Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

गुह्यसमाजमण्डलविधि

Tác giả
दीपंकरभद्र
Thông tin
GRETIL — : MS Niedersäsische Staats- und Universitätsbibliothek Göttingen, Cod. ms. sanscr. 257 Additional References: Dhīḥ 42 (2006:109-154).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

दीपंकरभद्र: गुह्यसमाजमण्डलविधि

दीपंकरभद्रऽस् गुह्यसमाजमण्डलविधि

नमो वज्रसत्त्वाय ॥

ज्ञेयाद्यावृतिनिर्मुक्तं ज्ञानादर्शादिसंयुतम् । मञ्जुश्रीगुह्यसच्चक्रं नत्वा तद् वच्मी मत्स्मृतौ ॥ 1

श्रीमत्समाजसन्नीत्या चक्राम्नातक्रमाद् अतः । उदकाद्यम् अनुज्ञान्तं यो ऽभिषिक्तो गुरोस् ततः ॥ 2

तत्त्वाप्तौ गुह्यचक्रे ऽस्मिन् गुह्यप्रज्ञाभिषेकतः । गुह्यज्ञो योगतत्त्वज्ञस् त्रियानसन्धितत्त्ववित् ॥ 3

विद्याहृन्मन्त्रमुद्राणां समाधित्रितयस्य च । सामान्येतरसिद्धीनां तन्त्रनीत्या विभागवित् ॥ 4

समयसंवरस्थो वा प्रज्ञायोगसुतत्परः । मन्त्रतन्त्रप्रयोगज्ञो भव्यः सत्त्वार्थसाधने ॥ 5

योगधैर्यादियुक्तो ऽपि प्रोक्तैर् गुणैर् अनन्वितः । सत्त्वार्थे नैव भव्यो यत् सद्भिस् तैः स्युर् गुणा ह्य् अमी ॥ 6

कृपावान् सुव्रतो जापी श्राद्धो गम्भीरतत्त्ववित् । पूर्वसेवां स्वचक्रस्थः कृत्वा मण्डलम् आलिखेत् ॥ 7

क्वचिन् मनोऽनुगे स्थाने दिग्धे सच्चन्दनादिभिः । सुगन्धिकुसुमाकीर्णे प्राक् प्रअतर् विनिवेश्य च ॥ 8

विमोक्षमुखसंशुद्धौ हृदीन्दौ मं प्रभोज्ज्वलम् । ध्यात्वा शुभाभिवृद्ध्यर्थं प्रकुर्याद् देशनादिकम् ॥ 9

सर्वदिक्त्र्यध्वसंभूतबुद्धानां पुरतः स्थितः । हृद्प्रभोद्भवरूपाद्यैः पूजां कृत्वा विधानतः ॥ 10

स्वासत्संकल्पमात्रोत्थं त्र्यध्वजं दुष्कृतं कृतं । स्वप्नस्वप्नादिवत् सर्वं त्रिष्कृत्य देशयाम्य् अहम् ॥ 11

संबुद्धसत्सुतार्याणाम् अन्येषां यच् चुभं शुभम् । निःशेषम् अनुमोद्याहं संबोधौ नामयाम्य् अनु ॥ 12

याचे ऽहं सर्वबुद्धानां सर्वाशाश्वासदायिका । देशनाकाशसंस्थानां भातु लोके ऽखिले ऽनघा ॥ 13

शुद्धनिःशेषसंकल्पान् प्रत्यात्मानन्दवेदिनः । सम्बुद्धान् शरणं यामि स्वपरार्थफलप्रदान् 14

सत्सत्त्वाशेषसद्धर्मम् आगमाधिगमात्मकम् । सत्सम्पदाश्रयाचिन्त्यं शरणं समुपैम्य् अहम् ॥ 15

प्राप्ताश्वासम् अवैवर्त्यं निष्यन्दादिफलैर् युतम् । गुह्याभिषेकजं चैव गतो ऽस्मि शरणं गणम् ॥ 16

मुनीन्द्रसूनुसन्मार्गं चर्यानन्ताग्रबोधकम् । सर्वबुद्धात्मसद्बुद्ध्या समाश्रितो ऽस्म्य् अतो ऽधुना ॥ 17

सर्वावृतिसमुद्घात्यनन्तज्ञानामृतास्पदम् । भ्रमिदृष्टिप्रबोधाय बोधौ सर्वं दधे मनः ॥ 18

बोधिचित्ताच् च बुद्धत्वं फलहेतोर् असङ्गतः । प्रत्यात्मवेद्यधर्मत्वाच् छून्यज्ञानात्मको ह्य् अहम् ॥ 19

ओं शून्यताज्ञानवज्रस्वभावात्मको ऽहम् ।

हूङ्कारं चाप्य् अथोष्णीषान् शाश्वतादिकम् एव च ॥ रक्षार्थं क्रोधचक्रस्थो ध्यायाद् विघ्नान् प्रमर्दयन् ॥ 20 धर्मधातुं ततो ध्यायात् त्र्यश्रं शुक्लोर्ध्वसंस्थित । दिक्चक्रवर्तिचित्राभं अन्तःखाधोऽब्जवज्रगम् ॥ 21

तत्र भ्रूङ्कारचक्रोत्थसविद्यशाश्वतोद्भवम् । स्फरद्बुद्धौघखव्यापि चतुरश्रादिसंयुतम् ॥ 22

शशिसूर्यसमाक्रान्तं विश्वाब्जदेवतासनम् । विभक्ताशेषसद्रत्नं कूटागारं प्रभावयेत् ॥ 23

स्वरलक्षणसंयुक्तं कादिव्यञ्जनरश्मिकम् । मध्यचन्द्रासने चित्तं ज्ञानचन्द्रं विभाव्य तत् ॥ 24

तत्राद्यहृद्भवं वज्रं रक्तम् आद्यहृदा युतम् । कृतजिनाभदेह्यर्थस् तदहङ्कृतिमान् स्वयम् ॥ 25

स्फतिकेन्द्वङ्गमूलास्यं नीलसव्येतरारुणम् । सर्वाकारवरोदारं सद्गुणाभरणाम्बरम् ॥ 26

द्विभुजाश्लिष्टसत्प्रज्ञं वज्रपर्यङ्कसुस्थिरम् । वज्रखड्गभुजं सव्ये वामे सन्मणिपद्मिनम् ॥ 27

प्रज्ञोपायात्मकं श्रिमज् जगत्सम्पत्समाश्रयम् । समन्तभद्रम् आत्मनं भावयेत् स्फरणत्विषम् ॥ 28

महारागविनेयं तल् लोकम् आलोक्य भाजनं । सुरतध्वनिना स्वान्तर् जिनवृन्दं निवेशयेत् ॥ 29

तल् लोचनादिसद्विद्या रूपादिविषयात्मभिः । प्रोत्सृज्य नवधा देवीः स्वविद्यान्तर् निवेशयेत् ॥ 30

स्वयोषित्पद्मकर्कट्यां सुरतोद्भवमण्डलम् । निर्मायात्र जगत् कृत्स्नम् आश्वासाय प्रवेशयेत् ॥ 31

खव्यापिबुद्धसन्मित्रैः स्ववज्रान्तर्द्रवोद्भवैः । सेवयेद् अविवर्त्यर्थं तत्त्वज्ञानफलाप्तये ॥ 32

आश्वस्तं तज् जगद् दृष्ट्वा बीजैश् चातः स्वभावजैः । उत्सृजेत् सर्वसत्त्वांश् च जगच्चित्तात्मभावजान् ॥ 33

क्षितिगर्भादिकान् षट्कांश् चक्षुरादिस्वभावकान् । क्षिं ज्रं खं गं स्कं इत्य् एभिः सं-बीजाच् च यथाक्रमम् ॥ 34

रूपवज्रादिकान् षट्कान् बाह्याध्यात्मस्वभावजान् । जः हूं वं होः खं इत्य् एतै रं-बीजाच् च बहिः स्थितान् ॥35

लोचनाद्यास् तु ता विद्याः पृथिव्यादिस्वभावजान् । लां मां पां ताम् इति त्व् एभिर् जगद्धर्मात्मतत्त्वजाः ॥ 36

शाश्वताद्यांस् तु संबुद्धान् रूपादिस्कन्धस्वभावजान् । बुं-आं-ज्रीं-भिश् च खं-हूं-भ्यां सर्वधर्मान् समुत्सृजेत् ॥ 37

ओं आः हूं इति तच् चित्तं भास्वद्धोर्भ्यां विदर्भितम् । गुह्यपद्मोदरान्तस्थं मृदुनिष्यन्दशुद्धये ॥ 38

