश्चिमोत्तराभ्यो दिग्भ्यो ऽधस्तादुपरिष्टात् सन्ताद्दशभ्यो दिग्भ्यो बहूनि बोधिसत्त्वशतसहस्राणि बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च धर्मसंगीतिसंगायनाय च / तेषामागतागतानां बोधिसत्त्वः कायात् प्रभामुत्सृज्य प्रभाव्यूहानि सिंहासनान्यभिनिर्मिमीते स्म / अभिनिर्माय तान् बोधिसत्त्वांस्तेष्वासनेषु निषीदयति स्म / निषण्णांश्चैनान् विदित्वा परिपृच्छति स्म परिप्रश्नयति स्म यदुतास्यैव बोधिसत्त्वस्य महायानस्य विस्तरविभागतामुपादाय / न च तान् कश्चिदन्यः पश्यति स्म अन्यत्र सभागेभ्यो देवपुत्रेभ्यः / अयं भिक्षवो हेतुरयं प्रत्ययो येन बोधिसत्त्वः प्रशान्तायां रात्र्यां कायात् प्रभामुत्सृजति स्म //

न खलु पुनर्भिक्षवो मायादेवी बोधिसत्त्वकुक्षिगते गुरुकायतां संजानीते स्म अन्यत्र लघुतामेव मृदुतामेव सौख्यतामेव / न चोदरगतानि दुःखानि प्रत्यनुभवति स्म / न च रागपरिदाहेन वा द्वेषपरिदाहेन वा मोहपरिदाहेन वा परिदह्यते स्म / न च कामवितर्कं वा व्यापादवितर्कं वा विहिंसावितर्कं वा वितर्कयति स्म / न च शीतं न चोष्णं वा जिघत्सां वा पिपासां वा तमो वा रजो वा क्लेशं वा संजानीते स्म पश्यति वा / न चास्या अमनापा रूपशब्दगन्धरसस्पर्शा वा आभासमागच्छन्ति स्म / न च पापकान् स्वप्नान् पश्यति स्म / न चास्याः स्त्रीमाया न शाठ्यं नेर्ष्या न स्त्रीक्लेशा बाधन्ते स्म / पञ्चशिक्षापदसमादत्ता खलु पुनः शीलवती दशकुशलकर्मपथे प्रतिष्ठिता तस्मिन् समये बोधिसत्त्वमाता भवति स्म / न च बोधिसत्त्वमातुः क्वचित् पुरुषे रागचित्तमुत्पद्यते स्म, नापि कस्यचित्पुरुषस्य बोधिसत्त्वस्य मातुरन्तिके / ये च केचित्कपिलाह्वये महापुरवरे अन्येषु वा जनपदेषु देवनागयक्षगन्धर्वासुरगरुडभूताविष्टाः स्त्रीपुरुषदारकदारिका वा, ते सर्वे बोधिसत्त्वमातुः सहदर्शनादेव स्वस्थाः स्मृतिप्रतिलब्धा भवन्ति स्म / ते चामनुष्याः क्षिप्रमेव प्रक्रामन्ति स्म / ये च केचिन्नानारोगस्पृष्टाः सत्त्वा भवन्ति स्म, वातपित्तश्लेष्मसंनिपातजै रोगैः पीड्यन्ते स्म, चक्षुरोगेण वा श्रोत्ररोगेण वा घ्राणरोगेण वा जिह्वारोगेण वा ओष्ठरोगेण वा दन्तरोगेण कण्ठरोगेण वा गलगण्डरोगेण वा उरगण्डकुष्ठकिलासशोषोन्मादापस्मारज्वरगलगण्डपिटकविसर्पविचर्चिकाद्यै रोगैः संपीड्यन्ते स्म, तेषां बोधिसत्त्वमाता दक्षिणपाणिं मूर्ध्नि प्रतिष्ठापयति स्म / ते सहप्रतिष्ठापिते पाणौ विगतव्याधयो भूत्वा स्वकस्वकानि गृहाणि गच्छन्ति स्म / अन्ततो मायादेवी तृणगुल्मकमपि धरणितलादभ्युत्क्षिप्य ग्लानेभ्यः सत्त्वेभ्यो ऽनुप्रयच्छति स्म / ते सहप्रतिलम्भादरोगनिर्विकारा भवन्ति स्म / यदा च मायादेवी स्वं दक्षिणं पार्श्वं प्रत्यवेक्षते स्म, तदा पश्यति स्म बोधिसत्त्वं कुक्षिगतम्, तद्यथापि नाम सुपरिशुद्ध आदर्शमण्डले मुखमण्डलं दृश्यते / दृष्ट्वा च पुनस्तुष्टा उदग्रा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता भवति स्म //

बोधिसत्त्वस्य खलु पुनर्भिक्षवो मातुः कुक्षिगतस्याधिष्ठितं सततं समितं रात्रिंदिवं दिव्यानि तूर्याणि अभि(निर्माय) प्रनदन्ति स्म / दिव्यानि च पुष्पाणि अभिप्रवर्षन्ति स्म / कालेन देवा वर्षन्ति स्म / कालेन वायवो वान्ति स्म / कालेन ऋतवो नक्षत्राणि च परिवर्तन्ते स्म / क्षेमं च राज्यं सुभिक्षं च सुमनाकुलमनुभवति स्म / सर्वे च कपिलाह्वये महापुरवरे शाक्या अन्ये च सत्त्वाः खादन्ति स्म, पिबन्ति स्म, (रमन्ते स्म,) क्रीडन्ति स्म, प्रविचारयन्ति स्म, दानानि च ददन्ति स्म, पुण्यानि च कुर्वन्ति स्म, कौमोद्यामिव चातुर्मास्यामेकान्तरे क्रीडासुखविहारैर्विहरन्ति स्म / राजापि शुद्धोदनः संप्राप्तब्रह्मचर्योपरतराष्ट्रकार्यो ऽपि सुपरिशुद्धस्तपोवनगत इव धर्ममेवानुवर्तते स्म //

एवंरूपेण भिक्षव ऋद्धिप्रातिहार्येण समन्वागतो बोधिसत्त्वो मातुः कुक्षिगतो ऽस्थात् / तत्र खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - द्रक्ष्यसि त्वमानन्द रत्नव्यूहं बोधिसत्त्वपरिभोगं यत्र बोधिसत्त्वो मातुः कुक्षिगतो व्याहार्षीत् / आह - पश्येयं भगवन् पश्येयं सुगत / दर्शयति स्म तथागत आयुष्मत आनन्दस्य शक्रस्य देवानामिन्द्रस्य चतुर्णां च लोकपालानां तदन्येषां च देवमनुष्याणाम् / दृष्ट्वा च ते तुष्टा अभूवन् उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः / स च ब्रह्मा सहापतिः पुनरेव ब्रह्मलोके समारोप्य प्रतिष्ठापयति स्म चैत्यार्थम् //

तत्र खलु भगवान् पुनरपि भिक्षूनामन्त्रयते स्म - इति हि भिक्षवो दशमासकुक्षिगतेन बोधिसत्त्वेन षट्त्रिंशन्नयुतानि देवमनुष्याणां त्रिषु यानेषु परिपाचितान्यभूवन् / यत्रेदमुच्यते यत् -

बोधिसत्त्व अग्रसत्त्व मातुकुक्षिसंस्थितः प्रकम्पिता च षड्विकार मेदिनी सकानना / सुवर्णवर्ण आभ मुक्त सर्वापाय शोधिता प्रहर्षिताश्च देवसंघ धर्मगञ्जु भेष्यते // lal_6.23 //

