Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
सत्यसिद्धिशास्त्रम्
- Tác giả
- हरिवर्मन्
- Thông tin
- GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
चैतसिकनास्तितावर्गश्चतुष्षष्टितमः ।
65 सम्प्रयोगनास्तितावर्गः
नास्ति सम्प्रयोगः । कस्मात् । चैतसिकधर्माणामभावात् केन चित्तं सम्प्रयुज्यते । वेदनादिलक्षणानां नैककाल्यं शक्यते । न च कार्यकारणयोर्यौगपद्यमस्ति । विज्ञानं संज्ञादीनां हेतुः । नैषां धर्माणामैककाल्यं यौगपद्यं वास्ति । अतो नास्ति सम्प्रयोगः गम्भीरे प्रतीत्यसमुत्पाद[सूत्रे]भगवानाह- अस्योत्पादादिदमुत्पद्यत इति । यथा च बीजाङ्कुरकाण्डनालपत्रपुष्पादीनि हेतुफलाभ्यां क्रमिकानि दृष्टानि । अतो भवविज्ञादीन्यपि क्रमिकाण्युत्पद्येरन् । यद्भवान् मन्यते कामादयः क्लेशा रूपस्य सह[भू]हेतवः सहजाः स्युरिति । तदयुक्तम् । न हि रूपं प्रत्येति । अनालम्बनत्वात् । चित्तचैतसिकानामालम्बनमस्ति प्रतीतिश्चास्ति । अतस्ते नैकस्मिन् काले स्युः सहभुवः । बहुप्रतीत्यभावात् । एककायश्चैकसत्त्व इत्याख्यायते । एकप्रतीतेः । यद्येकस्मिन् क्षणे बहवश्चैतसिकाः स्युः । तदा बह्व्यः प्रतीतयः स्युः । बहुप्रतीतिसत्त्वात् बहुपुरुषात्मकः स्यात् । स तु न सम्भवति । अतो नैकस्मिन् क्षणे वेदनादयो भवन्ति ।
कस्मात्पुनः षड्विज्ञानानि नैककालमुत्पद्यन्ते । (पृ) विज्ञानानि क्रमिकमालम्बनमपेक्ष्य भवन्ति । अतो नैककालिकानि । (उ) कस्य प्रतिबन्धादेकं क्रमिकमालम्बनं न क्रमशः षड्विज्ञानान्युत्पादयति । ज्ञातव्यं पूर्वं हेतुः पश्चात्कार्यमिति क्रमश उत्पादहेतुरिति । सूत्रे चोक्तम्- चक्षुषा रूपं दृष्ट्वा न निमित्तग्राही भवतीति । यन्निमित्तोद्ग्रहणं तदेव संज्ञाकर्म । अतो भगवान् विज्ञानकर्मानूद्य संज्ञाकर्म प्रतिषेधति । अतो ज्ञातव्यं कस्यचिद्विज्ञानमस्ति न संज्ञेति । यो निमित्तं गृह्णाति स दृष्ट्वा गृह्णाति न दर्शनकाले । अतो ज्ञायते विज्ञानादीनि क्रमिकानीति । किञ्चोक्तं सूत्रे- चक्षुषा रूपं दृष्ट्वानुप्रहृष्टचेतनो भवति इति । अत्रापि पूर्वं विज्ञानकर्मोक्तं पश्चाद्वेदनादीनि । किञ्चोक्तं सूत्रे- दृष्टिर्दर्शनमिति । अतो ज्ञायते न सर्वं चित्तं वेदनादिसमन्वितमिति । पञ्चविज्ञानानां लक्षणेन चेदं स्पष्टं भवति । कस्मात् । यश्चक्षुर्विज्ञेये प्रियाप्रियनिमित्तं साम्यनिमित्तञ्च न गृह्णाति । तस्य (sss_164) नास्ति संज्ञा नापि दौर्मनस्यं वा । विकल्पाभावात् । केचिदाहुः तस्यापि कामादयः क्लेशा न सन्तीति । अतो ज्ञायते नास्ति वितर्क इति । पर्येषकानन्तरभावी वितर्क इत्युच्यते । तच्च पश्चाद्वक्ष्यते । अतो ज्ञायते पञ्चविज्ञानामपि वितर्को नास्तीति । किञ्च भवतः पञ्च विज्ञानानि न विकल्पकानि । तत्र कथं वितर्कविचाराभ्यां भाव्यम् । चेतनाविकल्पः पूर्वर्भौदारिकः सन् पञ्चात्सूक्ष्मो भवतीत्यतो वितर्कविचारौस्तः । यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः । तद्यथा वदसि मयि तव ज्ञापनाय प्रथमत एवाभ्यूहाधीनो वितर्क उत्पद्यत इति । तदा वितर्ककालः । असत्यां विज्ञापनेच्छायां कथमस्ति वितर्कः ।
केचिदाहुः- पञ्चविज्ञानेषु संज्ञास्ति वितर्क इति । स च वितर्कः संज्ञामुपादायोत्पद्यते । कथञ्च संज्ञाकाले वितर्को भवति । अतो ऽभ्युपेयं पञ्च विज्ञानानि असंज्ञानि अवितर्कानि अविचाराणीति । कस्मात् । न हि पञ्चविज्ञानेषु स्त्री पुरुष इति विकल्पो ऽस्ति । नापि वेदनादिविकल्पः । केन तत्र विकल्प्यते । पञ्चविज्ञानानां निर्विकल्पकत्वात् तदनन्तरं मनोविज्ञानमुत्पद्यत इति युष्माभिरुक्तम् । यदि पञ्चविज्ञानेषु (sss_165) विकल्पो ऽस्ति । किमनन्तरोत्पद्यमानेन मनोविज्ञानेन । वितर्कविचारौ च नैकस्मिन् क्षणे स्याताम् । औदारकसूक्ष्मयोर्विरोधात् । घण्टाभिघातवत् । आद्यशब्दो वितर्क [कल्पः] । अन्त्यशब्दो विचार [कल्पः] । स दार्ष्टान्तिको ऽप्येवम् । यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः । तयोः कर्म वक्तव्यम् । न वक्तुं वस्तुतः सम्भवति । [अतो] ज्ञातव्यं चित्तचैतसिकाः क्रमिका इति । अविद्या प्रज्ञा च विरुद्धे न युगपत्स्याताम् । कथमेकस्मिन् क्षणे ज्ञानमज्ञानञ्च भवेत् । नह्येकस्मिन् चित्ते संशयस्य प्रसङ्गो ऽस्ति । कस्मात् । स्थाणुर्वा पुरुषो वेति नैकस्मिन् चित्ते समुदाचरति । चित्तव्यापारस्येदृशसामर्थ्याभावात् ।
कश्चिदाह- चैतसिके स्मरणमतीताध्वसञ्चरणम् इति । प्रत्युत्पन्नालम्बनं चित्तं कथं [तथा] भविष्यति । अयं पुरुषो मम ज्ञातो मामुपकृतवानिति यत् स्मरणम्, स्मृत्वा च प्रीतिजननम् तत कथमेकस्मिन् चित्ते स्यात् । इच्छानिच्छा च कथमेकस्मिन् चित्ते भवेत् । यथोक्तं सूत्रे- यो भिक्षव आत्मधर्माभिरतः, तस्य धर्मो वर्धते । यो ऽनभिरतः तस्य धर्मो हीयत इति । तत् कथमेकस्मिन् चित्ते भविष्यति । यद्येकस्मिन् चित्ते चैतसिको ऽस्ति । तदा धर्मो व्यामोहः स्यात् । कस्मात् । एकस्मिन्नेव हि चित्ते ऽस्ति ज्ञानमज्ञानं संशयो निश्चयः श्रद्धाश्रद्धा वीर्यं कौसीद्यमित्येवमाद्या दोषाः । सर्वे च चैतसिका एकस्मिन चित्ते परिनिष्ठिताः स्युः । कस्य प्रतिबन्धात् सुखं दुखं रागो द्वेष इत्यादयो न भवन्त्येकस्मिन् चित्ते । यद्याह भवान् सुखदुःखादयो विरोधान्नैकस्मिन् चित्ते वर्तन्त इति । ज्ञानाज्ञानादयो ऽपि मिथो विरोधान्नैकस्मिन् चित्ते वर्तेरन् । अतो नास्ति सम्प्रयोगः ।
सप्तसम्बोध्यङ्गसूत्रे च भगवता चैतसिकधर्माणां क्रमिकत्वमुक्तम् । "यो भिक्षुश्चतुर्षु स्मृत्युपस्थानेषु चरति च स्मृतिसम्बोध्यङ्गं भावयति । स्मृतौ चित्तं धर्मान् प्रविचिनोति । धर्माणां प्रविचयाद्विर्यमारभते । वीर्यबलात्कुशलधर्मान् सञ्चिनोति । चित्तस्य विमला प्रीतिर्भवति । प्रीत्या चित्तं प्रश्रभ्यति । प्रश्रब्ध्या चित्तं परिगृह्णाति । चित्तपरिग्रहात्समादधाति । समाहितत्वात् रागदौर्मनस्याभ्यामुपेक्षते । उपेक्षायां प्रजानाति" इति चैतसिकाः क्रमिका भवन्ति । अष्टाङ्गिकमार्गसूत्रे ऽपि क्रम उक्तः । यः सम्यक् दृष्टिं (sss_166) लभते । स सम्यक् दृष्ट्या सम्यक् सङ्कल्पमुत्पादयति । यावत्सम्यक् समाधिम् । अनुक्रमसूत्रे च भगवानाहानन्दम् । शीलधरः पुरुषो न कौकृत्यभावाय चित्तं प्रणिदधाति । शीलधरस्य पुरुषस्य चित्तधर्मः कौकृत्यविरतिः । कौकृत्यविहीनो न तुष्टिलाभाय चित्तं प्रणिदधीत । कौकृत्यविहीनस्य चित्तस्य धर्मस्तुष्टिः स्यात् । तुष्टस्य चित्तं प्रीणाति । प्रीतमनसः कायः प्रश्रभ्यति । कायप्रश्रब्धौ सुखं वेदयते । सुखवेदनायां चित्तं समादधाति । चित्तसमाधाने तत्त्वं प्रजानाति । तत्त्वविन्निर्विद्यते । निर्विण्णो विमुच्यते । इति । अतो ज्ञायते चैतसिकाः क्रमिका इति । अष्टमहापुरुषवितर्के ऽपि क्रम उक्तः । यो भिक्षुरल्पेच्छो विहरति स सन्तुष्टो भवति । सन्तुष्टः प्रविविक्तो भवति । प्रविविक्तो वीर्यमारभते । वीर्यमारभमाणः सम्यक्स्मृतो भवति । सम्यक्स्मृतः समाहितो भवति । समाहितः प्रज्ञावान् निष्प्रपञ्चो भवति । इति । सप्तविशुद्धावपि क्रम उक्तः । शीलविशुद्धिर्यावदेव चित्तविशुद्ध्यर्था । चित्तविशुद्धिर्यावदेव
दृष्टिविशुद्ध्यर्था । दृष्टिविशुद्धिर्यावदेव कांक्षावितरणविशुद्ध्यर्था । कांक्षावितरणविशुद्धिर्यावदेव मार्गामार्गज्ञानदर्शनविशुद्ध्यर्था । मार्गामार्गज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाज्ञानदर्शनविशुद्धयर्था । प्रतिपदाज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाप्रहाणज्ञानदर्शनविशुद्धयर्था इति । निदानसूत्रे ऽपि क्रम उक्तः । चक्षुः प्रतीत्य रूपञ्च मोहभागीयाविला स्मृतिर्भवति । तत्र मोहो ऽविद्यैव । मूढस्य या प्रार्थना सा तृष्णा । तृष्णार्तस्य यदभिसंस्करणं तत्कर्म । इत्येवमादि । महानिदानसूत्रे ऽपि क्रम उच्यते । तृष्णाशिरस्का नव धर्मा [उक्ताः] । तृष्णां प्रतीत्य पर्येषणा । पर्येषणां प्रतीत्य लाभः । लाभं प्रतीत्य विनिश्चयः । विनिश्चयं प्रतीत्य छन्दरागः । छन्दरागं प्रतीत्य अध्यवसानम् । अध्यवसानं प्रतीत्य परिग्रहः । परिग्रहं प्रतीत्य मात्सर्यम् । मात्सर्यं प्रतीत्य आरक्षा । आरक्षां प्रतीत्य दण्डादानशस्रादानकलहविग्रहविवादाः सर्वे दुःखोपायासादयः सम्भवन्ति । इति । स्रोत आपन्नधर्मे ऽपि क्रम उक्तः । सत्पुरुषं (sss_167) सेवमानः सद्धर्मं शृणोति । सद्धर्मं शृण्वन् सम्यक्स्मृतिमुत्पादयति । सम्यक्स्मृतिप्रत्ययां मार्गप्रतिपत्तिमभ्यस्यति । इति । उक्तञ्च सूत्रे- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । त्रयाणां सन्निपातः स्पर्श इति । चित्तचैत्ता एककालिका इति वदतस्त्रयाणां सन्निपातो नास्ति । एकैकश उत्पद्यन्त इति वदतस्तु अस्ति त्रयाणां सन्निपातः । इत्यादिकारणै र्नास्ति सम्प्रयोगः ।
सम्प्रयोगनास्तितावर्गः पञ्चषष्टितमः ।
66 सम्प्रयोगास्तितावर्गः
(पृ) अस्ति सम्प्रयोगः । कस्मात् यः पश्यति स वेदयत अयमात्मेति । विज्ञानचित्तं तमाश्रयते । तेन सम्प्रयुक्तत्वात् । तथा संज्ञास्कन्धादयो ऽपि । यदि नास्ति सम्प्रयोगः किमधीनो ऽयं स्यात् । पुरुषसूत्र उक्तम्- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । त्रयाणां सन्निपातः स्पर्शः । तत्सहजा वेदनासंज्ञासंस्कारादय इति । अस्मिन् मते विविधं नामास्ति यदुत सत्त्वो देवो मनुष्यः स्त्री पुरुषो महानल्प इति । एवमादीनि नामानि सर्वाणि स्कन्धान् प्रतीत्य भवन्ति । यदि चित्तचैतसिकाः क्रमिकाः तदा स्कन्धद्वयं प्रतीत्य पुरुषो भवेत् न स्कन्धपञ्चकम् । कस्मात् । नातीतानागतस्कन्धान् प्रति पुरुषः सम्भवति । भवानाह- प्रत्युत्पन्ने न सन्ति पञ्चस्कन्धाः इति । कथमुच्येत पञ्चस्कन्धान् प्रतीत्य देवमनुष्यादयो भवन्तीति । उच्यते तु सर्वस्कन्धान् प्रतीत्य न स्कन्धद्वयमात्रम् । अतः पञ्चस्कन्धान् प्रतीत्य सत्त्व इत्याख्या ।