ते च रागाग्निसंदीप्ते कायद्वयद्रवीकृते । सन्मित्राभातदिग्देवीगीत्या ध्यायात् सुचोदनाः ॥ 39

त्वं वज्रचित्त भुवनेश्वर सत्त्वधातो त्रायाहि मां रतिमनोज्ञा महार्थकामैः । कमाहि मां जनक सर्वमहाग्रबन्धो यदीच्छसे जीवितु मह्य नाथ ॥ 40

त्वं वज्रकाय बहुसत्त्वप्रियाज्ञचक्र बुद्धार्थबोधिपरमार्थहितानुदर्शी । रागेण रागसमयां मम कामयस्व यदीच्छसे जीवितु मह्य नाथ ॥ 41

त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थकार्यकरणे सदा संप्रवृत्त । कामहि मां सुरतचर्य समन्तभद्र यदीच्छसे जीवितु मह्य नाथ ॥ 42

त्वं वज्रकाम समयाग्र महाहितार्थ सम्बुद्धवंशतिलकः समतानुकम्पी । कामाहि मां गुणनिधिं बहुरत्नभूतां यदीच्छसे जीवितु मह्य नाथ ॥ 43

उत्थापन्यनुरोधात् तद् द्रवं पश्यन् विपत्तिवत् । मायावद् वस्तु संचिन्त्य स्वमन्त्रार्थः पुनर् भवेत् ॥ 44

कुङ्कूमाकारमूलास्यो नीलसव्यसितेतरः । कुमाराभरणाकारः प्रज्ञानन्दैकसुन्दरः ॥ 45

द्विभुजाश्लिष्टसत्प्रज्ञः स्वाभप्रज्ञाधरास्यधृक् । भास्वत्कृपाणसद्बाणनीलोत्पलधनुःकरः ॥ 46

स्फरद्बुद्धौघनिर्माणनिष्पादितजगत्त्रयः । स्वबीजोद्भवचिह्नोत्थमञ्जुवज्रः स्वयं भवेत् ॥ 47

भवसङ्गाद् भवोऽ नन्तः शमसङ्गो विपत्तिभाक् । मायया कृतसंसेवो धर्मधात्वात्मको भवेत् ॥ 48

ओं धर्मधातुस्वभावात्मको ऽहम् ॥

सन्मित्रैः कृतनिष्यन्दः पाकात् सर्वज्ञताम् इयात् । तच्चक्षुराद्यधिष्ठानम् उपसाधनम् इष्यते ॥ 49

क्षितीशकुलिशाकाशलोकेशस्काम्भभद्रकैः । संपूर्य चक्षुरादीनि तद्बीजैः पौरुषं वहेत् ॥ 50

धर्मसंभोगनिर्माणवाहिनी जगदर्थता । चित्तगुह्याद्यधिष्ठानं साधनार्थम् अतो भवेत् ॥ 51

स्वहृत्कण्ठशिरश्चन्द्रे हूं-आः-ओं-जांश् च सत्प्रभून् । वज्राब्जचक्रमध्यस्थान् ध्यात्वा चित्तादिगुह्यकान् ॥ 52

तद्धृत्प्रज्ञाङ्गसङ्गार्चीरूपवज्रादिरश्मिभिः । संपूज्य सर्वदिक्त्र्यध्वव्याप्ताशेषविनायकान् ॥ 53

कृतार्थसंपदां तेषां ये हृत्कण्ठशिरोगताः । चित्तवज्रादयस् तांस् तु तदधिष्ठाने प्रयाचयेत् ॥ 54

चित्तवज्रधरः श्रीमांस् त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मे ऽद्य करोतु चित्तवज्रिणः ॥55

दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मे ऽद्य कुर्वन्तु चित्तवज्रिणः ॥56

ओं सर्वतथागतचित्तवज्रस्वभावात्मको ऽहम् ॥

धर्मो वै वाक्पथः श्रीमांस् त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मे ऽद्य करोतु वाग्वज्रिणः ॥57

दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मे ऽद्य कुर्वन्तु वाग्वज्रिणः ॥58

ओं सर्वतथागतवाग्वज्रस्वभावात्मको ऽहम् ॥

कायवज्रधरः श्रीमांस् त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मे ऽद्य करोतु कायवज्रिणः ॥ 59

दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मे ऽद्य कुर्वन्तु कायवज्रिणः ॥ 60

ओं सर्वतथागतकायवज्रस्वभावात्मको ऽहम् ॥

षोडशानुस्मृतेः शुद्धौ कुर्वन्तीति तदुक्तवान् । तस्य चित्ताद्यधिष्ठानं नोक्तम् अप्रस्तुतोक्तितः ॥ 61

त्रिगुह्यालक्षणं वीक्ष्य मायाप्रज्ञाङ्गसङ्गतः । मृदुवैमल्यसंशुद्धौ महासाधनम् इष्यते ॥ 62

संचोद्य दिग्गतान् नाथान् ज्ञानसत्त्वहृदर्चिषा । तत्प्रभोद्भवविद्याभिर् भृतकुम्भामृताम्बुभिः ॥ 63

स्वभिषिक्तः प्रभुः श्रीमान् कुलेशमकुटोत्तमः । निष्यन्दाद्यैस् तथा मध्यैः स्वाभां प्रज्ञां विशोधयेत् ॥ 64

शिरोहृन्नाभिगुह्ये ऽस्याश् चरणान्ते च प्रत्यणून् । ओं-हूं-स्वा-हृद्भिः आः-हाभ्यां शाश्वतादिकुलात्मकैः ॥32 65

आपूर्य पञ्चसंबुद्धैः हूं-आः-अष्टदलाब्जिकाम् । संविशोध्य तया बुद्धान् हूं-सद्वज्रो ऽनुरागयेत् ॥ 66

ओं सर्वतथागतानुरागणवज्रस्वभावात्मको ऽहम् ॥

हृच्चन्द्रखद्गहृद्भाभिः खव्यापिबुद्धमण्डलम् । निवेश्यात्मनि सच्चित्तरूपम् वज्राब्जसंस्थितम् ॥ 67

निजचक्रं स्वबीजेन तत्रोत्पाद्य स्थिरीकृतम् । उत्सृजेद् विधिनानेन जगत्स्व् अज्ञानशुद्धये ॥ 68

संचोद्याधिपम् अक्षोभ्यं महाद्वेशार्थकृज्जिनम् । वज्रधृग् इति चोत्सृज्याङ्गेन्द्रनीलमणिप्रभम् ॥ 69

सितसव्येतरारक्तम् परमाद्यभुजान्वितम् । संहृत्यात्मनि सच्छ्रीमान् सर्वभावैर् निवेशयेत् ॥ 70

जिनजिग् इति चाद्याभं महामोहार्थकृद्विभुम् । सच्चक्राद्यन्वितं तद्वद् ध्यायात् पूर्वेन्दुमण्डले ॥ 71

रत्नधृग् इति रत्नेशं सुवर्णाभं समोद्यमम् । सद्रत्नाद्यन्वितं नाथं कुमारास्यं तु दक्षिणे ॥ 72

आरोलिग् इति वागीशं महारागार्थकृत्प्रभुम् । पद्मरागाभपद्माद्यां कुमारास्यं तु पृष्ठतः ॥ 73

प्रज्ञाधृग् इत्य् अमोघेशं महोग्रेर्ष्यार्थकृत्खजम् । वैदूर्याभं कुमारास्यं ध्यायात् खड्गाद्यम् उत्तरे ॥ 74

सजटामुकुटाः सर्वे स्वविद्याद्वयसन्गिणः । सर्वाभरणसद्वस्त्रा ध्येयाः पद्मार्कमण्डले ॥ 75

मोहरतीति चाग्नेयां कृपोपायजनार्थदा । कायेशवत्स्वरूपा स्याल् लोचना स्वेन्दुमण्डले ॥ 76

द्वेषरतीति नैरृत्यां मैत्रीप्रणिधिकामदा । चित्तेशवद्रतौत्सुक्या मामकी चन्द्रमण्डले ॥ 77

रागरतीति वायव्यां मोदबलसमाधिदा । वागीशाभार्थशुद्धा सा पाण्डरा चन्द्रमण्डले ॥ 78

वज्ररतीति चैषान्याम् उपेक्षज्ञानसाधिका । रत्नेशवत्स्वरूपा स्याच् चन्द्रे तारा मनोरमा ॥ 79

