Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/15

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

सत्यसिद्धिशास्त्रम्

Tác giả
हरिवर्मन्
Thông tin
GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

(पृ) रूपारूप्यधातौ कुशलधर्मान् सम्यक् भावयतो दुःखं दौर्मनस्यं नस्यात् । (उ) त्रैधातुकं सर्वं दुःखम् । द्वयोरूर्ध्वधात्वारौदारिके दुःखे ऽसत्यपि सूक्ष्मं दुःखमस्त्येव । केनेदं ज्ञायते । चतुर्षु ध्यानेषूच्यन्ते चत्वारि इर्यापथानि । यत्रास्तीर्यापथम् । तत्र सर्वं दुःखः स्यात् । रूपधातौ च सन्ति चक्षुः श्रोत्रकायविज्ञानानि । एषां विज्ञानानां या काचिद्वेदना सा दुःखा वा सुखा वा भवति । एकस्मादिर्यापथादपरमिर्यापथमर्थ्यत इत्यतो ज्ञायते दुःखमस्तीति । सूत्रे पृच्छति- रूपाणां क आस्वादः । यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम् । कश्च रूपाणामादीनवः । यत्किञ्चनरूपं [सर्वं तत्] अनित्यं दुःखं विपरिणामधर्म इति रूपधातोः सरूपत्वात् अस्त्यास्वादचित्तं, अस्त्यादीनवचित्तम् । अतो ऽस्ति सुखं दुःखम् । योगी ध्यानसमाधिषु रज्यते चोपेक्षते च । सुखवेदनाप्रत्ययत्वादवश्यं रज्यते । दुःखवेदनाप्रत्ययत्वादुपेक्षते । अतो ज्ञायते ऽस्ति सुखं दुःखमिति ।

भगवानाह- वागादयः प्रथमध्यानस्य शल्यम् । वितर्कचारौ द्वितीयध्यानस्य शल्यम् । यावन्नैवसंज्ञानासंज्ञायतनस्य संज्ञा वेदना च शल्यम् इति । शल्यमिति दुःखमित्यर्थः । अतो ज्ञायते दुःखमिति । सर्वे ऽपि पञ्चस्कन्धा दुःखं विहिंसनदुःखम् । यथा कामधातुकवेदना विहिंसकत्वात् दुःखम् । ऊर्ध्वधातुकवेदनाया अपि विहिंसनमस्तीति कस्मान्न दुःखम् । यथा कामधातौ व्याध्यादयो ऽष्ट संस्कारा उच्यन्ते । रूपारूप्यधात्वोरपि तथाष्टसंस्काराः समानमुक्ता इति कस्मान्नास्ति दुःखम् । रूपधातावाभाया न्यूनता वातिशयो वोच्यते । अतो ज्ञायते रूपधातुककर्मापि विभक्तम् इति । कर्मविभागादवश्यं दुःखविपाककर्मलाभिना भवितव्यम् । आह च सूत्रम्- अत्र सन्तीर्ष्यामात्सर्यादयः क्लेशा (sss_201) इति । यथा ब्रह्मा ब्रह्माणमामन्त्याह- ध्रूवमिदं स्थानम् मा भवन्तः श्रमणं गौतममुपसङ्क्रमत इति । आगत्यापि महाब्रह्मा भवन्तमनुयोगमापृच्छति । उक्तञ्च सूत्रे- चतुर्थध्यानमुपसम्पन्नो ऽकुशलान् धर्मान् प्रजहातीति । अपि चोक्तं सूत्रे- तत्रास्ति मिथ्यादृष्टिः क्लेश इति । ईदृशाः क्लेशा एवाकुशला दुःखविपाकप्रापकाः स्युः । कस्मान्नास्ति दुःखम् । आभिधर्मिका आहुः- सर्वे क्लेशा अकुशला इति । तत्र कथं नास्ति दुःखा वेदना ।

उक्तञ्च सूत्रे- रूपारामा [भिक्षवो] देवमनुष्याः रूपरता रूपसमुदिताः । रूपविपरिणामविरागनिरोधात् दुःखा [भिक्षवो] देवमनुष्या विहरन्ति । इति । एवं यावद्विज्ञाने ऽपि । अतो ज्ञायते सर्वेषामवीतरागाणामस्ति दौर्मनस्यं सौमनस्यमिति । प्रिय[योग]प्रत्ययं सौमनस्यं भवति । तत्प्रियवियोगप्रत्ययं दौर्मनस्यं भवति । प्राकृतानामज्ञानां कस्य शक्तिबलेन प्रियप्राप्तिप्रत्ययं सौमनस्यं न भवति । हानौ च न दौर्मनस्यम् । यथोक्तं सूत्रे- मार्गं प्रतिपन्नस्यैवायुषो ऽन्ते रूपे सौमनस्यं दौर्मनस्य ञ्च नास्ति इति । अतो ज्ञायते सर्वेषां प्राकृतानां सौमनस्यं दौर्मनस्यं सदानुवर्तते इति ।

भगवान् स्वयमाह- दौर्मनस्यविगतं सौमनस्यविगतञ्चैकं चित्तमुपेक्षायामुपविचरतीत्ययमर्हतो गुण इति । षडुपेक्षोपविचाराश्चार्यचरितान्येव न प्राकृतानाम् । प्राकृताः कदाचिदुपेक्षायामुपविचरन्ति । न तत् ज्ञानप्रत्ययतथा । यथोक्तं सूत्रे- प्राकृतानां यदुपेक्षाचित्तं सर्वं तत् रूपनिश्रितं न रूपरागविमुक्तम् इति । अतो ज्ञायते प्राकृतानां नास्त्युपेक्षाचित्तमिति । यथोक्तं सूत्रे- सुखायां वेदनायां रागानुशयः इति । यदि नास्ति तस्य सुखा वेदना । कुत्र रागो ऽनुशयीत ।

यद्भवतो मतं- कदाचिददुःखासुखायां [वेदनायां] रागानुशयो ऽनुशेत इति । तत् सूत्रे नास्ति वचनस्थानम् । उत्तमभूमौ च प्रवृत्ते कायचित्ते शान्तसुखे न महदनुगृहीते स्तः । यथोक्तम्- देवाः कल्पसहस्रमेकत्र निषीदन्ति इति । यदि [ते] दुःखोपविचारिणः (sss_202) न ते तदिर्यापथेषु दीर्घकालं स्थातुं शक्नुवन्ति । यथोक्तं सूत्रे- सप्तदिनानि समाविश्य विमुक्तिसुखं वेदयत इति । तत्र च प्रश्रब्धिसुखं परमम् । यथोक्तं सूत्रे प्रश्रब्धिरिति सुखा वेदना इति । अतो ज्ञायते सर्वासु भूमिषु अस्ति सुखा वेदनेति । यद्भवतो मतम्- कदाचित्प्रश्रब्धिसुखं सुखवेदनातो भिन्नमिति । तदयुक्तम् । यत्किञ्चिदनुग्राहकं कायगतं तत् सुखमित्युच्यते । अतः प्रश्रब्धिसुखं न सुखवेदनातो भिन्नम् ।

(पृ) यद्यूर्ध्वधातुकसमाधिषु सुखदुःखसौमनस्यदौर्मनस्यानि सन्ति । कथं ध्यानसूत्रानुगुण्यं भवेत् । (उ) सूत्रमिदं धर्मतालक्षणविलोमकम् । यद्युपेक्ष्यते को दोषः । तत्र च सुखविहारः शान्तो ऽनासङ्गरूपः । नोद्भवति औदारिको रागः प्रतिघो वा । तस्मात् उच्यते [तत्र] नास्ति सुखं नास्ति दुःखमिति । तत्र च सुखदुःखे सूक्ष्मे न प्रतीते स्तः । असिशस्त्रादि दुःखं बन्धमरणादि दौर्मनस्यञ्च नास्तीत्यतो नास्ति दुःखमिति । यथोच्यते रूपधातुरनुष्णाशीत इति । तत्रापि सन्ति चत्वारि महाभूतानि । कथं वक्तव्यम् अनुष्णाशीत इति । यदुच्यते त्रिषु ध्यानेषु सत्त्वा एककाया एकनिमित्ता इति । तत्राप्यस्ति आभाप्रविभागः । यथा वदन्ति- यो ध्यानविहारी न सम्यक् स्त्यानमिद्धौद्धत्यान्यपनयति सो ऽविशुद्धाभ इति । यथाल्पज्ञः पुरुषो ऽज्ञ इत्युच्यते । यथा च लौकिका वदन्ति अल्पलवणे भोजने अलवणमिति । एवं तत्र सौमनल्यं दौर्मनस्य ञ्च न प्रतीतमितो नास्तीत्युच्यते ।

यद्भवद्भिरूक्तं नास्ति तत्र वितर्क इति । उक्तञ्च सूत्रे भगवता संज्ञाप्रत्ययो वितर्क इति । अत्र संज्ञायां सत्यां कथं नास्ति वितर्कः । अतो ज्ञायते यावद्भवाग्रमस्ति वितर्कधर्म इति । [चित्तस्य] औदारिकता वितर्क इति ध्यानद्वये निरुद्ध इत्युच्यते । तस्मादूर्ध्वधातुद्वये ऽपि सन्ति सुखदुःखादयः ॥

इति वेदनास्कन्धः समाप्तः ।

पञ्चवेदनेन्द्रियवर्गस्त्र्यशीतितमः ।

84 दुःखसत्यस्कन्धे संस्काराधिकारे चेतनावर्गः

सूत्र उक्तम्- षट् चेतनाकायाः संस्कारस्कन्ध इति । (पृ) का पुनश्चेतना । प्रार्थना प्राणिधानं चेतना । यथोक्तं सूत्रे- अवरचेतना अवरप्रार्थना अवरप्रणिधानम् । इति ।

(पृ) कस्मात् ज्ञायते प्रार्थना चेतना इति । (उ) उक्तं सूत्रे- अभिसंस्कुर्वन्तीति संस्काराः इति । स्कन्धाभिसंस्कारतृष्णा प्रार्थना । यथोक्तं सूत्रे अभिसंस्काराः तृष्णानिश्रिता इति । किञ्चोक्तं सूत्रे- यथापि [भिक्षवः] यवकलापी चतुर्महापथे विक्षिप्ता स्यात् । [अथ] षट् पुरुषा आगच्छेयुः । [व्याभङ्गिहस्तास्ते तां यवकलपी षडिभर्व्याभाङ्गभि]र्हन्युः । अथ सप्तमः पुरुष आगच्छेत् । [व्याभङ्गिहस्तः स यवकलापीं सप्तम्या व्यभङ्गया] हन्यात् । किं पुनरिदं भिक्षवो भवतां मनसि विपच्यते न वा । विपच्यते भगवान् । भगवानाह- एवमेवाश्रुतवान् पृथग्जनो नित्यं षट्स्पर्शैराहन्यते । एवं हन्यमानः पुनरायतिभवाय चेतयते । एवं हि स मोघपुरुषः सुहततरो भवति । इति । ज्ञातव्यं प्रार्थनैव चेतना इति । किञ्चाह- मनःसञ्चेतनाहारः अङ्गारकर्षवत् द्रष्टव्य इति । अङ्गारः कस्य दृष्टान्तः । आयतिभवाय चेतयत इत्यस्य । आयतिभवश्चाङ्गारकल्पः । सदा दुःखानां जनकत्वात् । किञ्चोक्तं सूत्रे- अस्मीति [भिक्षव] इञ्जितम् । अस्मीति [भिक्षवः] प्रपञ्चितं स्पन्दितं (sss_204) रागगत इति । यत्रास्मीति तत्रेञ्जितं मनस्कृतं प्रपञ्जितं स्पन्दितं रागगतम् इति । यो ऽभिसंस्कृतो धर्मः स रागगत इत्युच्यते । [अतो] ज्ञातव्यं प्रार्थनैव चेतना इति । किञ्चाह- यो बालो जन्मप्रभृति मैत्रीमभ्यस्यति सो ऽकुशलं कर्म करोति चेतयते न वा । नो भगवन् इति । कामप्रार्थनयाकुशलं करोतीति तदर्थः । आह च चेतना कर्म चेतयित्वा चेति । तत्र चेतना मानसं कर्म । चेतयित्वा कर्म कायिकं वाचिकम् । चेतयित्वेति प्रार्थयित्वा । उपालिसूत्रे उक्तम्- निघण्टो नाथपुत्रः शीतोदकप्रतिक्षिप्त उष्णोदकप्रतिसेवी । स शीतोदकं प्रार्थयमानो ऽलभमानः कालं कुर्यात् । मनस्सक्तदेवेषूपपद्यते । अयं शीतचेतनत्वात्तत्रोपपद्यत इति । अतो ज्ञायते प्रार्थनैव चेतना इति ।

(पृ) यद्भवनाह- प्रार्थना चेतनेति । सा [प्रार्थना] तृष्णालक्षणा न चेतना । कस्मात् । सहेतुसप्रत्ययसूत्र उक्तम्- अश्रुतवतः पृथग्जनस्य यत्प्रार्थितं तृष्णैव सा इति । महानिदानसूत्र उक्तम्- तृष्णां प्रतीत्य पर्येषणा इत्यादि । किञ्चोक्तं सूत्रे- दुःखी भूयसा सुखार्थी किं न प्रार्थयते इति । आह च- यदा पुरुषः पञ्चकामगुणेषु रज्यते स राग एव प्रार्थना इति । अपि चाह- तृष्णाप्रत्ययमुपादानमिति पर्येषणं पूर्वं भवति पश्चादुपादानम् इति । पर्येषणमेव तृष्णा । तस्मात् प्रार्थना चेतनात्मिकेति भवतां मतमयुक्तम् । यदुक्तं भवता- प्रणिधानं चेतनेति । तदयुक्तम् । कस्मात् उपालिसूत्र उक्तम्- असञ्चेतनिकं कर्म न महासावद्यम् । असञ्चेतनिकमज्ञानपुरस्सरम् । लोके ऽपि (sss_205) ज्ञानं चेतनं मन्यते । यथा वदन्ति को ज्ञानी इदं कुर्यात् । कः सचेतन इदं कुर्यादिति । बुद्धिमानितीममर्थं व्यवहरन्ति । अतो ज्ञायते ज्ञानमेव चेतनेति ।

