Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
करुणापुण्डरीकसूत्र
- Thông tin
- GRETIL — Isshi, Yamada, Mahakarunapundarika Sutra. London: School of Oriental and African Studies, 1968, 1-420.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अथ स ब्राह्मणः पद्मानि भाजयमान एव प्रतिबुद्धः, संविचिन्तयमान उत्थायासनात् पुनर्विचिन्तयति, "हीनप्रणिधिरयं राजा चक्रवर्ती संसारसुखाभिरतो हीना वास्याधिमुक्तिः सार्धमेकत्यै राजपुत्रैरेकत्याः पुना राजपुत्राः श्रावकयानमाकाङ्क्षन्ति ये मया महिषरथाभिरूढा दृष्टाः सुमनापुष्पैरलङ्कृता दक्षिणाभिमुखा गच्छन्ति / यच्च मया सर्वसत्त्वार्थं महायज्ञस्यारम्भं कृतं / यच्च मयाधत्रियां वर्षशतां जम्बूद्वीपमन्वाहिण्ड्य सर्वसत्त्वा अनुत्तरायां सम्यक्संबोधौ यावत् प्रतिष्ठापिटाः / तद् एवं मया सर्वजम्बूद्वीपे गतानेकानि प्राणकोटीनयुतशतसहस्राणि त्रिषु पुण्यक्रियावस्तुषु समादापितानि निवेशितानि प्रतिष्ठापितानि / तस्यैतन्निमित्तं येन मया स्वप्ने महावभासो दृष्टः (क्प्सू 69) दशसु दिक्षु बुद्धा भगवन्तो दृष्टाः / यच्च मया सर्वं जम्बूद्वीपमन्वाहिण्ड्य स्त्रीपुरुषदारकदारिकाभ्यः पिण्डपातं याचयित्वा बहुप्राणकोटीनयुतशतसहस्राणि त्रिशरणक्रियावस्तुषु स्थापितानि विनीतानि निवेशितानि प्रतिष्ठापितानि / यच्च मया तथागतो ऽर्हन् सम्यक्संबुद्धः सप्तवर्षाण्युपनिमन्त्रितः सर्वोपकरणैः सार्धं भिक्षुसङ्घेन, तेन मम दशभ्यो दिग्भ्यः अन्येभ्यो बुद्धक्षेत्रेभ्यः बुद्धैर्भगवद्भिः पद्मान्यनुप्रेषितानि / यच्च मयानुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतं, तेन ते बुद्धा सप्तरत्नमयानि छत्राणि विसर्जयन्ति / यत्पुनर्मया तेषु पद्मेषु सूर्यविग्रहा दृष्टा, यच्च रश्मयो मुखे प्रविशमाना दृष्टाः, यच्चासौ महान् आत्मभावो दृष्टः, यच्च सूर्यविग्रहमाला दृष्टा, यच्च कुक्षौ बोधिसत्त्वकोटीनयुतशतसहस्राणि पद्मेषु पर्यङ्कनिषण्णानि ध्यायमानानि, इमा एवंरूपाः स्वप्ना दृष्टाः, यच्च मे शक्रब्रह्मलोकपाल दृष्टा आज्ञापयन्तीमानि पद्मानि भागं कुरु, यच्च मया तानि पद्मानि भागं कृत्वा दत्तानि / यन्न्वहम् इमाः स्वप्ना बुद्धाय भगवत आख्यास्ये, किंहेतुकाः किंप्रत्यया मयैवंरूपाः स्वप्ना दृष्टा, यन्न्वहं (क्प्सू 70) तथागतं पृच्छेयं" /
अथ समुद्ररेणुर्ब्राह्मणः तस्या एव रात्र्या अत्ययेन भोजनं सज्जीकृत्वा काल्यते एव येन भगवांस्तेनोपजगाम, उपेत्य स्वयमेव भगवतो हस्तशौचमुपनामयति भिक्षुसङ्घस्य च / हस्तशौचमुपनीय प्रभूतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति, संतर्पयित्वा संप्रवारयित्वा भिक्षुसङ्घमनेकपर्यायेन संतर्प्य संप्रवार्य भगवन्तं विदित्वा भिक्षुसङ्घं च धौतहस्तमपनीतपात्रं नीचमासनं गृहीत्वा भगवतः पुरतो निषण्णो धर्मश्रवणाय / अथ राजारणेमी तत्रैवाभ्यागतः सार्धं पुत्रसहस्रेणानेकैश्च प्राणिसहस्रैः परिवृतः पुरस्कृतः, स यावद् यानस्य भूमिस्तावद् यानेन यात्वा यानाद् अवतीर्य पद्भ्यामेवारामं प्राविक्षत्, प्रविश्य च येन भगवांस्तेनोपजगामोपेत्य भगवतः पादौ शिरसा वन्दित्वा भिक्षुसङ्घस्य च भगवतः पुरतः निषण्णो धर्मश्रवणाय / अथ समुद्ररेणुर्ब्राह्मणो यथादृष्टां स्वप्नां भगवतो निवेदयति /
भगवान् आह - "यत्त्वं ब्राह्मणाद्राक्षीत् महान्तमवभासं येनावभासेन गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु (क्प्सू 71) बुद्धा भगवन्तो दृष्टा तव पद्मानि विसर्जयन्ति, तेषु च पद्मेषु सूर्यविग्रहा दृष्टा रश्मयः प्रमुञ्चमानास्ते च रश्मयस्तव मुखे प्रविशन्ति / यत्त्वया ब्राह्मण अधत्रिकायां वर्षशतां जम्बुद्वीपमाहिण्डता, तेन त्वया गणनातिक्रान्ताः सत्त्वास्त्रिषु पुण्यक्रियावस्तुषु निवेशिताः प्रतिष्ठापिताश्च, गणनातिक्रान्ताश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः / यच्च त्वया सर्वसत्त्वार्थं महायज्ञस्यारम्भः कृतस्तेन त्वं ब्राह्मण बुद्धा भगवन्तो व्याकरिष्यन्त्यनुत्तरायां सम्यक्संबोधौ, ये दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, यैश्च तव पद्मानि विसर्जितानि सुवर्णपत्राणि रूप्यदण्डानि वैडूर्यकर्णिकानि अस्मगर्भकेशराणि, तेषु च सर्वेषु पद्मेषु सूर्यविग्रहा दृश्यन्ते / इदं तस्य स्वप्नस्य पूर्वनिमित्तं / यत्त्वं ब्राह्मणाद्राक्षीत् स्वप्ने ये दशौसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तैर्बुद्धैर्भगवद्भिः सप्तरत्नमयानि छत्राणि विसर्जितानि, यानि छत्राणि चोपरि चाकाशे यावद् (क्प्सू 72) ब्रह्मलोकपर्यन्तं संतिष्ठन्ति /
यस्यां एव रात्रौ त्वं ब्राह्मणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे तस्यां एव रात्रौ दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषूदारः कीर्तिशब्दश्लोको ऽभ्युद्गच्छते, उपरि च यावद् ब्रह्मलोकपर्यन्तं कृत्वा न शक्यन्ते तव मूर्धानं व्यवलोकयितुं ब्रह्मादिभिर्देवलोकैरपि / इदं तस्य स्वप्नस्य पूर्वनिमित्तं / यत्त्वं ब्राह्मणाद्राक्षित् महान्तमात्मभावं यावद् ब्रह्मलोकं यच्च सूर्यमण्डलानां माला शीरसि बद्धा, तद्ये त्वया गणनातिक्रान्ताः सत्त्वाः समादापिता अनुत्तरायां सम्यक्संबोधौ, ते च तवाभिसंबुद्धबोधेर्ब्राह्मण बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु देशसु दिक्षु स्थिता अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / सर्वे ये त्वया बोधौ समादापिता ते तवाभीक्ष्णं वर्णं उदाहरिष्यन्ति, "अनेन तथागतेनार्हता सम्यक्संबुद्धेन वयं प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता, येनास्मैतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धा, एष चास्माकं कल्याणमित्रं" / ते बुद्धा भगवन्तो बोधिसत्त्वान् विसर्जयिष्यन्ति तव पूजाकर्मणे, ततस्ते बोधिसत्त्वा महासत्त्वा विविधैर्बोधिसत्त्वविकुर्वितैस्तव (क्प्सू 73) पूजां कृत्वा, तत्र तव सकाशाद्धर्मं श्रुत्वा नानाविधाः समाधिर्धारणीः क्षान्तिश्च प्रतिलप्स्यन्ते / ते बोधिसत्त्वा महासत्त्वाः स्वकस्वकेषु बुद्धक्षेत्रेषु गत्वा तव वर्णं उच्चारयिष्यन्ति घोषमनुश्रावयिष्यन्ति / इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तं /
यत्त्वया ब्राह्मण स्वप्ने दृष्टा बोधिसत्त्वकोटीनयुतशतसहस्राणि तानि तव कुक्षौ प्रविश्य पद्मेषु पर्यङ्कोपविष्टा ध्यायन्ति, अभिसंबुद्धबोधिश्च त्वं ब्राह्मण बहुप्राणकोटीनयुतशतसहस्राणि यान्यनुत्तरायां सम्यक्संबोधौ समादापयिष्यसि अवैवर्तिकानि स्थापयिष्यस्यनुत्तरायां सम्यक्संबोधौ / ते तव परिनिर्वृतस्य ब्राह्मणानुत्तरेण परिनिर्वाणेन बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु पश्चाद्दशासु दिक्ष्वन्येषु बुद्धक्षेत्रेषु ते बुद्धा भगवन्तो धर्मेण राज्यं कारयन्तस्तव वर्णं भाषिष्यन्ति / "एवम् असंख्येयेषु कल्पेष्वतिक्रान्तेषु एवंनामा तथागतो अभूद् अर्हन् सम्यक्संबुद्धः, तेन तथागतेनार्हता सम्यक्संबुद्धेन वयमनुत्तरायां सम्यक्संबोद्धौ समादापिता विनीता निवेशिताः प्रतिष्ठापिता अवैवर्तिकाश्च स्थापिता, येन वयमेतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, (क्प्सू 74) धर्मराज्यं च प्रतिलब्धाः" / इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तं / यत्त्वं ब्राह्मण स्वप्ने दृष्टवान् सूकरमुखेन यावच्छ्वमुखेन रुधिरम्रक्षितेन गात्रेणानेकविधां प्राणिनो भक्षयित्वा हीन एरण्डमूले निषण्णास्ते ऽप्यन्ये विविधैः प्राणिभिर्भक्ष्यन्ते यावदस्थिशङ्कलावशेषा उत्सृज्यन्ते, पुनरप्याप्यायितकाया रुधिराभ्यक्तेन कायेन यावच्छ्वमुखेन बहुविधां प्राणिनो भक्षयित्वा पुनर्हीनस्यैरण्डवृक्षस्य मूले निषण्णा विविधैश्च प्राणिभिः खाद्यन्ते /
ते त्वया मोहपुरुषास्त्रिविधे पुण्यक्रियावस्तुनि समादापिता प्रातिष्ठापिता दाने यमे संयमे च, ते देवेषु च्यवनदुःखमभिलषन्ति, मनुष्येषु जराव्याधिमरणाप्रियसंप्रयोगप्रियविनाभावदुःखां प्रेतेषु क्षुत्पिपासदुःखं तिर्यक्ष्वन्योन्यभक्षणदुःखं नारकेषु दाहच्छेदवधबन्धननानाविधकारणादिदुःखमभिलषन्ति / त्रिविधे च पुण्यक्रियावस्तुनि प्रतिष्ठापिता देवेषु देवराज्यमभिलषन्ति मनुष्येषु चैकद्वीपैश्वर्यमाकाङ्क्षन्ते / तेषां तत्र सर्वसत्त्वाः परिभोगं गच्छन्ति, ते ऽपि च सर्वसत्त्वानामाहारपरिभोगं (क्प्सू 75) गच्छन्ति / एवं ते मोहपुरुषाः सर्वे त्वया त्रिविधे पुण्यक्रियावस्तुनि प्रतिष्ठापितास्तवोपासका भविष्यन्ति / इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तं / यत्त्वं ब्राह्मण स्वप्नमद्राक्षीत् अपरे मनुष्या महिषरथाभिरूधाः सुमनामालालाङ्कृतशिरसः अपथेन दक्षिणाभिमुखं गच्छन्ति, ते ऽपि त्वया ब्राह्मण कुलपुत्राः त्रिषु पुण्यक्रियावस्तुषु प्रतिष्ठापिताः केवलमात्मदमनार्थं आत्मशमनार्थं श्रावकयानसंप्रस्थिताः, तेषां श्रावकयानसंप्रस्थितानां ब्राह्मण पुद्गलानामिदं पुर्वनिमित्तं" //
