Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
स्फुटार्था श्रीघनाचारसंग्रहटीका
- Tác giả
- जयरक्षित
- Thông tin
- GRETIL — Sanghasena Singh: Sphuṭārthā Śrīghanācārasaṃgrahaṭīkā, 2nd ed., Patna : K.P.Jayaswal Research Institute 1983 (Tibetan Sanskrit Works Series, 24).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स्त्रीपुरुषयोः संयोगार्थं दौत्यं कर्तुं न लभ्यत इति दर्शयितुमाह । विवाहावाहयोरित्यादि । तत्र विवाहो दारिकापरिग्रहः । अन्येन परिभुक्तस्य मातृग्न मस्य संग्रहणमावाहः विवाहश्चावाहश्च विवाहावाहौ । अतस्तयोर्विवाहावाहयोः । विवाहनिमित्तं संग्रहनिमित्तञ्च दौत्यकर्म न कुर्यात् । क इत्याह । श्रामणेरकः । श्रामणेर एव श्रामणेरकः । केचित्तु कुत्सायां कनं विदधति । कुत्सितः श्रामणेरः श्रामणेरक इति । तैः कुत्सार्थो दर्शनीयः- कथं कुत्सितोसौ यतिरिति? दौत्यकर्मकरणादिति चेत्, न प्रतिषेधो ऽयं वर्तते- न कुर्यादिति । यश्च न कुरुते, स कथं कुत्सामासादयति । तस्मात्स्वार्थ एवायं कनेष्टव्यः । न केवलं विवाहावाहनिमित्तं दौत्यं न कुर्यात्तत्क्षणमैथुनाध्याचारनिमित्तमपि न कुर्वातापिशब्दः सूचयति । दापयेयमित्यादि । तत्र समुत्पन्नकर्मफलसत्यरत्नादिसंप्रत्ययः श्राद्धः । तस्मै श्राद्धायोपासकदारकाय इमां श्राद्धां उपासकदारिकां दापयेयमिति । एवमर्थसंस्यन्दनासूत्रं यतिर्भाषित्तुं न घटते ॥
बीजार्थमित्यादि । गर्भोत्पादनिमित्तं व्रती गवादिकं न दद्यात् । एतानेवाश्वादीन् बीजार्थं परेभ्यः कदाचिदपि न प्रार्थयेत् ॥
तुल्यमेतास्वित्यादि । बहवः स्त्रियो यस्य तं बहुस्त्रीकं पुरुषं यतिः नैवं वदेत्- किमिति एकया स्त्रिया सार्धं मा त्वं तिष्ठ, किन्तु परिपाटया सर्वाः स्त्रियो वसेति ॥
स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां मैथुनविरतिशिक्षापदं तृतीयं ॥
मृषावादविरतिशिक्षापदमधिकृत्याह । प्रत्येकबुद्धेत्यादि । तत्रात्मार्थंमेकं प्रति बुद्ध इति प्रत्येकबुद्धः । सम्यगविपरीतं समन्तात् ज्ञेयं बुद्धा इति संबुद्धाः । तेषां शिष्यास्तच्छिष्याः । तच्छब्देनात्र संबुद्धा एव परिगृह्यन्ते, न प्रत्येकबुद्धा तच्छब्दस्यानन्तराभिधायित्वात् । प्रत्येक बुद्धाश्च संबुद्धाश्च तच्छिष्याश्चेति विग्रहः । तेषां यत् ज्ञानं दर्शनञ्च तत् ममास्ति, मम संविद्यत इति । असंविद्यमानमपि सन्तं यः श्रामणेरो मृषा वक्ति स नाशनीयो ऽश्रामणेरत्वेन धारयितव्य इत्यर्थः । किं पुनरभिमानादपि यो ब्रवीति सो ऽपि नाश्यः? नेत्याह । अन्यत्राभिमानतः । अन्यत्रशब्दो वर्जनार्थे वर्तते । अन्यत्र भीष्मद्रोणाभ्यां सर्वे योधाः पराङ्मुखा इति अन्यत्रशब्दस्य वर्जनार्थे प्रयोगदर्शनात् । अप्राप्ते उत्तरविशेषाधिगमे प्राप्तो मयेति मन्यमानस्य या चित्तस्योन्नतिः सोभिमानः । तस्मादभिमानाद्यो ज्ञानं दर्शनञ्च प्र[ति]जानीते तस्य संवरत्यागो न भवति प्राप्तसंज्ञित्वात् ।
यदुक्तं ज्ञानदर्शनं ममास्तीति ब्रुवन् मिथ्या नाश्य इति तत्र कतरज्ज्ञानं कतमच्च दर्शनमिति न ज्ञायते । अतो ज्ञानदर्शनं तयोर्लक्षणमधिकृत्याह । ज्ञानं सत्याभिसंबोधिरित्यादि । सत्यानि चत्वारि दुःखसमुदयनिरोधमार्गाख्यानि । तत्र दुःखसत्यं पञ्चोपादानस्कन्धाः । समुदयसत्यं पौनर्भविकी तृष्णा । निरोधसत्यं यदस्याः पौनर्भविक्याः तृष्णायाः प्रहाणं । मार्गसत्यं अयमेवार्याष्टाङ्गो मार्गः तद्यथा सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यगाजीवः, सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिश्च । तत्र बोधनं बोधिरवगमः अवबोधः परिज्ञानं बोधिज्ञानार्थत्वात् । अभीत्ययमुपसर्ग आभिमुख्ये (स्श् 53) वर्तते, समीत्यऽविपरीतत्वे । तेनायं वाक्यार्थो जायते- दुःखादीनामार्यसत्यानां निर्वाणाभिमुखा सम्यगविपरीता या बोधिस्तज्ज्ञानमुच्यते । अभिज्ञाः पञ्च दर्शनमिति । अभिज्ञानमभिज्ञाज्ञानमित्यर्थः । तत्र पञ्चाभिज्ञाः । दिव्यं चक्षुर्येनातिदूरसूक्ष्मव्यवहितानि रूपाणि पश्यति करतलावस्थितमिवामलकं, दिव्यं श्रोतो येन दूरासन्नाः शब्दा श्रूयन्ते देवमनुष्याणामन्तशः कुन्तपिपीलिकस्यापि, परचित्तज्ञानं येन परकीयान् चित्तचैत्तान् जानाति- सरागं चित्तं सरागमित्यादि, पूर्वनिवासानुस्मृतिक्षानं येनात्मनः परेषां चाभिनिवृत्तजातिपरंपराः स्मरति- अमुत्राहं एवन्नामा एवंगोत्राक इत्यादि, आस्त्रवक्षयज्ञानं येनात्मनो जानाति- क्षीणा मे जातिरुषितं ब्रह्मचर्यं यावन्नापरमित्थत्वमिति । एताः पंचाभिज्ञा दर्शनभित्युच्यन्ते ॥