अस्ति च सूत्रे सम्प्रयोगो यदुतेन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति । अपि चोक्तं सूत्रे- स्पर्शो वेदनासंज्ञावितर्कैः सहज इति । अपि चोक्तं- पञ्चाङ्गिकं प्रथमध्यानमिति । आह च- वेदनादयो विज्ञानस्थितय इति । यदि विज्ञानसम्प्रयुक्तम् । (sss_168) कथं विज्ञानस्थितिषु वेदनादिषु स्थितमिदं निश्रयते तिष्ठतीति । कस्मात् । नह्युच्यते विज्ञानमेव विज्ञानस्थितिरिति । किञ्चोक्तं सूत्रे- चैतसिकधर्माश्चित्तजाश्चित्तनिश्रिता इति । आह च- सत्त्वानां चित्तं दीर्घरात्रं रागद्वेषादिसंक्लिष्टमिति । यदि सम्प्रयोगो नास्ति । किं संक्लेशयति चित्तम् । चैतसिकाश्च प्रकृतितो दन्धा अन्योन्याश्रयमवलम्बन्ते नडकलापवत् । अपि चोक्तं सूत्रे- यस्मिन् समये चित्तमुद्धतं भवति । अकालस्त्रयाणां बोध्यङ्गानाम् यदुत धर्मप्रविचयबोध्यङ्गस्य वीर्यबोध्यङ्गस्य प्रीतिबोध्यङ्गस्य । [तत्कस्य हेतोः ।] उद्धतं चित्तं दुरुपशमं भवति । [यस्मिन् समये चित्तमुद्धतं भवति] कालस्त्रयाणां बोध्यङ्गानां भावनायै यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य । [तत्कस्य हेतोः उद्धतं चित्तमेभिर्धर्मैः] सूपशमं भवति । यस्मिन् समये चित्तं लीनं भवति । अकाल[स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य । [तत्कस्य हेतोः । लीनं चित्तं तदेभिर्धर्मै]र्दुस्समुत्थाप्यं भवति । [यस्मिन् समये चित्तं लीनं भवति ।] काल[स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत धर्मप्रविचयसम्बोध्यङ्गस्य वीर्यसंम्बोध्यङ्गस्य प्रीतिसम्बोध्यङ्गस्य । [तत्कस्य हेतोः । लीनं चित्तं तदेभिर्धर्मैः] सुसमुद्धाप्यं भवति । इति । आभिधर्मिका आहुः- एककालं भावनानुयोगमनुयुक्तस्य बोधि[पक्षिका] धर्मा न वियुज्यन्त इति । अतो ज्ञायते ऽस्ति सम्प्रयोग इति ॥
सम्प्रयोगास्तितावर्गः षट्षष्ठितमः ।
67 नास्तिसम्प्रयोगवर्गः
यदुक्तं भवता- यः पश्यति स वेदयते स आत्मेति । तदयुक्तम् । पृथग्जना मूढा मृषादृष्टिमिमामुत्पादयन्ति । न विभजन्ति वेदनेयमिदं विज्ञानं निश्रयत इति । यदि ते विभजन्ति प्रवेशयेयुरपि शून्यताम् । ते चित्तसन्ततिं दृष्ट्वा अविभजन्तो व्यवहारमात्रासङ्गात्तथा (sss_169) वदन्ति । मूढानां व्यवहारो न श्रद्धेयः । यदवोचः- सर्वान् स्कन्धान् प्रतीत्य पुरुषो भवतीति । तत्र पञ्चस्कन्धानां सन्ततिं प्रतीत्य पुरुष इत्यतः सर्वेषां स्कन्धानां वचनम् । यथा लोके वदन्ति- सुखी दुःखी अदुःखासुखीति । नैकस्मिन् काले सम्भवन्ति तिस्रो वेदनाः । तथा स्कन्धा अपि । यब्द्रवीषि- इन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति । सूत्रे चोक्तम्- अन्यैः सम्प्रयुक्तमिति । यथोच्यते- द्वौ भिक्षावेकत्र सम्प्रयुक्तौ । इति । आहुश्च द्वेषसम्प्रयुक्तं दुःखम् । स्नेहवियुक्तं दुःखमिति । भवतां [मते] रूपं विप्रयुक्तमपि संवृत्त्या सम्प्रयुक्तमित्युच्यते । ज्ञानश्रद्धे अप्येवम् । श्रद्धा या अनित्यतादि श्रद्दधते । ज्ञानञ्च यथाप्रतीति ज्ञानम् । उभयमेकं साधयतीति सम्प्रयुक्तमित्युच्यते । यद्भवानाह- स्पर्शाद्वेदनादयः सहजा इति । तदयुक्तम् । लोके हि किञ्चिद्वस्तु अल्पविरुद्धमपि सहचरमित्युच्यते । यथा वदन्ति शिष्येण सह चरतीति । यथा च वदन्ति राजा मान्थाता स्मृतिमात्रेण स्वर्गमारुरोहेति । तन्नैव युज्यते । पृथग्जनानां विज्ञानस्यालम्बनक्रियायां चत्वारो धर्माः क्रमिका भवन्ति- विज्ञानानन्तरजा संज्ञा, संज्ञानन्तरजा वेदना, वेदनानन्तरजा चेतना, चेतना[नन्तरजाः] सौमनस्यदौर्मनस्यादयः । तत उत्पद्यन्ते रागद्वेषमोहाः । अत उच्यते सहैवोत्पद्यन्त इति ।
यदुक्तं भवता- पञ्चाङ्गिकं प्रथमं ध्यानमिति । अस्यां ध्यानभूमौ सन्ति तानि पञ्चाङ्गानि । नत्वैककालिकानि । यथा कामधातौ तिस्रो वेदनाः । कस्मात् । पूर्वोक्त धर्माणामेव पश्चाद्भूमिः कथ्यते । वितर्कविचारौ च न संप्रयुक्ताविति पूर्वमेव प्रत्युक्तम् । यदवोचः- विज्ञानस्थितय इति । तत्सूत्र उक्ता विज्ञानस्य प्रत्यय[रूपा] स्थितिः न निश्रयरूपा । केनेदं ज्ञायते । तस्मिन्नेव हि सूत्र उक्तम्- विज्ञानं रूपं प्रतीत्य स्नेहप्रमोदाभ्यां तिष्ठति । इति । यद्युप्युक्तं भवता- यदि विज्ञानं विज्ञानं प्रतीत्य तिष्ठति । तदा पञ्च विज्ञानानि स्थितयः स्युरिति । तदयुक्तम् । कस्मात् । विज्ञप्तिकाले किञ्चिद्विजानाति । विज्ञातस्य चित्ते वेदनादय उत्पद्यन्ते । तत्र तृष्णोद्भवति उद्भूततृष्णाप्रत्ययं विज्ञानं विज्ञानस्थिति रित्युच्यते । अतो नोच्यते विज्ञानमेव विज्ञानस्थितिरिति । सप्तविज्ञानस्थितिसूत्रमिदं (sss_170) चिन्त्यम् । मास्तु यथारुतग्रहणमिति । श्रद्धयोघं तरति इति यथा वदन्ति । तदपरिनिवष्ठितं चनम् । वस्तुतस्तु प्रज्ञयोघं तरति । इदमपि तथा स्यात् ।
यदुक्तं भवता- चैत्ताश्चित्तानिश्रिता इति । तदयुक्त्म । पूर्वं हि चित्तं विजानाति । अथ संज्ञादयो भवन्ति । उक्तं हि सूत्रे- वेदनादयश्चित्तनिश्रिता इति । न कुड्या श्रितचित्रवदिमे चैतसिकाश्चित्तनिश्रिता इत्युच्यन्ते । यदवोचः- चैतसिका अन्योन्यनिश्रिता नडकलापवदिति । तदन्यसूत्रविरुद्धम् ॥ यदि समं प्रयोगः, कस्मात् चैतसिकाश्चित्तनिश्रिताः । न तु चित्तं चैतसिकनिश्रितम् । यदि ब्रवीषि चित्तं पूर्वमुत्पद्यते तन्महिम्ना चैतसिकानामाश्रय इति । तदा सिध्येदस्मदर्थः । नहि चित्त उत्पद्यमाने चैतसिकधर्माः सन्ति । यद्ब्रवीषि चित्तं क्लेशसंक्लिष्टमित्यतो ज्ञायते ऽस्मि सम्प्रयोग इति । नेयं मार्गनीतिः । यदि चित्तं प्राक् परिशुद्धं रागादिभिरागन्तुकैर्दूषितम् । तदा स एव परिशुद्धधर्मा दूष्यो भवतीति धर्मलक्षणं बाध्येत ।
यथा च पूर्वमुक्तम्- चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपक्लिष्टमिति । तदिदं प्रतिवक्तव्यम् । यदि चित्तं प्रकृतिपरिशुद्धम् । रागादिभिः किं क्रियते । यथोक्तम्- चित्त- संक्लेशात् सत्त्वाः सक्लिश्यन्ति । चित्तव्यवदानात्सत्त्वा विशुध्यन्ति इति । तथा च सत्त्वा अपि सम्प्रयुक्ताः स्युः । यदि सत्त्वा अपि सम्प्रयुक्ताः स्युः । यदि सत्त्वा असम्प्रयोज्याः । रागादयो ऽपि असम्प्रयोज्याः स्युः । सन्तत्या धावति चित्ते संक्लिष्टादिचित्तमुत्पद्यते । सन्तानानां दूषणमेव संक्लिष्टचित्तमित्युच्यते । यदुच्यते संक्लेशाच्चित्तं विमुच्यत इति । तत् चित्तसन्ततौ यद्विशुद्धचित्तमुत्पद्यते । तद्विमुक्तमित्युच्यते । इदमेव युक्तम् । यथाभ्रतुषारादयश्चन्द्रसूर्याभ्यामसम्प्रयुक्ता अपि पिधानं कुर्वन्तीति [प्रवादः] । तथा रागादयो ऽपि चित्तेनासम्प्रयुक्ता अपि संक्लेशयन्तीति [वदन्ति] । धूमाभ्रमिहिकादयश्चन्द्रसूर्यौ पिदधतीति पिधानं कथ्यते । तथा रागादयो ऽपि विशुद्धचित्तमावृण्वन्तीति आवरणं भवति ।
(पृ) अभ्रतुषारौ चन्द्रसूर्यौ चैककालिकौ । संक्लेशचित्ते तु नैवम् । अतो नायं दृष्टान्तः । (उ) आवरणसाम्यादयं सिद्ध इत्यतो ऽनवद्यम् । संक्लेशो ऽयं चित्तसन्तानं संक्लेशयतीति संक्लेश इत्युच्यते । चैतसिकाश्चित्तजाश्चित्तनिश्रिता इति यत् भवतो वचनं तत्पूर्वमेव प्रत्युक्तम् । यदवोचः- चित्तचैतसिकाः प्रकृतिदन्धा इति । तत्प्रतिक्षणविनाशित्वात् (sss_171) दन्ध इत्युच्यते । न तु साहाय्याय मिथ आलम्बने समुदाचरन्तीति । ये परस्परसहकारिणः ते कञ्चित्कालं तिष्ठेयुः । न तु वस्तुतो दृश्यते परस्परसहकारिताबलम् । [अतः]किं सम्प्रयोगेण ।
भवतो यब्दोध्यङ्गकालवचनम् । तत् त्रीणि बोध्यङ्गानि यथाकालं भावयेदित्युक्तम् । नत्वेकस्मिन्नेव क्षणे । यथाह शारिपुत्रः सप्तसम्बोध्यङ्गेषु अहं स्वतन्त्रविहारी । यस्मिन् चित्तमुद्धतं भवति । तस्मिन् समये प्रश्रब्ध्यादीनि त्रीणि बोध्यङ्गानि भावयामीति । भगवानपि सम्बोध्यङ्गानामनुक्रममबोचत् । यदाह भवान्- ऐककालिकी सम्बोध्यङ्गानां भावनेति । तदयुक्तम् । यद्यैककालिकी, सप्तत्रिंशब्दोधिपक्षिकाणां भावना । तदेककालं भावयेत् द्वे श्रद्धे पञ्चस्मृत्यादीन् । यन्मन्यसे यथाप्राप्तिस्थानं [किञ्चित्] भावयतीति । स एवा[न्यस्य] भावनावियोगः । द्वयो ध्यानादिवदन्यलब्धवशात्तु अवियोग उच्यते । यत् सप्तत्रिंशब्दोधिपक्षिकाणामेककालं भावनेति । न स मार्गनयः । कस्मात् । नह्येकदा बहवो धर्मा भावयितुं शक्यन्ते ।
नास्ति सम्प्रयोगवर्गः सप्तषष्टितमः ।
68 चित्तबहुत्ववर्गः
