Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गुणकारण्डव्यूहसूत्र

Thông tin
GRETIL — Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तमेवं संस्थितं धर्मभाणकं निश्चरेन्द्रियम् / स त्रैलोकेश्वरः पश्यन् समामन्त्र्यैवमादिशत् //

कुलपुत्रायमुद्योगी संबोधिज्ञानसाधने / अस्मै दैया महाविद्या प्रदियतां षडक्षरी //

इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः / धर्मभाणकः आलोक्य नत्वैनमब्रवीत् //

भगवन्नाथ धर्मेन्द्र भवदाज्ञां शिरो वहन् //

ददात्वस्मै महाविद्यां तद्भवान् संप्रसीदतु //

इति विज्ञप्य लोकेशं ततः स धर्मभाणकः / विष्कम्भिनं समामन्त्र्य संपश्न्नेवमब्रवीत् //

कुलपुत्र जगच्छास्ता दत्ताज्ञा मे प्रसीदतः / दद्यामहं महाविद्यां गृहाणेमां षडक्षरीम् //

इत्यादिश्य स धर्मिष्ठो विधिनास्मै महात्मने / सविशुद्धिमुदाहृत्य प्रादाद्विद्यां षडक्षरीम् //

प्रणवमणिकजहृद्बीजमिति षडक्षरम् / सिद्धमेतन्महाविद्या षदक्षरीति विश्रुता //

तत्प्रदत्तामिमां विद्यां विद्याधीणां षडक्षरी / विष्कम्भी सांजलिर्नत्वा संप्राग्रहीत्प्रमोदितः //

तत्क्षणे साचला साब्धिश्चचाल षड् विधा मही / पपात पुष्पवृष्टिश्च सर्वतो ऽप्यचरच्छुभम् //

तद्विद्या दत्तमात्रे ऽपि विष्कम्भी स समृद्धिमान् / अनेकधर्मसंभारसमाधिप्राप्तवानभूत् / ततः स सुप्रसन्नाअत्मा शत्रे तस्मै सदक्षिणाम् / चतुर्द्वीपां सप्तरत्नपरिपूर्णां ददौ मुदा //

तां दृष्ट्वा स महाभिज्ञो धर्मिष्ठो धर्मभाणकः / विष्कम्भिनं महासत्त्वं तं समालोक्यैवमब्रवीत् //

कुलपुत्र त्वमार्यो ऽसि नानार्यः सुगतात्मजः / वैनेयो बोधिसत्त्वस्तत् गृह्णीयां दक्षिणां न ते //

एता एकाक्षरस्यापि पर्याप्ता न तु दक्षिणा / प्रागेव षडक्षराणां गृह्णियां ते तथापि न //

तच्छ्रुत्वा स महाभिज्ञो विष्कम्भी तस्य सद्गुरोः / महार्घ्यमूल्यशुद्धाभं मुक्ताहारमुपाहरत् //

तमुपनामितं पश्यन् गृहीत्वा धर्मभाणकः / तस्मै प्रत्यर्पयित्वा स पश्यंस्तं चैवमब्रवीत् //

कुलपुत्र मुनीन्द्रस्य शाक्यमुनेर्जगद्गुरोः / एनं पुन उपास्थाप्य मद्वचसा वदेर्नमः //

इति शास्त्रा समादिष्टं निशम्य स विनोदितः / विष्कम्भिनं सुप्रसन्नं समालोक्यैवमब्रवीत् //

भवता यद्यथादिष्टं तत्तथाहं करोमि हि / इति विज्ञप्य तं मुक्ताहारं नत्वा समाददे //

ततः स सुप्रसन्नात्मा विष्कम्भी तस्य सद्गुरोः / पादाअब्जे सांजलिर्नत्वा संप्रस्थितो ऽचरन्मुदा //

सार्धं सर्वैः सदा यैस्तैः प्रतिलब्धमनेप्सितः / सुमंगलमहोत्साहं जेतोद्यानमुपाचरत् //

तत्र स दूरतः पश्यन् भगवन्तं सभाश्रितम् / सांजलिः प्रणतिं कृत्वा सहसा समुपासरत् //

तत्र समुपासृत्य शास्तुस्तस्य जगद्गुरोः / पादाब्जं सांजलिर्नत्वा संपश्यन् समुपाश्रयत् / तत्र स भगवान् पश्यन् विष्कम्भिनं समागतम् / सुप्रसन्नमुखाम्भोजं समालोक्यैवमादिशत् //

स्वागतं कुलपुत्रैहि कश्चित्ते कौशलं तनौ / वांछितार्थं समासाद्य समायासि प्रसीदतः //

इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रसादितः / भगवन्तं जगन्नाथं पश्यन्नेवं न्यवेदयत् //

भगवन् लब्धवानस्मि भवत्कृपानुभावतः / संबोधिसाधनीं विद्यां भद्रश्रीसद्गुणार्थदाम् //

adya me safalaṃ janma buddhaputro 'smi sāmpratam / प्राक्संबोधिसन्मार्गो भद्रश्रीमान् जगद्धिते //

भगवन् यद्भवांच्छास्ता सर्वर्महितार्थभृत् / यथाशु बोधिमाप्नुयाम् तथा मां प्रोत्तुमर्हति //

इति तेनोदितम् श्रुत्वा भगवान् स मुनीश्वरः / विष्कम्भिनं समालोक्य पुनरेवं समादिशत् //

धन्यस्त्वं कुलपुत्रो ऽसि बोधिसत्त्वो जिनात्मजः / सर्वसत्त्वहिताधानी महविद्यासमाप्तवान् //

भूयो ऽप्यहं महाविद्यां सप्तसप्ततिकोटिभिः / संबुद्धैर्भाषिता या तां दास्यामि ते जगद्धिते //

य एतां धारणीं विद्यां सर्वपातकनाशनीम् / भद्रश्रीसद्गुणाधारां संबोद्धपदसाधनीम् //

समादाय सुचित्तेन स्मृत्वा ध्यात्वा समाहितः / संबोधिप्रणिधिं धृत्वा पठति सर्वदादरात् //

स सर्वपापनिर्मुक्तः परिशुद्धेन्द्रियः सुधीः //

निःक्लेपरिशुद्धात्मा बोधिसत्त्वो भवेत् कृती //

सर्वैरपि मुनीन्द्रैस्स समालोक्य सदानिशम् / दुष्टमारभ्येभ्यो ऽपि संरक्ष्यते स्वपुत्रवत् //

सर्वविघ्नगणानां स्यात् प्रधृष्यः स वीर्यवान् / महासत्त्वो महोत्साही सद्धर्मगुणसाधने //

संबुद्धजननी देवी प्रġयापारमितापि तम् / बोद्धिसत्त्वं महासत्त्वं पश्यन्ती समवत् सदा //

लोकेश्वरो ऽपि संपश्यन्स्तं श्रीभद्रगुणाश्रयम् / सर्वत्र सर्वदा रक्षेद्योजयन् बोधिसंवरे //

ततः स त्रिगुणाभिज्ञो बोधिचर्याव्रतं दधन् / सर्वं संबोधिसंभारं संपूरयन् यथाक्रमम् //

ततः स सुविशुद्धात्मा निःक्लेशो विमलेन्द्रियः / अर्हन् मारान् विनिर्जित्य त्रिविधां बोधिमाप्नुयात् //

ततः स त्रिजगच्छास्ता कृत्वा धर्ममयं जगत् / सर्वं बोधिव्रते युज्य समाप्नुयात् सुनिर्वृतिम् //

एवं महत्तरी विद्यां संबुद्धपदसाधनी / एषा त्वया सदा धार्या पठनीया जगद्धिते //

ये चाप्येतन्महाविद्यापाठभाषणसुस्वरम् / श्रुत्वानुमोदमानास्तं नत्वा भजन्ति सादरम् //

ते ऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः / त्रिरत्नभजनोद्युक्त्ता भजेयुः सुगतात्माजाः //

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् / त्रिविधां बोधिमासाद्य संबुद्धापदमाप्नुयुः //

एवं सर्वैर्जगन्नाथैरियं विद्यां महत्तरी / धृत्वा संपाठिता नित्यं देशिता च जगद्धिते //

इति मत्वा त्वयाप्येषा विद्या संबोधिसाधनी / भद्रश्रीधर्मसंभर्त्री पठितव्या जगद्धिते //

इत्यादिश्य मुनीन्द्रो ऽसौ भगवांस्त्रिजगद्गुरुः / विष्कम्भिने सुधीराय बोधिसत्त्वाय सद्धिये //

आअ ओं चले चूले चुन्दे स्वाहेत्येतन्नवाक्षरम् / धारणीं परमां विद्यां प्रादात् स्वयमुदाहरन् //

शास्त्रा स्वयं प्रदत्तं तां महाविद्यां नवाक्षरीम् / विष्कम्भी सांजलिर्नत्वा समादायापठन्मुदा //

धृत्वा विष्कम्भिना शास्तुः पाठेमाना गुरोः पुरः / संसिद्धा सा महाविद्या बभूव त्रिजगद्धिते //

एतद्विद्यानुभावेन विष्कम्भी स विशुद्धदृक् / लोकेश्वरस्य प्राद्राक्षीत् सर्वलोमविलान्यपि //

तानि दृष्ट्वा स विष्कम्भी सहर्षविस्मयान्वितः / अहो चित्रं महामाया संदृश्यते मयाधुना //

धर्मकाये जगद्भर्तुः सर्वाणि भुवनान्यपि / इति ध्यात्वा समाधाअय संतस्थे निश्चलेन्द्रियः //

ततः स सुप्रसन्नात्मा विष्कम्भी संप्रबोधितः / भगवन्तं प्रणत्वा च सांजलिरेवमब्रवीत् //

भगवंस्त्रिजगद्भर्तुः सर्वधर्माश्रये ऽधुना //

लोमविलेषु पश्यामि सर्वाणि भुवनात्मनि //

कति सन्ति तनौ तस्य सर्वधर्माधिपस्स्य हि / लोमविलेषु लोकास्तान् सर्वान् दर्शयितुमर्हति //

इति संप्रार्थिते ते विष्कम्भिना स सर्ववित् / भगवान्स्तं महासत्त्वं संपश्यन्नेवमादिशत् //

कुलपुत्रे विजानीहि सर्वत्रैधातुकान्यपि / भुवनानि जगद्भर्तुः सन्ति धर्ममयाश्रये //

तेनासौ त्रिजगन्नाथो सर्वधर्ममयाश्रयः / सर्वधर्माधिपः शास्ता सर्वलोकाधिपेश्वरः //

एवमसौ महेशाख्यो धर्मश्रीसद्गुणाश्रयः / बोधिसत्त्वो महाभिज्ञो धर्मराजो ऽभिराजते //

तत्तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहितः / नामापि समुदाहृत्य भजितुमर्हति सर्वदा //

ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा / नामापि च समुच्चार्य प्रभजन्ते समाहिताः //

दुर्गतिं ते न गच्छन्ति यान्ति सद्गतिमेव हि / भद्रश्रीगुणसंपन्नाश्चरेयुः पोषधं सदा //

तत्पुण्यपरिशुद्धास्ते निःक्लेविमलेन्द्रियाः / बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते //

ततस्ते सद्गुणाधाराः कृत्वा सर्वसुभद्रकम् / त्रिरत्नस्मृतिमाधाय प्रान्ते प्रेयुः सुखावतीम् //

तत्र गत्वामिताभस्य शरणे समुपाश्रिताः / सदा धर्मामृतं पीत्वा संचरेरन् महाव्रतम् //

ततः ते स्युर्महासत्त्व बोधिसत्त्वा गुणाकराः / सर्वं संबोधिसंभारं पूरयित्वा यथाक्रमम् //

सर्वसत्त्वहिताधानसंबोधिसाधनोद्यताः / अर्हन्तो विमलात्मानश्चतुर्ब्रह्मविहारिणः //

जित्वा मारगणान् दुष्टान् महाभिज्ञाः सुभद्रिकाः / त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः //

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते तत्सभाश्रिताः / सर्वे देवादयो लोकाः प्राभ्यनन्दन् प्रबोधिताः //

ततः सर्वनीवरणविष्कम्भी संप्रसादितः / भगवन्तं समालोक्य पुनरेवमभाषत //

भगवन्स्त्रिजगन्नाथो लोकेअश्वरो जिनात्मजः / नाद्यापीह समायाति कदागच्छेत्तदादिश //

इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः / विष्कम्भिनं महासत्त्वं समालोक्यैवमादिशत् //

कुलपुत्र स लोकेशो बोधिसत्त्वो जगत्प्रभुः / व्याकरणं महेशाय दातुमिहाधुना चरेत् //

ममापि दर्शनं कर्तुं दर्शयितुमिमाः सभाः / सर्वांच्छुभे प्रतिष्ठाप्य प्रथममिह प्राव्रजेत् //

इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रबोधितः / विष्कम्भी स समालोक्य तस्थौ संहर्षिताशयः //

तस्मिन्नवसरे तत्र विहारे जेतकाश्रमे / नानावर्णाः सुपुण्याभा अवभास्यात्यरोचयन् //

तत्रोद्याने महाकल्पवृक्षाः समीहितार्थदाः / sarvartupuṣpavṛkṣāśca sarvafaladrumā api //

अष्टांगगुणशुद्धाम्बुपरिपूर्णाः सरोवराः / पद्मादिकजपुष्पाद्याः प्रादुर्भूता मनोरमाः //

तद्रश्मिसंपरिस्पृष्टाः सर्वलोकाः सभाश्रिताः / महाद्भुतसुखापन्नो बभूवुर्नन्दिताशयाः //

तत्सुभद्रनिमित्तानि प्रादुर्भूतानि सर्वतः / सरोवरद्रुमादीनि दृष्ट्वा तस्थुः सविस्मयाः //

तान् समीक्ष्य स विष्कम्भी सहर्षविस्मयान्वितः / भगवन्तं प्रणम्यैवं पओप्रच्छ सांजलिः पुनः //

भगवन् कुत आअयाता इमे पुण्यसुरश्मयः / नानावर्णाः सुभद्राभा एअतदादेष्टुमर्हती //

इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् / भगवान्स्तं सभां चापि समालोक्यैवमादिशत् //

यो ऽसौ त्रैधातुकाधिश आर्यावलोकितेश्वरः / बोधिसत्त्वो समासत्त्व इहागन्तुं समीहते //

तेनमास्य सुपुण्याभा समुत्सृज्य समन्ततः / भासयित्वा विहारे ऽत्र शोभयितुं समीरिताः //

इदानीं स जगन्नाथः सर्वान् सत्त्वान् भवोदधेः / उद्धृत्य बोधिसन्मार्गे प्रतिष्ठाप्येह प्राचरेत् //

तस्मिन्नवसरे तत्र विहारे संप्रभासयन् / समागत्य स लोकेशः प्रविवेशावलोकयन् //

तं समागतमालोक्य भगवन् संप्रसादितः / स्वागतमेहि भद्रं ते कच्चिदित्यभ्यपृच्छत //

इति पृष्टे मुनीन्द्रेण दृष्ट्वावलोकितेश्वरः / भगवन्नागतो ऽस्मीति निवेद्य समुपासरत् //

तत्र तस्य मुनीन्द्रस्य दिव्यसुवर्णवारिजम् / पुरतः समुपस्थाप्य पादाब्जे प्रणतिं व्यधात् //

ततः स त्रिजगन्नाथस्तस्य शास्तुर्जगद्गुरोः / वामपार्श्वे समाश्रित्य पश्यन्नेवं न्यवेदयन् //

भगवन्नमिताभेन भगवतेममम्बुजम् / प्रहितं भवताम् सर्वकौशल्यं चापि पृच्छति //

तत्सौवर्णांगमालोक्य भगवान् संप्रमोदितः / गृहीत्वा वामपार्श्वे संनिधायैवं समादिशत् //

धन्यस्त्वं कुलपुत्रासि समुद्धृत्य भवोदधेः / बोधिमार्गे त्वया सत्त्वाः कियन्तः संनियोजिताः //

इति पृष्टे मुनीन्द्रेअण लोकएश्वरो जिनात्मजः / भगवन्तं सभां चापि पश्यन्नेवं न्यवेदयत् //

भगवन्स्तत्प्रजानीते भवान् सर्वं भवालये / यत्सत्त्वाः समुद्धृत्य संवृतौ योजिता मया //

एतत्तदुक्तमाकर्ण्य भगवान् संप्रमोदितः / लोकेश्वरं महाभिज्ञं संपश्यन्न्वेवमादिशत् //

साधु साधु महासत्त्व सर्वत्रैधातुकाधिपः / त्वमेव सर्वसत्त्वानां त्राता नाथो हितार्थभृत् //

यत्त्वया सर्वलोकेषु व्यवलोक्य भवोदधेः / सर्वसत्त्वाः समुद्धृत्य बोद्धिमार्गे नियोजिताः //

तेनासि त्वं महासत्त्वः सर्वत्रैधातुकाधिपः / लोकेश्वरो जगद्गर्ता लोकनाथो जगत्प्रभुः //

सिद्धानि सर्वकार्याणि यथाभिवांछितान्यपि / जयतु ते सदा सर्वसत्त्वोद्धारणसंवरम् //

सर्वे ऽपि दुष्टमारास्ते प्रभास्पृटाः शुभाशयाः / शरणे समुपासृत्य भवन्तु बोधिचारिणः //

सर्वेषामपि सत्त्वानां त्वन्नामस्मृतिभाविनाम् / सर्वत्रापि सदा भद्रं भवन्तु निरुपद्रवम् //

इत्येवं बहुधा तस्मै लोकेशाय महात्मने / सिद्धाशिषं प्रदत्वासौ भगवान् मौनमादधे //

तस्मिन्नवसरे तत्र महेश्वरः समागतः / भगवन्तं समालोक्य पुरस्तात् समुपाचरत् //

भगवतो मुनीन्द्रक्य पुस्तात् समुपाचरत् //

भगवतो मुनीन्द्रस्य शरणे समुपाश्रितः / पादाब्जे प्रणतिं कृत्वा संपार्थ्यैवं कृतांजलिः //

भगवन् सर्वविच्छास्तर्भवच्छरनमाव्रजे / तद्भवान्मे महायानसंवरं दातुमर्हति //

एतत्संप्रार्थितं तेन महेश्वरेण सादरम् / श्रुत्वा स भगवानेनम् महेशमेवमादिशत् //

गच्छ त्वं कुलपुत्रेशं प्राथर्येमं जगत्प्रभुम् / अयं लोकेश्वरो दद्याद्व्रतं ते बोधिसाधनम् //

इत्यादिष्टं स मुनीन्द्रेण श्रुत्वा महेश्वरो मुदा / लोकेशस्य पुरो गत्वा पादाब्जे प्रणतिं व्यधात् //

ततो महेश्वरस्तस्य लोकेशस्य पुरः स्थितः / सद्गुणतथ्यसंवादैस्तुष्य चैवम् कृतांजलिः //

नमे ऽहं भगवंच्छास्त्रे ऽवलोकितेश्वराय ते / पद्मभृते महेशाय सुप्रह्लादनकराय च //

पद्मासनाय पद्मश्रीपरिवृतसुमूर्तये / संशुभपद्महस्ताय जगदाश्वासदायिने //

पृथिवीवरनेत्राय संशुद्धपंचचक्षुषे / जिनरत्नकिरीटाय चिन्तामणिविभूषिते //

इत्येवं स महेशानं स्थुत्वा तं श्रीगुणाकरम् / तत्पादाब्जे पुनर्नत्वा पश्यन्नेव समाश्रयत् //

तमेवं संस्थितं दृष्ट्वा आर्यावलोकितेश्वरः / सुप्रसन्नमुखाम्भोजं संपश्यन्नेवमादिशत् //

महेश किमभिप्रायं तव चित्ते ऽभिरोचते / तदहम् पूरयेयं हि तद्वदस्व ममाग्रतः //

इत्यादिष्टं जगद्भर्त्रा निशम्य स महेश्वरः / संहर्षितः पुनर्नत्वा संप्राथ्यैवं कृतांजलिः //

भगवन् सर्वविच्छास्तर्बोधिं मे वांछते मनः / तन्मे ददस्व सम्बोधिव्याकरणं जगद्धिते / इति तत्प्रार्थितं श्रुत्वा लोकेश्वरो जगत्प्रभुः / तमीशानं समामन्त्र्य संपश्यन्नेवमादिशत् //

धन्यो ऽसि त्वं महेशान यत्संबोधिमभीच्छसि / तदहं ते प्रदास्यामि संबोधिसाधनं व्रतम् //

तदादौ श्रद्धया नित्यं संबोधिनिहिताशयः / त्रिरत्नभजनं कृत्वा दद्या अर्थिं समीप्सितम् //

ततः शुद्धसमाचारः परिशुद्धत्रिमण्डलः / अष्टांगाचारसंपन्नं पोषधं व्रतमाचरे //

ततो धैर्यं समालम्ब्य चतुर्ब्रह्मविहारिकः / स्वपरात्मसमाधानं क्षान्तिव्रतं समाचरेः //

ततः पुण्यमहोत्साहं धृत्वा सद्धर्मसाधनम् / सर्वान् दुष्टगणाम् जित्वा संवृतिव्रतमाचरेः //

ततः क्लेशान् विनिर्जित्य संसारे रतिनिःस्पृहः / ध्यात्वादिओइश्वरसंबुद्धं ध्यानव्रतं समाचरेः //

ततः सद्धर्मशास्त्राब्धाववगाह्य जगद्धिते / प्रज्ञारत्नं समासाद्य महायानव्रतं चरेः //

ततः समाधिगुणापायं सर्वसत्त्वाभिबोधनम् / सद्धर्मसाधनं रत्नं धृत्वा कुर्याज्जगद्धितम् //

ततः श्रीधारणीद्यासिद्धिसाधनतत्परः / सम्बोधिप्रणिधिं धृत्वा संचरेथा जगद्धिते //

ततः श्रीगुणसंपन्नो भद्रचर्यासमाहितः / सर्वसत्त्वान् वशे स्थाप्य धर्मराजो बली भवेः //

ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः / अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः //

ततस्त्वं स्या महाभिज्ञस्तथागतो मुनीश्वरः / सर्वविद्यधिपः शास्ता जगन्नाथो विनायकः //

भस्मेश्वर इति ख्यातः सर्वत्रैधातुकेश्वरः / सर्वधर्माधिराजेन्द्रः संबुद्धः सुगतो भवेः //

लोकधातौ विवृतायां बुद्धक्षेत्रम् भवेत्तव / ततस्त्वं भगवान् सर्वं कृत्वा धर्ममयं जगत् //

संप्राप्य सौगतं कार्यं सम्बुद्धालयमाप्नुयाः //

इत्यादिष्टं जगद्भर्त्रा निशमुअ स महेश्वरः / मुदितस्तं जगन्नाथं नत्वा चैकान्तमाश्रयत् //

अथोमापि महादेवी लोकेशस्य पुरो गता / पादाब्जे प्रांजलिर्नत्वा स्तोत्रमेवं व्यधान्मुदा //

नमे ऽहं भगवंच्छास्त्रे ऽवलोकितेश्वराय ते / महेशाय जगद्भर्त्रे प्राणदाय महात्मने //

पृथिवीधरनेत्राय शुभपद्मधराय च / पद्मश्रीपरिवृताय सुचेतनकराय च //

धर्मधराय नाथाय दशभूमीश्वराय च / सुनिर्वृतिमयानसंप्रस्थिताय् सर्वदा //

इत्युमा सा महादेवी संतुष्टा तं जिनात्मजम् / लोकेश्वरं पुनर्नत्वा संप्रार्थ्यैवं कृतांजलिः //

भगवन् मां समालोक्य स्त्रीभावात् परिमोचय / कलिमलाधिवासाच्च गर्भावासाच्च मोचय //

क्लेशपरिग्रहोद्वीचेः समुद्धृत्य भवोदधेः / बोधिमार्गे प्रतिष्ठाप्य प्रापय सौगतीं गतिम् //

इति तया महादेव्या संप्रार्थितं निशम्य सः / लोकेश्वर उमादेवीं समालोक्यैवमादिशत् //

भगिनि त्वं महादेवि निर्वृतिं यदि वांछसि / त्रिरत्नभजनं कृत्वा प्रचेरेः पोषधं व्रतम् //

ततस्संशुद्धपुण्याप्ता परिशुद्धत्रिमण्डला / भद्रश्रीगुणसम्पन्ना प्रान्ते यायाः सुखावतीम् //

तत्रामिताभनाथस्य शरणे समुपाश्रिता / सदा धर्मामृतं पीत्पा समुपाश्रिता / सदा धर्मामृतं पीत्पा संबोधिव्रतमाप्नुयाः //

ततः पारमिताः सर्वाः पुरयित्वा यथाक्रमम् / जगद्भर्ता जगनाथो दशभूमीश्वरो भवेः //

ततः संबोधिमासाद्य तथागतो मुनीश्वरः /

उमेश्वर इति ख्यातः संबुद्धो भगवान् जिनः / सर्वविद्याधिपः शास्ता सर्वधर्माधिपेश्वरः //

धर्मराजो जगन्नाथः सद्धर्मश्रीगुणाकरः / सर्वसत्त्वाधिराजो ऽर्हन्सर्वत्रैधातुके प्रभुः //

मारजेता महाभिज्ञो विनायको भविष्यसि / हिमवद्दक्षिणे पार्श्वे बुद्धक्षेत्रं भवेत्तव //

