Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

स्फुटार्था श्रीघनाचारसंग्रहटीका

Tác giả
जयरक्षित
Thông tin
GRETIL — Sanghasena Singh: Sphuṭārthā Śrīghanācārasaṃgrahaṭīkā, 2nd ed., Patna : K.P.Jayaswal Research Institute 1983 (Tibetan Sanskrit Works Series, 24).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

जयरक्षित: स्फुटार्था श्रीघनाचारसंग्रहटीका

the transliteration emulates the conventions of nagari script. therefore, many word boundaries are not marked by blanks.

स्फुटार्था श्रीघनाचारसंग्रहटीका

। नमो बुद्धाय ॥

प्रहीणनिःशेषमलान् जितारीन् ज्ञेयोदधेः पारगतान् कृपालून् । सद्धर्मसच्छिष्यगणान् समस्तान् नमामि बुद्धान् बहुशः कृताञ्जलिः ॥

दानाम्बुसेकपरिवृद्धसुशीलमूलं मैत्रीकृपा + + + पल्लवजातशोभं । बोध्यङ्गमार्गफलितं हि जिनालिजुष्टं मञ्जुश्रियं च शुभकल्पतरुं नमामि ॥

आचारसंग्रहस्यास्य स्मृतये मन्दमेधसां विस्तीर्णसूत्रसंक्षेपात् क्रियते ऽयं विनिश्चयः ॥

तत्र प्रायेण हि सन्तो गुर्विष्टदेवतां पूजयित्वा क्रियायां प्रवर्तन्ते पुण्यप्रसवार्थ, ततो विघ्नोपशमनार्थं मङ्गलार्थञ्चेति । अहमपि च सदाचारो ऽयमिति कृत्वा श्रीघना चारसंग्रहारम्भे स्वदेवतानमस्कारं कर्तुं प्रवृत्त इति दर्शयन्नाह । प्रहीणाशेषसंक्लेश इति विस्तरः । तत्र त्रिविधः संक्लेशः- क्लेशसंक्लेशः कर्मसंक्लेशः जन्मसंक्लेशश्च । क्लिश्यन्ति कायवाक्चित्तानि इति क्लेशाः । ते च रागादिकमष्टोत्तरशतं । अष्टानवतिरनुशयाः । दश पर्यवस्थानानि । क्लेश एव (स्श् 2) संक्लेशः क्लेशसंक्लेशः क्लेशस्वभावत्वात् क्लेशसंक्लेशहेतुत्वाच्च क्लेशसंक्लेश इत्युच्चते । कस्य क्लेशसंक्लेशहेतुत्वादिति चेत् कर्मसंक्लेशस्येति ब्रूमः । यतः क्लेशानललीढहृदया[ः] कुशलमरीचितोयाकारप्रतिभासमवगाहनाय पर्येषन्ते । त्रिविधं कर्म- कायिकं वाचिकं मानसिकञ्च । कायिकमपि त्रिविधं कुशलमकुशलमव्याकृतञ्च । एवं वाचिकमानसिके विस्तरेणोह्ये । कर्मैव संक्लेशः कर्मसंक्लेशः संक्लेशकरत्वात् संक्लेशहेतुत्वाच्च । क्लेशसंक्लेशजनि[त]त्वा[त्] यस्य संक्लेशकरत्वमवगन्तव्यं, जन्मक्लेशहेतुत्वात् संक्लेशहेतुत्वं । जन्म उत्पत्तिः प्रादुर्भाव इत्यनर्थान्तरं । जन्मैव संक्लेशः जन्मसंक्लेशः जन्मसंक्लेशफलत्वात् संक्लेशहेतुत्वाच्च । यतः कर्मसंक्लेशाद् रागिणां जन्म वीतरागजन्मादर्शनात् । अतः क्लेशकर्म संक्लेशकर्म संक्लेशफलत्वात् क्लेशसंक्लेशहेतुत्वाच्च जन्मसंक्लेश इत्युच्यते । अत एव निर्देशो नाल्पीयान् न च भूयान् रत्नत्रयवत् । अधुना त्रिपद्येव बहुव्रीहिः । प्रहीणाः [परित्य]क्ताः अपनीतास्तिरस्कृताः अशेषाः निखिला वासनासहिताः संक्लेशा

क्लेश[कर्म]जन्माख्यायेन [बुद्धेन] भगवता, स भवति प्रहीणाशेषसंक्लेशः । अनेन बुद्धस्य भगवतः प्रहाणसंपदं दर्शयति । ननु [प्रहीण]संक्लेश इत्येव वक्तव्यं, किमशेषग्रहणेन? नैतदस्ति । यदि प्रहीणसंक्लेश इत्येवोच्यते, तदा श्रावकप्रत्येकबुद्ध्[आनामपि] ग्रहणं प्राप्नोति । ते ऽपि प्रहीणसंक्लेशा भवन्ति क्लिष्टाज्ञानात्यन्ताभावात्, न तु प्रहीणाशेषसंक्लेशाः अक्लिष्टा [ज्ञानात्यन्ताभा]वात् । तथाप्येषां प्रत्येकजिनश्रावकाणां बलवैशा[र]द्यादिषु (स्श् 3) तथागतधर्मेषु अनेकलोक[धातुग]तेषु देशेषु अतीतानागतभेदभिन्नेषु च न भवत्येवाक्लिष्टमज्ञानं । [किं पुनः] संजानीषे त्वं सारिपुत्र, तथागतस्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञान[दर्शन]स्कन्धमिति पृष्टेनोक्तं- नो भदन्तेति सूत्रात् आर्यमहामौद्गल्यायनस्य स्वमातृजन्मदेशापरिज्ञानात् आ[र्य]सारिपुत्रेण च प्रव्रज्यापेक्षपुरुषप्रत्याख्यानात् मयूरचन्द्रकादिनिष्पत्तिकर्मविशेषापरिज्ञानाच्चेति । अतो माभूत् तेषां ग्रहणं । ज्ञेयं बोद्धव्यं परिज्ञातव्यमित्यनर्थान्तरं । निश्चयेन धीयन्ते अवतिष्ठन्ते अस्मिन् भावा इति निधिराधारः । अम्भसां वारिणां निधिरम्भोनिधिः । लोके हि अम्भोनिधिशब्दो बाह्यवस्तुनि प्रसिद्धः । इह तु तत्साधर्म्यात् यथा महासमुद्रो गम्भीरत्वात् अतिदुरुत्तरत्वाच्चाम्भोनिधिरुच्यते, एवं ज्ञेयमपि दुष्परिज्ञानात् समस्तानावेद्यत्वेन दुरवगाहयत्वात् अम्भोनिधिः । ज्ञेयमेवाम्भोनिधिः ज्ञेयाम्भोनिधिः । पारं गच्छतीति ज्ञेयाम्भो[नि]धिपारगः पारावारगमनवत् । अनेनापि ज्ञानसंपदं दशबलस्य दर्शयति । प्रहीणाशेषसंक्लेशश्चासौ

ज्ञेयाम्भोनिधिपारगश्चेति प्रहीणाशेषसंक्लेशज्ञेयाम्भो[नि]धिपारगः । अतस्तं प्रहीणाशेषसंक्लेशज्ञेयाम्भोनि[धि]पारगं । तमीदृग्विशिष्टं बुद्धं भगवन्तं प्रणम्य कायवाङ्मनोभिरिति शेषः । समानकर्तृकयोः क्रिययोः पूर्वकाले ऽयं क्त्वा विधीयते प्राणम्येति । यथा स्नात्वा भुंक्त इति । अतः पृच्छयते कं प्रणम्य किं करिष्यसीत्याह- श्रामणेराणामाचारः संग्रहीष्यते । तत्र श्रामणमुच्चं निर्वाणपुरमीरन्ति गच्छन्तीति श्रामणेराः । (स्श् 4) अथवा श्रामण्यममलो मार्गः तमीरन्ति गच्छन्तीति श्रामणेराः । श्रामणानामेरा दासा इति केचित् । तेषां किं? आचारः संग्रहीष्यते । आचरणमाचारः अकुशलपरिवर्जनं कुशलभजनं चेति यो ऽर्थः । ननु च एवं सति ग्रन्थस्याचारत्वं न प्राप्नोति क्रियारूपत्वात् । नैष दोषः । आचारप्रतिपादको ऽपि ग्रन्थ आचार उच्यत इति उपचारात् जातकमालावत् कंसवधवत् । आचरन्त्यस्मिन्निति कृत्वा आचारशब्देन श्रीघनाचारसंग्रह एवाख्यायते । संग्रहीष्यत इति संग्रहः । करिष्यते आरिप्सत इति यावत् । मयेति वाक्यशेषः । अन्यथा उत्तमपुरुषेणैव निर्देशमकरिष्यत्, आचारं संग्रहीष्यामीति । संक्षेपतो ऽस्मिन् श्लोके बुद्धस्य भगवतः प्रहाणसंपत् ज्ञानसंपत्, त्रैलोक्य शास्तृत्वं, अविपरीतशासनकारणञ्च परिदीपितं प्रहीणाशेषसंक्लेशशब्देन ज्ञेयाम्भोनिधिपारगशब्देन च । यतः प्रहीणाशेषसंक्लेशत्वं प्रहाणसंपदं नातिवर्तते, ज्ञेयाम्भोनिधिपारगत्वं च ज्ञानसंपदं । प्रहाणज्ञानसंपज्ज्ञाने यो युक्तः, स त्रैलोक्य गुरुर्भवति यथाभूतशास्ताचेति ।

प्रहाणज्ञानसंपत्ती त्रैलोक्य एकशास्तृता । सम्यक्शासनहेतुश्च श्लोकेनाभिहितं क्रमात् ॥ इति संग्रहश्लोकः ॥ 1 ॥ शरणं भवेदिति विस्तरः । ननु चाचारः संग्रहीष्यत इति अनन्तराभिधानादाचारः संग्रहीतव्यः कस्मात् शरणगमनादिकमुच्यते? यद्यप्येतच्छ्रामणेराणामित्यनन्तरं प्रकृतं श्रामणेराणामाचारः संग्रहीष्यत इति । ते च श्रामणेरा दशशिक्षा पदपरिगृहीता एव प्राधान्येनाभिप्रेताः, न गृहिणः । स एष श्रामणेरमावः तेषां श्रामणेराणां कथं भवति, येन श्रामणेरभावेन समन्वागतानामाचारः संग्रहीष्यत इति । अतो यथोद्देशः तथा निर्देश इति न्यायात् श्रामणेरभाव एव तावदादौ वक्तव्य इत्याह । शरणं गतवानिति श्लोकः । तत्र त्राणार्थः शरणार्थः । अत एवाह भगवान्-

बहवः शरणं यान्ति पर्वतांश्च वनानि च । आरामचैत्यवृक्षांश्च मनुष्या भयतर्जिताः ॥

इति गाथावचनात् । गतवानिति प्रयातवान् । बुद्धमिति । यथा दिनकरकरोदयादापादितसकलकर्णिकारप्रमुदितद्विरेफवृन्दपरिपीयमानकमलषण्डो बुद्ध इत्युच्यते, एवं भगवानपि भूतभाविसांप्रतिकाध्वनिर्मुक्तज्ञेयबुद्धेर्विकाशनात् मोहसंकोचापगमात् बुद्ध इत्युच्यते । तथा चाह-

त्रैलोक्ये चाध्वनिर्मुक्ते ज्ञेये विकाशनाद्धियः । विबुद्धप्रतिबुद्धाद्वा मोहसंकोचघातकः ॥ इति ।

अथवा यः पुरुषो व्यपनीतनिद्रः सुप्तोत्थितो विबुद्ध इत्युच्यते । एवं भगवानपि संसारमहाशयनादुत्थितः अज्ञाननिद्रापगमात् बौद्धस्य ज्ञानस्य साक्षात्करणाद्बुद्ध इत्युच्यते । तथा चाह-

अज्ञाननिद्राच्छेदात्तत्वज्ञानसमुद्भवात् । यो विबुद्धः स वै बुद्धो विबुद्धपुरुषो यथा ॥ इति ।

अज्ञानतिमिरपटलपर्यवनद्धनेत्रान् प्राणिनो बोधयतीति बुद्धः, अनुत्तरेण ज्ञानेन बुध्यते वा शिवमिति बुद्धः । स च त्रिविधेन धर्मसाम्भोगिकेन नैर्माणिकेन च व्यवस्थित इति अन्यत्र शास्त्रान्तरे निर्दिष्टमिति ग्रन्थगौरवपरिहारार्थमिति इह नाभिधीयते । धर्ममिति । स्वलक्षणधार[ण]स्वभावात्, न ध्वंस्यत इति वा धर्मः । स च द्विविधः- अधिगमस्वभावः आगमस्वभावश्चेति । तत्राधिगमो बोधिपक्षा धर्मा अनन्ता अनवद्या[श्]च । आगमः सूत्रविनयाभिधर्मा इति । एष द्विविधः धर्मः । संघमिति । चत्वारः प्रतिपन्नकाः चत्वारः फलाप्ताः अभेद्यत्वेन संघगतत्वात् अष्टौ महापुरुषपुद्गलाः संघ इत्युच्यन्ते । कतमे पुनस्ते अष्टौ? यदुत स्त्रोतापत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्त्रोतापन्नकः, सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकः सकृदागामी, अनागामिफलसाक्षात्क्रियायै प्रतिपन्नकः अनागामी, अर्हत्फलसाक्षात्क्रियायै प्रतिपन्नकः अर्हन्निति । तथा चाह-

बुद्धे धर्मे तथा संघे मारकोटिशतैरपि । भेत्तुं न शक्यते यस्मात् तस्मात् संघो ऽभिधी(य)ते ॥ इति ।