उपलक्षणार्थमे[त]ज्ज्ञानदर्शनग्रहणमिति प्रतिपादयन्नाह । धर्मान्वयादिकेत्यादि । धर्मतत्त्वालम्बनं ज्ञानं धर्मज्ञानं येन क्लेशान् प्रजहाति । यत्परसन्तानानुगमं ज्ञानं प्रत्यात्मवेद्यमुत्पद्यते यैरन्यैः क्लेशप्रहाणं कृतं, ये पि सांप्रतं कुर्वन्ति करिष्यन्ति वा तेपीदृशमेव ज्ञानमधिगतवन्तौऽधिगच्छन्ति अधिगमिष्यन्तीत्येतदन्वयज्ञानं । आदिशब्देन संवृतज्ञानादीन् ग्राहयति ।
धर्मज्ञानान्वयज्ञानं सांवृतं प[र]चित्तवित् । साध्यं नैमित्तिकं ज्ञानं प्रणिधाख्यञ्च सप्तमं ॥
इति सप्तानां ज्ञानानां श्लोकः । धर्मज्ञानादीनामङ्गीकरणे अन्यं पूर्वोक्तो न योग्य इति संवरत्यागो भवतीति ॥
आर्यम्लेच्छेत्यादि । आर्यशब्देनात्रार्यदेशजाः पुरुषाः परिगृह्यन्ते न प्रहीणक्लेशाः म्लेच्छशब्देन च शवरादयः । तेषां यद्वचनं तेन लेखेन देशान्तरस्थस्य लिप्या संमुखमेव लिखित्वा । हस्तमुद्रयेति अङ्गुलीविन्यासेन । हस्त्यविकारेणेत्यभिनयेन यः श्रामणेरो ज्ञानदर्शनादिकं प्रतिजानीते, तदपि [ज्ञान]दर्शनादिकं मृषेति बोद्धव्यं । लेखादिष्वपरान् बोधयतः संवरत्यागो न भवति वाक्प्रव्याहाराभावात् ॥
वृक्षमूलेत्यादि ॥ अहमेकाक्यद्वितीयो वृक्षमूले विहरामि शून्ये च मन्दिरे गृहे अहं रमे, मम च यच्चित्तं तदेकाग्रं समाहितमित्येवमादि अतीन्द्रियं वस्तु यतिना न वाच्यं ॥
अतिप्रसङ्गनिवृत्त्यर्थमाह ॥ बुद्धादीनामिति । वर्णोगुणः, स बहुधा तथा गतस्य लोके ख्यापयितव्यः स्वपरार्थसंपादकत्वात् । इत्यपि स भगवान् दशभिर्बलैः समन्वागतश्चतुर्भिः वैशारद्यैः त्रिभिः स्मृत्युपस्थानैः महाकरुणया चेति । आदिग्रहणेन धर्मसंघयोरपि । आत्मनस्तु गुणः केनचिदपि प्रकारेण न वक्तव्यः । कथञ्चनेति कथञ्चिदित्यर्थः । पृष्टस्तु सन् यतिः परकीयं गुणं संविद्यमानं वदेत्तत्रापि तस्य गुणवतः पुद्गलस्य संमुखं न वदेत् ॥
यदाह ब्रूयात्तत्संमुखं न तु [इति] विस्तरेणानधिगतस्वभावमृषावादलक्षणं प्रतिपादयितुमना चार्यानार्यव्यवहारानुपन्यसति । दृष्टमित्यादिना । तत्र दृष्टं यच्चक्षुर्विज्ञानेनानुभूतं श्रुतं यच्छोत्रविज्ञातं, मतं यद्घ्राणजिह्वाकाय विज्ञानैः विज्ञातं यन्मनोविज्ञानेनेत्येके । अपरे पुनराहुः- दृष्टं यत् पञ्चभिरिन्द्रियैः परिच्छिन्नं, श्रुतं यत्परत आगमितं, मतं यत्स्वयमुपपत्तितो ऽवधारितं, विज्ञातं यन्मनसा प्रत्यात्मवेद्येनाकारेण परिच्छन्नं । तस्मिन् दृष्टे दृष्टमिति वदेत् यावद्विज्ञातंमिति । वैपरीत्येन गदन्मिथ्याभिधायक इति । विपरीतस्य भावो वैपरीत्यं तेन अनार्यव्यवहारेणेत्यर्थः । अनार्यव्यवहाराश्च पुनरदृष्टे दृष्टवादिकादयः । गदन्निति वदन् । मिथ्याभिधायक इति मृषावादी स्यादित्यर्थ ॥
कतिभिः पुनरङ्गैः मृषावादी स्यादित्याह । वस्तु चेत्यादि श्लोकः । वस्तु च भवति, अलीकसंज्ञी च भवति, विनिहितं चित्तं भवति, मृषावादसंज्ञो भवति, वाचं च भाषते । एतानि पञ्चाङ्गानि यस्य सन्ति स पञ्चाङ्गः । कः पुनरसावित्याह । अनृतवादिकः । अनृतः वादः यस्यास्तीति [स] अनृतवादिकः मृषावादीति योर्थः । तत्र वस्तु च भवतीति- यथा परिच्छिन्नं तथा तदस्तीत्यर्थतो न तु द्रव्यतोस्तीति, अन्यथा ह्यसंविद्यमानं वस्त्वऽस्तोति ज्ञात्वा नास्तीति ब्रुवतो ऽनापत्तिः स्यात् । अलीकसंज्ञी च भवतीति- यथा परिच्छिन्नादन्यथा कथयामीत्येव संज्ञा इत्यर्थः । चित्तं विनिहितं भवतीति यथा परिच्छिन्नज्ञेयविपरीतद्योतिनीवाक्समुत्थापकं (स्श् 56) चित्तं भवतीत्यर्थः । एवमपि मृषावादसंज्ञी च भवतीति अत्रैवान्तर्गतत्वात् कस्मात पृथगुच्यते । नैतदस्ति । मृषावादसज्ञित्वेन परवञ्चनाभिप्राय उच्यते । तस्मिन्स्तु सतीद यथार्थ परिच्छिन्नज्ञेयविपरीतार्थद्यातिन्या वाचः समुत्थापकं चित्तं पृथगेव कारणत्वेनोच्यत इति नैतस्मिन्नन्तर्भावः । तथा च विनये विनिधाय संज्ञां विनिधाय चितं वाचं भाषत इति मृषावादसंज्ञी च भवतीति परवञ्चनाभिप्राय इत्यर्थः । वितथसंज्ञिनो ऽन्यः को विशेष इति चेत् वितथसंज्ञी हयन्यथार्थं प्रतिपादयति न तु परं वञ्चयति । तथा च मृषावाद इष्यते यथा श्निग्धस्ते मुखवर्ण इत्यादिना । नैतदुक्तं भवति । यो वितथसंज्ञी स नावश्यं मृषावादसंज्ञी, यस्तु मृषावादसंज्ञी सो ऽवश्यं वितथसंज्ञीति येन द्वाभ्यामेवाङ्गाभ्यां मृषावाद इष्यत इति । वदेद्वाचमिति । वाक्प्रव्याहारं करोतीत्यर्थः । एतदुक्तं