एते ऽपि तीर्थिकाः सर्वे भवेयुः श्रावकास्तव / इत्यादिष्टो जगच्छास्त्रा लोकेशेन निशम्य सा / उमा देवी प्रहर्षन्ती तत्रैकान्ते समाश्रयत् //

अथ स भगवान् सर्वान् सभालोकान् समीक्ष्य तम् / विष्कम्भिनं च संपश्यन् समामन्त्रैवमादिशत् //

दृष्यतां कुलपुत्रोमा देवी संबोधिकामिनी / संबोधौ व्याकृतानेन लोकेशेन जगद्धिते //

यूयमप्यस्य सच्छास्तुः शरणे समुपाश्रिताः / संबोधिप्रणिधिं धृत्वा भजध्वं सर्वदादरात् //

एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः / बोद्धिसत्त्वा महासत्त्वा भवेत श्रीगुणाकरा //

ततः सर्वत्र सत्त्वानां कृत्वा भद्रवृषोत्सवम् / धर्मश्रीसुखसंपन्नाः प्रान्ते प्रेध्वं सुखावतीम् //

तत्र गत्वामिताभस्य मुनेः शरणमाश्रिताः / सदा धर्मामृतं पीत्वा संचरध्वं जगद्धिते //

ततः बोधिसंभारं पूरयित्वा यथाक्रमम् / त्रिविधां बोधिमासाद्य संबुद्धपदमेष्यथ //

एतद्भगवतादिष्टं निशम्य ते सभाश्रिताः / विष्कम्भिप्रमुखाः सर्वे लोकाः संमोदिताशयाः //

उत्पाअय समुपासृत्य लोकेशस्य जगत्प्रभोः / पादाब्जे प्रांजलिं कृत्वा प्रणेमिरे यथाक्रमम् //

सर्वेषामपि तेषाः स लोकनाथः शिरः स्पृशन् /

बोधिसिद्धाशिषं दत्वा चेतांसि प्राभ्यनन्दयत् //

ततः श्रीजगन्नाथ आर्यावलोकितेश्वरः / भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् //

भगवन् गन्तुमिच्छमि सुखावत्यां निजाश्रमे / तदनुज्ञां प्रदत्वा मे ऽभिनन्दयतु मानसम् //

इति संप्रार्थिते तेन लोकेशेन स सर्ववित् / दिव्यरत्नाम्बुजं तस्मै दत्वैवं च समादिशत् //

गच्छ त्वं कुलपुत्रेमं पद्मं शास्तुर्महामुनेः / उपहृत्य पुरः पृच्छः कौशल्यं मद्गिरा नमेः //

तथेति प्रतिविज्ञप्य लोकेश्वरो जिनात्मजः / भगवन्तं प्रणत्वा च सभां समीक्ष्य प्राचरत् //

ततः संप्रस्थितो लोकनाथः स पुण्यरश्मिभिः / संभासयन् जगल्लोकं सरत् सुखावतीं ययौ //

ततः स समुपासृत्य शास्तुरमितरोचिषः / पादाब्जे सांजलिर्नत्वा तत्पद्मं समुपाहरत् //

समीक्ष्य तं समायातं लोकेश्वरं स सर्ववित् / अमिताभो जगच्छास्ता सम्पश्यन्नेवमादिशत् //

एहि समागतो ऽसि त्वम् कुलपुत्रेह संश्रय / सिद्धानि सर्वकार्याणि कच्चित्तवापि कौशलम् //

कियन्तो हि त्वया सत्त्वा समुद्धृताः कुतः कुतः / दर्शितो भगवांच्छास्ता शाक्यसिंहः मुनीश्वरः //

इति पृष्ते ऽमिताभेन लोकेश्वरः स सांजलिः / शास्तुरग्रे स्ववृत्तान्तं सर्वमेवं न्यवेदयत् //

भगवन् सर्वलोकेषु सर्वेषु नरकेष्वपि / निमग्नान् प्राणिनः सर्वान् समालोक्य प्रयत्नतः //

समुद्धृत्य प्रसन्नांस्तान् बोधयित्वा विनोदतन् / बोधिमार्गे प्रतिष्ठाप्य प्राचारयन् जगद्धिते //

एवं तान् सकलान् सत्त्वान् कृत्वा संबोधिसाधिनः /

जेतोद्याने विहारस्थं संबुद्धं द्रष्टुमाचरम् //

तत्राविष्टो ऽहमालोक्य तं मुनीन्द्रसभाश्रितम् / सर्वावतीं सभां तान् च सश्रावकजिनात्मजान् //

पुरतः समुपासृत्य शाक्यमुनेर्जद्गुरोः / पद्मं पुर उपस्थाप्य वन्दित्वा समुपाश्रयम् //

तत्र भगवतामग्रे संप्रेषितो महेश्वरः / स मया व्याकृतो बोधौ सोमापि व्याकृता तथा //

तथा सर्वे ऽपि लोकाश्च तत्सभासमुपाश्रिताः / विनोद्य बोधिसंभारव्रते नियोजिता मया //

ततस्तस्य मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः / भवतां दर्शनं कर्तुं समुत्सुको ऽहमाव्रजे //

भवतां प्रहितं तेन भगवता सवन्दनम् / इदं रत्मयं पद्मं कौशल्यं चापि पृच्छ्यते //

एत्यन्निवेदितं तेन लोकेशेन निशम्य सः / अमितभो जगच्छास्ता प्राभ्यनन्दत् प्रमोदितः //

ततः सो ऽमितप्रभस्तं लोकेश्वरं समीक्ष्य च / साधु धन्यो ऽसि सत्पुत्र इत्याराध्याभ्यनन्दयेत् //

इत्येवं स जगन्नाथो महाभिज्ञो जिनात्मजः / सर्वसत्त्वहिताधानं व्रतं धृत्वा समाचरेत् //

// इति सर्वसत्त्वोद्धरणसंबोधिमार्गस्थापनमहेश्वरोमादेवी-संबोधिव्याकरणोपदेशप्रकरणं समाप्तम् //

18. सर्व सभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणम्

अथ सर्वनीवरणविष्कम्भि स प्रमोदितः / भगवन्तं तमानम्य सांजलिरेवब्रवीत् //

भगवन्नद्य स दृष्टो लोकेश्वरो ऽधुना मया / तदस्मि परिशुद्धात्मा सद्धर्मप्राप्तवानपि //

adya me janmasāfalyaṃ saṃsiddhaśca manorathaḥ /

आशा सम्पूर्णसिद्धा च सम्बोधिं प्राप्तवान् भवे //

भूयो ऽपि भगवन्नस्य लोकेशस्य महात्मनः / गुणविशेषसत्कीर्तिं श्रोतुमिच्छामि साम्प्रतम् //

तद्भवान् सर्वसत्त्वानां सम्बोधिव्रतचारिणाम् / मनः प्रोत्साहनं कर्तुं समुपादेष्टुमर्हति //

इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् / भगवांस्तं महासत्त्वं संपश्यन्नेवमादिशत् //

साधु शृणु महासत्त्व कुलपुत्र समाहितः / लोकेशगुणसत्कीर्तिं प्रवक्ष्यामि समासतः //

अप्रमेयसंख्येयं लोकेशस्य महात्मनः / पुण्यगुणप्रमाणानि कर्तुं न शक्यते मया //

तद्यथा सर्वलोकेषु सर्वेषामपि भूभृताम् / पलसंखयाप्रामाणानि कर्तुं मयापि शक्यते //

सपर्वता मही सर्वा कृत्वायणुरजोमया / तेषां संख्याप्रमाणानि कर्तुं मया हि शक्यते //

सर्वेषामपि चाब्धीनां सर्वासां सरितामपि / जलबिन्दुप्रमाणानि संख्यातुं शक्यते मया //

सर्वेषामपि वृक्षाणां सर्वत्रापि महीरुहाम् / पत्रसंख्याप्रमाणानि प्रकर्तुं शक्यते मया //

न त्वस्य लोकनाथस्य पुण्यसंभारमुत्तमम् / अप्रेयमसंख्येयं संख्यातुं शक्यते मया //

सर्वे सत्त्वाश्च संबुद्धान् सर्वानपि ससांघिकान् / सर्वोपकरणैर्नित्यं संभाजेरन् समादरम् //

यावत्तेषां महत्पुण्यं बोधिश्रीगुणसाधनम् / ततो ऽप्यधिकमौदार्यं लोकेशभजनोद्भवम् //

यदसौ त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिमान् / सर्वसमाधिसपन्नः प्रकरोति जगद्धिते //

ईदृशस्त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिकः /

सर्वसमाधिसम्पन्नस्त्रैलोक्ये नास्ति कश्चन //

तद्यथाहं पुराद्राक्षमस्य त्रैधातुकप्रभोः / समाधिगुणमाहात्म्यं सर्वजिनात्मजाधिकम् //

तद्यथाभूत्पुरा शास्ता क्रकुच्छन्दस्तथागतः / सर्वविद्याधिपो धर्मराजो ऽर्हत् सुगतो जिनः / तदाहं दानशूराख्यो बोधिसत्त्वो हितार्थभृत् //

तस्य शास्तुर्मुनीन्द्रस्य सद्धर्मशासनारतः //

तदैकसमये ऽसौ ऽपि क्रकुच्छन्दो विनायकः / जेताश्रमे विहारे ऽत्र विजहार ससांधिकः //

तदा तस्य मुनीन्द्रस्य पातुं धर्मामृतं मुदा / ब्रह्मादिब्राह्मणाः सर्वे शक्रादित्रिदशाधिपाः //

सर्वे लोकाधिपाश्चापि दैत्येन्द्रा राक्षसाधिपाः / गन्धर्वाः किन्नरा यक्षा नागेन्द्रा गरुडाधिपाः //

सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः / सिद्धाः साध्याश्च रुद्राश्च सर्वे विद्याधरा अपि //

राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः / वणिजः सार्थवाहाश्च श्रेष्ठिनश्च महाजनाः //

पौरजानपदा ग्राम्यास्तथान्ये देशवासिनः / सर्वे ऽपि ते समासृत्य समभ्यर्च्य यथाक्रमम् //

क्रकुच्छन्दमुनीन्द्रं तं नत्वा तस्थुः सभाश्रिताः / तदानेकमहासत्त्वा बोधिसत्त्वाः समाहिताः //

समाधिविग्रहं चक्रुःक्रकुच्छन्दमुनेः पुरः //

यदा समन्तभद्राख्यो बोधिसत्त्वो महर्द्धिमान् / समापेदे समाधिं तद्यद्ध्वजोद्गतसंज्ञकम् //

तदा लोकेश्वरश्चासौ बोधिसत्त्वो महर्द्धिकः / समापेदे समाधिं तद्यद्विकिरिणसंज्ञकम् //

यदा समन्तभद्रश्च बोधिसत्त्वो जिनात्मजः / समापेदे समाधिं तद्यत्पूर्णेन्दुवरलोचनम् //

तदा लोकेश्वरश्चासौ महाभिज्ञो जिनात्मजः / समापेदे समाधिं तद्यत्सुर्यवरलोचनम् //

यदा समन्तभद्रश्च महाभिज्ञो जिनात्मजः / समाधिं तत्समापेदे यद्विच्छुरितसंज्ञकम् //

तदा लोकेश्वरश्चापि महाभिज्ञो जिनात्मजः / समापेदे समाधिं यद् गगनगंजसंज्ञकम् //

यदा समन्तभद्रश्च बोधिसत्त्वो महामतिः / समापेदे समाधिं तत्सर्वाकारकराभिधम् //

तदा लोकेश्वरश्चापि बोधिसत्त्वो महामतिः / समापेदेद् समाधिं यदिन्द्रमत्यभिधानकम् //

यदा समन्तभद्रश्च बोधिसत्त्वो गुणाकरः / समापेदे समाधिं यदिन्द्रराजो ऽभिधानकम् //

तदा लोकेश्वरश्चासौ बोधिसत्त्वो गुणाकरः / समापेदे समाधिं यदब्धिगम्भीरसंज्ञकम् //

यदा समन्तभद्रश्च बोधिसत्त्वः सुवीर्यवान् / समापेदे समाधिं यत्सिहंविजृम्भिताह्वयम् //

तदा लोकेश्वरश्चापि बोधिसात्त्वः सुवीर्यवान् / समापेदे समाधिं यत्सिहविक्रीडिताभिधम् //

यदा समन्तभद्रश्च बोधिसत्त्वः सुबुद्धिमान् / समापेदे समाधिं यद्वरदायकसंज्ञकम् //

तदा लोकेश्चरश्चापि बोधिसत्त्वः सुबुद्धिमान् / समापेदे समाधिं तद्यदवीच्यभिशोषणम् //

यदा समन्तभद्रश्च बोधिसत्त्वो विचक्षणः / उद्घाट्य दर्शयामास सर्वलोमविलान्यपि //

तदा लोकेश्वरश्चापि बोधिसत्त्वो विचक्षणः / अपावृणोत् स सर्वाणि लोमरन्ध्राण्यशेषतः //