चक्रं रक्तोत्पलं दिव्यं पङ्कजं पीतं उत्पलम् । शिष्टं स्वाधिपवद् दिष्टं चिह्नम् आसां क्रमाद् अतः ॥ 80

आग्नेयादिचतुःकोणे पूर्वद्वारद्विपार्श्वयोः । रूपाद्या दर्पणाद्यैः स्युः कायाद्याभास् त्रितत्त्वतः ॥ 81

प्राग्द्वारे क्रोधपर्यङ्कश् चित्तेशाकारभासुरः । यमान्तकृद् इतीतिघ्नः स्कन्धज्ञेयविनाशतः ॥ 82

कायेशाभोग्रदृग् भीमो ऽवाग्द्वारे ऽपराजितः । प्रज्ञान्तकृद् इतीच्छाघ्नः स्वात्मदृक्क्लेशहानितः ॥ 83

मृत्युजन्माघसां घाती पृष्ठद्वारे ऽश्वकन्धरः । पद्मान्तकृद् इतीच्छाघ्नो वागीशाभोग्रघूर्णितः ॥ 84

अक्षोभ्याभोग्रविघ्नघ्न उत्तरे ऽमृतकुण्डलिः । विघ्नान्तकृद् इति द्वारक्रियासुरारिशुद्धितः ॥ 85

भ्रूभङ्गोर्ध्वज्वलत्केशबभ्रुभ्रूश्मश्रुलोचनाः । व्यावृताश्या ललज्जिह्वाः सदंष्ट्रोत्कटहासिनः ॥ 86

चण्डमुद्गरदण्डाब्जस्ववज्रादिकरास् त्व् अमी । क्रूरभुजङ्गभूषाङ्गाः स्वाभविद्याङ्गसङ्गिनः ॥ 87

निष्पन्नं चक्रम् आलोक्य निजभावेन सर्वतः । हृद्बीजाभाङ्कुशैर् बुद्धांश् चक्राकारसमाहृतान् ॥ 88

दृष्ट्वा विघ्नान् स्वविघ्नघ्नैः समुत्सार्याभिरक्ष्य च । दत्त्वार्घं मन्त्रसंजप्तं चन्द्रादिकुसुमान्वितम् ॥ 89

चक्रे निवेश्य तच् चक्रं चक्षुःकायाद्यधिष्ठितम् । प्राग्वत् सिक्तं च तद् ध्यायान् निष्यन्दाद्यधिमात्रतः ॥ 90

बुद्धानां मकुटे ऽक्षोभ्यः शेषाः स्वाधिपसेकिनः । कायेशाक्षोभ्यवागीशचित्तेशैर् द्वारिणो मताः ॥ 91

इत्य् आसिच्य स्वहृद्भाभिः प्रज्ञाब्जान्तर्निवेशितम् । रूपाद्यं रोमकूपोत्थं रूपवज्रादिरश्मिभिः ॥ 92

कूटागारप्रभोन्मुक्तैर् गगनान्तःप्रसर्पिभिः । सम्पूज्य स्वं मुनीन्द्रांश् च पूज्यपूजात्मको भवेत् ॥ 93

ओं सर्वतथागतपूजावज्रस्वभावात्मको ऽहम् ॥

सर्वधर्मैः स्तुयाच् चक्रं संबुद्धस्वात्ममूर्तिभिः । पञ्चज्ञानानि मुद्राभिः शतपञ्चकुलं त्रिकम् ॥ 94

अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध । त्रिमण्डल त्रिवज्राग्र घोषवज्र नमो ऽस्तु ते ॥ 95

वैरोचन महाशुद्ध वज्रशान्त महारते । प्रकृतिप्रभास्वराग्राग्र्य देशवज्र नमो ऽस्तु ते ॥ 96

रत्नराज सुगाम्भीर्य खवज्राकाशनिर्मल । स्वभावशुद्ध निर्लेप कायवज्र नमो ऽस्तु ते ॥ 97

वज्रामित महाराज निर्विकल्प खवज्रधृक् । रागपारमिताप्राप्त भाषवज्र नमो ऽस्तु ते ॥ 98

अमोघवज्र संबुद्ध सर्वाशापरिपूरक । शुद्धस्वभावसंभूत वज्रसत्त्व नमो ऽस्तु ते ॥ 99

चन्द्रार्कवारिभैषज्यगन्धं वाय्वग्निचक्रगम् । प्रणवाधिष्ठितं सार्चिस् त्रितत्त्वैर् अभिमन्त्रितम् ॥ 100

हूंन्यस्तवज्रसज्जिह्वो ध्यात्वा ज्ञानामृतैर् भृतम् । हृच्चन्द्रान्तर्गताशेषचक्रं तेन प्रतर्पयेत् ॥ 101

हृद्रश्मिनिर्मितैर् नाथैः स्वासत्संकल्पवर्जितैः । बुद्धात्मकं जगत् कृत्वा हृद्बीजान्तर् निवेशयेत् ॥ 102

हृच्चिह्नवरटान्तस्थं चन्द्रहृद्बिन्दुरूपकम् । प्रभास्वत् स्वमनो ध्यात्वा ज्ञानसत्त्वं प्रभासयेत् ॥ 103

चित्तवाक्कायवज्रं च प्रबोध्य रश्मिमालया । निविष्टां हृदि तां ध्यायात् स्वज्ञानामृतवाहिनीम् ॥ 104

अन्तस् तनुम् अतः सर्वां तयाभास्य समन्ततः । प्रतिरोमप्रभाव्यूहैर् जगदर्थं प्रपूरयन् ॥ 105

ध्यात्वा सूक्ष्मं स्वचिह्नं वा विद्यानासाग्रसंस्थितम् । मुनिचक्रं स्वसंवेद्यं सत्प्रज्ञासङ्गभास्वरम् ॥ 106

दृष्त्वा स्थैर्यनिमित्तं तु स्फरणं तद्रश्मिनिमित्तैः । बुद्धैर् नानाविधैश् चिह्नैर् विदधीत पुनः पुनः ॥ 107

कायवाक्चित्तसद्वज्रात् पञ्चसज्ज्ञानरश्मिकम् । स्फरन्मन्त्रं जपं कुर्याद् युगपत् क्रमशो ऽथवा ॥ 108

वज्राब्जधर्मतच्चक्रं कायवाक्चित्तवज्रगम् । निलयं तद् दृढीकुर्वञ् ज्ञानकायं स्फरञ् जपेत् ॥ 109

उच्चारयेत् स्फरन् प्राणैर् मन्त्रम् आयामसंहृतम् । कायादिस्फारसंहारैः कुर्याज् जापं क्रमाक्रमात् ॥ 110

उच्चार्यैवं वियद् व्याप्य कायाद्यैस् तैः स्वरश्मिभिः । प्राग्वत् सच्चित्तपूजार्हं प्राणाद् विद्यौघम् उत्सृजन् ॥ 111

परिगूढोल्लसद्विद्यासुखावेशवशीकृतम् । आयामाज्ञानबुद्धौघं स्वात्मन्य् अन्ते निवेशयेत् ॥ 112

निष्यन्दाद्यधिमोक्षैश् च बिन्दुसूक्ष्मत्रिगुह्यजाः । ध्येया मृद्वादिभिर् भेदैर् योगाः सेवादिवत् तथा ॥ 113

स्वहृत्तत्त्वपरामर्षात् परीत्तचित्तसंसृतेः । लोचनादिगणोद्गीतैश् चक्रम् अभ्यर्थ्य पूजयेत् ॥ 114

मूर्ध्नीन्दुप्रणवार्द्रां तु सचित्तवारिवाहिनीम् । विधिवत् पातयन् कुर्यात् कायवाक्चित्तप्रीणनम् ॥ 115

विश्रम्यैवं जपं कृत्वा कृतपूजादिको बुधः । त्रितत्त्वात्माहितान् बुद्धान् गतसङ्गो विसर्जयेत् ॥54 116

एवं तत्त्वदृशा मुक्तं जगत् कृत्स्नं विलोक्य च । प्रणिधिम् आमुखीकुर्यात् कृपया तद्धिताय च ॥ 117

समाधितः समुत्थाय गर्वं पत्युः समुद्वहन् । चारगतस् तु संबुद्धविषयैः संप्रपूजयेत् ॥ 118

श्रीमञ्जुवज्रसर्वात्मा स्वभावविषयानुगान् । विषयान् भावयन्न् एवं स्वस्वशुद्ध्या प्रतिष्ठितान् ॥ 119

शाश्वतादिस्वभावांस् तान् प्रत्यात्मधर्मसंस्थितान् । श्रीमद्वज्रधराकारान् शुद्धसत्त्वसमन्वितः ॥ 120