सुंसंस्थितो महाविमानु नैकरत्नचित्रितो यत्र वीरु आरुहित्व तिष्ठते विनायकः / गन्धोत्तमेन चन्दनेन पूरितो विरोचते यस्यैककर्षु त्रिसहस्रमूल्यरत्नपूरितो // lal_6.24 //

महासहस्रलोकधातु हेष्वि भिन्दियित्वना उदागतो गुणाकरस्य पद्मओजबिन्दुको / सो सप्तरात्र पुण्यतेज ब्रह्मलोकि उद्गतो गृहीत्व ब्रह्म ओजबिन्दु बोधिसत्त्व नामयी // lal_6.25 //

न अस्ति सर्वसत्त्वकायि भुक्तु यो जरेय तं अन्यत्र भूरि बोधिसत्त्व ब्रह्मकल्पसंनिभे / अनेककल्प पुण्यतेज ओजबिन्दु संस्थितो भुजित्व सत्त्व कायचित्त ज्ञानशुद्ध गच्छिषु // lal_6.26 //

शक्र ब्रह्म लोकपाल पूजनाय नायकं त्रीणि काल आगमित्व बोधिसत्त्वमन्तिकम् / वन्दयित्व पूजयित्व धर्म शृणुते वरं प्रदक्षिणं करित्व सर्व गच्छिषू यथागता // lal_6.27 //

बोधिसत्त्व धर्मकाम एन्ति लोकधातुषु प्रभावियूह आसनेषु ते निषण्ण दृश्यिषु / परस्परं च श्रुत्व धर्म यानश्रेष्ठमुत्तमं प्रयान्ति सर्वि हृष्टचित्त वर्णमाल भाषतो // lal_6.28 //

ये च इष्टिदारकासु दुःखिता तदा अभूत् भूतस्पृष्ट क्षिप्तचित्त नग्न पांशुम्रक्षिता / ते च सर्व दृष्ट्व माय भोन्ति लब्धचेतना स्मृतीमतीगतीउपेत गेहि गेहि गच्छिषु // lal_6.29 //

वाततो व पित्ततो व श्लेष्मसंनिपातकैः ये च चक्षुरोग श्रोत्ररोग कायचित्तपीडिता / नैकरूप नैकजाति व्याधिभिश्च ये हता स्थापिते स्म माय मूर्ध्नि पाणि भोन्ति निर्जरा // lal_6.30 //

अथापि वा तृणस्य तूलि भूमितो गृहीत्वना ददाति माय आतुराण सर्वि भोन्ति निर्जरा / सौख्यप्राप्ति निर्विकार गेहि गेहि गच्छिषु भैषज्यभूति वैद्यराजि कुक्षिसंप्रतिष्ठिते // lal_6.31 //

यस्मि कालि मायदेवि स्वातनुं निरीक्षते अदृशाति बोधिसत्त्व कुक्षिये प्रतिष्ठितम् / यथैव चन्द्र अन्तरीक्ष तारकै परीवृतं तथैव नाथु बोधिसत्त्वलक्षणैरलंकृतम् // lal_6.32 //

नो च तस्य राग दोष नैव मोह बाधते कामछन्दु नैव तस्य ईर्षि नैव हिंसिता / तुष्टचित्त हृष्टचित्त प्रीति सौमनस्थिता क्षुधापिपास शीत उष्ण नैव तस्य बाधते // lal_6.33 //

अघट्टिताश्च नित्यकाल दिव्यतूर्य वादिषु प्रवर्षयन्ति दिव्यपुष्प गन्धश्रेष्ठ शोभना / देव पश्यि मानुषाश्च मानुषा अमानुषां नो विहेठि नो विहिंसि तत्र ते परस्यरम् // lal_6.34 //

रमन्ति सत्त्व क्रीडयन्ति अन्नपानुदेन्ति च आनन्दशब्द घोषयन्ति हृष्टतुष्टमानसाः // क्षमा रजोअनाकुला च कालि देव वर्षते तृणाश्च पुष्प ओषधीय तस्मि कालि रोहिषु // lal_6.35 // राजगेहि सप्तरात्र रत्नवर्ष वर्षितो यतो दरिद्रसत्त्व गृह्य दान देन्ति भुञ्जते / नास्ति सत्त्व यो दरिद्र यो च आसि दुःखितो भेरुमूर्ध्नि नन्दनेव एव सत्त्व नन्दिषु // lal_6.36 //

सो च राजु शाकियान पोषधी उपोषितो राज्यकार्यु नो करोति धर्ममेव गोचरी / तपोवनं च सो प्रविष्ट मायादेवी पृच्छते कीदृशेन्ति कायि सौख्य अग्रसत्त्व धारति // lal_6.37 //

इति श्रीललितविस्तरे गर्भावक्रान्तिपरिवर्तो नाम षष्ठमो ऽध्यायः //

स्तर्त् परिवर्त 7

जन्मपरिवर्तः सप्तमः /

इति हि भिक्षवो दशमासेषु निगतेषु बोधिसत्त्वस्य जन्मकालसमये प्रत्युपस्थिते राज्ञः शुद्धोदनस्य गृहोद्याने द्वात्रिंशत्पूर्वनिमित्तानि प्रादुरभूवन् / कतमानि द्वात्रिंशत्? सर्वपुष्पाणि सुङ्गीभूतानि न पुष्पन्ति स्म / पुष्करिणीषु चोत्पलपद्मकुमुदपुण्डरीकाण्यभ्युद्गतानि कुड्मलीभूतानि न पुष्पन्ति स्म / तदा च पुष्पफलवृक्षा धरणीतलादभ्युद्गम्य क्षारकजाता न फलन्ति स्म / अष्टौ च रत्नवृक्षाः प्रादुरभूवन् / विंशति च रत्ननिधानशतसहस्राण्युत्प्लत्य व्यवस्थितानि दृश्यन्ते स्म / अन्तःपुरे च रत्नाङ्कुराः प्रादुरभूवन् / सुगन्धितैलपरिवासिताश्च गन्धोदकशीतोष्णाः प्रस्रवन्ति स्म / हिमवत्पर्वतपार्श्वाच्च सिंहपोतका आगत्यागत्याभिनदन्तः कपिलाह्वयपुरवरं प्रदक्षिणीकृत्य द्वारमूलेष्ववतिष्ठन्ते स्म, न कंचित्सत्त्वं विहेठयन्ति स्म / पञ्चशतानि पाण्डराणां हस्तिशावकानामागत्य राज्ञः शुद्धोदनस्याग्रकरैश्चरणावभिलिखन्ति स्म / मेखलीबद्धकाश्च देवदारका राज्ञः शुद्धोदनस्यान्तःपुरे उत्सङ्गेनोत्सङ्गमनुपरिवर्तमानाः संदृश्यन्ते स्म / गगनतलगतार्धकाया नागकन्या नानापूजोपकरणपरिगृहीता अध्यालम्बमानाः संदृश्यन्ते स्म / दश च नागकन्यासहस्राणि मयूराङ्गहस्तकपरिगृहीता गगततले ऽवस्थिताः संदृश्यन्ते स्म / दश च पूर्णकुम्भसहस्राणि कपिलवस्तु महानगरं प्रदक्षिणीकुर्वन्ति संदृश्यन्ते स्म / दश च देवकन्यासहस्राणि गन्धोदकभृङ्गारपरिगृहीता मूर्ध्नि धारयन्त्यो ऽवस्थिताः संदृश्यन्ते स्म / दश च देवकन्यासहस्राणि छत्रध्वजपताकापरिगृहीता अवस्थिताः संदृश्यते स्म /