तदा समन्तभद्रो ऽसौ लोकेशं तं महर्धिकम् / समीक्ष्य सांजलिर्नत्वा संपश्यन्नेवमब्रवीत् //

साधु धन्यो ऽसि लोकेश यदीदृक्प्रतिभानवान् / कश्चिन्नैवास्ति लोकेषु त्वादृक्समाधिवित् सुधिः //

एवमन्यैर्महासत्त्वैर्बोधिसत्त्वैर्महद्धिकैः / स्माधिविग्रहे सैव लोकेश्वरो विजितवान् //

तदा सर्वे महाभिज्ञ बोधिसत्त्वाः प्रसादिताः / लोकेशं तं महाभिज्ञं समानम्यैवमब्रवन् //

साधु धन्यो ऽसि लोकेश यदीदृक्प्रतिभानवान् / कश्चिन्नैवास्ति लोओके यत्त्वादृक्समाधिसद्बली //

तदा स भगवान् दृष्ट्वा सर्वांस्तान् सुगतात्मजान् / पुरतः समुपामन्त्र्य संपश्यन्नेवमादिशत् //

कुलपुत्राल्पमेवैतत् प्रतिभानं जगत्प्रभोः / लोकेशस्यास्य युष्माभिर्दृश्यते ऽपीह साम्प्रतम् //

यादृग्लोकेश्वरस्यास्य प्रतिभानं महत्तरम् / ईदृक्सर्वमुनीन्द्राणामपि नैवास्ति कस्यचित् //

एवं तस्य जगद्भर्तुः प्रतिभानं महत्तरम् / क्रकुच्छन्दमुनीन्द्रेअण समाख्यातं मया श्रुतम् //

अथ सर्वनीवरणविष्कम्भी स प्रबोधितः / भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् //

भगवन् यन्महायानसूत्रराजं निगद्यते / तत्समादिश कारण्डव्यूहसूत्रोद्भवं वृषम् //

यच्छ्रुत्वापि वयं सर्वे सम्बोधिगुणसाधनैः / धर्मरसौरभिव्याप्तमानसाः प्रचरेमहि //

तच्छ्रुत्वा भगवांश्चापि विष्कम्भिनं महामतिम् / साधु शृणु समाधाय वक्ष्ये तदिति प्रादिशत् //

ये ऽपि श्रोष्यन्ति कारण्डव्यूहसूत्रं सुभाषितम् / तेषां सर्वाणि पापानि क्षिणुयुर्दारुणान्यपि //

दशाकुशलपापानि पंचातिपातकान्यपि / निरवशेषनष्टानि क्षिणुयुरिति निश्चयम् //

इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रमोदितः / भगवन्तं समालोक्य पुनरेवमभाषत //

भगवन् सर्वविच्च्छास्त जानीमहि कथं वयम् / यत्पापं कुरुते क्षीणं कारण्डन्यूहसूत्रकम् //

तच्छ्रुत्वा भगवान् भूयो विष्कम्भिनं विबोधितम् / सभाश्रितान् जनांश्चापि समालोक्यैवमादिशत् //

विद्यते कुलपुत्रासौ तीर्थो मलसुनिर्मलौ / सुमेरोर्दक्षिणे पार्श्वे मुनीन्द्रैः परिकल्पितौ //

मलतीर्थजले क्षिप्तं शुभ्रवासो ऽपि नीलितम् / तथा तज्जलसंस्पृष्टो शुद्धो ऽपि नीलितो भवेत् //

सुनिर्मले जले क्षिप्तं नीलवासो ऽपि शुक्लितम् / तथा तज्जलसंस्पृष्टः पापात्मापि भवेच्छुचिः //

एवमिदं महायानसूत्राग्रं यो ऽभिनन्दति / सद्धर्मलिप्तो ऽपि क्लेशैः संक्लिश्यते द्रुतम् //

श्रुत्वापीदं महायानसूत्राग्रं यो ऽभिनन्दति / स महापापलिप्तो ऽपि निःक्लेशः स्याच्छुभान्तिकः //

यथा शतमुखो हीन्द्रो विनिसृत्य निजालयात् / दहति सर्वभूजातान् तृणगुल्मलताद्रुमान् //

तथेदं सर्वसूत्राणां कारण्डव्यूहमुत्तमम् / पातकान्यपि सर्वाणि निःशेषं दहते द्रुतम् //

ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम् / अनुमोद्याभिनन्दन्तः संभजन्ते सदादरात् //

ते सर्वे निर्मलात्मानो निःक्लेशविमलेन्द्रियाः / बोधिसत्त्वा महासत्त्वा भवेयुर्निवर्तिकाः //

इदं सर्वमहायानसूत्रराजं महोत्तमम् / श्रुत्वा नैवानुमोदेयुः पृथग्जना दुराशयाः //

ये चापीदं महायानसूत्रराजं महोत्तमम् / निशम्याभ्यनुमोदन्तः प्रभजन्ते सदादरात् //

धन्यास्ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः / निःक्लेशा निर्मलात्मानो भवेयुः सुगतात्मजाः //

मृत्युकाले ऽपि तेषां च द्वादश सुगता जिनाः / समुपेत्याभिपश्यन्तो दद्युरेवं वरोत्तमम् //

मा भैषीः कुलपुत्र त्वं यत्कारण्डव्यूहसूत्रकम् / श्रुत्वानुमोद्य सत्कारैर्भजसे श्रद्धयादरात् //

एतत्पुण्यानुलिप्तात्मा भूयो न संसरेर्भवे / नैव क्लेशाग्निसंतापैः संधक्ष्यसे कदाचन //

यावज्जीवं महत्सौख्यं भुक्ता श्रीसद्गुणान्वितम् / भूयो धर्मामृतं भोक्तुं संप्रयायाः सुखावतीम् //

तत्र त्वममिताभस्य जिनस्य शरणे स्थितः / सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे //

ततो निर्मलशुद्धात्मा परिशुद्धत्रिमण्डलः / सर्वसत्त्वहिताधनबोधिचर्याव्रतं चरेः //

ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् / निःक्लेशो ऽर्हन्महाभिज्ञश्चतुर्ब्रह्मविहारिकः //

जित्वा मारगणान् सर्वान् सम्बोधिनिश्चलाशयः / त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः //

इति तैः सुगतैः सर्वैः समादिष्टं निशम्य ते / सर्वे ऽप्युभ्यनुमोदन्तो नमेयुस्तान् जिनान् मुहुः //

ततस्ते तान् जिनान् स्मृत्वा प्राणं त्यक्त्वा समाहिताः / तैरेव सुगतैः सार्धं संप्रयायुः सुखावतीम् //

तत्रोपेत्यामिताभस्य शरणे समुपाश्रिताः / सदा धर्मामृतं पीत्वा संचरेयुर्जद्धिते //

ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमम् / निःक्लेशा निर्मलात्मानः परिशुद्धत्रिमण्डलाः //

जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः / त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः //

एवं महत्तरं पुण्यं कारण्डव्यूहसूत्रजम् / अप्रमेयमसंख्येयं संबोधिज्ञानसाधनम् //

यूयं सर्वे ऽपि विज्ञाय संबोधिं यदि वांच्छथ / शृणुतेदं महायानसूत्रराजं सुभाषितम् //

अनुमोदत सत्कृत्य भजन सर्वदादरात् / इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः / सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः //

ततस्ते सर्वे सभालोका ब्रह्मादयो महर्षयः / शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि //

गन्धर्वकिंनरा रक्षाः सिद्धाः साध्याः सुरांगनाः / विद्याधराश्च दैत्येन्द्रा नागेन्द्रा गरुडा अपि //

महोरगाश्च दैत्येन्द्र नागेन्द्रा गरुडा अपि //

महोरगाश्च नैरृत्या भूतेशाश्च शुभाशयाः / योगिनो यतिनश्चापि तीर्थिकाश्च तपस्विनः //

विप्रराजादयः सर्वे मनुष्याश्च प्रसादिताः / त्रिधा प्रदक्षिणीकृय कृतांजलिपुटो मुदा //

भगवन्तं ससंघं तं नत्वा स्वस्वालयं ययुः //

// इति सर्वसभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणं समाप्तम् //

19. सिक्षा संवर समुद्देश प्रकरणम्

तदानन्दः समुत्थाय भगवतः पुरो गतः / पादाब्जे सांजलिर्नत्वा सम्पश्यन्नेवमब्रवीमब्रवीत् //

भगवच्छास्तरस्माकं भिक्षूणां ब्रह्मचारिणाम् / शिक्षासंवरसंवृत्तं समुपादेष्टुमर्हति //

इति संप्रार्थिते तेन भगवान् स मुनीश्वरः / आयुष्मन्तं तमानन्दं संपश्यन्नेवमादिशत् //

साधु शृणु त्वमानन्द भिक्षूणां ब्रह्मचारिणाम् / शिक्षासंवरसांवृतं प्रवक्षामि समासतः / ये शुद्धश्स्यः सत्त्वाः प्रव्रजित्वा जिनाश्रमे / शिक्षासंवरमिच्छन्ति धर्तुं निर्वृतिसाधनम् //

प्रथमं ते समालोक्य शुद्धक्षेत्रे मनोरमे / निषद्य स्वासने ध्यात्वा संतिष्ठेरन् समाहिताः //

भस्मास्थिकेशजम्बालावस्करामेध्यसंकुले / क्षेत्रे नैव निवास्तव्यं कदापि ब्रह्मचारिभिः //

दुःशीलैर्भिक्षुभिः सार्धं कर्तव्या नैव संगतिः / आअलापो ऽपि निवासो ऽपि कर्तव्या न कदाचन //

दुःशीलैर्भिक्षुभिः सार्धं भोक्तव्यं नापि किंचन / न स्थातव्यं न गन्तव्यं क्रीडितव्यं न च क्वचित् //

उपसंपन्ने दातव्या न च ज्ञप्तिचतुर्थकम् / सद्धर्मस्साधनोपायं नापि देयं दुरात्मनाम् //

दुःशीला हि दुरात्मानो बौद्धशासनदूषकाः / मारचर्यानुसंरक्ताः क्लेशव्यालितेन्द्रियाः //

तेषां नैवाभिदातव्य आवासः सौगताश्रमे / दातव्यो दूरतस्तेषामावास आश्रमाद्बहिः //

संघालापो न दातव्यो दुःशीलानां कदाचन / न तेषां सांघिकी भूमिर्नैवार्हति कुहापि हि //

न तेषां विद्यते किंचिदर्हत्संवृत्तिचारणम् / सर्वसत्त्वहिताधानं कुतः संबोधिसाधनम् //

इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः / आनन्दस्तं मुनीशानं समालोक्यैवमब्रवीत् //

भगवन् कतमे काले दुःशीला भिक्षवः शठाः / दक्षणीया भविष्यन्ति नायकाः सौगताश्रमे //

इत्यानन्देन संपृष्टे भगवान् सर्वविज्जिनः / तमानन्दं समालोक्य पुनरेवं समादिशत् //

त्रिवर्षशतनिर्याते सुनिर्वृतस्य मे तदा / दुःशीला भिक्षवो दक्षाः भवेयुः सौगताश्रमे //

तत्र ते भिक्षवः सर्वे भ्रष्टाचारा दुराशयाः / विहारे समुपासीनाश्चरेयुर्गृहिचारिकम् //

भार्यापुत्रसुताभ्रातृज्ञातिबन्धुसमन्विताः / यथाकामं सुखं भुक्त्वा संचरेरन् प्रमादिताः //

ते ऽनीत्याहृत्य संघानां सर्वोपकरणान्यपि / सर्वाणि स्वात्मसात्कृत्वा भविष्यन्ति निजालयम् //

यथेच्छया समादाय भुक्त्वा भोग्यान् यथेप्सितम् / कुटुम्बसाधनोपाये संचरेरन् प्रगल्भिताः //

ते सांघिकोपचारे ऽपि कुर्युर्विण्मूत्रसर्जनम् / श्लेष्मलालोद्वमोच्छिष्ठं विसर्जेयुश्च सर्वतः //

एतत्कर्मविपाकानि न ते ज्ञास्यन्ति दुर्धियः / उन्मत्ता इव दुर्दान्ताश्चरेयुर्दुरितारताः //

ये सांघिकोपचारेषु कुर्तुः श्लेष्मादिसर्जनम् / शालाटव्यां भवेयुस्ते प्रेताः सूचीमुखा किल //

विण्मूत्रादिपरित्यागं कुर्युर्ये सांघिकाश्रमे / वाराणस्यां भवेयुस्ते कृमयो गूथमूत्रजाः //

dantakāṣṭhādikaṃ hṛtvā prabhuṃ sfūrya ca sāṃghikam //

ते स्यू रक्तपशम्बूकमत्स्यादिजलजन्तवः / व्रीहिद्रव्याणि ये हृत्या भुंज्युर्ये सांघिकानि च / ते भवेयुर्महाप्रेताः सूचीमुखा नगोदराः //