अथ खलु कुलपुत्र ब्राह्मणः समुद्ररेणू राजानमारणेमिनमेतदवोचत् - "दुर्लभं महाराज मनुष्यत्वं, दुर्लभा क्षणसंपत्, दुर्लभमुदुम्बरपुष्पसदृशानां तथागतानामर्हतां सम्यक्संबुद्धानां प्रादुर्भावो लोके, दुर्लभः कुशलधर्मे छन्दः, दुर्लभं सम्यक्प्रणिधानं / दुःखोत्पत्तिभूतं महाराज देवराजत्वं, दुःखोत्पत्तिभूतं महाराज मनुष्येषु चैकद्वीपैश्वर्यराजत्वं, दुःखोत्पत्तिभूतं द्विस्त्रिश्चातुर्द्वीपिकराजत्वं / चिरं महाराज संसारदुःखमनुभवितव्यं / (क्प्सू 76) अनवस्थिता महाराज वायुवेगचपला देवमनुष्यसंपत्तयो, दकचन्द्रोपमा बालाः पञ्चभिः कामगुणैरतृप्ता विषयेषु मत्ता देवमाणुषां श्रियमभिलषन्ति / ते बालाः पुनः पुनर्नरकेषु कारणादुःखमनुभवन्ति तिर्यक्षु संमोहदुःखं प्रेतेषु क्षुत्पिपासादुःखं मनुष्येषु प्रियविप्रयोगदुःखं देवेषु च्यवनदुःखं पुनर्गर्भवासदुःखं परस्परशीर्षप्रपातनदुःखं अन्योन्यभक्षणदुःखं, एवं भ्रममाणा बाला दुःखमनुभवन्ति / तत्कस्माद्धेतोः?, कल्याणमित्रविरहिताः सम्यक्प्रणिधानं न कुर्वन्ति न व्यायमन्ति अप्राप्तस्य प्राप्तये ऽनधिगतस्याधिगमायासाक्षात्कृतस्य साक्षात्क्रियायै / एवं मूर्खा बालाः खिद्यन्ते बोधिचित्तेन यत्र सर्वदुःखक्षयो भवति, संसारेण च न खिद्यन्ते नोद्विजन्ति यत्र पुनः पुनर्दुःखोत्पत्तिर्भवति / परीक्षस्व महाराज यथा संसारः सर्वदुःखानां भाजनभूतः / तस्मात्तर्हि त्वं महाराज कृताधिकारो भगवतः शासने ऽवरोपितकुशलमूलस्त्रिषु रत्नेषु लब्धप्रसादः, भगवतो दत्तदानो (क्प्सू 77) महाभोगतायै रक्षितशीलः स्वर्गोपपत्तिप्रतिलाभाय श्रुतो भगवतो ऽन्तिकाद्धर्मं प्रज्ञामहाधर्मप्रतिलाभाय ते संपत्स्यन्ते / यष्टयज्ञस्त्वं महाराज उत्पादायनुत्तरायां सम्यक्संबोधौ चित्तं" / आह, "अलं ब्राह्मण, नाहं ब्राह्मणानुत्तरां सम्यक्संबोधिमभिलषामि संसाराभिरतः, यन्महाब्राह्मण मया दानं दत्तं शीलं रक्षितं धर्मः श्रुतः / दुर्लभा हि ब्राह्मणानुत्तरा सम्यक्संबोधिः" /
द्विरपि समुद्ररेणुर्ब्राह्मणो राजानमाह - "शुद्धो महाराज बोधिमार्गः / आशयेन प्रणिधानं कर्तव्यं / परिपूर्याभिप्रसन्नः स मार्गो ऽध्याशयेन विशुद्धः / ऋजुः स मार्गः अशठः / शुद्धः स मार्गः क्लेशप्रवाहकत्वात् / विपुलो ऽसौ मार्गः अनावर्णत्वात् / समवसरणः स मार्गः चिन्तनाय / निर्भयः स मार्गः सर्वपापाकरणतया / सुमृदुः स मार्गः दानपारमितया / शीतलः स मार्गः शीलपारमितया / निराश्रयः स मार्गः क्षान्तिपारमितया / अधिष्ठानाश्रयः स मार्गः वीर्यपारमितया / अनाविलः स मार्गः ध्यानपारमितया / सुविदितः स मार्गः (क्प्सू 78) प्रज्ञापारमितया / सुप्रसन्नः स मार्गो महामैत्र्या / स्वभावज्ञानानुगतः स मार्गः महाकरुणया / सदानन्दितः स मार्गः महामुदितया / अक्लिष्टः स मार्गः उपेक्षया / अपगतकण्टकः स मार्गः कामव्यापादविहिंसावितर्कैः / क्षेमंगमनः स मार्गो ऽप्रतिहतचित्ततया / धूर्तविरहितः स मार्गः रूपशब्दगन्धरसस्पर्शविदितत्वात् / निहतमारप्रत्यर्थिकः स मार्गः धात्वायतनसुविमृष्टत्वात् / सुप्रबोधः स मार्गः अविद्यान्धकारनिरावरणत्वात् / दृढवीर्यसत्त्वचित्तगमनः स मार्गः अपगतश्रावकप्रत्येकबुद्धमनसिकारत्वात् / उत्सोढः स मार्गः सर्वतथागताधिष्ठितत्वात् / महारत्ननिष्पादकः स मार्गः सर्वज्ञतारत्नानुकूलत्वात् / सदाप्रकाशितः स मार्गः असङ्गज्ञानस्य भगवतः / कुशलमूलदेशकानुचीर्णः स मार्गः सर्वतथागतानुगृहीतत्वात् / दुष्टक्लेशानुकूलविगतः स मार्गः अनुनयप्रतिघप्रहीणत्वात् / निहतरजः स मार्गः व्यापादखिलक्रोधापगतत्वात् / (क्प्सू 79) सुगतिगमनीयः स मार्गः सर्वाकुशलविरहितत्वात् /
क्षेमंगमो महाराज संबोधिमार्गः निर्वाणपर्यवसानः / उत्पादय महाराज बोधिचित्तं" / राजा प्राह - "अयं ब्राह्मण तथागतः अशीतिवर्षसाहस्रिकायां प्रजायां लोक उत्पन्नो, न शक्यं तथागतेन सर्वे ऽपायः शमयितुं / ये सत्त्वा अवरुप्तकुशलमूलस्ते सत्त्वाः फले स्थिताः, केचित् समाधिधारणीक्षान्तिषु निष्पन्नाः, उत्कृष्टकुशलमूलास्तु ये सत्त्वास्ते बोधौ अवैवर्त्याः संवृत्ताः, केचिदवरुप्तकुशलमूलाः देवमनुष्यश्रियमनुभवन्ति / स्वकस्वकैः सत्त्वाः कुशलाकुशलैः कर्मभिर्भ्रमन्ति / कतमे सत्त्वा भगवता विनीताः सदेकसत्त्वस्यापि दुःखं न प्रशान्तं, क्षेत्रभूतः केवलं भगवत आश्रयः, नानवरुप्तकुशलमूलानां सत्त्वानां दुःखमोचनं करोति / उत्पादयाम्यहं बोधिचित्तं / बोधिसत्त्वचर्यां चरंस्तेनाहं महाज्ञानसमुच्छ्रयेण अचिन्त्येनोदारेण धर्ममुखप्रवेशेन सत्त्वान् विनयेयं बुद्धकार्यं च कुर्यां / न केवलमस्मिं क्लिष्टे बुद्धक्षेत्रे बोधाय चित्तं (क्प्सू 80) परिणामयेयं / यद्यहं तादृशं बुद्धक्षेत्रं लभेयमुत्पादयेयमहं बोधिचित्तं, तदाहं बोधिसत्त्वचर्यां चरिष्यामि यदाहमनुत्तरां सम्यक्संबोधिं च स्पृशेयं, सर्वं च तत्र बुद्धक्षेत्रे सत्त्वानां दुःखं प्रशमयेयं" /
अथ खलु कुलपुत्र रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तादृशमृद्ध्यभिसंस्कारमभिसंस्कृतवान् तदादर्शव्यूहं नाम समाधिं समापन्नः / तथा समाहितेन भगवता आदर्शव्यूहे समाधौ तथारूपावभासः प्रादुर्भूतः, येनावभासेन दशसु दिक्ष्वेकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमा लोकधातवः सर्वगुणव्यूहा दृष्यन्ते; केषुचिद् बुद्धा भगवन्तः परिनिर्वृताः, केषुचित् परिनिर्वाणाय संस्थिताः; यत्र च बोधिसत्त्वा महासत्त्वा बोधिवृक्षमूले निषण्णा मारं पराजयन्ति, यत्र चाचिराभिसंबुद्धा धर्मचक्रं प्रवर्तयन्ति, यत्र चाचिरप्रवृत्तधर्मचक्रं धर्मं देशयन्ति, यत्र च बुद्धानां बोधिसत्त्वानां स्फुटां बुद्धक्षेत्रां, यत्र श्रावकप्रत्येकबुद्धानामुत्पादो नास्ति, यत्र च श्रावकप्रत्येकबुद्धा उत्पद्यन्ते, यत्र च शून्यं बुद्धक्षेत्रं बुद्धेभ्यो बोधिसत्त्वेभ्यः (क्प्सू 81) श्रावकप्रत्येकबुद्धेभ्यः; क्वचित् क्लिष्टं बुद्धक्षेत्रं पञ्चकषायं, क्वचित् परिशुद्धमपगतपञ्चकषायं, क्वचिदुत्कृष्टाः सत्त्वाः, क्वचिद्धीनाः, क्वचिद्दीर्घायुष्काः, क्वचिदल्पायुष्काः; कानिचिद्बुद्धक्षेत्रान्यग्निना संवर्तन्ते, कानिचिदुदकेन, कानिचिद्वायुना; क्वचिद्विवर्तन्ते, क्वचिद्विवृत्तास्तिष्ठन्ति; ते सर्व उदारेणावभासेन स्फुटाः संदृश्यन्ते / सर्वावती सा पर्षत्तां दृष्ट्वा बुद्धक्षेत्रे गुणव्यूहान्, समुद्ररेणुर्ब्राह्मणः पुना राजानमेतदवोचत् - "पश्य महाराजैतान् बुद्धक्षेत्रगुणव्यूहान्, उत्पादय महाराजनुत्तरायां सम्यक्संबोधौ चित्तं, गृहाण महाराज बुद्धक्षेत्रं यादृशमाकाङ्क्षसि" /
अथारणेमी राजा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - "केन भगवन् कर्मणा बोधिसत्त्वो महासत्त्वः परिशुद्धं बुद्धक्षेत्रं परिगृह्णाति, केन कर्मणापरिशुद्धं; उत्कृष्टाः सत्त्वाः केन कर्मणा, यावद्दीर्घायुष्काः सत्त्वा विस्तरः" / भगवान् आह - "प्रणिधानवशेन महाराज बोधिसत्त्वो महासत्त्वः परिशुद्धं बुद्धक्षेत्रं परिगृह्णाति अपगतपञ्चकषायं, प्रणिधानेनापरिशुद्धं" / राजा प्राह - "अहं भदन्त (क्प्सू 82) भगवन् नगरं प्रविश्यैकाग्रे निषद्य प्रणिधानं चिन्तयिष्यामि, तथारूपं मे बुद्धक्षेत्रमपगतपञ्चकषायं रोचते तत्रेमा सुभवचर्या परिणामयिष्यामि" / भगवान् आह - "यस्येदानीं महाराज कालं मन्यसे" / अथ खलु कुलपुत्र राजारणेमी भगवतः पादौ शिरसा वन्दित्वा भिक्षुसङ्घं च त्रिष्कृत्वः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात् प्रकान्तः / नगरं प्रविश्य स्वके गृह एकाग्रः प्रतिसंलीनो निषण्णः, बुद्धक्षेत्रप्रणिधानं व्यूहं चिन्तयति /
अथ खलु समुद्ररेणुर्ब्राह्मणः ज्येष्ठं राजपुत्रमनिमिषमामन्त्रयति / "उत्पादय त्वमनिमिषानुत्तरायां सम्यक्संबोधौ चित्तं / यच्च त्वया त्रिभिः पुण्यक्रियावस्तुभिः शुभं चरता पुण्यमार्जितं तत्सर्वमनुत्तरयां सम्यक्संबोधौ परिणामया" / स प्राह - "अहमप्युपाध्याय स्वगृहं गत्वैकाकी रहोगतो निषद्य बुद्धक्षेत्रगुणव्यूहांश्चिन्तयिष्यामि / यदि बोधाय चित्तमुत्पत्स्यते, पुनरागम्य भगवतः सकाशं बोधिचित्तं परिणामयिष्यामि" / अतः सो ऽपि राजपुत्रो भगवतः पादौ शिरसाभिवन्द्य भिक्षुसङ्घस्य च त्रिष्कृत्वः प्रदक्षिणीकृत्वा भगवतो ऽन्तिकात् प्रकान्तः, (क्प्सू 83) स्वकं निवेशनं गत्वा एकाकी रहोगतो निषद्य बुद्धक्षेत्रगुणव्यूहं चिन्तयति / अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो ऽग्रपुरोहितो द्वितीयं राजपुत्रं निमन्त्रयित्वोवाच, "उत्पादय त्वं कुमार बोधिचित्तं", विस्तरेण पेयालं यावत्, सर्वराजपुत्रसहस्रं बोधौ समादापयति, चतुरशीतिः कोट्टराजसहस्राणि, अन्यानि च नवतिः कोट्यः सत्त्वानां बोधौ समादापयति / ते ऽपि सर्व एवमाहुः, "वयमपि स्वस्वगृहं गत्वैकाकिनो निषद्य बुद्धक्षेत्रगुणव्यूहं चिन्तयिष्यामः" / एवमुक्त्वा सर्व एव स्वगृहाणि गत्वैकाकिनो निषण्णाः सप्तवर्षाणि बुद्धक्षेत्रगुणव्यूहप्रणिधानानि चिन्तयन्ति //
अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैवं अपरेण समयेन चेतसः परिवितर्क उदापादि / "मया खल्वनुत्तरायां सम्यक्संबोधौ बहुप्राणकोटीनयुतशतसहस्राणि समादापितानि / अयं च मया बुद्धो भगवान् सप्तवर्षाणि सर्वोपकर्णैरुपनिमन्त्रितः सार्धमपरिमितेन भिक्षुसङ्घेन / यदि च ममानुत्तरायां सम्यक्संबोधौ आशा परिपूर्यते तथा चायं प्रणिधानं संपद्यते यद् अहं देवासुरगन्धर्वयक्षराक्षसकुम्भाण्डान् अस्मिन् महायज्ञे समादापयामि" /