भवति । चतुरङ्गवन्ति यानि वचांसि तानि मृषावादव्यपदेशभाञ्जि भवन्तीति । न केवलं पञ्चभिरङ्गैः संप्रजानमृषावादो भवति, किन्तु ह्येकेनापीति दर्शयन्नाह । चतुस्त्रीत्यादि । पूर्वमुक्तानि यान्यङ्गानि ते[भ्यः] वर्जितानि यान्यङ्गानि तैः समन्वागतो यो यतिर्मृषा वक्ति, सो ऽन्यैर्यतिभिर्मृषावादी ज्ञेयः । तत्र चतुर्भिरङ्गैः मृषावादी भवति । अलीकसंज्ञी चेत्यादि । अलीकसज्ञित्वेन वस्तुनः परिग्रहान्न पृथङ्निर्देशः । त्रिभिरङ्गैर्विनिहितं चेत्यादि । अलीकसंज्ञाया विनिहितचित्त एवान्तर्भावात् । द्वाभ्यामेवाङ्गाभ्यां मृषावादसंज्ञी चेत्यादि । विनिहितस्य मृषावाद एवान्तर्भावात् । एकेनाङ्गेन संप्रजानमृषावादो भवति, यदा विनिधाय चित्तं वाचं भाषते । अत्रापि पूर्वकाणामङ्गानां न पृथङ्निर्देशः सामर्थ्यलब्धत्वात् । (स्श् 57) अन्यथा हि संख्यानुपूर्वी विधानार्थमेकेनाङ्गेन मृषावादी भवति, यावत् पञ्चभिरित्युक्तं स्यात् ॥
अभूतेनेत्यादि । यतिः संमुखं यति न चोदयेत् । कीदृशो यतिरित्याह । ध्वंसनच्यावनाकूतः । आकूतो ऽभिप्रायः । तेन ध्वंसनाभिप्रायश्चोदनाभिप्रायः यतिर्यति न चादयेदित्यर्थः । दोषैरभ्याख्यानदानं ध्वंसनं । ब्रह्मचर्यावस्थितस्यावप्रव्राजनं च्यावनं । केन न चोदयेदित्याह । प्राणातिपातादत्तादानमृषावादादिना । अभूतेनेत्यादि । अभूतेनेत्यस्याविद्यमानेन । अनिदानेनेति निष्कारणेनेत्यर्थः अनिदानशब्दस्याकारणपर्यायत्वात् । क्षुद्रेत्यादि । क्षुद्रा लघीयसी सा आपत्तिः दुष्कृतसंज्ञिता सैव निमित्त कारणं चोदनायाः तेन क्षुद्रापत्तिनिमित्तेन । अथवा लेशमात्रेण दुष्कृतमात्रेण अभिप्रायेण । तेनैवेति पूर्वोक्तेन ध्वंसनच्यावनाभिप्रायेणेत्यर्थः । प्रत्यक्षं श्रामणेरो परान्न क्षिपेत्, नास्वाचक्षीतेति यावत् । जातिलिङ्गेत्यादि । जातिरन्वयः कुलमित्येको ऽर्थः । लिङ्गं देहचिह्नं । क्रिया कर्म जीविकोपायो वृत्तिरित्यनर्थान्तरं । वादशब्दः प्रत्येकमभिसंबध्यते । जातिवादश्च लिङ्गवादश्चेत्यादि द्वन्द्वः । तैः प्रत्येकं हीनमध्योत्कृष्टैः व्रती प्राणान् पुद्गलान् जिह्मकरणार्थं निष्प्रतिभानकरणार्थं न जातु कदाचिच्चोदयेत् । उपक्लेशेत्यादि । तत्र उपक्लेशो जडिमत्वादि । गदो व्याधिः । आक्रोशो दुश्चरितैर्गर्हणं । आपत्तिः कायवाङ्मनोभिर्भगवदाज्ञाव्यतिक्रमः । उपक्लेशादिना व्रती व्रतिनमाशयेनाभिप्रायेण पुरोक्तेन जिह्मनिष्प्रतिभानकरणाभिप्रायेण ब्रूयान्नैव कदाचनेति, कदाचिदपि न वदेदित्यर्थः । अत्र च हीनमध्योत्कृष्टभेदो (स्श् 58) नास्ति हीनत्वादेवोपक्लेशादेः । अनेन च श्लोकद्वयेन चोद्यस्य पुद्गलस्य चतुर्विधान्यूनतोक्ता- जातिवादेन कुलन्यूनता, लिङ्गवादेन देहन्यूनता, क्रियावादेन वृत्तिन्यूनता, आपत्त्याक्रोशसंक्लेशैर्गुणन्यूनताभिहिता ।
आपत्त्याक्रोशसंक्लेशैराख्याता गुणहीनता । जातिलिङ्गक्रियावादैः कुलदेहस्वजीविकाः ॥
इति संग्रहश्लोकः ॥
यतेरप्रतिरूपत्वात्प्रकृतिसावद्यत्वाच्च पैशुन्यमाचरितुं न लभ्यत इति दर्शयन्नाह । भेदं यास्यतीत्यादि । अयं पुद्गलो अनेन पुद्गलेन सह भेत्स्यति, मया सह संवास्यतीति एवं मत्वा यतिर्जात्यादिवादेन पैशुन्यं न समाचरेत् ।
तत्र कारिकात्रयेण संवरत्याग उक्तः शेषैस्तु श्लोकैः पञ्चाङ्गानि, यस्माददुष्कृतानि चोदाहृतानि ।
ध्यानादिप्राप्तमसती श्रावयं विज्ञपुद्गलान् । अथवाज्ञानविज्ञप्तेः कथं नोज्झति संवरः ॥
इति प्रहेलिका ॥
स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां मृषावादविरतिशिक्षापदं चतुर्थं ॥
अवसरप्राप्तं सुरामैरेयमद्यपानविरतिशिक्षापदमधिकृत्याह । मद्यमित्यादि । यस्मात् सुरामैरेयमद्यपानं प्रमादस्य कुशलधर्मानवहितताया आस्पदं प्रतिष्ठा, तस्मात्कारणाद्यतिभिस्तत्सुरामैरेयमद्यं परस्मै न देयं न चात्मना पातव्यं । किं वदित्यज्ञसंदिग्धविपर्यस्तानामज्ञानसन्देहविपर्यासापनयनार्थं दृष्टान्तमाह । श्वमूत्रवदिति । यथा शुनो मूत्रं परस्मै न दीयते न चात्मना पीयते, तद्वछ्रामणेरेण सुरामैरेयमद्यं परस्मै न देयं, न चात्मनापि पेय । स्वमूत्रवदित्यपि पाठः । तत्रैतद् व्याख्यानं- आत्मीयप्रस्राववदिति ।