अतस्तं बुद्धं धर्म संघं शरणं यो ग[त]वानिति यावदेषः श्रामणेरो मुनेर्मत (स्श् 7) इति अनेन पदेन संबन्धनीयः । कदाचिद् भयादिनापि शरणं गच्छतीत्यत आह । भक्तितः प्रसादवेगेनेत्यर्थः । अथ किमर्थमादौ पञ्चशिक्षापदानि न ग्राह्यन्ते शरणगम[ना]दिदानतः । यो हि तस्य शरणं गच्छति, स तस्याज्ञां परिपालयति नान्यः । अतो यदि न पञ्चशिक्षापदानि आदौ न ग्राह्यन्ते न त्रीणि शरणगमनादीनि प्रदीयन्ते, तदा मुमुक्षुणा शिक्षापदपरिपालनं प्रत्यवज्ञैव स्यात् । अतो माभूदवज्ञेत्यादौ शरणगमनप्रदानतः । शिक्षापञ्चकमादायेति । शिक्षणं शिक्षा । प्रवृत्तिनिवृत्त्यात्मके शीले वा प्रतिपत्तिराचरणं समादानतः शीले सम्मुखीकरणमिति यो ऽर्थः । शिक्षैव पञ्चकं शिक्षापञ्चकं, एवं शिक्षापञ्च[का]नीत्यर्थः । कारिकाबन्धानुगुण्याच्च शिक्षापञ्चकमित्युक्तं । कानि पुनः शिक्षापदानि? प्राणातिपात-अदत्तादानकाममिथ्याचारमृषावादसुरामैरेयमद्यस्थानकेभ्यो विरमणं । आदायेति गृहीत्वा । किं यो ऽनुप्रव्रजितो जिनं? य इति यः पुरुषः । अनुप्रव्रजित इति पश्चात् प्रव्रजितः । कं प्रतीत्याह । जिनं । जितक्लेशत्वाज्जिनः । जितात्मपापका धर्मास्तेनोपगः । जिनोक्तमिति श्रतेर्वचनात् । बुद्धं भगवन्तं प्रव्रजितं अनुप्रव्रजामीति यो वाचमुदीरयतीत्यर्थः ॥

यावज्जीवं वधस्तेयमित्यादि । यावज्जीवमित्यनेन कालावधि दर्शयति वधः प्राणातिपातः, स्तेयं चौर्यं, मैथुनं अब्रह्मचर्यं, अनृतवाक्यं मृषावादः । वधश्च स्तेयञ्च मैथुनं चानृतवाक्यं चेति वधस्तेयमैथुनानृतवाक्यं । अतः किं तस्य, किं विरत इति पौरस्त्येन पदेन संबन्धः । किमेतस्मादेव यो विरतः संवरी भण्यते? नेत्याह । किं तर्हि मद्यपानाच्च । सुरामैरेयमद्यपानाच्चेत्यर्थः । (स्श् 8) अथ सुरामैरेयमद्यपानमिति को ऽर्थः? सुरान्नासवः । मैरेयं द्रव्यासवः । ते च कदाचित् अप्राप्तमद्यसद्भावे भवत इति । अतो मद्यग्रहणं । पूगफलकोद्रवादयो मदयन्तीति सुरामैरेयग्रहणं । महोच्चैरित्यादि । शेरते ऽस्मिन्निद्रां प्रयातीति शयनं । आस्यते ऽस्मिन्निति उपविशन्ति आसनं । महोच्चैश्च शयनञ्चासनञ्च महोच्चैः शयनासनं । अतः तस्मादुच्चशयनमहाशयनयोर्यो ऽर्थः ।

नृत्यादेरित्यादि । नर्तनं नृत्यं । बाहुविक्षेपान्नर्तनं नृत्यं । द्वयोर्दोर्दण्डयोर्यदुत्क्षिप्य नर्तनं नृत्यमुच्यते । तथा वक्ष्यते बाहुविक्षेपकं नृत्यमिति । आदिशब्देन गीतवादित्रयोर्ग्रहणं । तेन नृत्यादिरिति नृत्यगीतवादित्रादित्यर्थः । उच्चैः स्वरेण गायनं गीतं । वीणावेणुमृदङ्गादिवादित्रवादनं वादित्रमुच्यते । गन्धमाल्या[द्या]दिति । गन्ध्यत इति गन्धो त इत्यर्थः । उपयोगो ऽत्र मालायां हितं माल्यं चम्पकाशोकादिकुसुमं । आदौ भवमाद्यं । आद्यशब्देन विलेपनस्य ग्रहणं । तेन गन्धमाल्यविलेपनादित्यर्थः । हरितालादिवर्णेन वदनम्रक्षणं विलेपनं । विभूषणार्थ विलेपनं विलेपनमिति कृत्वा । विकालाशनत इति । अत्र सूर्योदयादारम्य यावत् केशमात्रान तीतको मध्याह्नकालशब्देनाभिधीयते । विगतः स ईदृग्विधः कालो यस्यापराह्णादेः स विकालः । तस्मिन् काले ऽशनं भोजनं । तस्माद्विकालाशनादित्यर्थः । तथेति । तथाशब्देन यो विरतः इति संबध्यते । रुक्मरूप्यग्रहाच्चेति । रुक्मं सुवर्ण, रूप्यं रजतं, तयोर्ग्रहणं रूक्मरूप्यग्रहण । अतः तस्माज्जातरूपपरजतप्रतिग्रहणादिति यावत् । एषः श्रामणेरो मुनेर्मत इति । यः प्राणातिपा[ता]द्विरतः यावज्जातरूपरज तपरिग्रहात् स एषः श्रामणेरो (स्श् 9) मुनेर्मतः । बुद्धस्य भगवत इष्टो ऽभिप्रेत इति यावत् । यद्यपि सर्वे बुद्धा भगवन्तः कायवाक्चित्तमौनतो मुनिरिति सामान्यवाचिना मुनिशब्देनाभिधीयन्ते, तथापि भगवतः शाक्यमुनेर्ग्रहणं वेदितव्यं । तत् शासनप्रतिपन्नत्वादस्मदादीनां अन्यदीयशासनान्तर्धानाच्च । श्लोकबन्धवैगुण्यात् शाक्यमुनेर्मत इति नोक्तं । शाक्यशब्दलोपं वा कृत्वा इदं निर्दिष्टं मु नर्मत इति । यथा सत्यभामाभामेति । संक्षेपतस्तदुक्तं भवति- रत्नत्रये शरणं गत्वा पञ्चशिक्षापदानि परिगृह्यबुद्ध भगवन्तं प्रव्रजितमनुप्रव्रजामीति वाचमुच्चार्य प्राणातिपाताद्विरतो यावत् जातरूपरजतपरिग्रहाच्च स एष श्रामणेरो मुनेर्मतः । अभिप्रेत इति । आह चात्र-

पूर्वं त्रिशरण दत्वा पञ्चशिक्षापदा[नि] च । केशानपनयेत् पश्चात् स्नापयेच्च व्रतार्थिनं ॥

काषायमंशुकं दद्यात् अनुप्रव्राजयेत्ततः । दशशिक्षापदानीति प्राहुर्विनयवेदिनः ॥

इदानीं श्रामणेरभावोपायः निर्दिश्यते । एषां श्रामणेराणामाचारसंग्रहमारभते । सकलेन शरीरेणेत्यादि । तत्र शीर्यन्ते ऽस्मिन्नङ्गानीति शरीरं । तच्च कश्चित् प्रदेशो ऽपि संभवति इत्यतः सकलग्रहणं । तेन सकलेन शरीरेण सर्वेण प्रकारेण कायेनेत्यर्थः । शरीरान्यतरेण वेति । हस्तपादमस्तकादिसमुदायस्यान्यतरेण हस्तादिनेत्यर्थः । शरीरावयवेन हस्तपादादिना गृहीतं शरीरप्रतिबद्धं । शरीरव्यतिरिक्तेन लतालगुडेनेत्यर्थः । न हन्यान्न मारयेत् । कमित्याह । प्राणिनं । प्राणोनाम वायुः, सो ऽस्यास्तीति प्राणी । स च किं विशिष्ट एव? पञ्चशाखादि निर्वृत्तः परिगृहयते । अतः कललादिशातने संवरत्यागो न भवति । प्राणिशब्देन च मनुष्यगतिपर्यायः एव गृहयते न प्राणिमात्रं, सजन्तुकसलिलादिपरिभोगे दुष्कृतवचनात् । जातिवाची वायं शब्दः । तेन स्त्रीपुरुषपण्डकं पञ्चशाखादि[निर्]वृत्तं मारयतः स्यादेव संवरत्यागः । अनेन श्लोकेन कायिको विक्रमः प्रतिषिद्धो भवति ॥

वाचिकविक्रमप्रतिषेधपदमाह । मृत्योर्वर्णमित्यादि । मृत्युर्जीवितेन्द्रियनिरोधः । तस्य वर्णः प्रशंसा, तं न भाषेत । न वदेदित्यर्थः । कृतपुण्यो भवान्, उद्यानयात्रा तव परलोकगमनमिति श्रुत्वा कश्चिदात्मान हन्यात् । तदिदानीं अत्र दुष्कृतपूर्वकः संवरत्याग इति प्रतिषिध्यते । मृत्योर्वर्ण न भाषयेत्, शस्त्रहारं न चैषयेदिति । शस्त्रं हरति वहतीति वा शस्त्रहारो वध्यघातकः । तत्र पर्येषयेत् । वधकेन मारणाभिप्रायेण । चित्तेन मनसा । मारणाय मारणार्थं । न नियोजयेदिति ॥

पूर्वोक्तपर्यायव्यतिरेकै रन्यैरपि प्रयोगैर्मारयतः संवरत्यागो भवतीति प्रतिपादयन्नाह । विरेकवमनालेपेति विस्तरः । तत्र विरेकं ग्रस्तनं, वमनं छर्दनं । आलेपेन वर्णान्यथात्वे सति विनश्यति । विषं जातिमं कृत्रिमञ्च, शस्त्रं कुलिशादि । विरेकश्च वमनं चालेपनं चेत्यादि द्वन्द्वः । तेषामभिसंस्करणमभिसंस्कृतिः । तां न कुर्यात् । किमर्थ? प्राणिघाताय मनुष्यवधार्थं । न च गर्भस्य शा[त]नमिति । गर्भशातनं न कुर्यादित्यर्थः । केचित् गर्भशातननिमित्तं विरेकादिकं न कुर्यादिति निमित्तसप्तमीं वर्णयन्ति ॥

न केवलं अमुना प्रयोगेण मारयितुं न लभ्यते मरणनिमित्तमात्रमपि कर्तुं न सुलभ्यत इति प्रतिपादयन्नाह । निमित्तं न व्रती कुर्यादित्यादि । निमित्तं लिङ्गं न कुर्यात् । को न कुर्यादित्याह । व्रती । कैः? स्वप्नोलूकादिवाशितैः । स्वप्न इति पञ्च स्वप्नाः । स्वप्नालीकानन्ताचीर्णा सत्याख्यं स्वप्नपञ्चकमिति वचनात् । उलूकादीनां पक्षिणां, वाशितानि रुदितानि । स्वप्नाश्च उलूकादिवाशितानि चेत्यर्थः । तैः । आदिशब्देन नामगोत्रदानादीनां ग्रहणं । तच्च त्रिविधं धर्मामिषाभयभेदेन । आमिषदानमपि द्विविधं वाह्याध्यात्मिकभेदेन । दौःशीलं शीलविरतिः प्रकृतिसावद्यात् प्रज्ञप्तिसावद्यात् भगवता प्रतिषिद्धाद्विकालभोजनादेः दुःखतापोप शमनादप्रतिसारा दिना प्रह्लादित्वेन शीतलत्वाच्छीलं, सुखं शीलसमादानं कायो न परितप्यत इति गाथावचनात् । शीतीभावं निर्वाणक्रमेण लातीतिशीलं । फलानि चत्वारि स्रोतापत्तिफलं सकृदागामिफलं अनागामिफलं अर्हत्फलं । (स्श् 12) फलानामाप्तिर्लाभः । दानञ्च शीलञ्च फलाप्तिश्चेति दानशीलफलाप्त[य]ः । अतः ताभिरिति संबन्धः ।

वधकेनापि चित्तेन भ्रान्त्या मारयतः संवरत्यागो न भवती ति दर्शयन्नाह । मध्यपश्चात्पुरोगेष्विति विस्तरः । मध्ये पश्चात् पुरो गच्छन्तीति मध्यपश्चात्पुरोगाः । अतस्तेषु मध्यपश्चात्पुरोगेषु मनुष्येषु गच्छत्सु यत्रैव वधकं मनः यस्मिन्नेव पुरुषे वधकचित्तं तमेव पुरुषं ध्नतो मारयतः । अस्येति श्रामणेरस्य । हिंसा प्राणिवधः । नान्यं तस्मात्पुरुषादन्यं पुरुषं भ्रान्त्या मारयतः अस्य हिंसा न भवतीत्यर्थः । क एवमाह । इत्यतो ब्रवीति । आह सर्ववित् । सर्वं वेत्तीति सर्ववित्, भगवान् बुद्धः । स एवमाहेत्यनेनाप्तागमं दर्शयति ॥

अन्यदपि प्रयोगान्तरं न कार्यं मारणायेति दर्शयन्नाह । कूटेत्यादि । कूटमिति पाशं वर्णयन्ति । अवमार्थमिति पाशयन्त्रं । अवष्टम्भमिति यन्त्रमेव, येन सहसाक्रम्य हन्यात् । अवपयमिति अवपातं वर्णयन्ति । मन्त्रिभिः मन्त्रप्रभावेन मृतके पिशाचादिप्रवेशनं वेतालः । कूटादीनामभिसंस्करणमभिसंस्कृतिः । तामवपयञ्च किं न कुर्यात्? मारणाय शरीरिणां सत्त्वानां । अन्यथा तु न दोषः ।

कूटकं पाशमित्याहुः अवमार्थं पाशयन्त्रकं । अवपयमवपा तञ्च स्तम्भाख्यं यन्त्रमेव च ॥

इति संग्रहश्लोकः ॥

मृत्युहेतोः स्थानोपदेशमात्रमपि कर्तुं न लभ्यते इति दर्शयितुमाह । तस्करेत्यादि । तस्करः चौरः । अहिः सर्पः । सेना युद्धाय एकत्र सन्निपातः । शेषं सुगमं । चौरादिभ्यो भयं यत्र यस्मिन् मार्गे पथि भवति तस्य पन्थानं देहिनां प्राणिनां नाशाय विनाशार्थं यतिर्न कथयेत् ॥

विषमनदीप्रतारणमपि तर्तुं न कल्पयति तमिति दर्शयितुमाह । भुजगेत्यादि । भुजाभ्यां गच्छतीति भुजगः सपः । आवर्तो वेगी । भुजगश्चावर्तकश्चेति द्वन्द्वः । तेषां भयं । यत्र यस्या नद्याः तीर्थे भयं भवेत् तत्तीर्थं न प्रकाशयेत् ॥