अत्र ब्रूमः । प्रणिधानं समुदय इत्युच्यते । कर्माङ्गं प्रणिधानं चेतना । यथा कञ्चित्प्रणिदधन्नाह- अहमनागते ऽध्वनि ईदृशं कायं प्रतिलप्स्य इति । (पृ) यदि कर्माङ्गं प्रणिधानं चेतनेति । तदा नानास्रवा चेतना स्यात् । चेतना च तृष्णाहेतुः । यथोक्तंसूत्रे- मनःसञ्चेतनाया [भिक्षवः] आहारे परिज्ञाते तिस्रस्तृष्णाः परिज्ञाता भवन्ति । इति । अतो ज्ञायते चेतना तृष्णाहेतुरिति । (उ) यद्ब्रवीषि नानास्रवा चेतनेति । तदहमपि न ब्रवीमि अस्त्यनास्रवा चेतनेति । कस्मात् । अभिसंस्करोतीति संस्कार इति लक्षणात् चेतनेत्युच्यते । अनास्रवधर्मस्य अनभिसंस्कारलक्षणत्वात् । चेतनाह्यभिसंस्कारिणी न निरोधधर्मिणी । यदवोचः चेतना तृष्णाहेतुरिति । तदयुक्तम् । कस्मात् । सा हि तृष्णाकार्यं तृष्णाङ्गञ्च । न तृष्णाहेतुः । कार्यप्रहाणाद्धेतुप्रहाणमुक्तं यदुत मनःसञ्चेतनाहारप्रहाणात् तिसृणां तृष्णानां प्रहाणमिति । संस्कारादिप्रत्ययाश्चानेन प्रत्युक्ताः । अतो ज्ञायते तृष्णाङ्गं चेतनेति । तृष्णा हि द्विविधा हेतुभूता फलभूता चेति । हेतुः तृष्णा भवति फलं प्रार्थना । प्रार्थनैव च चेतना ।

चोदयति । यदि हेत्ववस्थायां तृष्णा फलावस्थायां चेतना । तदा न चेतना तृष्णाङ्गं स्यात् । कस्मात् । यो धर्मो हेत्ववस्थः सो ऽन्यः फलावस्थ श्चान्यः इत्यतो ज्ञायते चेतना न तृष्णाङ्गमिति । यथोक्तं सहेतुसप्रत्यय सूत्रे मूढस्य यत्प्रार्थितं तृष्णैव सा । तृष्णावतो यत्किञ्चिच्चेष्ठितं तत् कर्म इति । अतश्चेतना कर्मलक्षणानुगतेति तृष्णतो ऽन्या । यस्य यस्मिन् वस्तुनि रागः तस्य तस्मिन् वस्तुनि प्रार्थना । अतो रागात् जायते प्रार्थना । प्रार्थनैव चेतना अतो रागश्चेतनाहेतुः ।

अत्रोच्यते । पूर्वमुक्तं मया तृष्णाङ्गं चेतनेति । तृष्णायाः केवलमाद्यारम्भो रागः । रक्तस्या[रम्भः] प्रार्थना । यदवोचः प्रणिधानं [न चेतने]ति । न तद्युक्तम् । कस्मात् । (sss_206) प्रणिधानं चेतनाङ्गम् । पूर्व प्रणिधानाख्यं कर्म । पश्चात् कर्मणि प्रवृत्तिः । (पृ) चेतना मनसो ऽन्या उतानन्या । (उ) मन एव चेतना । यथोक्तं धर्मपदे-

मनसा चेत् प्रदुष्ठेन भाषते वा करोति वा । तत एनं दुःखमन्वेति । इति

प्रसन्नमनसाप्येवम् । अतो ज्ञायते मन एव चेतनेति । यदि चेतना न मनः । किं मानसं कर्म भवेत् । मानसं कर्म यन्मन आलम्बन उपविचरति । अतश्चेतना मन एव । सामान्यलक्षणतो मनौपविचारश्चेतनेत्युक्तापि सा बाहुल्येन कुशलाकशलधर्मगतेत्युच्यते । तस्याश्चेतनाया बहवः प्रकारा भवन्ति । यदा पुरुषः परसत्त्वानां कुशलमकुशलं वा प्रार्थयते । तदा चेतनेत्याख्यायतो । यदालब्धं वस्तु प्रार्थयते । तदा प्रार्थना । यदायतिभवं प्रार्थयते । तदा प्रणिधानम् । अतो ज्ञायते एकैव चेतना नानानामभिरुच्यत इति ।

दुःखसत्ये संस्काराधिकारे चेतनावर्गश्चतुरशीतितमः ।

85 स्पर्शवर्गः

अलम्बनगतं विज्ञानं स्पर्श इत्युच्यते । त्रयाणां सन्निपात इतीदं न स्पर्शलक्षणम् । कस्मात् । न हीन्द्रियमालम्बनं प्राप्नोति । अत इन्द्रियालम्बनयोर्न स्यात् सन्निपातः । तैस्त्रिभिरालम्बनं गृह्णातीति सन्निपात इत्युच्यते ।

पृच्छति । अस्त्यन्यश्चैतसिकधर्मः स्पर्शाख्यः । कस्मात् । द्वादशनिदानसूत्रे ह्युक्तंस्पर्शप्रत्यया वेदनेति । आह च- स्पर्शो वेदनासंज्ञासंस्काराणां हेतुरिति । यदि नास्ति स धर्मः । को हेतुः स्यात् । अतो ज्ञायते अस्ति च चैतसिक धर्मः स्पर्शाख्य इति । षट् षट्कसूत्र उक्तं- षट स्पर्शकाया इति । किञ्चोक्तं सूत्रे अविद्यादीनां स्पर्शो [हेतु]र्द्रष्टव्य इति । यद्युच्यते हेतवः प्रज्ञप्तिधर्मा इति । न पुनः पृथक् वक्तव्यं स (sss_207) प्रज्ञप्तिधर्म इति । सूत्रे चास्ति द्विविधः स्पर्शः एक त्रयाणां सन्निपातः स्पर्श इति । अपरः त्रयाणां सन्निपातात् स्पर्श इति । अतो ज्ञायते द्विविधयोः स्पर्शयोरेकः स्वरूपसन् अपरः प्रज्ञप्तिसन्निति । यथा दिनकरमणिगोमेदकानां त्रयाणां विभिन्नं तेजः । चन्द्रकान्तयोश्चापो विभिन्नाः । पृथिव्यादीनामङ्कुरा विभिन्नाः । एवं स्पर्शश्चक्षुरादीनां विभिन्न इति किमस्त्यवद्यम् । यथा च भिक्षूणां समवायो न भिक्षुभ्यो ऽन्यः । स्कन्धानां समवायो न स्कन्धेभ्यो ऽन्यः । न वृक्षद्वयसंयोगो वृक्षद्वयाद्भिद्यते । न हस्तद्वयसंयोगो हस्तद्वयाद्भिद्यते । न बहुग्लानसमवायो बहुग्लानेभ्यो भिद्यते । एवं स्पर्शो ऽपि न चक्षुरादिभ्यो भिद्यत इति नास्त्यवद्यम् ।

अत्र ब्रूमः । प्रागुक्तं मया [यदा] चित्तमालम्बनं गृहाति तस्मिन् समये स्पर्श इति । अतश्चित्तं [यस्मिन्] काले विज्ञानोत्पत्तिहेतुर्भवति । तदनन्तरं वेदनादयो धर्मा उत्पद्यन्ते । षठ्षट्कसूत्रे ऽप्युक्तं तस्मिन् समये स्पर्शं इति । इदमेव युक्तम् । न वयं स्वीकुर्मः स्पर्शो ऽयं द्विविध इति । सर्वत्रोक्तं त्रयाणां सन्निपातः स्पर्श इति । स्पर्शद्वेविध्यसूत्रं सदपि धर्मलक्षणविरोधादुपेक्ष्यम् । अत उदाहृतसूत्रमहेतुः । यदि स्पर्शो भिद्यते जलतेजोवत् । तदा कारित्रमपि भिद्येत । न तु दृश्यते प्रत्येकं कारित्रभेदः । अतो ज्ञायते स स्पर्शो न त्रिभ्यो भिद्यत इति ।

किञ्च यदि स्पर्शश्चैतसिकधर्मः तदा अन्येभ्यश्चैतसिकेभ्यो भिद्येत । कस्मात् । स्पर्शश्चैतसिकानां प्रत्ययः । नहि स्पर्शः स्पर्शस्य प्रत्ययो भवति । उत्पत्तिभेदान्न चैतसिक धर्मः । (पृ) स्पर्शविशेषात् स्पर्शप्रत्यया श्चैतसिका इति । न स्पर्शप्रत्ययः स्पर्शः । यथा वेदनाप्रत्यया तृष्णा न तृष्णाप्रत्यया वेदना । (उ) स्पर्शस्य किं विशेषलक्षणं यदन्यचैतसिकानां नोक्तं स्यात् । न वस्तुतो ऽभिधीयमानमस्ति । अतो ऽहेतुः । वेदनाद्यकालीना तृष्णानन्तरकालीना इति वेदनाप्रत्यया तृष्णा न तु तृष्णाप्रत्यया वेदना । यदि स्पर्शो व्यतिरिक्तधर्मः । तल्लक्षणं वक्तव्यम् । न तूच्यत इति ज्ञातव्यं नास्ति विभिन्नः [स्पर्श] इति । भगवान् वैधर्म्ये ऽपि स्पर्शाख्यामाह । यथाह यो दुःखोपघातः स आगत्य जनकायं स्पृशतीति । आह च सुखवेदनास्पृष्टेन न प्रमत्तव्यम् । न दुःखवेदनास्पृष्टेन विद्वेष्टव्यम् । अस्यां वेदनायां स्पर्श इति संज्ञामाह । भगवान् सूचीलोमं यक्षमाह- तव (sss_208) संस्पर्शः पापक इति कायमपनयामि इति । यथा लोके वदन्ति सुख उष्णसंस्पर्श इति । तथा स्पर्शाहारमप्याहुः । पाणिस्पर्श इति च वदन्ति । अतः सर्वत्र कायविज्ञानविज्ञेये वस्तुनि स्पर्शसंज्ञोच्यते ।

अन्यत्रचोक्तं- अन्धो न रूपं स्पृशति । रूपाद्यालम्बनेषु स्पर्शसंज्ञाञ्च वक्ति । इति । तत्स्पर्शव्यवहारस्यानियतत्वान्नास्ति च चैतसिकधर्मः पृथक् । यदुच्यते चैतसिकं, तत्स्पर्शलक्षणविरुद्धम् । कस्मात् । भगवानाह- त्रयाणां सन्निपातः स्पर्श इति । अतो ज्ञायते नास्ति पारमार्थिकः पृथक् चैतसिकधर्म इति । यो धर्मः कायगतः स स्पर्श इत्युच्यते । यत् वेदनादीनां चैतसिकानां हेतुक्रियां प्रयच्छति तस्मिन् समये स्पर्श इति नाम प्रदीयते ॥

स्पर्शवर्गः पञ्चाशीतितमः ।

86 मनस्कारवर्गः

चित्तस्याभोगो मनस्कारः । स मनस्कार आभोगलक्षणः । अतः प्रतिमनस्कारं विभिन्नं चित्तमुत्पद्यते । वदन्ति च मनस्कारलक्षणं वस्तवधारणकृदिति । यथोक्तं सूत्रेयदि चक्षुराध्यात्मिकमायतनमनुपहतं भवति । रूपं नाह्यमायतनं पुरोवर्ति भवति । चित्तान्तरोत्पादकमनस्कारश्च नास्ति । तदा न चक्षुर्विज्ञानमुत्पद्यत इति ।

(पृ) किं विज्ञानानां ज्ञानं सर्वं मनस्कारबलेनोत्पद्यते किं वा न । (उ) न । कस्मात् । विज्ञानानां ज्ञानोत्पादो नैकान्तिकः । कदाचिदाभोगबलेनोत्पद्यते यथा प्रबलरागादिवर्जितानाम् । कदाचिदिन्द्रियबलादुत्पद्यते यथालोकचक्षुष्कः कणमृजु परीक्षते । कदाचिदालम्बनबलादुत्पद्यते यथा दूरतः प्रदीपं पश्यन् तस्य कम्पं पश्यति । कदाचित्कुशलमभ्यासादुत्पद्यते यथा शिल्पकर्मादि । कदाचित्सत्यग्रहलक्षणेनोत्पद्यते । यथा रूपाध्यवसायः । कदाचिद्धर्मस्वरूपत उत्पद्यते यथा कल्पावसाने ध्यानम् । यदाचित्कालेनोत्पद्यते (sss_209) यथाल्पायुष्कानां सत्वानामकुशलं चित्तम् । कदाचिदुपपत्त्यायतनत उत्पद्यते यथा गवाजादीनां चित्तम् । कदाचित्कायबलात् उत्पद्यते यथा स्त्रीपुरुषादीनां चित्तम् । कदाचिद्वयोविशेषादुत्पद्यते यथा बालादीनां चित्तम् । कदाचित्क्लमथतन्द्रिभ्यामुत्पद्यते । कदाचित्कर्मबलादुत्पद्यते यथा कामानां वेदना । कदाचित्समाधिबलादुत्पद्यते यथैकत्र प्रतिबद्धचित्तो विज्ञाने प्रकर्षं प्रजानाति । कदाचित्समाधिनियमादुत्पद्यते यथानावरणमार्गानन्तरं विमुच्यते । कदाचिच्चिरनिर्वेदादुत्पद्यते यथा कटुरसनिर्विण्णो मधुरसमभिलषति । कदाचिदभिरुचिवशादुत्पद्यते यथा रूपादीन् प्रति । कदाचिद्रूपदर्शनाभिलषितस्य न शब्दश्रवणे तृप्तिर्भवति । तथा नीलादावपि । सौकुमार्यादुत्पद्यते यथा लोमाक्षिगतं सत् चित्तस्य दुःखजनकं नान्यत्र गतम् । कदाचिद्दुःखमनादुत्पद्यते यथापगताक्षिरुजान्नमास्वाद्यते । कदाचिदावरणापगमादुत्पद्यते यथा कामाद्यपगमे तद्दोषान् प्रजानाति । कदाचित्क्रमश उत्पद्यते । यथा अवरं प्रतीत्य मध्यममुत्पद्यते । मध्यमं प्रतीत्योत्तमम् । कदाचित्सर्वत- उत्पद्यते ।

(पृ) यदि सर्वविज्ञानानां ज्ञानं क्रमलक्षणम् । कस्मादुच्यते चित्तान्तरजनकमनस्कारो नास्ति [पृथक] इति । (उ) तीर्थिकानां कृत [उच्यते] । तीर्थिका हि वदन्ति आत्ममनोयोगाद्विज्ञानज्ञानमुत्पद्यत इति । तद्व्यवहारदूषणाय प्रदर्शयति विज्ञानज्ञानानि समनन्तरप्रत्ययानुबन्धीनीति । अत एवमाह- कस्यचित् चित्तान्तरजनकमनस्कारे ऽसति विज्ञानं नोत्पद्यत इति । कस्मात् । समनन्तरप्रत्ययत्वात्तु विज्ञानज्ञानमेकैकं प्रतीत्योत्पद्यते । तद्यथा वृक्षं छित्त्वाथ पातयति । पूर्वमुक्तं- विज्ञानानि नैककालिकानीति । हेतुप्रत्ययवशाद्विज्ञानानां ज्ञानमैकैकं क्रमेणोद्यते । विज्ञानधर्माः क्रमिकाः स्युः । नात्ममनोयोगापेक्षिणः । यथा बाह्यवस्तूनि अङ्कुरकाण्डनालपत्रपुष्पफलानि क्रमिकानि भवन्ति । तथाध्यात्मिकधर्मा अपि । विज्ञानज्ञानमैकैकं क्रमिकं भवति ।