सर्वं संपादयेत् कृत्यं स्वासत्संकल्पवर्जितः । सच्चक्रानन्तपूजेयं सदामेया सुयोगिनः ॥ 121

स्वहृच्चन्द्रे स्वचक्रेशं निजबीजैः स्वभोजनम् । समालम्ब्य स्वहृत्तत्त्वैः सर्वबुद्धामृततायितम् ॥ 122

सर्वधर्मतया शुद्धं त्रितत्त्वैर् अभिमन्त्रितम् । स्वाधिदैवतसच्चक्रं प्रीणयंस् तेन पूजयेत् ॥ 123

होमो बाह्यो ऽनुमेयो ऽयं चित्तमात्रात् तु मानसः । अनुत्तरस् त्व् अयं ज्ञानाग्निस्कन्धेन्धनदाहतः ॥ 124

कामैर् एवं समस्तैः स्वं स्वदैवात्मस्वभावजम् । परांश् च पूजयेद् एवं समयः सुगतैर् मतः ॥ 125

तत् तत् कायादि यत् कर्म सर्वबुद्धांस् तु पूजयन् । अनुरूपं जगत् कार्यं कुर्यान् नित्यं समाहितः ॥ 126

यत् कायवाङ्मयं कर्म मुद्रामन्त्रात्मकं महत् । तत् तत् कर्म समासाद्य सर्वबुद्धांस् तु पूजयेत् ॥ 127

वस्तुन्य् एकत्र संकल्पा नानाकारावभासिनः । मुक्तिदुःखसुखोत्पादाः कर्माशेषा भवन्ति यत् ॥ 128

तस्माच् छुभाशुभं कर्म कायाद्यं कल्पनोद्भवम् । सर्वसत्कल्पनिर्मुक्ते ज्ञाने तत्कल्पना कथम् ॥ 129

अमोघवज्रसच्चक्री समयोत्थापनाय तु । हृत्कर्मवज्रखं ध्यात्वा सर्वशुद्ध्याभिषेचयेत् ॥ 130

गुर्ववज्ञादिके दोषे सदानं भोज्यम् आवहेत् । बाह्यस्नानं स्वचक्रस्थः कुर्यात् सेकविधानतः ॥ 131

सन्ध्यान्तरे ऽपि पूजादि जपं कृत्वा तु पूर्ववत् । हृद्यन्तर्गतसच्चक्रः सुप्यात् प्रज्ञाकृपान्वितः ॥ 132

उत्थानसमये श्रीमान् देवीसंगीतिचोदितः । प्रातर् उत्थाय प्राग्वत् तु संजपेद् आदिकर्मिकः ॥ 133

मन्त्रसीलव्रतैर् युक्तश् चक्षुःकायाद्यधिष्ठितः । ज्ञाने किञ्चित्समावेशी जपेत् सन्ध्यास्व् अतन्द्रितः ॥ 134

सर्वाकारसुनिष्पन्नं स्फरत्सम्हारकारकं । प्राप्तज्ञानवशी किञ्चिद् अनिशं योगम् आश्रयेत् ॥ 135

सम्यग्ज्ञानवशी ध्यायन् कुर्यात् कार्यं जगद्धितम् । धात्वण्वन्तस् त्रिसच्चक्रैः प्रतिबिम्बात्ममूर्तिभिः ॥ 136

संसिद्धाव् असकृल् लब्ध्वा योगी निमित्तम् एव तु । त्रितत्त्वां विधिवत् पूजां कृत्वा मण्डलम् आलिखेत् ॥ 137

चक्रस्थो विधिवज् जप्त्वा स्वयं वाध्येषितो ऽपि वा । परार्थं घटमानो ऽपि निमित्तं प्राप्य संलिखेत् ॥ 138

चक्रिमन्त्रं जपेल् लक्षं लक्षम् वा स्वाधिदैवतम् । अन्येषाम् अयुतं सम्यक् चक्रिणां वाज्ञया लिखेत् ॥ 139

त्रितत्त्वैर् गर्भितोत्सर्गान् अन्यान् हृद्बीजगर्भितान् । सानुस्वाराद्यवर्णांस् तु नाम्नो मन्त्रान् समुद्धरेत् ॥ 140

कायवाक्चित्तगुह्याख्या कर्मधर्ममहात्मिका । त्रिगुह्या समया मुद्रा बीजं हृदयम् उच्यते ॥ 141

कर्मकर्त्री तु विद्योक्ता शान्त्यादिप्रतिचोदनात् । मालामन्त्राश् च विद्योक्ता सर्वथा तां जपेत् बुधः ॥ 142

यथायोगं जपं कृत्वा लब्ध्वाज्ञां स्वाधिपादितः । निरोधचक्रम् आभुज्य स्वचित्तशुद्धितो लिखेत् ॥ 143

विघ्नान् उत्सार्य संकील्याभ्युक्ष्य क्ष्मां प्रार्थ्य याचयेत् । समाधित्रितयं कृत्वा बुद्धादीन् अधिवास्य च ॥ 144

दत्त्वा बल्यर्घम् आपूज्य होमैर् आप्याय्य खे न्यसेत् । खानयेत् क्ष्मां सुनिर्विघ्नां गर्तापूरे ऽपि अयं क्रमः ॥ 145

आचीर्णपूर्वसंसेवो मञ्जुवज्रात्मयोगवान् । संस्कृत्य मण्डलस्थानं संहार्यैः पूजयान्वितः ॥ 146

विघ्नारिचक्रयोगस्थः स्वाभिषेकं समादधेत् । दुष्टान् निकृन्तयेद् एवं योगाद् वा स्वाधिदैवतात् । 147

ओं भूः खम् इति मन्त्रेण वियद्भूतां वसुन्धराम् । हूं लं हूं इति वज्रात्म क्ष्मां कृत्वा ताम् अधिष्ठयेत् ॥ 148

ओं मेदिनि वज्रीभव वज्रबन्ध हूम् ॥

प्राग्वद् विघ्नघ्नयोगात्मा सेवाद्यन्तानुरागणः । आदियोगी स्वचक्रं तु प्रोत्सृज्यान्तामृतश् च सः ॥ 149

चक्रराजाग्रियोगात्मा चक्रकर्मसुकर्मकृत् । कर्मराजाग्रियोगीति समाधित्रयम् उत्तमम् ॥ 150

एतद्योगस्थ आचार्यः सर्वबुद्धात्ममूर्तिकः । स्वभावशुद्धवज्रात्मा चक्रभूमध्यसंस्थितः ॥ 151

वज्रघण्टाधरो वीरो ऽध्येष्यस् त्रिचक्रनिर्मितौ । सहायैर् वज्रघण्टाग्रैः शाश्वताद्यात्ममूर्तिभिः ॥ 152

सर्वताथागतं शान्तं सर्वताथागतालयम् । सर्वधर्माग्रनैरात्म्यं देश मण्डलम् उत्तमम् ॥ 153

सर्वलक्षणसंपूर्णं सर्वालक्षणवर्जितम् । समन्तभद्रकायाग्रं भाष मण्डलम् उत्तमम् ॥ 154

शान्तधर्माग्रसंभूतं ज्ञानचर्याविशोधकम् । समन्तभद्रवाचाग्रं भाष मण्डलम् उत्तमम् ॥ 155

सर्वसत्त्वमहाचित्तं शुद्धं प्रकृतिनिर्मलम् । समन्तभद्रचित्ताग्र्यं घोष मण्डलसारथे ॥ 156

वीक्ष्यातो मञ्जुराड् क्रुद्धः सत्त्वधातुं तमिश्रितम् । हूं वज्रोत्तिष्ठेति स्वक्षश् चक्रम् उत्क्षिप्य निर्मितम् ॥ 157

मट्कारचन्द्रशूर्याक्षः सर्वाध्वदिक्षु दीपयन् । जगद् आलोकयन् धीमांश् चक्रभूमौ परिक्रमेत् ॥ 158

पादतलज्वलद्वज्रो वज्रोल्लालनतत्परः । लीलावज्रपदं नृत्यन् सदंष्ट्रोत्कट-हूं-कृतः ॥ 159

प्रोत्सारयेत् प्रदुष्टौघान् देवाद्यान् विघ्नमण्डलान् । शृण्वन्तु सर्वविघ्नौघाः कायवाक्चित्तसंस्थिताः ॥ 160