बहूनि चाप्सरःशतसहस्राणि शङ्खभेरीमृदङ्गपणवैः घण्टावसक्तैः प्रतीक्षमाणान्यवस्थितानि संदृश्यन्ते स्म / सर्वे वायवश्चावस्थिता न वान्ति स्म / सर्वनदी च प्रस्रवणानि च न वहन्ति स्म / चन्द्रसूर्यविमानानि नक्षत्रज्योतिर्गणाश्च न वहन्ति स्म / पुष्यं च नक्षत्रयुक्तमभूत् / रत्नजालपरिस्फुटं च राज्ञः शुद्धोदनस्य गृहं संस्थितमभूत् / वैश्वानरश्च न ज्वलति स्म / कूटागारप्रासादतोरणद्वारकतलेषु च मणिरत्नान्यभिप्रलम्बमानानि च संदृश्यन्ते स्म / दूष्यगञ्जाश्च विविरत्नगञ्जाश्च प्रावृताः संदृश्यन्ते स्म / काकोलूकगृध्रवृकशृगालशब्दाश्चान्तर्हिता अभूवन् / सुजातजातशब्दाश्च श्रूयन्ते स्म / सर्वजनपदकर्मान्ताश्च समुच्छिन्ना अभूवन् / उत्कूलनिकूलाश्च पृथिवीप्रदेशाः समाः समवस्थिताः सर्ववीथीचत्वरशृङ्गाटकरथ्यान्तरापणमुखानि च पाणितलमृष्टानीव पुष्पाभिकीर्णानि विरोचन्ते स्म / सर्वाश्च गुर्विण्यः सम्यक्सुखेन प्रसूयन्ते स्म / सर्वशालवनदेवताश्च पत्रेष्वर्धकायानभिनिर्माय नम्यमानाः स्थिताः संदृश्यन्ते स्म / इमानि द्वात्रिंशत्पूर्वनिमित्तानि प्रादुरभूवन् //

अथ खलु मायादेवी बोधिसत्त्वस्य जन्मकालसमयं ज्ञात्वा बोधिसत्त्वस्यैव तेजोनुभावेन रात्र्यां प्रथमे यामे राजानं शुद्धोदनमुपसंक्रम्य गाथाभिरभ्यभाषत -

देव शृणु हि मह्यं भाषतो यं मतं मे अचिरचिरचिरेणा जात उद्यानबुद्धिः / यदि च तव न रोषो नैव दोषो न मोहः क्षिप्रमहु व्रजेया क्रीडौद्यानभूमिम् // lal_7.1 //

त्वमिह तपसि खिन्नो धर्मचित्तप्रयुक्तो अहु च चिरप्रविष्टा शुद्धसत्त्वं धरेन्ती / द्रुमवर प्रतिबुद्धाः फुल्लिता शालवृक्षाः युक्त भविय देवा गन्तुमुद्यानभूमिम् // lal_7.2 //

ऋतुप्रवर वसन्तो योषितां मण्डनीयो भ्रमरवरविघुष्टाः कोकिलबर्हिगीताः / शुचिरुचिरविचित्रा भ्राम्यते पुष्परेणुः साधु ददहि आज्ञां गच्छमो मा विलम्बः // lal_7.3 //

वचनमिमु श्रुणित्वा देविये पार्थिवेन्द्रः तुष्टो मुदितचित्तः पारिषद्यानवोचत् / हयगजरथं पङ्क्त्या वाहना योजयध्वं प्रवरगुणसमृद्धां लुम्बिनीं मण्डयध्वम् // lal_7.4 //

नीलगिरिनिकाशां मेघवर्णानुबद्धां विंशति च सहस्रान् योजयध्वं गजानाम् / मणिकनकविचित्रां हेमजालोपगूढां घण्टरुचिरपार्श्वान् षड्विषाणां गजेन्द्रान् // lal_7.5 //

हिमरजतनिकाशां मुञ्जकेशां सुकेशां विंशति च सहस्रान् योजयध्वं हयानाम् / कनकरचितपार्श्वा किङ्किणीजाललम्बा पवनजवितवेगा वाहना पार्थिवस्य // lal_7.6 //

नरगण रणशौण्डान् शूर संग्रामकामान् असिधनुशरशक्तिपाशखड्गाग्रहस्तान् / विंशति च सहस्रान् योजयध्वं सुशीघ्रं माय सपरिवारां रक्षथा अप्रमत्ता // lal_7.7 //

मणिकनकनिषिक्तां लुम्बिनीं कारयध्वं विविधवसनरत्नैः सर्ववृक्षां प्रवेथा / विविधकुसुमचित्रं नन्दनं वा सुराणां वदथ च मम शीघ्रं सर्वमेतं विधाय // lal_7.8 //

वचनमिमु निशम्या पारिषद्यैः क्षणेन वाहन कृत सज्जा लुम्बिनी मण्डिता सा /

पारिषद्य आह - जय जय हि नरेन्द्रा आयु पालेहि दीर्घं सर्व कृतु यथोक्तं कारु देव प्रतीक्ष // lal_7.9 // सो च नरवरेन्द्रो हृष्टचित्तो भवित्वा गृहवरमनुविष्टो इष्टिकानेवमाह / यस्य अहु मनापो या च मे प्रीतिकामा सा मि कुरुत आज्ञां मण्डयित्वात्मभावम् // lal_7.10 //

वरसुरभिसुगन्धां भावरङ्गां विचित्रां वसन मृदुमनोज्ञां प्रावृणोथा उदग्राः / उरसि विगलितानां मुक्तहारा भवेथा आभरणविभूषां दर्शयेथाद्य सर्वाः // lal_7.11 //

तुणपणवमृदङ्गां वीणवेणूमुकुण्डां तूर्यशतसहस्रान् योजयध्वं मनोज्ञां / भूय कुरुत हर्षं देवकन्यान यूयं श्रुत्व मधुरघोषं देवतापि स्पृहेयुः // lal_7.12 //

एकरथवरेस्मिं तिष्ठतां मायदेवी मा च पुरुष इस्त्री अन्य तत्रारुहेया / नारि विविधवर्मा तं रथं वाहयन्तां मा च प्रतिकूलं मा मनापं श्रुणेष्या // lal_7.13 //

हयगजरथपत्तीं सैन्यश्रीमद्विचित्रां द्वारि स्थित नृपस्या श्रूयते उच्चघोषाः / क्षुभितजलनिधिर्वा श्रूयते एव शब्दो * * * * // lal_7.14 // माय यद गृहातो निर्गता द्वारमूलं घण्ट शतसहस्रा ताडिता मङ्गलार्थम् // lal_7.15 // सो च रथ विचित्रो मण्डितः पार्थिवेन अपि च मरुसहस्रैर्दिव्यसिंहासनेभिः / चतुरि रतनवृक्षा पत्रपुष्पोपपेता अभिनदितमनोज्ञां हंसक्रौञ्चान् मयूरान् // lal_7.16 //

छत्रध्वजपताकाश्चोच्छ्रिता वैजयन्त्यः किङ्किणिवरजालैश्छादितं दिव्यवस्त्रैः / मरुवधु गगनेस्मिं तं रथं प्रेक्षयन्ते दिव्यमधुरघोषं श्रावयन्त्यः स्तुवन्ति // lal_7.17 //

उपविशति यदा सा माय सिंहासनाग्रे प्रचलित त्रिसहस्रा मेदिनी षड्विकारम् / पुष्प मरु क्षिपिंसू अम्बरां भ्रामयिंसू अद्य जगति श्रेष्ठो जायते लुम्बिनीये // lal_7.18 //

चतुरि जगतिपालास्तं रथं वाहयन्ते त्रिदशपतिरपीन्द्रो मार्गशुद्धिं करोति / ब्रह्म पुरतु गच्छी दुर्जनां वारयन्तो अमरशतसहस्राः प्राञ्जलीका नमन्ते // lal_7.19 //