सम्यक् मिथ्येति मनस्कारो द्विविधः । सम्यगिति यत् योनिशो [मनस्कारः] । यथा वदन्ति सम्यक् प्रश्नः सम्यग् दूषणं, दूषणप्रश्नयोरिदं सयुक्ति समाधानमिति । धर्माणामनित्यतादि पारमार्थिकप्रश्नः सम्यगित्युच्यते । साध्यसाधनानुविधानञ्च सम्यगित्युच्यते । (sss_210) अतो ज्ञायते युक्तयनुयायिमनस्कारः तत्त्वमनस्कार इत्यादयः सम्यङ् मनस्काराः । यथापुद्गलं यथाकालं मनस्कारश्च सम्यङ् मनस्कारः । यथा कामबहुलस्याशुभभावना सम्यङ्मनस्कारः । चित्ते ऽबलीने व्युत्थानलक्षणं स्मयङ्मनस्कारः । एतद्विपरीतं मिथ्यामनस्कारः । सम्यङ्मनस्कारः सर्वगुणान् सम्पादयति । मिथ्यामनस्कारः सर्वक्लेशानुत्थापयति ।

मनस्कारवर्गः षडशीतितमः ।

87 छन्दवर्गः

साभिलाषं चित्तं छन्दैत्युच्यते । कस्मात् । सूत्रमाह कामच्छन्द इति । कामान् छन्दयतीति कामच्छन्दः । उक्तञ्च सूत्रे- छन्दो धर्ममूलम् इति । छन्द- प्रार्थनया सर्वधर्मानाप्नोतीति धर्ममूलमित्युच्यते । किञ्चाह- यदि भिक्षवो मम शासने तीव्रच्छन्दा [वर्तध्वे] । तद मम शासनं सुचिरं तिष्ठेत् इति । यच्चित्तैकतानत्वेनाभिलष्यते । तत्तीव्रच्छन्द इत्युच्यते । ऋद्धिपादे चोक्तम्- छन्दसमाधिः वीर्यसमाधिः चित्तसमाधिर्मीमांसासमाधिरिति । यच्चित्तेनाभिलष्यते स छन्दः । अयं वीर्यसहकारिणा प्रज्ञासमाधिं सञ्चिनोतीत्येभ्यश्चतुर्भ्यो ऽभिलषितमृद्ध्यङ्गमिति नामभाग् भवति । आह च- त्वं विहायसा गमनं छन्दयसि इति । तेनखलु समयेन स भिक्षुः पूर्वं स्वाध्यायबहुलो विहरति । सो ऽपरेण समयेनाल्पोत्सुकस्तूष्णींभूतः कषाययति । अथ खलु तस्मिन्वनषण्डे अधिवसन्ती देवता तस्य भिक्षोर्धर्मशृण्वन्ती येन स भिक्षुः तेनोपसङ्क्रान्तः । उपसङ्क्रम्य तं भिक्षुं गाथयाध्यभाषत ।

कस्मात् धर्मपदानि त्वं भिक्षुर्नाध्येपि भिक्षुभिः सुखं वसन् । श्रुत्वा च धर्मं लभते प्रसादं दृष्टे च धर्मे लभते प्रशंसाम् ॥ इति । अभूत् पूर्वं धर्मपदेषु छन्दो यावद्विरागेण समागतो ऽस्मि । यतो विरागेण समागतो ऽस्मि यत्किञ्चिदृष्टं श्रुतं वा मतं वा ।

आज्ञाय निक्षेपणमाहुः सन्त इति । अतो ज्ञायते ऽभिलषितं छन्द इति । अभिलषितं प्रतीत्य कामेषुछन्द इति कामच्छन्दः ।

छन्दवर्गः सप्ताशीतितमः ।

88 प्रीतिवर्गः

अभीप्सिते चित्ताभिरतिः प्रीतिः । यथोक्तं- सत्त्वा धातुलक्षणेनाकुशलप्रीत्या अकुशलानुयायिनः । कुशलेन कुशलप्रियाः इतीयं प्रीतिरित्युच्यते । (पृ) न धातुः प्रीतिर्भवति । कस्मात् । भगवान् यत् सत्त्वानां नानाधातून् प्रजानाति तत् धातुज्ञानबलम् । यत् नानाधिमुक्तीः प्रजानाति तदधिमुक्तिज्ञानबलम् । अतो धातुः प्रीतिश्च (अधिमुक्तिः) विभिन्नेतिः । (उ) चिरकालाभ्यासोपचितं चित्तं धातुरित्युच्यते । यथाधातुच प्रीतिरुत्पद्यते । अतश्चिरकालमुपचितं चित्तज्ञानं धातुज्ञानबलम् । यथाधातुसमुत्पन्ना प्रीतिरिति ज्ञानम् अधिमुक्तिज्ञानबलमिति । अत आह- सत्त्वानां यथाधातु सन्तानमनुवर्तत इति । चिरसञ्चिताकुशलचित्तस्याकुशले परा प्रीतिर्भवति । चिरसञ्चितकुशलचित्तस्य (sss_212) कुशले प्रीतिसुखम् । शीतार्तस्योष्णे प्रीतिर्भवतीदं दृष्टहेतुकं न धातुजम् । इत्ययं धातोः प्रीतेः प्रविभागः ॥

प्रितिवर्गो ऽष्टाशीतितमः ।

89 श्रद्धावर्गः

[चित्तस्य] विषयसमाधिः श्रद्धालक्षणम् । (पृ) ननु नियतसमाधिरयं प्रज्ञालक्षणम् । नियतसमाधिः प्रहीणविचिकित्सस्य भवतीति प्रज्ञालक्षणम् । (उ) धर्मं स्वयमदृष्ट्वा आर्योपदेशवशाल्लब्धश्चेतसः प्रसादः श्रद्धेत्युच्यते । (पृ) तथा चेत् स्वयं धर्मदर्शिनः श्रद्धा न स्यात् । (उ) सत्यमेवम् । अर्हन्नश्रद्धावान् भवति । यथोक्तं धर्मपदे-

अश्रद्धश्चाकृतज्ञश्च सन्धिच्छेदश्च यो नरः । [हतावकाशो वान्ताशः] स वै उत्तमपूरुषः ॥ इति ।

किञ्चोक्तं सूत्रे- अहं भगवन् अस्मिन् वस्तुनि यथा भगवद्वचनं श्रद्धध इति । यत् स्वयं धरदर्शिनश्चित्तं प्रसीदति । सा[पि] श्रद्धेत्युच्यते । पूर्वं धर्मं श्रुत्वा पश्चात्कायेन साक्षात्करोति । तस्येयं चिन्ता भवति स धर्मः परमार्थसत्यो न मृषेति, चित्तञ्च प्रसीदति । सा श्रद्धा चतुर्षु अवेत्यप्रसादेष्वन्तर्गता । तद्यथा रोगी पूर्वं भिषग्वचने श्रद्दधान औषधमुपसेव्य रोगान्मुक्तः पश्चात्तस्मिन् भिषजि प्रसन्नचित्तो भवति । सा श्रद्धेत्युच्यते ।

श्रद्धेयं द्विविधा मोहजा ज्ञानजेति । मोहजा यत् कुशलाकुशलमचिन्तयतः पूरणाद्यसदाचार्येषूत्पद्यमानश्चित्तप्रसादः । ज्ञानजा यथा चतुर्षु [अवेत्य] प्रसादेषु बुद्धादिषु चित्तप्रसादः । सा त्रिधा विभक्ता कुशला अकुशला अव्याकृता चेति । (पृ) अकुशला श्रद्धा क्लेशमहाभूमिगतैव आश्राद्ध्य धर्मः । नेयं श्रद्धा भवति । (उ) नायमाश्राद्ध्यधर्मः । श्रद्धा च प्रसादलक्षणा । अकुशला श्रद्धापि प्रसादलक्षणैव । तथा नो चेत् अकुशला वेदना वेदना न स्यात् । न च तद्युज्यते वस्तुतः । ततस्त्रिधैव विभक्ता । या श्रद्धा इन्द्रियेषु गणिता विमुक्त्यनुगामिनी सप्तत्रिंशब्दोधिपक्षिकेषु गता सा नियमेन कुशलैव ।

श्रद्धावर्ग एकोननवतितमः ।

90 व्यवसायवर्गः

चेतसो ऽभ्युत्साहो व्यवसाय इत्युच्यते । सदान्यधर्मान्निश्रयते मनस्कारं वा समाधिं वा । तत्राम्युत्साहः सदा चित्तैकाग्रतासमुदाचारः स व्यवसाय इत्युच्यते । त्रिविधो व्यवसायः कुशलो ऽकुशलो ऽव्याकृत इति । यत् चतुर्षु सम्यक्प्रधानेषु अन्तर्गतः स कुशलः । अन्यो ऽकुशलः । योगी यो ऽकुशलानामादीनवे कुशलानामनिशंसे च श्रद्धधते । तस्य पश्चादुत्पद्यते व्यवसायो ऽकुशलानां प्रहाणाय कुशलानां समादानाय । अतः श्रद्धेन्द्रियसमनन्तरं वीर्येन्द्रियमुच्यते । कुशधर्मगतो व्यवसायो वीर्यमित्याख्यायते । सर्वहितानां मूलं करोति । तद्व्यवसायसहकारतया मनस्कारादयो धर्मा महाफलप्रापका भवन्ति । यथा दहनः समीरणप्रतिलब्धः सर्वान् दहति ॥

व्यवसायवर्गो नवतितमः ।

91 स्मृतिवर्गः

अनुभूतपूर्वस्य ज्ञानं स्मृतिः । यथोक्तं सूत्रे- यत् चिरविप्रकृष्टानुभूतं स्मरति न प्रमुषति सा स्मृतिरित्युच्यते ।

(पृ) सा स्मृतिस्त्रयध्वर्तिनी । कस्मात् । उक्तं हि सूत्रे स्मृतिं सर्वार्थिकां [वदामी]ति । सा स्मृतिः चतुःस्मृत्युपस्थानगता । चत्वारि स्मृत्युपस्थानानि त्रयध्वालम्बनानि च । कस्मात्पुनरतीतमात्रालम्बनेति । (उ) तद्वचनं सर्वकालेन भवति । न तु त्र्यध्वा भवति । यस्मिन् समये चित्तमुद्धतं भवति । तदा स्मृतिरुभयत्रानुगा । सा सर्वत्रगेत्युच्यते । यदुक्तं भवता चत्वारि स्मृत्युपस्थानानि त्र्यध्वालम्बनानीति । तत्र प्रत्युत्पन्ना प्रज्ञैव न तु स्मृतिः । अतस्तथागतो [यदा] पूर्वं स्मृतिनाम्ना विमुक्तिमुक्तवान् तदा तामेव प्रज्ञेत्यवोचत् ।

(पू) कथं विज्ञानान्तरेणानुभूतं विज्ञानान्तरं स्मरति । (उ) स्मृतेर्धर्मं एवं यत् स्वसन्ताने यो धर्मः [पूर्व]मुत्पन्ननिरुद्धः तमेव [स्वसन्तानिकं] विप्रकृष्टं विज्ञानान्तरमालम्बत इति । ज्ञानानां विज्ञानधर्मश्च तथा यत् विज्ञानान्तरानुमूतं विज्ञानान्तरं विजानातीति । यथा चक्षुर्विज्ञानेन विज्ञातं रूपं मनोविज्ञानं विजानाति । अन्यपुद्गलेनानुभूतमन्यः पुद्गलो विजानाति । यथार्यपुद्गला यावत्पूर्वनिवासे देहान्तरानुभूतं स्मृतिबलाद्विजानान्ति । (पू) यदि पूर्वानुभूतस्य ज्ञानं स्मृतिरिति । आधुनिकविज्ञप्त्यादिधर्माः स्मृतयः स्युः । कस्मात् । तद्धर्माणामपि पूर्वानुभूतोपविचाररूपत्वात् । (उ) विज्ञप्त्यादिधर्मा अपि स्मृतय इत्युच्यन्ते । यथा भगवान् सल्यकं नाथपुत्रमवोचत् पूर्वं मनसि कृत्वा व्याकुरुष्व इति । आह च पूर्वानुभुक्तसुखस्मरणे क्लेश आविर्भवतीति । अतो विज्ञप्त्यादिधर्मा अपि पूर्ववस्त्वनुस्मरणरूपा स्मृतय इत्युच्यन्ते । स्मृतिरियं गृहीतलक्षणाज्जाता । यस्मिन् धर्मे गृहीतलक्षणमस्ति । तत्र स्मृतिर्भवति नान्यथा । समाधिः प्रज्ञा च समाधिवर्गे प्रज्ञावर्गे च वक्ष्यते ॥

स्मृतिवर्ग एकनवतितमः ।

92 वितर्कविचारवर्गः

yat cittaṃ vyagraṃ muharmuhurālambhakaṃ sa vitarkaḥ | samāhitacittasyāpyasti audārikatā sūkṣmatā | [tatra yat] audārikaṃ sa vitarkaḥ | sūkṣmasamādhānābhāvādaudārikaṃ cittamityucyate | yathoktaṃ sūtre- bhagavānāha- savitarkaṃ savicāraṃ prathamadhyānamupasampadya viharāmīti | ataḥ prathamadhyānamasūkṣmasamāhitamiti savitarkaṃ bhavati | yā cittasya vyagratā kiñcitsūkṣmatā sa vicāraḥ | imau dvau traidhātukau | cittasyaudārikasūkṣmalakṣaṇatvāt | vyagraṃ vikṣiptaṃ cittaṃ vitarkavicārau bhavataḥ | tallakṣaṇatvāt sarvatra syātām | apratyakṣaṃ vastu anumityā jñāyate | evaṃ syānnaivaṃ syādityabhyūho vitarkaḥ | ato 'pratyakṣavastuno 'nuvitarkaḥ samyagvitarko vā mithyāvitarko vā iti taṃ kathayāmaḥ | nirvikalpānuvitarkaḥ samyak dṛṣṭirityākhyāyate | ayaṃ tridhājñātaḥ | mithyāvitarko viparītamanaskāraḥ yadanitye nityamityādiḥ | samyagvitarkaḥ yadapratilabdhaṃ tattvajñānamanumitilakṣaṇena jñānena labdhvā yogī nirvedhabhāgīyakuśalamūle vartate | iyaṃ kṣāntirityucyate | evamanyamārgeṇānuyāyi anumitijñānaṃ samyagvitarkaḥ | tatra yat saṃzñānusmaraṇavikalpāpoḍhaṃ tat pratyakṣamityucyate | tasminneva vitarke anena hetunā evaṃ bhavati anena hetunā naivaṃ bhavati iti cintanā vicāraṇā vā sa vicāraḥ |