तत्र सुरेत्यासव उच्यते । अन्नेनान्नविकारेण च या संचीयते, सा च त्रिविधावगन्तव्या । कथं कृत्वेत्याह । वल्कलैः सगुडैरित्यादि । काचित्सुरा गुडसहितैः वल्कलैः संचीयते, अपरा मधूनैव केवलेन । पिष्टो ऽपूपः, किण्वं सुराबीजं, जलं तोयं । एभिरपि काचित्सुरा संचीयत इत्येताः सुरा ज्ञातव्याः ॥
मैरेयमित्यादि । धात्री आमलकीफलं, अम्बु पानीयं, धातकी लोकप्रतीत्यैव कुसुमजातिः । गुडेन धात्र्या अम्बुना धातक्या च यत्संस्कृतं निष्पादितं रसान्तरं तन्मैरेयमुच्यते । सुरामैरेयमद्यं तद्यस्मान्मदनीयमतः कुशाग्रेणापि पातुं यतीनां श्रामणेराणां न प्रकल्पते, न लभ्यते । न केवलं जलादिवत्तत्पातुं न कल्पते, कुशाग्रेणापीत्यपिशब्देनाह ॥
सुरामैरेयव्यतिरिक्तमन्यदपि मदनीयं वस्तु परिभोक्तुं न लभ्यत इति दर्शयन्नाह । कोद्रवान्नमित्यादि । कोद्रवभक्तं यतिर्नं भुञ्जीत, न च तस्य कोद्रवस्य (स्श् 60) पलाले स्वपेत् । मदयेदित्यादि । यच्चान्यत्सुरामैरेयव्यतिरिक्तं मद्यवर्णगन्धरसं पीतं सन्मदयेन्मदं जनयेत्, तदपि न पातव्यं । पिबतो दुष्कृतं भवति । अत एव मदनीयं पूगफलादि ज्ञात्वा न भक्षणीयं ॥
सुरामैरेयमद्यं वै पिबेद्दद्याच्च चेल्लकः । कोद्रवान्नं च भुञ्जीत न च स्यात् दुष्कृतं कथं ॥
इति प्रहेलिका ॥
स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां सुरामैरेयमद्यपानविरतिशिक्षापदं नाम पञ्चमं समाप्तं ॥
उक्तं सुरामैरेयमद्यपानविरतिशिक्षापदलक्षणं । इदानीमुच्चशयनमहाशयनविरतिशिक्षापदलक्षणं लब्ध्वावकाशमित्याह । शयने यतिरासीत [इ]त्यादि । तत्र जितक्लेशत्वाद्भगवान् जिनः । तस्याष्टौ यान्यङ्गुलानि तत्प्रमाणं पादकमस्येति जिनाष्टाङ्गुलपादकं शयनासनं । एतच्च जिनाष्टाङ्गुलप्रमाणं सामान्यपुरुषाष्टाङ्गुलप्रमाणेन त्रिगुणं भवति । अतश्चतुर्विशत्यङ्गुल्यो भवन्ति । तेन हस्तप्रमाणमित्याख्यातं भवतीति । यच्छयनासनं प्रमाणपुरुषहस्तप्रमाणपादकं तस्मिन् मञ्चे पीठे वा यतिः श्रामणेरः आसीत [उ]पविशेदित्यर्थः । किं सह शल्येन? नेत्याह । किं तर्हि विना शल्ये[न], शल्यं हित्वेत्यर्थः । अतः प्रमाणाधिके मञ्चे पीठे वा य उपविशति, तस्य दुष्कृतं भवति । हेमरूप्यकृते न त्विति । सुवर्णरूप्यमये तु मञ्चे पीठे वा जिनाष्टाङ्गुलप्रमाणेप्युपविष्टुं [न] लभ्यत इति । अथ किमर्थमिदमभिधीयते- हेमरूप्यकृते नेति? यावता कायेन पाणिपादाद्यैर्वस्त्रच्छत्रादिनेत्यादि वक्ष्यते । यत्र च वस्त्रादिना स्पर्शः प्रतिषिध्यते, तत्र सुतरामुपभोगो [न] लभ्यत इति । सत्यमेतत् । किन्तु कस्यचिदियमाशङ्का स्यात् सांघिके रुक्मरूप्यमये शयनासने उपविशतो न कश्चिद्दोषः पौद्गलिकस्यैव स्पर्शप्रतिषेधादिति । अत इदमुच्यत इति । केचित्परिहारं वर्णयन्ति । तदेतदसत्, अविशेषेण सांघिकपौद्गलिकयोर्जातरूपरजतयोः स्पर्शप्रतिषेधात् ॥ तस्मात्परिहाराय यत्न आस्तेयः ॥
तत्रापि जिनाष्टाङ्गुलप्रमाणे ऽपि मञ्चे पीठे वा विना प्रत्यास्तरणेनोपविष्टुं [न] लभ्यत इति दर्शयितुमाह । सांघिके शयने दद्यादित्यादि । संघस्येद सांघिकं शयनासनं । तत्र प्रत्यास्तरणं यतिः प्रयच्छेत् । तच्च प्रत्यास्तरण न तृणपत्रादिक मभिप्रेतं, किन्तु विष्टरेत्याह । वस्त्रेत्यादि । सूक्ष्मस्य वस्त्रस्य त्रिपुटं घनस्य वस्त्रस्य द्विपुटं कम्बलस्य एकपुटं प्रत्यास्तरणमिष्टं, अभिप्रेतमित्यर्थ । क्रमादिति यथाक्रमं, प्रत्यास्तरणस्य त्रिद्वयेकपुटभेदो ऽवसेय इत्यर्थः ॥
अतिरेकप्रामाणिके सांघिके शयनासने यथा प्रतिपत्तव्यं तथा दर्शनन्नाह । न्यस्य गर्तेषु तत्पादानिति विस्तरः । तच्छब्देन सांघिकशयनासन मभिसंवध्यते । तेन तत्पादानिति सांघिकशयनासनपादान् । कीदृशान्? अतिरेकप्रमाणकान्, जिनाष्टाङ्गुलप्रमाणादधिकप्रमाणानित्यर्थः । न्यस्य प्रक्षिप्य । कुत्रेत्याह । गर्तेषु । अथवा सुषिरप्रतिपादेषु प्रक्षिप्य । किं एवं व्रती निषेवेत सांघिकं शयनासनं? शयनासनमिति वक्ष्यते । टंकित्वा कीलकेषु वेति । अथवा चतुर्षु कीलकेषु तानतिरेकप्रमाणकान् पादान् टंकित्वा बध्वा किं कर्तव्यमिति न ज्ञायते क्रियाकार[क]संबन्धस्य परिसमाप्तत्वात् । अत आह एवं वेत्यादि । अमुनानन्तरोक्तेन क्रमेण सांघिकं शयनासनं भजेत । इक्षुयवगोधूमादीनां (स्श् 63) रक्षार्थं यद्दीर्घपादः मञ्चः क्रियते, तत्राध्वगो यतिः स्वपेत् । आदिशब्दात् गृहिशय्यासनस्य ग्रहणं वेद्यं । तत्रापि गृहिणां शयनासने यतिना न पादौ लम्बीययितव्यौ- मा भूज्जनावध्यानमिति ॥