ये ऽन्नपानादिकं कृत्व भुंज्युर्ये चापि सांघिकम् / ते स्युर्हीनकुले जाता हीनेन्द्रियाश्च पाचकाः //

ततश्च्युताश्च ते जाता लंगितकुब्जदुर्मुखाः / कुष्थव्याधिपरीतांगा भवेयुः पूतिवाहिकाः //

यदा तत्र स्थिता यायुर्यष्टिं धृत्वा शनैर्भुवि / नियतेयुस्तदा तेषां सर्वाणि पिशितान्यपि //

एवं ते बहुवर्षाणि दुःखानि विविधानि च / भुक्त्वापायिकं कर्म कृत्वा यायुश्च नारकान् //

ये चापि सांघिकीं भूमिं परिभोज्यन्ति लोभिनः / ते दुष्टाः क्लेशितात्मानो यायु रौरवनारके //

तत्र तेषां मुखे तप्तलौहगुडा निवेशयेत् / तैस्तेषामभिधक्ष्यन्ते ताल्वौष्ठहृदुदरान्यपि //

कण्ठहृदुदरान्त्रादीन् धक्ष्यन्ते सर्वविग्रहान् / तथा मृताः पुनस्ते ऽपि जीवेयुः कर्मभोगिनः //

यमपालैर्गृहीत्वा च क्षेप्स्यन्ते घोरनारके / तेषां कर्मवशाज्जिह्वा प्रभवेच्च महत्तरी //

कृष्यन्ते हलशतैस्तत्र जिह्वायां यमकिन्नरैः / एवं बहूनि वर्षाणि दुःखानि विविधानि ते //

भुक्त्वा मृताः पुनर्यायुर्नाके ऽग्निघटे खलु / तत्र तेषां महज्जिह्वा प्रोद्भवेदपि तत्र च //

सूचीशतसहस्राणि विध्येयर्युमकिन्नराः / तथापि ते मृता नैव स्थास्यन्ति दुःखिताश्चिरम् //

ततस्थानग्निखदायां च क्षेप्स्यन्ति यमकिन्नराः / तत्रापिअ ते मृता नैव स्थास्यन्ति कर्मभोगिनः / ततश्चोत्क्षिप्य तान् प्रेतनद्यां क्षेप्स्यन्ति किन्नराः //

तत्रापि बहुवर्षाणि दुखानि विविधानि ते //

भुक्त्वा स्थास्यन्ति दुःखार्ताः सुचिरं कर्मभोगिनः //

एवं त्रिकल्पवर्षाणि भ्रमतां नरके सदा / ततस्तत्कर्मवैपाकक्षीणं तेषाम् भवेच्चिरात् //

ततश्च्युत्वा च ते जंबूद्वीपे जातास्सुदुःखिताः / दरिद्रिताश्च जात्यन्धा भवेयुर्दुरिताशयाः //

एवं ते बहुदुःखानि प्रभुक्त्वा बहुजन्मसु / सदा क्लेशाग्निसंतप्ता भ्रमेयुर्भवसागरे //

तस्मादानन्द संघानां सर्वोपकरणान्यपि / द्रव्याण्यपि च सर्वाणि रक्षितव्यानि यत्नतः //

अनीत्या नैव भोक्तव्यं सांघिकं वस्तु किंचन / केनापि सांघिकं वस्तु जीर्णीकर्तुं न शक्यते //

तदभोग्यमनीत्या हि सांघिकं वस्तु किंचन / अस्पृश्यं वह्निवत्तप्तं दहनं वस्तु सांघिकम् //

भारोपमं सदाक्रान्तमभेद्यं वज्रसन्निभम् / अपथ्यविषवद्दुष्टं तीक्ष्णासिधारसन्निभम् //

वैषं तेजैः समीकर्तुं मन्त्रौषध्यैर्हि शक्यते / सांघिकिं वस्तु हर्तुं न पापं केनापि शम्यते //

इति मत्वात्र संसारे सम्बोधिश्रीसुखेप्सुभिः / सांघिकं वस्तु यत्नेन रक्षितव्यं रक्षितव्यं सदादरात् //

एवं विज्ञाय संबोधिचित्तं धृत्वा समहितः / शिक्षासंवरमाधाय सम्पद्रक्षितुमर्हति //

शिक्षां रक्षितुकामेन चित्तीरक्ष्यं प्रयत्नतः / न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता //

अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् / करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः //

बद्धश्चेच्चित्तमातंगः स्मृतिरक्षा समन्ततः / भयमस्तं गतं सर्वं सदा कल्याणमागतम् //

व्याघ्राः सिंहा गजा ऋक्षा सर्वे च दुष्टशत्रवः / सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा //

सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् / चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्त्यमी //

यस्माद्भयानि सर्वाणि दुःखाप्रमितान्यपि / चित्तादेव समुद्यान्ति सर्वेषां भवचारिणाम् //

शस्त्राणि नरके केन घटितानि समन्ततः / तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः //

पापं चित्तसमुद्भुतं सर्वमेतद्भवालये / तस्मान्न कश्चित् त्रैलोक्ये चितादन्यो भयानकः //

अदरिद्रं जगत् कृत्वा दानपारमिता यदि / जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् //

falena saha sarvasvatyāgacittaṃ janeakhile / दानपारमिता प्रिक्ता तस्मात् सा चित्तमेव हि //

मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो रतान् / लब्धे विरतिचित्ते तु शीलपाअरमिता मता //

कियतो मारयिष्यन्ति दुर्जनान् गगनोपमान् / मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः //

भूमिं छादयितुं सर्वान् कुतश्चर्म भविष्यति / उपानच्चर्ममात्रेण छन्ना भवति मेदिनी //

बाह्या भावाः सदा तद्वच्छक्या वारयितुं न हि / स्वचित्तमेव निवार्यं तत्किमेवान्यैर्निवारित्रैः //

sahāpi vākcharīrābhyāṃ mandadṛtterna tatfalam / यत्पटोरेकैकस्यापि चित्तस्य ब्रह्मतादिकम् //

जपांस्तपांसि सर्वाणि दीर्घकालकृतान्यपि / अन्यचित्तेन मन्देअन वृथैव सिध्यते न हि //

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे //

यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् / तस्मात् स्वधिष्ठितं चित्तम् सदा कार्यं सुरक्षितम् //

चित्तरक्षाव्रतं त्यक्त्वा बहुभिः किं तपोव्रतैः / यथा चपलमध्यस्था रक्षति व्रणमादरात् //

एवं दुर्जनमध्यस्था रक्षेच्चित्तं प्रयत्नतः / व्रणदुःखलवाद्वीता रक्षेत् स्वं व्रणमादरात् //

संघातपर्वताघाताद्भीतश्चित्तं बलं न किम् / अनेन हि विहारेन विहरन् दुर्जनेष्वपि //

प्रमदाजनमध्ये ऽपि यतिर्धीरो न खण्दते //

लाभा नश्यन्तु संपत्तिः सत्कारः कायजीवितम् / नश्यत्वन्यच्च कौशल्यं मा तु चित्तं न कस्यचित् //

चित्तमेव सदा रक्ष्यं संबोधिज्ञानसाधनम् / स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षयेत् //

व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु / तथाभ्यां व्याकुलं चित्तं न क्षमं बोधिसाधने //

असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् / जलवच्छिद्रिते कुम्भे स्मृतौ नैवाभितिष्ठते //

अनेके श्रुतवन्तो ऽपि श्रद्धायत्नपरा अपि / असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः //

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा / उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् //

क्लेशतस्करसंघो ऽयमेव तारणवेषकः / प्राप्यावतारं मुष्णाति हन्ति सद्गतिं जीवितम् //

तस्मात् स्मृतिर्मनोद्वारान्नापनेया कदाचन / गतापि प्रत्युपस्थाप्या संस्मृत्या पापिकीं व्यथाम् //

उपाध्यायानुशासिन्या भीत्याप्यादरचारिणाम् / धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः //

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः / सर्वो ऽप्ययं जगल्लोकस्तेषामग्रे सदा स्थितः //

इति ध्यात्वा सदा तिष्ठेत् त्रपादरभयान्वितः / बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः //

संप्रजन्यं तदा याति नैव यात्यागतं पुनः / स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते //

पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् / सदा निरिन्द्रयेणैव स्थातव्यं काष्ठवत् सदा //

niṣfalā netravikṣepā na kartavyāḥ kadācana / निध्यायन्तीव सदापि कार्या दृष्टिरधोगता //

दृष्टिविश्रामहेतोस्तु दिशः पश्येत् कदाअचन / आभासमात्रमालोक्य स्वागतार्थं विलोकयन् //

मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् / दिशो विश्रम्य विक्षते परावृत्यैव पृष्ठतः //

सरेदपसरेद्वापि पुरः पश्चान्निरुप्य च / एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् //

कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः / कथं कायः स्थित इति द्रष्टव्यः पुनरन्तरा //

निरुप्य सर्वयत्नेन चित्तमत्तद्विपस्तथा / धर्मचित्तो महास्तम्भे यथाअ बद्धो न मुच्यते //

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः / समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा //

भयोत्सवादिसम्बन्धे यद्यसक्तो यथासुखम् / दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् //

यद्बुद्ध्वा कर्तुमारब्धं ततो ऽन्यत्र विचिन्तयेत् / तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना //

एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् / असंप्रजन्यक्लेशो ऽपि वृद्धिं चैव गमिष्यति //

नानाविधप्रलापेषु वर्धमानेष्वनेकधा / कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् //

mṛṇmardanatṛṇacchedane khādyafalamāgatam / स्मृत्वा तथागतीं शिक्षां तत्क्षणाद्भीत उत्सृजेत् //

यदा चलितुकामः स्याद्वक्तुकामो ऽपि वा भवेत् / स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्यं युक्तिमत् //

अनुनीतं प्रतिहतं यदा पश्येत् स्वकं मनः / न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा //

उद्धतं सोपहासं वा यदा मानमदान्वितम् / सोत्प्रसातिशयं वक्त्रं वंचकं च मनो भवेत् //

यदात्मोत्कर्षणाभासं परपंशनमेव च / साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा //

लाभसत्कारकीर्त्यर्थि परिकारार्थि वा यदा / उपस्थानार्थि वा चित्तं तदाअ तिष्ठेच्च काष्ठवत् //

परार्थरुक्षं स्वार्थार्थि परिसत्काममेव वा / वक्तुमिच्छति सक्रोधं तदा तिष्ठेच्च काष्ठवत् //

असहिष्णुलसंभीतं प्रगल्भं मुखरं यदा / स्वपक्षाभिनिविष्टं वा तदा तिष्ठेच्च काष्ठवत् //

evaṃ saṃkliṣṭamālokya niṣfalārambhi vā manaḥ / निगृह्णीयाद्दृधं शूरः प्रतिपक्षेण तत्सदा //

सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् / सलज्जं सभयं शान्तं पराराधनतत्परम् //

परस्परविरुद्धाभिर्बालेच्छाभिरखण्डितम् / क्लेशोत्पादादिकं ह्येतदेषामिति दयान्वितम् //

आत्मसत्त्ववशं नित्यमनवद्येषु च वस्तुषु / निर्माणमिव निर्माणं धारयेन्मानसं सदा //

चिरात् क्षणवरं प्राप्तं स्मृत्वा स्मृत्वा मुहुर्मुहुः / धारयेदीदृशं चित्तमप्रकम्प्यं सुमेरुवत् //

गृद्धैरामिषसंगृद्धैः कर्ष्यमाण इतस्ततः / न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् //

कायनौ बुद्धिमाधाय गत्यागमननिश्रयात् / यथाकामं गमं कार्यं कुर्यात् सर्वार्थसिद्धये //

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् / त्यजेद् भृकुटिसंकोचं पूर्वाभाषी जगत्सुहत् //

स शब्दपातं सहसा न पिठादीन् विक्षिपेत् / nāsfālayet kapāṭaṃ ca syānniḥśabdaruciḥ sadā //

बको विडालश्चौरश्च निःशब्दो निभृतश्चरन् / प्राप्तो ह्यभिमतं कार्यमेवं नित्यं यतिश्चरन् //

परचोदनदक्षाणामनधीष्टोपकारिणाम् / प्रतीच्छेच्छिरसा बाह्यं सर्वशिष्यः सदा भवेत् //

सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् / पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् //

परोक्षे च गुणान् श्रूयादनुश्रूयाच्च तोषतः / स्ववर्णभाष्यमाणे च भावयेत्तद्गुणज्ञताम् //

सर्वारम्भा हि तुष्ट्यर्थाः स चित्तैरपि दुर्लभा / भुंज्यात्तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः //

न चात्रापि व्ययः कश्चित् परत्र च महत्सुखम् / द्वेषैरप्रीतिदुःखं तु महद्दुखं परत्र च //

विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् / श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् //

ऋजु पश्येत् सदा सत्त्वांश्चक्षणा संपिबन्निव / यस्मादेतान् समाश्रितान् संबुद्धत्वमवाप्नुयात् //

सातत्याभिनिशोत्थं प्रतिपक्षोत्थमेव च / गुणोपकारिक्षित्रे च दुःखिते च महच्छुभम् //

दक्ष उत्थानसम्पन्नः स्वयंकारी सदा भवेत् / नावकाशः प्रदातव्यः कस्यचित् सर्वकर्मसु //

उतरोत्तरतः श्रेष्ठा दानपारमितादयः / नैतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः //

एवं बुद्ध्वा परार्थेषु भवेत् सततमुत्थितः / निषिद्धमप्यज्ञातं कृपालोरर्थदर्शिनः //

विनिपातगतानाथान् व्रतस्थान् संविभज्य च / भुंजीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् //

सद्धर्मसेवकं कायमितरार्थं न पीडयेत् / एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् //

त्यजेन्न जीवितं तस्मादशुद्धे ऽकरुणाशये / तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते //

धर्मं निगौरवे ऽस्वस्थे न शिरोवेष्ठिते वदेत् / सछत्रदण्डशस्त्रं च नावगुण्ठितमस्तके //

गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना / हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् //

नोदारधर्मपात्रं च हीनधर्मे नियोजयेत् / न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् //

दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् / नेष्टं जले स्थले भोग्ये मूत्रादेशचापि गर्हितम् //

मुखपूरं न भुंजीत सशब्दं प्रसृताननम् / प्रलम्बपादं नासीत न बाहू मर्दयेत् समम् //

नैकयान्या स्त्रिया कुर्याद्यानं शयनमासनम् / लोकाप्रसादितं सर्वं दृट्वा पृट्वा स वर्जयेत् //

नांगुल्या कारयेत् किंचिद्दक्षिणेन तु सादरम् / समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् //

नवाह्नक्षेपकं किंचिच्छब्दयेदल्पसंभ्रमे / अच्छतादिं तु कर्तुव्यन्यथा स्यादसंहृतः //

नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा / संप्रजानन् लघूत्थानं प्रागवश्यं नियोगतः //

आचारो बोधिसत्त्वानामप्रमेयमुदाहृतम् / चित्तशोधनमाचारं नियतम् तावदाचरेच् //

रात्रिं दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् / शेषापत्तिसमस्तेन बोधिचित्तजिनाशयान् //

यो अवस्थाः प्रपद्यते स्वयं परवशो ऽपि वा / तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः / न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः //

न तदस्ति न यत्पुण्यमेव विहरतः सतः / पारंपर्येण साक्षाद्वा सत्त्वार्थान्नान्यदा चरेत् //

सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् / सदा कल्याणमित्रं च जीवीतार्थे ऽपि न त्यजेत् //

बोधिसत्त्वव्रतधरं महायानार्थकोविदम् / एतदेव समासेन संप्रजन्यस्य लक्षणम् //

यत्कायचित्तवस्थायाः प्रत्यवेक्ष्य मुहुर्मुहुः / यतो निवार्यते यत्र यदेव च नियुज्यते //

तल्लोकचित्तरक्षार्थं शिक्षाम् दृष्ट्वा समाचरेत् / सर्वमेतत् सुचरितं दानं सुगतपूजनम् / कृतं कल्पसहस्त्रैर्यत्प्रतिघ प्रतिहन्ति तत् //

न च द्वेषसमं पापं न च क्षान्तिसमं तपः / तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः //

मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते / न निद्रां न धृतिं याति द्वेषशस्ये हृदि स्थिते //

पूजयत्यर्थमानैर्यान् ये ऽपि चैनं समाश्रिताः / ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् //

सुहृदो ऽप्युद्विजन्ते ऽस्माद्ददाति न च सेव्यते / संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः //

एवमादीनि दुःखानि करोतीत्यरिसंज्ञया / यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च //

तस्मात् क्रोधबलं हत्वा रत्नत्रयप्रभावतः / बुद्ध्वा क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः //

नैवं द्विषः क्षयं यान्ति यावज्जीवमपि घ्नतः / क्रोधमेकं तु यो हन्यात्तेन सर्वद्विषो हताः //

[अल्पनिष्ठागमेनापि नतोत्पामुदिता सदा / दौर्मनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते //

यद्येव प्रतीकारो ऽस्ति दौर्मनस्येन तत्र किम् / अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् //

दुःखापकारपारुष्यमयशश्चेत्यनीप्सितम् / प्रियानामात्मना वापि शत्रोश्चैतद्विपर्ययात् //

कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः / दुःखेन बहिः निःसारस्तत्कार्यं मनो दृढम् / सत्त्वक्षेत्रं जिनक्षेत्रमित्याख्यातं मुनीश्वरैः / एता आराध्य संबुद्धाः सर्वे निर्वृतिमागताः //

[सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे सः / जिनेषु गौरवं यद्वन्नष्विति कः क्रमः //

आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिः नैव हि संशयो ऽस्ति / दृश्यन्त एते ननु सत्त्वरुपास्त एव नाथाः किमनादनात्र //

तथागताराधनमेतदेव लोकस्य दुःखापहमेतदेव / स्वार्थस्य संसाधनमेतदेव तत् साचरध्वं तमेवेदम् //

] यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् / तस्मादाराधरेत् सत्त्वान् भृत्यश्चण्डनृपं यथा //

कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा / यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते //

तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वं समं भवेत् / यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते / आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसंभवम् / इहापि सौभाग्ययशःसौस्थित्यं लभते क्षमी //

प्रासादिकत्वप्रामोद्यमारोग्यं चिरजीवितम् / चक्रवर्तिसुखस्थानं क्षमी प्राप्नोति संसरन् //

एवं क्षमो भवेद्वीर्यं वीर्ये बोद्धिर्यतः स्थितः / न हि वीर्यं विना पुण्यं यथा वायु विना गतिः //

किं विर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते / आलस्यकुत्सिता शक्तिर्विषादात्मावमन्यता //

अव्यापारसुखास्वादनिद्रयाश्रयतृष्णया / संसारदुःखानुद्वेगादालस्यमुपजायते //

तस्मादालस्यमुत्सृत्ज धृत्वा वीर्यं समाहितः / सर्वसत्त्वहिताधानं बोधिचर्याव्रतं चरेत् //

वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन / नैवास्ति तज्जगति विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यस्थाधिरुढः //

यद्धेषु यत्करितुरंगपदातिमत्सु नाराचतोमरश्वधसंकुलेषु / hatvā ripūn jayamanuttamamāpnuvanti visfurjitaṃ tadiha vīryaṃ mahābhaṭasya //

अम्भोनिधीन् मकरवृन्दविघट्टिताम्बुतुंगोकुलाकुलतरंगविभंगभीमान् / वीर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि //

रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः शीलं सज्जनचित्तनिर्मलतरं समादाय यन्मर्त्याः / कान्ततरे सुमेरुशिखरोपान्ते वीर्यान्वितास्तिष्ठन्ते सुरसिद्धसंघसहिताः संबोधिसत्त्वाः सुखम् //

यद्देवा वियति विमानवासिनो ऽन्ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् / atyantavipulafalaprasūtihetorvīryasthiravihitasya sā vibhūtiḥ //

इति मत्वा सदोत्साहं धृत्वा संबोधिसाधने / सर्वसत्त्वहिताधाने बोधिचर्याव्रते चरेत् //

लघु कुर्यात्तथात्मानमप्रमादकथां स्मरन् / कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र च तु ते //

यथैव तूलिकं वायोर्गमनागमने वशम् / तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति //

वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः / विक्षिप्तचित्तस्तु नरः क्लेशं दंष्ट्रान्तरे स्थितः //

कायचित्तविवेकेन विक्षेपस्य न संभवः / तस्माल्लोकान् परित्यज्य वितर्कान् परिवर्जयेत् //

स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया / तस्मादेतत्परित्यागे विद्वानेवं विचारयेत् //

शमथेन विपश्यनया सुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य / शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयभिरत्या //

कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति / येन जन्मसहस्त्राणि द्रष्टव्यो न पुनः प्रियः //

अपश्यन्नरतिं याति समाधौ न च तिष्ठति / न च तृप्यति दृष्ट्वापि पूर्ववद्बाधते तृषा //

न पश्यति यथाभुतं संवेगादवहीयते / दह्यते तेन शोकेन प्रियसंगमकांक्षया //

तच्चिन्तया मुधा याति ह्रस्वमायुमुहुर्मुहुः / अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः //

बालैः सभागचरितो नियतं याति दुर्गतिम् / नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् //

क्षणाद्भवन्ति सुहदो भवन्ति रिपवः क्षणात् / तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः //

अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् / ईर्ष्योत्कृष्टात्समाद्वन्द्वा हीनात्मानः स्तुतेर्मदः //

अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् //

आत्मोत्कर्षः परावर्णः संसाररतिसंकथा / इत्याद्यमवश्यमशुभं किंचिद्बालस्य बालता //

एवं मत्वा यतिर्धीमान्विहाय बालसंगमम् / बालाद्दूरं पलायेत् प्राप्तमाराधयेत्प्रियैः //

न संस्तवानुबन्धेत किंभूदासीनसाधुवत् / एकाकी विहरेन्नित्यम् सुखमक्लिष्टमानसः //

धर्मार्थमात्रादाय भृंगवत् कुसुमान् मधुः / अपूर्व इव सर्वत्र विहरेदप्यसंस्तुतः //

एवं यतिर्महासत्त्वः संसाररतिनिःपृहः / समाधिसत्सुखासक्तो विहरेद्बोधिमानसः //

क्लेशारिवर्गानभिभूय वीराः संबोधिलक्ष्मीपदमाप्नुवन्ति / बोध्यंगदानं प्रदिशन्तिं सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् //

जन्मप्रबन्धकर्णैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् / आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः //

जित्वा क्लेशारिवृन्दं शुभबलमथनं सर्वथा लब्धलक्षम् / प्राप्तः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभामन्यभूतैः //

सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्राः / ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुः सर्वे नरेन्द्राः //

मोहान्धकारं प्रविदार्यं शश्वज्ज्ञानावभासम् कुरेते समन्तात् / संबुद्धसुर्यस्सूरमानुषाणां हेतुः स तत्र प्रवरस्समाधिः //

इति मत्वा समाधाय क्लेशावरणहानये / विमार्गाच्चित्तमाकृष्य समाधौ स्थाप्य प्राचरेत् //

इमं परिकरं समाधौ स्थाप्य प्राचरेत् //

इमं परिकरं सर्वं प्रज्ञार्थं हि जगद्धिते / तस्मादुत्पादयेत् प्रज्ञां दुःखनिर्वृतिकांक्षया //

संवृत्तिः परमार्थश्च सत्यद्वयमिदं मतम् / बुद्धेरगोचरं तत्त्वं बुद्धिसंस्मृतिरुच्यते //

तत्र लोको द्विधादृष्टो योगी प्राकृतकस्तथा / तत्र प्राकृतको लोको यगिलोकेन बाध्यते //

बाध्यन्ते धीविशेषेण योगिनो ऽप्यत्तरोत्तरैः / दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः //

लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः / न तु मायावदित्यत्र विवादो योगिलोकयोः //

इति मत्वा यतिर्धिमान् सर्वं मायाभिर्निर्मितम् / प्रज्ञारत्नं समासाद्य संचरेत जगद्धिते //

प्रज्ञाधनेन विकुलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः / buddhayānvitasya falamiṣṭamudeti vīryādvīryaṃ hi buddhirahitaṃ svavadhāya śatruḥ //

यो ऽनेकजन्मान्तरितं स्वजन्मभूतंभविष्यत्कुलनामगोत्रैः / मध्यान्तमाद्यपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः //

यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् / ज्ञानालोकं करोति प्रहरति च सदादोषवृन्दं नराणाम् //

आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः / प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमुत्कीर्तयन्ति //

कार्यार्णवे ऽपि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः / प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूताः //

प्रज्ञाबलेनैव जिनाः जयन्ति घोरं सुदुष्टं च मारसैन्यम् / प्रज्ञाविशेषेण जना विभान्ति प्रज्ञा हि ख्याता जननी जिनानाम् //

तस्मात् सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् / यत्प्रज्ञाविकला विभान्ति पुरुषाः प्रातःप्रदीपा इति //

स्वर्गापवर्गगुणरत्ननिधनभूता एताः षडेव भुवि पारमिता नराणाम् / ज्ञात्वा नरः स्वहितसाधनतत्परः स्यात्कुर्यादतः सततमाशु दृढं प्रयत्नम् //

