Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

बोधिसत्त्वावदानकल्पलता 93, सुमागधावदान

Tác giả
क्षेमेन्द्र
Thông tin
GRETIL — P.L. Vaidya, Ksemendra's Avadanakalpalata, vol. II. Darbhanga: Mithila Institute 1959 (Buddhist Sanskrit Texts, 23), pp. 526-534 (Avadāna 93).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

क्षेमेन्द्र: बोधिसत्त्वावदानकल्पलता 93, सुमागधावदान

श्लाघ्या जयन्ति जिनभक्तिविशेषभाजां श्रद्धासुधाप्रसरनिर्झरशीकरास् ते / निश्चेतनो ऽप्य् उचितचेतनताम् इवैति यः पूज्यपूजनविधौ कुसुमादिवर्गः // kavk_93.1 //

श्रावस्त्यां विजनासीनं जिनं जेतवने पुरा / अनाथपिण्डदो ऽभ्येत्य भगवन्तम् अभाषत // kavk_93.2 //

त्वद्भक्तिर् इव सर्वत्र महार्हगुणविश्रुता / भगवन् प्रौढिम् आयाता कन्या मम सुमागधा // kavk_93.3 //

श्रीमतः सार्थनाथस्य नगरे पुण्ड्रवर्धने / सूनुर् वृषभदत्ताख्यस् तत्पाणिग्रहम् इष्यते // kavk_93.4 //

कन्यां ददामि तां तस्मै भगवन् यदि मन्यसे / त्वदधीनधनप्राणस् त्वदाज्ञाशरणो ह्य् अहम् // kavk_93.5 //

इत्य् उक्ते तेन भगवान् वात्सल्यविमलाशयः / को दोषस् तनया तस्मै दीयताम् इत्य् अभाषत // kavk_93.6 //

शास्तुः शासनम् आदाय सादरं प्रनिपत्य तम् / अनाथपिण्डदः श्रीमान् प्रययौ निजमन्दिरम् // kavk_93.7 //

ततः सुमागधां कन्यां विभवेन महीयसा / अर्हायं स ददौ तस्मै भूरिरत्नाम्बरप्रदः // kavk_93.8 //

दत्ता दूरतरं देशम् अथ यान्ती सुमागधा / भगवच्चरणस्मृत्या सबाष्पनयनाभवत् // kavk_93.9 //

चिरेण सा समासाद्य नगरं पुण्ड्रवर्धनम् / शुश्रूषाभिरता पत्युः सदा भर्तृगृहे ऽवसत् // kavk_93.10 //

कदाचिद् अथ तां श्वश्रूर् भोज्यसंभारकारिणी / उवाच धनवत्याख्या संख्यातीतव्ययोद्यता // kavk_93.ल्ल् //

पूज्योपकरणं सज्जं कुरु सर्वं सुमागधे / गृहान् नः प्रातर् आगन्ता जगत्पूज्यगुणो जिनः // kavk_93.12 //

गुरवो गौरवपदं पूज्याः सर्वजनस्य ते / समेष्यन्ति क्षपणकाः संमोहक्षपणोद्यताः // kavk_93.ल्3 //

इत्य् उक्ता सा तया तत्र बभूवारम्भतत्परा / ज्ञात्वा भिक्षुगणायेव तां पूजां परिकल्पिताम् // kavk_93.14 //

अथापरे ऽह्नि विविशुर् नग्नाः क्षपणका गृहम् / उल्लुञ्चितकचश्मश्रुसंक्लेशनिशितव्रताः // kavk_93.15 //

तान् अलज्जान् अवसनान् अवलोक्य सुमागधा / माषशष्पाशनाभ्यासपीवरान् महिषान् इव // kavk_93.16 //

लज्जिता वाससाच्छाद्य वदनं गुरुसंनिधौ / खेदनिर्वेदविनता श्वश्रूजनम् अभाषत // kavk_93.17 //

अहो वतायम् आचारः सुचिराद् अवलोकितः / दिगम्बराणाम् अप्य् अग्रे यद् इहास्ते वधूजनः // kavk_93.18 //

एते भवद्गृहे ऽदान्ता भुञ्जन्ते शृङ्गवर्जिताः / अमानुषत्वान् नैतेषां लज्जन्ते नूनम् अङ्गनाः // kavk_93.19 //