प्रव्रज्यां प्रसाणीकृत्य यथावृद्धिकया सांघिकं विहारमुद्देष्टव्यमिति दर्शयन्नाह । अल्पं चे[दि]त्यादि । यदि बहवः श्रामणेरा भवन्ति विहाराश्च स्तोकास्तदा एकैकं वि[हा]रं द्वादशेभ्यः श्रामणेरेभ्यो दातव्यं । अथैवमपि बहवोयतयो भवन्ति, तदा अन्ततो ऽगत्या निर्मुष्टकं हस्तमेकैकस्मै श्रामणेराय दातव्यं । बहुत्वे तु विपर्ययादिति । कथं विपर्ययात्? यदि बहवो विहारा भवन्ति यतयश्च [स्तोकाः], तदा एकैस्मै अपि श्रामणेराय बहवो विहारा दातव्याः । तत्र विहारशब्देन लयनमेवोच्यते विहरन्त्यस्मिन्निति कृत्वा ॥
स्तोकं चेदित्यादि । यदि स्तोकं शयनासनं भवति यतयश्च बहवः, तदा तत्र यो वृद्धः स मञ्चे स्वपेत् । यस्तु नवकः स पीठे स्वपेत् । अथैवमपि सर्वेषां न भवति, तदा यावद्वृक्षमूले वृद्धेन स्वप्तव्यं, नवकेन त्वभ्यवकाशक इत्येवं यथावृद्धिकया सांघिकं शयनासनमुद्देष्टव्यं । किं पुनः सर्वकालमेबेत्याह । अन्तर्वर्षासु नो स्थाप्य इत्यादि । अन्तर्वर्षाकाले यतिना यथावृद्धिकयान्यः सब्रह्मचारी नोपस्थापयितव्यः । य उपस्था[प]यति तस्य दुष्कृतं भवति ॥
अथ किमर्थं शयनासनमुद्दिश्यत इत्याह । संस्कारेत्यादि । छिन्नग्रन्थ्यादिकरणं संस्कारः । तत्र स्वात्मावस्थितिः परिभोगः । परिपालनं संरक्षणं । एवमर्थं सांघिक शयनासनमुद्दिश्यते न व्यसनितयेति दर्शयति ॥
किं पुनः सर्वाण्येव लयनान्युद्देष्टव्यानि? नेत्याह । किं तर्हि हीनमध्येत्यादि । यदि भूयांसि लयनानि सन्ति संवरिणश्चाल्पीयान्सस्तदा आगन्तुकानां भिक्षूणामवस्थितये लयनत्रयं स्थापयितव्यं कीदृशमित्याह । हीनमध्योत्तमं । यद्यागन्तुका आगच्छन्ति, [त]दा वृद्धाद्यागन्तुकेभ्यस्तदुद्दिशेद्दहरक्रमात् । तेषां त्रयाणां लयनानां मध्ये यदुत्तमं लयनं तद्वृद्धायागन्तुकभिक्षवे उद्देष्टव्यं यन्मध्यं तत्ततो नवकाय, यद्धीनं तत्सर्वनवकायेति ॥
किमर्थं पुनर्भगवानुच्चशयनमहाशयनप्रतिषेधं चकारेत्याह । शयनासनमत्युच्चेति विस्तरः । यस्मादतीवोच्चं शयनासनं यतेः श्रामणेरस्य मदकरं, औद्धत्यकरं, लाकावध्यानस्य च हेतुकारणं, तस्मात्कारणाद् भगवतोच्चशयनमहाशयनं प्रतिषिद्धमिति । जिनाष्टाङ्गुलप्रमाणादतिरेकप्रमाणिकत्वादुच्चशयनं, महाशयनञ्च रुक्मरूप्यमयत्वादिति ॥
स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां उच्चशयनमहाशयनविरतिशिक्षापदं नाम षष्ठं ॥
नृत्तगीतवादित्र[विशोकदर्शनविरति]शिक्षापदमधिकृत्याह । बाहुविक्षेपकमित्यादि । द्वयोर्बाह्वोर्विक्षेपण स्फोरणं कृत्वा यन्नर्तनं तन्नृत्तमुच्यते । एतच्चनृत्तमुन्मत्तत्वमिति भगवानवोचत् । यच्चोच्चैः स्वरेण गीतमेतदार्याणां समुन्मूलिताखिलाकुशलमूलानामज्ञानपटलपाटनपटूनां रुदितं क्रन्दितमिति । यस्माद्भगवानवदत् तस्मात्कारणात् वीणावंशमृदङ्गादिवादित्रं यतिर्न वादयेत् । यस्मिन् क्रीडास्थाने उत्सवादिके गत्वा विगतशोकाः स्युः स्त्रीपुरुषास्तत्क्रीडास्थानं विगतशोकं यतिर्न यायात् । यस्तु श्रामणेरो हृष्टः सन् नृ[त्य]ति गायति वादित्रं वादग्रति, तस्य दुष्कृतं भवति ॥
स्फुटार्थायां श्रीघना[चा]रसंग्रहटीकायां नृत्तगीतवादित्र[विशोकदर्शन]विरतिशिक्षापदं नाम सप्त[मं] ॥
गन्धमाल्यविलेपनविरतिशिक्षापदमधिकृत्याह । चन्दनेत्यादि । यतिश्चन्दनादिकं गन्धं धा[र]येत् । कीदृशो यतिरित्याह । व्याधिः संजातो यस्येति व्याधितो, ग्लान इत्यर्थः । कस्य वचनेन धारयेदित्याह । भिषगादेरित्याह । वैद्योपदेशात् । कतमेन विधिनेत्याह । दत्वेत्यादि । पूर्वं मुनये बुद्धाय भगवते चन्दनादिकं गन्धं दत्वा पश्चादात्मना धारयेत् । स्वस्थस्तु यतिः कदाचिदपि चन्दनादिकं गन्धं न धारयेत् ॥
न तिष्ठेदित्यादि । सति प्रकटे देशे चन्दनाद्यनुलिप्तगात्रो यतिः ग्लानो ऽपि सन्न तिष्ठेत् । यदि बहिर्निर्गन्तुकामो भवति, तदा क्षालयित्वा बहिर्व्रजेत् । अनेनैव विधानेन धारयेत्कुसुमस्रजमिति । कुसुमं पुष्पं, स्रक् माला, तेन कुसुमस्रजमिति, पुष्पमालामित्यर्थः । किं धारयेत्? अनेनैव विधानेनेति । पूर्वं तावद्बुद्धाय दद्यात् पश्चादात्मना धारयेदिति । कीदृशेन ग्लानेन स्रग्माला धारयितव्येत्याह । नेत्रदुःखेत्यादि । नेत्रदुःखेन शिरःशूलेन पूतनाग्रहेण च रुजितुं शीलं यस्य यतेः स तथोक्तः । तस्य शीर्षं कुसुममालया वेष्टयेत् । न च पुष्पमालायाः मेखलां लम्बयेत् ॥