एतद्धि परमं शिक्षासंवरं बोधिचारिणाम् / मया प्रज्ञप्तमानन्द धातव्यं बोधिप्राप्तये //

य एतत्परमाचारं धृत्वा सम्बोधिमानसाः / त्रिरत्नशरणे स्थित्वा संचरन्ते जगद्धिते //

ते भद्रश्रीगुणाधाराः शीलवन्तः शुभेन्द्रियाः / क्षान्तिसौरभ्यसंवासाः सदोत्साहा हिताशयाः //

निःक्लेशा निर्मलात्मानो महासत्त्वा विचक्षणाः / प्रज्ञावन्तो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः //

त्रिविधां बोधिमासाद्य संबुद्धालयमाप्नुयुः / एतच्छास्त्रा समादिष्टं श्रुत्वानन्दो ऽभिबोधितः //

भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् / भगवन् भवताज्ञप्तं संबुद्धपदसाधनम् / शिक्षासंवरमाधाय ये चरन्ति सदा शुभे //

त एव सुभगा धन्याः शिक्षासंवृतिकौशलाः / विनयाभिमुखाः सन्तः सद्धर्मकोशधारिणः //

जिनात्मजा महाभिज्ञाः अर्हन्तो निर्मलेन्द्रियाः / बोधिसत्त्वा महासत्त्वा भवन्ति बोधिलाभिनः //

तेषामेव सदा भद्रं सर्वत्रापि भवेद् ध्रुवम् / सद्धर्मसाधनोत्साहं निरुत्पातं निराकुलम् //

तेषां भूयात् सदा भद्रं बोधुइश्रीगुणसाधनम् / त्रिरत्नशरणे स्थित्वा ये चरन्ति जगद्धिते //

इत्यानन्दसमाख्यातं श्रुत्वा स भगवन् मुदा / आयुष्मन्तं तमानन्दं समालोक्यैवमादिशत् //

एवमेव सदा तेषाम् भद्रम् संबोधिसाधनम् / धर्मश्रीगुणसम्पन्न भवेन्नुनं भवालये //

इति सत्यं परिज्ञाय यूयं सर्वे ऽभिबोधिताः / त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते //

एवं मयोक्तमादाय चरध्वे यदि सर्वदा / नूनं सम्बोधिमासाद्य संबुद्धपदमाप्स्यथ //

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः / तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः //

अथ ते सांघिकाः सर्वे आनन्दप्रमुखाः मुदा / नत्वा पादौ मुनीन्द्रस्य स्वस्वध्यानालयं ययुः //

भगवानपि तान् वीक्ष्य सर्वान् ध्यानालयाश्रीतान् / गत्वा ध्यानालयासीनस्तस्थौ ध्यानसमाहितः //

इत्येवं मे समाख्यातं गुरुणा शाणवासिना / श्रुतं मया तथाख्यातं श्रुत्वानुमोद भूपते //

प्रजा अपि महाराज श्रावयित्वा प्रबोधयन् / त्रिरत्नभजनोत्साहे चारयित्वानुपालय //

तथा चेत्ते सदा राजन् धर्मश्रीगुणसंयुतम् / शुभोत्साहं निरातंकं भवेद् ध्रुवं समन्ततः //

त्वमपि बोधिसंभारं पुरयित्वा यथाक्रमम् / जित्वा मारगणानर्हन् बोधिं प्राप्य जिनो भवेः //

इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः / तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः //

// इति शिक्षासंवरसमुद्देशप्रकरणं समाप्तम् //

20. फलश्रुतिः

अथ भूयः स राजेन्द्रो भूपो ऽशोकः कृतांजलिः / उपगुप्तं तमर्हन्तं नत्वालोक्येदमब्रवीत् //

भदन्त लोकनाथो ऽसौ यदावलोकितेश्वरः / इति नाम्ना प्रसिद्धो ऽभूत्तत्केन समुपादिश //

इति संप्रार्थिते राज्ञा यतिः सो ऽर्हन्महामतिः / अशोकं तं महाराजं समालोक्यैवमादिशत् //

शृणु राजन् महाभाग यथा मे गुरुणोदितम् / तथाहं ते प्रवक्ष्यामि श्रुत्वानुबोधितो भव //

षड्गतिसम्भवा लोकास्त्रैधातुभुवनाश्रिताः / तेषां ये दुःखिता दुष्टाः क्लेशाग्निपरितापिताः //

तान् सर्वान् स जगन्नाथः कृपादृष्ट्यावलोकयत् / तेनावलोकितेशाख्यः प्रसिद्धस्त्रिजगत्स्वपि //

ये ये सत्त्वा जगद्भर्त्रा कृपादृष्ट्यावलोकिताः / ते ते सर्वे विकल्माषा भवेयुर्विमलाशयाः //

ये ऽप्यस्य त्रिजगच्छास्तुः शृणुयुर्नाम् सादरम् / विमुक्तपातकास्ते स्युर्निःक्लेशा विमलेन्द्रियाः //

दुःखाग्नौ पतितो यो ऽपि स्मृत्वा लोकेश्वरं भजेत् / तदा तं स महासत्त्वः कृपादृष्ट्यावलोकयन् //

तदा स सहसा तस्माद्दुःखाग्नेः परिमुक्तितः / शुद्धेन्द्रियो विशुद्धात्मा भवेत् संबोधिमानसः //

यो नद्या प्रोह्यमाणो ऽपि क्रन्देल्लोकेश्वरं स्मरन् / तदा स बोधिसत्त्वस्तं कृपादृष्ट्यावलोकयेत् //

तदा दद्यान्नदी तस्य गाधं सन्तरणार्थिनः / ततः स सहसोत्तीर्य स्मृत्वा धर्मरतो भवेत् //

यदा च वणिजः सार्था नौकारुढा महाम्बुधौ / रत्नार्थिनो महोत्साहैः संक्रमेयुर्यथाक्रमम् //

तत्र नौः कालिकावातैः प्रेर्यमाणाम् विलोलिता / तरसा राक्षसीद्वीपसमीपं समुपाचरेत् //

तदा तेषां महाधीरः स्मृत्वा लोकेश्वरं नमेत् / लोकेशस्तान्स्तदा सर्वान् कृपादृष्ट्यावलोकयन् //

ततस्ताः कालिका वाता न चरेयुः प्रसादिताः / ततो नौ सवणिक्सार्था स्वस्ति रत्नाकरं व्रजेत् //

तत्र ते वणिजः सर्वे लब्धरत्नाः प्रमोदिताः / स्वस्ति प्रत्यागताः स्वस्ति समियुः स्वपुरं लघु //

यदि दैवाद्विपत्तिः स्यात् सर्वतीर्थजलाश्रये / मृतास्ते शोषितात्मानः संप्रयायुः सुखावतीम् //

यश्च दुष्टो वधात् सृष्टो गृहीतो वध्यघातकैः / भीतो लोकेश्वरं स्मृत्वा ध्यात्वा नामाप्युदाहरेत् //

तदा लोशेश्वरस्तं स कृपादृष्ट्यावलोकयेत् / ततस्ते घातकाः सर्वे तं हन्तुं नाभिशक्नुयुः //

यदि विघातितो दैवात् त्यक्त्वा पापाश्रयां मृतः / शुद्धाशयो विशुद्धात्मा संप्रयायात् सुखावतीम् //

सर्वे यक्षाश्च गन्धर्वाः कुम्भाण्डा राक्षसा अपि / किन्नरा गरुडा नागा भूताः प्रेताः पिशाचिकाः //

लोकेश्वरस्य भक्तारं ध्यातारं स्मृतिभाविनम् / नामोच्चारणकर्तारं द्रष्टुमपि न शक्नुयुः //

यश्चापि निगडैर्बद्धा स्थापितो बन्धनालये / स्मृत्वा लोकेश्वरं द्यात्वा तिष्ठेन्नामाप्युदाहरेत् //

तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् / तदा स बन्धनान्मुक्तो धर्माभिरततो भवेत् //

यश्चारण्ये गृहे वापि चौरैर्धूतैरुपद्रुते / स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् //

तत्क्षणे लोकनाथस्तं कृपादृट्यावलोकयेत् / तदा ते धूर्तकाश्चौराः सर्वे यायुः पराङ्मुखाः //

यश्च रोगी सदा दुष्टः कुष्ठव्याध्याचिताश्रयः / स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् //

तत्क्षेणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् / तदा स व्याधितो मुक्तो नीरोगी पुष्टितेन्द्रियः //

शुद्धाशयो विशुद्धात्मा भवेत् संबोधिमानसः / यदि दैवाद्विपत्तिः स्याद्धित्वा दुःखाश्रयं तनुम् / शुद्धाशयो विशुद्धात्मा संप्रयायात् सुखावतीम् //

यश्च दरिद्रितो दुःखी दीनो ऽनाथो दुराश्रयः / स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् //

तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् / तदा स श्रीगुणोत्पन्नो भवेत् साअधुः शुभेन्द्रियः //

यश्च संग्राममध्ये ऽपि शत्रुभिः परिवेष्टित / स्मृत्वा लोकाधिपं ध्यात्वा नमेन्नामाप्युदाअहरेत् //

तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् / तदा सो ऽरीन्विनिर्जित्य लब्ध्वा रमेज्जयश्रियम् //

यश्चापि दह्यमानेषु गृहोद्यानाश्रमेष्वपि / स्मृत्वा लोकाधिपं ध्यात्वा नाम प्रोच्चारयन्नमेत् //

तत्काले लोकनाथस्तं कृपादृष्ट्यावलोकयेत् / तदा स सहसा वह्निस्कन्धः शाम्येन्निराकुलः //

विवादे कलये वापि परिभूते ऽपि दुर्जनैः / स्मृत्वा लोकेश्वरं ध्यात्वा नाम प्रोच्चारयन्नमेत् //

तत्क्षणे लोकशास्ता तं कृपादृष्ट्यावलोकयेत् / तदा स विजयन् सर्वान् संस्थापयेन्निजे वशे //

यश्च क्लेशाग्निसंतप्तो व्याकुलेन्द्रियमानसः / स्मृत्वा लोकप्रभुं ध्यात्वा नमेन्नामाप्युदाहरन् //

तत्क्षणे तं महासत्त्वो दयादृष्त्यावलोकयेत् / तदा निःक्लेशभद्रात्मा भवेद्भद्रेन्द्रियः सुधीः //

यो ऽपुत्रः पुत्ररत्नार्थी तं लोकेशं शरणं गतः / स्मृत्वा ध्यात्वा यथाशक्ति भजेन्नामान्युदाहरन् //

तदा स त्रिजगद्भर्ता कृपादृष्ट्यावलोकयेत् / दद्यात्तस्मै पुत्ररत्नं महासत्त्वं जगत्प्रियम् //

सुतार्थिने ऽपि सत्पुत्रीं रमाकारां शुभेन्द्रियाम् / सर्वसत्त्वप्रियां कान्तां साध्वीं दद्याज्जगत्प्रभुः //

विद्यार्थी लभते विद्यां धनार्थि लभते धनम् / राज्यार्थी लभते राज्यं लोकेशभक्तिमानपि //

द्रव्यार्थी लभते द्रव्यं गुणार्थी लभते गुणम् / भोग्यार्थी लभते भोज्यं गृहार्थी लभते गृहम् //

एवमन्यानि वस्तूनि सर्वोपकरणान्यपि / यथाभिवांछितं सर्वं लभेल्लोकेशभक्तिमान् //

तेनासौ त्रिजगन्नाथ आर्यावलोकितेश्वरः / इति प्रख्यापितः सर्वैर्धर्मराजैमुनीश्वरैः //

एवं महत्तरं पुण्यं लोकेशभक्तिभाविनाम् / अप्रमेयमसंख्येयं संबुद्धपदसाधनम् //

इत्येवं सुगतैः सर्वैः समादिष्टं समन्ततः / बोधिसत्त्वैर्महाभिज्ञैः सर्वैश्चापि प्रशंस्यते //

इति मत्वा महाराज लोकनाथस्य सर्वदा / शरणे समुपाश्रित्य भजस्व श्रद्धया मुदा / यस्य लोकेश्वरे भक्तिस्तस्य पापं न किंचन / दुष्टक्लेशभयं नापि निर्विघ्नं सत्सुखं सदा //

सर्वे दुष्टगणा माराः क्षीयन्ते सर्वतः सदा / यमदूतादयश्चापि पलायेयुः पराङ्मुखाः //

लोकेशभ्क्तिभाजांश्च पुण्यधारा निरन्तरा / अप्रेया असंख्येयाः प्रवर्धन्ते दिवानिशम् //

एतत्पुण्यानुभावैस्तु सद्धर्मस्तेन लभ्यते / तत्सद्धर्मानुभावेन संबुद्धो दृश्यते ऽग्रतः //

ततो बुद्धानुभावेन बोधिचित्तं सुलभ्यते / बोधिप्रणिधिचित्तेन चर्यन्ते बोधिचारिकाः //