(पृ) केचिदाहुः- वितर्कविचारावेकाग्रतान्तर्गताविति । कथमिदम् । (उ) मैवम् । कस्मात् । उक्तं खलु भवद्भिर्घण्टाताडनदृष्टान्तः । आद्यशब्द[समो] वितर्कः । अन्यशब्द[समो] विचारः । तरङ्गदृष्टान्तश्च [उक्तः] । य औदारिकः [तत्समो] वितर्कः । यः सूक्ष्मः [तत्समो] विचारः । कालदेशभेदान्न चित्तैकाग्रता स्यात् । निर्विकल्पकत्वात्पञ्च विज्ञानानि न सवितर्कविचारलक्षणानि भवन्ति ॥

वितर्कविचारवर्गो द्विनवतितमः ।

93 अन्यचैतसिकवर्गः

यत् कुशलस्यानाचरणं मिथ्याचरणं वा स प्रमादः । न प्रमादाख्यो ऽन्य एकधर्मो ऽस्ति । तस्मिन् समये चित्तसमुदाचारः प्रमादः इत्युच्यते । तद्विपरीतो ऽप्रमादः । यः कुशलश्चित्तसमुदाचारो ऽप्रमादादन्यः सो ऽपि धर्मान्तरम् । अकुशलानुगतं चित्तं प्रमादः । कुशलानुगतन्तु अप्रमादः ।

कुशलमूलमिति अलोभो ऽद्वेषो ऽमोहः । योनिशोमनस्काराशिरस्कानासक्तिरलोभः । मैत्रीकरुणाशिरस्कः क्रोधानुत्पादो ऽद्वेषः । सम्यद्गर्शनशिरस्को ऽभ्रान्तो ऽविपर्ययः अमोहः । अलोभो नाम नास्त्येकं धर्मान्तरम् ।

केचिदाहुः लोभाभावो ऽलोभ इति । न युक्तमिदम् । कस्मात् । लोभाभावो ऽभावधर्मः । कथमभावो धर्मस्य हेतुः । अद्वेषामोहावप्येवम् । तत्रायाणामकुशलमूलानां विपरीतानि त्रीणि कुशलमूलान्युच्यन्ते । मदमानादयो ऽप्यकुशलमूलानि स्युः । संक्षेपतस्त्रीण्येवाकुशलमूलान्युक्तानि । वक्ष्यन्ते चाकुशलवर्गे ।

अव्याकृतमूलमिति । केचिद्वदन्ति- चत्वार्यव्याकृतमूलानि- तृष्णा दृष्टिः मानमविद्येति । [अन्ये] केचिदाहुः त्रीणि तृष्णा अविद्या प्रज्ञा इति । नैतद्भगवतोक्तम् । अव्याकृतानुगं चित्तं यद्धेतुजं स हेतुरव्याकृतमूलं भवति । कायवाक्कर्मणी प्रायो ऽव्याकृतानुगे इति चित्तमुत्पद्यते । अव्याकृतचित्तमव्याकृतमूलमित्युच्यते ।

चित्तसमाचरणकाले यत् कायश्चित्तं दौष्ठल्यविगतं प्रशान्तं भवति । तस्मिन् समये प्रश्रब्धिरित्युच्यते ।

नानावस्तुषु चित्त [समाचरण]काले उपेक्षेत्युच्यते । यत् वेदनासु अनभिज्ञा चित्तसमाचरणं सोपेक्षा । ध्यानेषु यत् सुखदुःखविविक्तं विमुक्तिपरायणं चित्तसमाचरणं सोपेक्षा । सप्तबोध्यङ्गेषु अलीनमकम्पसमतादि यच्चित्तसमाचरणं सोपेक्षा । प्रीतिदौर्मनस्यविनिर्मुक्तं समतादिप्रतिलब्धं चित्तमुपेक्षा । चतुर्षु अप्रमाणेषु वैरमैत्रविगतं चित्तमुपेक्षा । एवं नानाधर्माणां विरोधाच्चैतसिकानां विशेषो ऽप्रमाणः ॥

अन्यचैतसिकवर्गस्त्रिनवतितमः ।

94 विप्रयुक्तसंस्कारवर्गः

चित्तविप्रयुक्तसंस्काराः यदुत प्राप्तिः, अप्राप्तिः असंज्ञिसमापत्तिः निरोधसमापत्तिः आसंज्ञिकं जीवितेन्द्रियं जातिः व्ययः स्थितिः अन्यथात्वं जरा मरणं नामकायः पदकायो व्यञ्जनकायः पृथग्जनत्वं इत्यादयः ।

प्राप्तिरिति । सत्त्वानां कृते धर्माणां समन्वागमः प्राप्तिः । प्रत्युत्पन्नाध्वनि पञ्चस्कन्धसमन्वागतः सत्त्वः प्राप्त इत्युच्यते । अतीताध्वनि यानि कुशलाकुशलकर्माणि अननुभूतविपाकानि । तद्धर्मसमन्वागतः सत्त्वः । यथोक्तं सूत्रे- कुशलधर्मसमन्वागतो ऽकुशलधर्मसमन्वागतश्च पुद्गल इति । (पृ) केचिदाहुः- अतीतकुशलाकुशलकायवाक्कर्मसमन्वागतः । यथा प्रव्रजितः अतीतशीलसंवरसमन्वागत इति । कथमिदम् । (उ) सर्वेषां समन्वागमः । कस्मात् । उक्तं हि सूत्रे यः पुण्यं पापञ्च करोति । तस्य तद्विद्यमानमेव । तत् द्वयं तत्कायमनुपतति रूपानुपातिच्छायावत् इति । किञ्चोक्तं सूत्रे- मृतस्य पुण्यं न प्रणश्यति यदुत फलप्रापकमेव । यदसमन्वागतं पुण्यपापं कर्म न तत्फलप्रापकम् । तानि कर्माणि नश्यन्ति । इति ।

(पृ) अतीतसंवरस्य न समन्वागमः स्यात् । कस्मात् । भवतोक्तम् अतीतधर्मो निरुद्धः । अनागतो ऽविद्यमान इति । प्रत्युत्पन्नश्च न सदा कुशलचित्तवत्त्वे (sss_219) क्षमः । कथं शीलसंवरसमन्वागतः स्यात् । (उ) पुरुषः प्रत्युत्पन्नेन संवरेण समन्वागतो नातीतेन । यथा प्रत्युत्पन्नक्लिष्टात् क्लिष्टम्, तथा प्रत्युत्पन्नशीलात् शीलं भवति । नातीतात् । [यः] पूर्वं स्वीकृत्यापरित्यक्तवान् [सः] अतीतसमन्वागत इत्युच्यते ।

(पृ) आभिधर्मिका आहुः सत्त्वा अनागताध्वनीनकुशलाकुशलचित्तसमन्वागता इति । तत्कथमिदम् । (उ) न समन्वागताः । कस्मात् । अकृताभ्यागमात् । अतो ऽनागतासमन्वागमः प्राप्तिरित्युच्यते । न चास्ति प्राप्त्याख्यः पृथक्चित्तविप्रयुक्तधर्मः । तद्विपरिताप्राप्तिरपि नास्ति पृथक्चित्तविप्रयुक्तधर्मः ।

असंज्ञिसमापत्तिरित्ययं समापत्तिधर्मो नास्ति । कस्मात् । न हि निरुध्यन्ते पृथग्जनानां चित्तचैतसिकधर्मा इति पश्चाद्वक्ष्यते । चित्तचैतसिकानां सूक्ष्मतया दुरवबोधात् असंज्ञीति नाम । आसंज्ञिकमप्येवम् । निरोधसमापत्तिरिति । चित्तनिरोधे समुदाचाराभावान्निरोधसमापत्तिरिति नाम । स च नास्ति धर्मान्तरम् । निर्वाणवत् । जीवितेन्द्रियमिति । कर्मप्रत्ययः पञ्चस्कन्धसन्तानो जीवितमित्युच्यते । जीवितञ्च कर्मणो मूलमिति जीवितेन्द्रियमित्युच्यते । जातिरिति । पञ्चस्कन्धानां प्रत्युत्पन्नाध्वा जातिः । प्रत्युत्पन्नाध्वपरित्यागो व्ययः । सन्तन्यमानत्वं स्थितिः । स्थितिपरिणामो ऽन्यथात्वम् । न सन्ति पृथक्जातिव्ययादयो धर्माः । भगवतः शासनं गभीरं यत्प्रत्ययानां सामग्र्या धर्मा (sss_220) उत्पद्यन्त इति । अतो नास्ति कश्चिद्धर्मो धर्मान्तरस्योत्पादकः । उक्तं हि- चक्षूरूपादयश्चक्षुर्विज्ञानस्य प्रत्यया इति । न तत्रोक्तं जातिरस्तीति । अतो नास्ति जातिरित्यनवद्यम् ।

किञ्च वदन्ति जात्यादयो धर्मा एककालीना इति । य एककालीनः स निरुद्ध एव । तत्र जात्यादयः किमर्था इति विचारयितव्यम् । द्वादशनिदाने च भगवान् स्वयमाह जातेरर्थम् । या तेषां तेषां सत्त्वानां तस्मिन् तस्मिन् [सत्त्वनिकाये] जातिः स्कन्धानां प्रतिलाभः....... [सा जातिः] इति । अतः प्रत्युत्पन्नाध्वनि स्कन्धानामाद्यलाभो जातिः । आह च- स्कन्धानां च्युतिरन्तहाणिर्मरणमिति । आह च- स्कन्धानां जीर्णता भुग्नता जरेति । [अतो] न पृथक् स्तो जरामरणधर्मौ ।

नामकाय इति । व्यञ्जनेभ्य उत्पन्नं नाम यथा वदन्ति देवदत्त इति । यथाव्यञ्जनमर्थसाधनं पदम् । व्यञ्जनानि अक्षराणि । केचिदाहुः- नामपदव्यञ्जनकायाश्चितविप्रयुक्तसंस्कारा इति । तदयुक्तम् । धर्मा इमे वाक्स्वभावा धर्मायतनसंगृहीताः ।

(पृ) अस्ति पृथकग्जनत्वं नाम चित्तविप्रयुक्तसंस्कार इति । [केचिद्वदन्ति] । कथमिदम् । (उ) न पृथग्जनत्वं पुथग्जनादन्यत् । यद्यस्ति तदन्यत् । अन्ये घटत्वादयो (sss_221) ऽप्यनुभूयेरन् । संख्यापरिणामैकत्वपृथक्त्वसंयोगविभागपरत्वापरत्वादयो धर्माः पृथक् स्युः । तीर्थिकानां हि सूत्रेषूक्तं- अन्यो घटो ऽन्यत् घटत्वम् । घटत्वं प्रतीत्य ज्ञायते ऽयं घट इति । रूपमन्यत् रूपत्वमन्यत् इति । तदयुक्तम् । कस्मात् । तत्त्वं तत्स्वभावः । यदि ब्रवीषि पृथग्जनत्वमन्यदिति । तदा रूपं स्वभावं विना स्यात्, रूपत्वापेक्षित्वात् । तत्तु न युज्यते । अतो गभीरमननुविचिन्त्य ववीषि- अस्ति पृथग्जनत्वं पृथगिति ।

आभिधर्मिकास्तीर्थिकग्रन्थानभ्यस्याभिधर्मशास्त्रमारचयन्तो वदन्ति सन्ति पृथकग्जनत्वादयो धर्माः पृथगिति । अन्य आभिधर्मिका अपि वदन्ति । सन्ति पृथक् तथताभूतकोटिप्रतीत्यसमुत्पादादयो ऽसंस्कृतधर्मा इति । अतो गभीरमिमं नयमनुविचिन्त्यमा रुतमनुवर्तध्वम् ॥

विप्रयुक्तसंस्कारवर्गश्चतुर्नवतितमः

[इति] दुःखसत्यस्कन्धः समाप्तः ॥

अथ समुदयसत्यस्कन्धः 95 समुदयसत्यस्कन्धे कर्माधिकारे कर्मलक्षणवर्गः

शास्त्रमाह- दुःखसत्यं परिसमाप्य समुदयसत्यमिदानीं वक्ष्यत इति । तत्र कर्म क्लेशाश्च समुदयसत्यम् । त्रिविधं कर्म कायिकं वाचिकं मानसिकमिति । कायेन कृतं कर्म कायिकम् । तत् त्रिविधं अकुशलं प्राणातिपातादि । कुशलं चैत्यवन्दनादि । अव्याकृतं तृणच्छेदादि ।

(पृ) यदि कायेन कृतं कायिकम् । तदा घटादिद्रव्यमपि कायिकं कर्म स्यात् । कायेन कृतत्वात् । (उ) घटादि कायिककर्मणः फलम् न कायिकं कर्म । हेतुफलयोर्भेदात् । (पृ) न स्यात्कायिकं कर्म । कस्मात् । कायस्पन्दनकृतं कायिकं कर्म । संस्कृतधर्माणां क्षणिकत्वात् न स्यात्स्पन्दनम् । (उ) इदं क्षणिकवर्गे प्रत्युक्तं यदेकस्मिन् धर्म उत्पद्यमाने ऽन्यस्यापचय उपचयो वा [तत्] कायिकं कर्मेति । (पृ) तथा चेत् काय एव कायिकं कर्म भवेत् । अन्यत्रोत्पद्यमानत्वात् । न तु कायेन कृतं कायिकं कर्म । (उ) कायः कर्मक्रियायाः साधनम् । काये ऽन्यत्रोत्पद्यमाने पुण्यपापसमुदयः कर्म । अतो न काय एव कर्म । (पृ) पुण्यपापसमुदयो ऽविज्ञप्तिः । कायविज्ञप्तिः कथम् । (उ) काये ऽन्यत्रोत्पद्यमाने क्रियमाणा विज्ञप्तिः कायविज्ञप्तिर्भवति । (पृ) कायविज्ञप्तिः कुशला वाकुशला वा । कायस्तु न तथा । अतो न कायविज्ञप्तिः स्यात् । (उ) चित्तबलात् काये ऽन्यत्रोत्पद्यमाने कर्म समुदेति । अतस्तत्समुदयो यदि वा कुशलो [यदि वा] अकुशलः न तु साक्षात्कायिकः । तथा वाचिककर्मापि । न तु तत् साक्षाच्छब्दव्यवहार[रूपम्] । (sss_223) चित्तबलात् शब्दव्यवहारसमुदितं कर्म कुशलमकुशलं वाचिकं कर्मेत्युच्यते । एवं मानसं कर्मापि । य इमं सत्त्वं हन्मीति अध्यवसितचित्तो भवति । तस्य तस्मिन् समये पापं समुदेति । एवं पुण्यमपि ।