अस्थाने भवतां भक्तिः को ऽयम् उच्छृङ्खलः क्रमः / न त्यक्तम् अशनं येन स कथं वस्त्रम् उज्झति // kavk_93.20 //

केशोन्मूलनकर्मणैव निशितं नैर्घृण्यम् आवेदितं कौपीनांशुकवर्जनेन सुजने शीलस्य वार्तैव का / दम्भारम्भभयंकरे च वदने क्रोधः स्वयं लक्ष्यते नग्नानाम् अशनैषिणां नियमिनाम् एषां पशूनाम् इव // kavk_93.21 //

यत्रैते पशवः पूज्यास् तत्रोत्सार्या भवन्ति के / अथवा देशदोषो ऽयं गतानुगतिका स्थितिः // kavk_93.22 //

इति ब्रुवाणां तां श्वश्रूर् विषण्णा प्रत्यभाषत / पितुस् ते भवने भद्रे पूज्यते वद कीदृशः // kavk_93.23 //

सावदन् मत्पितुर् गेहे पूज्यते भगवान् जिनः / कारुण्यात् सर्वजगतां कुशलातिशयोद्यतः // kavk_93.24 //

ध्यानाधीनः स्तिमितनयनः पूर्णलावणसिन्धुर् नासावंशं विपुलसरलं सेतुभूतं दधानः / भूषाशून्यप्रसृतरुचिमत्कर्णपाशाभिरामः कान्त्यैवासौ किम् अपि विदुषां शान्तिम् अन्तस् तनोति // kavk_93.25 //

शिरसि सहजप्राज्यालोकप्रसेकमयं मणिं करिपतिकराकारौ बाहूकवत् कनकद्युतिः / करतलगताम् लेखां शङ्खध्वजाम्बुजमालिकां शममयमहासांराज्यार्हं बिभर्ति स लक्षणम् // kavk_93.26 //

तस्याभिलाषजनकस्य महामुनीनां सर्वाभिलाषकलनारहितः स्वभावः / निःशेषितस्मृतिभुवः प्रमदाश्रयस्य रागोज्झितस्य सुतराम् अधरः सरागः // kavk_93.27 //

मूर्तिर् निर्भरसंगमप्रणयिनी मैत्री मनःशायिनी क्षान्तिस् तन्मयकारिणी हृदि दया गाढं समाश्लेषिणी / सर्वाशाभरणस्य भूरिदयितासक्तस्य संलक्ष्यते तस्यापूर्वमणेर् अनन्यमहिमा वैराग्यगर्भः शमः // kavk_93.28 //

पूज्यः स भवने ऽस्माकं यस्य प्रव्रज्यया सताम् / धत्ते शीलदुकूलानाम् निरावरणतां मनः // kavk_93.29 //

विश्वरक्षामणेर् यस्य स्मृत्यापि भवभोगिना / रागद्वेषोग्रदंष्ट्रेण बाध्यते न पुनर् जनः // kavk_93.30 //

इति तस्या वचः श्वश्रूः श्रुत्वा श्रोत्ररसायनम् / सद्यः प्रसादविशदा तां जगाद प्रमोदिनी // kavk_93.31 //

अपि तद्दर्शनोपायः कश्चिद् अस्ति वरानने / अपि त्वत्पुण्यसंबन्धाद् वयम् अप्य् अमृतास्पदम् // kavk_93.32 //

इति सानुनयं श्वश्र्वा सा सादरधियार्थिता / तं वः संदर्शयामीति बभाषे भक्तिमानिनी // kavk_93.33 //

महाप्रतिज्ञासंभारभरनिर्वहणैषिणी / सा संशयतुलारुढा क्षणं ध्यानपराभवत् // kavk_93.34 //

ततः प्रासादम् आरुह्य भगवत्सेवितां दिशम् / प्रणिपत्यासृजत् पूज्यपूजार्हकुसुमाञ्जलिम् // kavk_93.35 //

पुष्पधूपोदकैर् अर्चां सा कृत्वा तत्पदोन्मुखी / आनन्दबाष्पसंरुद्धविस्तीर्णनयनावदत् // kavk_93.36 //