(पृ) आज्ञातं न सन्ति पृथक् चैतसिकाः नास्ति च सम्प्रयोग इति । तच्चित्तमिदानीं किमेकम् उत बहु । केचिद्वदन्ति- एकमेव चित्तमुत्पत्तिवशाद्बहु इति । (उ) चित्तं बहु । कस्मात् । विज्ञानमेव चित्तमित्युच्यते । रूपविज्ञानमन्यत् गन्धादिविज्ञानञ्चान्यत् । अतो बहूनि चित्तानि । चक्षुर्विज्ञानमालोकाकाशादिप्रत्ययानपेक्ष्य अन्यदेवोत्पद्यते । न तथा श्रोत्रविज्ञानम् । त्रयाणां विज्ञानं विज्ञानविषयाणां प्राप्त्योत्पद्यते । मनोविज्ञानन्तु बहुप्रत्ययेभ्य उत्पद्यते । अतो ज्ञायते नैकमिति । यद्विज्ञानं नित्यमित्येवं लक्षणं विषयं विजानाति । तत् कथं विषयान्तरं विजानीयात् । यदि बहूनि चित्तान्युत्पद्यन्ते । (sss_172) तदा ज्ञातुं शक्नुवन्ति । यथा ज्ञानं सम्यक् मिथ्या चान्यत् । ज्ञानञ्च निश्चितं सन्दिग्धं, कुशलमकुशलमव्याकृतं वा सर्वमन्यदेव । कुशले च ध्यानसमाधिविमुक्तयः चत्वार्यप्रमाणानि ऋद्धयभिज्ञादयो ऽन्ये [धर्माः] । अकुशले च रागद्वेषमोहादयो ऽन्ये । अव्याकृते चातीतानागतादयो ऽन्ये । किञ्चिद्विज्ञानं कायिकवाचिककर्मसमुत्थापकम् । किञ्चिच्चेर्यापथसमुत्थापकम् । संयोगतो वियोगतो वा हेतुसमनन्तरालम्बनाधिपतीनां प्रत्येकं विशेषाच्चित्तानि भिद्यन्ते । विशुद्धाविशुद्धादिवेदनानां विशेषाच्च चित्तं भिद्यते । कारित्रविशेषाच्च चित्तं भिद्यते । विशुद्धमविशुद्धञ्च चित्तं प्रकृतितः प्रत्येकं भिद्यते । यच्चित्तं प्रकृतितः परिशुद्धं न तत्संक्लिष्टम् । यथा सूर्यरश्मिः प्रकृतितो विशुद्धा न कदाचिद्दूष्या भवति । यत् प्रकृतितो ऽविशुद्धं न तत् विशोधयितुं शक्यते । यथा रोम प्रकृतितः कृष्णं नावदातं कर्तुमर्हति । दानादौ वस्तुतो विशुद्धं चित्तमस्ति । हिंसादौ चाविशुद्धं चित्तम् । अतो नैकं भवेत् । सुखदुःखादिवेदनानां विभागवशाच्च चित्तमपि नैकम् । यथोच्यते भिक्षुर्विज्ञानमुपभुङ्क्ते केषां विज्ञानं यदुत सुखदुःखादुःखासुखानां विज्ञानम् । यदि चित्तमेकम्, एकमेव विज्ञानं सर्वविषयान् गृह्णीयात् । बहुचित्तवादिनस्तु यथेन्द्रियं विज्ञानमुत्पद्यते । अतो न सर्वविषयान् गृह्णीयात् । यदि चित्तमेकम् । कस्य प्रतिबन्धान्न सर्वविषयान् गृह्णाति । अतो ज्ञायते चित्तं बहु इति ।
ग्राह्यभेदाद्ग्राहकमपि भिद्यते । यथा कश्चित्कदाचित्स्वचित्तं वेदयते । कथं स्वं रूपमात्मानं वेदयते । यथा चक्षुर्नात्मानं पश्यति । असिर्नात्मानं छिनत्ति । अङ्गुलिर्नात्मानं स्पृशति । अतश्चित्तं नैकम् । यथा मर्कटोपसूत्र उक्तम्- यथा मर्कटः [अरण्य उपवने चरमाणः] शाखां गृह्णाति । ता मुक्त्वान्यां गृह्णाति । एवमेव चित्तं [रात्र्या दिवसस्य च] अत्ययेन अन्यदेवोत्पद्यत अन्यन्निरुध्यते । इति । यदि चित्तमेकम् । षड्विज्ञानकाया इति वचनं प्रणष्टं स्यात् । सूत्रे ऽप्युक्तम्- कायः कदाचिद्दशवर्षाण्यपि तिष्ठते । यत् चित्त- [मित्युच्यते तत् रात्र्याश्च दिवसस्य] अत्ययेन अन्यदेवोत्पद्यते ऽन्यन्निरुध्यत इति । आह च- चित्तमनित्यस्थायीति भवितव्यम् । तच्चित्तं सन्तत्या वर्तते । न प्रतिक्षणं छिद्यते । यथा चैकं कर्म [कृतं] न पुनरादेयं भवति । एवं विज्ञानमपि नालम्बने (sss_173) सादरं वर्तते । तृणाग्निर्नेन्धने सङ्क्रामति । तथा चक्षुर्विज्ञानं न श्रोत्रं प्राप्नोति । अतो चित्तं बहु इति ॥
चित्तबहुत्ववर्गः अष्टषष्टितमः ।
69 चित्तैकत्ववर्गः
कश्चिच्चोदयति- चित्तमेकम् । कस्मात् । यथोक्तं सूत्रे- चित्तमिदं दीर्घरात्रं कामादिभिरुपक्लिष्टमिति । यदि चित्तं नाना, न सदोपक्लिष्टं स्यात् । रत्नहारसूत्र उक्तम्- यश्चित्तं सदा श्रद्धया शीलेन त्यागेन श्रुतेन प्रज्ञया च भावयति स मृतो देवेषूत्पद्यते इति । ध्यानसूत्रे चोक्तम्- प्रथमध्यानलाभी चित्तस्य परिदमनाय प्रथमध्यानाद्वितीयध्यानमुपसम्पद्य विहरति । इति । चित्तवर्गे चोक्तम्-
मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः] । परिस्पन्दतीदं चित्तं मारधेयं प्रहापयेत् ॥ इति ।
अतो ज्ञायते चित्तमेकं चञ्चलमितस्ततो धावतीति । संयुक्तपिटके च भिक्षुराह-
मर्कटः पञ्चद्वारायां कुटिकायां पसक्किय । द्वारेणानुपरीयाति घटयंश्च मुहुर्मुहुः । तिष्ठ मर्कट मा [धावी]र्न हि ते तत् यथा पुरा । निगृहीतो ऽसि प्रज्ञया नेतो दूरं [गमिष्यसी]ति ॥
अतो ज्ञायते- चित्तमेकं पञ्चेन्द्रियद्वारेषु कायकुटिकायां परिभ्रमति । सैव तत्प्रकृतिः । अत आह "मा [धावी]र्न हि ते तत् यथापुरा" । इति । आह च-
चित्तमेतत्सर्वकालं यथा दिनकरप्रभा । प्रज्ञावान् दमयत्येव यथा हस्तिनमङ्कुशम् ॥ इति ।
अतो ज्ञायते चित्तमेकमेवालम्बनेष्वटतीति । किञ्चात्माभावाच्चित्तमेव कर्मकृत्स्यात् । एकमेव हि चित्तं कर्माण्यभिनिर्वृत्त्य पुनर्विपाकं वेदयते । चित्तं म्रियते चित्तमुत्पद्यते चित्तं बध्यते चित्तं मुच्यते । पूर्वानुभूतं चित्तं स्मरति । अतो ज्ञायते चित्तमेकमिति । चित्तमेकं सत् सञ्चिनोति [वासनाम्] । क्षणिकस्य चित्तस्य नास्ति सञ्चयबलम् । भगवतः शासने नास्त्यात्मा । चित्तमेकं सत् सत्त्वलक्षणं भवति । यस्य चित्तं बहु । न तस्य सत्त्बलक्षणं भवति । दक्षिणेन चक्षुषा दृष्ट्वा वामेन विजानाति । नह्यन्यत् पश्यति अन्यद्विजानाति । अतो ज्ञायते । चित्तमेकमात्मना पश्यति आत्मना विजानाति इति ।
चित्तैकत्ववर्ग एकोनसप्ततितमः ।
70 न चित्तबहुत्ववर्गः
यद्यप्युक्तं भवता- रूपादीनां विज्ञानमन्यदिति । न युक्तमिदम् । कस्मात् । यदेकं चित्तं तदेव रूपशब्दादिग्रहणरूपाणि नानाकर्माणि करोति । यथैकः पुरुषः पञ्चछिद्रके गृहे स्थितः तत्र तत्र गतान् विषयान् गृह्णाति । तदेव चित्तं चक्षुषि लग्नमालोकदिप्रत्ययमपेक्ष्य रूपं पश्यति । यथा स एव पुरुष अन्यत्र सहायमपेक्ष्य [अपरं] कार्यं करोति । तस्यैव चित्तस्य विज्ञेयं विभक्तं भवति । यथा स एव पूर्वं ज्ञानी सन् पश्चादज्ञानी भवति । एवं मिथ्याज्ञानं पुनः सम्यक् ज्ञानं भवति । यथा स एव पुरुषः पूर्वं विशुद्धः पश्चादविशुद्धो भवति । एवं यत् सन्दिग्धं ज्ञानं तदेव निश्चितं ज्ञानं भवति । यथा स एव पुरुषः पूर्वं संशयितः पुनर्निश्चितो भवति । यदकुशलं चित्तं तदेव पुनः कुशलमव्याकृतञ्च भवति । यथा स एव पुरुषः कदाचित्कुशलं स्मरति । कदाचिदकुशलं कदाचिदव्याकृतञ्च स्मरति । (sss_175) तदेव चित्तमतीतानागामीर्यापथप्रभेदञ्च करोति । यथा स एव पुरुषो ऽतीतानागतादौ नानेर्यापथान् करोति । एवं विशुद्धं चित्तमेवाविशुद्धं भवति । अविशुद्धमेव विशुद्धं भवति । यथा स एव पुरुषः पूर्वं प्रसन्नः पश्चादप्रसन्नो भवति । तदेव चित्तं सुखसम्प्रयुक्तं पश्चाद्दुःखसम्प्रयुक्तं भवति । यथा स एव पुरुषः पूर्वमन्यं सुखयति पश्चात्पुनर्दुःखयति । अत उच्यते चित्तमेकं बहुकर्मणे प्रभवतीति ।
यदवादीः- एकमेव विज्ञानं न षड्विवषयान् गृह्णातीति । नैकं चित्तमिति । तदयुक्तम् । मम तु इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यते । यत् विज्ञानं चक्षुषि लग्नं तत् रूपमात्रं गृह्णाति । नान्यविषयान् । अन्यदप्येवम् । यदवोचः- ग्राह्यभेदाद्ग्राहकभेद इति । तदयुक्तम् । चित्तधर्मता यदात्मानं विजानातीति । यथा प्रदीप आत्मानं प्रकाशयति अन्यानपि प्रकाशयति । यथा गणक आत्मानं गणयति अन्यानपि गणयति । एवमेकमेव चित्तमात्मानं विजानाति अन्यानपि विजानाति । भवतोक्तो मर्कटदृष्टान्तो ऽयुक्तः । यथा मर्कटः शाखां गृह्णाति तां मुत्त्कापरां गृह्णाति । तथा चित्तमपि एकमालम्बनं गृह्णाति । तदुत्सृज्यापरं गृह्णाति । अतो ऽन्यदुक्तमेव [यत्] स्वयमेव कर्माभिनिर्वर्तयति, स्वयमेव पुनर्विपाकं वेदयते इति संक्षिप्य प्रत्यवोचम् । कस्मात् । यदि चित्तमन्यत्, तदा अन्यत्करोति, अन्यद्वेदयते अन्यन्मृन्म्रियते अन्यज्जायत इत्यादयो दोषाः स्युः । अतो ज्ञायते चित्तमेकमिति ॥
न चित्तबहुत्ववर्गः सप्ततितमः ।
71 न चित्तैकत्ववर्गः
अत्रोच्यते । यदब्रवीः- चित्तमेकं कामादिना चिरमुपक्लिष्टम् इति । तदयुक्तम् ।
सन्तन्यमानचित्तस्यैकं लक्षणं दृश्यते । यथा वदन्ति सन्ध्यावात् एव प्रभातवातः । अद्यतननद्येव पूर्वनदी । [अद्य] राजसभाप्रदीप एव ह्यस्तनप्रदीप इति । यथा दन्तः पुनर्जात इत्युच्यते । वस्तुतस्तु पूर्वदन्तो न पुर्नजातः । लक्षणसाम्येन जातः पुनर्जात (sss_176) इत्युच्यते । एवं चित्तमन्यदपि सन्तत्या चित्तमेकमित्युच्यते । यदवोचः- [पूर्वानुभूतं चित्तं] स्मरतीति । पुरुषः कदाचिदात्मनैव पूर्वचित्तं स्मरति । यत् पूर्वचित्तं तदिदानीमागतमिति किं स्मृतेन । तेनैव चित्तेन तदेव स्मर्यत इति कथं भविष्यति । नह्यस्ति स्वात्मवेदकं ज्ञानमेकम् । अतो नैकं चित्तम् ।
यब्द्रवीषि- [चित्तं] सञ्चिनोतीति । यदि चित्तं नित्यमेकम् । कः सञ्चयेनोपकारः । यदि चित्तं बहु । तदा अधरमध्योत्तमक्रमसन्तत्योत्पद्यमानत्वादस्ति सञ्चयः । भवतोक्तं चित्तं सत्त्वलक्षणमिति । यदि चित्तमेकम् । तदेव नित्यं भवेत् । यन्नित्यम् । स एवात्मा स्यात् । कस्मात् । इदानीं कुर्वन् पश्चात्करिष्यन् नित्य एको ऽविकारीत्यत आत्मा भवति । चित्तविशेषलक्षणानभिज्ञस्य चित्तमेकं भवति । प्रवाहवच्चित्तं सन्तन्यमानमेकमिति वदन्ति । यथा तैमिरिकः केशकलापमेकं पश्यति । तद्विवेचकस्तु तद्भेदं विजानाति । यस्तु प्रज्ञावान् स चित्तभेदं विजानाति । कस्मात् । ब्रह्मादयो व्यामोहगता एवं मन्यन्ते कायो ऽयमनित्यः चित्तं विज्ञानन्तु नित्यम् इति । यदि ब्रह्मादीनामेव व्यामोहः । कः पुनर्वादो ऽन्येषां नित्येष्वासक्तानाम् । अतः कुशलचेतनाप्रत्ययसामग्रीसमुत्पन्नो धर्मो नित्यः स्यात् । तद्विपरीतस्तु क्षयी ।
यदुक्तं भवता- दक्षिणेन दृष्ट्वा वामेन विजानीयादिति । तत् ज्ञानबलादन्यत्पश्यति अन्यद्विजानाति । यथायं पुरुषो ग्रन्थं रचयति । अन्यः पुरुषो विजानाति । अनागतमजातमसद्भूतञ्चार्यज्ञानबलेन विजानाति । अतीतं वस्तु असदपि स्मृत्वा विजानन्ति अनागतमसदपि [आर्य]ज्ञानबलाद्विजानन्ति । इदं पश्चात् सविस्तरं वक्ष्यते ॥