नृपति मुदितचित्तो वीक्षते तां वियूहां तस्य भवति एवं व्यक्त यं देवदेवो / यस्य चतुरि पाला ब्रह्म सेन्द्राश्च देवाः कुरुत विपुलपूजां व्यक्त यं शुद्धभावी // lal_7.20 //

नास्ति त्रिभवि सत्त्वो यः सहेत्पूजमेतां देव अथ च नागाः शक्र ब्रह्मा च पालाः / मूर्ध तद फलेया जीवितं चास्य नश्येत् अयु पुन अतिदेवः सर्वपूजां सहाति // lal_7.21 //

अथ खलु भिक्षवो मायादेवी चतुरशीत्या हयरथसहस्रैः सर्वालंकारविभूषितैः परिवृता चतुरशीत्या गजरथसहस्रैः सर्वालंकारविभूषितैः चतुरशीत्या च पत्तिसहस्रैः शूरैर्वीरैर्वराङ्गरूपिभिः सुसंनद्धदृढवर्मकवचितैरनुपरिगृहीता षष्ट्या च शाक्यकन्यासहस्रैः पुरस्कृता चत्वारिंशता च सहस्रै (वैद्य 61) राज्ञः शुद्धोदनस्य ज्ञातिकुलप्रसूतैः शाक्यैः वृद्धदहरमध्यमैः संरक्षिता, षष्ट्या च सहस्रै राज्ञः शुद्धोदनस्यान्तःपुरेण गीतवाद्यसम्यक्तूर्यताडावचरसंगीतिसंप्रवादितेन परिवृता, चतुरशीत्या च देवकन्यासहस्रैः परिवृता, चतुरशीत्या च नागकन्यासहस्रैः चतुरशीत्या च गन्धर्वकन्यासहस्रैः चतुरशीत्या च किन्नरकन्यासहस्रैः चतुरशीत्या चासुरकन्यासहस्रैः नानाव्यूहालंकारालंकृताभिः नानागीतवाद्यवर्णभाषिणीभिरनुगम्यमाना निर्याति स्म / सर्वं च लुम्बिनीवनं गन्धोदकसिक्तं दिव्यपुष्पाभिकीर्णीकृतमभूत् / सर्ववृक्षाश्च तस्मिन् वनवरे अकालपत्रपुष्पफलानि ददन्ति स्म / देवैश्च तथा तद्वनं समलंकृतमभूत् तद्यथापि नाम मिश्रकावनं देवानां समलंकृतम् //

अथ खलु मायादेवी लुम्बिनीवनमनुप्रविश्य तस्माद्रथवरादवतीर्य नरमरुकन्यापरिवृता वृक्षेण वृक्षं पर्यटन्ती वनाद्वनं चंक्रम्यमाणा द्रुमाद् द्रुमं निरीक्षमाणा अनुपूर्वेण येनासौ प्लक्षो महाद्रुमरत्नवरप्रवरः सुविभक्तशाखः समपत्रमञ्जरीधरो दिव्यमानुष्यनानापुष्पसंपुष्पितो वरप्रवरसुरभिगन्धिनानागन्धिनानारङ्गवस्त्राभिप्रलम्बितो विविधमणिविचित्रप्रभोज्ज्वलितः सर्वरत्नमूलदण्डशाखापत्रसमलंकृतः सुविभक्तविस्तीर्णशाखः करतलनिभे भूमिभागे सुविभक्तविस्तीर्णनीलतृणमयूरग्रीवासंनिभे काचिलिन्दिकसुखसंस्पर्शे धरणीतले संस्थितः पूर्वजिनजनेत्र्याभिनिवासितः देवसंगीत्यनुगीतः शुभविमलविशुद्धः शुद्धावासदेवशतसहस्रैः प्रशान्तचित्तैरभिनतजटामकुटावलम्बितावनतमूर्धभिरभिनन्द्यमानस्तं प्लक्षवृक्षमुपजगाम //

अथ स प्लक्षवृक्षो बोधिसत्त्वस्य तेजोनुभावेनावनम्य प्रणमति स्म / अथ मायादेवी गगनतलगतेव विद्युत् दृष्टिं दक्षिणं बाहुं प्रसार्य प्लक्षशाखां गृहीत्वा सलीलं गगनतलं प्रेक्षमाणा विजृम्भमाना स्थिताभूत् / अथ तस्मिन् समये षष्ट्यप्सरःशतसहस्राणि कामावचरदेवेभ्य उपसंक्रम्य मायादेव्या उपस्थाने परिचर्यां कुर्वन्ति स्म //

एवंरूपेण खलु पुन ऋद्धिप्रातिहार्येण समन्वागतो बोधिसत्त्वो मातुः कुक्षिगतो ऽस्थात् / स परिपूर्णानां दशानां मासानामत्ययेन मातुर्दक्षिणपार्श्वान्निष्क्रमति स्म स्मृतः संप्रजानन्ननुपलिप्तो गर्भमलैर्यथा नान्यः कश्चिदुच्यते ऽन्येषां गर्भमल इति //

तस्मिन् खलु पुनर्भिक्षवः समये शक्रो देवानामिन्द्रो ब्रह्मा च सहापतिः पुरतः स्थितावभूताम्, यौ बोधिसत्त्वं परमगौरवजातौ दिव्यकाशिकवस्त्रान्तरितं सर्वाङ्गप्रत्यङ्गैः स्मृतौ संप्रज्ञौ प्रतिगृह्णाते स्म //

यस्मिंश्च कूटागारे बोधिसत्त्वो मातुः कुक्षिगतो ऽस्थात्, तं ब्रह्मा सहापतिर्ब्रह्मकायिकाश्च देवपुत्रा अभ्युत्क्षिप्य ब्रह्मलोकं चैत्यार्थं पूजार्थं चोपनामयामासुः / अपरिगृहीतः खलु पुनर्बोधिसत्त्वः केनचिन्मनुष्यभूतेन, अथ तहि बोधिसत्त्वं देवताः प्रथमतरं प्रतिगृह्णन्ति स्म //

अथ बोधिसत्त्वो जातमात्रः पृथिव्यामवतरति स्म / समनन्तरावतीर्णस्य च बोधिसत्त्वस्य महासत्त्वस्य महापृथिवीं भित्त्वा महापद्मं प्रादुरभूत् / नन्दोपनन्दौ च नागराजानौ गगनतले ऽर्धकायौ (वैद्य 62) स्थित्वा शीतोष्णे द्वे वारिधारे ऽभिनिर्भिंत्त्वा बोधिसत्त्वं स्नापयतः स्म / शक्रब्रह्मलोकपालाः पूर्वंगमाश्चान्ये च बहवो देवपुत्राः शतसहस्रा ये बोधिसत्त्वं जातमात्रं नानागन्धोदकमुक्तकुसुमैः स्नापयन्त्यभ्यवकिरन्ति स्म / अन्तरिक्षे च द्वे चामरे रत्नच्छत्रं च प्रादुर्भूतम् / स तस्मिन् महापद्मे स्थित्वा चतुर्दिशमवलोकयति स्म / (चतुर्दिशमवलोक्य) सिंहावलोकितं महापुरुषावलोकितं व्यवलोकयति स्म //