अथ कुलपुत्र समुद्ररेणुर्ब्राह्मणः पुरोहितो वैश्रवणमाकाङ्क्षते दर्शनाय / अथ खलु वैश्रवणो महाराजानेकैर्यक्षशतसहस्रैः परिवृतः पुरस्कृतो येन समुद्ररेणुर्ब्राह्मणस्तेनोपजगामोपेत्य समुद्ररेणोर्ब्राह्मणस्याग्रतः स्थित्वैतदवोचत् - "किं ब्राह्मण मत्तो ह्याकाङ्क्षसे?" ब्राह्मणः प्राह - "को भवान्?" वैश्रावणः प्राह - "श्रुतं त्वया ब्राह्मणास्ति वैश्रवणो नाम यक्षाधिपतिः / सो अहं; ब्राह्मण किम् आज्ञापयसि किं करवाणि?" / ब्राह्मणः प्राह / "शृणु यक्षाधिपते ऽहं भगवत्पूजां करिष्ये, त्वमत्रौत्सुक्यमापद्यस्व" / स प्राह - "तथास्तु यथा त्वं ब्राह्मणाकाङ्क्षसे" / "तेन हि त्वं महाराज याक्षान् अस्माकं वचनेनानुत्तरायां सम्यक्संबोधौ समादापय / एवं च पुनः समादापय, सचेद्यूयं यक्षा अनुत्तरायां सम्यक्संबोधावर्थिका गच्छत, यूयं पारात् समुद्रस्य गोशीर्षं उरगसारचन्दनमानयन्तु, अपरे भगवतो ऽर्थे गन्धमपरे विविधां पुष्पान्, येनाहं दिवसेदिवसे भगवतः पूजां करिष्यामि" / "एवमस्तु ब्राह्मण", वैश्रवणो महाराजा तस्य ब्राह्मणस्य प्रतिश्रुत्य तत्रैवान्तर्हितः भेरीमाहत्य यक्षराक्षसां सन्निपात्यैतदवोचत् (क्प्सू 85) - "यत् खलु मार्षा जानीयुः, अयं जम्बुद्वीपे समुद्ररेणुर्नाम ब्राह्मणो राज्ञो ऽरणेमिनो ऽग्रपुरोहितः, तं रत्नगर्भं तथागतमर्हन्तं सम्यक्संबुद्धं सार्धं भिक्षुसङ्घेन सप्तवर्षाणि सर्वोपकरणैरुपस्थास्यति / तद्युष्माभिस्तत् कुशलमनुमोदितव्यं, तेन च यूयं कुशलमूलेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयता" / तेन खलु पुनः समयेन बहुयक्षराक्षसकोटीनयुतशतसहस्राणि अञ्जलिं कृत्वोचुः /
"यः समुद्ररेणोर्ब्राह्मणस्य पुण्याभिस्यन्दः कुशलाभिष्यन्दो रत्नगर्भं तथागतमर्हन्तं सम्यक्संबुद्धं सप्तवर्षाणि सर्वोपकरणैरुपतिष्ठति सार्धमपरिमितेन भिक्षुसङ्घेन, तत्सर्वं वयं पुण्यस्कन्धमनुमोदामस्तेन च कुशलमूलेनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येमहि" / वैश्रवणो महाराजः प्राह - "शृण्वन्तु भवन्तः, यः कश्चिद् युष्माकं कुशलमूलेनार्थिकः पुण्यार्थी स सप्तवर्षान् पारात् समुद्रस्य गोशीर्षोरगसारचन्दनमानयतु, येन समुद्ररेणुर्ब्राह्मणो भगवतो भिक्षुसङ्घस्य चाहारं सज्जीकुर्यात्" / ततो द्वानवतियक्षसहस्राणि एककण्ठेनोदाहृतवन्तः / "वयं मार्षा इमान् सप्तवर्षान् गोशीर्षमुरगसारचन्दनमानयिष्यामो, (क्प्सू 86) येन समुद्ररेणुर्ब्राह्मणो भगवतो ऽर्थायाहारं सज्जीकरिष्यति भिक्षुसङ्घस्य च" / षट्चत्वारिंशद्यक्षसहस्राणि कथयन्ति / "वयं गन्धमानयिष्यामः" / द्वापञ्चाशद्यक्षसहस्राणि कथयन्ति / "वयं विचित्रान् पुष्पान् आनयिष्यामः" / विंशद्यक्षसहस्राणि कथयन्ति / "वयं विविधरसायनानामोजां गृह्नीमो भगवतो ऽर्थाय भिक्षुसङ्घस्य च, यदन्नपानसज्जीकृतं भविष्यति तत्रौजां प्रक्षेप्स्यामः" / सप्ततिर्यक्षसहस्राणि कथयन्ति / "वयं मार्षा भगवतो ऽर्थायाहारं सज्जीकरिष्यामो भिक्षुसङ्घस्य च" /
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो विरुढकस्य महाराजस्याकाङ्क्षति दर्शनं / ततो विरूढको महाराजा येन समुद्ररेणुर्ब्राह्मणस्तेनोपजगामोपेत्य यावद् अनेककुम्भाण्डकोटीनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति / एवं विरूपाक्षो धृतराष्ट्रो बहुनागगन्धर्वकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति / अथ खलु द्वितीयिकायाश्चातुर्द्वीपिकाया लोकपाला बुद्धानुभावेनागताः समुद्ररेणोर्ब्राह्मणस्य सकाशत्, तान् अपि ब्राह्मणः समादापयति / ते ऽपि गत्वा स्वकं स्वकं पर्षदमनुत्तरायां (क्प्सू 87) सम्यक्संबोधौ समादापयन्ति, यावत् त्रिसाहस्रमहासाहस्रात् कोटीशतं वैश्रवणानाम् सपर्षत्कानामनुत्तरायां सम्यक्संबोधौ समादापयन्ति, कोटीशतं वीरूढकानाम् कोटिशतं विरूपाक्षाणां कोटिशतं धृतराष्ट्राणां सपार्षद्यानामनुत्तरायां सम्यक्संबोधौ समादापयन्ति /
अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतद् अभवत् / "यद्यहमनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयं आशा च समृध्येत यदि च मे प्रणिधिः समृध्येत, विरूढकानां तदहं कारयेयं कारं, अस्मिन् महायज्ञे तत् सत्त्वानां संविभजेयं, अनुत्तरायां सम्यक्संबोधौ समादापयेयं / सचेदहमनेन पुण्येनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयञ्छक्रो ममाद्य देवानामिन्द्रो दर्शनायोपसंक्रामतु, सुयमो देवपुत्रः संतुषितो देवपुत्रः सुनिर्मितो देवपुत्रः परनिर्मितवशवर्ती च देवपुत्रः दर्शनायोपसंक्रामतु" / सहचित्तोत्पादादेव कुलपुत्र समुद्ररेणोर्ब्राह्मणस्य शक्रो देवानामिन्द्रो दर्शनायोपसंक्रान्तः, सुयामश्च (क्प्सू 88) देवपुत्रः संतुषितश्च देवपुत्रः सुनिर्मितश्च देवपुत्रः परनिर्मितवशवर्ती च देवपुत्रः तं ब्राह्मणं दर्शनायोपसंक्रान्तः / तां समुद्ररेणुर्ब्राह्मणः पृच्छति / "के भदन्तः?" पञ्चदेवराजानः स्वकस्वका नामगोत्राण्यनुश्रावयन्ति / एवं चाहुः / "किं भोः ब्राह्मणास्माकमाज्ञापयसि? / कान्यस्माभिरस्मिन् महायज्ञे उपकरणान्युपस्थापयितव्यानि?" ब्राह्मणः प्राह / "यानि युष्माकं देवलोके सर्वविशिष्टानि रत्नमयानि कूटागाराणि रत्नवृक्षा वा कल्पवृक्षा वा गन्धवृक्षा वा पुष्पवृक्षा वा फलवृक्षा दिव्यानि चीवराणि दिव्यासनानि दिव्यानि प्रज्ञपनानि दिव्यानि रत्नभाजनानि दिव्यान्यलङ्कारच्छत्रध्वजपताकाभरणानि दिव्यानि च वाद्यानि तैर्वस्तुभिः सर्वजम्बूद्वीपमलङ्कुरुत भगवतो ऽर्थाय भिक्षुसङ्घस्य च" /
"एवम् अस्तु मार्षास्ते" पञ्चदेवराजानो ब्राह्मणस्य प्रतिश्रुत्य ब्राह्मणस्यान्तिकात् प्राकान्ता देवलोकं गता गत्वा वेटकं देवपुत्रमावेटुकं देवपुत्रं रोहिणं देवपुत्रं कोरभनन्दं देवपुत्रमामन्त्रयित्वैवमाहुः / " गच्छत यूयं मार्षा जम्बूद्वीपमवतीर्य जम्बूवनं उद्यानमेवंविधेनालङ्कारविशेषेनैवंविधैरासनैः संस्ततैरलङ्कुरुत यथैवायं (क्प्सू 89) देवलोको ऽलङ्कृतः / एवंविधमेव भगवतो ऽर्थाय रत्नमयं कूटागारं कारयत यादृशो ऽयं रत्ननिर्यूहः कूटागार ईदृशं मार्षा कूटागारं कारयत" / ते पञ्चदेवपुत्रा देवराज्ञः प्रतिश्रुत्य जम्बूद्वीपमवतीर्य एकरात्र्या सर्वं जम्बूवनमुद्यानमेवंरूपेणालङ्कारेण रत्नवृक्षैर्यावद्ध्वजैरलङ्कृतं / एवंरूपः कूटागारो भगवतो ऽर्थाय कृतस्तद्यथा शक्रस्य देवानामिन्द्रस्य रत्ननिर्यूहः कूटागारः सर्वाकारपरिनिष्ठितं कृत्स्नं च जम्बूवनं दिव्येनालङ्कारेणालङ्कृत्य देवराजानां संक्रम्यारोचयन्ति / "यत् खलु मार्षा जानीयुर्यथैवायं देवलोकः स्वभ्यलङ्कृतः तथैव जम्बूवनोद्यानं दिव्यैरलङ्कारविशेषैः स्वलङ्कृतं सर्वाकारपरिनिष्ठितं, एवंरूपश्च सर्वरत्नमयः कूटागारो भगवतो ऽर्थाय कृतः तद्यथा शक्रस्य देवानामिन्द्रस्य रत्ननिर्यूहः कूटागारः / न हि मार्षा देवलोकस्य जम्बुद्वीपे च जम्बूवनस्योद्यानस्य किंचिदप्यस्ति नानाकरणं" / अथ ते पञ्चदेवराजानः शक्रसुयामसंतुषिताः सुनिर्मितपरनिर्मितवशवर्ती जम्बूद्वीपमवतीर्य समुद्ररेणुं ब्राह्मणमुपसंक्रम्यैवमाहुः / "अलङ्कृतं ब्राह्मण भगवतो ऽर्थाय भिक्षुसङ्घस्य (क्प्सू 90) च जम्बूवनं / किमस्माभिर्भूयः करणीयं?" /
एवमुक्ते समुद्ररेणुर्ब्राह्मणः पञ्चदेवपुतानेतदवोचत् - "यूयं खलु पञ्चदेवराजानः पृथग्देवनिकाये राज्यं कारयत तत्र युष्माकं वशो वर्तते, गच्छत राजानः स्वकस्वकां देवपर्षदां, सन्निपातयत जम्बूद्वीपे, भगवन्तं दर्शनायोपसंक्रामत वन्दनाय पर्युपासनाय भिक्सुसङ्घं च, भगवतश्चान्तिकाद्धर्मं शृण्वत" / अथ ते पञ्चदेवराजानः स्वकस्वकेषु स्थानान्तरेषु गत्वा शक्रो देवानामिन्द्रो देवांस्त्रयस्त्रिंशान् सन्निपात्यैवमाहुः - "युत् खलु मार्षा जानीयुर्जम्बुद्वीपे ऽरणेमिनो राज्ञः समुद्ररेणुर्नाम ब्राह्मणः अग्रपुरोहितः, स रत्नगर्भं तथागतं सप्तवर्षाणि सर्वोपकरणैरुपनिमन्त्र्य प्रतिमानयति सार्धमपरिमितेन भिक्षुसङ्घेन / अस्माभिश्च भगवतो ऽर्थाय भिक्षुसङ्घस्य च सर्व आरामो ऽलङ्कृतः, तद्यूयं कुशलमूलमनुमोद्यानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयत समुद्ररेणोर्ब्राह्मणस्य समादापनया" / तेन खलु पुनः समयेन बहवस्त्रयस्त्रिंशद्देवकोटीनयुतशतसहस्रा अञ्जलिं प्रगृह्य वाचमुदीरयन्ति / "अनुमोदामो मार्षा एवं पुण्यस्कन्धं तया चानुमोदनया (क्प्सू 91) यत्पुण्यमस्माकं स्यात्तत्सर्वं अनुत्तरायां सम्यक्संबोधौ परिणामयामः" / सुयामो देवपुत्रो यामान् देवान् सन्निपात्य विस्तरेण पेयालं तुषितनिर्माणरतिदेवपुत्रः परनिर्मितो देवपुत्रः परनिर्मितवशवर्तिनो देवान् सन्निपात्य यावद् बहूनि देवपुत्रकोटीनयुतशतसहस्राण्यञ्जलिं प्रगृह्य वाचं भाषन्ते स्म / "अनुमोदामो वयं मार्षा यत् कुशलमूलं तस्माच्च कुशलमूलत्यत्पुण्यं तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामयामः /
तेन हि मार्षा गच्छामो जम्बुद्वीपमवतरामः भगवतो दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च भिक्षुसङ्घं च" / ते पञ्चदेवराजानो रात्रावेकैको देवराज्ञः स्त्रीपुरुषदारकदारिकाभिर्बहुप्राणकोटीनयुतशतसहस्रैः सार्धं जम्बुद्वीपमवतीर्य भगवतः पादौ शिरसाभिवन्द्य भिक्षुसङ्घं च भगवतो ऽन्तिकाद् धर्मं शृण्वन्ति / देवा गगनतलस्था भगवन्तं दिव्यैः कुसुमोत्पलपद्मकुमुदपुण्डरीकसुमनावार्षिकातिमुक्तकचम्पकमान्दारवमहामान्दारवपुष्पवृष्ट्यावकिरन्ति, दिव्यानि च वाद्यानि प्रवादयन्ति /
पुनरपरं कुलपुत्र समुद्ररेणोर्ब्राह्मणस्य एवं चेतसि चेतःपरिवितर्क उदपादि / "यदि ममानुत्तरायां (क्प्सू 92) सम्यक्संबोधौ आशा परिपूर्यते, तदयं मम प्रणिधिः संपद्यते यदिदमसुरां बोधौ समादापयेयं" / सहचित्तोत्पादेन कुलपुत्र पञ्चासुरेन्द्रो येनासौ ब्राह्मणस्तेनोपसंक्रान्ता, उपसंक्रम्य यावद्बह्वसुरकोटीनयुतशतसहस्राणि ब्राह्मणस्य वचनेन सस्त्रीपुरुषदारकदारिका अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति, भगवतश्च सकाशमुपगम्य धर्मं शृण्वन्ति, विस्तरेण पेयालं / एवं स ब्राह्मणो मारमाकाङ्क्षते / तेन खलु पुनः समयेन पूर्णो नाम मार आगत्य यावदनेकैर्मारकोटीनयुतशतसहस्रैर्मारकायिकैर्देवपुत्रसिः सस्त्रीपुरुषदारकदारिकैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि यावदुपसंक्रान्ता धर्मश्रवणाय /