न चित्तैकत्ववर्ग एकसप्ततितमः ।
72 चित्तबहुत्वप्रदर्शनवर्गः
यदवोचः- चित्तमेकं बहुकर्मणे प्रभवतीति । तदयुक्तम । कस्मात् । सम्यक् प्रत्यायकात्मकं हि चित्तम्, रूपप्रत्यायनं शब्दप्रत्यायनादन्यत् । कथं चित्तमेकं भवति । यथा घटं धत्ते हस्तकर्म । न तदेव कर्मान्यद्वस्तु धत्ते । तथा येन चित्तेन रूपं गृह्यते । (sss_177) न तेनैव शब्दः श्रूयते । चक्षुर्विज्ञानमिदञ्च चक्षुराश्रयीकृत्य रूपमालम्बनीकृत्य भवति । तदुभयमनित्यं क्षणिकम् । चक्षुर्विज्ञानं कथमक्षणिकम् । यथा विना वृक्षं न च्छायान्वास्ते । एवं चक्षूरूपयोः क्षणिकत्वात् तदाश्रित्योत्पन्नं विज्ञानमपि क्षणिकम् । क्षणिकधर्मस्य नास्ति गमनशक्तिः । मनोवर्गे च पूर्वं बहुधा प्रत्युक्तमेव । अतो न मनो गच्छतीति ।
यदवादिः- विज्ञानं चक्षुषि लग्नं सत् आलोकमपेक्ष्य पश्यति । यथा स एव पुरुषः पश्यति शृणोति इत्यादि । तदयुक्तम् । कस्मात् । शास्त्रे ऽस्मिन् धर्मणां वस्तुतत्त्वमन्विष्यते । पुरुषः प्रज्ञप्तिसन् न दृष्टान्तो भवितुमर्हति । पुरुषलक्षणञ्चान्वेष्टव्यम् । पञ्चस्कन्धाः पुरुषात्मका इति वदामः । संशयज्ञानादीनि निश्चयज्ञानादिभ्यो ऽन्यानि न संशयज्ञानादीन्येव निश्चयज्ञानादीनि इत्यपि वदामः । तथा सर्वं [वक्तव्यम्] ।
यदवोचः- इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यत इति । तदयुक्तम् । इन्द्रियं विज्ञानजननस्य हेतुप्रत्ययः । यदि विज्ञानमेकम् । इन्द्रियं किं करोति । [यत्] प्रदीपं दृष्टान्तत्वेन कल्पयसि । नायं दृष्टान्तो युक्तः । यथा अप्रकाशितस्य प्रकाशनं करोति प्रदीपः । न प्रदीपस्वरूपं प्रकाशयति । अतो नात्मानं प्रकाशयति । प्रदीपेनान्धकारे विनष्टे [विषयेषु] चक्षुर्विज्ञानमुत्पद्यते । तदुत्पन्नं सत् प्रदीपमपि पश्यति । घटादि द्रव्यमपि [पश्यति] गणकस्तु आत्मरूपमपि जानाति पररूपमपि जानाति । तदुच्यते लक्षणज्ञानम् ।
यदवोचः कर्मादि । तत् कर्मादिदूषणे प्रत्युक्तम् । अतो नास्ति स दोषः । यदि चित्तमेकं नित्यम् । तदास्ति कर्म नास्ति विपाकः । कस्मात् । साक्षाच्चित्तं तदाश्रित ञ्च कर्म भवति । यदि चित्तमेकम् । कः कर्मविपाकः । तथा बन्धमोक्षादिरपि यदवादीः- अन्यत् करोति अन्यद्वेदयत इति । तदप्ययुक्तम् । स्कन्धानां सन्तानो नैको नान्यः । अन्तद्वयपातापत्तेः । संवृतिसंज्ञया कर्मादीनां वचनं न तु परमार्थतः । अतः स्कन्धसन्ताने सो ऽयम् इत्यादिसंज्ञाव्यवहार इत्यनवद्यम् । अतो ज्ञायते चित्तं बह्विति ॥
चित्तबहुत्वप्रदर्शनवर्गो द्विसप्ततितमः ।
73 किञ्चित्कालस्थायिविज्ञानवर्गः
(पृ) चित्तं बह्विति निरूपितम् । इदानीं तानि चित्तानि किं क्षणिकानि । उत किञ्चित्कालस्थायीनि । केचिदाहुः- किञ्चित्कालस्थायीनीति । कस्मात् । रूपादीनां प्रत्यायनात् । यत् क्षणिकं न तत् प्रत्याययेत् । अतो नास्थायि भवति । यदि क्षणिकं [चित्तं] तदा रूपादीनि न कदापि प्रतीयेरन् । कस्मात् । यथा विद्युत्प्रभा किञ्चित्स्थायिन्यपि न पुनः सुज्ञेया भवति । कः पुनर्वादः । क्षणिकं प्रत्याययतीति । वस्तुतस्तु प्रत्याययति । अतो ज्ञायते विज्ञानानि न क्षणिकानीति । चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञान[मुत्पद्यते] इत्यनयोरभेदे विज्ञानमप्यभिन्नम् । चित्तञ्च युगपदेव नीलादीनि रूपाणि गृह्णाति । अतो ज्ञायते ऽक्षणिकमिति ।
यन्मन्यसे- सन्तानतो ऽध्यवस्यतीति । तदपि न युक्तम् । यद्यैकैकं चित्तं नाध्यवस्यति । सन्तानो ऽपि नाध्यवस्येत् । यथैकस्मिन्नन्धे रूपमपश्यति बहवो ऽपि न पश्येयुः । यदि ब्रवीषि- यथैकस्तन्तुर्न हस्तिनं प्रतिरुन्धे । बहवस्तु सञ्चिताः प्रभवन्ति । तथैकं चित्तं नाध्यवस्यति । तत्सन्तानस्तु अध्यवस्यति । इति । इदमप्ययुक्तम् । एकैकस्मिन् तन्तौ प्रत्येकमस्ति किञ्चिद्वलम् इति तत्समवायः प्रभवति । चित्तस्यैकस्मिन् क्षणे नास्ति किञ्चित्प्रत्यायकबलम् । तस्मात्सन्तानो ऽपि न प्रत्याययेत् । वस्तुतस्तु प्रत्याययति । अतो ज्ञायते ऽक्षणिकमिति । यदि चित्तं क्षणिकमिति । अतीतानागतादिकर्माणि निष्प्रयोजनानि स्युः । किञ्चित्कालस्थायि तु सप्रयोजनानि करोति । अतो ज्ञायते ऽक्षणिकमिति । अनित्यमपि किञ्चित्कालमवश्यं तिष्ठति ॥
किञ्चित्कालस्थायिविज्ञानवर्गस्त्रिसप्ततितमः ।
74 अस्थायिविज्ञानवर्गः
अत्र प्रतिब्रूमः । यदुक्तं भवता- चित्तं प्रत्यायकमित्यतो ऽक्षणिकमिति । तदयुक्तम् । चित्तगतनिमित्तानां बलात् [चित्तं] प्रत्याययति । न स्थायिबलात् । तथा नो चेत् शब्दकर्मणो न स्यात्प्रत्यायनम् । कस्मात् । प्रत्यक्षं पश्यामः खल्विदं क्षणिकमथ च प्रत्यायकमिति । अतो ज्ञायते न स्थायित्वात्प्रत्यायतीति । सम्यक् प्रत्ययात्मकं हि चित्तम् । यन्नीलं प्रत्याययति । न तदेव पीतं प्रत्याययति । तस्मान्नीलप्रत्यायकं किञ्चित्कालस्थाय्यपि न पीतं प्रत्याययति । नीलप्रत्यायनकालो ऽन्यः । अनीलप्रत्यायनकालश्चान्यः । नैको धर्मो द्वयोः कालयोः स्यात् । धर्मः कालसमन्वितः । कालश्च धर्मसमन्वितः । ग्रहो द्विविधः अध्यवसायात्मकः अनध्यवसायत्मक इति । यदि विज्ञानमक्षणिकम् । सर्वं ग्राह्यं साकल्येनाध्यवस्येत् । मम तु बहुविज्ञानसन्तानवशादुत्पन्नो ग्रहो ऽध्यवस्यति । अल्पसन्ताने तु नाध्यवस्यति । विज्ञानञ्च विषयं गृह्णाति मन्दं वा क्षिप्रं वा इति चित्तस्य नास्ति नियमः ।
यदुक्तं भवता- आश्रयालम्बनयोर्नास्ति भेद इति । क्षणिकत्वात् रूपमाश्रयालम्बनमपि भिन्नमेवेत्यर्थः साधितः । यदवादीः- युगपद् गृह्णातीति । विज्ञानं सर्वकायावयवग्राहकमित्यतो युगपग्द्रह इत्युच्यते । अतो नास्त्येकं विज्ञानं सर्वग्राहकम् । कस्मात् । अपरिनिष्पन्नग्रहमेव चित्तमनुनिरुध्यते । [अतः] केन लभ्यते सर्वग्राहकं चित्तमस्तीति । यद्ब्रवीषि- कर्मक्रिया निष्प्रयोजनेति । तदयुक्तम् । यथा प्रदीपः क्षणिको ऽपि प्रकाशनोपयोगी । वायुगतकर्माणि क्षणविनाशीन्यपि पदार्थान् कम्पयन्ति । तथा (sss_180) विज्ञानमपि । यथा प्रदीपादयः क्षणिका अपि [पदार्थ]ग्रहणसमर्था भवन्ति । तथा विज्ञानं क्षणिकमपि [विषय]ग्रहणसमर्थं भवति ।
अथ चित्तमनोविज्ञानानि क्षणिकानि । कस्मात् । नीलादीरूपसङ्घातः पुरोवर्ती सन् विज्ञानमाशूत्पादयति । अतो ऽस्थायीति ज्ञायते । पुरुषस्य कदाचिच्चित्तं भवति यदहमेककालं सर्वानलम्बनान् गृह्णामीति । अतो विज्ञानमस्थायि । यदि विज्ञानं किञ्चित्कालं तिष्ठति । तदा पुरुषस्य न तद्भान्तिचित्तमुत्पद्येत । कस्मात् । बीजसन्तानवत् किञ्चित्कालावस्थायित्वात् । न तत्र पुरुषस्य भ्रान्तिचित्तमुत्पद्यते । यदङ्कुरकाण्डादीन्यैकालिकानीति । अतो विज्ञानं क्षणिकमिति ज्ञायते । यो घटं पश्यति तस्यैव घटस्मृतिर्भवति । दर्शनानन्तरं स्मृतिर्भवतीत्यतः क्षणिकम् । यो वदति विज्ञानमक्षणिकमिति । तस्यैकमेव ज्ञानं सम्यङ् मिथ्या च सम्भवेत् । अयं पुरुष इति ग्रह एव अयं न पुरुष इति ग्रह इति यथा दर्शनं भवति । एवं संशयग्रह एव निश्चयग्रहः स्यात् । तत्तु न सम्भवति । अतो ज्ञायते क्षणिकमिति । विकल्पाद्यनेकप्रत्ययग्रहणात् क्षणिकमिति ज्ञायते । शब्दकर्मसन्तानश्च क्षणिकः सन् तत्र ज्ञानमुत्पादयति । अतो ज्ञायते चित्तं क्षणिकमिति ॥
अस्थायिविज्ञानवर्गश्चतुःसप्ततितमः ।
75 विज्ञानयौगपद्यवर्गः
कश्चिच्चोदयति । चित्तं क्षणिकमिति प्रतिपादितम् । इदानीं विज्ञानानि किमैककालिकानि । उत क्रमिकाणि । केचिदाभिधर्मिका वदन्ति- विज्ञानान्यैककालिकानीति । कस्मात् । कश्चित् सर्वान् विषयानेककालं गृह्णाति । यथैको घटं पश्यन् सङ्गीतध्वनिमपि शृणोति । घ्राणेन कुसुमगन्धं जिघ्रति । मुखेन सगन्धरसं कवलयति । व्यजनवायुः कायं स्पृशति । चेतना च समीकरोत्यपशब्दम् । अतो ज्ञायते सर्वान् विषयानेककालं गृह्णातीति ।
यद्येकमेव विज्ञानं काये सर्वसुखदुःखे विजानाति । तदा चाक्षुषविज्ञानेनैकेन सर्वान् वृक्षान् गृह्णीयात् । तत्तु न सम्भवति । कथ[मेकेन] विज्ञानेन मूलशाखापत्रपुष्पाणि (sss_181) सर्वाणि ज्ञायन्ते । अतो ज्ञायते बहूनि विज्ञानानि युगपदेककालमुत्पन्नानि सर्वान् स्प्रष्टव्यान् गृह्णन्ति इति । नानारूपाणां ज्ञानमेककालमुत्पद्यते । न तु [यत्] नीलज्ञानम् । तदेव पीतज्ञानम् । अतो ज्ञायते एककालं युगपदुत्पद्यन्ते । वहूनि विज्ञानानीति कायावयवेषु च शीघ्रतरं ज्ञानमुत्पद्यते । एकावयवग्रहणकाल एव सर्वान् गृह्णाति । भगवतः शासने च नास्त्यवयवी । न हि सम्भवत्येकमेव विज्ञानं सर्वानवयवान् गृह्णातीति । अतो एककालमुत्पन्नानि बहूनि विज्ञानानि सर्वानवयवान् गृह्णन्तीति ॥
विज्ञानयौगपद्यवर्गः पञ्चसप्ततितमः ।
76 विज्ञानायौगपद्यवर्गः