किञ्च राज्ञा वा यत्र घात्यते तन्मार्गं न प्रकाशयेदिति दण्डादिदानप्रतिषेधोपायेन परं घातयितुं न क्षमत इति दर्शयितुमाह । किञ्चिद्भूपतय इत्यादि । भूः पृथ्वी, तां पालयतीति भपतिः राजा । भूपतये राज्ञे किञ्चिदपि मा दास्त्वं । किञ्चिदपि द्रव्यं मा दास्यसीत्यर्थः । वरं जीवितं त्यजेति । जीवितपरित्यागं वरं कुरु त्वमित्यर्थः । इत्येवं समुचितं प्रत्यायादानार्थ प्रतिबद्धस्य पुरुष स्यान्तिके ऽयुक्तं अयुक्तरूपं वचनं न वदेदित्येके । भदन्तपरहितघोषस्त्वाह । आ । समन्तात् सर्वत्र कार्ये नियुक्तः इत्यायुक्तः व्यापृतक उच्यते, तेनायुक्तेन बद्धः संरुद्ध यो ऽन्यः पुरुषः तस्मिन् बद्धायुक्ते पुरुषे इत्येवं न वदेत् । वरं म्रियस्व मा त्वं किञ्चित् द्रव्यं राज्ञे देहीति । अन्यथा हि यः सरुद्धो व्यापृतकः तस्मिन् बद्धायुक्त इत्येवं न वदेदित्यर्थः पूर्ववत् । अन्यथा वरं म्रियस्व मा त्वं किञ्चिदयुक्ताय देहि इत्युक्तं स्यात् । न भूपतय इति नियुक्तैर्नान्यस्य पुरुषस्य बद्धत्वात् ॥

सभयं लयनं वधकचित्तेनोपदेष्टुं न कल्पत इति दर्शयन्नाह । भुजगेत्यादि । अत्र विहारशब्देन लयनमेवोच्यते विहरन्त्यस्मिन्निति कृत्वा । तेनायं वाक्यार्थो जायते । (स्श् 14) यस्मिन् लयने सर्पादिभयं भवति तद्वधकाभि प्रायेणागन्तुकायभिक्षवे नोद्दिशेत् । य उद्दिशति तस्य दुष्कृतं भवति असति मरणे, मरणे तु संवरत्यागो भवति ॥

मर्जारादिव्यपदेशेनापि शत्रु मारयन्नयतिर्भवतीति प्रतिपादयितुमाह । व्याघ्रादिव्यपदेशेनेत्यादि । यः श्रामणेरः शठजातीयः व्याघ्रं हन्मीति व्यपदेशं कृत्वा शत्रुं हन्यात् स विहाराद् घट्टनीयः । आशु शीघ्रं । असौ चेल्लकैर्निर्द्वारणीयः । वैरिणि मृते सतीति बोद्धव्यं ॥

अधार्मिकक्रियाकारमपि प्रतिषेधयति तथा कार्यमित्यादिना । तथा कर्तव्यं यथा न जोवेदेकाप्यरिः शत्रुरिति । एवमरीन् शत्रून् । यतिः । अधर्म्या न क्रिया, अधार्मिकक्रियाकारो न कार्यः । संस्मृत्य क्रकचोपम इति । क्रकचेन करयन्त्रेण उपमा यस्मिन् मृते तदेवमुच्यते । तत्तु संस्मृत्य किं? अधार्मिकक्रियाकारो न कार्य इति संबन्धः ।

परप्रयोगेणापि मारयन्नयतिर्भवतीति दर्शयति । वधा इत्यादि । एको द्वौ त्रयो वापि ये श्रामणेरा वधीकृता मारणाभिप्रायतो । युगपदेककालं । तत् प्रयोग इति । घातयितुं । श्रामणेरस्य प्रयोगेण मनुष्यं मारयति, ते विहारान्नाशयितव्याः ॥

एभिरङ्गैर्मनुष्यवधो भवतीति दर्शयन् परांश्चोदयन्नाह । उपक्रम इत्यादि । तत्र शस्त्रादिग्रहणमुपक्रमः । मनुष्यो ऽयमिति संज्ञा नृसंज्ञा । कदाचिदुपक्रमं करोति नृसंज्ञानवति न त्वसौ मनुष्य इत्याह । नर इति । यद्यसौ मनुष्यो भवति । कदाचिदेतानि त्रीण्यङ्गानि संभवन्ति, न वधकचेतनेति । अतो वधकचेतनावचनं । कदाचिदुपक्रमः प्रज्ञायते, नृसंज्ञा वधकचे[त]नावान् च नरो भवते, न तु जीविताद्व्यपरोपयतीति । अत आह । जीवितस्य क्षयश्चेति । तदुपक्रम इत्येकमङ्गं, नृसंज्ञा चेति द्वितीयमङ्गं, नर इति तृतीयमङ्गं, वधकचेतनेति चतुर्थमङ्गं, जीवितक्षयश्चेति पञ्च[मम]ङ्गं इत्येतानि पञ्चाङ्गानि नृघातने मनुष्यवधे वेदितव्यानि । केचित्तु मन्दधियः प्राहुः । नरे वधकचेतनेति सप्तम्यन्तं पठन्ति । तेषां पञ्चाङ्गानि न सिद्ध्यन्ति नरे वधकचेतनेत्यस्य पदस्यैकाङ्गत्वात् । विनयश्च तैर्विलोपितो भवति । एष हि विनये निर्देशः । प्राणी च भवति, प्राणिसंज्ञी च भवति, वधकचित्तञ्च प्रत्युपस्थितं भवति, उपक्रमञ्च करोति, जीविता द्रव्यपरोपितो भवति इयता प्राणातिपाती भवति । अत्र च प्राणी भवति इत्यादि सर्वः प्रथमान्तो निर्देशः । तथा कारिकान्तरेणापि उपक्रम इति नृसंज्ञावधकचेतनेति प्रथमान्तनिर्देशः कृतः । तस्मात् प्रथमान्त एव निर्देशः अवगन्तव्यः ॥

विषशस्त्रादिप्रयोगेणापि मारयितुं न निर्दिश्यत इति दर्शयन्नाह । श्रामणेरेत्यादि । यद्विषशस्त्रादि यतिना प्रयुक्तं नरस्य नाशाय, यदि तेनैव प्रयोगेण नरो म्रियते तदासौ प्रयोक्तासंवरी संवराद्भ्रश्यते । अथान्यदीयेन तदा नेति अनेनास्यापत्तिर्भवतीति कथयति ॥

अवक्रीतादिरित्यादि । एष यतिः केनचिदवक्रीतो भवति । यो भृतको वा स विनयानभिज्ञत्वात्, विनयज्ञो ऽपि चानुस्मरणात् । आदिशब्देन द्वेषाभिभवात् । अवक्रीतादेः संवरत्यागो [न] भवतीति मत्वा नरं मारयेत् । मारयन् संवरक्षोभलाभी भवति । नोन्मत्तादिकः । उन्मत्तविक्षिप्तचेतसस्तु श्रामणेरा मारयन्तो न दौः शील्यभाजो भवन्ति स्मृतेरभावात् ।

सत्त्वपीडाक्रियायाः कारणमाह । कायेत्यादिना । कं रुणद्धीति करुणा । तस्यां भवाः कारुणिकाः । तथा हि परदुःखदुःखिनो बुद्धा भगवन्तः, तैः कारुणिकैः मैत्रं कायकर्म मैत्रं वाक्कर्म मैत्रं मनः कर्म प्राणिषु सत्त्वेषु सर्वदा सर्वस्मिन् काले कर्तव्यं यतिना श्रामणेरेणेति । एवमुक्तमभिहितं । यस्मात् यतः कारणात् । अस्मादनन्तरोक्ताद्धेतोः किमित्याह । न सत्त्वान् पीडयेदिति श्लोकः । सत्त्वानां पीडां न कुर्यात् । कैरित्याह । दारुरज्ज्वयश्चर्मबन्धनैः । तत्र दारु काष्ठं । रज्जु गुणमयी क्रिया । अयो लोहः । चर्म वदध्री । तेषां बन्धनानि अतस्तैः । अनलो ऽग्निः । जलञ्चानलश्च जलानलौ । तत्र निमज्जज्जलं जलानलप्रवेशः । अनु त्यक्तंतस्य त्यजनं अनुत्यागः । आदिशब्देन विषभक्षणादिकं ग्राहयति । जलानलप्रवेशश्चानुत्यागश्चेति द्वन्द्वः । तस्मिन्न नियोजयेत् ॥

कृमिगोरूपेत्यादि । कृमिगीरूपादीनां विहिंसनं मिथ्याजीवश्च कर्षणे सति यस्मात् कारणात् भवति तस्माद्धेतोः कर्षण दूरादेव त्यजेत् ॥

नाङ्कयेदोमहिष्यादि । गोमहिष्यादिर्नाङ्कयितव्यो, न चास्य गोमहिष्यादेर्नासिकां वेधयेत्, न च वेत्रादिना ताडयेत् ॥

उद्दिश्येत्यादि । श्रामणेरमुद्दिश्य मत्स्यादिकं जीविताद्व्यपरोपयेत् । व्यपरोप्य तस्य मांसेन यद्व्यञ्जनं कृतं तत् भक्षयतो यतेः श्रामणेरस्य यस्मान्निघृणं निष्कृपं चित्तं जायते । अतः कदाचित् उद्दिश्य कृतं भक्षयन् लोभानलेनापूर्यमाणः प्राणिवधमपि कुर्यात् इति हिंसा यस्य संभाव्यते । तस्मादुद्दिश्य कृतं न भक्षणीयमित्यभिप्रायः ॥

तदुद्दिश्य कृतं कथं बोद्धव्यमित्याह । ज्ञेयं तु त्रिभिराकारैरित्यादि । अभ्रान्तिमता निरीक्षितेन श्रुतेन शङ्कितेन वा तदुद्दिश्य कृतं बोद्धव्यं । एषामेव पदानां लक्षणं चिकीर्षुराह । ईक्षितं यत् स्वयं दृष्टमित्यादि । आत्मनायद्दृष्टं तदीक्षितमुच्यते । प्रत्यायितेनाविसंवादकेन तु यदुक्तं तत् श्रुतमुच्यते ॥

आशङ्कामधिकृत्याह । गृहाबद्धेत्यादि । गृहाबद्धा ये पक्षिमृगशूकरादयः तेषां यत् पक्षशृङ्गादि [तद्]दर्शनात्- किमेते मृगपक्षिशूकरादयो ममोद्दिश्य हता न वेति आशङ्का उत्पद्यते । सत्यामाशङ्कायां दानपतिः प्रष्टव्यः- किमेते ममोद्दिश्य हता न वेति । पृष्टो दातेत्यादि । यदिदं दानपतिः पृष्टः सन्नेवं वदेत्- त्वन्निमित्तं तवार्थे ऽमी मृगादयो हता इति । एवं सति तस्मिन् गृहे न भुञ्जीत । उद्दिश्य कृतत्वात्तस्येति भावः । विरतः प्राणिनां वधादित्यनेन गृहीतशिक्षस्यायं प्रतिषेधो नेतरस्येति दर्शयति । श्येनकादिहता वेत्यादि । अथ स दानपतिरेवं (स्श् 18) कुर्यात् । श्येनकादिभिरमी हता मृताः पक्षिणो हताः । शालियवमुद्भक्षणाद्वा मृताः । मातापित्रोर्यज्ञस्य कृते हता इत्येवं सति दोषास्ति नाश्नतां । एवं दातरि ब्रुवाणे सति भुञ्जानानां न कश्चिद्दोषो भवतीत्यर्थः ॥

एकं श्रीघनमुद्दिश्येत्यादि । यद्येकं श्रामणेरमारभ्य कृतं मत्स्यादिकं मासं व्यञ्जनं तदन्येषामपि श्रामणेराणां यतीनां भोगाय न कल्पते । भिक्षुभिक्षुण्योपासकोपासिकानां समुद्दिश्य कृतञ्च यत्तदपि परिभोगाय न कल्पते ।

नादेयादि जलमित्यादि । नद्याम्भवं नादेयं । किं तत्? जलं । आदिशब्देन ताडागादीनां ग्रहणं । कीदृशं? सजन्तुकं सप्राणकं । तत् सप्राणकमिति जानन्नपि न पिबेत् । को न पिबेदित्याह । व्रती । जानन्निति वचनात् । अज्ञाने न दोषः । नात्र जन्तुशब्देन मत्स्यादयः परिगृह्यन्ते तेषां विवेचनक्षमत्वात् । किन्तु जन्तवो ऽत्र मताः सूक्ष्माः । जन्तवः प्राणिनः । सूक्ष्माः अदृश्याः । अत्रास्मिन् शिक्षापदेमताः अभिप्रेताः । यथा कतम इत्याह । त्रसिकोर्मिङ्करादयः । उर्मिकर इत्येवमादय इति यावत् । अथ किमर्थमियं कारिका पृथक् व्यवस्थाप्यते? यावता वृक्षसेकगुरुस्नानं कुर्यान्नाशुद्धवारिणा इत्यस्यां कारिकायां सप्राणकेन वृक्षसेकादिप्रतिषेधादयमपि कार्यो ऽवगत एव । यत्र हि सेकः प्रतिषिध्यते सुतरां तत्र पानप्रतिषेधः । सत्यमेतदनुसङ्गतो न मुख्यतः । न अत्र मुखाकारेण मारणाभिप्रायो ऽस्ति पातुकामतायाः प्राधान्यात् । अतः पृथगेव स्थापिता इयं कारिका । किञ्चार्थोत्पत्तिवशान्न (स्श् 19) लिखितेत्यदोषः अर्थोत्पत्तिप्रभावत्वाद्विनयस्येति कृत्वा ।

वारीत्यादि । जलं पावयितुं धर्मकरङ्कं खल्लकसहितं स्थापयेत् । अन्तशो ऽगत्या कोशो ऽप्यधिष्ठेय इति अधिष्ठातव्य इत्यर्थः । कस्य कोशो ऽधिष्ठातव्यः इत्याह । सुवाससः । सत्पटस्येत्यर्थः । किमर्थ? विघातपरिहारार्थ । दुष्कृतपरिहारं चेत्यध्याहार्यं ॥

दिव्यनेत्रेत्यादि । दिवि भवं दिव्यं । किं तत्? नेत्रं चक्षुः । दिव्ये नेत्रे यस्य स दिव्यनेत्रः । अन्धः चक्षुरिन्द्रियरहितः । दिव्यनेत्रस्यान्धस्य श्रामणेरस्य नेष्टं नाभिहितं । किं तन्नेष्टमित्याह । जलप्रत्यवेक्षणं । युक्तं तावत् अन्धस्य जलप्रत्यवेक्षणप्रतिषेधः सामर्थ्याभावात् । अथ दिव्यनेत्रस्य कस्मात् प्रतिषेधः? स हि पृथिव्याश्रितानपि प्राणकान् सूक्ष्मान्तरकारूपिकान् पश्यति । अत आह शङ्कापरिहारार्थदिव्यचक्षुषः प्रतिषेधः । भदन्तः प्रज्ञासिंह आह- दिव्यचक्षुषः कुमतय इत्युच्यन्ते । तथाविधरूपत्वात् । पृथग्जनानां प्रत्यवेक्षणं न स्यात् । अतः प्रतिषेधकरणमिति । ननु चान्धस्य जलप्रत्यवेक्षा सामर्थ्याभावादेव न भविष्यति, किमनेन प्रतिषेधेन प्रयोजनं? प्रसन्नाक्षस्य दर्शनसंभवात् प्रतिषेधमिति विनयविदो वर्णयन्ति ॥