अनुकम्प्यैव भगवन् रत्नत्रयविवर्जिता / तवाश्रममृगीवाहं दूरं देशम् इमम् गता // kavk_93.37 //

त्वत्पादपद्मयुगलं शरणम् प्रपन्नां दूरस्थिताम् अपि दृशा स्पृश मां दयालो / वात्सल्यपेशलधियां महतां प्रवासदुरीकृतेषु करुणा न तनुत्वम् एति // kavk_93.38 //

भगवन् दाससुतया त्वं मयाद्य निमन्त्रितः / प्रातर् आगमनेनैव मानं वितर मे विभो // kavk_93.39 //

इत्य् उदीर्य तयोत्स्र्ष्टा विचित्रकुसुमावली / सजीवितेव प्रययौ नभसा भक्तिदूतिका // kavk_93.40 //

सा श्वेतरक्तहरितासितपुष्पपाली खे धूपधूमशबला शनकैः प्रयान्ती / बालाम्बुदप्रणयिनी सुचिरं चकाशे संचालिचापलतिकेव शचीधवस्य // kavk_93.41 //

अथ जेतवनं प्राप्य क्षणेन कुसुमावली / सा भक्तिशालिनी शास्तुः पपात चरणाब्जयोः // kavk_93.42 //

भगवान् अपि सर्वज्ञः सर्वं ज्ञात्वा समीहितम् / सुमागधायाः कारुण्याद् आनन्दम् अवदत् पुरः // kavk_93.43 //

प्रातर् गन्तव्यम् अस्माभिर् नगरं पुण्ड्रवर्धनम् / सुमागधा प्रार्थयते ससंघस्य ममार्चनम् // kavk_93.44 //

शतषष्ट्यधिकं तत्र योजनानाम् इतः परम् / एकेनाह्ना च गन्तव्यं न विलम्बो ऽत्र युज्यते // kavk_93.45 //

व्योम्ना महर्द्ध्या शक्नोति गन्तुं यो यः प्रभाववान् / निमन्त्रणशलाकां त्वं तस्मै तस्मै समर्पय // kavk_93.46 //

प्रेरितः सुगतेनेति स भिक्षुभ्यो न्यवेदयत् / एकाहगमनप्राप्यं शलाकाभिर् निमन्त्रणम् // kavk_93.47 //

शलाकासु गृहीतासु तत्र सर्वैर् महर्द्धिभिः / पूर्णः कुम्भोपधानीयः स्थविरो ऽप्य् अग्रहीत् क्रमात् // kavk_93.48 //

तेन प्राप्तप्रभावेन शलाकायां प्रसारिते / पाणौ प्राह तम् आनन्दः किंचित् स्मितसिताननः // kavk_93.49 //

अनाथपिण्डदगृहं न गन्तव्यं पदद्वयम् / सषष्टियोजनशतं दिनार्धेनैव लङ्घ्यते // kavk_93.50 //

इत्य् उक्तः स्थविरस् तेन वैलक्ष्यविनताननः / अचिन्तयत् स्ववर्गाग्रे न्यूनभावो हि दुःसहः // kavk_93.5ल् //

अनादिकालोपचिताः क्लेशजन्मजरादयः / हन्तुं सपत्नैः शक्यन्ते प्राप्तुम् ऋद्धिपदं कियत् // kavk_93.52 //

इति चिन्तयतस् तस्य तीव्रसंवेगया धिया / प्रादुर् आसीत् क्षणेनैव महर्द्धिः शुद्धचेतसः // kavk_93.53 //

अथ रात्र्यां व्यतीतायां प्रभाते सर्वभिक्षवः / नानात्रिदशवेशेण विमानैर् नभसा ययुः // kavk_93.54 //

अत्रान्तरे महारम्भसम्भारपरिपूरिते / सुमागधा भर्तृगृहे भगवद्दर्शनोत्सुका // kavk_93.55 //

सह प्रासादम् आरुह्य श्वश्रूश्वशुरभर्तृभिः / तस्थौ कुसुमधूपार्ध्यारचनासंग्रहोन्मुखी // kavk_93.56 //

भिक्षुर् आज्ञातकौण्डिन्यस् ततो ऽश्वरथम् आस्थितः / दिव्यर्द्धिविविधाश्चर्यः प्रथमं प्रत्यदृश्यत // kavk_93.57 //