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः केतपुरिं नाम महाब्रह्माणमाकाङ्क्षते उपसंक्रमणाय / यावद्ब्राह्मणस्य सकाशात् प्रतिश्रुत्य ब्रह्मलोकात्, यावद् बहुप्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति, ततश्चावतरन्ति भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घस्य च, भगवतश्चान्तिकाद्धर्माश्रवणाय / (क्प्सू 93) अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो द्वितीयायां चातुर्द्वीपिकायां शक्रमाकाङ्क्षते सुयामं संतुषितं सुनिर्मितं परनिर्मितवशवर्तिनं च देवपुत्रमाकाङ्क्षते दर्शनाय / ते ऽपि पञ्चदेवराजानो भगवतो ऽनुभावेन ब्राह्मणस्य सकाशमुपसंक्रान्तस्तान् ब्राह्मणः समनुशिष्टवान् / ते ऽपि स्वकानि भवनानि गत्वा स्वकां पर्षदं ब्राह्मणहस्तेन समादापयन्ति / एवं बहुभिस्त्रयस्त्रिंशद्देवनियुतशतसहस्रैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि सस्त्रीपुरुषदारकदारिकैस्ते च सहशक्रेणेमां चातुर्द्वीपिकामागता भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, भगवतश्चान्तिकाद्धर्मं श्रोतुं / एवं सुयामः संतुषितः सुनिर्मितः परनिर्मितवशवर्ती देवपुत्रः यावत् परनिर्मितवशवर्तिकान् देवान् बोधाय समादापयित्वा बहुभिः परनिर्मितवशवर्तिदेवकोटीनियुतशतसहस्रैः सस्त्रीपुरुषदारकदारिकैरनुत्तरायां सम्यक्संबोधौ कृतचित्तोत्पादैश्चातुर्द्वीपिकामागता भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, भगवतश्चान्तिकाद्धर्मं श्रोतुं /
एवं द्वितीयायां चातुर्द्वीपिकायां असुरेन्द्रा मारा ब्रह्माणः, (क्प्सू 94) एवं तृतीयायां चातुर्द्वीपिकायां चतुर्थ्यां पञ्चम्यां शक्रसुयामसंतुषितनिर्माणपरनिर्मितासुरेन्द्र मारा ब्रह्माणः बुद्धानुभावेनेमां चातुर्द्वीपिकां आगताः सपरिषट्का यावन् ते धर्मश्रवणाय / एवं यावत्त्रिसाहस्रमहासाहस्राद्बुद्धक्षेत्रात् कोटीशतं शक्राणां कोटिशतं सुयामानां कोटीशतं संतुषितानां कोटीशतं निर्माणरतीनां कोटीशतं परनिर्मितवशवर्तीनां देवपुत्राणां, कोटीशतमसुरेन्द्राणां कोटीशतं माराणां कोटीशतं महाब्रह्मणां एकैको महाब्रह्मानेकैः कोटीनियुतशतसहस्रैर्ब्रह्मकायिकानां देवानामनुत्तरायां सम्यक्संबोधौ कृतचित्तोत्पादानां परिवृतः पुरस्कृतो भगवदनुभावेनेमां चातुर्द्वीपिकामागतो भगवतो दर्शनायोपसंक्रमणाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च भगवतश्चान्तिकाद्धर्मं श्रोतुं / तदा च त्रिसाहस्रमहासाहस्रयां लोकधातौ नास्ति स काश्चित् पृथिवीप्रदेशो यो न स्फुटो ऽभूत् //
अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतदभवत् / "यदि ममानुत्तरायां सम्यक्संबोधावाशापरिपूरिर्भवति तद्यथैवं कोटीशतं वैश्रवणानां यावत् कोटीशतं महाब्रह्मणां मामनुवर्तन्ति तथैवं (क्प्सू 95) मे भगवान् अनुवर्तते / यदेवंरूपं महाप्रातिहार्यं कुर्यात् यावत्त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्याः तिर्याञ्चो यामलोकिका नैरयिकास्तेषां सर्वेषां दुःखावेदना प्रशाम्येत सुखावेदनोत्पद्येत, तेषां चैकैककस्याग्रतो बुद्धनिर्मितं तिष्ठेत् यस्तां सत्त्वान् अनुत्तरायां सम्यक्संबोधौ समादापयेत्" / अथ खलु कुलपुत्र रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धः समुद्ररेणोर्ब्राह्मणस्य चेतसा चित्तमाज्ञाय तस्यां वेलायां प्रतापं नाम समाधिं समापन्नः / यथा समाहितेन चित्तेन भगवान् प्रतापे समाधौ भगवतः कायादैकैकस्माद् रोमकूपाद् गणनासमतिक्रान्ता रश्मय उद्गतास्तैश्च रश्मिभिरयं त्रिसाहस्रमहासाहस्रो लोकधातुः स्फुटो ऽभुत् / स तत्र केचिद् रश्मयो नरकं गत्वा शीतनरकोपपन्नानां सत्त्वानामुष्णा वायवो वान्ति, ये उष्णनरकोपपन्नाः सत्त्वास्तेषां शीतला वायवो वान्ति येन तेषां नैरयिकानां सत्त्वानां सर्वं क्षुत्तर्षश्रमदुःखं प्रशाम्यति सुखावेदनोत्पद्यते / एकैकस्य च नैरयिकस्य निर्मितो बुद्धविग्रहो ऽग्रतस्तिष्ठति द्वात्रिंशद्भिर्महापुरुषलक्षणैरलङ्कृतगात्रः अशीतिभिरनुव्यञ्जनैः समलङ्कृतशरीरः / अथ तेषां नैरयिकानां सुखसमर्पितानामेतदभूत् / (क्प्सू 96) "किं प्रत्ययमस्माकं दुःखप्रशान्तं सुखं च प्रादुर्भूतं?" / ते तं भगवन्तं पश्यन्ति द्वात्रिंशद्भिर्महापुरुषलक्षणैरलङ्कृतं अशीत्यनुव्यञ्जनविराजितगात्रं /
ते तं दृष्ट्वैवमाहुः / "अस्य महाकारुणिकस्य महात्मनो ऽनुभावेन वयमेवं सुखिनः संवृत्ताः" / ते प्रीतिसौमनस्यजातः प्रसन्नमनसो भगवन्तं प्रेक्षन्ते / तेषां भगवानाह - "साधु यूयं सत्त्वा नमो बुद्धायेति वाचं भाषतां, अनुत्तरायां च सम्यक्संबोधौ चित्तमुत्पादयत / एवं युष्माकं दुःखावेदना न भूय उत्पद्यते, नित्यं च सुखाया वेदनाया लाभिनो भविष्यथ" / त एवं आहुः / "नमो बुद्धायोत्पादयामो वयमनुत्तरायां सम्यक्संबोधौ चित्तं, तच्चास्माकं कुशलमूलं कर्मावरणाक्षयाय संवर्ततु" / ततश्च केचित् च्युत्वा मनुष्याणां सभागतायामुपपद्यन्ते / ये नैरयिकाः सत्त्वा अग्निना दह्यन्ते तेषां ते रश्मयः शीतलान् वायून् प्रमुञ्चन्ति, ते तैः स्पृष्टाः प्रशान्तक्षुत्तर्षाश्चादुःखा भवन्ति, यावत् केचित् ततश्च्यावित्वा मनुष्याणां सभागतायां उपपद्यन्ते / एवं तिर्यग्योनिर्वक्तव्या एवं यावन् मनुष्या वक्तव्याः / सा च प्रभा प्रतिनिवृत्या भगवन्तं त्रिष्कृत्वः (क्प्सू 97) प्रदक्षिणीकृत्वा भगवत उष्णीषे ऽन्तर्हिता, दृष्ट्वा च गणनातिक्रान्ता देवमनुष्या यक्षराक्षसनागासुरा अवैवर्तिकाः स्थापिता अनुत्तरायां सम्यक्संबोधौ, गणनातिक्रान्तश्च सत्त्वाः समाधिक्षान्तिधारणी प्रतिलब्धवन्तः / यैर्जम्बूद्वीपकैर्मनुष्यैः श्रुतमञ्जुरे नगरे राजधान्यां जम्बूवनोद्यानं भगवतो ऽर्थाय भिक्षुसङ्घस्य च देवैर्दिव्यैरलङ्कारविभूषणैरलङ्कृतं / "यन्नूनं वयं गत्वा पश्येमः, तत्र च रत्नगर्भं तथागतं पश्येम भिक्षुसङ्घं च / तत्र गत्वा भगवतः सकाशाद् धर्मं शृणुयामः" /
तेन खलु पुनः समयेन दिवसेदिवसे ऽनेकानि देवमनुष्येभ्यः स्त्रीपुरुषदारकदारिकाकोटीनियुतशतसहस्राणि मञ्जुरकं नगरमागच्छन्ति भगवतो दर्शनायोपसंक्रमणाय पर्युपासनाय भिक्षुसङ्घं च, तं चोद्यानां दिदृक्षवः / तस्य चोद्यानस्य विंशद्द्वारसहस्राणि सप्तरत्नमयान्यभूवन् / एकैकस्मिन्नुद्यानद्वारे पञ्चपञ्चशतानि रत्नपीठानां प्रज्ञप्तानि, तेषु च पञ्चपञ्चमाणवकशतान्युपविष्टानि, ये ते सत्त्वा गतास्तमुद्यानं प्रविशन्ति तांस्ते माणवका बुद्धसारणं गमयन्ति धर्मशरणं गमयन्ति सङ्घशरणं गमयन्ति, अनुत्तरायां (क्प्सू 98) सम्यक्संबोधौ समादापयन्ति चित्तं चोत्पादयन्ति, आसनस्था ये दूरस्थायिनः पश्चात्तमुद्यानं प्रविशन्ति भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घस्य च दर्शनाय /
एवं समुद्ररेणुमा ब्राह्मणेनाग्रपुरोहितेन तानि सप्तवर्षाणि गणनातिक्रान्ता देवा अनुत्तरायां सम्यक्संबोधौ समादापिता विनीता निवेषिताः प्रतिष्ठापिता, गणनातिक्रान्ता नागाः असुरा यक्षराक्षसाः कुम्भाण्डा गन्धर्वाः प्रेताः पिशाचा नैरयिका गणनातिक्रान्ताः अनुत्तरायां सम्यक्संबोधौ समादापिता विनीता निवेशिताः प्रतिष्ठापिताः, यावत् तिर्यग्योनिगता इति / स तेषां सप्तानां वर्षाणामत्ययेन समुद्ररेणुर्ब्राह्मणश्चतुरशीतिश्चक्रसहस्राणि स्थापयित्वा दिव्यं चक्ररत्नं, चतुरशीतिहस्तिसहस्राणि सप्तरत्नालङ्कारविभूषितानि स्थापयित्वा हस्तिरत्नं, यावच्चतुरशीतिरथसहस्राणि निर्यातयति / तेषां सप्तानां वर्षाणां अत्ययेन राज्ञो ऽरणेमिनः न रागच्छन्द उत्पद्यते, न द्वेषच्छन्दः न मोहच्छन्दः न राजच्छन्दः न धनच्छन्दः न (क्प्सू 99) पुत्रच्छन्दः न देवीच्छन्दः नाहारच्छन्दः न पानच्छन्दः न वस्त्रच्छन्दः न गन्धच्छन्दः न यानच्छन्दः न निद्रच्छन्दः नात्मच्छन्दः, न परच्छन्दं कृतवान् / सप्तवर्षाणि न पार्श्वं निक्षिप्तवान् / न चास्य रात्रिसंज्ञा उत्पन्ना, न दिवससंज्ञा उत्पन्ना, न रूपसंज्ञां न शब्दसंज्ञां न रससंज्ञां न गन्धसंज्ञां न स्पर्शासंज्ञां उत्पादितवान् / तैश्च सप्तभिर्वर्षैः कायश्रमो नोत्पन्नः, नित्यं सततसमितं दशसु दिक्षु एकैकस्यां दिशि सहस्रं बुद्धक्षेत्रं परमाणुरजःसमेषु लोकधातुषु बुद्धक्षेत्रगुणव्यूहां पश्यति / न च सुमेरुश्चक्षुषो ऽवभासमागच्छति, नान्ये पर्वताः न चक्रवाडमहाचक्रवाडाः न लोकान्तरिका न चन्द्रादित्यौ न दिव्यानि विमानानि चक्षुषो ऽवभासं आगच्छन्ति /