केन तर्हि जलं प्रत्यवेक्षणीयमित्याह । हस्तेत्यादि । हस्तस्याङ्गुष्ठाग्रे आवर्ता सूक्ष्मरेखा तां द्रष्टुं शीलं यस्य स [त]थोक्तः, तस्य न निवार्यते । अनिवार्यमिति यावत् । अनेनैव तिमिरिकाणां प्रतिषे[ध]यन्ति ॥

तेन हस्तपश्चिमकावर्तदर्शिना कियन्तं कालं प्रत्यवेक्षणीयमिति आह । (स्श् 20) लोचनस्येत्यादि । लोचनस्याक्ष्णोर्विभ्रमो मा भूदिति कृत्वा चिरं बहुकालं न [प]श्येत् न निरीक्षयेत् । नेति प्रतिषेधः । तदिति जलं । चिरप्रतिषेधादेव प्रत्यवेक्षणी[यं] इत्याह । कल्पमात्रं न वै कुर्यादित्यादि । माया परवञ्चना । शाठयञ्चित्तकौटिल्यं येन तथाभूतं नाविष्करोति अस्फुटं प्रतिपद्य । माया च शाठयञ्च मायाशाठये । अतः ताभ्यां समन्वितः । संकल्पमात्रकरणाय नास्यैवं प्रत्यवेक्षणीयं । कालनियमस्तर्हि कर्तव्यः इत्याह । येनान्तरेणेत्यादि । यावत् कालान्तरेण षष्ट्यब्दः षष्टिवर्षः कुञ्जरो हस्ती परिभ्रम्यते । शकटं वा वंशपूर्णं यावता कालेन कालान्तरेण भ्रमति, स ईदृग्विधकाल इत्यर्थः । सलिलेक्षणे जलप्रत्यवेक्षणे वेदितव्यः ॥

ऊर्ध्वेत्यादि । ऊर्ध्वा च अधरा च मध्यमा च ऊर्ध्वाधोमध्यमाः । तिस्त्रः किं? भूमयः । कस्य? सलिलस्य । शुद्धिमायाति या या भूरिति । आसां तिसृणामपि भूमीनां मध्ये या या भूः शुद्धिमायाति निः प्राणका भवति, कार्यं कुर्यात्तया । तया भूम्येति संबन्धः ॥

यत्र इत्यादि । यस्यां नद्यां पुष्करिण्यां वा, स्थूला महान्तः प्राणका करतलहताः हस्तेन हताः सन्तः अधः स्थलं यान्ति तत्र जलं ग्रहीतव्यं, न चेत् स्रावयितव्यमिति । चेच्छब्दो यद्यर्थे । यदि करतलाहताः सन्तः प्राणिनो ऽधो [न] यान्ति तदा स्रावयितव्यं तदुदकं । कया? पञ्चाङ्गुलिकया । पञ्चभिरङ्गुलीभिः इत्यर्थः । भवेयुरु[द]कमित्यादि । यस्मिन्नुदके प्राणिनः करे लग्ना उत्तिष्ठन्ति न तत्र पाणिपादास्यवस्त्रादिकं क्षालयेद्यतिरिति । आस्यं मुखं । सुगमत्वान्न विभक्तं ॥

कुले इत्यादि ॥ कुले यः श्रामणेरः भोजनाय निमन्त्रितः, तेन तत्र गत्वा प्रष्टव्यं- किमत्र जलं स्रावितं न वेति । नेति चेत्, संज्ञिको (स्श् 21) वाच्यः- स्रावयेति । यदि पृष्टः सन् दानपतिः ब्रवीति न स्रावितमिति, तदा संज्ञिको वाच्यः । संज्ञास्यास्तीति संज्ञिकः, स विशिष्ट एव गृह्यते । यः स्रावणाय कुशलः स वक्तव्यः । किमिति । एतत्सप्राणकं जलं स्रावयेति । इतरो न तु । यः स्थ[वि]रतरः परिस्रावयितुं न जानाति, स स्रावयेति न वक्तव्यः । यः वक्ति, तस्य दुष्कृतं स्यात् ।

यदि तथैको ऽपि स्रावणाय कुशलो न भवति, तदा किं कर्तव्यं इत्याह । किन्तु स्नाव्यमिति विस्तरः । स्राव्यात् परिस्रावणात् । सजन्तुकजलमात्मीयपात्रे मुक्त्वा कुतः पुनरेतदुदकमानीतमिति पृष्टं यतः पुष्करिण्यादेरानीतं तत्रैव मुञ्चेत्स्वयमिति । मा भूदन्यत्र क्षारं नीरमुपघातकृतं प्राणिनामिति तत्रैवेत्याह । सप्ताहं वेत्यादि । अथवा यत्र सप्त दिवसान् पानीयमवतिष्ठति तत्र तत् सप्राणकमुदकं मोक्तव्यं । अथवा विहारे कटाहादौ तत्र स्थापयेत् । कीदृग्विध इत्याह । तदशुष्यति । तत् पानीयं तत्र शोषं नोपैति । तस्मिन्नशुष्यति कटाहादौ स्थापयेत् । केचित्तदशुष्यति तत्र पानीयाशोषणं निमित्तमिति निमित्तसप्तमीं वर्णयन्ति । प्रवृष्टेत्यादि । अथवा सुतरां देवे वृष्टे । कीदृशे? स्वच्छनीरौघवाहिनि । स्वच्छमनाविलं, नीरौघं जलौघं वोढुं शीलं यस्येति भावः । स्वच्छनीरौघवाही । तस्मिन्नीदृग्विधे वृष्टे सति तानि [स]प्राणकानि जलानि निम्नगानां पतिं महासमुद्रपातङ्गच्छतेति उक्त्वा विसर्जयेत् । अथैतत् सर्व न भवति । दूरगतोदकमुदकपानमस्ति । तदा तत् सप्राणकं जलं किं कर्तव्यमित्याह । सुदीर्घैत्यादि । दीर्घातिप्रमाणतलिकाधोभागः । वक्त्रं मुखं दीर्घं यस्या रज्जुद्वयेन च (स्श् 22) बद्धा घटिका सा एवमुच्यते । तया दूरगताध्वगेन उदके कूपे अधस्तात्तदुदकं मुञ्चेत् ॥

अध्वगेन कथं जले प्रतिपत्तव्यं इत्याह । घटिकात्रितयमिति । तिस्रो घटिकाः प्रत्यवेक्ष्य मार्गगेण उदपानतः कूपात् जलं पातव्यं । किं परिशुद्धास्वपि? नेत्याह । किं तर्हि सर्वास्ताः परिशुद्धाश्चेत् पेयं? चेच्छब्दो यद्यर्थे । यदि तास्तिस्रो घटिकाः परिशुद्धा भवन्ति, प्रत्यवेक्षमाणास्तदानेन मार्गगेण पातव्यं । तत् स्राव्यमन्यथेति । कथमन्यथा? यदि तास्तिस्रो घटिका न शुध्यन्ति, तदा सजन्तुकं जलं स्रावयितव्यमिति । घटिकात्रितयं वीक्ष्येति । घटिका त्रितयस्थमुदकं । स्तोकस्तोकेन सलिलं प्रत्यवेक्ष्येत्येके । सकृदेक एव । एकैकस्याः स्तोकस्तोकं प्रत्यवेक्ष्येत्यपरे । एतदेव तु युज्यते, यतोप्यूर्ध्वाधोमध्यमास्तिस्रः सलिलस्यापि भूमयः इति कारिकायां स्तोकं प्रत्यवेक्षितव्यमिति युक्तं न च तत्र सर्वं शिक्षापदञ्चेदं, नादेयादि जलं जानन्निति वचनात् । तस्मात् घटिकापि स्तोकमेव प्रत्यवेक्षितुमनुज्ञायते । तद्वदिहापि । अथ तमशक्यत्वात् तत्र स्तोकं । इह तु शक्यत्वात् सर्वमिति । एवं तर्ह्यशक्यत्वात् तत्राप्रत्यवेक्षणमेवास्तु । अथाशक्यं स्तोकेन चित्तविशुद्धिर्विधीयते, शक्ये ऽपि कस्मान्नैवं सर्वं शिक्षापदं चेदं, नादेयादिजलं जानन्निति वचनात् । तस्मात् पृष्टे ऽपि स्तोकमेव प्रत्यवेक्षणीयं । घटिपञ्चघटिकां वीक्ष्येति केचित् पठन्ति । तेषामन्यार्थत्वात् पाठो नाभ्युपेयः । अमुत्र तु विधिः ।

अध्वगव्यतिरेकेण घटिकास्तु षट् पञ्च वा । प्रत्यवेक्ष्योपभोक्तव्याः अन्यथा दुष्कृती भवेत् ॥

न रज्जुघटिकेत्यादि । रज्जुश्च घटिका च रज्जुघटिके तयो र्दानं परित्यागः । तन्न शस्तं नाभिमतं । कुत्रेत्याह । सप्राणके जले । सह प्राणकेन वर्तत इति सप्राणकं जलं, तस्मिन् । किं तदेव न शस्तं? नेत्याह । किं तर्हि? पिबेति वक्तुमित्यादि । तत्सप्राणकमुदकं परस्मै पिबेति वक्तुं दातुं वा न जातु कदाचित् यतिः क्षमते । यथा यतिनानन्तरनिर्दिष्टमेतत् न कार्यं । किं तेन सप्राणकमिदं तडागादि इत्यपि न वक्तव्यमित्याह । सजन्तुकमित्यादि । इयं पुष्करिणी सरित्तडागादि सप्राणकमिति परेषामुच्चैः शब्दैर्न वदेत् । अथ यदि कश्चित् पृच्छति, किमिदं, प्रतिवचनं दद्यात्, सप्राणकमिति, तडागादि । तदा कुरु कार्यं न वेति समीक्ष्येति । पृष्टः प्रतिवदेत् परान् प्रत्यवेक्ष्य जल कृत्यं कुरु । इत्येवं सति पृष्टः सन् परं यतिर्वदेत् । न तु सप्राणकमिति वदेदित्यर्थः । लोकावध्यानपरिहारार्थमि[ति] भावः । यथा च परेषामेवं न वक्तव्यं । किमेवमुपाध्यायाचार्याणामपि? नेत्याह । किं तर्हि उपाध्याय इत्यादि । सप्राणकमिदं तडागादि न वेति स्फुटं वक्तव्यं । स्वकीयाणामुपाध्यायाचार्याणां वक्तव्यं न शाठ्यं कर्तव्यं ।

एवं तर्ह्यात्मनः सप्राणकजलपानप्रतिषेधात् परेषाञ्च दानप्रतिषेधात् वृक्षादीनामचेतनानां सप्राणकेनोदकेन सेकान्नदानं न निरुध्यते । बाह्यपरिभोग्याश्चेत् तदाशङ्कां निवृत्यर्थमाह । वृक्षसेकमित्यादि । अपरिशुद्धेन जलेन वृक्षसेको न दातव्यः । (स्श् 24) उपाध्यायाचार्याणामपि स्नानं न कार्यमिति अनेन बाह्यभोगो निवारितः ॥

किं पुनर्जलमेव सप्राणकमोकृतं दात्रं वक्रं न कुर्यात्, आहोस्विदन्यदपि? अन्यदपीत्याह । मस्तुकाञ्जिक इति विस्तरः । मस्तुशब्देन दधिमस्तूच्यते । काञ्जिको धान्याम्बुरित्येको ऽर्थः । सौवीरं बहुभिरौषधिद्रव्यैः क्रियते अम्बुविशेषैः । मण्डो ऽन्नविकारः । दण्डाहतं मथितं । तदेवमादिकं सप्राणकं यतिर्न पिबेत्, न परस्मै दद्यात्, भुवि पृथिव्यां न त्यजेत् ।

समत्कुण इत्यादि । सह मत्कुणैर्वत्तते यच्छयनं तदातपे न शोष यत् । हिमे कर्दमे शोतवारिणि उष्णवारिणि वा [न] क्षिपेत् । अनेन सत्त्वपीडाकरणमात्रमपि प्रतिषेधयति ॥

नवकर्मेत्यादि । चैत्यारामविहारादीनां नवकर्म सजन्तुकेनोदकेन न यतिः कुर्यात् । सामर्थ्यात् स्रावयित्वा कार्यमित्युक्तं भवति । स्रावयित्वा तदुदकं दिनान्तं न सकलं दिवसं त्रिकोणकं खल्लकं धार्यं धारयितव्यमित्यर्थः । किन्तु कालेन कालं परिस्रावणं मोक्तव्यं प्राणकानां पीडापरिहारार्थं दुष्कृतपरिहारार्थञ्चेति ॥

अथ परेण स्रावयता कथं प्रतिपत्तव्यमित्याह । भृतकं शिक्षयेदेवमित्यादि । यतिः कर्मकरमेवं शिक्षयेत् । किमिति । वधान त्वं त्रिकोणकमिति । भृतक, खल्लकं बन्ध, कूपादेवमुदकमुत्क्षिप्य एवं स्रावय, एवं विमोचय खल्लकमिति ॥

यदि स्राव्यमाणमपि तदुदकं सप्राणकं भवति, तदा किं कर्तव्यमित्याह । (स्श् 25) त्रिकोणसप्तकेनेत्यादि । यद्येकपुटखल्लकेन स्राव्यमाणं तदुदकं न शुध्यति, तदा यावत्सप्तपुटके[न] खल्लकेन स्राव्यं तदम्भः पानीयं । अथैवमपि न शुध्यति, तदा प्रतिकूपिका कार्या । यदि सा न शुध्येत, तदा नवकर्म त्यक्त्वा देशान्तरं गन्तव्य । तस्मात् प्रदेशादन्यस्मिन् प्रदेशे गन्तव्यमिति यावत् ।

कदा तर्हि नवकर्म कारयितव्यमित्याह । अभूत्वा संभवन्तीति विस्तरः । एते हि कुणरूपिणः प्राणकाः अभूत्वा संभवन्ति, भूत्वा च पश्चाद्विनश्यन्ति । यदा तावदमी प्राणका भूत्वा भवान्तरं जन्मान्तरं यान्ति, तदा नवकर्म कारयितव्यं । केन? यथोक्त विधिकारिणा । यथोक्तमाचारविधिं कर्तुं शीलमस्येति यथोक्तविधिकारी । तेनेति संबन्धः ॥