अहं मञ्जुरवः श्रीमान् रक्षाचक्रप्रयोजकः । वज्रेणादीप्तवपुषा स्फालयामि त्रिकायजान् ॥ 161 लङ्घयेद् मे विशीर्येतात्र नान्यथा ।93भूमेः परिग्रहं कृत्वा निर्विघ्नाय प्रकीलयेत् । 162 ओं घ घ घातय 2 सर्वदुष्टान् फट् कीलय 2 सर्वपापान् फट् हूं हूं हूं वज्रकील वज्रधरो आज्ञापयति सर्वदुष्टकायवाक्चित्तवज्रं कीलय हूं फट् ॥

अधःशूलोर्ध्वविघ्नारिं धिया मध्ये प्रकीलयेत् । विघ्नौघान् घातयेत् सर्वान् दशदिक्संव्यवस्थितान् ॥ 163

संवीक्ष्य क्ष्मां सुनिर्विघ्नां तीक्ष्णज्वालाकुलप्रभाम् । सीमाप्राकारदिग्बन्धान् धिया कृत्वाधिवासयेत् ॥ 164

त्वं देवि साक्षिभूतासि सर्वबुद्धानां तायिनाम् । चर्यानयविशेषेषु भूमिपारमीतासु च ॥ 165

यथा मारबलं भग्नं शाक्यसिंहेन तायिना । तथा मारबलं जित्वा मण्डलं लेलिखाम्य् अहम् ॥ 166

क्ष्मां संलिप्य सुगन्धद्यैश् चित्रैः पुष्पैः प्रकीर्य च । चन्द्राद्यैश् चक्रिणां स्थाने प्रकुर्यान् मण्डलं बुधः ॥ 167

तत्रावाह्य तु सच्चक्रं कृत्वा सीमादिबन्धनम् । पूजास्तुत्यामृतास्वादं कलशान् अधिवासयेत् ॥ 168

वस्त्राच्छादितसद्ग्रीवांश् चूतादिपल्लवान्वितान् । कलशान् माण्डलेयानां तन्मन्त्रैर् अधिवासयेत् ॥ 169

पञ्चव्रीह्यौषधीरत्नगन्धाम्बुचक्रसंचयम् । श्रग्बद्धवज्रमूर्धानं चक्रेशेन जपं जपेत् ॥ 170

अर्घं दत्त्वा समापूज्य प्रक्षिप्य सितपुष्पकम् । धूपाधिवासितं तत्र सद्गन्धाद्यब्जभाजनम् ॥ 171

प्रतिदिनं त्रिसन्ध्यासु बलिं दत्त्वा तथा जपेत् । ते च चक्रबहिष्कोणे जयश् चक्रेशसव्यतः ॥ 172

तेभ्यो ऽर्घभाजने तोयं क्षिप्त्वा तेनाभिषेचनात् । आत्मनः सर्वशिष्याणां जलाभिषेचनं भवेत् ॥ 173

चक्रपूजां पुनः कृत्वा धूपम् उत्क्षिप्य पाणिना । चक्रेशं प्रार्थयेद् धीमान् बुद्धांश् च जानुसंस्थितः ॥ 174

भगवन् मञ्जुसद्वज्र विद्याराज नमो ऽस्तु ते । इच्छामि लिखितुं नाथ मण्डलं करुणात्मक ॥ 175

शिष्याणाम् अनुकम्पायै युष्माकं पूजनाय च । तन् मे भक्तस्य भगवन् प्रसादं कर्तुम् अर्हसि ॥ 176

समन्वाहरन्तु मां बुद्धा जगच्चक्रक्रियार्थदाः । फलस्था बोधिसत्त्वाश् च याश् चान्या मन्त्रदेवताः ॥ 177

देवता लोकपालाश् च भूताः सम्बोधिशासिताः । शासनाभिरताः सत्त्वा ये केचिद् वज्रचक्षुषः ॥ 178

अमुको ऽहं महावज्री मञ्जुश्र्युदयमण्डलम् । लिखिष्यामि जगच्छुद्ध्यै यथाशक्त्युपचारतः ॥ 179

अनुकम्पाम् उपादाय सशिष्यस्य तु तन् मम । मण्डले सहिताः सर्वे सांनिध्यं कर्तुम् अर्हथ ॥ 180

निमन्त्र्यैवं त्रिवारांस् तान् कृत्वा पूजादिकं विभोः । समारक्ष्य बहिर् गत्वा स्वशिष्यान् स्रक्करग्रहान् ॥ 181

मनीषिणो महोत्साहान् कृतज्ञनिरहङ्कृतान् । कुलिनो गुणिनः श्राद्धान् रूपवर्णवयोन्वितान् ॥ 182

अर्थिनश् चाभियुक्तांश् च सौगतान् मन्त्रसाधने । विरूपान् निर्गुणांश् चापि हीनान् अप्य् अधिवासयेत् ॥ 183

चतुर्णाम् अप्य् अनुज्ञातः पर्षदां मण्डले विधिः । शिक्षासु स्वासु युक्तानां महायानरतात्मनाम् ॥ 184

मन्त्रसिद्ध्यर्थिनः केचित् प्रविशन्तीह मण्डले । पुण्यकामास् ततो ऽन्ये च परलोकार्थिनो ऽपरे ॥ 185

परलोकं समुद्दिष्य श्रद्धां कृत्वा च भूयसीम् । प्रविशेन् मण्डलं धीमान् नैहिकम् फलम् ईहयेत् ॥ 186

ऐहिकं काङ्क्षमाणस्य न तथा पारलौकिकम् । परलोकार्थिनः पुंसः पुष्कलं त्व् ऐहिकं फलम् ॥ 187

एवम् उक्त्वा तु तान् शिष्यान् धिया स्वान्तर् निवेशितान् । प्राग्वद् वज्राब्जसंशुद्धान् इह द्वारे तु याचयेत् ॥ 188

त्वम् मे शास्ता महारत इच्छाम्य् अहं महानाथ महाबोधिनयं दृढम् ॥ 189

देहि मे समयं तत्त्वं बोधिचित्तं च देहि मे । बुद्धं धर्मं च संघं च देहि मे शरणत्रयम् प्रवेशयस्व मां नाथ महामोक्षपुरं वरम् । 190

त्रिर् उच्चार्य च तान् शिष्यान् ज्ञात्वा सद्भक्तिवत्सलान् । प्रधानं शिष्यम् एकं तु कृत्वा ब्रूयाद् इदं वचः ॥ 191

एहि वत्स महायानं मन्त्रचर्यानयं विधिम् । देशयिष्यामि ते सम्यक् भाजनस् त्वं महानये ॥ 192

बुद्धास् त्रियध्वसंभूताः कायवाक्चित्तवज्रिणः । संप्राप्ता ज्ञानम् अतुलं वज्रमन्त्रप्रभावनैः ॥ 193

मन्त्रप्रयोगम् अतुलं येन भग्नं महाबलम् । मारसैन्यं महाघोरं साक्यसिंहादिभिर् वरैः ॥ 194

लोकानुवृत्तिम् आगम्य चक्रं प्रवर्त्य निर्वृताः । तस्मान् मतिम् इमां वत्स कुरु सर्वज्ञताप्तये ॥ 195

देशनादिंस् त्रिधालाप्या बोधिचित्तं ततो गुरुः । उत्पादयेद् अनुत्पन्नम् उत्पन्नं स्मारयेत् पुनः ॥ 196

सर्वकर्मकृतारक्ष्य ध्यायाद् धृत्कण्ठमूर्धसु । वज्रं अब्जं तथा चक्रं हूं आः ओं तेषु विन्यसेत् ॥ 197

गन्धाम्बुवज्रसन्मुष्ट्या हूं ओं आः एवं आपठन् । हृच्छिरःकण्ठम् आलभ्य दद्यात् पुष्पादिकं क्रमात् ॥ 198

पुष्पं मूर्ध्नि पुरो धूपं दीपं गन्धं पुनर् हृदि । दद्यात् सर्वकृता जप्तं शिष्येभ्यो यतिर् आदरात् ॥ 199

द्वादशाङ्गुलपुष्पाग्रम् अकीटापाटिताव्रणम् । अश्वत्थोदुम्बुरावक्रं प्रदद्याद् दन्तधावनम् ॥ 200

प्रागुदङ्मुखसंस्थैस् तैः खादयित्वैव प्रक्षिपेत् । गोचर्ममात्रभूलिप्ते सिद्धिं शान्त्यादिकां दिशेत् ॥ 201

आचम्य त्रिचलुपानं दत्त्वा बाह्ये निवेश्य च । कुशान् शय्योपधानाय बाहुसूत्रैः सुरक्षयेत् ॥ 202