अत्रोच्यते । यदुच्यते भवता- बहूनि विज्ञानानि युगपदेककालमुत्पद्यन्त इति । तदयुक्तम् । कस्मात् । विज्ञानं मनस्कारमपेक्ष्योत्पद्यते । यथोक्तं सूत्रे- चक्षुरनुपहतं भवति । रूपमाभासगतं भवति । विज्ञानोत्पादको मनस्कारश्च यदि न भवति । तदा न चक्षुर्विज्ञानमुत्पद्यत इति । अतो ज्ञायते विज्ञानानि मनस्कारमपेक्ष्य भवन्ति नैककालिकानीति । सर्वे चोत्पत्तिधर्माणः कर्मकारणाधीनाः । चित्तस्यैकैकश उत्पत्तेः । न हि पृथिवीनरकादिविपाक एककालं वेद्यते । यदि बहूनि चित्तानि युगदुत्पद्यन्ते । तदा युगपद्वेदना स्यात् । न वस्तुतः सम्भवति । अतो ज्ञायते विज्ञानानि नैककालिकानीति । विज्ञानञ्च शीघ्रतरमालम्बनं गृह्णाति । यथालातचक्रस्य प्रवृत्तिशैघ्र्यान्नदृश्यते तद्विच्छेदः । तथा विज्ञानान्यपि काललवस्थायित्वान्न विभज्यन्ते । यद्यैककालिकानि विज्ञानानि । सर्वेषामुत्पत्तिधर्माणामेककालमेकलक्षणं युगपदुत्पत्तिः सम्भवेत् । कः प्रतिबन्धो ऽस्ति । तथा च सर्वधर्माणामुत्पत्तये नावश्यं यत्नं कुर्यात् । कर्माकुर्वन्नपि (sss_182) मुच्येत । न तु तत्सम्भवति । अतो ज्ञायते विज्ञानानि नैककालिकानीति । कायश्चित्तानुचरः । यदि सर्वाणि चित्तानि युगपद्भवन्ति । तदा कायो विक्षिप्येत । अतीतानागतादिचित्तानामेककालमुत्पत्तेः । वस्तुतस्तु कायो न विक्षिप्यते । अतो ज्ञायते न युगपद्भवन्ति सर्वचित्तानीति । चक्षुषा पश्यामः खलु बाह्यान् बीजाङ्कुरादीन् कलमांसपेश्यादिरूपाणि कौमारयौवनजराकारान् क्रमिकान् । तथा चित्तमपि स्यात् ।
उक्तञ्च सूत्रे- यदा सुखा वेदना भवति । तदा [अन्ये] द्वे वेदने निरुद्धे यदुत दुःखा वेदना अदुःखासुखा वेदना इत्यादि । यदि विज्ञानानां युगपदुत्पादः तदा तिस्रो वेदना एककालं वेद्येरन् । न तु तद्युज्यन्ते वस्तुतः । अतो ज्ञायते विज्ञानानि नैककाल मुत्पद्यन्त इति । एकस्मिन् काय एकचित्तोत्पत्त्या एकः पुरुष इत्युच्यते । विज्ञानानां यौगपद्य एकस्मिन् काये बहवः पुरुषाः स्युः । नत्विदं युज्यते । अत एकस्मिन् काये विज्ञानानां यौगपद्यं न सम्भवति । यौगपद्ये हि एककालं सर्वान् धर्मान् जानीयुः । कस्मात् । चक्षुषि तावदप्रमाणशतसहस्राणि विज्ञानानि भवन्ति । एवं यावन्मनस्यपि । तथा च [तानि] सर्वान् धर्मान् विजानीयुः । न तु तद्युज्यते । अतो विज्ञानानि नैककालिकानीति ज्ञायते ।
(पृ) कस्माद्विज्ञानान्यवश्यं क्रमिकाणि भवन्ति । (उ) एकः समनन्तरप्रत्यय इत्यतो विज्ञानमेकैकमुत्पद्यते । (पृ) एकः समनन्तरप्रत्यय इति कस्मात् सम्यक् । ईदृशी धर्मता स्यात् । तथा भवतामे कस्यात्मन एकं मनः । तथा ममापि एकस्य मनस एकः समनन्तरप्रत्ययः । यथा बीजसम्बन्धी अङ्कुरस्तत्समनन्तरमुत्पद्येत । न काण्डाद्युत्पाद्य अङ्कुरः । एवं चित्तसम्बन्धी धर्मश्चित्तक्रमेणोत्पद्येत । नान्यधर्मोत्पत्ति [क्रमतः] । विज्ञानलक्षणं तथा नियतं [यत्] एकैकोदयव्ययक्रमलक्षणाधीनम् अग्निलक्षणदाहवत् । तस्माद्विज्ञानान्यवश्यं क्रमेण भवन्ति ॥
विज्ञानायौगपद्यवर्गः षट्सप्ततितमः ।
77 दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः
(पृ) को धर्मः संज्ञा । (उ) प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा । कस्मात् । यथोक्तं सूत्रे- केचित्परीत्तसंज्ञाः केचिद्बहुसंज्ञाः केचिदप्रमाणसंज्ञाः केचिदकिञ्चनसंज्ञा इति । वस्तुतस्तु ते बहु किञ्चिदादिधर्मा न सन्ति । अतो ज्ञायते संज्ञा प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपेति । ताः संज्ञाः भूयसा विपर्यासगता इष्यन्ते । यथोक्तम्- अनित्ये नित्यमिति संज्ञाविपर्यासः । दुःखे सुखमिति संज्ञाविपर्यासः । अनात्मनि आत्मेति संज्ञाविपर्यासः । अशुभे शुभमिति संज्ञाविपर्यासः । इति । एवं श्रद्धाधिमुक्तिविपश्यना कृत्स्नायतनेष्वपि उच्यन्ते ।
संज्ञा त्रिधा विभक्ता ग्रहालम्बना यदुत प्रियद्वेप्योदासीनाः । तत्र तिस्रो वेदनाः क्रमशः समुद्भवन्ति । ता वेदनाश्च त्रिविषजनन्यः । अतः संज्ञा दुष्टा । दुष्टत्वात् भगवानाह- संज्ञा प्रहातव्येति । यथोक्तम्- चक्षुषा रूपाणि दृष्ट्वा मा निमित्तं गृह्वीत इति । अतो ज्ञायते प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपा संज्ञेति ।
(पृ) प्रज्ञप्तिसद्धर्मग्रहणरूपा संज्ञेति नायमर्थो युज्यते । कस्मात् । तथा संज्ञया हि सर्वान् क्लेशान् प्रजहाति । यथोक्तं सूत्रे- अनित्यसंज्ञा साधु भाविता सर्वं कामरागं पर्यादापयति । सर्वं रूपरागं पर्यादापयति । सर्वं भवरागं पर्यादापयति । सर्वमौद्धत्यं पर्यादापयति । सर्वामविद्यां पर्यादापयति । सममस्मिमानं पर्यादापयति । इति । अतो ज्ञायते न प्रज्ञप्तिसद्धर्मग्रहणमात्रा संज्ञेति । प्रज्ञप्तिधर्मग्रहणरूपा [चेत्] संज्ञा । तदा न स्यात्क्लेशानां प्रहाणम् ।
उच्यते । वस्तुतः प्रज्ञेयं संज्ञेति नाम्नोच्यते । यथा वदन्ति वेदकः सर्वस्माद्विमुच्यते । मनसा सर्वे क्लेशाः प्रहीयन्त इति । यथा च वदन्ति अकृष्णाशुक्लकर्मणा सर्वाणि कर्माणि क्षपयतीति । वदन्ति च-
(sss_184) श्रद्धया वितरत्योघमप्रमादेन चार्णवम् । वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति । इति ।
वस्तुतस्तु प्रज्ञया तरति न तु श्रद्धादिना । एवं प्रज्ञैव संज्ञाख्ययोच्यते । उक्तञ्च सूत्रे- प्रज्ञया बलं भवतीति । यथोक्तम्- आर्यास्तदन्तेवासिनो वा प्रज्ञाबलेन सर्वान् क्लेशान् प्रजहतीति । अतः प्रज्ञैव सर्वसंयोजनसमुच्छेदिनी । न तु संज्ञा । सप्तत्रिंशदार्यमार्गाङ्गेषु नोक्ता संज्ञा । अतो न [सा] संयोजनसमुच्छेदिनी । उक्तञ्च सूत्रे- जानन् पश्यन् आस्रवक्षयं प्रतिलभते नाजानन् नापश्यन् इति । त्रिष्वनास्रवेन्द्रियेषूक्तं अनाज्ञातमास्यामिन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमिति सर्वं ज्ञानाख्यं भवति । आह च भगवान्- प्रज्ञास्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो भवति इति । किञ्चाह- ध्यानव्यतिरिक्ता नास्ति सम्बोधिः । साम्यव्यतिरिक्तं नास्ति ध्यानमिति । अनुक्रमसूत्रे चोक्तम्- विशुद्धशीलधारिणो न चित्तं परितपति यावद्यथाभूतज्ञानाय चित्तं समादधाति इति । धर्मज्ञानादयः सर्वे प्रज्ञाख्याः । तिसृषु च शिक्षासु अधिप्रज्ञाशिक्षोत्तमा । आह च- प्रज्ञासम्पत् विमुक्तिज्ञानदर्शनसम्पत् इति । सप्तविशुद्धिषु चोक्तम्- प्रतिपदाज्ञान- दर्शनविमुक्तिरित् । आह च भगवान्- सर्वधर्माणां यथाभूतज्ञानमनुत्तरा प्रज्ञा इत्युच्यते । संज्ञा तु नैवंविधोच्यते ।
प्रज्ञैव सर्वक्लेशानां समुच्छेदिनि न तु संज्ञेति योगो न्यान्याः । कस्मात् । यथाह महानिदानसूत्रम्- यच्च सूत्रे ऽवतरति विनये च सन्दृश्यते धर्मताञ्च न विलोमयति तत् ग्राह्यम् इति । अपि चाह- सम्यगर्थे स्थापना यथार्थ [ग्रहणम्] सम्यक् रुते स्थापना यथारूत [ग्रहणम्] इति । अतः सूत्रे यद्यप्युक्तम् अनित्यसंज्ञादयः क्लेशानां समुच्छेदका (sss_185) इति । तथापि सा प्रज्ञैवेपि । न्यायतो भवति । आह च- अविद्या सर्वक्लेशानां मूलम् । विसंयोगात्मज्ञा विमुच्यत इति । अतो ज्ञायते प्रज्ञया सर्वे क्लेशाः प्रहीयन्त इति ।
(पृ) भवतोक्तं प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा इति । किं तन्निमित्तम् । (उ) केचिन्मन्यन्ते- प्रज्ञप्तिधर्मो निमित्तम् । प्रज्ञप्तिधर्माः पञ्च अतीतः अनागतः सङ्केतः संयोगः पुद्गल इति । तदयुक्तम् । कस्मात् । पुद्गलः पञ्चस्कन्धानुपादाय सिद्धः । निमित्तस्यासिद्ध्या नास्ति प्रज्ञप्तिः । (पृ) निमित्तस्यार्थः कः । (उ) यदालम्बनं तन्निमित्तम् । केनेदं ज्ञायते । यथोक्तम्- सिंहो मृगराज इह नदीतीरे स्थितस्त्रत्र तीरे निमित्तं गृहीत्वा ओघं तीर्त्वा निष्क्रामति । तत्र यदि निमित्तं नास्ति तदा इदं तीरं प्रतिनिवृत्य [तन्निमित्त]मामरणं न मुञ्चति इति । सूत्रे ऽस्मिन् वक्ष[मृगा]दिनिमित्तं भवति । आह च- भिक्षुर्निमित्तं प्रदर्शयतीति । अत्र चीवरादिर्निमित्तम् । किञ्चाह- भगवान्- ईदृशं निमित्तं ख्यापयतीति । अपि चाह- [पशु]वधको राजभोजनायाभिलषितं निमित्तमुपादत्त इति । आहुश्च- प्रभातं सूर्योदयस्य निमित्तमिति । किञ्चाह- त्रीणि निमित्तानि यदुत समाधिनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तमिति । तत्र समाध्यादय एव निमित्तानि भवन्ति । यं धर्मं मनसिकृत्य चित्तमालम्बने बध्यते । तत् समाधिनिमित्तम् । च्यवनधर्मिणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति । तत्र पञ्च धर्मा एव निमित्तानि भवन्ति । अतो ज्ञायते न प्रज्ञप्तिधर्मो निमित्तमिति । नापि संस्कारस्कन्धसङ्गृहीतम् । शारिपुत्रः पूर्णमैत्रायणीपुत्रान्मुखनिमित्तं गृह्णाति । उक्तञ्च सूत्रे- चक्षुषा रूपाणि (sss_186) दृष्ट्वा मा निमित्तं गृह्णीतेति । धर्ममुद्रायाञ्चोक्तम्- यो भिक्षुः रूपशब्दादिनिमित्तं प्रहीणं पश्यति । नाहं वदामि स विशुद्धज्ञानदर्शनस्य लाभीति । अनेन ज्ञायते आलम्बनमेव निमित्तम् । न प्रज्ञप्तिधर्म इति ।
(पृ) नालम्बनं तिमित्तम् । कस्मात् । अनिमित्तसमाधेरपि सालम्बनत्वात् । आह च रूपाणि दृष्ट्वा मा निमित्तं गृह्णीतेति । यद्यालम्बनं निमित्तम् । कथं रूपं दृष्ट्वा न निमित्तं गृह्णाति । (उ) निमित्तं द्विविधं दुष्टमदुष्टमिति । दुष्टनिमित्तनिषेधार्थमाह- रूपं दृष्ट्वा न निमित्तं गृह्णातीति । अनिमित्त[समाधे]रालम्बनमपि दुष्टमिति पश्चान्निरोधसत्य [वर्गे]वक्ष्यते यत् त्रिविध चित्तनिरोधी अनिमित्तमादावुपसम्पद्य विहरतीति । न तु सर्वनिमित्तग्रहो दुष्टः । यः समाधिप्रग्रहोपेक्षानिमित्तादि गृह्णाति । न तस्य दोषो ऽस्ति । निर्वाणञ्चासद्धर्मः । अतो न दुषणकृत् स्यात् । यथोक्तं- धर्मनिमित्तस्य ग्राही न दुष्यति इति । प्रज्ञप्तिनिमित्तग्राहिणस्तु क्लेशाः समुद्भवन्ति । कस्मात् । प्रियाप्रियादिविभक्तनिमित्तग्रहात् सौमनस्यदौर्मनस्यादयः समुद्भवन्ति । ततो रागद्वेषादयो दोषा भवन्ति । अतो ज्ञायते प्रज्ञप्तिधर्मनिमित्तग्रहणरूपा संज्ञेत्युच्यत इति ॥
दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः सप्तसप्ततितमः ।
78 दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गः