(पृ) यथा कायवाग्भ्यां पृथगस्ति कर्म । [तथा] मनो ऽपि मानसकर्मणो ऽन्यदेव । (उ) तत् द्विधा भवति मन एव मानसं कर्म मनस उत्पन्नं वा मानसं कर्म इति । सत्त्वं हन्मीति यदध्यवसितं मनः तदकुशलं मन एव मनसं कर्म । तत्कर्म पापसञ्चयरूपं कायिकवाचिककर्मातिशायकम् । यदि चित्तमनध्यवसितम् । तदा मनः कर्मणो ऽन्यत् ।

(पृ) विज्ञप्तिलक्षणं ज्ञातम् । विज्ञप्तित उत्पन्नो ऽन्यःकर्मसमुदयः । किं [तस्य] लक्षणम् । (उ) तदविज्ञप्तिरेव । (पृ) किं केवलमस्ति कायिकवाचिकाविज्ञप्तिरेव न मानसिकाविज्ञप्तिः । (उ) मैवम् । कस्मात् । नह्यस्ति तत्र कारणं केवलं कायिकवाचिकाविज्ञप्तिरेवास्ति न मानसिकाविज्ञप्तिरिति । सूत्रे चोक्तं द्विधा कर्म- चेतना वा चेतयित्वा वा [कर्मे]ति । चेतना मानसं कर्म । चेतयित्वा [कर्म] त्रिविधम्- चेतनासञ्चितं कर्म कायिकं वाचिकं कर्मेति । तत्र मानसं कर्म गुरुतरमिति पश्चाद्वक्ष्यते । गुरुतरकर्मसञ्चितमविज्ञप्त्याख्यं सदा सन्तानेन प्रवर्तते । अतो ज्ञायते मानसिककर्मणो ऽपि अविज्ञप्तिरस्तीति ॥

समुदयसत्यस्कन्धे कर्माधिकारे कर्मलक्षणवर्गः पञ्चनवतितमः ।

96 अविज्ञप्तिवर्गः

(पृ) को ऽविज्ञप्तिधर्मः । (उ) चित्तं प्रतीत्योत्पद्यमानं पुण्यपापं मिद्धमूर्छादिकाले ऽपि यन्नित्यं प्रवर्तते । साविज्ञप्तिः । यथोक्तं सूत्रे-

आरामरोपा वनरोपा ये जनाः सेतुकारकाः । प्रपाञ्चैवोदपानञ्च ये ददन्ति उपाश्रयम् । तेषां दिवा च रात्रिञ्च सदा पुण्यं प्रवर्तते ॥ इति ।

(पृ) केचिदाहुः- विज्ञप्तिकर्म प्रत्यक्षमुपलभ्यते । यानि चीवरदानचैत्यवन्दनहननहिंसादीनि तानि भवेयुः । अविज्ञप्तिस्तु अनुपलभ्यमानत्वात् नास्तीत्ययमर्थः स्पष्टं स्यादिति । (उ) यदि नास्त्यविज्ञप्तिः । तदा प्राणातिपातविरत्यादिधर्मो नास्ति । (पृ) विरतिर्नामाकरणम् । अकरणमभावधर्मः । यथा पुरुषस्याभाषणकाले नास्तिभाषणधर्मः । रूपस्यादर्शनकाले ऽपि नास्त्यदर्शनधर्मः । (उ) प्राणातिपातविरत्यादिना स्वर्ग उत्पद्यते । यदि विरतिरभावधर्मः । कथं हेतुः स्यात् । (पृ) न विरत्या स्वर्ग उत्पद्यते, किन्तु कुशलचित्तेन । (उ) मैवम् । उक्तं हि सूत्रे- वीर्यवान् पुरुष आयुर्वशात् बहुपुण्यं प्रसवति । पुण्यबहुत्वाच्चिरं स्वर्गसुखं विन्दत इति । यदि कुशलचित्तमात्रेण, किमर्थं बहुपुण्यो भवति । न ह्ययं कुशलचित्तो भवितुं क्षमते । आह च वनादिरोपस्य दिवा रात्रिञ्च सदा पुण्यं प्रवर्धत इति । शीलं ध्रुवमिति चोक्तम् । यदि नास्त्यविज्ञप्तिः । कथं वक्तव्यं स्यात् पुण्यं सदा प्रवर्धते, शीलं ध्रुवमिति च । न च विज्ञप्तिः प्राणातिपातक्रियैव । प्राणातिपातानन्तरं धर्मो भवति । तदूर्ध्वं प्राणातिपातपापं लभते । यथा हन्तुं कञ्चन प्रेरयति । हननकालमनु प्रेरको हननपापं लभते । अतो ज्ञायते ऽस्त्यविज्ञप्तिरिति । मनश्च न शीलसंवरः । कस्मात् । यदि कश्चिदकुशलाव्याकृतचित्तस्थः, यदि वाचित्तः । सो ऽपि शीलधारीत्युच्यते । अतो ज्ञायते तस्मिन् समये ऽस्त्यविज्ञप्तिरिति । एवमकुशल संवरो ऽपि ।

(पृ) ज्ञातं विनापि चित्तमस्त्यविज्ञप्तिधर्म इति । इदानीं किमिदं रूपं किं वा चित्तविप्रयुक्तसंस्कारः । (उ) स संस्कारस्कन्धसङ्गृहीतः । कस्मात् । यस्मादभिसंस्करणलक्षणः संस्कारः । अविज्ञप्तिरपि अभिसंस्करणलक्षणा । रूपञ्च रूपणालक्षणम् नाभिसंस्कारलक्षणम् । (sss_225) (पृ) सूत्र उक्तं षट् चेतनाकायाः संस्कारस्कन्ध इति । न चित्तविप्रयुक्तसंस्कारा इति । (उ) प्रतिपादितमिदं पूर्वं यदस्ति पुण्यं पापं चित्तविप्रयुक्तमिति । (पृ) अविज्ञप्तिर्यदि रूपलक्षणा । को दोषः । (उ) रूपशब्दगन्धरसस्प्रष्टव्याः पञ्च धर्मा न पुण्यपापस्वभावाः । अतो न रूपस्वभावाविज्ञप्तिः । भगवानाह- रूपणालक्षणं रूपमिति । अविज्ञप्तौ रूपणालक्षणानुपलम्भान्न रूपस्वभावता ।

(पृ) अविज्ञप्तिः कायिकवाचिककर्मस्वभावा । कायिकवाचिककर्म च रूपमेव । (उ) अविज्ञप्तिः कायिकवाचिककर्मेति नाममात्रम् । न वस्तुतः कायवाग्भ्यां क्रियते । कायञ्च वाचञ्च प्रतीत्य मानसिककर्मणोत्पन्नत्वात्कायिकवाचिकमानसिककर्मस्वभावेत्युच्यते । अथवा मनस उत्पन्नैवाविज्ञप्तिः । इयमविज्ञप्तिः कथं रूपस्वभावा । आरूप्ये ऽप्यस्त्यविज्ञप्तिः । आरूप्ये कथं रूपं भविष्यति । (पृ) काः क्रिया अविज्ञप्तिमुत्पादयन्ति । (उ) शुभाशुभकर्मक्रियाभ्य उत्पद्यते ऽविज्ञप्तिः । नाव्याकृताभ्यः । अल्पबलत्वात् । (पृ) कदा क्रियाभ्यो ऽविज्ञप्तिरुत्पद्यते । (उ) द्वितीयचित्तादुत्पद्यते । यत् कुशलाकुशलानुगामि चित्तं प्रबलं भवति । तत् चिरं तिष्ठति । यच्चित्तं दुर्बलं न तच्चिरं तिष्ठति । यथा एकदिनसमात्तं शीलमेकदिनं तिष्ठति । आदेहपातसमात्तं शीलन्तु आदेहपातं तिष्ठति ॥

अविज्ञप्तिवर्गः षण्णवतितमः ।

97 हेत्वहेतुवर्गः

(पृ) सूत्र उक्तम्- हेतुकृतं कर्म अहेतुकृतं कर्मेति । कतमो हेतुः अहेतुश्च । (उ) ज्ञानपूर्वकं कृतं [कर्म] हेतुकृतम् । तद्विपरीतमहेतुकृतम् । (पृ) [तर्हि] यदहेतुकृतं न तत् कर्म भवति । (उ) अस्तीदं कर्म । किन्तु यच्चित्तहेतुकृतं कर्म तत्सविपाकम् । चित्ते ऽध्यवसीयकृतं कर्म हेतु [कृत]म्, अनध्यवसीयकृतं कर्माहेतु [कृतम्] । यथा योधाजीवव्यवहारो ऽहेतुकः । अयोधाजीवव्यवहारस्तु हेतुः । यथोक्तं सूत्रे- तव दोषान् गणयिष्यामि । यदि योधाजीवो व्यवहरसि न तदा गणयिष्यामीति यावत् त्रिधा पृच्छति । यद्यकरणचित्तपूर्वकं करोति- यथा कश्चिद्विहरन् पादनिक्षेपणेन कीटं हन्ति । सो ऽहेतुः । अहेतुककर्मासञ्चितमिति न विपाकजनकम् ।

कर्माणि चतुर्विधानि- कृतानुपचितं, उपचित्ताकृतं, कृतोपचितं अकृतानुपचितम् इति । कृतानुपचितमिति- यथा हननादिकर्म कृत्वा पश्चाच्चित्तं परितपति । दानादिकर्म कृत्वा च चित्तं परितपति । कर्मक्रियाचित्तमुत्पाद्य न पुनः स्मरति । तत् कृतानुपचितम् । उपचिताकृतमिति- यत् अन्यं हननादि कारयित्वा प्रमुदितचित्तो भवति । अन्यं दानादि कारयित्वा च प्रमुदितचित्तो भवति । कृतोपचितमिति- यत् हननादि पापं कृत्वा दानादिपुण्यं कृत्वा च प्रमुदितचित्तो भवति । अकृतानुपचितमिति- न च करोति नापि मुदितचित्तो भवति । तत्र कृतोपचितकर्मणो ऽस्ति विपाकवेदना । यथोक्तं सूत्रे- यत् कर्म कृतमुपचितं तस्य कर्मणो ऽवश्यमस्ति विपाकप्रतिसंवेदना इति । अतः कृतोपचितकर्मणो दृष्टधर्मे वा विपाको वेद्यते । उपपत्तौ वा विपाको वेद्यते । आयत्यां वा विपाको वेद्यते ।

(पृ) यदि हेतुकृतोपचितकर्मणो ऽवश्यमस्ति विपाकप्रतिसंवेदना तदा नास्ति विमुक्तिः । (उ) कर्म हेतुकृतमपि तत्त्वज्ञानलाभिनो न पुनरुपचीयते । यथा दग्घबीजं न पुनः प्ररोहति । लवणपलवर्गे भगवानाह- एकत्यः(श्च) पुरुषो [भावितकायो] (sss_227) नरकवेदनीयं कर्म करोति । तस्य तादृशमेवाल्पमात्रकं दृष्टधर्मवेदनीयं भवति । इति । (पृ) यदि गुरुपापकं कर्म अल्पमात्रकं [दृष्टधर्म]वेदनीयं प्रज्ञायते । कस्मान्नात्यन्तं क्षयमेति । (उ) यस्तत्त्वज्ञानं न भावयति स पापकर्मणो ऽनुशयं लभते । अतो ऽल्पको दृष्टधर्मवेदनीयो विपाको भवति । (पृ) [तर्हि] भाविततत्त्वज्ञानो ऽर्हन्नपि अकुशलविपाकं वेदयते । (उ) परमकुशलधर्ममभ्यसन्नकुशलं प्रतिहन्ति । अतो यो जन्मशतसहस्रेषु शीलादि कुशलमुपचिनोति । न तस्याकुशलं कर्मोदेति । यथा बुद्धानां सर्वज्ञानां पुरुषाणाम् । नान्येषामेवं सामर्थ्यम् । अतो ऽकुशलकर्म लभन्ते । अतो ऽर्हन् भाविततत्त्वज्ञानो ऽपि पूर्वकर्मवशादकुशलविपाकं वेदयते च । (पृ) उक्तं सूत्रे ऽपि- भगवानपवादाद्यकुशलकर्मविपाकं वेदयत इति । (उ) भगवान् सर्वज्ञो नाकुशलकर्मविपाकः । समुच्छिन्न सर्वाकुशलमू[ल]त्वात् । किन्त्वप्रमाणर्द्ध्युपायेनोपदर्शयति अचिन्त्यं बुद्धवस्त्विति । यथोक्तमेकोत्तरागमे अचिन्त्यानि पञ्चवस्तूनीति ।

कर्म द्विविधम्- नियतविपाकमनियतविपाकमिति । नियतविपाकं कर्म बहु वा अल्पं वा अवश्यवेदनीयविपाकम् । अनियतविपाकं कर्मेति अत्यन्तपरिक्षीयमाणम् । (पृ) किं नियतविपाकं कर्मं किमनियतविपाकम् । (उ) यानि सूत्रोक्तानि तानि नियतविपाककर्माणि । (पृ) किं पञ्चानन्तर्याण्येव नियतविपाककर्माणि । किमन्यान्यपि सन्ति । (उ) अन्येषां कर्मणामस्ति नियतविपाकताभागः । किन्तु न प्रदर्शितः । विषयगौरवाद्वा नियतविपाकता । यथा भगवति तच्छ्रावके वा सत्कारः अथवाल्पमात्रानिन्दा । चित्तगौरवाद्वा नियतविपाकता । यथा गम्भीरघनपर्यवस्थानेन क्रिमिकीटान् हन्ति । इदं पुरुषहननादपि गुरुतरम् । एवमादि । अन्यानि कर्माण्यनियतविपाकानि सन्ति । (पृ) यदि पञ्चानन्तर्यपापकानि तनूभवन्तीति । कस्मादत्यन्तं न क्षीयन्ते । (उ) न ते पापधर्मास्तस्मिन् समये ऽत्यन्तं क्षीयन्ते । यथा स्रोतआपन्नः कौसीद्यप्राप्तो ऽपि नाष्टयोनीः प्राप्नोति । (sss_228) सारगौरवात्पञ्चानन्तर्याणि नात्यन्तं क्षीयन्ते । यथा राजधर्मे गुरुपातकी दण्ड्य एव न क्षन्तव्यः ॥