त्रिचलुपानमन्त्रः ॥

ओं ह्रीः विशुद्धधर्म सर्वपापानि चास्य शोधय सर्वविकल्पान् अपनय हूम् ॥

सर्वज्ञानां कदा लोके सम्भवो जायते न वा । उदुम्बरस्येव कुसुमं कदाचित् कर्हिचिद् भवेत् ॥ 203

ततो ऽपि दुर्लभोत्पादो मन्त्रचर्यानयस्य हि । येन सत्त्वार्थम् अतुलं कर्तुं शक्ता ह्य् अनिर्वृताः ॥ 204

अनेककल्पकोटीभिर् यत् कृटम् पापकम् पुरा । तत् सर्वं हि क्षयं याति दृष्ट्वा मण्डलम् ईदृशं ॥ 205

किम् उतानन्तयशसां मन्त्रचर्यानये स्थितः । पदं ह्य् अनुत्तरं याति जपन् वै मन्त्र तायिनाम् ॥ 206

उच्छिन्ना दुर्गतिस् तेषां सर्वदुःखस्य सम्भवा । येषां चर्यावरे ह्य् अस्मिन् मतिर् अत्यन्तनिर्मला ॥ 207

अद्य युष्माभिर् अतुला लाभा लब्धा महात्मभिः । येन यूयं जिनैः सर्वैः सपुत्रैर् इह शासने ॥ 208

सर्वे परिगृहीता स्थ जायमाना महात्मभिः । तेन यूयं महायाने श्वो जाता हि भविष्यथ ॥ 209

एष मार्गवरः श्रीमान् महायानमहोदयः । येन यूयं गमिष्यन्तो भविष्यथ तथागताः ॥ 210

कृत्वाथ देशनां रक्षां स्वापयेत् कुशसंस्तरे । यत् किञ्चित् पश्यथ स्वप्ने प्रातर् मे कथयिष्यथ ॥ 211

रक्षाधिष्ठादिकं कृत्वा तज् जपेत् सार्वकर्मिकम् । पञ्चकुलत्रिचक्राणां कुण्डलिः सार्वकर्मिकः ॥ 212

पृष्ट्वा शुभाशुभं स्वप्नं हत्वा कुण्डलिनाशुभम् । शिष्यान् संरक्ष्य तान् योग्यान् संवरं ग्राहयेत् ततः ॥ 213

चक्रे ऽवैवर्त्यसंसेकं दत्त्वा नाथ वदस्व मे । चक्रदेवतयोस् तत्त्वम् आचार्यपरिकर्म च ॥ 214

समयं सर्वबुद्धानां संवरं गुह्यम् उत्तरम् । आचार्यः स्याम् अहं नित्यं सर्वसत्त्वार्थकारणात् ॥ 215

आचार्यतार्थिनः शिष्यान् ग्राहयित्वा तु संवरम् । योगम् आधाय सच्चक्रं संपूज्य खे धिया न्यसेत् ॥ 216

शाश्वतादिस्वरूपाभं तद्वर्णबीजसंभवम् । पञ्चज्ञानान्वितं सूत्रं पञ्चविंशतिभेदितम् ॥ 217

यःकारसूर्यचन्द्राक्षो मञ्जुवज्रात्मविग्रहः । दीप्तदृष्ट्यङ्कुशाकृष्तं स्ववर्णान्तर् निवेशितम् ॥ 218

वैरोचनादिहृज्ज्ञानसूत्रं सर्वकृता सह । प्रयच्छ शाश्वत सूत्रं स्वचक्रसूत्रणाय च ॥ 219

त्रितत्त्वगर्भितं चैव यावद् अक्षोभ्यम् अर्थयन् । अन्योन्यानुगताः सर्वधर्मा इत्याद्य् अनुस्मरन् ॥ 220

चक्रद्विगुणतो दीर्घं द्वारविंशतिभागिकम् । पञ्चामृतसुगन्धेन तेमयित्वापि रक्षितं ॥ 221

त्र्यक्षरान्तर्गतं योगी चालयेत् सूत्रधारिणा । त्रिर् ज्जःकारैस् तम् आप्रेष्य ज्जः ज्जः ज्जः इत्य् अपि स्वयं पुनः ॥ 222

वाममुष्टिग्रहो नाभौ प्रतीच्यवाग्दिशि स्थितः । खसूत्रं पातयेच् छ्रीमांस् तथैवाधः प्रसूत्रयेत् ॥ 223

ओं वज्रसमयसूत्रं मातिक्रम हूं ॥

सत्त्वार्थे भवतां कालो वियद्व्यापितथागतान् । चोदयेत् सूत्रध्वनिना तद् इहागमनाय तु ॥ 224

यक्षप्रेतेन्द्रनागेशदिङ्मुखो ऽग्न्यनिलाश्रितः । प्राक्प्रतीच्युत्तरावाक्चतुर्दिग्बहिः प्रसूत्र्य च ॥ 225

कोणसूत्रं समासूत्र्य चाग्नेयनैरृतिस्थितः । प्राक्प्रतीच्युत्तरावाग्दिक् तथैवाष्टकमण्डलम् ॥ 226

द्विगुणीकृत्य तत् सूत्रं चक्रमध्ये विधार्य च । चक्राकारं ततो बाह्यं वज्रसूत्रद्वयं पुनः ॥ 227

ऐशान्यां चक्रवाडं च स्वानुपूर्व्या प्रदक्षिणात् । सूत्रेण सूत्रयेत् प्राज्ञः सर्वदिक्समतां वहन् ॥ 228

अनिमित्तैर् असिद्धिः स्यात् सूत्रच्छेदे गुरोः क्षयः । हीनाभिरिक्ततो रोगा दिङ्मोहे शिष्यविभ्रमः ॥ 229

चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम् । चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितम् ॥ 230

कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु । खचितं वज्ररत्नैस् तु सूत्रयेद् बाह्यमण्डलम् ॥ 231

तस्याभ्यन्तरतश् चक्रम् अष्टमण्डलकोपमम् । अर्धेन बाह्यचक्रस्य समन्तात् परिमण्डलम् ॥ 232

चक्रस्तम्भाद्यरचितं वज्रावल्यावृतं शुभम् । विभजेच् च ततो द्वारं ह्रीःकारक्रोधदृष्टितः ॥ 233

चक्राष्टभागिकं द्वारं वेदिकारहितं मतम् । द्वारप्रमाणा निर्यूहा देवतापट्टिकास् तथा ॥ 234

द्वारार्धा सर्वतो वेदी कपोलः पक्षकस् तथा । हरार्धहारचन्द्रार्का पट्टस्रग्दामपट्टिकाः ॥ 235

रजोभूमिस् तदर्धेन मूलसूत्रभुवो बहिः । चक्राद्यस्तम्भसूत्राणां भूमिस् तुल्या रजोभुवा ॥ 236

तोरणं त्रिगुणं द्वारात् पताकाघण्टयान्वितम् । सघण्टा मारुतोद्धूटा पताका बाह्यकोणतः ॥ 237

चक्रानुरूपतो ऽन्येषां यथाशोभं प्रकल्पना । संबुद्धज्ञानकायत्वाद् वाग्मी वज्रकुले स्मृतः ॥ 238

धर्मकायात्मसंशुद्धौ चित्तमण्डलम् अस्य तु । सत्त्वाशयं समासाद्य मानादिनियमः कृतः । प्रज्ञोपायोद्भवा सिद्धिर् जात्यादिनियमेन किम् ॥ 239

तद् एकहस्तम् आरभ्य यावद् धस्तसहस्रकम् । एवम् आसूत्र्य तच् चक्रं दीप्तदृष्ट्या रजांसि तु । प्राक्क्रमज्ञानसद्दीप्त्या समुत्तेज्याभिमन्त्रयेत् ॥ 240

ओं वज्रचित्र समय हूम् ॥

धर्मधातुर् अयं शुद्धः सत्त्वधातुप्रमोचकः । स्वयं मञ्जुरवो राजा सर्वतथागतालयः ॥ 241

सर्वदोषविनिर्मुक्तश् चक्राभ्यन्तरसंस्थितः । ऐशानीं दिशम् आश्रित्य गुरुर् वामेन मुष्टिना ॥ 242

श्वेतं पीतं तथा रक्तं हरितं कृष्णम् एव च । समप्रदक्षिणाच्छिन्नावक्रां रेखां प्रपातयेत् ॥ 243

समां च पातयेद् रेखां द्वारविंशतिभागिकाम् । स्थूलपाते भवेद् व्याधिः कृशया धननाशनम् ॥244