(पृ) वेदना कतमा । (उ) सुखा दुःखा अदुःखासुखा च । (पृ) सुखा कतमा । दुःखा कतमा । अदुःखासुखा च कतमा । (उ) कायचित्तयोर्विकासो सुखेत्युच्यते । तयोरेव ह्रासे दुःखा । उभयलक्षणयो विरुद्धा अदुःखासुखा । (पृ) इमास्तिस्रो वेदना अनियतलक्षणाः । कस्मात् । यथा वस्त्वेकमेव कदाचित्कायचित्ते विकासयति । कदाचित् ह्रासयति । कदाचिदुभयविलक्षणं भवति । (उ) तदालम्बनमनियतम् । न तु वेदना । कस्मात् । यथैक एवाग्निः कस्याञ्चिदृतौ सुखमुत्पादयति । कस्याञ्चिदृतौ (sss_187) दुःखम् । कस्याञ्चिच्चादुःखासुखम् । आलम्बनजा वेदना तु नियतैव । तदेव वस्त्वेकमृतुवशात् सुखस्य वा हेतुर्भवति । अदुःखासुखस्य वा हेतुर्भवति ।
तदालम्बनं केन कालेन सुखदुःखादीनां हेतुर्भवति । (उ) यत्न दुःखविघातकमस्ति । तस्मिन् समये सुखलक्षणमुत्पद्यते । यथा कश्चित् यदा शीतार्तः तदोष्णस्पर्शः सुखमुत्पादयति । (पृ) ननु स एवोष्णस्पर्शः उत्कटः सन् दुःखकरो भवति । न तु सुखकरः । अतो ज्ञायते सुखवेदनापि नास्तीति । (उ) संवृतिनामतो ऽस्ति सुखवेदना । न तु परमार्थतः । उष्णस्पर्शप्रियस्य कस्यचित् हितकरो ऽपि भवति । [यस्य यदा] पूर्वदुःखस्य प्रतिबन्धः । तस्मिन् समये तस्य सुखमुत्पद्यते । यदि पूर्वमेव दुःखवियोगः तदोष्णस्पर्शो न सुखकरः । अतो नास्ति परमार्थतः ।
(पृ) यदुक्तं भवता- [संवृति]नामतः सुखमस्ति इति । तन्न युक्तम् । कस्मात् । सूत्रे भगवानाह- तिस्रो वेदना इति । यदि नास्ति सुखं परमार्थतः । कथं ब्रूयात् तिस्रो वेदना इति । आह च- रूपं यदि दुःखनियतम् । सत्त्वा न तत्रासङ्गमुत्पादयेयुरिति । किञ्चाह- रूपस्य क आस्वादाः ये रूपमुपादाय प्रीतिसुखजनना इति । किञ्चाह- सुखवेदनाया उत्पद्यमानायाः सुखे स्थिते सुखम् । निरुद्धे दुःखम् । दुःखवेदनाया उत्पद्यमानाया न दुःखे स्थिते दुःखम् । निरुद्धे सुखम् । अदुःखासुखवेदनाया न दुःखं ज्ञायते न सुखं ज्ञायते इति । सुखा वेदना पुण्यविपाकः । दुःखा वेदना च पापविपाकः । यदि नास्ति परमार्थतः सुखा वेदना । पुण्यपापयोर्दुःखफलमात्रं स्यात् । न तद्युक्तं वस्तुतः । कामधातावपि सुखा वेदनास्ति । यदि नास्ति परमार्थतः सा, रूपारूप्यधातू न [सुख]वेदनावन्तौ स्याताम् । न तु युज्यते वस्तुतः । किञ्चाह- सुखायां वेदनायां रागो ऽनुशेत इति । यदि नास्ति सुखा वेदना, कुत्र रागो ऽनुशयीत । न वक्तव्यं दुःखायां वेदनायां रागो ऽनुशेत इति । अतो ज्ञायते ऽस्ति परमार्थतः सुखा वेदनेति ।
अत्रोच्यते । यद्यस्ति परमार्थतः सुखा वेदना । किं सुखमिति तस्य लक्षणं वक्तव्यम् । न तूच्यते वस्तुत । ज्ञातव्यं दुःखविशेषस्यैव सुखनिमित्तव्यवहार इति । सर्वो लोकधातु आ महानरकमा च भवाग्रं सर्वं दुःखलक्षणम् । बहुदुःखसम्पीडितस्य मृदुनि दुःखे सुखनिमित्तमुत्पद्यते । यथा कश्चित् धर्मतप्तः शीतस्पर्शं सुखं मन्यते । तस्मात् सूत्राणि तथावचनान्यविरुद्धानि । (पृ) लोके सर्वं सुखमिति वक्तुं सम्भवति । मृदुनि सुखे दुःखसंज्ञोत्पद्यते । तथा नो चेत् दुःखाल्पत्वे सुखसंज्ञोत्पद्यत इत्यपि न वक्तुं शक्यते । (उ) दुःखवेदनालक्षणस्यौदारिकत्वात् सूक्ष्मसुखं दुःखमिति न सम्भवति । सुखं सूक्ष्ममपि नोपघातलक्षणं भवति । कस्मात् । न हि पश्यामः कथमपि सूक्ष्मं सुखमनुभवन्तं पुरुषं बाहुमुद्यम्य सुदीर्घमुच्छ्वसन्तम् । सुखा च वेदना सूक्ष्मा प्रवृत्ता उपशमलक्षणमित्युच्यते । तद्यथोर्ध्वभूमौ प्रवृत्त उपशमः । अतो यदुक्तं सूक्ष्मे सुखे दुःखसंज्ञोत्पद्यत इति तत् वचनमात्रम् । बालपृथग्जनानामल्पदुःखे सुखसंज्ञा मिथ्या प्रादुर्भवति इति तु न्याय्यम् ॥
दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गो ऽष्टसप्ततितमः ।
79 संस्कारदुःखतावर्गः
सर्वा वेदना दुःखम् । कस्मात् । चीवरभोजनादयो हि सर्वे दूःखहेतवः न सुखहेतवः । केनेदं ज्ञायते । अन्नवस्त्रादिषूत्कटेषु दुःखमपि वर्धत इति प्रत्यक्षं खलु । अतो दुःखहेतवः । हस्तव्यथादिदुःखं लक्षणतो निदर्शयितुं शक्यते । न तथा सुखम् । अन्नवस्त्रादि व्याधिप्रशमनम् । यथा तर्षितस्य पानं न सुखजनकम् । कश्चिद्दुःखपीडितः दुःखभेदे सुखसंज्ञां जनयति । यथा जना मरणभीताः [अन्यं] दण्डं सुखं मन्यन्ते । दण्डादानशस्त्रादानक्षुरशक्तयो दुःखहेतुतया नियताः न तथा सुखहेतुतया । सर्वेषामवश्यमात्यन्तिकदुःखत्वात् ज्ञातव्यं पूर्वं [दुःखं] सदेवोर्ध्वकालं बुध्यते पादुकाक्षयवत् । स्त्रीरूपादौ च पूर्वमुत्पद्यते सुखसंज्ञा । पश्चाद्भवति विद्वेषः । अतो ज्ञायते मिथ्यासंज्ञानुस्मरणेन सुखसंज्ञोत्पद्यत इति । मिथ्यसंज्ञानुस्मरणव्यावृत्तौ तस्य दोषं पश्यति । स्त्रीरूपादीनि उच्छोषणशिरोव्याध्यादिहेतवः । न सुखं भवति । वैराग्ये सति तदालम्बनं त्यज्यते । (sss_189) यद्यस्ति वस्तुतः सुखम् । कस्मात् त्यज्यते । यस्य यत्र सुखमभूत् तस्य तदेव पश्चाद्दुःखचित्तजनकमित्यतो ज्ञायते नास्ति सुखमिति ।
किञ्च कायो दुःखहेतुः न सुखहेतुः । यथारण्यभूमौ सुसस्येषु दुष्प्ररोहेष्वपि तृणवीरणानि सूद्भवन्ति । एवं कायभूमौ दुःखस्कन्धाः सुसमुद्यन्ति । मृषासुखन्तु दुरुद्भवं भवति । किञ्च जना दुःखे सुखविपर्यासमुत्पाद्य पश्चात्तत्राभिष्वजन्ते सुखं यदि किञ्चिदस्ति । नोच्येत विपर्यास इति । यथा नित्य आत्मा विशुद्धः किमपि वस्तु नास्ति । एवं सुखमपि । उभयोर्विपर्यस्तत्वात् । जनानां कटुके दुःखे सुखचित्तमुत्पद्यते । यथा भारवाही स्कन्धं सुखयति । अतो ज्ञायते नास्ति सुखमिति । सूत्रे च भगवतोक्तम्- सुखा भिक्षवो वेदना दुःखतो द्रष्टव्या । दुःखा वेदना शल्यतो द्रष्टव्या । अदुःखासुखा वेदना अनित्यतो द्रष्टव्या । इति । यद्यस्ति नियतं सुखम् । सुखं दुःखतो न द्रष्टव्यं स्यात् । ज्ञातव्यं पृथग्जना दुःखं सुखतो गृह्णन्तीति । अतो भगवानाह- यत्र पृथग्जनानां सुखसंज्ञोत्पद्यते तत् दुःखतो द्रष्टव्यमिति ।
इमास्तिस्रो वेदनाश्च दुःखसत्यसङ्गृहीताः । यदि वस्तुतो ऽस्ति सुखम् । कथं दुःखसत्यसङ्गृहीतं स्यात् । दुःखमेव वस्तुतो ऽस्ति । सुखलक्षणन्तु मृषा । केनेदं ज्ञायते । दुःखचित्तभावनया हि सर्वसंयोजनानि प्रजहजाति । नतु सुखचित्तभावनया । अतो ज्ञायते सर्वं दुःखमिति । सर्वे पदार्था दुःखहेतवः । द्वेष्यवत् । द्वेष्यो द्विविधः- एकः दुःखमेव करोति । अपर आदौ मृदुरपि अन्ते पुरुषं हिनस्ति । तद्वत्पदार्था अपि केचिदादौ सुभकरा अन्ते तु हिंस्राः । अतो ज्ञायते सर्वं दुःखमिति । सत्त्वानां लब्धकामानामपि नास्ति तृप्तिः । लवणाम्भः पानेनातृप्तिवत् इत्यतो दुःखम् । कामप्रार्थनाविरहः सुखमित्युच्यते । प्रार्थना तु दुःखम् । न पश्यामः कमपि लोकमप्रार्थयमानम् । अतः सुखविहीनं जानीमः । सर्वे सत्त्वाः कायिकदुःखेन वा चैतसिकदुःखेन वा सदानुगम्यन्त इत्यतः कायो दुःखमिति ज्ञायते ।
कायः कारागृहवत्सदा बन्धनः । केनेदं ज्ञायते । एतत्कायनिरोधाद्विमुक्तैत्युच्यते । [अतो] बन्धनं दुःखम् । सर्वे ऽपि पदार्थाः क्रमशः कुत्सनीयाः । यथा नारकादिकायाः ग्रीष्महेमन्ताद्यृतवः बालादीनामिन्द्रियाणि । शीतधर्मादि परस्परसापेक्षमवसाने (sss_190) विद्वेप्यं ज्ञायते । [अतः] सर्वं दुःखमिति ज्ञेयम् । कायस्य च बहवः शत्रवो यदुताशीविषकारण्डः पञ्चोत्क्षिप्तासिका वधकाः कल्याणमित्रवञ्चनाश्चोराः शून्यग्रामे ग्रामघातकाश्चोरा महानद्या अवरतीरम् इति । [इमानि]नानादुःखानि सदानुचरन्ति [कायम्] । अतो ज्ञायते सर्वं दुःखमिति । किञ्च जानीमः सत्त्वानां कायः सर्वदुःखैरनुगम्यते यदुत जातिदुःखं, जरादुःखं व्याधिदुःखं मरणदुःखं विप्रियसमागमदुःखं प्रियवियोगदुःखं प्रार्थितादिविघातदुःखम् इत्यादिभिः । अतो ज्ञायते कायो दुःखकलाप इति । आत्मनि सति आत्मीयाभिष्वङ्गाद्युपद्रवाणां समुदयो ऽस्ति । अतो ज्ञायते कायो दुःखनिदानमिति ।
पञ्च सत्त्वगतयश्चत्वार इर्यापथाश्च सुखविरहिताः । कस्मात् । यथोक्तं सूत्रे- रूपं दुःखं वेदना संज्ञा संस्कारां विज्ञानञ्च दुःखं इति । रूप उत्पद्यमाने जराव्याधिमरणादयः सर्व उपद्रवा उत्पद्येरन् । एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि । कायः सदा व्याप्रियते कायवङ्मनोभिः कृत्यान्यभिसंस्क्रियन्ते । कृत्यानामभिसंस्करणं दुःखमित्युच्यते । आर्याः कायक्षयेण हृष्टा भवन्ति । यद्यस्ति वस्तुतः सुखम् । कथं सुखाद्भ्रष्टाः प्रमोद्येरन् । अतो ज्ञायते सर्वं दुःखमिति ॥
संस्कारदुःखतावर्ग एकोनाशीतितमः ।
80 दुःखप्रहाणवर्गः
(पृ) बहुभिः कारणैर्भवता दुःखं प्रतिपादितम् । अथापि जनाः सुखं कामयन्ते । यत्र कामना तत् सुखमिति मन्यामहे । (उ) पूर्वमेव प्रत्युक्तमिदम् । पृथग्जना विपर्ययात् दुःखमेव सुखतो गृह्णन्ति । मुग्धैरुक्तं कथं श्रद्धेयम् । प्रार्थितं लब्ध्वापि दुःखतो भावयेत् । कस्मात् । सर्वमनित्यं विपरिणामे दुःखजनकम् । यथोक्तं भगवता सूत्रे- रूपारामा[भिक्षवो] देवमनुष्या रूपरता रूपमुदिता रूपविपरिणामविरागनिरोधात् (sss_191) दुःखं [भिक्षवो] देवमनुष्या विहरन्ति । इति । एवं वेदनासंस्कारविज्ञानेष्वपि । विपरिणामित्वात् ज्ञातव्यं दुःखमिति । जना अभूतसुखमनुभूय तत्रासङ्गमुत्पादयन्ति । आसङ्गप्रत्यया रक्षणपालनादयो दोषाः समुद्भवन्ति । अतः सुखं दुःखतो भावयेत् । सुखञ्च दुःखस्य द्वारम् । सुखरागात् त्रिभ्यो विषेभ्यः सम्भवन्त्यकुशलकर्माणि । [ततो]नरकादौ पतितो दुःखोपद्रवाननुभवति । अतो ज्ञातव्यं सर्वं सुखमूलकमिति । सर्वः संयोगो विप्रयोगान्तः । विप्रयोगे गाढं दुःखमनुभवति । नैतावता प्रियः पुनर्भवति । अतः सुखं दुःखान्तं भवतीति ज्ञेयम् । सुखोपकरणामुत्पादः सत्त्वानां प्रमोषणाय भवति । दुःखेषु च पातयति । यथा वन्यपक्षिणामाहारः मत्स्यानां भक्षणप्रस्कन्दनञ्च सर्वं ग्रहणाय भवति । तथा सुखमपि दुःखतो द्रष्टव्यम् । सुखवेदनाया अल्पास्वादलभायपरिमितान् दोषान् प्राप्नोति । यथा पशुमत्स्यानामास्वादितमत्यल्पम् । तदापदस्वतिबहुलाः । अतो दुःखतो द्रष्टव्यम् । सुखवेदना च क्लेशानामुत्पत्तिस्थानम् । कस्मात् । कायरागाद्धि कामा अपेक्ष्यन्ते । कामप्रत्यया व्यापादादयः क्लेशाः क्रमेण सम्भवन्ति । सुखवेदना संसारस्य मूलम् । कस्मात् । सुखमुपादाय हि तृष्णा जायते । यथोक्तं सूत्रे- तृष्णा दुःखस्य मूलम् इति । सर्वेषां सत्त्वानामभिसंस्कृतानि न सुखाय भवन्ति । अतो दुःखमूलमित्युच्यते ।