यथा तां बुद्धक्षेत्रं परिशुद्धां पश्यति, तथैव परिशुद्धबुद्धक्षेत्रगुणव्यूहान् पश्यन् प्रणिधानं चिन्तयति / यथारणेमी राजा ईदृशेन सुखगुणविहारेण सप्तवर्षाणि विहरति, ईदृशान् बुद्धक्षेत्रगुणव्युहान् पश्यति, परिशुद्धबुद्धक्षेत्रगुणव्यूहं प्रणिधानं (क्प्सू 100) चिन्तयन्निषण्णः, एवमनिमिषो ज्येष्ठो राजपुत्रः, निमुः, इन्द्रगणः, एवं तद्राज्ञः सर्वं पुत्रसहस्तं च चतुरशीतिकोट्टराजसहस्राणि अपराणि च द्वानवतिप्राणकोट्यः सर्वाण्येवमेव सप्तवर्षाणि एकाकिनो रहोगताः प्रतिसंलीनाः, दशसु दिक्ष्वैकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमान् लोकधातून् पश्यन्ति / न च तेषां सप्तानां वर्षाणां अन्तरेण रागच्छन्द उत्पन्नो न द्वेषच्छन्दो न मोहच्छन्दः, यावत् न तेषां श्रमस्थानमुत्पन्नमभूत् / सततसमितं च दशसु दिक्ष्वैकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमान् बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति / न च तेषां सुमेरुश्चक्षुसो ऽवभासमागच्छति, न चान्ये पर्वता यावन्न दिव्यानि विमानानि चक्षुषो ऽवभासमागच्छन्ति / यथैव ते बुद्धक्षेत्रगुणव्यूहाः दृष्टाः तथैव परिशुद्धबुद्धक्षेत्रगुणव्यूहप्रणिधानं चिन्तयन्ति / सर्व एवमीदृशेन गुणविहारेण सप्तवर्षान् विहरन्ति / केचित् परिशुद्धबुद्धक्षेत्रगुणव्यूहां चिन्तयन्ति, केचिद् अपरिशुद्धबुद्धक्षेत्रगुणव्यूहं चिन्तयन्ति //
अथ खलु समुद्ररेणुर्ब्राह्मणस्तानि सप्तवर्षाणि निर्गतानि निष्ठितानि विदित्वा सप्तरत्नं निर्यातयति / (क्प्सू 101) येन रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धः तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - "मया भदन्त भगवन् राजारणेमी अनुतरायां सम्यक्संबोधौ समादापितः, स गृहं गत्वैकाकी रहोगतः प्रतिसंलीनो निषण्णः, न चात्र कस्यचिन् मनुष्यस्य प्रवेशो दीयते / एवं तत्सहस्रं राजपुत्राणां अनुत्तरायां सम्यक्संबोधौ समादापितं / एवमेव प्रतिप्रति स्वगृहाणि गत्वा एकाकिनः प्रतिसंलयननिषण्णं, न चात्र कस्यचित् प्रवेशो दीयते / एवं यावच्चतुरशीतिः कोट्टराजसहस्राणि एवमपरे द्वानवतिः प्राणकोट्यो ऽनुत्तरायां सम्यक्संबोधौ समादापिताः निवेशिताः प्रतिष्ठापिताः, सर्वे स्वकस्वकानि गृहाणि गत्वा ह्येकाकिनो रहसि गता निषद्य प्रतिसंलीना, न चात्र कस्यचित् प्रवेशो दीयते / भगवांश्चैनां समन्वाहरतु यावद् राजारणेमी तस्मात् प्रतिसंलयनाद् व्युत्थायेहागच्छेत्; ते ऽपि सर्व इहगच्छेयुः ये मया सर्वे बोधौ समादापिताः अचलां च बुद्धिमनुगृह्णेयुरनुत्तरायां सम्यक्संबोधौ, भगवतश्चान्तिकाद्व्याकरणं प्राप्नुयुर्गोत्रं च नाम च बुद्धक्षेत्रं च प्रतिगृह्णीयुः" /
अथ खलु कुलपुत्र रत्नगर्भस्तथागतो ऽर्हन् (क्प्सू 102) सम्यक्संबुद्धो निर्हारपतिं नाम समाधिं समापन्नः / यथा समापन्नस्य मुखान्नीलपीतलोहितावदातमञ्जिष्ठास्फटिकवर्णा अर्चिषो निश्चरन्ति / यां निशृत्य तेषां प्रतिसंलीनानां विहरतामग्रतो ब्रह्मनिर्मितः स्थित एवमाह / "उत्तिष्ठत मार्षा भगवन्तं दर्शनायोपसंक्रमत वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, परिसमाप्ता मार्षा समुद्ररेणोर्ब्राह्मणस्य सप्तवार्षिको यज्ञः / भगवान् पुनरन्येन चर्यां प्रक्रमिष्यति" / ततस्ते सर्वे रश्मिभिः संचोदिताः, उत्थाय राजानमरणेमिनं चोदयन्ति / स तैः संचोदितो व्युत्थितः प्रस्थितश्च, प्रस्थितस्य च तस्य राज्ञो देवता गगनतले भेरीमृदंगपटहादीन् वाद्यानि प्रवादयन्ति /
अथ खलु राजारणेमी रथाभिरूढः तेन पुत्रसहस्रेण चतुरशीतिभिश्च कोट्टराजसहस्रैर्द्वानवतिभिश्च प्राणकोटिभिः परिवृतो नगरान्निर्याति भगवतो ऽन्तिकं भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय / स यावद् यानस्य भूमिस्तावद्यानेन यात्वा यानाद् अवतरति, यानाद् अवतीर्य पद्भ्यामेव जम्बूवनं प्रविवेश, (क्प्सू 103) प्रविश्य च येन भगवांस्तेनोपजगाम, उपेत्य भगवतः पादौ शीरसाभिवन्द्य भिक्षुसङ्घस्य चैकान्ते न्यषीदत् सार्धम् अनेकैः प्राणकोटिभिः / अथ समुद्ररेणुर्ब्राह्मणो राजानमरणेमिनं प्राह - "अनुमोदतु महाराजेमं यच्च त्वया मास्त्रयं भगवतः उपस्थानं कृतं सर्वोपकरणैः अपरिमितस्य भिक्षुसङ्घस्य च नानाविचित्राणि च रत्नानि निर्यातितानि चतुरशीतिश्च नगरसहस्राणि, तदेवानुमोदनासहगतं पुण्यस्कन्धं यच्च परित्यागसहगतं पुण्यस्कन्धं सर्वं परिणामयानुत्तरायां सम्यक्संबोधौ" / एवं तद् राज्ञः पुत्रसहस्रं समादापयति तथैव चतुरशीतिः कोट्टराजसहस्राणि अपराश्च बहुप्राणकोट्यः, तेनानुमोदनासहगतेन पुण्यस्कन्धेनानुत्तरायां सम्यक्संबोधौ समादापिताः प्रतिष्ठापिताः / एवं चाह - "अनुमोदत यूयमिह दक्षिणां निर्यातयत" / कथयति च /
"दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं / काङ्क्षामि द्रुतवायुवेगचपलां न त्वेव राज्यश्रियं //
दानस्यास्य फलं तु भक्तिमहतो यन् मे ह तेनाप्नुयां / चित्तैश्वर्यकरिं हि बोधिमतुलां सत्त्वांश्च सन्तारये" // इति श्रीकरुणापुण्डरीके दानविसर्गस्तृतीयः // 3 // इव् बोधिसत्त्वव्याकरणपरिवर्तश्चतुर्थः
अथ खलु कुलपुत्र रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतद् अभवत् / "बह्यो ऽनेन समुद्ररेणुना ब्राह्मणेन प्राणकोट्यो ऽनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिता अवैवर्तिकभूमौ स्थापितास्ते च मया व्याकर्तव्या बुद्धक्षेत्राश्च दर्शयितव्याः" / अथ खलु भगवान् बोधिचित्तासंप्रमोषं नाम समाधिं समापन्नः / स्मितं च प्राविष्कृतवान्, येन स्मिताविष्करणेनानन्ता पर्यन्ता बुद्धक्षेत्रा उदरेणावभासेनावभास्य राज्ञो ऽरणेमिनो ऽन्येषां च बहूनां प्राणकोटिनां बुद्धक्षेत्रगुणव्यूहं आदर्शयति / तेन खलु पुनः समयेन दशसु दिक्षु गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वाः तमवभासं दृष्ट्वा बुद्धानुभावेनेमां लोकधातुं समागता भगवतो दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च / ते च विविधैर्बोधिसत्त्वविकुर्वितैर्भगवतः पूजां कृत्वा पादौ शिरसाभिवन्द्य भगवन्तं पर्युपास्य पुरतो निषण्णा बोधिसत्त्वप्रणिधानं श्रोतुकामाः /
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो ऽग्रपुरोहितः राजानमरणेमिनमाह - "त्वं तावन् महाराज प्रथमं बुद्धक्षेत्रगुणव्यूहं प्रतिगृह्णीष्व" / अथ राजानणेमी येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - "अहं भगवन् बोध्यर्थिकः, यन्मया मासत्रयं भगवतो नानाविधैरुपकरणैरुपस्थानं कृतमप्रमेयस्य च भिक्षुसङ्घस्य तन्मया कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामितं / इमानि च भगवन् मया सप्तवर्षाणि बुद्धक्षेत्रगुणव्यूहाश्चिन्तिता; यत्राहं भगवन् बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यत्र न निरया स्युर्न तिर्यग्योनिर्न यमलोकाः / ये च सत्त्वाश्च्यवयुस्ते मा दुर्गतावुपपद्येयुः / सर्वे तत्र सत्त्वाः सुवर्ण्वर्णा भवेयुः / सर्वेषां तत्र देवमनुष्याणां नानात्वं न स्यात् / सर्वे तत्र सत्त्वा जातिस्मराः / सर्वसत्त्वाश्चैवंरूपेण दिव्येन चक्षुषा समन्वागताः स्युर्यद् बुद्धकोटीनियुतशतसहस्राणि अन्येषु लोकधातुषु तिष्ठतो यापयतो धर्मं च देशयतः पश्येयुः / सर्वसत्त्वाश्चैवंरुपेण दिव्येन श्रोत्रेण समन्वागताः स्युः, यद् बुद्धकोटीनियुतशतसहस्राणां धर्मं देशयमानं (क्प्सू 107) शृणुयुः / सर्वसत्त्वाश्चैवंरूपेण परचित्तज्ञानेन समन्वागताः स्युः, तेषां बहुबुद्धक्षेत्रकोटीनयुतशतसहस्रस्थितानां सत्त्वानां चित्तचरितान्याजानेयुः / सर्वसत्त्वाः तथाविधेनर्द्धिकौशल्येन समन्वागताः स्युर्यदेकचित्तोत्पादेन बुद्धक्षेत्रकोटीनियुतशतसहस्राणि अतिक्रमेयुः / मा च तत्र सत्त्वा भवेयुः परिग्रहवन्तो ऽन्ततः स्वशरीरे ऽप्यनागृहीतमानसाः / सर्वसत्त्वाश्चावैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ /
सर्वसत्त्वाश्चोपपादुकाः स्युः / न तत्र मातृग्रामस्य प्रज्ञप्तिर्भवेत् / न तत्र सत्त्वानां आयुः प्रमाणपर्यन्तः स्याद्, अन्यत्र प्रणिधानवशेन / न तत्र सत्त्वानामकुशलस्य नामापि स्यात् / न तत्र बुद्धक्षेत्रे दुर्गन्धं स्यात्, दिव्यातिक्रान्तेन भगवद्गन्धेन तद्बुद्धक्षेत्रं स्फुटं स्यात् / सर्वसत्त्वाश्च द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृताः स्युः / सर्वसत्त्वाश्चैकजातिप्रतिबद्धाः स्युः, स्थापयित्वा प्रणिधानं / सर्वसत्त्वास्तत्रैकपूर्वाह्णेन बुद्धानुभावेन गणनातिक्रान्तान् बुद्धान् पर्युपासीरन्, यावद् विविधेन बोधिसत्त्वविकुर्वितेनाकाङ्क्षेयुः बुद्धानां पूजां कर्तुं तथैव तेषां सिद्ध्येयुः, तेनैव पूर्वभक्तेन विवर्तेयुः / (क्प्सू 108) सर्वसत्त्वाश्च बुद्धपिटकं कथयेयुः / सर्वसत्त्वाश्च नारायणबलसमन्वागता भवेयुः / न कश्चित् सत्त्वो बुद्धक्षेत्रगुणालङ्कारस्य वर्णपर्यन्तं शक्तः स्याद्गृहीतुमन्तशो दिव्येनापि चक्षुषा / सर्वसत्त्वास्तत्र प्रतिसंवित्प्राप्ताः स्युः, असंख्येयप्रतिभानाः / एकैकस्य च बोधिसत्त्वस्य योजनसहस्रप्रमाणं स्यात् / प्रभास्वरं च तद्बुद्धक्षेत्रं स्यात्, समन्तेन च गणनातिक्रान्ता बुद्धक्षेत्रगुणव्युहास्तत्र दृश्येयुः / ये चात्र सत्त्वा उपपद्येयुर्यावद्बोधिपर्यन्तेन ब्रह्मचारिणः स्युः / सर्वसत्त्वाः सदेवकस्य लोकस्य नमस्यनीयाः स्युः, यावद् बोधिपर्यन्तेन नेन्द्रियविकला भवेयुः / सहोपपन्नाश्च तत्र सत्त्वा दिव्यातिक्रान्तमार्यप्रीतिसुखं प्रतिलभेयुः / सर्वसत्त्वाश्च तत्र कुशलमूलसमवधानाः स्युः / सर्वसत्त्वाश्च तत्र नवानि वस्त्राणि काशायाणि धारयेयुः /