तस्मिन् खलु पुनः समये बोधिसत्त्वः पूर्वकुशलमूलविपाकजेनाप्रतिहतेन दिव्यचक्षुप्रादुर्भूतेन दिव्येन चक्षुषा सर्वावन्तं त्रिसाहस्त्रं महासाहस्त्रं लोकधातुं सनगरनिगमजनपदराष्ट्रराजधानीं सदेवमानुषं पश्यति स्म / सर्वसत्त्वानां च चित्तचरितं च प्रजानाति स्म / ज्ञात्वा च व्यवलोकयति स्म - अस्ति त्वसौ कश्चित्सत्त्वो यो मया सदृशः शीलेन वा समाधिना वा प्रज्ञया वा कुशलमूलचर्यया वा / यदा च बोधिसत्त्वः त्रिसाहस्रमहासाहस्रलोकधातौ न कंचित्सत्त्वमात्मतुल्यं पश्यति स्म, अथ तस्मिन्समये बोधिसत्त्वः सिंह इव विगतभयभैरवो ऽसंत्रस्तः अस्तम्भी सुचिन्तितं स्मृत्वा चिन्तयित्वा सर्वसत्त्वानां चित्तचरितानि ज्ञात्वा अपरिगृहीतो बोधिसत्त्वः पूर्वां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - पूर्वंगमो भविष्यामि सर्वेषां कुशलमूलानां धर्माणाम् / तस्य प्रक्रमत उपर्यन्तरीक्षे ऽपरिगृहीतं दिव्यश्वेतविपुलछत्रं चामरशुभे गच्छन्तमनुगच्छन्ति स्म - यत्र यत्र च बोधिसत्त्वः पदमुत्क्षिपति स्म, तत्र तत्र पद्मानि प्रादुर्भवन्ति स्म / दक्षिणां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - दक्षिणीयो भविष्यामि देवमनुष्याणाम् / पश्चिमां दिशमभिमुखः सप्त पदानि प्रकान्तः / सप्तमे स्थित्वा सिंह इवाह्लादनात्मिकां वाचं भाषते स्म - अहं लोके ज्येष्ठो ऽहं लोके श्रेष्ठः / इयं मे पश्चिमा जातिः / करिष्यामि जातिजरामरणदुःखस्यान्तम् / उत्तरां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - अनुत्तरो भविष्यामि सर्वसत्त्वानाम् / अधस्ताद्दिशमभिमुखः सप्त पदानि प्रक्रान्तः - निहनिष्यामि मारं च मारसेनां च / सर्वनैरयिकाणां च निरयाग्निप्रतिघाताय सह धर्ममेघवृष्टिं वर्षिष्यामि, येन ते सुखसमर्पिता भविष्यन्ति / उपरिष्टाद्दिशमभिमुखः सप्त पदानि प्रक्रान्तः, उर्ध्वं चावलोकयति स्म - उल्लोकनीयो भविष्यामि सर्वसत्त्वानाम् / समनन्तरभाषिता चेयं बोधिसत्त्वेन वाकू / अथ तस्मिन् समये अयं त्रिसाहस्रमहासाहस्रलोकधातुः स्वरेणाभिविज्ञाप्तो ऽभूत् / इयं बोधिसत्त्वस्य कर्मविपाकजा अभिज्ञाधर्मता //

यदा बोधिसत्त्वश्चरमभविक उपजायते, यदा चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते, तदा अस्येमान्येवंरूपाणि ऋद्धिप्रातिहार्याणि भवन्ति - तस्मिन् खलु पुनर्भिक्षवः समये संहृषितरोमकूपजाताः सर्वसत्त्वा अभूवन् / महतश्च पृथिवीचालस्य लोके प्रादुर्भावो ऽभूत् भैरवस्य रोमहर्षणस्य / अघट्टितानि च दिव्यमानुष्यकानि तूर्याणि संप्रवादितानि / सर्वर्तुकालिकाश्च (वैद्य 63) वृक्षास्तस्मिन् समये त्रिसाहस्रमहासाहस्रलोकधातौ संकुसुमिताः फलिताश्च / विशुद्धाच्च गगनतलान्मेघशब्दः श्रूयते स्म / अपगतमेघाच्च गगनाच्छनैः सूक्ष्मसूक्ष्मो देवः प्रवर्षति स्म / नानावर्षदिव्यकुसुमवस्त्राभरणगन्धचूर्णव्यामिश्राः परमसुखसंस्पर्शाश्च सौम्याः सुगन्धवाताः प्रवायन्ति स्म / व्यपगततमोरजोधूमनीहाराश्च सर्वदिशः सुप्रसन्ना विराजन्ते स्म / उपरिष्टाच्चान्तरिक्षाददृश्या गम्भीरा महाब्रह्मघोषाः संश्रूयन्ते स्म / सर्वचन्द्रसूर्यशक्रब्रह्मलोकपालप्रभाश्चाभिभूता अभूवन् / परमसुखसंस्पर्शया च सर्वसत्त्वकायचित्तसुखसंजनन्या लोकोत्तरया अनेकशतसहस्रवर्णप्रभया सर्वत्रिसाहस्रमहासाहस्रलोकधातुः परिस्फुटो ऽभूत् / समन्तरजातस्य खलु पुनर्बोधिसत्त्वस्यैकान्तसुखसमर्पिताः सर्वसत्त्वा बभूवुः / सर्वरागद्वेषमोहदर्पारतिविषादभयलोभेर्ष्यामात्सर्यविगताः सर्वाकुशलक्रियाप्रतिविरता व्याधितानां सत्त्वानां व्याधय उपशान्ताः / क्षुत्पिपासितानां सत्त्वानां क्षुत्पिपासा प्रस्रब्धाभूत् / मद्यमदमत्तानां च सत्त्वानां मदापगमः संवृत्तः / उन्मत्तैश्च स्मृतिः प्रतिलब्धा / चक्षुर्विकलैश्च सत्त्वैश्चक्षुः प्रतिलब्धम्, श्रोत्रविकलैश्च सत्त्वैः श्रोत्रम् / अङ्गप्रत्यङ्गविकलेन्द्रियाश्चाविकलेन्द्रियाः संवृत्ताः / दरिद्रैश्च धनानि प्रतिलब्धानि / बन्धनबद्धाश्च बन्धनेभ्यो विमुक्ताः / आवीचिमादिं कृत्वा सर्वनैरयिकाणां सत्त्वानां सर्वकारणाद् दुःखं तस्मिन्समये प्रस्रब्धम् / तियग्योनिकानामन्योन्यभक्षणादि दुःखम्, यमलोकिकानां सत्त्वानां क्षुत्पिपासादिदुःखं व्युपशान्तमभूत् //

यदा च बोधिसत्त्वो जातमात्रः सप्त पदानि प्रक्रान्तो ऽभूत्, असंख्येयाकल्पकोटिनयुतशतसहस्रैः सुचरितचरणैर्महावीर्यमहास्थामधर्मताप्रतिलम्भेन तस्मिन् समये दशदिग्लोकधातुस्थिता बुद्धा भगवन्तस्तं पृथ्वीप्रदेशं वज्रमयधितिष्ठन्ति स्म / येन महापृथिवी तस्मिन् प्रदेशे नावतीर्यत, तावन्महाबलवेगसमन्वागतो हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्त पदानि प्रक्रान्तो ऽभूत् / सर्वलोकान्तरिकाश्च तस्मिन् समये महतावभासेन स्फुटा अभूवन् / महांश्च तस्मिन् समये गीतशब्दो ऽभून्नृत्यशब्दः / अप्रमेयाश्च तस्मिन् समये पुष्पचूर्णगन्धमाल्यरत्नाभरणवस्त्रमेघा अभिप्रवर्षन्ति स्म / परमसुखसमर्पिताश्च सर्वसत्त्वा अभूवन् / संक्षेपादचिन्त्या सा क्रियाभूत्, यदा बोधिसत्त्वो लोके प्रादुरभूत् सर्वलोकाभ्युद्गतः //

अथ खल्वायुष्मानानन्दः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - सर्वसत्त्वानां भगवंस्तथागत आश्चर्यभूतो ऽभूत्, बोधिसत्त्वभूत् एवाद्भुतधर्मसमन्वागतश्च / कः पुनर्वादः एवं ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / एषो ऽहं भगवंश्चतुष्पञ्चकृत्वो ऽपि दशकृत्वो ऽपि यावत्पञ्चाशत्कृत्वो ऽपि शतकृत्वो ऽपि यावदनेकशतसहस्रशो ऽप्यहं भगवन् बुद्धं भगवन्तं शरणं गच्छामि //

एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - भविष्यन्ति खलु पुनरानन्द अनागते ऽध्वनि केचिद्भिक्षवो ऽभावितकाया अभावितचित्ता अभावितशीला अभावितप्रज्ञा बाला अपण्डिता आभिमानिका उद्धता उन्नता असंवृता विक्षिप्तचित्ताः काङ्क्षापरीत्ता विचिकित्साबहुला अश्रद्धाः श्रमणमलाः श्रमणप्रतिरूपकाः / ते न श्रद्दास्यन्ति इमामेवंरूपां बोधिसत्त्वस्य गर्भावक्रान्तिपरिशुद्धिम् / ते ऽन्योन्यमेकान्ते संनिपात्यैवं वक्ष्यन्ति - पश्यत भो यूयमेतदपूज्यमानं बोधिसत्त्वस्य किल मातुः कुक्षिगतस्योच्चारप्रस्रावमण्डोपरिमिश्रस्य ईदृशी विभूतिरासीत् / स च किल अभिनिष्क्रामन् मातुर्दक्षिणायाः कुक्षेरनुपलिप्तो गर्भमलेनाभूदिति / कथमेतद्योज्यते? न पुनस्ते मोहपुरुषा एवं ज्ञास्यन्ति - न सुकृतकर्मणां सत्त्वानामुच्चारप्रस्रावमण्डे कायः संभवतीति / भद्रिका खल्वपि तथारूपाणां सत्त्वानां गर्भावक्रान्तिर्भवति / गर्भावस्थितश्च सत्त्वानुकम्पया हि बोधिसत्त्वो मनुष्यलोके उपपद्यते, न देवभूत एव धर्मचक्रं प्रवर्तयति / तत्कस्मात्? मा खल्वानन्द सत्त्वाः कौसीद्यमापत्स्यन्ते / देवभूतः स भगवान् तथागतो ऽर्हन् सम्यक्संबुद्धः, वयं तु मनुष्यमात्राः / न वयं समर्थास्तत्स्थानं परिपूरयितुमिति कौसीद्यमापद्येरन् / न खलु पुनस्तेषां मोहपुरुषाणां धर्मस्तैन्यकानामेवं भविष्यति - अचिन्त्यो हि स सत्त्वः, नासावस्माभिः प्रामाणिकः कर्तव्य इति / अपि तु खल्वानन्द बुद्धऋद्धिप्रातिहार्यमपि ते तस्मिन् काले नावकल्पयिष्यन्ति, किमङ्ग पुनर्बोधिसत्त्वभूतस्य तथागतस्य बोधिसत्त्वप्रातिहार्याणि / पश्य आनन्द कियन्तं ते मोहपुरुषा बह्वपुण्याभिसंस्कारमभिसंस्करिष्यन्ति, ये बुद्धधर्मान् प्रतिक्षेप्स्यन्ति लाभसत्कारश्लोकाभिभूता उच्चारलग्ना लाभसत्काराभिभूता इतरजातीयाः //

आनन्द आह - मा मैवंरूपा भगवन् अनागते ऽध्वनि भिक्षवो भविष्यन्ति य इमामेवं भद्रिकां सूत्रान्तां प्रतिक्षेप्स्यन्ति प्रतिपक्षं पक्षन्ति च //

भगवानाह - एवंरूपाश्च ते आनन्द सूत्रान्तां प्रपिक्षेप्स्यन्ति, प्रतिवक्ष्यन्ति चानेकप्रकारान् चान्यान् पापकानभिसंस्कारानभिसंस्करिष्यन्ति / अनर्थिकाश्च ते श्रामण्येन भविष्यन्ति //

आनन्द आह - का पुनर्भगवन् तेषां तथारूपाणामसत्पुरुषाणां गतिर्भविष्यति? को ऽभिसंपरायः?

भगवानाह - या गतिर्बुद्धबोधिमन्तर्धायाप्यतीतानागतप्रत्युत्पन्नांश्च बुद्धान् भगवतो ऽत्याख्याय तां ते गतिं गमिष्यन्ति //

अथ खल्वायुष्मानानन्दः संहर्षितरोमकूपजातो नमो बुद्धाय इत्युक्त्वा भगवन्तमेतदवोचत्मूर्छा मे भगवन् कायस्याभूदिमं तेषामसत्पुरुषाणां समुदाचारं श्रुत्वा //

भगवानाह - न तेषामानन्द समाचारो भविष्यति / विषमसमुदाचाराः खलु पुनस्ते सत्त्वा भविष्यन्ति / ते तेन विषमेन समुदाचारेणवीचौ महानरके प्रपतिष्यन्ति / तत्कस्य हेतोः? ये केचिदानन्द भिक्षवो वा भिक्षुण्यो वा उपासको वा उपासिका वा इमानेवंरूपान् सूत्रान्तान् श्रुत्वा नाधिमोक्ष्यन्ति न श्रद्धास्यन्ति न प्रतिवेत्स्यन्ति, ते च्युताः समाना अवीचौ महानरके प्रपतिष्यन्ति / मा आनन्द तथागताप्रामाणिकं अकार्षुः / तत्कस्माद्धेतोः? अप्रमेयो ह्यानन्द तथागतो गम्भीरो विपुलो दुरवगाहः / येषां केषांचिदानन्द इमानेवंरूपान् सूत्रान्ताञ्छ्रुत्वोपपत्स्यते प्रीतिप्रामोद्यम्, प्रसादलाभास्तैः सत्त्वैः सुलब्धाः / अमोघं च तेषां जीवितम्, अमोघं च तेषां मानुष्यम्, सुचरितचरणाश्च ते, आदत्तं च तैः सारम्, मुक्ताश्च ते त्रिभ्यो ऽपायेभ्यः, भविष्यन्ति च ते पुत्रास्तथागतस्य, परिप्राप्तं च तैः सर्वकार्यम्, अमोघश्च तेषां श्रद्धाप्रतिलम्भः, सुविभक्त च तै राष्ट्रपिण्डम्, प्रसन्नाश्च ते ऽग्रसत्त्वैः, संछिन्नास्तैर्मारपाशाः, निस्तीर्णश्च तैः संसाराटवीकान्तारः, समुद्धृतश्च तैः शोकशल्यः, अनुप्राप्तं च तैः प्रामोद्यवस्तु, सुगृहीतानि च तैः शरणगमनानि, दक्षिणीयाश्च ते पूजार्हाः, दुर्लभप्रादुर्भावाश्च ते लोके, दक्षिणीयाश्च ते धारयितव्याः / तत्कस्य हेतोः? तथा हि - ते सर्वलोके इममेवं सर्वलोकविप्रत्यनीकं तथागतधर्मं श्रद्दधन्ति / न ते आनन्द सत्त्वा अवरकेण कुशलमूलेन समन्वागता भवन्ति / ते चानन्द सत्त्वा ममैकजातिप्रतिबद्धानि मित्राणि भविष्यन्ति / तत्कस्माद्धेतोः? कश्चिदानन्द श्रवणादेव प्रियो भवति मनापश्च न तु दर्शनेन /