सुखवेदना शृङ्खलातो दुस्त्यजतरा । संसारे च सुखकामनया बध्यते । कस्मात् । सुखरागाद्धि संसारं न मुञ्चति । सुखा वेदना चेयं सदा दुःखजननी । अन्वेषणकाले कामना दुःखम् । विघातकाले ऽनुस्मरणं दुःखम् । लाभकाले न तृप्यति स्रोतः कबलयन् सागर इव । इदमपि दुःखम् । सुख वेदना अतन्द्रीहेतुः । कस्मात् । सत्त्वाः सुखसाधनान्वेषणकाले प्रपातचङ्क्रमणा[दि]दोषमपि सुखतो मत्वा न चित्ते परिखिद्यन्ते । तस्मात्प्रज्ञावता दुःखमिति भावयेत् । सुखा वेदना कर्मणां प्रवृत्तिहेतुरित्युच्यते । कस्मात् । सुखरागाद्धि कुशलकर्मसु प्रवर्तते । सर्वमपीदं कायानुभवस्य हेतुः । कस्मात् । सुखमुपादाय (sss_192) हि तृष्णोत्पद्यते । तृष्णाहेतुना कायो ऽनुभूयते । सुखवेदना च निर्वाणस्य विरोधिनी भवति । कस्मात् । सत्त्वाः संसारे सुखाध्यवसानेन निर्वाणं नाभिलषन्ति । अविरक्तः सुखवेदनामिमां तृष्यति । तृष्णा च दुःखस्य जनकहेतुः । अतः सुखवेदना दुःखस्कन्धस्य मूलमिति ज्ञायते । उक्तञ्च सूत्रे- द्वे इमे भिक्षव आशे दुष्प्रजहे । [कतमे द्वे] लाभस्य जीवितस्य च इति । कामानामनुचिन्तनी आशा लाभस्याशेत्युच्यते । एषां कामानामुपभोगाय या जीवित प्रतिलाभायाशा सा जीवितस्याशा । इमे द्वे आशे सुखवेदनामूलिके । अतः प्रज्ञावता यथाभूतं सुखवेदनालक्षणं भावयता दुष्प्रहजा[पि] प्रहेया ।
सुखवेदनास्वादो ऽप्रतिलब्धवैराग्यस्य महाप्राज्ञस्यापि चित्तं कलुषयति । दुष्प्रजहत्वात् सुखवेदनातः प्रगाढा भवति । सुखवेदनास्वादः रागादीनां हेतुः । सुखवेदनायामसत्यां न किञ्चिद्रज्यते । सुखवेदनास्वादेन तत्त्वज्ञानं प्रजहाति । कस्मात् । लोके हि प्राज्ञा अवश्यमुत्तमभूम्यास्वादमुपादायाधरां भूमिं त्यजन्ति । अतो ज्ञायते सुखा वेदना दुःखवेदनामतिक्रान्तेति । सत्त्वानां चित्तमुपपत्त्यायतने ऽनुबध्यते । यावद्गृह्य जन्तुरपि काये साभिलाषो भवति । इति ज्ञातव्यं सर्वं सुखवेदनास्वादादिति । अतः सुखां वेदनां दुःखतो भावयेत् ॥
दुःखप्रहाणवर्गो ऽशितितमः ।
81 त्रिवेदनाविचारवर्गः
(पृ) सर्वं दुःखमिति परिज्ञातम् । इदानीं केन विभङ्गेन सन्ति तिस्रो वेदना इति । (उ) एकस्या एव दुःखवेदनाया कालभेदेन त्रयः प्रकारा भवन्ति यत् विहेठकं तत् दुःखमित्युच्यते । विहेठितः पूर्वदूःखधारणाय पुनदुःखान्तरं पर्येषते । पर्येषितप्रणिधानेन महादुःखस्य मुहूर्तमुपशमे तस्मिन् (समये) सुसुखमित्युच्यते । प्रीतिदौर्मनस्ययोरवेदने न [किञ्चित्] प्रणिदधाति, न पर्येषते । तस्मिन् समये अदुःखासुखा वेदना इत्युच्यते ।
(पृ) अदुःखासुखा वेदना नास्ति । कस्मात् सुखदुःख एव ह्यनुभाव्ये स्तः । अदुःखासुखा तु नानुभूयते । (उ) पुरुषो ऽयं त्रिभिः स्पर्शैः स्पृष्टः यदुत दुःखस्पर्शः सुखस्पर्श अदुःखासुखस्पर्श इति । हेतौ सति फलमस्तीति ज्ञातव्यम् । यथा कश्चित् उत्कटतापलब्धः शीतस्पर्शं सुखतो ऽनुभवति । ऊर्ष्णस्पर्शं दुःखतः । अशितानुष्णस्पर्शञ्च अदुःखासुखतो ऽनुभवति । अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति । यद्भवतो मतम्- अदुःखासुखस्पर्शे न वेदनोत्पद्यत इति । तदयुक्तम् । कस्मात् । पुरुष इममशीतानुष्णस्पर्शनमनुभवति । अनुभवज्ञानालम्बनैव वेदना भवति । कथमाह नास्तीति । पुरुषं प्रति आलम्बनं त्रिधा विभक्तं प्रियं द्वेष्यमुदासीनमिति । प्रियात्सौमनस्यं भवति । द्वेप्याद्दौर्मनस्यम् । उदासीनादुपेक्षा । अतो ज्ञायते संज्ञाभेदादिमास्तिस्रो वेदना भवन्ति । आलम्बनास्वादादिमास्तिस्रः संज्ञा उद्यन्तीति । आलम्बनं त्रिविधम् । किञ्चिदुपकारकं किञ्चिदपकारकम् । तच्चोभयं मिथो विरुद्धम् । ससुखमसुखं युगपद्विरुद्धम् । रागद्वेषमोहस्थानानि [विरुद्धानि] सप्रीतिक मप्रीतिकञ्च विरुद्धम् । पुण्यापुण्यानेञ्ज्यफलरूपेष्वालम्बनेषु तिस्रो वेदना अनुप्रवर्तन्ते । अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति । यत्र चित्तमनुकूलं तत्र सुखा वेदना । प्रतिकूलं यत्र चित्तं तत्र दुःखा वेदना । यत्र न प्रतिकूलं नानुकूलं तत्रादुःखासुखा वेदना । लोकधर्माश्चाष्टौ लाभो ऽलाभो निन्दा प्रशंसा यशो ऽयशः सुखं दुःखमिति । पृथग्जना अलाभादिषु चतुर्धर्मेषु प्रतिकूलचित्ता भवन्ति । लाभादिषु चतुर्धर्मेषु तु अनुकूलचित्ताः । वीतरागा आर्यास्तूईभयत्रावश्यमुपेक्षका भवेयुः । उपेक्षैवासुखादुःखा वेदना । अतो न सा नास्तीति ।
(पृ) यदि स्पर्शादिप्रत्ययत्वात् तिस्रो वेदनाः सन्तीति । तदा सर्वे ऽपि चित्तोपविचारा वेदनाः स्युः । कस्मात् । ये चित्तोपविचाराः कायवर्तिनः ते सर्वे ऽपि सुखा दुःखा अदुःखासुखा वा भवन्ति । (उ) [सत्यं] सर्वे ऽपि चित्तोपविचारा वेदना भवन्ति । कस्मात् । उक्तं हि सूत्रे- अष्टादश मनौपविचाराः इति तत्र केवलमेकं मनः अष्टादशधाविभक्तं यदुत षट् सौमनस्योपविचाराः षट् दौर्मनस्योपविचाराः षडुपेक्षोपविचारा इति । संज्ञाविकल्पात्किञ्चिद्दुःखाङ्गं किञ्चित्सुखाङ्गं किञ्चिदुपेक्षाङ्गम् । अतो ज्ञायते सर्वे ऽपि चित्तोपविचारा (sss_194) नावेदना भवन्तीति । किञ्चोक्तं सूत्रे- सर्वा वेदना दुःखम् इति । अतो ज्ञायते चित्तोपविचारेषु देहगतेषु सर्वं दुःखमित्युच्यते । आह च यो रूपस्योत्पादः स दुःखस्योत्पाद इति । कथं रूपं दुःखमित्युच्यते । दुःखहेतुत्वात् । अतो ज्ञायते आलम्बनमिन्द्रियाणि च दुःखजनकानीति । अतः सर्वे ऽपि चित्तोपविचारा वेदना इत्युच्यन्त इति ।
संस्काराणां दुःखत्वात् संस्कारान् दुःखतो भावयेत् । विपरिणामे दुःखत्वात् सुखां वेदनां दुःखतो भावयेत् । दुःखदुःखन्तु दुःखमेव । इतीमास्तिस्रो वेदना दुःखाः प्रत्ययसामग्र्यां समुत्पन्नाः क्षणिकाः । अत आर्या दुःखतः पश्यन्ति । अतः सर्वे ऽपि चित्तस्योपविचारा वेदना इत्युच्यन्ते ।
(पृ) किमनास्रवा वेदना अपि दुःखम् । (उ) दुःखमेव । कस्मात् । अनास्रवा वेदना अपि आर्या अनन्तरं त्यजन्ति । प्रथमध्यानादारभ्य यावत्सर्वनिरोधसमापत्तिम् । अतो दुःखमेव । सास्रवध्यानसुखस्यानास्रवध्यानसुखस्य च को भेदः । सास्रवध्यानानुयायिन आत्महेतुना दुःखम् । अनास्रवध्यानानि च तेनैव दुःखम् । य आर्या अनास्रवचित्तविहारिणः ते सर्वत्र परं निर्विद्यन्ते । अतो ऽनास्रवचित्त उत्पन्ने परमो निर्वेद उत्पद्यते । अक्षिगतरजोवत् । प्राकृता अज्ञा दुःखं सुखतो मन्यन्ते । आर्यास्तु गभीरज्ञा भवाग्रान्निर्विण्णाः कामधातुनिर्विण्णेभ्यो ऽन्येभ्यो ऽप्यतिमात्राः । अतो ऽनास्रवदुखं सास्रव [दुःखा]दतिक्रान्तम् । आर्या अनास्रवचित्तं लब्ध्वा निर्वाणमात्रोन्मुखा भवन्ति । कस्मात् । ते तस्मिन् समये सर्वे संस्कृता दुःखमिति व्यक्तं पश्यन्ति । यद्यनास्रवा वेदना सुखा तदा सुखे प्रामोद्येरन् न निर्वाणोन्मुखचित्ता भवेयुः ।
(पृ) यदि चित्तस्योपविचारा वेदनेति । कथं चित्तादिधर्मः पृथक् [न]सन्ति । (उ) एकैव वेदना आलम्बने नानोपविचरतीति विभक्ता भवति । चित्तादिधर्मा अपि नानालम्बन उपविचरन्ति । किन्तु विज्ञानालम्बने सति अयं समुदाचारश्चित्तमित्युच्यते । ईदृशं पूर्ववत् वक्तव्यम् । इमेषु सर्वधर्मेषु कायगतेषु सन्ति (sss_195) हितादयो विशेषा इत्यतो वेदनेत्याख्यायन्ते । बहुभिश्चित्तैः क्लेशा अभिनिर्वर्त्यन्ते । तस्मिन् समये च वेदनेत्युच्यते । यथोक्तं सूत्रे- सुखायां वेदनायां रागो ऽनुशेते । दुःखायां वेदनायां द्वेषो ऽनुशेते । अदुःखासुखायां वेदनायां मोहो ऽनुशेते इति तस्मात्संज्ञाविकल्पिता आलम्बने सौमनस्यादयो धर्मा वेदना इत्युच्यन्ते । कस्मात् । तस्मिन् समये हि क्लेशाः समुद्भवन्ति ।
(पृ) एकैकस्यां वेदनायां त्रयः क्लेशानुशया भवन्ति । कस्मान्नियम्यन्ते सुखायां वेदनायां रागो ऽनुशेत इति । (उ) न दुःखायां वेदनां रागो ऽनुशयः स्यात् । मोहस्सर्वत्रानुशयः । मोहबलाद्धि दुःखे सुखसंज्ञोत्पद्यते । वस्तुनो ज्ञानदर्शनाभावात् दुःखलाभे द्वेष उत्पद्यते । अदुःखासुखा वेदनायास्सूक्ष्मत्वात् रागस्य द्वेषस्य वानुभवः । कस्मात् । पुरुषस्य तत्र सुखदुःखसंज्ञानुत्पादाद्वस्तुनो ज्ञानदर्शनाभावाच्च केवलं मोहानुशयः सम्भवति । उपेक्षालम्बने यदि रागद्वेषौ न समुदाचरतः पृथग्जनास्तदुत्कृष्टालम्बनमिति वदन्ति । अतो भगवानाह- न भवतामिदमालम्बनमुत्कृष्टम् । अननुभवान्न रागद्वेषौ समुदाचारतः । यथोक्तं सूत्रे- प्राकृतानां यद्रुपे भवत्युपेक्षा स सर्वा रूपनिश्चिता । यस्येदमालम्बनमुत्कृष्टं तस्याहङ्कारो ऽधिको भवति । यो निकृष्टं करोति तस्य पुना रागद्वेषौ समुद्भवत इति । अतो ज्ञायते ऽनुत्कृष्टमिति । अदुःखासुखा वेदना चोपशमलक्षण, आरूप्यसमाधिवत् । उपशान्तत्वात्क्लेशाः सूक्ष्मं समुदाचरन्ति । प्राकृतास्तत्र विमुक्तिसंज्ञामुत्पादयन्ति । अतो भगवानाह- तत्रास्त्यविद्यानुशय इति । आलम्बनाननुभवात्सुखदुःखयोरप्रतीतिः । यो जानाति तदालम्बनं तस्य सुखदुःखे स्पष्टं प्रतीयेते । तस्मिन् समये रागद्वेषौ सम्भवतः ।