हेत्वहेतुवर्गः सप्तनवतितमः ।

98 गुरुलघुपापवर्गः

सूत्र उक्तम्- अस्ति गुरुलघुपापं कर्मेति । कतमद्गुरुलघु । (उ) यत्कर्मावीचिनरकवेदनीयप्रापकं तत् कर्म गुरुपापकमित्युच्यते । (पृ) कानि कर्माणि तद्विपाकप्रापकानि । (उ) यत्सङ्घभेदनकर्म तेनावश्यं तद्विपाकं वेदयते । कस्मात् । त्रीणि रत्नानि प्रतिविभिन्नानि । सङ्घरत्नं बुद्धरत्नाद्व्यतिरिक्तम् । धर्मरत्नभेदो ऽपि [गुरुपापम्] । अधिमात्र मिथ्यादृष्टिजातस्तत्कर्माभिनिर्वर्तयति । बुद्धे परमीर्ष्याव्यापादाभ्यां तत्कर्म करोति । चिरोपचिताकुशलस्वभावः स्वलाभलोभात्तत्कर्म करोति । धर्मो धर्म इति [यत्] तन्नास्तीति तस्मिन् वदति कुशलधर्माणामचरितारो बहवः सत्त्वाः प्रतिहन्यन्त इत्यतो भवति गुरुतरं पापम् ।

(पृ) किं सङ्घभेदमात्रमवीचौ विपाकप्रापकम् । किमन्यदप्यस्ति । (उ) अन्यदप्यस्ति कर्म । नास्ति पापं नास्ति पुण्यं नास्ति मातापितृसज्जानानां सत्कारविपाक इति यद्वचनं तदादिमिथ्यादृष्टिरपि तद्विपाकप्रापिणी । अन्यं मिथ्यादृष्टौ पातयन् बहून् सत्त्वानकुशलानि कारयंश्च तद्विपाकं वेदयते । ईदृशमिथ्यादृष्टिसूत्राणि रचयन्ति यथा पूरणादयो मिथ्यादृष्टिनामाचार्याः सम्यग्दृष्टिविहिंसया बहूनां सत्त्वानामकुशलाय हेतुप्रत्ययं प्रकाशयन्ति । आर्याणामपवादो ऽपि तद्विपाकप्रापकः । यथा वदन्ति चतुरशीतिवर्षसहस्त्राणि एकनिन्दको दुःखमनुभवति । यथा चोक्तं धर्मपदे-

धर्मेण जीवन्नार्यो यस्तेन धर्मेण शिक्षयेत् । मृद्विन्द्रियः पापसेवी विलोमयति तद्वचः ॥

कण्टकोद्वन्धनं यद्वदात्मकायविघातकम् । नरके स पतत्येव ह्यूर्ध्वपादमवाच्छिरः ॥

शतं सहस्राणां निरर्बुदानां षट् त्रिंशच्च पञ्च च अर्बुदानाम् यदार्यगर्ही निरयमुपैति वाचं मनः प्रणिधाय पापकम् । इति ।

प्राणातिपातादि यद्विषयगुरुकं चित्तगुरुकं तत्पापमपि अवीचिनरकपातकम् । गुरुविपरीतं लघु यदुत तपनप्रतपनादिषु हीननरकेषु तीर्यक्षु प्रेतेषु देवमनुष्येषु चाकुशलविपाकं प्रतिसंवेदयते । तल्लघुपापकमित्युच्यते ।

गुरुलघुपापवर्गो ऽष्टनवतितमः ।

99 महाल्पार्थककर्मवर्गः

(पृ) सूत्र उक्तं महाल्पार्थकं कर्मेति । किं तन्महार्थकं कर्म । (उ) येन कर्मणा अनुत्तरसम्यक्सम्बोधिमधिगच्छति । तन्महत्तमार्थकं कर्म । ततो ऽवरकर्मणा प्रत्येकबुद्धमार्गं विन्दते । ततो ऽवरकर्मणा श्रावकमार्गं लभते । ततो ऽवरकर्मणा भवाग्र ऽशीतिमहाकल्पसाहस्राण्यायुर्विपाकं लभते । इदं संसारे महत्तमविपाकं कर्म । ततो ऽवरकर्मणा आकिञ्चन्यायतने षष्टिकल्पसहस्राण्यायुर्विन्दते । एवं क्रमेण यावद्ब्रह्मलोकं कल्पार्धमायुर्विन्दते । ततो ऽवरकामधातौ परनिर्मितदेवेषु दिव्यगणनया षष्टिवर्षसहस्राण्यनुभवति । यावच्चतुर्महाराजिकेषु दिव्यगणनया पञ्चवर्षशतानि [विपाकं] वेदयते । एवं मनुष्येषु चतुर्महाराजिकानामधः प्रत्येकं कर्मवशाद्विपाकं वेदयते । एवं तिर्यक्प्रेतनरकेष्वप्यस्ति अल्पलाभं कर्म ।

कीदृशानि कर्माणि अनुत्तरसम्यक्सम्बोध्यादीन् प्रापयन्ति । (उ) दानादिषट्पारमितासम्पदनुत्तरसम्यक्सम्बोधिं प्रापयति । ततः कुशलकर्मक्रमेण जघन्यप्रवृत्तं प्रत्येकबुद्धबोधिं प्रापयति । [ततो ऽपि] जघन्यप्रवृत्तं श्रावकबोधिं प्रापयति । अधिमात्रेषु चतुरप्रमाणचित्तेषु विहरन् भवग्र उत्पद्यते । ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन्नवरभूमावुत्पद्यते । (sss_230) ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन् शीलसमाधिप्रत्ययवशाच्च रूपधातावुत्पद्यते । दानशीलकुशलाभ्यासप्रत्ययेन कामधातावुत्पद्यते । दानादिकर्मणां पुण्यक्षेत्रोत्कर्षनिकर्षमनुसृत्यास्ति विशेषः । यत् बुद्धक्षेत्र आचरणं तदत्युत्तमम् । यत्प्रत्येकबुद्धक्षेत्र आचरणं तत् ततो न्यूनम् ।

(पृ) पुण्यक्षेत्रं किं बोध्योत्कृष्टं किं वा प्रहाणेन । (उ) अत्यन्तशून्यताख्यं धर्मलक्षणं या बोधिः प्रापयति । सा प्रहाणादुत्कर्षति । कस्मात् । यथा भगवान् बोध्या श्रावकेभ्यो ऽतिरिच्यते न प्रहाणेन । यथोक्तं संयुक्तपिटके-

जम्बूद्वीपसमां यच्च सङ्घभूमिं विशोधयेत् । पाणिकल्पस्य चैत्यस्य शास्तुस्तच्छोधनोपमम् ॥

सर्वज्ञज्ञानञ्च प्रहाणार्थम् । अतो यद्बोधिसत्त्वानां संसारे दीर्घकालावासः स सम्यक् प्रहाणार्थः । सम्यक् प्रहाणमिति यत् स्वसंयोजनप्रहाणं सत्त्वप्रहाणञ्च । तानि संयोजनानि च क्रमशो बोधिप्रहेयानि । अतो ज्ञायते बोध्या पुण्यक्षेत्रं प्रहाणादुत्कृष्टमिति ।

(पृ) यस्तीक्ष्णेन्द्रियः स्रोतआपन्नः यश्च मृद्विन्द्रियः सकृदागामी । अतयो पुण्यक्षेत्रयोः क उत्कृष्टः । (उ) तीक्ष्णेन्द्रिय उत्कृष्टो न मृद्विन्द्रियः । (पृ) तद्वचन मयुक्तम् । यथोक्तं सूत्रे स्रोतआपन्नशतसत्कारो नैकसकृदागामिसत्कारकल्प इति । आह च- दन्धानां हिंसया कामरागकलहचित्तं प्ररोहति । इति । अतो वीतरागस्य दानं बहुपुण्यानि प्रापयेत् । सकृदागामी च त्रीणि विषाणि तनूकरोति । न स्रोतआपन्नः । कस्मादुच्यत उत्कृष्ट इति । (उ) तत्सूत्रं नेयार्थकम् । केनेदं ज्ञायते । तस्मिन्नेव सूत्र उक्तं- तिरश्चां दानं शतगुणं हितं प्रापयति इति । वस्तुतस्तु पारावतपक्ष्यादीनां दानेन प्रतिलब्धो विपाकः तीर्थिकानां पञ्चाभिज्ञानां दानमतिशेते । अतस्तत्सूत्रं चिन्त्यार्थकम् । सूत्रं तत् बहुना हेतुनाह- निस्सरणार्था प्रज्ञा इति ।

स्रोतआपन्नश्च प्रज्ञाबलेन कामान् वेदयमानो ऽपि पुण्यक्षेत्रमित्युच्यते । न तु प्रहीणरागः प्राकृतो यावद्भवाग्रनियमलाभी [पुण्यक्षेत्रम्] । बहुश्रुतज्ञानं निर्वेधभागीयगतमेव प्रकृष्टं न भवाग्रनियतो ऽनिर्वेधभागीयगतः । मैत्रेयबोधिसत्त्वो ऽप्रतिलब्धबुद्धत्वो ऽपि अर्हतां सत्कार्यः । शून्यताकारमात्रबोधिचित्तोत्पादको ऽर्हतां सत्कार्यः । तद्यथा एकः श्रामणेरः पात्रचीवरमादाय अर्हन्तमनुचरति । अस्मिन् श्रामणेरे उत्पन्नानुत्तर [बोधि]चित्ते तु अर्हन्नेव तत्पात्रचीवरमादाय स्वयमुत्तरासङ्गं कृत्वा तमनुगच्छति । तद्यथा दृष्टान्ते विस्तरेणोक्तम् । अतो ज्ञायते प्रज्ञया पुण्यक्षेत्रमुत्कृष्टं भवतीति ॥

महाल्पार्थककर्मवर्ग एकोनशततमः ।

100 त्रिविधकर्मवर्गः

(पृ) सूत्र उक्तम्- त्रिविधं कर्म कुशलमकुशलमव्याकृतमिति । किं कुशलं कर्म । (उ) यत् कर्म परेषां प्रियं प्रयच्छति तत् कुशलम् । (पृ) किं प्रियम् । (उ) परेषां यत् सुखप्रापकं तत् प्रियम् । कुशलमित्यप्युच्यते पुण्यमित्यप्युच्यते । (पृ) यत् परेषां सुखप्रापकं तत् पुण्यम् । यत् परेषां दुःखप्रापकं तेन पापेन भवितव्यम् । यथा आञ्जनौषधशल्यवेधाः परेषां दुःखजनकाः पापाः स्युः । (उ) आञ्जनौषधशल्यवेधाः सुखप्रदत्वादपापाः । (पृ) सुखप्रदं तत् पुण्यमिति । यथा परदारगमनं तत् तस्य सुखजनकं तत् पुण्यकरमपि स्यात् । (उ) अब्रह्मचर्यं नियमेनाकुशलम् । यत् परानुकुशलधर्मे प्रवर्तयति तत् दुःखाय भवति न सुखाय । सुखं नाम यदिहामुत्र च सुखम् । न त्वैहिकमल्पसुखम् । यत् प्रेत्यामुत्र महादुःखं विन्दते ।

(पृ) केचिदन्नपानप्रत्ययं परेषां सुखमुत्पादयन्ति । तदन्नपानं कदाचिदजीर्यमाणं सत् पुरुषस्य मरणं प्रापयति । तदन्नदायकः किं पापं लभेत किं वा पुण्यम् । (उ) स साधुचित्तो ऽन्नं प्रयच्छति न दुष्टचित्तः । अतः पुण्यमात्रं लभते न पापम् । (पृ) परदारगमनमप्येवं स्यात् । केवलं सुखार्थत्वात्पुण्यमपि लभेत । (उ) इदं पूर्वमेव प्रत्युक्तं यदब्रह्मचर्यं नियमेन अकुशलमिति । महादुःखजनकत्वात् । अन्नपानदाने त्वस्ति (sss_232) पुण्यगुणभागः । कस्मात् । नह्यवश्यमन्नलाभी म्रियते । सत्त्वाः कामक्लिष्टाः काममैथुनमनुभवन्ति । तत् सर्वथापुण्यहेतुः । कथं पुण्यं लभेरन् । (पृ) केचित् प्राणिहिंसया बहू नामुपकुर्वन्ति । यथा चोराणां निग्रहे राष्ट्रं निरीति भवति । क्रूरपशुमारणे जनानां हितं भवति । एवमादिप्राणिहिंसया किं पुण्यं लभ्येत । केचित्स्तेयप्रत्ययं पितरौ पोषयन्ति । मैथुनप्रत्ययं प्रियपुत्रं जनयन्ति । मृषावादप्रत्ययञ्च कस्यचिज्जीवीतं प्रददन्ति । पारुष्यवचनप्रत्ययं परेषां हितं भवति । इदं सर्वं दशाकुशलसङ्गृहीतम् । कथमनेन पुण्यं लभेरन् । (उ) ते पुण्यं पापञ्च लभन्ते । परानुग्रहात्पुण्यं लभन्ते परोपघातात्पापम् । (पृ) चिकित्सापि परस्यादौ दुःखप्रदा पश्चात्सुखं प्रापयति । कस्मात्पापमलब्ध्वा पुण्यमात्रं लभते । (उ) चिकित्सायां कुशलचित्तेन कृतायां नास्त्यकुशलाशयः । यत् कर्म कुशलाकुशलहेतुसमुद्धितं, ततः पुण्यं पापं व्यामिश्रं लभते ।

चोदयति । हिंसादयः सर्वे पुण्यप्रापकाः । कस्मात् । हिंसाप्रत्ययमभीष्टं लभते । यथा राज्ञाश्चोरनिग्रहे पुण्यं लभ्यते । पुण्यप्रत्ययञ्च यदभीप्सितं तल्लभ्यते । इति प्राणातिपातात् कथं पुण्यं न भवति । हिंसां कुर्वन् यशो लभते । यशः पुरुषस्य काम्यं भवति । पुरुषस्य काम्यं पुण्यफलकम् । हिंसया च प्रीतिसुखं लभते । प्रीतिसुखमपि पुण्यफलविपाकम् । आह च च सूत्रम्- यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति । यथाह गाथा- म्रियमाणञ्च सङ्ग्रामे पतिं बरयतेप्सराः इति । किञ्चाह-

सुधनत्वे ऽपि पुरुषश्चोरं पुरत आगतम् हन्यादेव न वै पापं आहन्ता विन्दते तु तत् ॥ इति