विद्वेषो वक्रया मृत्युश् छिन्नया गुरुशिष्ययोः । अप्रदक्षिणपाते तु रजसां कीलनं भवेत् ॥ 245

श्वेतवज्रमयी सूची सौवर्णालम्बनापरा । पद्मरागमयी सूची तथा मरकतापरा ॥ 246

कृष्णाभ्यन्तरतो ज्ञेया एष रङ्गक्रमो ऽस्य तु । पूर्वेण तु महाश्वेतं दक्षिणे पीतसंयुतम् ॥ 247

लोहितं पश्चिमभागं मञ्जिष्ठोत्तरसंयुतम् । मध्यतो भूमिभागं तु इन्द्रनीलप्रभास्वरम् ॥ 248

प्रज्ञोपायात्मको नित्यं संलिखेत् सुसमाहितः । यवमात्रान्तरा रेखा पातनीय परस्परम् ॥ 249

कुण्डलामृतवज्रेण सर्वदुष्टान् प्रमर्दयन् । महामुद्रास्य दम्ष्ट्रोक्ता दुष्टशत्रुश् च मन्त्रराड् ॥ 250

नमः समन्तकायवाक्चित्तवज्राणां नमो वज्रक्रोधाय महादंष्ट्रोत्कटभैरवाय असिमुषलपर्शुपाशहस्ताय ओं अमृतकुण्डलि ख 2 खाहि 2 तिष्ठ 2 बन्ध 2 हन 2 दह 2 गर्ज 2 विस्फोटय 2 सर्वविघ्नविनायकान् महागणपतिजीवितान्तकराय हूं फट् ॥

एवं मण्डलम् आलिख्य चन्द्रसूर्यकृतासनम् । मध्ये खड्गं लिखेत् स्यामं सुविशुद्धादिभास्वरम् ॥ 251

पूर्वेणाष्टारसच्चक्रम् आदर्शादिसमुज्ज्वलम् । सव्ये रत्नं हरीताभं नवांशं समतोन्नतम् ॥ 252

पश्चिमे ऽष्टदलं पद्मं प्रत्यवेक्षादिरक्तकम् । उत्तरे तु सत्खड्गं कृत्यादिप्रतिमण्डितम् ॥ 253

उपायैर् नेत्रम् आग्नेय्यां नैरृत्यां वज्रम् अर्थनात् । वायव्यां विकटास्यं तु बलात् पद्मं सकन्दकम् ॥ 254

ऐशान्याम् उत्पलं ज्ञानात् पीतं नीलाभशोभनम् । आग्नेयादिचतुष्कोणे पूर्वद्वारद्विपार्श्वयोः ॥ 255

दर्पणं च तथा वीणां गन्धशङ्खरशायनम् । वस्त्रं धर्मोदयं चैव दानशीलादिशोधितम् ॥ 256

श्रद्धादिमुद्गरं दण्डं पद्मं वज्रं चतुर्थकम् । द्वारेषु सर्वथा ज्ञात्वा स्फुटं ध्यात्वा स्वचक्रकम् ॥ 257

प्राग्वत् प्रज्ञाङ्गसंयोगाद् बुद्धान् स्वान्तर् निवेश्य च । सच्चित्तेन वियद् व्याप्य चक्रपार्श्वकृतास्पदान् ॥ 258

तैः समायातविघ्नांस् तान् समुत्सार्याभिरक्ष्य च । यमार्यादिभिर् आकृष्यावेश्य बद्ध्वा वशं नयेत् ॥ 259

चक्षुःकायाद्य् अधिष्ठायार्घाभिषेकाभिपूजनम् । कृत्वा स्तुत्वाथ संप्रीण्य जप्त्वा विभाव्य तोषयेत् ॥ 260

प्राग्वत् सत्पद्मभाण्डे तु कृत्वा ज्ञानामृतामृतम् । दिक्पालान् स्वस्वयोगस्थान् प्रपूज्य मण्डलं विशेत् ॥ 261

त्रैलोक्यविजयो भूत्वा यथाप्त्याभरणाम्बरः । कृतप्रदक्षिणश् चक्रं नत्वा होमेन पूरयेत् ॥ 262

चतुरङ्गुलम् आत्यज्य तन्मानाब्जप्रफुल्लया । वेद्या हस्तार्धहस्ताधश् चक्रवत् सार्वकर्मिकम् ॥ 263

दैर्घाद् उच्छ्रयतः खड्गं अष्टैकाङ्गुलमानकम् । कुण्डमध्ये लिखेच् चक्ररत्नाब्जखड्गमध्यगम् ॥ 264

बहिर्वेष्टितवज्रालीं योगी पूर्वमुखस्थितः । जप्त्वा सर्वकृतारक्ष्य वामे ऽर्घाद्य् अन्यद् अन्यत् ॥ 265

न्यस्योपकरणं प्रोक्ष्य मञ्जुवज्रात्मयोगवान् । क्षीरवृक्षेन्धनादीप्तम् अग्निं त्र्यक्षररेचितम् ॥ 266

प्रज्वाल्य व्यञ्जनाघातैः कुशान् दद्यात् प्रदक्षिणम् । आद्यजहृत्सरत्र्यश्राब्जस्थं रूंबीजसंभवम् ॥ 267

ध्यात्वा पीतं त्रिवक्त्रं तु पीनं प्रज्ञान्गसङ्गिनम् । कुण्डिकाभयदण्डाक्षमालाकरम् इहानलम् ॥ 268

आवाह्य ज्ञानसद्वह्निं प्राग्वत् त्रितत्त्वटक्किना । अभ्युक्षणादिकं तस्य कृत्वासननिवेशनम्॥ 269

स्रुक्स्रुवे हस्तदण्डाधो वज्ररत्ने तदूर्ध्वतः । चतुरस्राङ्गुला पात्री द्व्यङ्गुलखातवज्रधा ॥ 270

चतुरङ्गुलवज्रान्तर् अन्ते पद्मदलाकृतिः । अन्तर् वज्राङ्गुलं खातं द्व्यङ्गुलाब्जदलं स्रुवम् ॥ 271

ध्यात्वा स्वदैवतं बीजं प्रदीप्तं स्रुक्स्रुवानने । दद्यात् पूर्णाहुतिं तस्मै रेफं विन्यस्य तन्मुखे ॥ 272

जुह्वीत समिधो धन्याः समिद्धे ऽग्नौ घृतं तिलान् । दूर्वाखण्दं तु दध्यन्नं कुशान् विधिक्रमाद् अतः ॥ 273

तथताज्ञानसद्वह्नेर् हृच्चन्द्रे मं-भवाधिपम् । सच्चक्रं जुहुयाद् ध्यात्वा बाह्यपूजादि पूर्वकम् ॥ 274

ओं अग्नये स्वाहा ॥ घृतस्य ॥

ओं सर्वपापदहनवज्राय सर्वपापं दह स्वाहा ॥ तिलानाम् ॥

ओं वज्रायुषे स्वाहा ॥ दूर्वायाः ॥

ओं वज्रपुष्टये स्वाहा ॥ अखण्डतण्डुलानाम् ॥

ओं सर्वसम्पदे स्वाहा ॥ दध्यन्नस्य ॥

ओं अप्रतिहतवज्राय स्वाहा ॥ कुशानाम् ॥

पुष्टिशान्तिवशाकर्षे द्वेषोच्चाटाभिचारुके ॥ ओं स्वाहा होः जः हुं हूं फट् मन्त्रान्ते चापि चोदना ॥275 हृत्सत्त्वात् स्वाधिपात् सर्वाः प्रीण्यन्ते देवता इति । ध्यायंश् चन्द्रादिकैर् अन्यैर् द्रव्यैः संतर्प्य पूर्ववत् ॥ 276

हृच्चन्द्रचक्रसज्जिह्वम् अन्ते पूर्णाहुतिं तथा । अभ्युक्ष्य चमनार्घं दत्त्वापूज्य स्तुत्वा विसर्जयेत् ॥ 277

शेषं हव्यं स्वयोगात्मा वह्नौ हुत्वाथ तं तथा । विसर्ज्य प्राग्विधानेन चक्रम् आपूज्य संविशेत् ॥ 278

शिष्यप्रवेशविधिना प्रविश्यादौ स्वयं कृती । निष्पाद्य सेकपर्यन्तं प्राप्यानुज्ञां कुलाधिपात् ॥ 279