(पृ) यस्तत्रालम्बनं वेदयते तस्य सुखदुःखसंज्ञोत्पद्येत । अतः सुखदुःखवेदनामात्रमस्ति । (उ) पुरुषस्यास्य तदा तदालम्बने न सुखचित्तमुत्पद्यते न च दुःखचित्तम् । अतो न सुखदुःखमात्रमस्ति । पूर्वोक्तवत् सर्वमपि दुःखं त्रिधा विभक्तमस्ति । (पृ) यद्भवतोक्तं- तदालम्बनस्यानुभवज्ञाने पुनः सुखसंज्ञोत्पद्यत इति । कथं तदनुभवज्ञानं (sss_196) न सम्भवति । अविद्यया अनुभवज्ञानम् । (उ) पुरुषस्यास्य तस्मिन् आलम्बने पूर्वं निमित्तग्रहात् तत्रालम्बने यद्यविद्यानुशयो यदि वा रागद्वेषानुशयो ऽस्ति । (पृ) सुखदुःख एव मोह उत्पद्यते । यथोक्तं सूत्रे- स तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतं न प्रजानाति । तस्य तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतमप्रजानतो यो ऽदुःखासुखस्यावेदनाया अविद्यानुशयः सो ऽनुशेत इति । अतः सुखदुःख एवाविद्यानुशय उदेति । नादुःखासुखायां [वेदनायाम्] । (उ) सूत्रमिदं स्वयमाह- वेदनानां समुदयास्तगमादीनवादीन् यथाभूतमप्रजानतो ऽदुःखासुखायामविद्यानुशयो ऽनुशेत इति । (पृ) वचनस्य सत्त्वे ऽपि नायमर्थो युज्यते । कथं सुखदुःखयोः समुदयास्तगमादीनवानप्रजानतो ऽदुःखासुखायां वेदनायामविद्यानुशयो ऽनुशेत इति । कस्मात् अन्यवस्तुनो ऽज्ञानमन्यवस्तुन्यनुशयः । अत इदं सूत्रमेवं वक्तव्यम्- अदुःखासुखायाः समुदयाद्यप्रजानतो ऽदुःखासुखायां वेदनायामविद्यानुशयो ऽनुशेत इति । यदि वा तत्राविद्यानुशयो नानुशेत इति । (उ) तस्यादुःखासुखायां वेदनायां त्रिधा चित्तं भवति । शान्तसंज्ञा अदुःखासुखसंज्ञा
तज्जादुःखासुखबुद्धिः । मिथ्याज्ञानेन निमित्तग्राहिणः सुखबुद्धिरुत्पद्यते । उत्तमभूमिसुखास्वादग्राहिणो दुःखबुद्धिरुत्पद्यते । अतः सूत्रे वेदनानामिति बहुवचनमुक्तम् । कस्मात् । सर्वा वेदना अविद्यानुशयिताः । अदुःखासुखा वेदना यथाकालं त्रिधा विभक्ता भवति । यदा दुःखायाः समुदयाद्यप्रज्ञानम्, तस्मिन् समये दुःखायां वेदनायां सुखसंज्ञोत्पद्यते अदुःखासुखसंज्ञा चोत्पद्यते । अत उच्यते वेदनानां समुदयाद्यप्रजानतो ऽविद्यानुशयो ऽनुशेते । अदुःखासुखायां वेदनायां तु भूयसाविद्यानुशयो ऽनुशेत इति ॥
त्रिविधवेदनाविचारवर्ग एकशीतितमः ।
82 वेदनाप्रश्नवर्गः
(पृ) उक्तं हि सूत्रे- तस्य चेत् सुखा वेदनोत्पद्यते । स एवं प्रजानाति- उत्पन्ना खलु म इयं सुखा वेदना इति । को वेदनां यथाभूतं प्रजानाति । अतीतानागता च वेदना नोपलभ्यते । प्रत्युत्पन्ना वेदना तु नात्मानं प्रजानाति । (उ) सूत्रस्यास्य पुरुषो (sss_197) वेदयत इत्याभिप्रायिकं वचनं इत्यदोषः । सुखादिवेदना काय आगम्य मन आलम्बते इत्यतो ऽप्यनवद्यम् । सुखोपकरणे सुखमिति वदन्ति । लोके ऽपि कारणे कार्योपचारात् । स सुखां वेदनामनुभूय निमित्तं गृह्णाति । अत उच्यते सुखा वेदनोत्पद्यते चेत् स यथाभूतं प्रजानाति इति ।
(पृ) यद्वेदयति सा वेदना । वेद्यत इति वा वेदना । यदा वेदयतीति तदा वेदना सुखादिभिन्ना । सूत्रे तूक्तम्- सुखा वेदना दुःखा वेदना अदुःखासुखा वेदना इति । यदि वेद्यत इति वेदना । केन तद्वेद्यत इति वेदयतीति वेदना भवति । (उ) [सुख]कारणे सुखमित्युच्यते । यथा तेजो दुःखं तेजः सुखमिति । अतः कारणानुभवज्ञानं सुखा वेदनेत्युच्यते । सत्त्वा इमां वेदनां वेदयन्ति । अतो वेदयतीति वेदना भवति (पृ) न सत्त्वानां वेदना । उक्तञ्च सूत्रे- वेदयतीति वेदना इति । (उ) अयं पदस्यार्थः यत् सनिमित्तं तत् सकारित्रम् । प्रज्ञप्तौ सनिमित्तामिमां सुखां दुःखामदुःखासुखां [वेदनां] कायगतां चित्तमनुभवति । अत उच्यते वेदयतीति ।
(पृ) सूत्रे वेदनानामनुभवदर्शनमुक्तम् । योगिनस्तस्मिन् समये कथमुत्पद्यते सुखदुःखादुःखासुखानां निमित्तम् । किं तस्य तस्मिन् समये दुःखसंज्ञा नोत्पद्यते । (उ) सर्वं दुःखमित्यलब्ध्वा स तिस्रो वेदना अनुस्मरति । (पृ) यदि मनोविज्ञानवृत्त्या चत्वारि स्मृत्युपस्थानानि भवन्ति । कथमुच्यते कायिकं सुखमिति । (उ) सर्वासु वेदनासु एवं स्मृत्युनुबन्धात् स्यात् इदं कायिकं सुखम् इदं चैतसिकं सुखमिति । स्मृत्युपस्थानभावनाकाले काये सुखसंज्ञोत्पद्यते । तत्र स्मृत्युनुबन्धात् कायिकं सुखमित्युच्यते ।
(पृ) यदि सर्वा वेदनाश्चैतसिकाः । कस्मात् कायिकी वेदनेत्युच्यते । (उ) तीर्थिकानां कृत उच्यते । तीर्थिका हि वदन्ति वेदना आत्मनिश्रिता इति । अतो भगवानाह- वेदनाः कायं चित्तञ्च निश्रिता इति । (पृ) कतमा कायिकी वेदना । (उ) पञ्चेन्द्रियाण्युपादायोत्पद्यमाना वेदना कायिकी वेदना । षष्ठमिन्द्रियमुपादायोत्पद्यमाना वेदना चैतसिकी (पृ) आसां कतमा सामिषा कतमा निरामिषा । (उ) क्लेशा आमिषाः । क्लेशानुशयिता वेदना सामिषा । क्लेशाननुशयिता वेदना निरामिषा । (sss_198) (पृ) कतमा दुःखा वेदना निरामिषा । (उ) प्रहीणामिषस्य या दुःखा वेदना सा निरामिषा । आमिषाणां विरुद्धा दुःखा वेदना इतीयं निरामिषेत्युच्यते । (पृ) सामिषां निरामिषामुक्त्वा कस्मात्पुनरुच्यते कामनिश्रिता नैष्क्रम्यनिश्रितेति । काम एव आमिषः । नैष्क्रम्यमेव निरामिषता । (उ) पूर्वं सामान्यत उक्तमामिषमिति । इदानीं पुनःकाम आमिषहेतुरिति प्रविभज्योच्यते । यथोच्यते सूत्रे- अस्ति सामिषा प्रीतिः अस्ति निरामिषा प्रीतिः । अस्ति निरामिषतो निरामिषतरा प्रीतिरिति । सामिषा प्रीतिरिति पञ्चकाम गुणान् प्रतीत्योत्पद्यते प्रीतिः । निरामिषा प्रीतिरिति यदुत प्रथमध्यान[जा]प्रीतिः । निरामिषतो निरामिषतराप्रीतिरिति यदुत द्वितीयध्यानजा प्रीतिः । या वेदना निर्वाणमात्रार्था सा नैष्क्रम्यनिश्चितेत्युच्यते । अतः पुनरुच्यते ।
(पृ) पञ्चस्विन्द्रियेषु कस्माद्दुःखा वेदना सुखा वेदनेति प्रत्यङ्गं द्विधा विभक्ता । किं नास्त्युपेक्षा वेदना । (उ) दौर्मनस्यं सौमनस्यञ्चावश्यं संज्ञाविकल्पेनोत्पन्नम् । सुखा दुःखा तु नावश्यं संज्ञाविकल्पाधीना । उपेक्षावेदनायां संज्ञाविकल्पस्यातिसूक्ष्मत्वान्नास्ति द्वैधम् । तृतीयध्याने मनोविज्ञानं वेद्यते । कस्मात्सुखमस्ति न प्रीतिः । (उ) सुस्रं सर्वकायचित्तं गहनमापूरयतीति सुखमुच्यते । प्रीतिस्तु चित्तमात्रमापूरयति न कायम् । अतस्तृतीयध्याने प्रीतिविशेषं निश्रित्योच्यते कायेन सुखं प्रतिसंवेदयतीति ।
(पृ) तिसृषु वेदनासु का घनिष्ठक्लेशजननी । (उ) आभिधर्मिकाः केचिद्वदन्ति सुखा वेदनेति । कस्मात् । पूर्वोक्त [वेदना]प्रत्ययवेदनाया दुःखतरत्वात् । [अन्ये] आभिधर्मिका वदन्ति दुःखा वेदनेति । कस्मात् । सत्त्वाः दुःखाभिहताः सुखार्थित्वात् घनिष्ठं क्लेशमुत्पादयन्ति इति । विविधसुखेभ्यो ऽत्यल्पं दुःखमतिरिच्यते । यथा पञ्चकामगुणसम्पन्नस्य पुरुषस्य मशकपतङ्गदंशे यो दुःखानुभवो भवति । न तादृशं रूषादिपञ्चकामगुणानां सुखम् । यादृशञ्च जीवतां पुत्राणां शतेन सुखम्, न तदेकपुत्रमृतितुल्यम् । संसारे च दुःखा वेदना बहुला । न तथा सुखा वेदना । कस्मात् । बहवः सत्त्वाः (sss_199) तिसृषु दुर्गतिषूपपन्ना देवमनुष्येभ्यो निकृष्टाः । नावश्यं स्वभावमधिष्ठाय दुःखस्य लाभः । सुखार्थितामधिष्ठाय लाभो बालाभो वास्ति । यथा क्षेत्रे तृणवीरणानि स्वयं प्ररोहन्ति न सस्यानि । दुःखां वेदनां प्रतीत्य गुरुके पापकर्मणि प्रवर्तते । कस्मात् । दुःखायां वेदनायां प्रतिघानुशयो ऽस्ति । यथोक्तम्- प्रतिघो गुरतरं पापम् इति ।
आभिधर्मिकाः केचिदाहुः- अदुःखासुखोत्पद्यते । कस्मात् । अत्रास्ति मोहानुशयः । सर्वक्लेशानां मूलं मोहः । सा च वेदना सूक्ष्मा । तत्र क्लेशानां ज्ञानस्य दुरनुभावत्वात् । सा च वेदना सत्त्वानां प्रकृतिः । सुखदुःखे चागन्तुके । सा च वेदना त्रिषु धातुषु व्याप्ता । न तथान्ये द्वे । वेदनेयं चिरजीविनी । तद्वेदनारागं प्रतीत्य जीवति अशीति महाकल्पसहस्राणि दुःखलक्षणान् स्कन्धाननुभवति । सा च निर्वाणविरोधिनी । कस्मात् । तत्र ह्युत्पद्यते शान्तलक्षणं निर्वाणलक्षणम् । न पुनः पारमार्थिकं निर्वाणं लभ्यते । किञ्च सा आर्यमार्गदोषकरणी । यथोक्तं- विसंयोगस्वभावं प्रतीत्य विमुक्तिर्लभ्यत इति । सुखा वेदना दुःखा वेदना तु लौकिकमार्गस्यापि दोषप्रापिणी । सा च वेदना आसंसारं व्यवतिष्ठते । सन्तानसमुच्छेदे समुच्छिद्यते । अतो घनिष्ठक्लेशजननी ॥
वेदनाप्रश्नवर्गो द्वयशीतितमः ।
83 पञ्चवेदनेन्द्रियवर्गः
(पृ) सुखेन्द्रियं यावदुपेक्षेन्द्रियं कुत्र वर्तते । (उ) सुखेन्द्रियं दुःखेन्द्रियञ्च कायगतम् । यथाकायलाभं यावच्चत्वारि ध्यानानि भवन्ति । अन्यानि त्रीणि चित्तगतानि । यथाचित्तलाभं यावद्भवाग्रं भवति । (पृ) यथोक्तं सूत्रे दौर्मनस्येन्द्रियं प्रथमध्याने निरुध्यते । सौमनस्येन्द्रियं तृतीयध्याने निरुध्यते । सुखेन्द्रियं चतुर्थध्याने निरुध्यते उपेक्षेन्द्रियं निरोधसमापत्तौ निरुध्यते । इति । अतो भवदुक्तमयुक्तम् । (उ) (sss_200) भवदुक्तसूत्रेण दुःखेन्द्रियं प्रथमध्याने वर्तते । भवतां शासने तु प्रथमध्यानं वस्तुतो ऽदुःखेन्द्रियम् । अतो न श्रद्धेयं स्यादिदं सूत्रम् ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