धर्मसूत्रमाह- चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः । एषां पृथक् सन्ति स्वधर्माः । ब्राह्मणस्य षड्धर्माः क्षत्रियस्य चत्वारो वैश्यस्य त्रयः शूद्रस्यैकः । षड् धर्मा इति यजनमार्विज्य मध्ययतमध्यापनं दानं प्रतिग्रहः । चत्वारो धर्मा इति यजनं नार्त्विज्यं, परतो वेदाध्ययनं नाध्यापनं, दानं न प्रतिग्रहः प्रजापालनम् । त्रयो धर्मा इति यजनं नार्त्विज्यं, अध्ययनं नाध्यापनं दानं न प्रतिग्रहः । एको धर्म इति त्रयाणामुत्तमवर्णानां (sss_233) शूश्रूषा । क्षत्रियस्य प्रजापालनाय प्राणिवधे पुण्यमेव न पापम् । वेद उक्तम्- प्राणिवधः पुण्यप्रापकः यदुत वैदिकमन्त्रेण हताः पशवः स्वर्ग उत्पद्यन्त इति । वेदाश्च लोके श्रद्धेया भवन्ति । किञ्चाह यद्वस्तुतो मर्तव्यं तद्धनने नास्ति पापम्- यथा पञ्चाभिज्ञ ऋषिर्मन्त्रेण पुरुषं हन्ति । न वक्तव्यमृषेः पापमस्तीति । [अनृषे]ः पापिष्ठस्य कथमेतत्सिध्यति । अतो ज्ञायते प्राणिवधो न पापप्रापक इति । कश्चित्कदाचिच्चित्तबलेन प्राणिनं हत्वा पुण्यं लभते । प्राणदानेन तु पापं लभते । यदि कुशलचित्तेन सुखलिप्सया प्राणिनं हन्ति । कथं तस्य पापं भवति । यथा सूनकादयः । पशुपालानां गवाजदाने ऽपि पापम् । एवमदत्तादानादिष्वपि पुण्यगुणो ऽस्ति ।

अत्रोच्यते । यदुक्तं भवता प्राणिवधेनाभीप्सितलाभादस्ति पुण्यगुण इति । तदयुक्तम् । कस्मात् । पुण्यगुणाधीनतया हि अभीप्सितलाभः । अभीप्सितप्रत्ययः प्राणिवधलाभ इति कस्माद्युक्तम् । पूर्वाध्वकृताविशुद्धपुण्यत्वात् । यथोक्तं सूत्रे- चौर्यहरणवधहिंसाप्रतिलब्धधनो ऽन्यस्य दानं प्रयोजयति । तत् दौर्मनस्यपरिदेवनेनापरिशुद्धं दानमिति । एवमादिदानमपरिशुद्धमित्युच्यते । अवश्यमशुभप्रत्ययाधीनां विपाकवेदनां प्रापयति । तस्य पुरुषस्य पूर्वाध्वनि पुण्यमस्ति प्राणातिपातकर्मप्रत्ययो ऽप्यस्ति । तस्मादिदानीं कायो हननहेतुकं विपाकं वेदयते । केचित्सत्त्वा अपि प्रत्यर्पणीयजीवितधना इत्यतो वधहिंसया यदभीप्सितं तल्लभते । न च तथा सर्वे सत्त्वाः । [अतः] प्राणिवधेनोपभोग्यं लभते । यथा लोक आहुः- अयं पुरुषो ऽल्पपुण्यो बहुकुर्वन्नपि न विन्दत इति । यशःप्रीतिसुखेष्वप्येवं स्यात् । पुण्यगुणप्रत्ययेन यशःकायबलसुखानि लभते । पुण्यस्य केवलमपरिशुद्धत्वात् वधेन [उपभोग्यं] लभते । (पृ) सिंहव्याघ्रादिलब्धं कायबलं सर्वं पापजम् । यक्षराक्षसादिलब्धं कायबलसुखमपि पापजम् । (उ) इदं पूर्वमेव प्रत्युक्तम् । अविशुद्धपुण्यत्वात्पापप्रत्ययेन लभते ।

यद्ब्रवीषि सूत्र उक्तं- यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति । तदयुक्तम् । कस्मात् । सूत्रमिदमनेन मिथ्याप्रलापेन मूढान् प्रोत्साहयति सौर्यमुत्पादयितुम् । केनेदं ज्ञायते । अवश्यं पुण्याधीनं पुण्यमुत्पद्यते पापाधीनं पापम् । तत्रात्यन्तमसति पुण्यहेतौ केन पुण्यं लभेत । यदाह भवान्- चतुर्णां वर्णानां पृथक् सन्ति स्वधर्माः । क्षत्रियस्य (sss_234) प्रजापालनात् वधो ऽपाप इति । स गृह्यधर्मसमः । यथा सूनकादीनां लोकानां गृह्यधर्माः प्राणिवधाः सदा क्रियमाणा न पापविमुक्ताः । तथा क्षत्रियस्यापि । स राजधर्मो ऽपि हेतुना पापप्रापकः । यदि क्षत्रियो राजधर्मत्वेन प्राणान् वध्यन् अपापो भवति । तदा सूनकव्याधादयो ऽप्यपापाः स्युः । क्षत्रियः परं प्रजासु करुणार्द्रचित्ततया वैरमुत्सृज्य तदधीनं पुण्यं लभते । यः पुरुषजीवितमपहरति । तस्य पापमस्ति । यथा कश्चिन्मातापितृपालनाय परधनमपहरति । स पुण्यं पापं व्यामिश्रं लभते ।

(पृ) मातपितृपालनाय चोरयन् न पापं लभेत । यथोक्तं धर्मसूत्रे- यः सप्तदिनान्युपवसति । स चण्डालादपहरन् न पापमुपादत्ते । यो मुमूर्षुः स ब्राह्मणादप्युपादानं लभते इति । इमे दुष्कर्मणा जीवन्तो ऽपि नोच्यन्ते शीलव्यसनिन इति । आपन्नत्वात् । यथाकाशो न रजसा दूष्यते । तथा ते ऽपि न पापेन दूष्यन्ते । (उ) उक्त ब्राह्मण धर्म एव- चौर्यकाले धनस्वाम्यागत्य रक्षति । तस्मिन् समये ब्राह्मणेन विचारयितव्यम् । यदि स धनस्वामिगुणैरसमानो भवति । तदा तं हन्यात् । कस्मात् । अहमुत्तमः, नानाप्रायश्चित्तैस्तत्पापं निर्हरामि । यदि तेन तुल्यगुणः । तदा आत्महनने परहनने वा तत्पापमपि तुल्यम् । तस्य गुरुतरपापस्य दुर्हरणत्वात् । यदि धनस्वामी गुणाधिकः । तदा स्वकायं त्यजेत् । तत्र पापस्यापनोद्यत्वात् । एवं विवेकः । चोरहनने ऽप्येवं स्यात् दुष्कर्मणा जीवन्त इति यदुक्तं तत्र दुष्कर्मसत्त्वात्कथं पुण्यं भवेत् ।

यदवोचः चोरं पुरत आगतं हन्यादेव न वै पापमहन्ता तु विन्दते तत् इति । तद्दूषितचरमेव । कस्मात् । यदि पुरत आगतो गुणाधिकः । तदा स्वकायं त्यजेत् । यदि नास्ति पापमिति । कस्मात्तथा भवेत् । यदब्रवीः वेद उक्तं प्राणिवधः पुण्यप्रापक इति । तत्प्रत्युक्तमेव यदुत बधे नास्ति पुण्यमिति । यदुक्तं वस्तुतो मर्तव्यस्य कस्यचिद्वधे नास्ति पापमिति । तदा दुष्टचोरवधे ऽपि पापं न स्यात् । सर्वे च सत्त्वाः पापिष्ठाः । स्कन्धकायानुभवकर्माभिसंस्कारित्वात् । एवञ्च प्राणिवधेन पापं लभेत । तत्तु न सम्भवति ।

(पृ) ये सत्त्वाः पूर्वाध्वनि स्वयंकृतबधप्रत्ययाः । तेषामिदानीं वधे कस्मात्पापं लभ्यते । चौर्यादिकर्मस्वप्येवं स्यात् । (उ) तथा चेत् पुण्यपापे न स्याताम् । कस्मात् । (sss_235) अयं पुरुषः पूर्वाध्वकृतवधप्रत्ययत्वात्तद्वधो ऽपापः । तत्प्राणातिपातविरतिरप्यपुण्या स्यात् । एवं यः परस्मै ददाति तस्यापि न पुण्यं स्यात् । प्रतिग्रहीता पूर्वाध्वनि स्वाचरितदानकर्मक इदानीं तद्विपाकं लभते । न हि सम्भवति नास्ति पुण्यं पापमिति । अतो ज्ञातव्यं सत्त्वानां पूर्वाध्वकृतवधकर्मणामपि वधिता पापं लभत इति । रागद्वेषमोहेभ्यः समुत्पन्नत्वात् । इमे क्लेशा मिथ्याविपर्यासाः । मिथ्याविपर्यस्तचित्तोत्पाद एव पापं लभते । कः पुनर्वादस्तद्धेतूत्थितेषु कायवाक्कर्मसु । तेन संसारो ऽनवस्थः । तथा नोचेदृषयो रागद्वेषादिक्लेशानामुदये ऋद्धे न हीयेरन् । यदीदं न पापम् । कस्य धर्मस्य विपरीतं पुण्यमित्युच्येत । ज्ञातव्यं पूर्वाध्वकृतप्रत्ययानामपि सत्त्वानां वधिता पापवान् स्यादिति । यद्युप्युक्तं त्वया पापियान् न किञ्चित्साधयतीति । तदयुक्तम् । चण्डालादयो ऽपि मन्त्रविधिना पुरुषं घ्नन्ति । तथा महर्षयो ऽपि अकुशलचित्तेन यथाभिहितं साधयन्ति । ते पुण्यबलात्साधयन्तः प्राणातिपातात्पापं लभन्ते ।

यदब्रवीः- कश्चिच्चित्तबलेन प्राणातिपातं कुर्वन् पुण्यं प्रसूते । प्राणदानेन पापमिति । तदयुक्तम् । कस्मात् । अवश्यं चित्तबलेन पुण्यप्रत्ययेन पुण्यं लभते । न तु चित्तमात्रेण । यः कुशलचित्तेन गुरुतल्पगो ब्राह्मणहन्ता वा भवति । तेन किं पुण्यं लभ्येत । पारसीकादि पर्यन्तभूमिगतानां जनानां पुण्यबुद्धया मातृभगिन्यादिगामिनां किं पुण्यं भवेत् । अतो ज्ञायते पुण्यप्रत्ययत्वात्पुण्यमुत्पद्यते । न तु चित्तमात्रेण एवं स्तेयादावपि । अतो ज्ञायते वधादयो ऽकुशला इति । ते वधादयः परेषामपकारकत्वादकुशला इत्युच्यन्ते । यद्यपि दृष्टे कञ्चित्कालं सुखं लभते । पश्चात्तु महद्दुःखमनुभवति । परापकारो ह्यकुशललक्षणम् । पश्यामः खलु प्रत्यक्षं बहवः सत्त्वा वधादीनाचरन्तो भूयसा तिसृषु गतिषु मनुष्यगतौ च दुःखपीडा अनुभवन्तीति । [अतो] ज्ञातव्यं दुःखपीडा वधादीनां फलमिति । हेतुसरूपत्वात्फलस्य । तिसृषु दुर्गतिषु पापानि तीव्रदुःखानि । अतो ज्ञायते वधादिप्रत्ययात्तत्रोपपद्यन्त इति ।

(पृ) देवेषु मनेष्येषु चैवं स्यात् । देवा अपि सदा युद्धे ऽसुरैः सह वध्यन्ते । (sss_236) मनुष्येषु गर्तग्रहणयन्त्रजालविषैः सत्त्वान् घ्नन्ति । (उ) देवमनुष्येषु सन्ति वधविरत्यादयो धर्माः । न तु तिसृषु गतिषु, इति ज्ञातव्यं तत्र पापं तीव्रदुःखमिति । मनुष्या वधादिप्रत्ययेन तु प्रक्षीणायुरादिलाभसुखा भवन्ति । [तथा हि] पुरा मनुष्या अप्रमाणायुष्का अभूवन् । चन्द्रसूर्यवत्स्वकायनिश्चरद्रश्मयः विहायसा स्वैरचारिणाः । पृथिवी स्वाभाविकयथेष्ठद्रव्याः स्वाभाविकतण्डुलाः । सर्वमिदं वधादिपापैः प्रणष्टम् । ततः पुनः क्षयो ऽभूत् । यावद्दशवर्षेषु मनुष्येषु धृततैलसितोपलाशालिचोलयवादयः सर्वे ऽपि तिरोहिताः । अतो ज्ञायते वधादयो ऽकुशलकर्माणीति । यो वधहिंसादिभ्यो विरमति स पुनर्लाभसुखायुःपौष्कल्यं लभते । यथाशीतिवर्षसहस्रायुष्कस्य यथेष्टं कामा भवन्ति । अतो ज्ञायते वधो ऽकुशल इति ।

इदानीमौत्तरा वदन्ति तण्डुलं स्वाभाविकं वसनं वृक्षजम् । प्राणातिपातविरतित्वात् । संक्षिप्येदमुच्यते सत्त्वानां सर्वाणि सुखोपकरणानि प्राणातिपातविरतिसमुत्पन्नानीति । अतो ज्ञायते प्राणातिपातादयो ऽकुशलकर्माणीति । प्राणातिपातादिधर्माः सज्जनैः परित्याज्याः । ये बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावका अन्ये च भदन्ताः ते सर्वे तान् परित्यज्य विरमन्ति । अतो ज्ञायते ऽकुशला इति ।

(पृ) प्राणिवधादयः सुजनैरप्यनुश्रूयन्ते । यथोक्तं मेदे यज्ञार्थं पशुवधो ऽनुश्रूयत इति । (उ) ते न सुजनाः । सुजनः सदा परस्य हितार्थी भवति । करुणाचित्ताभ्यासी मित्रामित्रयोः समः । तादृशः पुरुषः कथं प्राणिवधमनुश्रावयेत् । कामक्रोधकलुषितचित्ताः सन्त इमं ग्रन्थं रचयामासुः । [सत्त्वानां] स्वर्गे जन्माभिलाषी सत्त्वानभिमन्त्रयमानः स्वपुण्यबलेन तत्साधयति । वधादिभ्यो विमुक्तिलाभी न तत्करोति । अतो ज्ञायते ऽकुशलमिति । (पृ) विमुक्तिलाभी अन्यदपि विकालभोजनादि करोति । इदमप्यकुशलं भवेत् । (उ) इदं पापहेतुरिति सुजनाः परिहरन्त्यपि । यो धर्मो ऽदुष्टः न स धर्मः परिहरणीयः स्यात् । विकालभोजनादयो ब्रह्मचर्यं घ्नन्तीत्यतो ऽपि परिहरन्ति । केचिद्धर्माः स्वरूपतो ऽकुशला इत्यतः परिहरन्ति यथा मद्यपानविकालभोजनादयः । अतो ज्ञायते प्राणातिपातः स्वरूपतो ऽकुशल इति । प्राणातिपातो बहुजनविद्विष्टः । यथा सिंहव्याघ्रदस्युचण्डालादयः । यदनेन हेतुना जनविद्विष्टं कथं तदकुशलं न भवेत् । यः प्राणातिपातविरतः स बहूनां (sss_237) जनानां प्रियो भवति । यथा करुणाविहारी आर्याणां प्रियः । अतो ज्ञायते वधो ऽकुशल इति ।