सहोपपन्नाश्च तत्र सत्त्वाः सुविभक्तिवतीं समाधिं प्रतिलभेयुः, यस्य समाधेः प्रतिलाभाद्गणनातिक्रान्तेषु बुद्धक्षेत्रेषु गत्वा बुद्धान् पर्युपसीरन् यावद् बोधिपर्यन्तेनानुपश्येयुः / ये च तत्र बोधिसत्त्वा उपपद्येयुः ते यादृग्जातीयां बुद्धक्षेत्रगुणव्यूहान् आकाङ्क्षेयुः तादृग्जातीयान् बुद्धक्षेत्रगुणव्यूहाः (क्प्सू 109) तेषु रत्नवृक्षेषु पश्येयुः / सहोपपन्नाश्च सत्त्वाः समाधिं प्रतिलभेयुर्यस्य समाधेः प्रतिलाभात् दशसु दिक्षु गणनातिक्रान्तेषु अन्येषु बुद्धक्षेत्रेषु बुद्धास्तिष्ठतो यापयतो नित्यं पश्येयुर्ये तत्र सत्त्वाः प्रत्याजायेयुः ते सर्व एवंरूपेण चीवरविमानालङ्काराभरणवर्णरूपेण स्युर्यथा परनिर्मितवशवर्तिनो देवाः / न तत्र बुद्धक्षेत्रे पांशुशिला कालपर्वता भवेयुः, न चक्रवाडमहाचक्रवाडा न सुमेरुर्न महासमुद्राः; न तत्रावरेणनिवरणक्लेशशब्दाः सर्वेण सर्वं सर्वतश्च; तत्र नरकतिर्यग्योनियमलोकशब्दो न स्यान्नाक्षणशब्दो न दुःखशब्दः /
एवंरूपेणाहं भगवन् बुद्धक्षेत्रेणार्थी; तावदहं भदन्त भगवन् बोधिसत्त्वदुष्करचर्यां चरिष्ये यावन्नैवंरूपैर्गुणैर्बुद्धक्षेत्रं परिशोधयिष्ये; एवमहं भदन्त भगवन् पुरुषकारं करिष्ये, ततः पश्चादनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये / दशयोजनसाहस्रिकश्च मे बोधिवृक्षो भवेत्, तत्र निषण्णश्चाहमेकक्षणेनचित्तोत्पादेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येय / अप्रमाणा च मे प्रभा स्यात् बुद्धक्षेत्रकोटीनयुतशतसहस्राणाम् (क्प्सू 110) अवभासयन्ति / अपरिमाणा च ममायुर्भवेदप्रमेयकल्पकोटीनयुतशतसहस्राणां न शक्यं केनचिद् गणयितुमन्यत्र सार्वज्ञेन ज्ञानेन / अप्रमेयश्च मे बोधिसत्त्वसङ्घः स्यात् श्रावकप्रत्येकबुद्धवर्जितो, यन्न शक्यं गणयितुं अन्यत्र सार्वज्ञेन ज्ञानेन / बोधिप्राप्तस्य च ममाप्रमेयेष्वसंख्येयेषु अन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तो वर्णभाषणं कुर्युर्घोषं चानुश्रावयेयुर्यश उदीरयेयुः / बोधिप्राप्तस्य च ममाप्रमेयेष्वसंख्येयेष्वन्येषु बुद्धक्षेत्रेषु ये सत्त्वा नामधेयं शृणुयुस्ते सर्वे बुद्धक्षेत्रे कुशलमूलपरिणामनं कृत्वा मम बुद्धक्षेत्र उपपद्येयुः, स्थापयित्वानन्तर्यकारकान् सत्त्वान् सद्धर्मप्रतिक्षेपकान् / बोधिप्राप्तस्य मे ऽन्यासु गणनातिक्रान्तासु लोकधातुषु सत्त्वा बोधिचित्तोत्पादं कुर्युः, मम बुद्धक्षेत्र उपपत्तिमाकाङ्क्षमाणाः, तत्र च कुशलमूलपरिणामनं कुर्युः; तेषां चाहं मरणकालसमयेष्वग्रतस्तिष्ठेय बोधिसत्त्वगणपरिवृतः; ते च मां दृष्ट्वा प्रीतिं प्रसादं च ममान्तिक उत्पादयेयुः, सर्वावरणतां (क्प्सू 111) च निवर्तयेयुः, कालं च कृत्वास्माकं बुद्धक्षेत्र उपपद्येयुः /
ये च तत्र बोधिसत्त्वास्ते ऽस्माकं सकाशादश्रुतपूर्वां धर्मदेशनामाकाङ्क्षेयुः श्रोतुं ते यादृशीमाकाङ्क्षेयुस्तादृशीं शृणुयुः / बोधिप्राप्तस्य च मम गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा नामधेयं शृणुयुः ते ऽवैवर्तिकाः स्युरनुत्तरायां सम्यक्संबोधौ, प्रथमां क्षान्तिं प्रतिलभेयुः तथा द्वितीयां, यादृशीं समाधिं धारणीं चाकाङ्क्षेयुः तादृशीं समाधिं धारणीं च प्रतिलभेयुः / परिनिर्वृतस्य च मम गणनातिक्रान्तेषु कल्पेषु पश्चाद् गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा मम नामधेयं श्रुत्वा परमां प्रीतिं प्रसादं प्रामोद्यं च प्राप्नुयुर्मामेव नमस्यमाना आश्चर्यप्राप्ता यशकीर्तिं च वर्णयेयुः; बोधिसत्त्वभूतेन च यदा मया बुद्धकार्यं अभिनिष्पादितं ततः पश्चादनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयं, अभिसंबुद्धस्य च मम परमप्रसादप्रतिलब्धा बोधिसत्त्वाः प्रथमायाः क्षान्त्या लाभिनः स्युर्द्वितीयायाः तृतीयायाः, यादृशीं च समाधिं धारणीं आकाङ्क्षेयुस्तादृशीं प्रतिलभेयुः, यावद्बोधिपर्यन्तेनानुपश्येयुः / बोधिप्राप्तस्य च मे गणनातिक्रान्तेषु बुद्धक्षेत्रेषु याः स्त्रियो मम नामधेयं (क्प्सू 112) शृणुयुस्ताः परमप्रीतिप्रामोद्यं प्रतिलभेयुः, अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेयुः, यावद्बोधिपर्यन्तेन न भूयः स्त्रीत्वं प्रतिलभेयुः / परिनिर्वृतस्य च मे गणनातिक्रान्तेषु कल्पेषु गणनातिक्रान्ता याः स्त्रियो मम नामधेयं शृणुयुः ताः परमप्रीतिप्रामोद्यं प्रसादं च प्राप्नुयुः, अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेयुः, यावद्बोधिपर्यन्तेन न भूयः स्त्रीत्वं प्रतिलभेयुः /
ईदृशमहं भदन्त भगवन् बुद्धक्षेत्रमाकाङ्क्षामि, ईदृशाश्च परिशुद्धाशयाः सत्त्वा, ईदृशो ऽहं भगवन् बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं" /
अथ खलु कुलपुत्र रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धो राज्ञो ऽरणेमिनः साधुकारमदात् / "साधु साधु महाराज, गम्भीरस्ते महाराज प्रणिधानं परिशुद्धं ते बुद्धक्षेत्रं परिगृहीतं / पश्य महाराज पश्चिमायां दिशि कोटीशतसहस्रबुद्धक्षेत्राणां अतिक्रम्य इन्द्रसुविराजिता नाम लोकधातुः, तत्रेन्द्रघोषेश्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति परिशुद्धानां सत्त्वानां धर्मं देशयति / न च तत्र बुद्धक्षेत्रे श्रावकप्रत्येकबुद्धानां (क्प्सू 113) प्रज्ञप्तिरप्यस्ति, उत्पादाय न तत्र श्रावकप्रत्येकबुद्धकथा क्रियते, शुद्धा च तत्र महायानकथा / सर्व एवोपपादुकाः सत्त्वा, न च तत्र मातृग्रामस्य नामापि ज्ञायते / सर्व एते गुणास्तत्र बुद्धक्षेत्रे यथा महाराजेनापरिमितं बुद्धक्षेत्रगुणव्यूहप्रणिधानम् कृतममिताशयाः सत्त्वा वैनेयाः परिगृहीतास्तेन त्वं महाराज इन्द्रघोषेश्वरराजतथागतस्य परिनिर्वृतस्य तस्मिन् सद्धर्मे ऽन्तर्हिते षष्टीनामन्तरकल्पानामत्ययेन सा लोकधातुर्मेरुप्रभा नाम भविष्यति / तत्राचिन्त्यमतिगुणराजो नाम तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धो / यथैवेन्द्रघोषेश्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य इन्द्रसुविराजितायां लोकधातौ बुद्धक्षेत्रगुणव्यूहः तथैवाचिन्त्यमतिगुणराजस्य तथागतस्य मेरुप्रभायां लोकधातौ गुणव्यूहो भविष्यति / तस्य चाचिन्त्यमतिगुणराजस्य तथागतस्य षष्ट्यन्तरकल्पाण्यायुःप्रमाणं भविष्यति /
यदाचिन्त्यमतिगुणराजस्तथागतः परिनिर्वास्यति तस्य षोडशान्तरकल्पाः सद्धर्मः स्थास्यति, तस्य सद्धर्मे ऽन्तर्हिते सहस्रान्तरकल्पात्ययेन विरतिर्नाम सा लोकधातुर्भविष्यति / (क्प्सू 114) तत्र रश्मिर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धः, पेयालं पूर्ववत्, समाश्चैषामायुः समा लोकधातुः / एवं परिनिर्वृतानां सद्धर्मे ऽन्तर्हिते अपरा नाम सा लोकधातुर्भविष्यति / तर रत्नेश्वरघोषो नाम तथागतो ऽर्हन् सम्यक्संबुद्ध उत्पत्स्यते / समो बुद्धक्षेत्रगुणव्यूहः समं चान्तरकल्पा स्थास्यति यापयिष्यति धर्मं च देशयिष्यति / तस्य परिनिर्वृतस्य सप्तान्तरकल्पां सद्धर्मः स्थास्यति, तस्मिंश्च सद्धर्मे ऽन्तर्हिते, पेयालं पूर्ववत् / एवं चाप्रमेयापरिमाणान् तथागतांस्तत्र बुद्धक्षेत्र उपपन्नान् पश्यामि परिनिर्वृतांश्च, नैवासौ लोकधातुस्संवर्तते न निवर्तते / तत्रानागते ऽध्वनि अतिक्रान्त एकस्मिन् गङ्गावालिकासमे ऽसंख्येये प्रतिष्ठे द्वितीये नदीगङ्गावालिकासमे ऽसंख्येये सा लोकधातुः सुखावती नाम भविष्यति / तत्र त्वं महाराजनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, अमितायुर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो भविष्यसि" /
राजारणेम्याह - "कुत्र ते भदन्त भगवन् बोधिसत्त्वा महासत्त्वा ये ऽस्माकं प्रथमतरं तत्र बुद्धक्षेत्रे (क्प्सू 115) ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते?" / भगवान् आह - "इमे ते महाराज बोधिसत्त्वा महासत्त्वा ये ऽप्रमेयैरसंख्येयैरतुल्यैरपरिमाणैर्दशभ्यो दिग्भ्यः ताभ्यस्ताभ्यो लोकधातुभ्य आगता मं वन्दनाय पर्युपासनाय धर्मश्रवणाय, ये मम पुरतो निषण्णा एते ऽतीतैर्बुद्धैर्व्याकृता अनुत्तरायां सम्यक्संबोधौ, प्रत्युत्पन्नैरपि बुद्धैर्भगवद्भिरेते कुलपुत्रा व्याकृता अनुत्तरायां सम्यक्संबोधौ / ये तत्र बुद्धक्षेत्रे प्रथमतरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, एकैकश्चैष महाराज बोधिसत्त्वो ऽनेकेषां बुद्धकोटीनयुतशतसहस्राणां अन्तिके कृताधिकारो ऽवरुप्तकुशलमूलो भावितप्रज्ञः, त एते महाराज कुलपुत्रा ये तत्र प्रथमतरं बुद्धक्षेत्रे बुद्धा भविष्यन्ति" / राजारणेम्याह - "अयं भदन्त भगवन् समुद्ररेणुर्ब्राह्मणो येनाहं सपरिषत्को ऽनुत्तरायां सम्यक्संबोधौ समादापिताः स कियता कालेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते?" / भगवान् आह - "महाकारुणिक एष ब्राह्मणः समुद्ररेणुः, श्रोष्यसि त्वं यथैष सिंहनादं नदिष्यति" /
राजा आह - "यद्येष मे प्रणिधिः समृध्यति यथाहं (क्प्सू 116) भगवता व्याकृताः, तद्यथाहं भगवतः पादवन्दनं कुर्यां पञ्चमण्डलेन तदा गङ्गानदीवालिकासमा लोकधातवः प्रकम्पन्तु प्रचलन्तु / ये च तेषु बुद्धक्षेत्रेषु बुद्धाः तिष्ठन्ति ध्रियन्ति यापयन्ति ते च मां व्याकुर्युः" /
अथ खलु कुलपुत्र राजारणेमी रत्नगर्भस्य तथागतस्य पञ्चमण्डलकेन पादयोर्निपतितः / यदैव राज्ञः शिरसा पृथिवी स्पृष्टा तदा गङ्गानदीवालिकासमा बुद्धक्षेत्राः कम्पिताः चलिताः प्रचलिताः क्षुभिताः संप्रक्षुभिताः, गाङ्गानदीवालिकासमा बुद्धा व्याकुर्वन्ति / "सन्तीरणे बुद्धक्षेत्रे धारणे कल्पे ऽशीतिवर्षसहस्रायुष्कायां प्रजायां रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धो राजानमरणेमिनं व्याकरोति / भविष्यसि त्वमनागते ऽध्वनि अतिक्रान्ते गङ्गानदीवालिकासमे ऽसंख्येये प्रविष्टे द्वितीये ऽसंख्येये सुखावत्यां लोकधातावमितशुद्धायां अमितायुर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धः, समन्ततो दशसु दिक्षु गङ्गानदीवालिकासमान् लोकधातून् अवभासयिष्यसि" /