सत्पटेत्यादि । शोभनः पटः सत्पटः । तेनाबद्धं यन्मञ्चपीठसंस्थानं धारणपात्रकं, तस्मात् । कीदृशात्? उच्छीदञ्चतुराङ्गुलात् । उच्छीदन्ति उछ्रयेण चत्वार्यङ्गुलानि यस्य मञ्चादेः तस्मात् नद्यादौ सलिलं ग्रहीतव्यं । आलोक्य प्रत्यवेक्ष्य । नवकर्मणि नवकर्मनिमित्तं । एतदुक्तं भवति- नदीतडागादिषु मञ्चपीठसंस्थानं धारणपात्रं घनेन पटेनावेष्टय मध्ये तु उपलादिकं दत्वा उदके निमज्य चतुराङ्गुलमुच्छ्रितं कृत्वा तदन्तर्गतमुदकं प्रत्यवेक्ष्य जलकार्यं कार्यमिति ॥

छिद्रकर्णद्वयेत्यादि । छिद्रिते काष्ठमये कर्णद्वये आसक्तं बद्धं यत्सूत्रं, तच्छिद्रकर्णद्वयासक्तसूत्रं । तेन बद्धं द्विदण्डके दण्डकद्वये यद्धारणपात्रकं तत्तथोक्तं । (स्श् 26) तदीदृग्विधं धारणपात्रकं त्रिकोणकस्य खल्लकस्य बहिर्हेष्ठं दध्यात् ॥

कृपापरीतचित्तेनेति विस्तरः । कृपया करुणया परीतः समन्तात् इदं गृहीत चित्तं यस्य यतेः स तथोक्तः । तेन कृपावता श्रीघनेन स्वादु मृष्टं वारि पानीयं सजन्तुकं सप्राणकं क्षारेम्भसि क्षारीये जले न मोक्तव्यं नोत्स्रष्टव्यं । यस्तु निष्कृपो मुञ्चति तस्य दुष्कृतं भवति । अनापत्मृष्टसंज्ञिनः । यस्तु क्षारीये जले मृष्टसंज्ञी मृष्टाभिप्रायस्तस्य अनापत् । न आपदनापत् । दुष्कृतं न भवतीत्यर्थः ॥

तत्र सकलेन शरीरेणेत्यारभ्य यावदवक्रीतादिरित्येतैः कारिकान्तरैर्दुष्कृत पूर्वकः संवरत्याग उक्तः । शेषैस्तु दुष्कृतान्युदाहृतानि ।

नृकायं चेतनोपेतमत्रास्ते वधचेतनः । घातकवधविज्ञानः कथं नोज्झति संवरः ॥

इति प्रहेलिका ॥

स्फुटार्थायां श्रोघनाचारसंग्रहटीकायां प्राणिवधविरतिशिक्षापदं नाम प्रथमं समाप्तं ॥

उक्तं प्राणिवधविरतिशिक्षापदलक्षणं । अदत्तादानविरतिशिक्षापदमिदानीं वक्तव्यं । यतो यस्य कस्यचिद्वस्तुमात्रस्यापहारणादश्रामणेरत्वमिष्यते । अतो उच्चावचतां निर्दिशन्नाह । कालिकमित्यादि । कालशब्देनात्र प्रयुक्तं । मभ्यवहारपरिभोगे न क्षमते व्रतीति, कालिकमन्नपानादि । कालश्चात्र रात्रेः तृतीयो भागः । यावज्जीवमर्हतीति यावज्जीविकं पिप्पल्यादि । सकृत्परिगृहीतं सप्ताहं क्षमते श्री[घ]नस्य भिक्षोरिति साप्ताहिकं घृतादि । साप्ताहिकमिति वक्ष्यता सर्पिरादिकमित्युक्तं श्लोकबन्धानुगुण्यात् । परिहारमर्हति पारिहार्यं यतेश्चीवरादि, उद्वहनक्षममित्यर्थः । अनाधानीयस्येत्यादिना गुरुभूत त्वाद्गुरुद्रव्यं सांघिकमेव । अन्यद्गुरुद्रव्यं न भवति सांघिकस्यैव गुरुद्रव्यत्वेन विवक्षितत्वात् । स्प्रष्टुं क्षमते परिहर्तुञ्च, न तु पुनः पिन्वितुमिति । अतः कल्प्याकल्प्यं मुक्ताफलादि । स्प्रष्टुमप्यऽक्षमत्वादकल्पिकं सुवर्णादि । तदेवं कालिकं यावदकल्पिकं द्रव्यं नाददीत परस्वकमिति वक्ष्यते ॥

उक्ता अष्टौ परिष्काराः । षोडशमिदानीमुच्यन्ते । पृथिव्युदकेति विस्तरः । पृथिवी चोदकं चेत्यादि द्वन्द्वः । तत्र पृथिवीद्रव्यं सु[व]र्णाद्युत्पत्तिस्थानं । द्विपदद्रव्यं पुरुषादि । चतुष्पादद्रव्यं महिष्यादि । अपादकद्रव्यमुरगादि । पादपद्रव्यं पणशवृक्षादि । तदतं चेति पृथिव्यादिपादपपर्यन्तावस्थितमित्यर्थः । तत्र पृथिव्यादिपादपपर्यन्ता अष्टौ परिष्काराः । तदताश्चापरे ऽष्टाविति षोडश भवन्ति । (स्श् 28) च समुच्चय इति यथोक्तार्थप्रतिपादनार्थ । नाददीतेति न गृह्णीयात् । परस्वकमिति परद्रव्यं । एभिरष्टाभिः षोडशभिश्च द्रव्यैः सर्वद्रव्यसंग्रहः कृतो भवति । यदेवं षोडशभिरेव द्रव्यैः सर्वद्रव्यसंग्रहे सिद्धे किमर्थमष्टौ परिष्काराः पृथगुच्यन्ते कालिकादीनि? सत्यमेतत् । किन्तु तेभ्य एव षोडशेभ्यो द्रव्येभ्यो निष्कृष्य कालिकादित्वमसांकर्येण प्रतिपादनार्थमष्टौ परिष्काराः पृथङ्निर्दिश्यन्ते । अवश्यं च कालिकादिनिर्देशः कर्तव्यः । संमुखीभूतः वर्षोषितचातुर्दिशसंघानां यथायोगं भजमानत्वख्यापनार्थः । अतश्च पृथगष्टौ निर्दिष्टाः । एवं कुडयादौ षोडश परिष्कारा वक्तव्याः । यथोदष्टौ? सत्यमेतत् । किन्तु अष्टौ षोडशेति संख्यानुपौर्वविधानार्थमष्टौ पूर्वमुक्ताः । अयं संक्षेपार्थः । पृथिव्यादीनष्टौ परिष्कारान् नाददीत न गृह्णीयादिति ।

उक्ताः षोडशाष्टौ परिष्काराः । कियत्प्रमाण[म]स्य पुनः द्रव्यस्यापहरणात्संवरत्यागो भवतीत्याह । कार्षापणचतुर्भागमिति विस्तरः । कार्षापणशब्देनात्र एकोन्नविंशतिः कपर्दकपणाः परिगृह्यन्ते । तस्य यश्चतुर्थो भागः काकिनीन्यूनाः पञ्च माषकाः, तान् हरन् । अथवा तदर्घं तन्मूल्यं धनं शाटकादि[स्]तेयचित्तः चौर्याभिप्रायः श्रामणेरः हरन् स्थानात् च्यावयन् स्वीकुर्वन् अन्यैर्यतिभिर्लघु (स्श् 29) शीघ्रं नाशनीयो, गृहीत्वा निर्द्वारयितव्य इत्यर्थः ॥

उक्तं द्रव्यस्य प्रमाणं । कुतः पुनः स्थानात्तद्द्रव्यमपहरन्नश्रामणेरो भवतीत्याह । यदि वाटेति विस्तरः । चतुर्वाटान्तरावस्थिते हस्तिनि ह्रियमाणे यदि तत्र वृहद्द्वारा वाटा भवन्ति, तदा चतुर्भिः पादैश्च्युते गजे अयतिः भवति । अथ संवृता द्वारा, तदा निष्क्रान्ते सति द्विपहृत्स्यात् । द्वाभ्यां पिबतीति द्विपो हस्ती । तं हरतीति द्विपहृत्, हस्तिचौरो भवेदित्यर्थः । एवमनया कारिकया स्थानद्वयं प्रतिपादित विस्तीर्णद्वारे पादौ स्थानमित्येकं, संवृतद्वारे वाटेति द्वितीयं ॥

गुल्फेत्यादि । गुल्फं पादस्य पर्व । तत्राबद्धं यदिक्षुदण्डादि, तस्मिन् । कीदृग्विधे? दूराकृष्टे दूरनीते । तदुत्क्षिप्ते उद्धृते । कुतः? महीतलात् पृथिवीतः । किं संवरभङ्गः, संवरत्यागो भवतीति यावत् । पञ्जराद् गजवद्विजे इति । यथा वृहद्द्वारवाटायां गजस्य पादच्युतिमात्रेण संवरत्याग उक्तः स्वल्पद्वारायाञ्च निष्क्रान्ते सति, एवं पञ्जरे ऽपि वृहद्द्वारे पादच्युतिमात्रेण स्वल्पद्वारे निष्क्रान्ते पक्षिणि सति यतिः द्विजहृत्स्यादिति । अस्याञ्च कारिकायां स्थानचतुष्टयं निर्दिष्टं । गुल्फोपनिबन्धनं स्थानं, वृहद्द्वारे पञ्जरे पादौ स्थानं, स्वल्पद्वारे पञ्जरः, उभयापहरणे संयोगस्थानं ॥

देशादित्यादि । कश्चिद्यतिरितो देशादन्यद्देशान्तरं गच्छति, संदेशं कस्यचिन्नयति । तत्र यद्येकस्मादङ्गादन्यस्मिन्नङ्गे शिरसि वा तत्संदेशद्रविणं (स्श् 30) द्रव्यं सञ्चारयेत् स्तैन्यचित्तेन संवरधूतं समाप्नुते, अयतिर्भवतीत्यर्थः । तदेवमनया कारिकया शरीराङ्गानि स्थानमुक्तं ॥

मृतो ऽसौ यस्येत्यादि । यस्मिन् पुद्गलायणाधितमे द्रव्यममुकेन पुद्गलेनासौ मृत इत्येवं मन्यतान्यस्मादध्वगात् ब्रह्मचारिणः सकाशाच्छ्रत्वा सीमान्ते स्थातुं शीलं यस्य तस्मै भागमदत्वा गृह्णन् यतिरयतिर्भवेत्, अश्रामणेरो भवतीति यावत् । अत्रापि शरीराङ्गमेव स्थानं ॥

अथ मृतस्य श्रामणेरस्य तद्द्रव्यं तत्कस्य प्राप्नोतीत्याह । यद्वित्तमित्यादि ॥ मृतस्य यतेरथवार्हतः परिनिर्वृतस्य यद्द्रव्यं तत्सर्वमुपाध्यायस्य प्राप्नोतीत्येवं जगौमुनिः, भगवानाहेत्यर्थः ।

हर्तुरित्यादि । एते हस्तिनो विस्तीर्णप्रदेशे चरन्ति । तत्तु कश्चिद्व्रती हस्तिनं हरेत् । तत्र हर्तुरिष्टामभिप्रेतां दिशं यदि हस्ती यायात्, तस्मिन् हर्तुर्नेतुरभिप्रेतां दिशं याते हस्तिनि । व्रतिनश्च स्वकं रुद्धां सत्यां । करिणं हस्तिनं पातीति करिपो हस्त्यऽवरोहकः । तस्मिन् करिपे । कीदृग्विधे? हृतसंज्ञिनि । हृतो हस्ती ममेति संज्ञा यस्य तस्मिन् हृतसंज्ञिनि करिपे सति असौ हर्ता व्रती चौरः स्यादश्रामणेरो भवतीति । अनया कारिकया पादचतुष्टयं (स्श् 31) स्थानं । अनभिमता दिक्, उपचारः, परिपन्थि चित्तं चेति चत्वारि स्थानानि निर्दिष्टानि ॥

पूजाचीवरेत्यादि । पूजार्थ चीवरमाला पूजाचीवरमाला । तस्या अन्तद्वयं, तस्य मोचनं मुक्तिरपनयनं । तया अन्तद्वयं मुक्त्वा चीवरमालायाः । अवनौ पृथिव्यां या च्युतिः पातः अस्याः च्युतौ सत्यां भ्रश्यते । कुतः? संवरात् । संवरीति शेषः । बोधिवृक्षादपि अंशुकं वस्त्रं गृह्णन् अयतिर्भवति । अनेन श्लोकेन स्थानत्रयं प्रतिपादितं । उभयान्त[यो]र्बन्धः, मनसा परपरिग्रहो, वस्त्रं चेति । तत्र कीलकबद्धायां चीवरमालायां उभयान्तस्थानं । यदा अन्योन्यापरिज्ञानादुभौ चोरयतश्चीवरमालाया अन्तद्वयं मुञ्चतस्तदा परस्परपरिग्रहः स्थानं । खण्डच्छेदे तु तदेव वस्त्रं स्थानं ॥

क्षिप्तेत्यादि ॥ क्षिप्तानि प्रकीर्णानि मौक्तिकहारादीनि यस्मिन् महाकुले तदेवमुच्यते । तत्र गतो यतिः सहाये जाते सति तस्यैव सहायस्य हस्तायां प्रसेविकायां ततः कुलात् प्रकीर्णमौक्तिकहारादि गृहीत्वा न्यसति । तन्न्यस्तं तेनैव सहायेन हारयन् किं संवरच्युतिरिति वक्ष्यते । जटालेनेत्यादि । अथवा जटालेन लोमशेन शुना कुर्कुरेण तन्महाकुलात् तं मौक्तिकहारादिकं हारयन् उपलाप्य वत्सं तृणादिना गोकायपोतकं हरन् किं संवरच्युतिः? किं पुनः (स्श् 32) पादच्युतिमात्रेणैव संवरत्यागो भवति? नेत्याह । उपचारस्तैस्त्यक्तश्चेत् संवरच्युतिः । यदि तैः सहायकुर्कुरवत्सैरुपचारस्त्यक्तो भवेत्, तदा यतेः संवरत्यागो भवति । उपचारव्यतिक्रमश्चात्र दर्शनश्रवणव्यतिक्रमः ॥