(पृ) कश्चित्तु प्राणिवधकृत् स्वविक्रमवशाज्जनानां प्रियो भवति । यथा कश्चिद्राजार्थं दुष्टचोराणां हन्ता राजप्रियो भवति । (उ) [पाप]हेतुसत्त्वान्नात्यधिकं प्रियो भवति । यथा वदन्ति यो दुष्कर्मणा राजचित्तं तर्पयति । राजा च यदि निर्विण्णचित्तो भवति । तस्य पुनः स विमतो भवति । यो दुर्वृत्त्या विमतो भवति । स कथं प्रियो भवेत् । अकुशलचारी आत्मन एवाप्रियः । कः पुनर्वादो ऽन्येषाम् । अतो ज्ञायते प्राणिहिंसाकुशलधर्म इति । वधादिधर्माः ताडनहिंसनवन्धनादीनां दुःखो पद्रवाणां हेतव इत्यतो ज्ञायते ऽकुशला इति । (पृ) अहिंसादिधर्मा अपि दुःखहेतवः । यथा राजा दुष्टचोरान् वधितुमाज्ञापायति । यो न वध्यति तं राजा हन्ति । (उ) यो न हन्ति स हन्यत इत्यहन्तारः सर्वे मरिष्यमाणा भवेयुः । राजशासनविरुद्धत्वादेषाम् । यदि राजा जानाति अयमवधचित्त इति तदा अवधिता प्रत्युत सत्क्रियते । अतो ज्ञायते वधादयो दुःखहेतवो न त्ववधादयः । यो वधानाचरति । तस्य मरणकाले चित्तं परितपति । अतो ज्ञायते ऽकुशलमिति । वधाद्याचरणात् न जनानां श्रद्धेयः । स्वयूथ्येष्वेव न श्रद्धीयते । कः पुनर्वादः सज्जनेषु । सिंसाद्याचारी सजातीयैरेवाधिक्षिप्यते । कः पुनर्वादो ऽन्यजनैः । हिंसाद्याचारी चण्डालसूनकव्याधादिवत् सज्जनैः दूरतः परित्यज्यते । हिंसाद्याचरिता न सुखी जन इत्युच्यते । यथा सूनको न कदापीदृशकर्मणा सत्कारं लभते । सुजनो गुणाय हिंसादिभ्यो विरमति । यदि नाकुशलम् । कस्मात् गुणाय विरतिं सम्प्रत्येषति । दृष्टे पश्यामः खलु हिंसादीनां विप्रियं फलं भवतीति । ज्ञातव्यमागामिन्यध्वन्यपि दुःखविपाकं प्रापयतीति । यदि हिंसादयो नाकुशलाः । को धर्मः पुनरकुशलः स्यात् ।

(पृ) यदि हिंसादिधर्मा अकुशलाः । तदा देहपोषणं न स्यात् । कस्मात् । न ह्यस्ति अहिंसासम्भवकालः । गतागते पादोत्क्षेपणे पादावक्षेपणे वा सदा सूक्ष्मसत्त्वान् विहन्ति । आत्मीयसंज्ञया परवस्तूनि सदा गृह्णाति । यथास्वसंज्ञञ्च मिथ्या व्यवहरति । अतो नैव देहपोषणं भवेत् । (उ) यत् हेतुकृतं तत् पापम् । नाहेतुकृतम् । यथोक्तं सूत्रे- वस्तुसन्तः सत्त्वाः, तेषु सत्त्वसंज्ञामुत्पाद्य जिघत्साबुद्ध्या तान् हत्वा हननपापं लभन्त इति । एवं स्तेयादावपि । (पृ) यथा विषं पीतवानिति हेतावहेतावुभयथा पुरुषं हन्ति । यथा च वह्निप्रक्रमणं ज्ञाने ऽज्ञाने च पुरुषं दहति । तथा वेधनादिरपि स्यात् । ज्ञातव्यं प्राणिहिंसा हेतावहेतौ च पापं प्रापयति । (उ) नायं दृष्टान्तो युक्तः । विषेण कायहिंसनान्मरणम् । (sss_238) पुण्यन्तु चित्तगतम् । किमत्र दृष्टान्तो भवेत् । वह्निवेधनादिरपि प्रबोधे ऽसति न दुःखजनकः । अतो न स दृष्टान्तो युज्यते । असति विज्ञाने न खेदं बुध्यते । सति तु विज्ञाने बुध्यते एवमसति हेतुचित्ते न कर्म सिध्यति । सति तु चित्ते सिध्यति । स दृष्टान्तस्तथा स्यात् । हेतौ सति पापम् । असति तु नास्ति । कर्मणां चित्तबलात्पुण्यपापविभागः । असति हेतुचित्ते कथमुच्चनीचभावो भवेत् । चिकित्सायामचिकित्सायाञ्चोभयथा पुरुषस्य दुःखं जायते । चित्तबलात्पुण्यपापविभागः । यथा मातुस्तनग्रहणे बालको न पापं लभते । अनुरागचित्ताभावात् । अनुरागचित्तेन ग्रहणे तु पापमस्ति । पुण्यं पापं सर्वं चित्ताधीनं जायत इति ज्ञातव्यम् ।

यदि हेतुचित्ते ऽसत्यपि पापमस्ति । तदा विमुक्तिलब्धो ऽपि असति हेतौ सत्त्वान् पीडयन् पापं लभेत । तदा न विमुच्येत । पापिष्ठानां मोक्षाभावात् । यदि हेतोवसत्यपि पुण्यपापमस्ति । तदैकमेव कर्म कुशलमकुशलञ्च स्यात् । यथा कश्चित्पुण्यं कर्म कुर्वन् सत्त्वं हतवानस्मीति भ्रान्तो भवति । तदा तत्कर्म पापं पुण्यञ्च स्यात् । तत्तु न युज्यते । हेतावसति पुण्यं पापं वा नास्तीति ज्ञातव्यम् । यदि विना चित्तं कर्मास्ति । तदा कथमिदं कुशलं इदमकुशलं इदमव्याकृतमिति विभागः स्यात् । चित्तहेतुना त्वयं विभागः । यथा त्रयः पुरुषाः सम्भूय स्तूपप्रदक्षिणं कुर्वन्ति । तत्रैको बुद्धगुणानुस्मरणाय । द्वितीयः स्तेयहरणाय । तृतीयो भावशमनाय । [तेषां] कायकर्मणि समाने ऽपि कुशलाकुशलाव्याकृतविभागश्चित्तगत इति ज्ञेयम् । किञ्चित्कर्म नियतविपाकं, किञ्चिदनियतविपाकं, किञ्चिदुत्तमं मध्यममधमं, दृष्टधर्मविपाकमुपपद्यविपाकं, तदुत्तरविपाकमित्यादि । यदि चित्तेन विना पुण्यपापं लभ्यते । कथमयं विभागो भवेत् । यदि चित्तव्यतिरिक्तं कर्मास्ति असत्त्वसंख्येष्वपि पुण्यपापं स्यात् । यथा सभीरणोन्मूलितपर्वतोपद्रुतेषु सत्त्वेषु समीरणे पापं स्यात् । सुगन्धिकुसुमस्य स्तूपविहारपतने पुण्यं स्यात् । तत्तु न सम्भवति । अतो ज्ञायते न चित्तव्यतिरिक्तं पुण्यपापमस्तीति ।

तीर्थिका वदन्ति- उपवासस्थण्डिलशयनशलाकावेधादिभिर्जलपतनदहनप्रवेश (sss_239) भृगुपतनादिभिश्च दुःखप्रत्ययैः पुण्यं भवतीति । तत्र प्राज्ञा दूषयन्ति । तथा चेन्नारकाः सत्त्वाः सदा दह्यन्ते पच्यन्ते च । प्रेता बुभुक्षिताः पिपासिताः । पतङ्गा दहनप्रविष्टाः । मीननक्रा जलावसथाः । अजवराहाश्वादयः सदा पुरीषक्षेत्रशायिनः । ते ऽपि पुण्यं लभेरन् । ते प्रतिब्रूवन्ति । अवश्यं हेतुचित्तेन तद्दुःखमनुभवतां पुण्यं भवति नत्वहेतुचित्तेन । नारकादयो न हेतुचित्तेन दाहादिदुःखमनुभवन्ति । यदि हेतुचित्तेन विना पुण्यं नास्ति । हेतुचित्तेन विना पापमपि नास्ति । यदि हेतुचित्तेन विना पुण्यमस्ति । नारकादीनामपि पुण्यं स्यात् । इत्येवं दोषो ऽस्ति । [इति] । यदि हेतुचित्तं विना पुण्यं पापं वास्ति । तदा सुजनो न स्यात् । कस्मात् । चतुर्षु इर्यापथेषु सदा सत्त्वान् हन्ति । तत्तु न सम्भवति । हेतावसति नास्ति पुण्यं पापमिति ज्ञातव्यम् । सुजन्मक्षेत्रञ्च न लभेत् । सदा पापकत्त्वात् । वस्तुतस्तु सन्ति ब्रह्मकायिकादीनां सुरुचिराः काया अतो ज्ञायते न हेतुं विना पुण्यं पापं वास्तीति ।

भावतां शासने अपरिशुद्धाहारे पापं भवति । यो ऽभिप्रैति सर्वाण्यन्नपानानि अपरिशुद्धाहाराः पापप्रापकाः स्युरिति । एवं सुरादिस्पर्शे सो ऽब्राह्मणः स्यात् । परिशुद्धेन चित्तेन भोजने न पुनरस्ति पापमिति श्रुतं दृष्टवानसि । तदा चित्तं विना नास्ति पुण्यं पापं वा इति ज्ञातव्यम् । अध्वरे च पुण्यचित्तेन पशवो हन्यन्ते । तेन स्वर्ग उत्पद्येरन् इति । पुण्यचित्तेन हननात्पुण्यमस्ति । तथा नो चेत् सर्वे प्राणिवधाः पुण्यप्रापकाः पापप्रापका वा स्युः । ब्राह्मणमाह- किञ्चित्स्तेयमपापम् । यथा सप्तदिनान्यनशनः शूद्रादपि प्रतिगृह्णीयात् । यो मुमूर्षुः स ब्राह्मणादपि गृह्णीयात् । पुत्रार्थिनो ऽब्रह्मचर्यमपापम् इति । हेतुचित्ते ऽसति न स्यादीदृशविभागः । अतो ज्ञायते यो हेतुं विनान्यस्य विषं प्रयच्छति । केन स पापं लभेत । यः सहेतु अन्यस्य विषं प्रयच्छति । विषं प्रत्युत व्याधिं शमयति । स पुण्यं लभेत । कस्यचिदन्नं प्रयच्छति । अन्ने चाजीर्णे पुरुषो म्रियते । तत पापं प्राप्नुयात् । यदि विना हेतुं पुण्यपापे स्तः । तदा धर्मो ऽयं व्याकुलः स्यात् । लौकिकाः सर्ववस्तुषु चित्तं श्रद्दधन्ते । यथा एकमेव वचनं प्रीतिद्वेषजननम् । पृष्ठताडनादिरप्येवम् । अतो ज्ञायते कर्माणि चित्ताधीनानि इति । [तत्र] मानसं कर्म गरिष्ठमित्युत्तरत्न वक्ष्यते । अतो ज्ञायते कर्माणि चित्ताधीनानीति । यः (sss_240) प्राज्ञः स पञ्चकामगुणेषु वसन्नपि न पापमाक् भवतीति मनसो बलम् । कस्मात् । न हि प्राज्ञो रूपाणि दृष्ट्वा मिथ्यासंज्ञामुत्पादयति । अतो नास्ति रूपासङ्गदोषः । तथा शब्दादावपि । यद्यनुत्पन्नमिथ्यासंज्ञो ऽपि पापवान् । तदा सर्वाणि दर्शनश्रवणानि पापानि स्युः । तथा च मानसं कर्म निष्प्रयोजनं स्यात् । ज्ञानी प्रज्ञाशीर्षकः पञ्चकामगुणाननुभवन्नपि नासक्तिमुत्पादयति । पञ्चकामगुणाः सन्तो ऽपि चित्तनिर्वेदान्न मलिनयन्ति । किमिदं न मानसकर्मणो बलम् । अतो नास्ति विना हेतुं पुण्यपापप्रतिलाभः ।

चोदयति । यद्ब्रवीषि परस्यानुग्रहाननुग्रहौ कुशलाकुशललक्षणमिति । तदयुक्तम् । कस्मात् । यः स्वकायं परिपालयन्पुण्यं कर्माचरति । तस्यात्मानं भोजयतो ऽपि पुण्यमस्ति । चैत्यविहारावसत्त्वभूतौ । तयोः सेचनशोधने अपि पुण्यप्रापके । वन्दनादयस्तु न परानुग्राहकाः । केवलं परगुणवैकल्यकरा इति न भवेत्पुण्यम् । न च चित्तमात्रेण पुण्यगुणो भवति । अन्नवस्त्राभ्यां परमुपकुर्वता तस्मिन् समये पुण्यं लभ्यते । तथा करुणा[मात्र]चारिणो न भवेत्पुण्यम् । यदि चैत्यविहारादयो ऽसत्त्वसंख्याताः । तेषां यो धनमपहरति विनाशयति वा । न तस्य भवेत्पापम् । अनभिमुखीकृत्य दुर्वचसा परनिन्दने न भवेत्पापम् । अश्रुतत्वात्कस्यापकर्षः स्यात् । अन्यपुरुषे च दुष्टचित्तमात्रमुत्पादयति न कायवाक्कर्म करोति । किं पुनर्हीयते । न स पापभाक् स्यात् । कश्चिदात्मानं निन्दति । कश्चिदात्मानं हन्ति । कश्चित्स्वयं मिथ्याचरति । कश्चिच्च पापं लभते । अतः कुशलाकुशललक्षणं न परानुग्रहाननुग्रहमात्रेण भवति ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.