क्रमात् संबोधिसंभारं पूरयित्वा यथाक्रमम् / सर्वान् क्लेशान् विनिर्जित्याअचतुर्मारगणानपि //

सर्वत्र वशिता प्राप्ता धारणीगुणसंयुता / दशभूमीश्वरो भूत्वा संबोधिं समवाप्नुयात् //

इति मत्वा महाभिज्ञो लोकेश्वरो जिनात्मजः / भजनीयः सदा सद्भिः संबुद्धपदवांछिभिः //

ये भजन्ति सदा नित्यं लोकेश्वरं जगत्प्रभुम् / तेषां नैव भयं किंचित्सर्वत्र सर्वदापि हि //

रक्षेयुस्तं समालोक्य ब्रह्यादयो महर्षयः / शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि //

रक्षेयुरग्नयो ऽप्येनं लोकेशभक्तिभाविनम् / धर्मराजादयः प्रेताः सर्वे निशाचरा अपि //

वरुणाश्च हि राजाश्च सर्वे वायुगणा अपि / सर्वे श्रीदादयो यक्षाः सर्वे भूताधिपा अपि //

सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः / सर्वे सिद्धाश्च साध्याश्च रुद्रा विद्याधरा अपि //

धृतराष्ट्रादयः सर्वे गन्धर्वा अपि सर्वदा / विरुढकादिकुम्भाण्डा रक्षेयुस्तं सदानुगाः //

विरुपाक्षादयः सर्वे नागेन्द्रा गरुडा अपि / कुवेरप्रमुखाः सर्वे यक्षा अपि समादरात् //

द्रुमादिकिन्नराः सर्वे वेमचित्रादयो ऽसुराः / सर्वे पैशाचिकाश्चापि रक्षेयुस्तं समाहितः //

सर्वे मातृगणाश्चापि सकुमारगणाधिपाः / सर्वे ऽपि भैरवाः सर्वे महाकालगणा अपि //

सडाकडाकिनीसंघाः सर्वे कापालिका अपि / सर्वे वैताडिकाश्चापि दृष्ट्वा चेयुस्तमादरात् //

तथा च योगिनः सिद्धा अविकल्पा जितेन्द्रियाः / दूराद्दृष्ट्वाभिरक्षेयुस्तं लोकेशशरणाश्रितम् //

वज्रपाण्यादयो वीराः सर्वमन्त्रार्थसाधकाः //

रक्षेयुस्तं समालोक्य लोकेशभक्तिचारिणम् //

यतयस्तीर्थिकाश्चापि तापसा ब्रह्मचारिणः / वैष्णवा अपि शैवाश्च लिंगिनो व्रतिनो ऽपि च //

दूरादपि तमालोक्य भक्तिमन्तं जगत्प्रभोः / प्रणत्वा प्रांजलिं धृत्वा प्रशंसेयुः समादरात् //

अर्हन्तो भिक्षवश्चापि दृष्ट्गा तं दूरतो मुदा / धन्यो ऽसीति समाराध्य प्रकुर्युरभिनन्दितम् //

श्रावकाश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः / दूरतस्तं महाभागं दृष्ट्व नमेयुरानताः //

सर्वे चापि महासत्त्वा बोधिसत्वा जिनात्मजाः / वरदानैस्तमाराध्य चारयेयुर्जगद्धिते //

प्रत्येकसुगतश्चापि दृष्ट्वा तं बोधिभागिनम् / समालोक्य समाश्वास्य प्रेरयेयुः सुसंवरे //

संबुद्धा अपि सर्वे तं संबुद्धपदलाभिनम् / दृष्ट्वाभिनन्द्य सद्धर्मे नियुज्यावेयुराभवम् //

एवमस्य जगद्भर्तुर्लोकेशस्य महात्मनः / सद्धर्मगुणमाहात्म्यं सर्वबुद्धैः प्रशंस्यते //

एवं महत्तरं पुण्यं लोकेशभजनोद्भवम् / मत्वा सदानुमोदित्वा श्रोतव्यम् बोधिवांछिभि //

इदं सर्वं महायानसूत्ररत्नं सुभाषितम् / शृण्वन्ति श्रद्धया ये ऽपि कलौ पंचकषायिते //

दुर्गतिं ते न गच्छिन्त कदाचन कथंचन / सदा सद्गतिसंजाता भवन्ति भद्रचारिणः //

लोकेशस्य जगच्छास्तुः सर्वदा शरणे स्थिताः / ध्यात्वा नाम समुच्चार्य स्मृत्वा भजेयुराभवम् //

एतत्पुण्यानुलिप्तास्ते भद्रश्रीसद्गुणालयाः / सद्धर्मसुखसंपत्तिं भुक्त्वा यायुः सुखावतीम् //

एनं यः सकलांल्लोकांच्छ्रावयति प्रबोधयन् / सो ऽपि न दुर्गतिं याति याति सद्गतिमेव हि //

एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः / सद्धर्मसुखसंपत्तिं भुक्त्वा यायात् सुखावतीम् //

यश्चापीदं कलौ काले निरपेक्षाः स्वजीविते / सभामध्ये समासीनो भाषेत् सूत्रसुभाषितम् //

सो ऽप्येतत्पुण्यशुद्धात्मा यायान्न दुर्गतिं क्वचित् / सदा सद्गतिसंजातो भद्रश्रीसद्गुणाश्रयः //

सर्वसत्त्वहिताधानं सद्धर्ममेव साधयन् / शुभिओत्साहसहत्सौख्यं भुक्त्वा यायात् सुखावतीम् //

तत्रामितरुचेः शास्तुः सर्वे शरणे स्थिताः / सदा धर्मामृतं पीत्वा चरेयुर्बोधिसंवरम् //

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् / भवेयुः सर्वे लोकेशा दशभूमीश्वरा अपि //

ततस्ते निर्मलत्मानो बोधिसत्त्वा जिनात्मजाः / भवेयुयुस्त्रिगुणाभिज्ञा महासत्त्वाः शुभेन्द्रियाः //

क्लेशान् मारगणान् सर्वान् जित्वार्हन्तो निरंजनाः / त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः //

ये ऽपि वेदमहायानसूत्रराजं लिखेन्मुदा / तेनापि लिखितं सर्वमहायानसुभाषितम् //

लेखापितं च येनेदं सूत्रराजसुभाषितम् / तेन लेखापितं ज्ञानं सर्वं महायानसुभाषितम् //

लिखितं वापि येनेदं प्रातिष्ठाप्य यथाविधि / शुद्धस्थाने गृहे स्थाप्य पूजांगैः सर्वदार्चितम् //

तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि / ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु //

यश्चापीदं स्वयं धृत्वा परेभ्यो ऽपि समादिशेत् / भावयेत् सततं स्मृत्वा ध्यात्वापि प्रणयेन् मुदा //

तस्य सर्वे मुनीन्द्राश्च प्रत्येकसुगता जिनाः / अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितम् //

यश्चैतदुपदेष्टारं सर्वांश्च श्रावकानपि / यथाविधि समभ्यर्च्य भोजनैः परितोषयेत् //

तेन सर्वे ऽपि संबुद्धाः प्रत्येकसुगता अपि / अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः //

बोधिसत्त्वाश्च सर्वे ऽपि व्रतिनो यतयो ऽपि च / अभ्यर्च्य भोजनैर्नित्यं भवेयुः परितोषिताः //

किमेवं बहुनोक्तेन सर्वे बुद्धाः मुनीश्वराः / सर्वाः पारमिता देव्यः सर्वे संघा जिनात्मजाः //

नित्यं तेषां समालोक्य कृपादृष्ट्यानुमोदिताः / रक्षां विधाय सर्वत्र वरं दद्युर्जगद्धिते //

लोकपालाश्च सर्वे ऽपि सर्वे देवाश्च दानवाः / रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधिनाम् //

राजानो ऽपि सदा तेषां रक्षां कृत्वानुमोदिताः / यथाभिवांछितं कृत्वा पालयेयुः समाअदरात् //

मन्त्रिणो ऽपि सदा तेषां सामात्यसचिवानुगाः / सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः //

सर्वे वैश्याश्च सर्वार्थभर्तारः स्युः सुहृत्प्रियाः / श्रेष्ठिमहाजनाः सर्वे भवेयुर्हितकारिणः //

द्विषो ऽपि दासतां यायुर्दुष्टाश्च स्युर्हिताशयाः / एवमन्ये ऽपि लोकाश्च सर्वे स्युर्मैत्रमानसाः //

पशवः पक्षिणश्चापि सर्वे कीटाश्च जन्तवः / नैव तेषां विरुद्धाः स्युर्भवेयुर्हितशंसिनः //

एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनाम् / निरुत्पातं शुभोत्साहं सौमांगल्यं सदा भवेत् //

एवं भद्रतरं पुण्यं लोकेशभजोनोद्भवम् / मत्वा तं त्रिजगन्नाथं भजस्व सर्वदा स्मरन् //

ये तस्य शरणे स्थित्वा ध्यात्वा समाहिताः / नामापि च समुच्चार्य भजन्ति श्रद्धया सदा //

तेषां स्युः सुप्रसन्नानि त्रिरत्नान्यपि सर्वदा / कृपादृष्ट्या समालोक्य कृत्वा चेयुः शुभं सदा //

एतच्छास्त्रा समादिष्टमुपागुप्तेन भिक्षुणा / श्रुत्वाशोकः स भूमीन्द्रः प्राभ्यननदन् प्रबोधितः //

सभा सर्वावती सापि श्रुत्वैतत् संप्रसादिता / तथेति प्रतिवन्दित्वा प्राभ्यनन्दत् प्रबोधिता //

ततस्ते सकला लोकाः समुत्थाय प्रमोदिताः / उपगुप्तं तमर्हन्तं नत्वा स्वस्वालयं ययुः //

ततः प्रभृति राजा स लोकेशं सर्वदा स्मरन् / ध्यात्वा नाम समुच्चार्य प्राअभजत् पालयन् प्रजाः //

तदा तस्य नरेन्द्रस्य विषये तत्र सर्वदा / निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः //

इति जयश्रियादिष्टं निशम्य स ससांघिकः / जिनश्रीराज आत्मज्ञः प्राभ्यनन्दत् प्रबोधितः //

ततश्चासौ महाभिज्ञो जयश्रीः सुगरातात्मजः / सर्वान् संघान् समालोक्य पुनरेवं समादिशत् //

यत्रेदं सूत्रराजेन्द्रं प्रावर्तयेत् कलावपि / भाषेद्यः शृणुयाद्यश्च श्रावयेद्यश्च प्रचारयेत् //

एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा / कृपादृष्ट्या समालोक्य कुर्वन्तु भद्रमाभवम् //

सर्वाः पारमितादेव्यस्तेषां तत्र सदा शिवम् / कुर्वन्त्या बोधिसंभारं पूरयन्तु जगद्धिते //

सर्वे ऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि / अर्हन्तो योगिनस्तेषां भद्रं कुर्वन्तु सर्वदा //

ब्रह्मदिलोकपालश्च सर्वे चापि महर्षयः / तत्र तेषां च सर्वेषां कुर्वन्तु मंगलं सदा //

काले वर्षन्तु मेघाश्च भूयाच्छस्यवती मही / निरुत्पातं महोत्साहं सुभिक्षं भवतु ध्रुवम् //

bahukṣīrapradā gāvo vṛkṣāḥ puṣpafalānvitāḥ / औषध्यो रसवीर्याद्या भूयात्सुस्तत्र सर्वदा //

भवन्तु प्राणिनः सर्वे आरोग्यचिरजीविनः / सर्वद्रव्यसमापन्नाः श्रीमन्तो भद्रचारिणः //

राजा भवतु धर्मिष्ठो मन्त्रिणो नीतिचारिणः / सर्वे लोकाः सुवृत्तिस्था भवन्तु धर्मसाधिनः //

मा भुत्कश्चिद्दुराचारश्चौरो दुष्टश्च वंचकः / दरिद्रो दुर्भगो दीनो मदमानाभिगर्वितः //

सर्वे सत्त्वाः समाचाराः परिशुद्धत्रिमण्डलाः / स्वस्वकुलव्रतारक्षाः प्रचरन्तु जगद्धिते //

सर्वे भद्राशयाः सन्तः संबोधिव्रतचारिणः / त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे //

इति जयश्रियाख्यातं श्रुत्वा सर्वे ऽपि सांघिकाः / एवमस्त्विति विज्ञप्य प्राभ्यनन्दन् प्रमोदिताः //

// इति जिनश्रीराजपरिपृष्टजयश्रीसंप्रभाषित- श्रीमदार्यावलोकितेश्वरगुणकारण्डव्यूहसूत्रराजं समाप्तम् //

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निरोधं एवंवादी महश्रमणः //

// शुभमस्तु //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.