रात्रावित्यादि । यतिः कश्चिन्निशि गोशकटाश्वादीन्बध्नाति । एतान् एते गावो हरिष्यन्तीति अत्र पूर्ववदादिशेत्, यदुत च्युतसंवरो भवतीति । तदेवमादिभिस्तिसृभिः कारिकाभिरुपचारश्चित्तं च शकटादिषु तत्संज्ञित्वं ममत्वलाभश्च स्थानमुक्तं ॥

ऋजुक इत्यादि । एष कश्चिद्यतिः हारमपहरति । तत्र यदि प्रगुणः कीलको भवति, कठिनञ्च बन्धनं भवति, तदा उत्क्षिप्यमाणमेव [ब]न्धनं कीलकस्थानं मुञ्चतीति निरनुबन्धस्थानाच्च्यावितमित्याह । उत्क्षेपणे च चौरः स्यादिति । अथ कुटिलः कीलको भवतीति बन्धनञ्च शिथिलं भवति, न तावत् अश्रामणेरो भवति । वक्रत्वेन कीलकस्य शिथिलत्वेन बन्धस्य कीलकस्थानानतिक्रमं दर्शयति । ततश्च निरनुबन्धस्थानात् च्यावितमिति नाश्रामणेरः । यदा तु सर्वेण सर्वं बन्धनमुक्तं भवति, तदा अयतिर्भवति ॥

छिद्रयित्वेत्यादि । घटस्य छिद्रं कृत्वा सर्पिर्घृतं, क्षौद्रं मधु, तैलं तिलतैलादि, जलं नादेयादि हरन् यतिर्यदि पूरार्प्यतङ्गतं भवेत्, धारा च विच्छिन्ना भवेत्तदा संवरक्षोभमाप्नुते, अयतिर्भवतीत्यर्थः । अविच्छिन्नायां तु धारायां यदि श्रामण्यापेक्षया निवर्तते, तदा न भवतीति विनयविदो वर्णयन्ति ।

वण्टयमाण इत्यादि । द्वयोर्भ्रात्रोः गृहे विभज्यमाने, लब्धुमिच्छा लिप्सालाभाभिलाषः, तया लिप्सया एकस्य भ्रातुर्भागात् यदि बालमात्रमपि भूमि हरेत् तदा क्षतसंवरी भवति । तदत्राशयः स्थानमुक्तं ।

अथ किं चौरगृहीतं पात्रादि त्यक्ताशयस्य शनैः पुनर्गृहीतुं लभ्यते? नेत्याह तस्करेत्यादि । तस्करेण चौरेण उपात्तं गृहीतं यत्पात्रादि तं निराशः सन् यतिः पुनर्भूयः आददत् गृह्णन् संवराद् भ्रश्यत इति । संवरणं सवरः । अकुशलश्रोतस आवरणं । ततो हीयते । इतरस्तु अन्यक्ताशः पुनर्गृह्णन् नापदं प्राप्नोति, अयतिर्नभवतीत्यर्थः । किं पुनस्तत्तस्करोपात्तं पात्रादि गोपालादिदत्तं गृहीतुं लभ्यते? तेमित्याह । मित्रेत्यादि । यदि तच्चौरगृहीतं पात्रं मित्रभावेन लब्धं भवेत् महता वा कार्पण्येन गोपालादिभिर्वा दत्तं स्यात्, तदा आददानस्य यतेर्नापत्तिरिष्यते, दुष्कृतमपि न भवतीत्यर्थः ॥

यदि चौराः पात्रचीवरं गृहीत्वा न ददते, तदा कथं प्रतिपत्तव्यमित्याह । भयेत्यादि । पात्रस्य चीवरस्य च मुक्तये तेषां चौराणां भयोपदर्शनं कार्य । यत्र तु राजनि तेषां मलिम्लुचां बन्धनादिकं भवति, तत्र गत्वा न वक्तव्य मेभिश्चौरैः वयं मुषिता इति ॥

निष्कासयसीत्यादि । एतौ यती क्रियाकारं कुर्वाणावन्योन्यं प्रयाजयतः । उपाध्यायाचार्याणां यत्पात्रचीवरं त्वं निष्कासयसि तदावयोस्तव च मम च । तदित्येवमुक्त्वा यद्येको ऽपि यतिस्तत्पात्रचीवरमपहरेत्, तदा द्वावपि तौ व्रतिनौ तस्करौ भवतः । स्वद्रव्येत्यादि । एतौ यती स्वद्रव्यं स्तैन्यचित्तेनापहरतः । तत्र उभयभागादेकस्य यतेः भागार्धेन एकोप्यऽयतिर्भवति, द्वितीयोपीतरपुद्गलनिष्कासितार्धेनेति ॥

अथ यदा बहवः श्रामणेराः संभूय काकिनीन्यूनान् पञ्च माषकानपहरेयुस्तदा किं ते संवरिणो भवन्त्युत नेति? असंवरिण एव भवन्त्येकाभिप्रायत्वात् (स्श् 34) सर्वे द्वारि स्थितचेल्लकवत् । दास्याम इत्यादि । एते यतय एकाभिप्राया महल्लकेन सह क्रियाकारं कुर्वत । महल्लक, समं तव भागं दास्यामः, केवलं द्वारे तिष्ठ वय चौरिकां करिष्याम इति । एवं प्रतिजाननास्य । उक्तं करोतीत्युक्तकृत् । तस्योक्तकृतो महल्लकस्य तुल्यापत्तिः । कैः सहेत्याह । चौरचेल्लकंः । सापि चौरो भवेदित्यर्थः ॥

उषित्वेत्यादि । कश्चिदागन्तुको यतिः उषित्वा, निवासं कल्पयित्वा पात्रचीवरं विस्मृत्य गच्छति । तस्मिन्नागन्तुके गते आगत्यागत्य यो यतिः तत्पात्रचीवर गापयेत्स चौरा भवति । एवमावासिकाः सर्वेत्यादि । अमुनानन्तरोक्तेन प्रयोगेण यदि सर्वे आवासिकास्तदागन्तुकस्य पात्रमप[ह]रेयुस्तदा सव क्षतसंवरा भवन्ति । यस्य तु तत्पात्रचीवरं, स यदि संस्मृत्य नयति न किल्विषी । किल्विषमुच्यते पापं । तदस्यास्ती[ति] किल्विषो । न किल्विषी अनापत्तिकः स्यादिति यावत् ।

अन्यस्येत्यादि । यः श्रामणेरः स्तेयचित्तेनान्यस्य यतेः पात्रमन्येन यतिना आनाययति, स दोषवान् भवति, अयतिर्भवतीत्यर्थः । यस्त्वानेता तस्यैवंविधा बुद्धिरेतत्पात्रं अस्यैवानाययितुर्यतेरित्येवं सति न दोषो, [अ]यं न दोषभाग् भवति स्तैन्यचित्ताभावात् । ये तु सहानीय यतिर्व्रतीति पठन्ति, तेषां विना सहशब्देन (स्श् 35) तृतीयर्यव सहार्थस्य द्यातितत्वात् सहशब्दग्रहणमतिरिच्यते । न वा सहार्थ इयं तृतीया कर्तरि विघानात् । यत्तदोश्च संबन्धित्वात् तच्छब्दप्रयोगो हीयते । तस्माद्य अनी[य] यतिर्व्रतीत्येव पाठः ।

यावत पूजेत्यादि । यावत् मुनेर्बुद्धस्य भगवतः पूजा क्रियते तावत् संघस्यापि पूजासत्कारः प्रवर्तते इत्येवं मत्वा यः सांघिकं लाभं स्तैन्यचित्तेन स्तूपाय ददाति, स्तौपिकं वा लाभं संघाय ददाति स क्षतसंवरो भवत्ययतिर्भवतीत्यर्थः । ननु च याः काश्चित्संपदः सर्वास्ता भगवन्तमागम्यति । योनिसोमनसिकारेण स्तैन्यचित्तासंभवः । नैतदस्ति । एतदेव हि विदारणं स्तैन्यचित्तस्योत्थापकं यथा कारुण्येन सलिलमपहरत इति । कुतस्तस्यादत्तादानं सिद्ध्यते?

किं पुनः सांघिकात्कोशात् स्तूपस्योद्धारकं गृहीतुं लभ्यते? नेमित्याह । लिखित्वेति विस्तरः । सवारिकैर्वा पक्षवारिके मासवारावारिकैर्वा सांघिकात्कोशात् लिखित्वोद्धारकं ग्रहीतव्यं । मिथः परस्परं । स्तूपात् संघस्य ग्रहीतव्यं । संघाच्च स्तूपस्येत्यर्थः । तैश्च वारिकैः कर्मादानपरिसमाप्तौ वक्तव्यं- इयत् हिरण्यं सुवर्णादि स्तौपिकात् काशादगृहीतं सांघिकाच्च इयदिति । नोक्तकृतो ऽन्यथेति । कथमन्यथा? यदि विना लिखित्वोद्धारकं गृह्णन्ति, मासनिष्कासे च न वदन्ति, तदा नोक्तकृतो भवन्ति । उक्तं न कुर्वन्तीति नोक्तकृतो, दुष्कृते प्राप्नुवन्तीत्यर्थः ॥

स्वांशेत्यादि । तत्रांशो भागो ऽवयव इत्यनर्थान्तरं । स्वकीर्यो ऽशः स्वांशः । तेन मुक्तो यः परकीर्यो ऽशः तं हरतीति स्वांशमुक्तहरः, आत्मभागव्यतिरिक्तभागहर इत्यर्थः । एतौ यती एकत्र कुले लाभं लभेते । तयोर्द्वयोर्मध्ये यः परभागहरः श्रामणेरः स चौरो भवति । विश्वासं तु पुनर्दास्यामीति च कृत्वा गृह्णन् नापदं प्राप्नोति । लभसे त्वमित्यादि । एतौ यती क्रियाकार कुर्वाते । यं त्वं लाभं लभसे अहञ्च यं लाभ लभे तदावयोस्तव च मम च वदित्वैवं क्रियाकारं कृत्वा समुत्पन्ने लाभे सति यस्तं क्रियाकारं भिनति ततोर्धेन तस्करो भवति, द्वितीयस्य यतेर्भागेणाश्रामणेरो भवतीत्यर्थः ॥

दक्षिणादेशनेप्येवमित्यादि । यथा द्वयोः कुलोपकयोरेकस्य क्रियाकारं भिन्दतः संवरच्युतिरुक्ता, एव दक्षिणादेशने ऽपि द्रष्टव्य । दक्षिणादेशनञ्च दानगाथापाठः । द्वयोश्च पांशुकूलिकयोर्मध्ये पांशुकूले समुत्पन्ने सति यः क्रियाकारं भिनत्ति स च्युतसंवरो भवति ॥

प्राङ्निर्दिष्टः सांघिको लाभः स्तूपाय न दातव्यः स्तौपिकश्च संघायेति । अन्यस्मै सुतरां दातुं न लभ्यत इत्यभिनिवेशत्याजनार्थं विधिं दर्शयन्नाह । उपकारीत्यादि । उपकर्तु शीलं येषां ते उपकारिणो, विपर्ययादनुपकारिणः । तेभ्यः सांघिकमन्नपानादि दातव्यं । के पुनस्ते इत्याह । विहारस्वामि राजादयः उपकारिणः, चौरादयो ऽनुपकारिण इति यथाक्रमं उभौ बोद्धव्यो ॥

श्रीघनेभ्योपीत्यादि । यदि चेल्लकाः सांघिके विहारे आलेपनं संमार्ज[ना]दिकं कुर्वन्ति तदा तेभ्यः संघतः पादास्यङ्स पूर्वाह्णिकादि दातव्यमन्यथा नेति । अपिशब्देन न केवलमुपकार्यपकारिणो ज्ञातव्याः श्रीघनेभ्यो ऽप्येवंविधकर्मकारिभ्य इति (स्श् 37) दर्शयति । ननु च श्रामणेरस्य प्रव्रजि[त]त्वाद्विनापि विहारलेपनादिकरणेन सांघिकान्नपानपरिभोगो लभ्यत एव । तत्किमर्थमुच्यते श्रीघनेभ्यो ऽपीति । इदमेव आशंवयमाने कृते त्रिचीवरेण विभूषितस्य हि भिक्षोः सांघिकान्नपानपरिभोगो ऽनुज्ञातो भगवता सूत्रे, न श्रामणरस्य अतो विघा[ना]न्तरमाह भगवान्- श्रीघनेभ्यो ऽपीति । न वा विनये तर्को ऽवतारयितव्यः यत्किञ्चिदेतदिति ॥

सीमान्तस्थायिन इत्यादि । सीमान्तराले स्यातुं शोलं यस्य यतेस्तस्मै भिक्षुसहिताय भिक्षूणायुपस्यातकारिणे तण्डुलादिकं दत्वा दारकप्रस्यव्याजेन तण्डुलादिकं यतिर्गृह्णीयात् । केचितुगृह्णायात्तण्डुलादि नेत्यन्ते नकारं पठन्ति । सीमान्तस्थायिने अदत्वेति वात्राकारः प्रश्लिष्टास्ताति मत्वैवं व्यावक्षते । सीमान्तपातिने यतये तण्डुलादिकमदत्वा दारकप्रस्थव्यपदेशेन तण्डुलादि न ग्राह्यमिति तदत्रोभयस्मिन् पाठे न दोषः ॥

अत्यक्ताश इत्यादि । अत्यक्ता पात्रादि प्रत्याशा येन स तथोक्तः । स्वपात्रचीवरं नष्टमिति । न केनचिदपहृतं किन्तु कथञ्चित् प्रमादाच्छोरितं । तद्दृष्ट्वायतिरुत्पादयेद्गृह्णोयात् । मत्वैवमिति । कथमेवं मत्वा? अत्यक्ताशस्य मत्वा नष्टं पात्रचीवरं गृहीतुं लभ्यते, नेतरस्य । एवं गृद्धो यतिः कीदृश इत्याह नष्टपात्रादिः । नष्टानि पात्रादीनि यस्य स एवमुच्यते । आशां नैव त्यजेदिति । (स्श् 38) यत्रैव नष्टपात्रादि लप्स्ये, तत्रैव ग्रहीष्यामीत्येवं प्रज्ञो भवेदित्यर्थः । यस्तु निराशीभूतः पात्र चीवरं नष्टं गृह्णाति, तस्य दुष्कृतं भवति, न संवरत्यागो । न हि तेन चौरात् प्रतिचौरिका कृतानपहृतत्वाद्द्रव्यस्य ।