कश्चिदानन्द दर्शनेनापि प्रियो भवति मनापश्च न तु खलु पुनः श्रवणेन / कश्चिदानन्द दर्शनेनापि श्रवणेनापि प्रियो भवति मनापश्च / तेषां केषांचिदानन्द अहं दर्शनेन वा श्रवणेन वा प्रियो मनापो भवेयं निष्ठां त्वं तत्र गच्छेथाः - न तानि ममैकजातिप्रतिबद्धानि मित्राणि / दृष्टास्ते तथागतेन, मोचयितव्यास्ते तथागतेन, ते समगुणप्रत्यंशाः, ते तथागतगुणप्रत्यंशाः, ते तथागतेन कर्तव्या उपासकाः, ते तथागतं शरणं गताः, उपात्तास्ते तथागतेन / ममान्तिकात् खल्वप्यानन्द पूर्वं बोधिसत्त्वचर्यामेव तावच्चरतो ये केचिद्भयार्दिताः सत्त्वा आगत्य अभयं प्रतियाचन्ते स्म, तेभ्यो ऽहं सत्त्वेभ्यो ऽभयं दत्त्वान्, किमङ्ग पुनरेतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / श्रद्धायामानन्द योगः करणीयः / इदं तथागतो विज्ञापयति / यदानन्द तथागतेन युष्माकं करणीयं कृतम्, तत्तथागतेन शोधितो मानशल्यः / श्रवणेनाप्यानन्द मित्रस्य ननु योजनशतान्तरमपि गच्छन्ति, गत्वा च सुखिता भवन्ति अदृष्टपूर्वं मित्रं दृष्ट्वा / कः पुनर्वादो ये मां निश्रित्य कुशलमूलान्यवरोपयन्ति / ज्ञास्यन्त्यानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः - पूर्व मित्राण्येते सत्त्वास्तथागतानाम्, अस्माकमप्येते मित्राणि भवन्तीति / तत्कस्मात् खलु पुनरानन्द मित्रं मित्रस्य प्रियं च मनापं च भवति? तस्यापि (तदपि) प्रियमेव भवति, मित्रस्य यत्प्रियं मित्रम्, तदपि प्रियमेव भवति मनापं च / तस्मात्तर्ह्यानन्द आरोचयामि च प्रतिवेदयामि च / श्रद्धामात्रकमुत्पादयथ /

अनुपरिन्दिष्यामो (वैद्य 66) वयमनागतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके, ते ऽस्माकमपि मित्राणीति विदित्वा यथाभिप्रायं परिपूरयिष्यन्ति / तद्यथापि नाम आनन्द कस्यचिदेव पुरुषस्यैकपुत्रको भवेत् सुवयाः प्रदक्षिणग्राही / स च पुरुषो बहुमित्रो भवेत् / स तस्मिन् पितरि कालगते न हि विहन्येत पितृमित्रसुपरिगृहीतः / एवभेव आनन्द ये केचिन्मम श्रद्धास्यन्ति तानहमुपाददामि / मित्राणीव मम तानि / (ते) मम शरणं गताः / बहुमित्रश्च तथागतः / तानि च तथागतस्य मित्राणि भूतवादीनि न मृषावादीनि / अनुपरिन्दाम्यहं भूतवादीनाम् / यानि तथागतस्य मित्राण्यनागतास्तथागता अर्हन्तः सम्यक्संबुद्धा / श्रद्धायामानन्द योगः करणीयः / अत्राहं युष्मान् विज्ञापयामीति //

इति हि जाते बोधिसत्त्वे गगनतलगतान्यप्सरःकोटिनयुतशतसहस्राणि दिव्यैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणैर्मायादेवीमभ्यवकिरन्ति स्म / तत्रेदमुच्यते -

शुभविमलविशुद्धहेमप्रभा चन्द्रसूर्यप्रभा षष्टि दशसहस्र देवाप्सरा मञ्जुघोषस्वराः / तस्मि क्षणि उपेत्य तां लुम्बिनीं मायदेव्यब्रुवन् मा खु जनि विषादु तुष्टा भवोपस्थायिकाष्ते वयम् // lal_7.22 //

भणहि किं करणीयु किं कुर्महे केन कार्यं च ते वयं तव सुसमर्थोपस्थायिका प्रेमभावस्थिताः / अपि च भव उदग्र हर्षान्विता मा च खेदं जनेहि जरामरणविघाति वैद्योत्तमं अद्य देवी जनेषी लघुम् // lal_7.23 //

यथ द्रुम परिफुल्ल संपुष्पिता शालवृक्षा इमे यथ च मरुसहस्र पार्श्वे स्थिता भ्रामयन्तो भुजान् / यथ च चलि ससागरा मेदिनी षड्विकारा इयं दिवि दिवि च विघुष्ट लोकोत्तरं त्वं जनेषी सुतम् // lal_7.24 //

यथ च प्रभ विशुद्ध विभ्राजते स्वर्णवर्ण शुभा तूर्यशत मनोज्ञा चाघट्टिता घुष्ययन्ते ऽम्बरे / यथ च शतसहस्र शुद्धा शुभा वीतरागाः सुरा नमिषु मुदितचित्ता अद्यो जने सर्वलोके हितम् // lal_7.25 //

शक्रमपि च ब्रह्मपालापि चान्या च या देवता तुष्टमुदितचित्ता पार्श्वे स्थिता नामयन्तो भुजाम् / सो च पुरुषसिंह शुद्धव्रतो (भित्त्व) कुक्षिनिर्धावितो कनकगिरिनिकाश शुद्धव्रतो निष्क्रमी नायकः // lal_7.26 //

शक्रमपि च ब्रह्म तौ पाणिभिः संप्रतीच्छा मुनिं क्षेत्र शतसहस्र संकम्पिता आभ मुक्ता शुभा / अपि च त्रिषु अपायि सत्त्वा सुखी नास्ति दुःखं पुन अमरशतसहस्र पुष्पां क्षिपी भ्रामयन्त्यम्बरान् // lal_7.27 //

वीर्यबलौपेत वज्रात्मिका मेदिनी संस्थिता (ऽभुत्तदा) पद्मु रुचिरचित्रु अभ्युद्गतो यत्र (चक्राङ्गचित्रेभिः) पद्भ्यां स्थितो (ऽपि) नायकः / सप्त पद क्रमित्व ब्रह्मस्वरो मुञ्चि घोषोत्तमं जरमरणविघाति वैद्योत्तमो भेष्यि सत्त्वोत्तमः // lal_7.28 //

गगनतल स्थिहित्व ब्रह्मोत्तमो शक्रदेवोत्तमः शुचिरुचिरप्रसन्नगन्धोदकैर्विस्नपी नायकम् / अपि च उरगराजा शीतोष्ण द्वे वारिधारे शुभे (व्यमुञ्चतान्तरीक्षे स्थिताः) अमर शतसहस्र गन्धोदकैर्विस्नपी नायकम् // lal_7.29 //

लोकपालाश्च संभ्रान्त संधारयन्ती करैः शोभनैः / त्रिसहस्रा इयं भूमिः कम्पते सचराचरा // lal_7.30 //

प्रभा च रुचिरा मुक्ता अपायाश्च विशोधिताः / क्लेशदुःखाश्च ते शान्ता जाते लोकविनायके // lal_7.31 //

क्षिपन्ति मरुतः पुष्पं जाते ऽस्मिन्नरनायके / क्रम सप्त पदां वीरः क्रमते बलवीर्यवान् // lal_7.32 //

पादौ निक्षिपते यत्र भूमौ पद्मवराः शुभाः / अभ्युद्गच्छंस्ततो मह्यां सर्वरत्नविभूषिताः // lal_7.33 //

यदा सप्त पदां गत्वा ब्रह्मस्वरमुदाहरि / जरामरणविघाति भिषग्वर इवोद्गतः // lal_7.34 //

व्यवलोकयित्वा च विशारदो दिशः ततो गिरां मुञ्चति अर्थयुक्ताम् / ज्येष्ठो ऽहं सर्वलोकस्य श्रष्ठो (लोके विनायकः) इयं च जातिर्मम पश्चिमा (इति) // lal_7.35 //