हरितालेत्यादि । हरितालादिचूर्णेन सुगन्धिना वा तैलेन वर्णार्थं रूपनिष्पत्त्यर्थं यतिः वदनादिकं गात्रं न मर्षयेत् ॥
किमर्थं पुनर्भगवता नृत्तादि प्रतिषिद्धमित्याह । यतेरप्रतिरूपत्वादित्यादि । यस्मान्नृत्तगीतवादित्रविशोकदर्शनं गन्धमाल्यविलेपनधारणञ्च यतेरप्रतिरूपरागकरं औद्धत्यकरं जनानाञ्च कोपकारणमवध्या[न]करं तस्माज्जिनैर्बुद्धैर्भगवद्भिर्गर्हितं निन्दितं ॥
प्रसङ्गेनान्यदपि प्रतिषेधयति । न दर्पण इत्यादिना । आदर्शे तैलभाजने जलभाजने वा मुखं न निरीक्षेत । कृतगण्डादित्वेन शिरोव्यथेन शिरोवेधदुःखेन गदेन व्याधिना च य आतुरो ग्लानः तं मुक्त्वा अन्येन निरीक्षणीयं । किञ्च विभूषणायेत्यादि । यतिः मण्डनार्थमात्मनो मुखं तैलेन नाभ्यञ्जयेदन्तशः पानीयेनापि । शिरोरोगेत्यादि । शिरसि रोगो व्याधिः, आस्यं मुखञ्च स्फुटितं यस्य यतेः स तथोक्तः । तस्मादृते अन्येनेति यावत् । न कुङ्कुमेत्यादि । यतिश्चन्दनकुङ्कुमादिचूर्णेन वदनं मुखं न मण्डयेत् । पिटकस्य तु शमनार्थं तिलकलापप्रभृतिभिः लेप इष्टो ऽभिप्रेत इति यावत् । यस्तु यतिः शैथिलिकत्वादिना यथोक्तं विधिं न संपादयति, तस्य दुष्कृतं भवति ॥
स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां गन्धमाल्यविलेपनविरतिशिक्षापदं नामाष्टमं ॥
विकालभोजनप्रतिषेधकारणं प्रदर्शयन्नाह । रात्रेरित्यादि । रात्रेरन्यत्र दिवसे भगवानशनकृत्यं कुर्वन्नल्पाबाधतां सम्यगजानात्स्म, भिक्षव इति श्रावकान् प्रति बभाषे । किमिति । तथैव वः कार्यमिति । यस्मान्मम रात्रेरन्यत्र भुञ्जानस्याल्परोगता बभूव, तस्माद् युष्माभिरपि दिवसे भोक्तव्यं न रात्राविति । अनेन श्लोकेन विकालभोजनविरतिशिक्षापदप्रज्ञप्तेः कारणमाख्यातं । भूयो ऽपि तत्कारणं प्रतिपादनायाह । विण्मूत्रेत्यादि । रात्रौ पिण्डपातमटतां अशुचिगर्ते मूत्रगर्ते च पातो भवति । अश्वचोरेण गोचोरेणाहिना सर्पेण च समागमो भवति । एवमपि सति एते यतय उदरस्य कुक्षेः पूरणार्थं रात्रौ नः अस्माकं गृहे पिण्डपातमटन्तीति जनो ऽवध्यातवान् । जनैरवध्याते ऽपि ते यतयः दिवाप्रत्यूषसि सायह्नकाले च पिण्डपातमटितुमारब्धाः । तत्रापि जनैरवध्यातमिति दर्शयितुमाह । सायं प्रातश्चेत्यादि श्लोकः । एते भिक्षवः सायह्नकाले प्रातः प्रभाते च सभाचत्वरशृङ्गाटकेषु मन्दिरेषु गृहेषु च अटन्ति भ्रमन्ति भुञ्जते चासत्कृत्यं च कुर्वन्तीति जनैरवध्यातं । अतस्तस्मात्कारणात्किमित्याह । सुगतः प्राहेत्यादि । प्रशस्तमपुनरावृत्त्या निःशेषं वा गत इति सुगतः, यथाक्रमं सुरूपवत्सुनष्टक्षुखत् सुपूर्णघटवच्च । स प्राह, ब्रतीति स्म । किमिति । यतिः काले भुञ्जीत । कीदृशे काल इत्याह । उदितादित्येत्यादि । केशमात्रेणाप्यनतीतो ऽसंक्रान्तो मध्याह्नो येनोदितेनादित्येन स एवमुच्यते, तस्मिन् ।
कीदृशं पुनस्तूदितादित्यकाले भोक्तव्यमित्याह । सक्तुरोदनेत्यादि । पञ्चभोजनानि कालिकानिसक्तुभक्तकुल्माषमत्स्यमांसाख्यानि । कदाचिदेतानि पञ्चभोजनानि सप्ताहिकादिसम्मिश्राण्यपि भवन्तीत्याह । यावज्जीविकेत्यादि । यावज्जीविकेन पिप्पल्यादिना तैलादिना पानकैश्च यत्परिवर्जितं तत्कालिकं । किं पुनरेतदेव पञ्चविधं भोजनं कालिकमुतान्यदपि? अन्यदपीत्याह । यत्किञ्चिदद्यते दन्तैरिति । अनेन खरविशदं वस्त्वभिधीयते । गलके वा प्रवेश्यत इत्यनेन नासिकयापि यत्पीयते तदपि गलकेनेवाभ्यवह्रियत इति, तस्यापि प्रतिषेधः कृतो भवति । अन्यथा हि विकाले क्षीरपानमदोषाय स्यात् । कुक्षिविष्टशब्देनोभयपदाभिहितं वस्त्वभिधीयते । कुक्षेरुपस्तम्भकं परिपूरकं करोतीति कुक्षिविष्टभंकृत् यदे[त]त्सर्वं तत्काले आद्यादित्योदिते, मध्याह्नादर्वाग्यतिर्भक्षयेदित्यर्थः ॥
विकाले तु यद्भोक्तुं लभ्यते, तद्दर्शयन्नाह । सक्त्वाद्यामिषनिर्मुक्तमित्यादि । सक्तुकुल्माषादिभिरामिषैः परित्यक्तं । कीदृशं? नीरजंरजोरहितं कर्दमादिकं । देवे वर्षति या शिला पतति, तद्वर्षोपलकं अश्नीयात्, भक्षयेत् । पातुमिच्छा पिपासा पानाभिलाषः, तेनार्तः सन् हिमं यतिः पिबेदिति शेषः ।