लाभार्थं क्रियाकारप्रसंगेनोद्देशादिक्रियाकारातिक्रमे ऽपि दुष्कृतं दर्शयितुमाह । स्वाध्यायेत्यादि । एते श्रामणेरा संघशीलकं कृत्वा क्रियाकारं कुर्वन्ति । स्वाध्यायमध्ययनमुद्देशं वा करिष्याम इत्येवं क्रियाकारं कृत्वा ये क्रियाकारं न प्रतिपालयन्ति, ते जिनोदितलंघिनः । जिनेन बुद्धेन भगवता य उदितः उक्तो विनयस्तं लंघितुं शीलं येषां ते जिनोदितलंघिनो, दुष्कृतं प्राप्नुवन्तीत्यर्थः । तदनेन सर्वत्रैवं धार्मिक क्रियाकारातिक्रमे दुष्कृतं भवतीत्याख्यातं भवति ॥

पताकेत्यादि । यतिना ध्वजापताकादिलक्षणः स्तूपतो न ग्रहीतव्यः । निर्ग्रन्थस्तूपग्रहणं चोपलक्षणार्थं । तेन पण्डरभिक्षुस्तूपादेरपि गृह्णतः स्यादेव दुष्कृतं, न तु संवरत्यागः स्वामिनो ऽभावात् । यत्र तु स्तूपे देवलकः आस्ते तस्माद्गृह्णतः स्यादेव संवरत्यागः । अनिलेन वातेन तु उद्धृतं कंपितं पातितं च यत्पताकादि तत्पांशुकलमिति कृत्वा गहीतव्यं ॥

शुल्ककृत्यमित्यादि । शुल्कशब्देन राजकुलप्रत्यायोत्पत्तिस्थानमुच्यते । यस्य घट्ट इति प्राकृतजनप्रतीतिः । तत्र कृत्य प्रयोजनं । किन्तु तस्मात् स्थानादुचितदानाप्रदानार्थ यत्परद्रव्यनयनं तदर्थं परेषां द्रव्यं यतिः स्वयं न नयेत्, नापि परेण नाययेत् । शुल्कं यत्प्रदानं तस्य च मोक्षार्थमुपायं नोपदिशेत्- अमुना मार्गेण गच्छ, ततस्ते शुल्कप्रदानं न भवति । रत्नं दत्वेत्यादि । कश्चिच्छठकजातीयो वणि[ज]कः शुल्कप्रदानमुक्तये शुल्कात्प्राग्यतिभ्यो यथावृद्धिकया रत्नं दत्वा पश्चात् (स्श् 39) शुल्ककरययतिवाह्यकृताकण्डिकया तद्रत्नं मार्गयतोति च । यतयः प्राक्तस्याभिप्रायं न जानन्तीति बाद्धव्यं, अन्यथा हि संवरत्यागः स्यात् । तस्मिन् अपरिज्ञाते तैर्यतिभिः- एवं नाम त्वं मोहपुरुष, अस्माकं विसंवादयसीत्येवं सुष्ठुपरिभाष्य तद्रत्नं तस्यैव वणिजा दातव्यं । नास्ति शुल्कमित्यादि । मुनेर्बुद्धस्य भगवतः शुल्कं नास्ति । व्रतमस्ति येषां ते व्रतिनः । परिभोगायेदं पारिभोगिकं । तस्मिन् पारिभोगिके द्रव्ये मुनेरिव व्रतिनां शुल्क नास्ति । अन्यत्रास्तीत्युक्तं भवति । अत एवाह । क्रयविक्रयकृद्दद्यादिति । क्रयविक्रयं करोतीति क्रयविक्रयकृद्यतिः शुल्कं प्रयच्छेत् ।

वर्षावासिकेत्यादि । यत्र ग्रामे नगरे वा यः श्रामणेरो वर्षामुपगतः, तस्य तत्र वर्षावासिकलाभो दातव्यः । जीवितस्य ब्रह्मचर्यस्य च ययोः श्रामणेरयोर्नाशः तयोरपि वर्षावासिकलाभा दातव्यः । तेनैतदुक्तं भवति- जीवितान्तरायभयभीतं ब्रह्मचर्यान्तरायभयभीतं मुक्त्वा अन्येषामवर्षोषितानां वर्षावासिकलाभो न दातव्यः । प्राक्प्रागुपगतैरित्यादि । ये श्रामणेराः प्राक् श्रावणमासस्य प्रतिपदि वर्षामुपगतास्तैः प्रागेवाश्विनमासस्य प्रतिपदमारभ्य वर्षावासिकयाचना कर्तव्या । ये तु पश्चात् भाद्रपदमासस्य प्रतिपदि वर्षामुपगतास्तैः पश्चादेव कार्तिकमासे । यदि सर्वः संवः प्रयमायामुपगच्छति तदा संघवशेन पश्चादुपगतैरपि युगपदेव वर्षावासिकलाभो याचनीयः ॥

पुनर्गृह्णातीत्यादि । तत्र वस्तु पूर्णविशवषत्वं । वाक्प्रव्याहारो विशिष्टार्थद्योतकः । कर्म क्रिया कर्मेति कृत्वा, क्रियते वा अनेनेति । कर्मशब्देनोपसंपत्कर्मैवाभिधीयते । तेन हि कर्मणा स पुद्गलो भिक्षुः क्रियते । वस्तु कर्म च वस्तुकर्मणो, (स्श् 40) तयोर्जुगुप्सा निन्दा, तया यः पुद्गलो भिक्षुभावं परित्यज्य पुनर्दीक्षां प्रव्रज्यां गृह्णाति, तस्मै अपि यतये वर्षोषितैः सह समो लाभो दातव्यः । अन्ये त्वन्यथा व्याचक्षन्ते । त्रिशरणयाचनामारभ्य यावत काषायपरिधानमिदं वस्तु, बुद्धं भगवन्तं प्रव्रजितमनुप्रव्रजामीति इदं कर्म विशिष्टार्थद्योतकत्वात्क्रियाकर्मेति कृत्वा । वस्तु च कर्म च वस्तुकर्मणी, तयोर्जुगुप्सा निन्दा, तया यः पुद्गलः श्रामणेरभावं परित्यज्य पुनर्दीक्षां प्रव्रज्यां गृह्णाति, तस्मै अपि यतये वर्षोषितैः सह समो लाभो दातव्यः । क एवमाहेत्यतो ब्रवीति इत्याह सर्ववित्, भगवानाहेत्यर्थः ॥

अवर्षोषितेत्यादि । तत्र त्रैमासानधिष्ठानादवर्षोषितः । विभ्रान्तो यः प्रव्रज्यापप्रव्रजितः । कुत्सिता दृष्टिर्यस्येति कुदृष्टिः, मिथ्यादृष्टिक इत्यर्थः । मिथ्यादृष्टिश्च नास्तिकप्रवृत्तिः- नास्ति माता, नास्ति पिता, नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाक इति । जीवितेन्द्रियनिरोधात् मृतकः । देशान्तरगतो ऽन्यद्यत्र देशगमनात् । इत्येते पञ्च पुद्गलाः लाभं नार्हन्ति ॥

अमुष्मै देयमित्यादि । अमुकस्मै भिक्षवे दातव्योयं मदीयो लाभ इत्येवं लाभे समुत्पन्ने सति यदि कश्चिद्यतिः म्रियते तदा नियतमवश्यं तस्मै विकल्पितभिक्षवे स लाभो देय इति भगवतोक्तं । देशान्तरेत्यादि । इतो देशात्त्रैमासमधिष्ठायान्यत्र देशान्तरगतस्य यतेः लाभः कल्पे मन्दिरे कल्पकुटयां स्थापयितब्यः । यदा चावर्षोषितविभ्रान्तकुदृष्टयस्त्रयः पुद्गलाः संघस्यानर्थ कुर्वन्ति, तदा तेभ्यः प्राश्यादि न सांघिकमन्नपानादि दातव्यं बुधैः । ननुच लाभं नार्हन्ति पञ्चकेत्युक्तं (स्श् 41) तत्किमर्थमिदमुच्यते- अमुष्मै देयमित्यादि कारिकाद्वयं? सत्यमेतत् । किन्तु यदा अविकल्पो म्रियते, अनुत्पन्ने च लाभे गच्छति, अवर्षोषितविभ्रान्तकुदृष्टयश्च त्रयः पुद्गलाः यदानर्थं वा कुर्वन्ति, तदैते पञ्च पुद्गला लाभं नार्हन्ति, विपर्ययादर्हन्तीति व्यभिचारसंभवाददोषः ॥

आच्छादमित्यादि । एते यतयः कुले वर्षामुपगता भवन्ति । तत्र यदि दानपति सामान्येनैवं वदेत्- आच्छादं दास्यामि, चीवरं दास्यामि, चीवरमूल्यं दास्यामि, आच्छादमूल्यं दास्यामीत्येभिश्चतुर्भिः शब्दैरुत्पद्यते यो लाभः स समुखीभूतानां प्राप्नोति, नेतरेषां । वर्षावासिकेत्यादि । वर्षोषितानामाच्छादं दास्या[मि], चीवरं, आच्छादक्रयं, चीवरक्रयं चैतैश्चतुर्भिश्च शब्दैर्यो लाभः समुपजायते, स वर्षोषितानां प्राप्नोति । यदि दायकस्तद्वर्षावासिकं लाभ अवर्षोषितानामपि ददाति, तदा दायकस्येच्छया गृह्णतो न दोषः ॥

यामिक इत्यादि । यस्मिन् दिवसे भगवानुत्पन्नः अनुत्तराञ्च सम्यक्संबोधिमभिसंबुद्धः तत्र यो महो या पूजा, स जातिसंबोध्यादिमहः । तत उत्पन्नो यो लाभः संघस्य स एवमुच्यते । मृतपरिष्कारश्च क्षुद्रपरिष्कारश्चेत्यादि द्वन्द्वः । कालिकः यामिकः यावज्जीविकः साप्ताहिकः मृतपरिष्कारः क्षुद्रपरिष्कारः नैत्यकः अकालचीवरं कुटीप्रतिष्ठा जातिसंबोध्यादिमहोद्भवश्चेति यो ऽयं दशप्रकारो लाभः स संमुखीभूतानां प्राप्नोति ॥

अनाधेयमित्यादि । सांघिकं यच्छयनासनं तदनाधेयं, प्रतिबन्धत्वेन न दातव्यमित्यर्थः । न विक्रेतव्यं, न च पौद्वलिकं कृत्वा परिभोक्तव्यं । ये तु श्रामणेराः (स्श् 42) सांघिकं शयनासनं प्रतिबन्धकत्वेन ददति, विक्रीणीते, पौद्गलिकत्वेन वा परिभुञ्जतेरं तेषां दुष्कृतं भवति ॥

चातुर्दिशायेत्यादि । कश्चिद्दानपतिः किञ्चिद्द्रव्यान्त, कदाचिच्चातुर्दिशायार्यसघाय ददाति, बुद्धाय वा भगवते, संमुखीभूताय वा संघाय तत्सर्वं यतिस्तत्र तत्रोपनामयेत् । यच्चातुर्दिशाय दत्तं तच्चातुर्दिशायैवोपनामयितव्यमित्येषा दिक् ॥

तूष्णीं दत्वेत्यादि । कश्चिद्दानपतिः विहारमागत्य मुक्ताफलादिक दत्वा तूष्णीं भूतो गच्छेत् । तस्मिन् तूष्णीं दत्वा गते दानपतौ सति बुद्धाय भगवते मुक्ता फलादि दातव्यं, यच्छयनासनं तच्चातुर्दिशाय । संमुखीभूताय तु संघाय वस्त्रादिकं दातव्यमिति ॥

कतिभिरङ्गैः समन्वागतो ऽदत्तादानं गृह्णन् अश्रामणेरो भवति? आह । पृथुद्रव्यमित्यादि । पृथुविस्तीर्णं । किं तद्द्रव्यं? काकिनीन्यूनं माषकपञ्चकं । स्वकीयमपि कदाचित्तद्भवतीत्याह । परोपात्तमिति । कदाचिद्द्रव्यं परोपात्तमपि सत् यतिः परोपात्तसंज्ञा न भवतीत्यत आह । तत्संज्ञी परोपात्तसंज्ञीत्यर्थः । कदाचिदेतत्सर्वं भव[ति], न तु स्तेयचेतनेत्यतः स्तेयचेतनेति वचनं । स्तैन्यचित्तं चोपस्थितं भवतात्यर्थः । कदाचिदेतदङ्गचतुष्टयं संभवदपि सत् तद्द्रव्य स्थानान्न च्यावितं स्यादित्यत आह । स्थानच्युतिश्चेति ।

पञ्चभिरङ्गैः समन्वागतो यतिरदत्तमाददानो ऽपि न च्युतसंवरो भवति । कतमैः पञ्चभिरित्याह । दत्तस्वकेत्यादि । दत्तसंज्ञा स्वकसंज्ञा अपरोपात्तसंज्ञा च विद्यते यस्य यतेः स यथोक्तो यतिः । अन्यो ऽपि च स्वांशात्तावत्कालिकत्वेन च गृह्णन् न संवरं संवरी जहाति ।

आदायादत्तमित्यादि । आदायेति गृहीत्वा । अदत्तं पु[नः] द्रव्यं उत्प्लुयेद्वध्वा खमाकाशं गत्वा । दिशानां चतुष्टयं दिक्चतुष्टयमित्यर्थः । आशाशब्दस्य दिक्पर्यायत्वात् । तत्रैवेति । यस्मात् प्रत्यागतः पुनर्भूयस्तत्रोपविष्टः । सन् क्षतसंवरो भवति, अयतिर्भवतीत्यर्थः ।

अवक्रीतादिरिति विस्तरः । कश्चिद्यतिः केनचित्क्रीतो भवति, भृतको वा स अज्ञानात् स्मृतिसंप्रमोषात्कल्पिकसंज्ञया वा परद्रव्यं गृह्णन् क्षतसंवरो भवति । उन्मत्तविक्षिप्तचेतसस्तु यतयः परस्वमाददाना अपि सन्तोनापत्तिभाजो भवन्ति स्तैन्यचित्ताभावात् ॥

तत्र कालिकमित्यारभ्य यावद्दक्षिणादेशनेप्येवमित्येभिर्वाक्यैः संवरत्याग उक्तः । उपकार्यपकारिम्य इत्यारभ्य यावत् तूष्णीं दत्वेत्यादिभिर्वाक्यैः दुष्कृतान्युदाहृतानि । शेषैस्तु पाञ्चाङ्गनियम इति ।

भाजनस्थं गुरु द्रव्यं चौर्यबुद्धया यतिर्नयन् । योजनानि दशैकञ्च स्यान्न वा श्रीघनः ॥

स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां अदत्तादानविरतिशिक्षापदं द्वितीयं ॥