भगवान् आह -
"उत्तिष्ठ प्रवरसत्त्वा विधिज्ञ व्याकृतस्त्वं दशबलैः / गङ्गाप्रख्या वेलितवसुमतीसशैला भविष्यसि नरवरदम्यसारथिः" //
अथ खलु कुलपुत्र राजारणेमी तुष्ट उदग्रः प्रमुदिताः प्रीतिसौमनस्यजातः, अतिक्रम्य नातिदूरे एकान्ते निषण्णो धर्मश्रवणाय //
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो राज्ञो ऽरणेमिनो ज्येष्ठपुत्रमनिमिषं नाम राजकुमारमामन्त्रयति स्म /
अनिमिषो ऽवोचत् / पेयालं पूर्ववत्, "अवलोकिता मयापाया ये च तत्र सत्त्वा उपपन्नाः प्रचण्डघोरं दुःखं अनुभवन्ति / अवलोकिता मया स्वर्गा ये च तत्र सत्त्वा उपपन्नाः संक्लिष्टचित्ताः पुनरप्यपायेषु प्रपतन्ति / सर्वसत्त्वाश्च मयावलोकिता अकल्याणमित्रसंसृष्टा विहरन्ति, धर्मदुर्भिक्षान्धकारे कुशलमूलपरिक्षीणा (क्प्सू 118) दृष्टिग्राहग्रस्ताः कुमार्गैर्विहन्यते / स्वरेणाहं भगवन् तान् सत्त्वान् विज्ञपयामि, सर्वं च कुशलं परिणामयामि अनुत्तरायां सम्यक्संबोधौ / यद् अहं बोधिसत्त्वचर्यां चरेयं ये केचनसत्त्वा दुःखोत्पीडा भयतर्जिता धर्मदुर्भिक्षान्धकारे प्रविष्टा लीना दीना अत्राणा अशरणा अपरायणा मामनुस्मरेयुः, नाम च परिकीर्तयेयुः / यद्यहं दिव्येन श्रोत्रेण शृणुयां दिव्येन चक्षुषा पश्येयं, न च तां सत्त्वान् व्यसनेभ्यः परिमोचयेयं, नाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / यदाहं भदन्त भगवन् सत्त्वहेतोश्चिरप्रणिधानविशेषेण चिरं बोधिसत्त्वचर्यां चरिष्यामि तदा मे आशापरिपूरिर्भवतु / यदाहं भदन्त भगवन् महाराजारणेमी अतिक्रान्ते एकस्मिन् गङ्गानदीवालिकासमे ऽसंख्येये प्रतिष्ठे द्वितीये सुखावत्यां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, अमितायुर्नाम भविष्यति तथागतो ऽर्हन् सम्यक्संबुद्धः, परिशुद्धे बुद्धक्षेत्रे परिशुद्धानां सत्त्वानां बुद्धकार्यं करिष्यति, यावत्यामितायुस्तथागतः अपरिमाणान् कल्पान् बुद्धकार्यं कृत्वा परिनिष्ठितबुद्धकार्यो ऽनुपधिशेषनिर्वाणधातौ प्रवेक्ष्यते, तस्य प्रविष्टस्य यावत् सद्धर्मः स्थास्यति (क्प्सू 119) तावच्चिरमहं बोधिसत्त्वचर्यां चरिष्यामि, बोधिसत्त्वभूतो ऽहं बुद्धकार्यं करिष्यामि / यदामितायुषस्तथागतस्य सम्यक्संबुद्धस्य रात्र्याः प्रथमे यामे सद्धर्मो ऽन्तर्धास्यति तस्यामेव रात्र्यां पश्चिमे यामे ऽहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / व्याकरोतु मां भगवान् अनुत्तरायां सम्यक्संबोधौ / एवमेवाहं दशसु दिक्षु गङ्गानदीवालिकासमासु लोकधातुषु ये बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति तान् अपि बुद्धान् भगवतः स्वरेण विज्ञपयामि व्याकुर्वन्तु मां ते बुद्धा भगवन्तो ऽनुत्तरायां सम्यक्संबोधौ" /
व्याकृतः कुलपुत्र रत्नगर्भेण तथागतेनानिमिषो राजपुत्रः / एवं चाह - "यत्त्वया कुलपुत्रावलोकिता अपायाः अवलोकिताः स्वर्गा अवलोकितं सर्वसत्त्वानां दुःखं संजनितं कारुण्यचित्तं सत्त्वानां दुःखमोचनार्थं क्लेशप्रशमनार्थं, तस्मात्त्वं कुलपुत्रावलोकितेश्वरो नाम भविष्यसि / त्वमवलोकितेश्वर बहूनां सत्त्वकोटीनयुतशतसहस्राणां दुःखमोचकः / बोधिसत्त्वभूतस्त्वं कुलपुत्र बुद्धकार्यं करिष्यसि / परिनिवृते चामिताभे तथागते ऽवशिष्टे द्वितीये गङ्गानदीवालिकासमे ऽसंख्येये, यस्यामेव रात्र्यां प्रथमे (क्प्सू 120) यामे सद्धर्मो ऽन्तर्धास्यति तस्यामेव रात्र्यां पश्चिमे यामे त्वं कुलपुत्रानेकव्यूहे बोधिवृक्षमूले वज्रासने निषण्णः अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, समन्तरश्म्यभ्युद्गतश्रीकूटराजो नाम भविष्यसि तथागतो ऽर्हन् सम्यक्संबुद्धः / षण्णवतिकल्पकोटीनियुतशतसहस्राणि तवायुर्भविष्यति / परिनिर्वृतस्य ते त्रिषष्टिकल्पकोट्यः सद्धर्मः स्थास्यति" /
अवलोकितेश्वर आह - "यदि भगवन् निमा ममाशा परिपूर्यते तद्यदाहं भगवतः पादाभिवन्दनं करोमि तदा ये बुद्धा भगवन्तो दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति ते व्याकुर्वन्तु मां, चलतु च धरणी सर्वगङ्गानदीवालिकासमासु दशसु दिक्षु लोकधातुषु, सर्वपर्वतपाषाणशिखरवृक्षेभ्यः पञ्चाङ्गिकानां तूर्याणां शब्दो निश्चरतु, सर्वसत्त्वाश्च विरागचित्तं प्रतिलभन्तु" / यदा चावलोकितेश्वरेण बोधिसत्त्वेन रत्नगर्भस्तथागतः पञ्चमण्डलकेन वन्दितस्तदा गङ्गानदीवालिकासमेषु (क्प्सू 121) बुद्धक्षेत्रेषु धरणी प्रचलिता, ते च बुद्धा भगवन्तो व्याकुर्वन्ति पेयालं पूर्ववत्, सर्वपर्वतपाषाणशिखरेभ्यः पञ्चाङ्गिकस्य तूर्यस्य शब्दो निश्चरति, सर्वसत्त्वाश्च विरागचित्तेन स्थिताः /
भगवान् आह -
"उत्तिष्ठ कारुण्यपुण्यसु हृष्टमानसो व्याकृतस्त्वं दशदिशि वरदेहधारी / प्रकम्पिता धरणीसक्षेत्र षड्विकारो भविष्यसि जिनाग्रपुगलो महर्षी" //
अथ खलु समुद्ररेणुर्ब्राह्मणो ऽग्रपुरोहितो द्वितीयं राजपुत्रं निमिर्नामामन्त्रयामास / "एवं चानुमोद त्वं कुलपुत्रेमं महापरित्यागं, यच्च त्वया शुभमुपार्जितं तत्सर्वं सत्त्वहेतोः सर्वज्ञतायां परिणामय, उत्पादय चित्तमनुत्तरायां सम्यक्संबोधौ" /
अथ निमी राजकुमारो भगवतः पुरस्तान्निषद्येदमवोचत् - "यत् मया भगवान् उपस्थितः सर्वोपकरणैः सार्धमपरिमितेन भिक्षुसङ्घेन, यश्चानुमोदनोद्गतः (क्प्सू 122) पुण्यस्कन्धः, यच्च कायवाङ्मनः सुचरितं पुण्यं परिणामयामि अनुत्तरायां सम्यक्संबोधौ / न केवलमस्मिन् क्लिष्टे बुद्धक्षेत्रे बोधिमहं स्पृशेयं; यत्रावलोकितेश्वरः कुमारः सर्वरत्नसन्निचयायां लोकधातावनेकरत्नव्यूहे बोधिवृक्षे निषण्णो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते समन्तरश्म्यभुद्गतश्रीकूटराजो नाम तथागतो भविष्यति, तमहं अध्येषयेयं धर्मदेशनायां यावच्चासौ तथागतो धर्मं देशयेत् तावदहं बोधिसत्त्वचर्यां चरेयं, तस्य तथागतस्यास्तंगतस्य सद्धर्मे ऽन्तर्हिते तस्यानन्तरेणाहं सम्यक्संबोधिमभिसंबुध्येयं / एवंरूपं मे बुद्धक्षेत्रं भवेद्गुणव्यूहेन, एवमेवाहं बुद्धकार्यं कुर्यां, एवमेव परिनिर्वापयेयं, एवमेव परिनिर्वृतस्य सद्धर्मश्चिरं तिष्ठेत्, सर्व एव गुणव्यूहः यथा समन्तरश्म्यभ्युद्गतश्रीकूटराजस्य तथागतस्य" /
भगवान् आह - "महास्थामन्ते कुलपुत्र प्रार्थितं / प्राप्स्यसि त्वं कुलपुत्रैवंरूपं स्थानं यथा स्वयं परिगृहीतं / प्राप्स्यसि त्वं कुलपुत्र तस्मिन् बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिं / सुप्रतिष्ठितगुणमणिकूटराजो नाम तथागतो भविष्यसि / यथा स्थामन्ते (क्प्सू 123) कुलपुत्र महास्थानं परिगृहीतं, तेन त्वं कुलपुत्र महास्थामप्राप्तो भवस्व" /
स प्राह - "यदि मे भगवन्नेषाशा परिपूर्यते, तद्यदाहं भगवतः पञ्चमण्डलकेन कायेन पादौ वन्दामि तदा मे दशसु दिक्षु गङ्गानदीवालिकासमा बुद्धा भगवन्तो व्याकुर्वन्तु, सुमनावर्षश्च प्रवर्षतु" / यदा कुलपुत्र महास्थामप्राप्तेन सत्पुरुषेण रत्नगर्भस्य पञ्चमण्डलकेन पादाभिवन्दनं कृतं तदा गङ्गानदीवालिकासमेषु दशसु दिक्षु गङ्गानदीवालिकासमैर्बुद्धैर्भगवद्भिर्व्याकृतः, षड्विकारं च महापृथिवी प्रचलिता, सुमनावृष्टिश्च प्रपतिता /
भगवान् आह - "उत्तिष्ठ दृढस्थामवेगपुण्य व्याकृत दशदिशि लोकनाथैः / चलिता महापृथिवी वृष्टिर्वृष्टा सुमना वर्षैर्भविष्यसि त्वं सुरनरब्रह्मभूतः" //
अथ समुद्ररेणुर्ब्राह्मणस्तृतीयं राजपुत्रमिन्द्रगणं नाममन्त्रयति स्म / पेयालं पूर्ववत्, प्रतिगृह्याञ्जलिं रत्नगर्भं तथागतमेतदवोचत् - "यन्मया भगवान् सर्वोपकरणैरुपस्थितः सार्धं भिक्षुसङ्घेन, यच्च मे कायवाङ्मनः सुचरितं, इदं चानुमोदनासहगतं पुण्यस्कन्धं, एतत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामयामि / न तु क्लिष्टे बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, न चातिक्षिप्रं प्राप्नुयां / न यावच्चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तावद्बोधिचर्यां चरन्, दशसु दिक्ष्वनन्तापर्यन्तेषु अन्येषु लोकधातुषु बुद्धान् भगवतः पश्येयं / ये मया प्रथमं बोधाय समादापिता येषां मया तत्प्रथमं बोधिचित्तमुत्पादितं बोधिचित्ते प्रतिष्ठापिताः, पारमितासु च ये मया समादापिता निवेशिता प्रतिष्ठापिता बोधिचर्यां चरता, तान् अहं दिव्येन चक्षुषा गङ्गानदीवालिकासमे बुद्धक्षेत्रे परमाणुरजःसमेषु बुद्धक्षेत्रेषु बुद्धान् भगवतो धर्मन् देशयतः पश्येयं, ये मया बोधाय समादापिताः / एवमहं बोधिसत्त्वचर्यां चरन् बुद्धकार्यं कुर्यां, तावदहं बोधिसत्त्वचर्यां चरेयं सत्त्वानामाशयपरिशोधयमानः यावन्तः केचित् सत्त्वा (क्प्सू 125) मम बुद्धक्षेत्र उपपद्येरन् त एवंविधाः स्युः तद्यथा ब्रह्मकायिका देवाः; तथा च बुद्धक्षेत्रगुणव्यूहं परिशोधयेयं यथा गङ्गानदीवालिकासमं त्रिसाहस्रमहासाहस्रं एकं बुद्धक्षेत्रं स्यात् /