कथं पुनः कल्पिकोदकं ग्राह्यमित्येनं विकल्प्य अवसरीकर्तुमाह । कल्प्यवारिग्रहमित्यादि । कल्पिकस्य वारिणो ग्रहणं कल्पवारिग्रहः, तस्मिन् । कल्पिकोदकग्रहण (स्श् 70) निमित्तमिति यावत् । यावता कालेन द्वौ हस्तौ प्रक्षाल्यमानौ सरुधिरौ भवतः, तावन्तं कालं तौ न प्रक्षालयितव्यौ । नाप्यङ्गुली प्रक्षाल[ने] कल्पिकोदकं ग्राह्यं । मायेत्यादि । मायया शाठ्येन । युक्तो यतिस्तयोः प्रक्षालनं न कुर्यात् यदि प्रकृत्यैव स्निग्धत्वग्भिक्षुभवति, तस्य स्निग्धत्वचो यतेः यौ हस्तौ तौ सशब्दौ भवतः, तदा शुद्धौ वेद्यौ ॥
किं पुनर्विकाले ग्लानेनापि न भोक्तव्यमित्याह । न दास्यथेत्यादि । क्षुद्बुभुक्षा । तृष्णाशब्देनापि लोकप्रतीतोर्थः पानाभिलाष उच्यते । ताभ्यां पीडितो ऽहं मरिष्यामि, यदि मह्यं विकाले भोक्तुं न दास्यथ इत्येवं यदि कश्चिद्विरुक्तो यतिर्बूयात्, तदा स यतिः पूर्णे मण्डकुण्डे प्रक्षेप्तव्यः । आगलकादित्यवशेषं । अथैवमप्यतिनामयितुं न शक्नोति, तदा किं कार्यमित्याह । अष्टास्वधौतेत्यादि । अष्टाभिः जले धौतं प्रक्षालितं यद्धान्यं कल्पिकेन च वस्त्रेण बद्धं तदनामिषे पात्रे ताम्रभाजने अन्यत्र वा प्रस्थापनं दिशेद्दद्यादित्यर्थः । यदि तु तद्धान्यं स्फुटं स्फुटितं वा सत् ग्लानाय पातुं न कल्पते ॥
प्रसङ्गेनान्यदपि प्रतिषेधयति । लोभोत्थापितेत्यादि । लोभेनाकुशलमूलेन समुत्थापितं यत्कायवाक्कर्म तेन समुपार्जितो यो विहारचीवराहारस्तं सविषभक्तवद्वर्जयेत् । मद्येत्यादि । मद्यविक्रयणं, शस्त्रविक्रयणं, विषविक्रयणं, प्राणिविक्रयणं, (स्श् 71) लाक्षविक्रयणं च व्रती स्वयं न कुर्यात्, न च परेण कारयेत्, न च तेन मद्यादिना जीविकां कल्पयेत् । सत्कारेत्यादि । अक्षाण्युच्यन्ते चक्षुरादीन्द्रियाणि । तेषां यः संवरः संयमः लाभसत्कारार्थं, सा कुहना मता । वस्त्रान्नपानादिकस्य तु लाभस्य प्राप्त्यर्थ या चाटुवादिता प्रियवादिता, सा लापना मतेति । नैष्पेषिकत्वमित्यादि । अन्नपानादिप्रतिलंभाय यत्परेषां कुत्सनं तद् नैष्पेषिकत्वमुच्यते । अन्यदीयस्य तु पात्रादेर्यद्वर्णनं गुणोद्भावनं लाभार्थं महयमेतत् पात्रादिकं दद्यादिति तत्रैमित्तिकत्वमुच्यते । लाभेन लिप्सेत्यादि । अल्पेन लाभेन यद्वृद्धिपर्येषणं लाभानां सा लिप्सेत्युच्यते लब्धुमिच्छा लिप्सेति अर्थात् । ये कुहनलपननैष्पेषिकादिभिर्निष्पन्ना लाभाः । तानेतान् मिथ्याजीवान् यतिः परिवर्जयेत् । किं वदित्याह । पुरीषवदशुचिवदित्यर्थः । क्रीडेत्यादि । परेषामपहननं परोपघातः । क्रीडाकौतूहलं । कायवाक्समुच्छितं सर्वकालं । विट्प्रदिग्धमिवोरगं, अशुचिलिप्तं सर्पं यथा व्रती परिवर्जयेत् । विपणीत्यादि । विपणिः वणिक्पथमुच्यते, यस्य घट्ट इति प्राकृतजनप्रतीतिः । तरन्त्यस्मिन्निति तरः, क्षेपणतीर्थं । गुल्मं विटपः । एवमादिके छन्नप्रकटे भूप्रदेशे किं तिष्ठेत्तत्र न चेल्लक इति वक्ष्यते । दुष्टप्रव्रजितायाः दुःशीलापि सतो प्रतिज्ञायां आस्ते । आह । प्रव्रजिते वेश्यारूपा जीविकावा । गुरु (स्श् 72) कुमारिका स्थले वसता अव्यूढा आस्ते । एताः किं? द्यूतकारगृहं बन्धनागारं अन्यच्च यद्वन्धनस्थानं तत् अगोचरो ऽविषय आख्यातः । तस्मात्तत्र न तिष्ठेदिति ।
स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां विकालभोजनविरतिशिक्षापदं नाम नवमं ॥
दशमशिक्षापदमधिकृत्याह । कायेत्यादि । सकलेन कायेन हस्ताभ्यां पादाभ्यां वस्त्रेण छत्रादिना च व्रती रजतं रूप्यं, जातरूपं सुवर्णं न स्पृशेत् । किमिवेत्याह । ज्वलिताग्निवत । प्रज्वालितदहनवदिति । अनेन दशमं शिक्षापदमभिहितं ॥
इदानीं प्रसङ्गैनान्यदप्याचारं संगृह्णाति चम्पूकलहेत्यादिना । तत्र चम्पू हास्यं, कलहः कायकलहो वाक्कलहश्च । दन्तकाष्ठादनं दन्तकाष्ठभक्षणं । शेषं सुगमं । चम्पूकलहेत्यादि द्वन्द्वः । चम्पूकलहदन्तकाष्ठादनानि क्रिया यस्य वृद्धान्तिकस्य यतेः स तथोक्तः । स्नानञ्च पानञ्चाशनञ्च स्तोत्रं चेति स्नानपानाशनस्तोत्राणि, तैर्व्यग्रो ऽप्राप्तावसरो यः स एवमुच्यते । स्नानादिव्यग्रश्च नग्नश्चैकवस्त्रश्चेति पुनर्विग्रहः । स पूर्वोक्तश्च किं न वन्द्यो यतिना यतिरिति वक्ष्यते । मृत्कर्मेत्यादि । मृण्मयकर्मणा यो व्यापृतो ऽप्राप्तावसरः यश्च तूर्णं त्वरितं द्वित्रिभूमिकं विहारमुत्कसति, आशु शीघ्रं च यो व्रजति, यश्च पात्रं पचति, चीवरकर्मणा वा व्यग्रः, स वृद्धान्तिको यतिः द्वित्रिभूमिकं विहारमुत्तिष्ठन् यावत् पात्रं वा पचन् किं न वन्द्यो यतिना यतिरिति वक्ष्यते । चूर्णेत्यादि । चूर्णक्रियायां चैलक्रियायां वस्त्रपात्रादिशोधने च यः आसक्तः, अक्षिणी यश्चाक्ते धूमं वा पिबति, पुस्तकं वा लिखति, वाचयति, सो ऽपि न वन्द्यः । विट्प्रस्त्रावेत्यादि । यः श्रामणेरो वर्चकुटि प्रस्त्रावकुटिं वा गच्छति, परस्मै वा उद्दिशति, तमसि अन्धकारे वा तिष्ठति, अन्तर्वासं वा वासयति, उत्तरासंगं वा प्रावृणोति, स वृद्धान्तिको यतिः वर्चकुटिं गच्छन् यावदुत्तरासंगं प्रावृण्वन् न वन्द्य इत्यनेन यादृश्यामवस्थायामवस्थितो वृद्धान्तिको यतिर्नवकेन न वन्दितव्यः, सा अवस्थाभिहिता ॥