मैथुनविरतिशिक्षापदलक्षणं लब्ध्वावकाशमधिकृत्याह । नृस्त्रीत्यादि । ना च स्त्री च पण्डकश्चेति नृस्त्रीपण्डकास्तेषां यानि विण्मूत्रवक्त्राणि, तेषां यत् रन्ध्रं विवरं छिद्रं, तस्मिन् अङ्गजातं पुरुषेन्द्रियं तिलमात्रमपि प्रक्षिप्य यः श्रामणेरः स्वादं निगमयेत् स क्षतसंवरा भवति, अयतिभवतीत्यर्थः ॥

मनुष्यगतिव्यतिरिक्तेष्वपि स्त्रीपुरुषपण्डकेषु मैथुनमध्याचरतः संवरत्यागो भवतीति दर्शयन्नाह । मानुषामानुषास्ते त्विति विस्तरः । अत्र कारिकापाठे विवादः । तत्रैके मानुषामानुषास्ते तु तिर्यञ्च[श्च] नरादय इति पाठ मत्वैवं व्याचक्षते । आह । नरादय इत्यादिशब्देन स्त्रीपण्डकयोर्ग्रहणं । तेन नरादय इति । नृस्त्रीपण्डका इत्यर्थः । मनुष्यगतिपर्यापन्नाः, अमनुष्यगतिपर्यापन्नास्तिर्यग्गतिपर्यापन्नाश्च नृस्त्रीपण्डका जाग्रन्तो मृताः सुप्ताश्च मैथुनाश्रया अवगन्तव्या इति । अपरे पुनर्मानुषा[मानुषा]स्ते तु तिर्यञ्चश्चामरादय इति पाठं मत्वैवं ब्रुव[ते] । मानुषामानुषास्ते त्विति । तच्छब्देनानन्तरप्रयुक्ता नृस्त्रीपण्डकाः परिगृह्यन्ते तच्छब्दस्यानन्तराभिधायित्वात् । तु शब्द एवकारार्थे । त एव नृस्त्रीपण्डका मनुष्यगतिपरिगृहीताः अमनुष्यगतिपरिगृहीताः तिर्यग्गतिपरिगृहीताश्च प्रत्येकं जाग्रन्तो मृताः सुप्ताश्च मैथुनाश्रया ज्ञेयाः । अमरादय इत्यमरा देवाः आदिशब्देनान्यामपि गति ग्राहयति । अतो देवासुरनरकप्रेतगतिसंगृहीतेष्वपि स्त्रीपुरुषपण्डकेषु मैथुनमध्याचरतः संवरत्यागो भवति । एत एव तु युज्यते । अन्यथा हि नरादय इत्यनेन नृस्त्रीतरेषां ग्रहणे सिद्धे त्विति तच्छब्दग्रहणमतिरिच्यते । (स्श् 45) अथ मतं- तच्छब्देन त एव मानुषामानुषाः संबध्यन्त इत्यसंबद्धमेतत् । न हि प्रत्यक्षापात्तेषु शब्देषु तच्छब्दः प्रयुज्यत सूरिभिरनवस्थाप्रसङ्गात् । न चापि तच्छब्देन विण्मूत्रवक्त्ररन्ध्रस्य संबन्ध इति पार्यते वक्तुं, रन्ध्रशब्दस्य नपुंसकलिङ्गत्वात् एकवचननिर्देशात्, इह च ते त्विति पुंलिङ्गेन बहुवचनेन निर्देशात् । अथ मतं- विण्मत्रवक्त्ररन्ध्रविशेषा इति व्याख्यास्याम इति । यथा हि विण्मूत्रवक्त्ररन्ध्रविशेषाः स्त्रीपुरुषपण्डकाः मनुष्यामनुष्यतिर्यग्ग[ति]परिगृहीता मैथुनाश्रया ज्ञेया इत्यपूर्वायं क्रियाकार[क]संबन्धः नरादीनामिति संबन्धषष्ठयभावात् अन्यस्याश्च गतेः परिग्रहणात् । तस्मादमरादय इत्येव पाठः । एवं विचारिते केचिदत्र ब्रुवत नरादय इत्यपि पाठे आदिशब्देन स्त्रीपण्डकयोरन्य[स्या]श्च गतेः परिग्रहो भविष्यति । को ऽत्र विरोध इति ॥

अत्र न सर्वा तिर्यग्योनिरभिप्रेता सूक्ष्मौदारिकत्वेन मैथुनाक्षमत्वात् । किन्तु विशिष्टैवेति दर्शयन्नाह । हस्तिनीमादितः कृत्वेति विस्तरः । हस्तिनीजातेः प्रभृति यावत् कुक्कुटा जातिः । अत्रान्तराले यान्योन्यापेक्षयाक्षुद्रिका मंहतो जातिः तां तां गच्छन् तस्यां तस्या जातौ मैथुनमाचरन् व्रताच्च्यवते, अश्रामणेरा भवतीत्यर्थः । अत एवादिनिर्देशात् हस्तिनीजातेयान्या महत्तरा जातिः, कुक्कुटाजातेश्च यान्या (स्श् 46) स्वल्पतरा तस्यां विप्रतिपद्यमानस्य न संवरत्यागः, किन्तु दुष्कृतं स्यादिति ॥

यतिर्न केवलं मैथुनमध्याचरितं न क्षमते स्त्रीदर्शनाद्यपि न क्षमत इति प्रतिपाद[य]न्नाह । रक्तः सन्निति विस्तरः । यतिः संरक्तः सन् स्त्रियं न पश्येत्, न च तस्याः शब्दमाकर्णयेत् । निर्वस्त्रश्च सन् निर्वस्त्रां स्त्रियं नोपेयात्, न गच्छेत्, न च पुरुषेन्द्रियं निर्भुजेत् । एतस्यात्र विधिकरणात्सर्वत्र दुष्कृतं भवति ॥

किं पुनः पाटितायामपि मैथुनमध्याचरतः संवरत्यागो भवति? भवतीत्याह भित्तिद्वयेत्यादि । स्त्रीन्द्रियाधिष्ठानसंज्ञितां कोटरिकां वातातपादिना शुष्कां शस्त्रेणवा पृथक् पृथक् कृतां तत्तैलादिभिः क्लिन्नां संयोज्यैकीकृत्य यः श्रामणेरो विप्रतिपद्यते स नाशयितव्यः । संग्रहे सति । यदि सा कोटरिका सग्रहमुपयाति, तदा दोषो ऽन्यदा नेति ॥

अध ऊर्ध्वमित्यादि । काचित्स्त्री त्रिखण्डीकृता भवति । तस्या अधः खण्डे उपरि खण्डे च विनीलाध्मातिकाञ्चव्रती न व्रजेत् । या चास्थिसङ्कला पूयरुधिरादिभिरम्यक्ता तामपि न यायात् । सितास्थिसङ्कलेति विस्तरः । सिता शुक्ला या अस्थिसङ्कला, शैलमयी या शिलायां निधाता दारुमयी या काष्ठमयी, पुस्तमयी या लेपकृता । तां सितास्थिसङ्कलां यावत्पुस्तमयीं स्त्रियं न गच्छेत् । मिथुनं स्त्रीपुरुषयोर्युग्मं, तत्र उत्पद्यते यः सुखविशेषः तन्मैथुनं । तस्मात्सदा सर्वकालं यो विरत इति यतिविशेषणं ॥

ध्यानेत्यादि । गतः प्राप्तः । ध्यानमिद्धगतस्तं ध्यानसमापन्नं निद्रयाभिभूतं च विबुद्धमपि शयितं सुरापानादिना मत्तं महाभूतवैषम्यादिना वा विक्षिप्तचित्तं रुक्षया वा वेदनया तुन्नं व्यथितं यति या काचित्स्त्री बलाद्गृहीत्वा यतेरङ्गजातं आत्मीये ऽङ्गजाते प्रक्षिपेत् । तस्मिन् बलतो ऽभिनिषीदति मातृग्रामे किमित्याह । आदिमध्येत्यादि । आदावंगजातप्रवेशकाले, मध्ये पर्यवसाने च य आस्वाद निगमयेत् । यतिः कीदृक्षः? ततो ध्यानाव्युत्यितः । स विहाराद् घट्टयितव्यः । आस्वादनाभावे तु नेति । एतच्चाधिमात्रमध्यमृदुरागिणं पुद्गलमधिकृत्योक्तमित्यवसेयं ।

यदुक्तमादिमध्यावसानेष स्वादयेदिति तत्र केयमास्वादना नामेत्याह । नानेत्यादि । नाना प्रकाराणां व्यञ्जनानां रसानां नानाविधेन यदुपेतं समन्वितं शालिःभक्तं तस्य परिभोगः तद्वदास्वादना द्रष्टव्या । यथा शौण्डस्य मत्तवालकस्य तैलव[त्] स्वच्छस्यान्नासवस्य सुरायाः पानास्वादस्तद्वत् मैथुनास्वादो ऽवसेयः । अन्ये अन्यथा व्याचक्षते शुण्डिषु भवः शौण्डः । कः पुनरसौ? अन्नासवः । कीदृशः? तैलाच्छः । तैलव[त्] स्वच्छो यः शोण्डो ऽन्नासवः, तस्य पानमभ्यवहरणं । तद्वत् किं? आस्वादना ज्ञेयेति । अनास्वादः पुनः कीदृश इत्याह । अनास्वादा युवग्रीवेत्यादि । यथा यूनस्तरुणस्य ग्रीवायां मृतकुक्कुरबन्धः । यथा च सुकुमारस्य पुंसः (स्श् 48) प्रदीप्तलोहस्पर्शस्तद्वदनास्वादो विज्ञेयः । ध्यायन्त्यनेनेति ध्यानं, प्रज्ञानंतीत्यर्थः । तच्चाङ्गभेदाच्चतुर्विधं भवति । प्रथमद्वितीयतृतीयचतुर्थध्यानभेदेन । सिद्धं कायसंधारणासमर्थश्चित्ताभिसंक्षेपो, निद्रेति यो ऽर्थः । ते ध्यानमिद्धे इति ।

अवक्रीतेत्यादि । अस्यार्थः पूर्वशिक्षापदानुसारेणावसेयः ॥

रागामनुष्येत्यादि । रञ्जनं रागः, रञ्जयते वानेनेति चित्तमिति रागः । तेन रागादिना प्रगुणीभूतं यदंगजातं तच्छुक्रनिर्मोक्षार्थं न कदाचिदपि स्पृशेत् । कैर्न स्पृशेदित्याह । पृथिव्यादिधातुभिः ।

तिर्यक्संयोगेत्यादि । तिर्यक्मैथुनाध्याचारदर्शनात् प्रामादिकः स्त्रीपुरुष दर्शनाच्च, तीव्ररागादितया यदि शुक्रस्य मुक्तिर्भवेत् तदा यतिर्मानसं विगर्हेद्विरूपकं मया कृतं न पुनरेवं करिष्यामीति ।

मज्जेत्यादि । मज्जाजातं मज्जजं शुक्रं, तस्य क्षरणमपगमः । यस्य यतेः स्वप्ने शुक्रविनिर्मुक्तिर्भवति, तस्य दोषो न भवति । कथं पुनर्भवतीत्याह । कारणमाह । स्वप्नेत्यादि । पञ्चस्वप्ना विनये उक्ताः । सत्यस्वप्नो यथा बोधिसत्त्वेन दृष्टः, अलीकस्वप्नो यथा दृष्टः तथा न भवत्यऽलीकं मृषेति कृत्वा, अचीर्णस्वप्नो यत्सततकरणीयं वस्तु दृश्यते, अनन्तस्वप्नो यः सकलांरात्रिं दृश्यतेन परिच्छिद्यते, स्वप्नस्वप्नो यः स्वप्न एवान्यः स्वप्नो दृश्यते । तदुक्त भवति- यस्य यतेः स्वप्ने शुक्रनिर्मोक्षो भवति, तस्य मनागपि दोषो न भवत्यलीकत्वात्स्वप्नस्य । अन्यथा ह्यऽनाश्वासिकं ब्रह्मचर्यं स्यात् स्वप्ने ऽपि मैथुनाध्याचारेणापत्तिप्रसङ्गात् ॥

रागेत्यादि । रागेणाविष्टं परिगृहीतं यच्चित्तं तेन रागाविष्टेन चेतसा यतिर्नारीं स्त्रियं श्रीघनो न स्पृशेत् । पुंनपुंसकमिति । पुरुषं पण्डकं चेत्यर्थः । शेषं सुगमं ।

स्तनकक्षेत्यादि । स्तनौ कक्षे च ओष्ठौ च नाभिश्च ऊरू च पार्श्वे च कुक्षिश्च मलभ्रमश्चेति द्वन्द्वः । अतस्तान् स्तनकक्षौष्ठनाभ्यूरुपार्श्वकुक्षिमलभ्रमान् यतिः संरक्तः सन् न निन्देत्, न निन्दां कुर्यात् । न च संस्तुयान्न च प्रशंसेदित्यर्थः, अशोभनौ तव पयोधरौ शोभनौ वा यावदङ्गजात इति । कतमासां तु तान् स्तनकक्षादीन्न निन्दे[दि]त्याह । स्त्रीणामिति । मलभ्रमशब्देनात्र स्त्रीणामङ्गजातमुच्यते ॥

यद्यद्वदेदित्यादि । यत् यद्वचनं स्त्रियाः अन्तिके स्त्रियं श्रीघनः मैथुनाध्याचारं कर्तुकामः पुरुषो ब्रव्रोति यथा यथेति येन येन प्रकारेण [तत्]तद्वचनं यतिः स्त्रियं न वदेत् तथा तथेति तेन तेन प्रकारेणेत्यर्थः ॥

अग्रेत्यादि । योषिच्छब्देन मातृग्रामो विधीयते । या स्त्री मां परिचरेन्मम परिचर्यां कुर्यात् । कुतः? रहः, रहसीत्यर्थः । सा अग्रा भवति, श्रेष्ठा भवति । व्याधिहीनेति व्याधिरहिता । यशस्विनीति यशः समन्विता, कीर्तियुक्ता । लाभिनी च भवति । केषामित्याह । आयुरादीनां । आदिशब्देन वर्णबलसौख्यादीनां ग्रहणं । इत्यादि न वचो ब्रूयादित्यादि । अग्रा भवति सा योषिदित्येवमादिकं वाचं न वदेत् । क इत्याह । श्रीघनः । कीदृक्ष इत्याह । रागाग्निप्लुष्टमानसः । राग एवाग्निः रागाग्निर्दहनात्मकत्वात्, तेन प्लुष्टं दग्धं मानसं चेतो यस्य स एवमुच्यते । कस्याग्रतो न वदे[दि]त्याह । पुरस्ताच्छ्रीघनः स्त्रीणामित्यादि । स्त्रीणामग्नतः, पुरुषस्य पण्डकस्य चेत्यर्थः ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.