तस्य च बुद्धक्षेत्रस्य भवाग्रपर्यन्तानि प्राकाराणि अनेकरत्नसंस्थितानि नानारत्नप्रत्युप्तानि च स्युः, सर्वा च तत्र बुद्धक्षेत्रे शुद्धवैडूर्यमयी पृथिवी स्यात्, अपगतरजःपाषाणशर्करापगतकलुषसंस्पर्शा धरणी स्यात् / न तत्र मातृग्रामस्यनाम प्रज्ञप्तिः स्यात्, सर्वसत्त्वाश्चोपपादुकाः स्युर्न तत्र सत्त्वाः कवदीकाराहाराः स्युः, सर्वे च तत्र सत्त्वा प्रीत्याहारा धर्माहाराः स्युः / न तत्र बुद्धक्षेत्रे श्रावकप्रत्येकबुद्धानां प्रज्ञप्तिः स्यात्, शुद्धानां बोधिसत्त्वानामपगतखिलमलद्वेषम्रक्षाणां शुद्धानां ब्रह्मचारिणां बुद्धक्षेत्रं परिशुद्धं स्यात् / सर्वे तत्र बोधिसत्त्वा मुण्डाः काषायवस्त्रधारिणः प्रादुर्भवेयुः, समनन्तरप्रादुर्भूतानां महावभासं भवेत्, तेषां दक्षिणे हस्ते रत्नपात्री नानारसपूर्णा प्रादुर्भवेत्; समनन्तरप्रादुर्भूतानां एवंरूपां स्मृतिं प्रतिलभेयुर्नास्माकं प्रतिरूपं ये वयं कवडीकाराहारमाहरेम, (क्प्सू 126) यन्नूनं वयमन्यासु लोकधातुषु गत्वा बुद्धान् भगवतस्तिष्ठतो यापयतो ऽनेनाहारेण प्रतिमानयामो बुद्धश्रावकांश्च दुःखितं च जनं प्रतिमानयामः, प्रेतभवनेषु च गत्वा क्षुत्तर्षप्रज्वलितगात्रान् सत्त्वान् अनेनाहारेण प्रतिमानयामः" / सहचित्तोत्पादेन ते बोधिसत्त्वा महासत्त्वा अचिन्त्यचारित्रवतीं नाम समाधिं प्रतिलभेयुः, तस्य च समाधेः प्रतिलाभादसज्जना दशसु दिक्ष्वप्रमेयेष्वन्येषु बुद्धक्षेत्रेषु गच्छेयुः, तिष्ठतो यापयतो बुद्धान् भगवत आहारेण प्रतिमानयेयुः श्रावकांश्चान्यांश्च सत्त्वां, प्रीत्या प्रतिमान्य धर्मदेशनां कृत्वा तेनैव पूर्वभक्तेन स्वबुद्धक्षेत्रं आगच्छेयुः /
एवं चीवररत्नानि, यावत् तेनैव पूर्वभक्तेन स्वकं बुद्धक्षेत्रमागत्यान्योन्यं चीवरेण प्रावरयेयुः / यावन्ति च तत्र बुद्धक्षेत्रे तेषां बोधिसत्त्वानामुपभोगः परिभोगा भवेयुस्तैः सर्वैर्बुद्धैः श्रावकैश्चान्यैश्च सत्त्वैः सहसाधारणं कृत्वा पश्चादात्मना परिभुञ्जेयुः / अष्टाक्षणवर्जितं च बुद्धक्षेत्रं भवेत्, न च तत्र दुःखशब्दो भवेत्, (क्प्सू 127) न शिक्षाग्रहणशब्दः, आपत्तिव्युत्थानशब्दो ऽपि न भवेत् / अनेकरत्नशतसहस्रोपचितं तद्बुद्धक्षेत्रं स्यात्, अनेकरत्नप्रत्युप्तं मणिसन्दर्शनसदृशं भवेत्, यानि मणिरत्नानि दशसु दिक्ष्वदृष्टपूर्वाणि तानि अश्रुतपूर्वाणि तानि मणिरत्नानि प्रचरेयुः, येषां मणिरत्नानां नामधेये निर्दिश्यमाने वर्षकोट्यो ऽपि क्षयं गच्छेयुः / यश्च बोधिसत्त्वः आकाङ्क्षेत स्वर्णमयं एव बुद्धक्षेत्रं पश्येयं तस्य स्वर्णमयं एव तिष्ठेत / यो रूप्यमयमाकाङ्क्षेत स रूप्यमयं पश्येत्, न चास्य सुवर्णमयं परिहायेयं, पेयालं पूर्ववत् / य आकाङ्क्षेत स्फतिकमयं वैडूर्यमयं अश्मगर्भमयं लोहितमुक्तामयं मुसालगल्वमयं एवंविधं तद्बुद्धक्षेत्रं पश्येम, इत्याकाङ्क्षेयुः / अगरुमयं तगरमयं तमालपत्रमयं यो बोधिसत्त्व आकाङ्क्षेदुरगसारचन्दनमयं गोषीर्षचन्दनमयं तद्बुद्धक्षेत्रं द्रष्टुं तस्य तथैव स्यात् / यथा यथा यादृशमाकाङ्क्षेयुः तथा तथा तादृशं स्यात्; न चैको द्वितीयस्य प्रणिधिः स्यात्, सर्वेषां एव प्रणिधिः परिपूर्यते /
न च तत्र बुद्धक्षेत्रे सूर्याचन्द्रमसौ (क्प्सू 128) प्रज्ञायेयातां, स्वयं प्रभाश्च तत्र बोधिसत्त्वाः प्रत्याजायेयुः, अन्यां यादृशीं प्रभामाकाङ्क्षेरन् तादृशीमुत्सृजेयुः, अन्ततो बुद्धक्षेत्रकोटीनयुतशतसहस्रेष्वपि / न च तत्र बुद्धक्षेत्रे रात्रिदिवसानां नामधेयमपि प्रज्ञायते, अन्यत्र कुसुमविकसनतया / न च तत्र बुद्धक्षेत्रे शीतोष्णं प्रज्ञायते न व्याधिर्न ग्लान्यं न जरामरणमन्यत्र यो बोधिसत्त्व आकाङ्क्षेद्बोधिमभिसंबोद्धुं सो ऽन्यत्र लोकधातावुषित्वा आयुः क्षपयित्वा बोधिमभिसंबुध्येत / न तत्र बुद्धक्षेत्रे मरणं भवेयुः, अनुत्तरपरिनिर्वाणेन उपर्यन्तरीक्षे तथागतपरिनिर्वाणं स्यात् / यादृग्जात्रीयांश्च बोधिसत्त्व उपभोगपरिभोगामाकाङ्क्षेरन् तादृग्जातीया अभिनिर्वर्तेयुः / सर्वत्र च बुद्धक्षेत्रे गगनतले तूर्यकोटीनियुतशतसहस्रा वाद्येयुः / न च तेभ्यस्तूर्येभ्यः कामोपसंहिताः शब्दा निश्चरेयुः, अन्यत्र पारमिता शब्दा निश्चरेयुः, बुद्धशब्दो धर्मशब्दः सङ्घशब्दो बोधिसत्त्वपिटकधर्मपर्यायशब्दो निश्चरेत् / यथाधिमुक्ता बोधिसत्त्वास्तादृग्जातीयां शब्दां शृणुयुः / (क्प्सू 129) बोधिसत्त्वचारिकामहं भगवंश्चरमाणो यावन् मयाप्रमेयेष्वसंख्येयेषु बुद्धकोटीनयुतशतसहस्रेषु बुद्धक्षेत्रगुणव्यूहा दृष्टास्ते व्यूहास्ते ऽलङ्कारास्तानि लिङ्गानि तानि निमित्तानि तानि स्थानानि तानि प्रणिधानानि सर्व एव मम बुद्धक्षेत्रे प्रविशेयुः, स्थापयित्वा श्रावकप्रत्येकबुद्धव्यूहां पञ्चकषायिकांश्च बुद्धक्षेत्रगुणव्यूहां /
न च तत्र बुद्धक्षेत्रे नरकतिर्यक्प्रेताः प्रज्ञायेयुर्न सुमेरुर्न चक्रवाडमहाचक्रवाडा न शीलापांशुपर्वताः प्रज्ञायेयुः, न महासमुद्रा; न चान्ये काष्ठवृक्षा भवेयुर्दिव्यातिक्रान्तैर्नानावृक्षैस्तद्बुद्धक्षेत्रमाकीर्णं स्यात्, अन्यत्र दिव्यैः कुसुमैर्मान्दारवमहामान्दारवैर्न च तत्र दुर्गन्धं स्यान्नानागन्धैरुदारोदारैस्तद्बुद्धक्षेत्रं स्फुटं स्यात् / सर्वे तत्रैकजातिप्रतिबद्धा बोधिसत्त्वा उत्पद्येरन्, न तत्रैकसत्त्वः स्याद्यस्ततश्च्यवित्वान्यत्र प्रत्याजायेत, अन्यत्र तुषितेभ्यः ततश्च्युतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत / तावदहं भदन्त भगवन् बोधिसत्त्वचर्यां चरिष्यामि यावन्नैवंविधं महापुरुषकारमभिनिष्पादयिष्यामि / एवंरूपं बुद्धक्षेत्रं स्थापयिष्यामि, एवंरूपैः शुद्धाशयैः सत्त्वैरेकजातिप्रतिबद्धैर्बोधिसत्त्वैः (क्प्सू 130) सार्धं तद्बुद्धक्षेत्रमाकीर्णं प्रतिष्ठापयिष्यामि / न तत्र बोधिसत्त्वः स्याद् यो न मया प्रथमं बोधाय समादापितः स्यात्; सर्वे ते तत्र बोधिसत्त्वाः प्रत्याजायेयुः ये मया प्रथमं बोधाय समादापिताः पारमितासु निवेशिताः; तत्रैवेदं बुद्धक्षेत्रमन्तर्गतं कुर्यां सर्वे चामी दुःखा प्रशमयेयं / बोधिसत्त्वभूतो ऽहं भदन्त भगवन् एवंरूपं पुरुषकारं निष्पादयेयं, ततः पश्चात् तत्र बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / दशचातुर्द्वीपिकसहस्रप्रमाणो मे बोधिवृक्षः परिणाहेन स्यात्, सप्तरत्नविचित्रसन्दर्शनो नाम भवेत् /
दशत्रिसाहस्रः समन्तपरिणाहेन; तस्य च बोधिवृक्षस्य गन्धेनाभया च कृत्सनं बुद्धक्षेत्रं स्फुटं स्यात्; तस्य मूले पञ्चचातुर्द्वीपिकप्रमाणं मे नानारत्नविचित्रं वज्रासनं स्यात्, प्रशमक्षमसुविचित्रज्ञानगन्धसमवसरणं नाम भवेच्चतुरशीतियोजनान्युच्चत्वेन; तस्याहं बोधिवृक्षस्य मूले वज्रासने निषीदेयं, पर्यङ्कमाभुज्य तेनैव मुहूर्तेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येयं यावत् परिनिर्वाणकालं तत्पर्यङ्कं न (क्प्सू 131) भिन्द्यां न मुचेयं न तस्माद् बोधिवृक्षमूलादुत्तिष्ठेयं / बोधिवृक्षमूलस्थ एवाहं वज्रासने निषण्णो ऽहं निर्मितान् बुद्धान् बोधिसत्त्वांश्च गणनातिक्रान्तेष्वन्येषु बुद्धक्षेत्रेषु प्रेषयेयं, एकैको बुद्ध एकपूर्वभक्तेन सत्त्वानां धर्मं देशयेत्, तेनैव पूर्वभक्तेन गणनातिक्रान्तान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ समादापयेयुः प्रतिष्ठापयेयुः अवैवर्तिकां स्थापयेयुः, एवं निर्मिता बोधिसत्त्वा बोधिसत्त्वकार्यं कुर्युः / बोधिप्राप्तस्य मे गणनातिक्रान्तेषु दशसु दिक्ष्वन्यासु लोकधातुषु मम कायो दृष्येत्, येषां च सत्त्वानां मम कायो लक्षणालङ्कृतश्चक्षुरिन्द्रियस्याभासमागच्छेत् सर्वे ते सत्त्वा नियता भवेयुरनुत्तरायां सम्यक्संबोधौ, यावद् बोधिपरिनिर्वाणेन ते सत्त्वा अविरहिता भवेयुर्बुद्धैर्भगवद्भिः /
न तत्रेन्द्रियविकला भवेयुर्ये च तत्र बोधिसत्त्वा मां द्रष्टुं इच्छेयुस्ते येन येनैव गच्छेयुः परिवर्तेयुः चंक्रमेयुर्निषीदेयुः तिष्ठेयुः, सर्वे ते बोधिसत्त्वाः समनन्तरोत्पादितेन बुद्धनमस्कारचित्तेन मां बोधिवृक्षनिषण्णं पश्येयुः, दृष्ट्वा च यस्य धर्मसंशयः स्यात् सो ऽस्य सहदर्शनेन विगच्छेत्तीर्णवचिकित्साः स्यादनुपदिष्टस्य धर्मपदस्यार्थमाजानेयुः / अप्रमाणं मे (क्प्सू 132) आयुर्भवेत् न शक्यते केनचिद् गणयितुं अन्यत्र सार्वज्ञेन ज्ञानेन, अप्रमानाश्च तत्र बोधिसत्त्वा भवेयुः / यस्मिंश्च क्षणे ऽहं तत्र बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तस्मिन् क्षणे तत्र बुद्धक्षेत्रे बोधिसत्त्वा मुण्डाः काषायवस्त्राः संभवेयुः, यावन् मम परिनिर्वाणान्न चात्र बुद्धक्षेत्र एकसत्त्वो ऽपि दीर्घकेशः स्यात् शुक्लप्रावरणो वा, सर्व एव श्रमणवर्णाः स्युः श्रमणप्रतिरूपास्तिष्ठेयुः" /
भगवान् आह - "साधु साधु सत्पुरुष, त्वमपि पण्डितो व्यक्तो मेधावी अतीवशोभनं ते प्रणिधानं कृतं, अतीवगुणवास्त्वमतीवज्ञानवान्; यतस्त्वं कुलपुत्र सर्वसत्त्वानामर्थायैवंरूपां प्रवरां प्रशस्तां मतिं कृतवान् प्रवरो बुद्धक्षेत्रगुणव्यूहः परिगृहीतः, ततस्ते कुलपुत्र मञ्जुश्रीर्नाम भवतु / भविष्यसि त्वं मञ्जुश्रीरनागते ऽध्वनि अतिक्रान्तयोर्द्वयोर्नदीवालिकासमयोरसंख्येययोः प्रविष्टे च तृतीये ऽसंख्येये दक्षिणस्यां दिशि शुद्धविरजःसन्निचयो नाम लोकधातुर्भविष्यति, तत्र च सहालोकधातुरन्तर्गता भविष्यति, अनुप्रविष्टश्च एवंरूपया गुणव्यूहया तद्बुद्धक्षेत्रं प्रादुर्भविष्यति / तत्र त्वं मञ्जुश्रीरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, (क्प्सू 133) समन्तदर्शी नाम तथागतो भविष्यसि अर्हन् सम्यक्संबुद्धः / एवंरूपा च ते बोधिसत्त्वपर्षद्भविष्यति सर्वे चैते प्रणिधानास्त्वयि संपत्स्यन्ते यथा त्वया प्रणिधानं कृतं; बोधिसत्त्वभूतेन ततस्त्वं बहुबुद्धकोटीष्ववरुप्तकुशलमूलो भविष्यसि, आशयपरिशोधकश्च क्लेशप्रमर्दकः, ये च ते मञ्जुश्रीस्सत्त्वा नामं श्रोष्यन्ति तेषां सर्वकर्मावरणक्षयो भविष्यति, कुशलविवर्धकश्च भविष्यसि" /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