इदानीं तु यादृग्विधावस्थावस्थितेन नवकेन यतिना न वदितव्यं, तथा दर्शयितुमाह । अवगुण्ठितेत्यादि । अवगुण्ठितं पिधितं शीर्षं शिरो यस्य यतेः तेन समन्तप्रावृतेन वा यतिना किं वन्द्य इति वक्ष्यते । सह उपनहा वर्तेते पादौ यस्य यतेः स सोपानत्कः, तेन उपानहारूढेनेत्यर्थः । जानु च जानु च जानुनी, तयोर्जानुनोर्या जंघा तस्यां जंघायां मुण्डे[न] स्फोटं न दद्यात् । किमिवेत्याह । अविना यथा । अविर्मेषः । यथा अविना मेण्डकेन द्वयोर्जानुनोर्जंघायां हन्यते, तद्वद्यतिरपि वृद्धान्तिकस्य यतेर्जंघायां न वन्देतेति यावत् । भदन्तधर्मावलोकितमित्रस्त्वाह । सोपानत्केन न वन्दितव्य । किमिवेत्याह । रविना यथा । रविरादित्यः । यथासौ रविरुपानहारूढस्तद्वदुपानहारूढेन यतिना न वन्दनीयमित्यकारप्रश्लेषेनावबोधयन् वक्ति । किमेतद्भदन्तमतमेष्टव्यं? नेष्टव्यं । किं तर्हि अन्वेष्टव्यं विनये मेढकस्यैव दृष्टान्तदानात् ।
विधिं दर्शयन्नाह । समवस्थेत्यादि । समवस्थोपविष्टस्य यतेः पादयुगलं कर्कटग्राहं गृहीत्वा शिरसा वन्दितव्यं । यदा समवस्थानिषण्णो यतिः पादरोगेण ग्लानः स्यात्तदा विनापि कर्कटग्राहिकया वन्द्यमानस्य न दोषः । यदि कश्चिदागत्यागन्तुकः समवस्थानिषण्णम[भिवादयति], तदानेन वक्तव्यमायुष्मन्, (स्श् 76) कति वर्षोसि, कतमस्ते निकायः, कति च तस्य निकायस्य भेदाः, कतमा ते सामयिकेत्यादि । सो ऽपि यदि आर्यमहासांघिको भवति, तदानेन वाच्यमार्यमहासांघिको ऽस्मि । तस्य चेद्भेदाः
वादिनश्चार्थसिद्धार्थाः शैलद्वयनिवासिनः । भाद्रायना हैमवताः षड्भेदा मूलसांघिकाः ॥
दैर्घी हैमन्तकी ग्रैष्मी वार्षिकी च तथोत्तरा । श्रामणेरेण विज्ञेयाः पञ्चैताः सामवायिकाः ॥
इत्येवमन्यदपि विवर्जयितव्यं । तत्र यो नवकस्तेन वन्दितव्यं, वृद्धेन चारोग्यमस्त्विति वाच्यं ।
अथारोग्यमिति को ऽर्थः? यथा वातपित्तश्लेष्मादयः कुपिताः सन्तो बाधनार्थेन रोगा इत्युच्यन्ते, तद्वत् रागादयो ऽपि क्लेशा रुजनार्थेन रोगशब्दवाच्याः । न रोगः अरोगस्तद्भाव आरोग्यं । क्लेशप्रहाणं तव भवतु । तथा चाह-
रागादयो ह्यतितरां रुजयन्ति यस्माद्वातादयश्च कुपिताः सकलं जनौघं । तच्छान्तिवाञ्छिन पराः प्रणतेषु तस्मादारोग्यमस्त्विति वचो निगदन्ति बुद्धाः ॥
अन्य आह-
यत्तु जरामरणशोकभयैर्विमुक्तं, यद्वर्जितं शशिहुताशनभानुतोयैः । यच्छाश्वतं पदमनुत्तरमच्युतञ्च, ........ ॥
स[क]लैर्भिक्षुभिः शिक्षाकामैः विकालभोजनादिकं कृतं कस्माद्वयं न कुर्म इति । आवासकल्पः- अमुष्मिन् विहारे भिक्षवो ऽन्योन्यं कायसंसर्गं कुर्वन्ति कस्माद्वयमपि न कुर्म इति । देशकल्पः- अमुष्मिन् देशे वार्द्धुषिकभिक्षवः कस्माद्वयमपि वृद्धि न प्रयच्छामः । स्थविरकल्पः- अमुकस्थविरश्चापि सन्धिकाले भुङ्क्ते, किं वयं न भुञ्जामह इति ॥
भिक्षुविनयात्समुद्धृतमाचारान्तरं न तु स्वमनीषिकयान्यत्कृतमिति दर्शयितुमाह । विनय इति । विनयन्ते ऽनेन क्लेशा इति विनयः । समधिगतप्रातिमोक्षसंवरेण भिक्षुविनयसंक्षेपादुद्धृतः । अन्यत्तु शेषं यद्भिक्षुविनये व्यासतो निर्दिष्टं । अशनवसनादौ यथा प्रतिपत्तव्यं तदुपाध्यायाचार्यवृद्धतरेभ्यः सकाशाद्यतिना श्रोतव्यं, तेन सगौरवेन च भाव्यं ।
शतद्वयेनेत्यादि । एतदन्तरोक्तं श्रीघनाचारसंग्रहं संहत्य यत्सुकृतं कुशलकृतं तेन सुकृतेन कर्मणा जनो लोकः असंस्कृतं निर्वाणं प्राप्नोतु लभतामित्यनेन श्लोकेन परिणामयति ॥
इति जयरक्षिते(न) निबध्य टीकां, सकलजनागममलिम्लुचोपहर्त्री । शुभमतिविपुलं मया यदाप्तं भवतु जनो ऽखिलस्तु तेन बुद्धः ॥
सुश्रीघनाचारसुसंग्रहस्य कृत्वा हि टीकां यदवापि पुण्यं । जनो ऽखिलस्तेन शुभेन तूर्णं जिनो ऽस्तु विख्यातगुणोदयश्रीः ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