तं दृष्ट्वा सूर्यसंकाशं विस्मिताः श्वशुरादयः / ऊचुः सुमागधां प्रीत्या किम् एष भगवान् इति // kavk_93.58 //

सावदद् भगवान् नायं दृश्यते तरणिप्रभः / अयम् आज्ञातकौण्डिन्यो भिक्षुर् अक्षुण्णदीधितिः // kavk_93.59 //

आपतत्सु क्रमेणाथ रथेषु श्वशुरादयः / किम् अयं किम् अयं भद्रे भगवान् इति तां जगुः // kavk_93.60 //

साब्रवीन् नैव शास्तायम् एते तच्छासनोचिताः / भिक्षवः प्रशमश्लाघ्यास् तपोदीप्ततरत्विषः // kavk_93.6ल् //

यः कान्तहेमद्रुमरम्यशैलश्र्ङ्गाधिरूढः परतो ऽभ्युपैति / आश्चर्यकृन् मूर्त इव प्रभावः श्रीमान् महाकाश्यप एष भिक्षुः // kavk_93.62 //

पञ्चाननस्यन्दनम् आस्थितो यः सतोयजीमूतगभीरघोषम् / व्योम्ना समभ्येति गुनैः प्रगीतः स एष भिक्षुर् भुवि शारिपुत्रः // kavk_93.63 //

आरुह्य कैलासम् इवातिशुभ्रं द्विपम् चतुर्दन्तम् अनन्तकान्तिः / आयाति यः पुण्यवतां जगत्सु मौद्गल्यनामा च स एष भिक्षुः // kavk_93.64 //

वैदूर्यनालं कनकारविन्दम् आरुह्य रत्नाङ्कुरकेशराढ्यम् / उपैति यः सौरभपूरिताशः स एष भिक्षुः प्रथितो ऽनिरुद्धः // kavk_93.65 //

यश् चाम्बराग्रं गरुडाधिरूढः पक्षानिलोत्सारितवारिवाहः / विगाहते स्फितवनेन भिक्षुर् मैत्रायणीसूनुर् अयं स पूर्णः // kavk_93.66 //

अनन्तम् आस्थाय नितान्तशान्तम् ईर्ष्यापथं सत्त्वमहोदधिर् यः / प्रभामृतैः सर्पति तर्पिताशः प्रभाववान् एष्यजिद् एष भिक्षुः // kavk_93.67 //

विलोलवल्लीवलयाभिरामं विशालम् आरुह्य सुवर्णतालम् / यः पुण्यपूर्णद्युतिर् अभ्युपैति स एष भिक्षुर् मतिमान् उपाली // kavk_93.68 //

आरुह्य वैडूर्यविमानशृङ्गं सुवर्णरत्नोज्ज्वलपत्रलेखम् / लिम्पन्न् इवागच्छति यः प्रभाभिः कात्यायनो नाम स एष भिक्षुः // kavk_93.69 //

शरीरिणं धर्मम् इवाधिरुह्य विगाहते खं वृषवाहनो यः / पृष्ठः प्रतिष्ठापरिनिष्ठितानां गरिष्ठधीः कौष्ठिल एष भिक्षुः // kavk_93.70 //

विमानहंसद्युतिभिर् मुहूर्तं स्मितोर्मिरम्यं मुहुर् अन्तरीक्षम् / कुर्वन् समभ्येति तपोनिधिर् यः पिलिन्दवत्साह्वय एष भिक्षुः // kavk_93.7ल् //

यो ऽयं समुत्फुल्ललतावितानवनान्तराले विहरन्न् उपैति / स श्रोणकोटिः श्रुत एष भिक्षुर् अक्षुण्णलक्ष्मीर् गृहनिर्व्यपेक्षः // kavk_93.72 //

यश् चक्रवर्ती दिवि भाति सो ऽयं शास्तुः सुतो राहुलकाभिधानः / हेमप्रभाभूषितदिग्विभागः संलक्ष्यते मेरुर् इवान्यरूपः // kavk_93.73 //