हास्यं च मुक्तं नरनायकेन सलोकपालैर्मरुभिश्च सेन्द्रैः / प्रसन्नचित्तैर्वरगन्धवारिभिः संस्कारितो लोकहितार्थकारी // lal_7.36 //

अपि चोरगेन्द्रैः सहितैः समग्रैः गन्धोग्रधाराविसरैः स्नपिंसु / अन्ये ऽपि देवा नयुता (स्थिताः) ऽन्तरीक्षे स्नपिंसु गन्धाग्रजिने स्वयंभुम् // lal_7.37 //

श्वेतं च विपुलं छत्रं चामरांश्च शुभाम्बरान् / अन्तरीक्षे गता देवाः स्नापयन्ति नरर्षभम् // lal_7.38 //

पञ्चकुलिकशतानि प्रसूयन्ते स्म /

पुरुष त्वरितु गत्व शुद्धोदनमब्रवीत् हर्षितो वृद्धि विपुल जातु देवा सुतो भूषितो लक्षणैः / महकुलरतनस्य (वृद्धिभूता) व्यक्तो असौ चक्रवर्तीश्वरः न च भवि प्रतिशत्रु जम्बुध्वजे एकछत्रो भवेत् // lal_7.39 //

द्वितियु पुरुषु गत्व (राज्ञि) शुद्धोदने श्लेषयित्वा क्रमे वृद्धि विपुल देव जाता नृपे शाकियानां कुले / पञ्चविंशतिसहस्र जाताः सुताः शाकियानां गृहे सर्वि बलौपेत नग्नाः समा दुष्प्रधर्षा परैः // lal_7.40 //

अपरु पुरुष आह देवा श्रुणा नन्दशब्दं ममा छन्दकप्रमुखानि चेटीसुता जात अष्टौ शता / अपि च दशसहस्र जाता हयाः कण्ठकस्य सखा तुरगवरप्रधान हेमप्रभा मञ्जुकेशा वराः // lal_7.41 //

विंशति च सहस्र पर्यन्तकाः कोट्टराजास्तथा नृपति क्रमतलेभि चान्वाक्रमी साधु देवा जया / आज्ञा खलु ददाहि गच्छाम किं वा करोमो नृपा त्वमिह वशितु प्राप्तु भृत्या वयं भट्ट देवा जया // lal_7.42 //

विंशति च सहस्र नागोत्तमा हेमजालोज्ज्वला त्वरितमुपगमिंसु राज्ञो गृहं गर्जमाना नभे / कृष्णशबल वत्स गोपामुखा जात षष्टिशता इयमपि सुति देवदेवोत्तमे वृद्धि राज्ञो गृहे // lal_7.43 //

अपि च नृपति गच्छ प्रेक्ष स्वयं सर्वमेव प्रभो (पुण्यतेज प्रभो) नरमरुतसहस्र ये हर्षिता दृष्ट्व जाते गुणां / बोधिवर अशोक संप्रस्थिताः क्षिप्र भोमा जिनाः // lal_7.44 //

इति //

इति हि भिक्षवो जाते बोधिसत्त्वे तत्क्षणं दाननिसर्गः पुनरुत्तरि प्रवर्तते स्म / पञ्च च कुलिकाशतानि प्रसूयन्ते स्म, दश च कन्यासहस्राणि यशोवतीप्रमुखानि / अष्टौ दासीशतानि अष्टौ दासशतानि छन्दकप्रमुखानि / दश वडवासहस्राणि दश किशोरसहस्राणि कण्ठकप्रमुखानि / पञ्च करेणुसहस्राणि पञ्च पिङ्गसहस्राणि प्रसूयन्ते स्म / तानि सर्वाणि राज्ञा शुद्धोदनेन पुस्तवरोपितानि कुमारस्य क्रीडार्थं दत्तान्यभूवन् //

चतुर्णां च द्वीपकोटीशतसहस्राणां मध्ये पृथिवीप्रदेशे अश्वत्थयष्टिः प्रादुरभूदन्तर्द्वीपे च चन्दनवनं प्रादुर्बभूव बोधिसत्त्वस्य परिभोगार्थं बोधिसत्त्वस्यैवानुभावेन / पञ्च चोद्यानशतानि समन्तान्नगरस्य प्रादुर्बभूवुर्बोधिसत्त्वस्य परिभोगाय / पञ्च च निधानसहस्राणि धरणीतलादुत्प्लुत्य मुखं दर्शयन्ति स्म / इति हि ये केचिद्राज्ञः शुद्धोदनस्यार्थाभिप्रेता अभूवन्, ते सर्वे समृद्धाभिप्रेता अभूवन् संसिद्धाः //

ततो राज्ञः शुद्धोदनस्यैतदभूत् - किमहं कुमारस्य नामधेयं करिष्यामीति / ततो ऽस्यैतदभूत् - अस्य हि जातमात्रेण मम सर्वार्थाः संसिद्धाः / यन्न्वहमस्य सर्वार्थसिद्ध इति नाम कुर्याम् / ततो राजा बोधिसत्त्वं महता सत्कारेण सत्कृत्य सर्वार्थसिद्धो ऽयं कुमारो नाम्ना भवतु इति नामास्याकार्षीत् //

इति हि भिक्षवो जाते बोधिसत्त्वे मातुः कुक्षिपार्श्वमक्षतमनुपहतमभवद्यथा पूर्वं तथा पश्चात् / त्रितविष्यन्दाम्बुकूपाः प्रादुरभूवन् अपि च सुगन्धतैलपुष्करिण्यः / पञ्चाप्सरः - सहस्राणि दिव्यगन्धपरिवासिततैलपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म / पञ्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म / पञ्चाप्सरःसहस्राणि दिव्यगन्धोदकपरिपूर्णघटापरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म / पच्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतनि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म / पञ्चाप्सरःसहस्राणि दिव्यदारकाचीवरपरिगृहीतानि बोधिसत्वमातरमुपसंक्रम्य सुजारजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म / पञ्चाप्सरः - सहस्राणि दिव्यदारकाभरणपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म / पञ्चाप्सरःसहस्राणि दिव्यतूर्यसंगीतिसंप्रभणितेन बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म / यावन्तश्चेह जम्बुद्वीपे बाह्याः पञ्चभिज्ञा ऋषयस्ते सर्वे गगनतलेनागत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिशब्दमनुश्रावयन्ति स्म //

इति हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्तरात्रः लुम्बिनीवने दिव्यमानुष्यकैस्तूर्यतालावचरैः सत्क्रियते स्म, गुरुक्रियते स्म, मान्यते स्म, पूज्यते स्म, खाद्यभोज्यस्वादनीयानि (वैद्य 70) विश्राण्यन्ते स्म / सर्वशाक्यगणाश्च संनिपात्यानन्दशब्दमुदीरयन्ति स्म, दानानि च ददन्ति स्म, पुण्यानि च कुर्वन्ति स्म / द्वात्रिंशच्च ब्राह्मणशतसहस्राणि दिने दिने संतर्प्यन्ते स्म / येषां च येनार्थेन तेभ्यस्तद्दीयते स्म / शक्रश्च देवानामिन्द्रो ब्रह्मा च तस्यां ब्राह्मणपर्षदि माणवकरूपमभिनिर्मायाग्रासने निषद्येमां मङ्गल्यां गाथामभ्यभाषताम् -

अपायाश्च यथा शान्ता सुखी सर्वं यथा जगत् / ध्रुवं सुखावहो जातः सुखे स्थापयिता जगत् // lal_7.45 //

यथा वितिमिरा चाभा रविचन्द्रसुरप्रभाः / अभिभूता न भासन्ते ध्रुवं पुण्यप्रभोद्भवः // lal_7.46 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.