एते गिरिभ्यो ऽथ दिगन्तरेभ्यः क्ष्मामण्डलाद् व्योमतटान्तराच् च / आयान्त्य् असंख्याद्भुतभिक्षुसंघा विचित्ररत्नासनवाहनस्थाः // kavk_93.74 //

तया क्रमेणेति निवेद्यमानं ते भिक्षुसंघं विमुखं विलोक्य / ययुः प्रहर्षाद्भुतसंभ्रमाणां विधेयतां तुल्यम् अनन्यलक्ष्म्याः // kavk_93.75 //

अथ ज्वलत्काञ्चनचूर्णवर्णं जगद् बभूवार्कशतप्रकाशम् / अशेषसंतापविशेषशान्त्या शीतांशुमालाशतशीतलं च // kavk_93.76 //

अथ धनपतिशक्रब्रह्ममुख्यैर् अमर्त्यैर् विपुलगगनयात्रादत्तसेवानुयात्रः / अमरपुरपुरस्त्रीकीर्णपुष्पप्रभावान् नयनपथम् अयासीत् पुण्यभाजां जिनेन्द्रः // kavk_93.77 //

अष्टादशद्वारपथा पुरं तत् स तुल्यम् अष्टादशमूर्तिर् एव / प्रविश्य चक्रे शशिकान्तरत्नशिखामयं वेश्म सुमागधायाः // kavk_93.78 //

अभ्यर्चितस् तत्र बहुप्रकारैः पूर्णोपचारैः प्रणिपत्य सर्वैः / अपूजयत् पौरजनः समन्ताद् बहिश् च भित्तिप्रतिबिम्बितं तम् // kavk_93.79 //

सुमागधाया दयया दयालुः पूजां गृहीत्वा भगवान् ससंघः / अनुग्रहालोकनसंविभागैः सर्वान्ववाया विदधे प्रसादम् // kavk_93.80 //

सुमागधा सश्वशुरादिवर्गा सहापरैः पौरजनैश् च सर्वाः / शास्तुस् तया देशनया बभूवुः शुद्धाशयास् तत्क्षणदृष्टसत्याः // kavk_93.81 //

सुमागधायाः कुशलानुबन्धं पुण्यं प्रभावं विपुलं विलोक्य / ते भिक्षवस् तत्र कुतूहलेन पप्रच्छू रम्यं जिनम् आदिवृत्तम् // kavk_93.82 //

पृष्टः स तैः संसदि सर्वदर्शी सुमागधायाः कुशलस्य हेतुम् / दन्तप्रभाभिः ककुभां मुखेषु दिशन् प्रकाशम् भगवान् बभाषे // kavk_93.83 //

वाराणस्याम् अभूत् पूर्वं कृकेः कन्तस्य भूपतेः / सुता काञ्चनमालाख्या कुचकाञ्चनमालिका // kavk_93.84 //

काश्यपाख्यस्य शास्तुः सा सततं भक्तिशालिनी / परिचर्यां व्यधात् सार्धं सखीनां पञ्चभिः शतैः // kavk_93.85 //

स कदाचिन् नरपतिर् विकृतस्वप्नदर्शनात् / भयसंशयसंभ्रान्तः पप्रच्छ फलकोविदान् // kavk_93.86 //

ते तं राजसुताद्वेषान् निमित्तज्ञा बभाषिरे / अतिप्रियस्य हृदयं हुत्वाग्नौ लभ्यते शिवम् // kavk_93.87 //

इति तेषाम् अनादृत्य वचः क्रूरतरं नृपः / भगवन्तं ययौ द्रष्टुं काश्यपं दुहितुर् गिरा // kavk_93.88 //

स तम् एत्यावदत् स्वप्नः सविकारः परं मया / दृष्टो ऽद्य सर्वं सर्वज्ञ तत्फलं वक्तुम् अर्हसि // kavk_93.89 //

वातायनेन निर्गच्छन् रुद्धपुच्छो मया गजः / तृषितस्य तथा पश्चात् कुपो धावन् विलोकितः // kavk_93.90 //

तृप्तश् च शक्तुप्रस्थेन मौक्तिप्रस्थविक्रयः / समीकृतानि दृष्टानि कुदारूणि च चन्दनैः // kavk_93.9ल् //

कलभेन महाहस्ती समाहूतस् तथाहवे / परान् अशुचिलिप्ताङ्गः प्रलिम्पन् विप्लुतः कपिः // kavk_93.92 //

स्फीतराज्याम् अभिषिक्तश् च कुचापलनिधिः कपिः / पटो ऽष्टादशभिः कृष्टः पुरुषैर् अप्य् असंक्षयः // kavk_93.93 //

रम्यपुष्पफलारामश् चौरैर् अपि विलुण्ठितः / द्वेषोपहासकलहासक्तश् च विपुलो जनः // kavk_93.94 //

स्वप्नाद्भुतानाम् एतेषां मन्ये घोरतरं फलम् / इति पृष्टः क्षितिभुजा भगवान् काश्यपो ऽब्रवीत् // kavk_93.95 //

शतायुषि जने शास्ता शान्तः शाक्यमुनिर् जिनः / भविष्यत्य् अमृताम्भोधिः स द्र्ष्टः कुञ्जरस् त्वया // kavk_93.96 //

तस्यापि पश्चिमे काले श्रावकाः कलिसंश्रयात् / त्यक्तशीलगुणाचारा भविष्यन्ति सविप्लवाः // kavk_93.97 //

अपक्वाल्पविवेकानां बलात् ते गृहवासिनाम् / स्वयं सेवां समालम्ब्य करिष्यन्त्य् एव देशनाम् // kavk_93.98 //

अर्थनीयो ऽर्थिभावेन यस्मात् सेवासु धावति / तृषितस्य व्रजन् पश्चात् कूपस् तस्माद् विलोकितः // kavk_93.99 //

ते करिष्यन्ति लोभान्धः संमोहोपहताः परम् / बोध्यङ्गमुक्ताप्रस्थस्य शक्तुप्रस्थेन विक्रयम् // kavk_93.लोओ //

तीर्थवाक्यकुदारूणि बुद्धभाषितचन्दनैः / साम्यम् आपादयिष्यन्ति ते मौग्ध्याद् अविशेषिणः // kavk_93.101 //

क्वचिद् भद्रं समासाद्य विनीतं भिक्षुकुञ्जरम् / दुःशीलकलभो भिक्षुः स्पर्धया धिक् करिष्यति // kavk_93.102 //

चापलाशुचिलिप्ताङ्गः सुशीलान् भिक्षुमर्कटः / अनुलिम्पन् स्वदोषेण करिष्यत्य् आत्मसन्निभान् // kavk_93.103 //

षण्डकस्याभिषेकश् च भविष्यति कपेर् इव / संबुद्धशासनपटं कृष्यमाणं न नंक्ष्यति // kavk_93.104 //

संघद्रव्यफलारामेष्व् अपि यास्यन्ति चौरताम् / मिथः कलहशीलाश् च भविष्यन्त्य् अपवादिनः // kavk_93.105 //

तव स्वप्नविपाकान्ते फलान्य् एतानि भूतले / इति शास्तुर् वचः श्रुत्वा विस्मितो ऽभून् महीपतिः // kavk_93.106 //

सानुगस्याथ नृपतेः स शास्ता धर्मदेशनाम् / कृत्वा काञ्चनमालाया दिदेश कुशलार्हताम् // kavk_93.ल्07 //

जन्मान्तले चकारार्चां स्तूपे नारङ्गमालया / सा तेन सुकृतेनैव जाता हेमस्रजाङ्किता // kavk_93.108 //

सेयं सुमागधा पुण्यप्रभावेण महीयसा / प्राप्ताद्य जनकायस्य सम्यक् कुशलसेतुताम् // kavk_93.109 //

अधिधायेति भगवान् नभसा भिक्षुभिः सह / रुचा संपूरयन्न् आशां ययौ जेतवनं जिनः // kavk_93.ल्ल्0 //

पुंसां सत्कुलभूतये बलवती मिथ्यैव पुत्रस्पृहा सूनुश् चेद् अगुणस् तद् एव विफलं तत् किं न सर्वं कुलम् / सा कन्या किल जायते गुणवती पुण्यप्रभावाद् यया संसारोरुसरित्पतौ कुलयुगम् नाव् एव संतार्यते // kavk_93.111 //

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सुमागधावदानं त्रिनवतितमः पल्लवह्.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.