महारागोद्भवं तत्त्वं चक्रं च प्रतिबिम्बवत् । पुरे शिष्यप्रवेशार्थं तत्त्वं सत्यं च श्रावयेत् ॥ 280

आकाशोत्पादचिह्नत्वाद् अनादिनिधनः परः । महावज्रमयः सत्त्वो मञ्जुवज्राद्य सिद्ध मे ॥ 281

सर्वोत्तममहासिद्धि माहैश्वर्याधिदैवत । सर्ववज्रधरो राजा सिद्ध मे परमाक्षर ॥ 282

निर्दोषः शाश्वतश् चासि सर्वरागानुरागण । तत्त्वेन सिद्ध मे भगवन् महारागो महारत ॥ 283

अत्यन्तशुद्ध सर्वाग्र आदिमुक्तस् तथागतः । समन्तभद्र सर्वात्मा बोधिसत्त्व प्रसिद्ध मे ॥ 284

सर्वोत्तममहासिद्धि माहैश्वर्याग्रमुद्रया । सिद्ध वज्र महोत्कर्षात् वज्रगर्वापते मम ॥ 285

सर्वसत्त्वमनोव्यापी सर्वसत्त्वहृदीस्थितः । सर्वसत्त्वपिता चैव कामो ऽग्र्यः समयाग्रिणां ॥ 286

येन सत्येन सज्ज्ञानं प्रज्ञोपायात्ममण्डलं । तेन सत्येन मे नाथ कामांस् त्वं परिपूरय ॥ 287

प्रतिबिम्बसमा धर्मा अच्छाः शुद्धा ह्य् अनाविलाः । अग्राह्या अनभिलाप्याश् च हेतुकर्मसमुद्भवाः ॥ 288

तथतातत्त्वनिर्याता इति सत्येन मण्डले । प्रतिबिम्बं स्फुटं शिष्याः सर्वे पश्यन्त्व् अकल्मषाः ॥ 289

सामान्यसंवरं शिष्यं प्राग्वत् कायादिभास्वरं । जमनीकान्तरं प्रोक्त सर्वकृत्कलशाम्भसा ॥ 290

रक्ताम्बरं तदास्यं च पृच्छेत् कस् त्वम् इति प्रिय । शिष्येणापि ततो वाच्यं सुभगो ऽहम् इति प्रिय ॥ 291

संपूज्य स्रक्करं द्वारि तथैवादत्तदक्षिणम् । योगचित्तं समुत्पाद्य हृदि वज्रं हृदा न्यसेत् ॥ 292

मन्त्रः ॥

ओं सर्वयोगचित्तम् उत्पादयामि सुरते समयस् त्वं होः सिध्य वज्र यथासुखं ।

अद्य त्वं सर्वतथागताधिष्ठितो भविष्यसि । न च त्वयेदम् सर्वतथागतपरमरहस्यम् अमण्डलप्रविष्टाय वक्तव्यं न चाश्रद्धातव्यम् इति वाच्यं ॥

यमार्यादिस्वसन्मन्त्रैः समाकृष्य प्रवेश्य च । पञ्चाक्षरैर् अथाप्य् एवं वाच्यं सत्संवरग्रहे ॥ 293

अद्य त्वं सर्वतथागतकुले प्रविष्टः । तद् अहं ते वज्रज्ञानम् उत्पादयामि येन ज्ञानेन त्वं सर्वतथागतसिद्धीर् अपि प्राप्स्यसि किम् उतान्याः सिद्धीः । न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यं । मा ते समयो व्यथेद् इति तद् धृदि वज्रम् आस्थाप्य ।

ओं वज्रसत्त्वः स्वयं ते ऽद्य हृदये समवस्थितः । निर्भिद्य तत्क्षणं यायाद् यदि ब्रूया इमं नयम् । 294

पद्मस्थं त्र्यक्षरोज्ज्वलं पाययेद् अमृतं पञ्च ॥

इदं ते नारकं वारि समयातिक्रमाद् दहेत् । समयरक्षणात् सिद्धिः पिब वज्रामृतोदकम् ॥ 295

ओं वज्रोदक ठः ॥

दृढप्रतिज्ञम् इदं वदेत् ॥

अद्य प्रभृति तवाहं वज्रपाणिर् यद् अहं ब्रूयाम् इदं कुरु तत् त्वया कर्तव्यं न चाहम् अवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरकपतनं स्यात् । ब्रूयाद् ब्रूहि ततः शिष्यान् सर्वतथागताश् चाधितिष्ठन्ताम् वज्रसत्त्वो मे आविशतु ।

वाचयित्वा च तद् धृदि ।

वज्राङ्ककोणमाहेन्द्रे हूं ध्यायात् पीत-लं-भवे । वारुणं वं-भवं शुक्लं घटाङ्कं परिमण्डलम् ॥ 296

नीलध्वजाङ्कधन्वाभं वायव्यं यं-भवं चलम् । काये वाचि तयोर् हः आः पादाधो झैः समुज्ज्वलं ॥ 297 वायव्ये रं-भव त्र्यस्रेणोद्दीप्य शिष्यम् आविशेत् ॥ 298 आवेशय स्तोभय र र र र चालय 2 हूं हः आः झैः ॥

जिह्वायां रक्तम् आः-कारं ध्यात्वाविष्टं पुनर् वदेत् । रागवज्रं तम् आभुज्य ब्रूहि वज्र शुभाशुभम् ॥ 299

तम् आवेशं दृधीकुर्वन् तिष्ठ वज्रेति तं लपेत् । प्रक्षेपयेत् स्रजं चक्रे

प्रतीच्छ वज्र होः ॥ तां शिरसि बन्धयेत् ॥ 300 प्रतिघृह्ण त्वम् इमं सत्त्वं महाबल ॥

चिह्ने चिह्नसमीपे वा स्रक्प्रपन्नाप्रपन्नयोः । पतेद् रुच्यापि तद्योगं दद्याद् भव्यतयाथ वा ॥ 301

सज्वालं प्रणवं नेत्रे ध्यत्वा ।

ओं वज्रसत्त्व स्वयं ते ऽद्य चक्षूद्घाटनतत्परः । उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् ॥ 302

ध्यात्वा चक्रं प्रदर्शयेत् ।

चक्राधिपं समारभ्य यावद् अमृतकुण्डलिम् । सेचयेद् अम्बुना मूर्ध्नि वज्राभिसिञ्च वाग्ब्रुवन् ॥ 303

सेचयेन् मौलिना प्राग्वद् दत्त्वा चाधिपदैवतं । हृदि संग्राह्य तद् वज्रं वज्रेणाप्य् अभिषेचयेत् ॥ 304

अद्याभिषिक्तस् त्वम् असि बुद्धैर् वज्राभिषेकतः । इदं तत् सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये ॥ 305

आलिङ्ग्य वज्रघण्टाभ्यां स्वाधिपात् ।

ओं वज्राधिपति त्वाम् अभिषिञ्चामि तिष्ठ वज्र समयस् त्वं ॥

मूर्ध्नि नामतः ॥

ओं वज्रसत्त्व त्वाम् अभिषिञ्चामि वज्रनामाभिषेकतः ॥ हे अमुकवज्र ॥

यद् यद् भाति स्वसर्वस्वं मुख्यं तन् मञ्जुराट् स्वयं । धर्माः शुद्धाः प्रकृत्या यद् बुद्धज्ञानचयः स हि ॥ 306

स्वस्यैव चक्रवर्तित्वे श्रीध्वनिर् नाम्न आदितः । सर्वे सर्वाधिपत्यात् तु वज्रान्ता हे-नियोजिताः ॥ 307

अब्धातुशुद्धिर् अक्षोभ्यो मकुटः समतात्मकः । वज्रं सत्प्रत्यवेक्षात्माधिपः कृत्यकरो ऽर्थदः ॥ 308

ज्ञानं विद्यात्र वज्रं स्याद् धातुर् गोत्रं वशी ह्य् अतः । व्रतव्याकरणाश्वासा विद्यासेके ऽपि नाम्न्य् मी ॥ 309

इदं तत् सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् । त्वयापि हि सदा धार्यं वज्र्पाणिदृढव्रतम् ॥ 310

ओं सर्वतथागतसिद्धिवज्रसमये तिष्ठ एष त्वां धारयामि हीः हि हि हि हि हूं ॥

सर्वान् वज्रव्रतं दत्त्वा वज्रं तत्त्वेन ग्राहयेत् । अनादिनिधनः सत्त्वो वज्रसत्त्वो महारतः । समन्तभद्र सर्वात्मा वज्रगर्वापतिः पतिः । 311

घण्टां तत्त्वेन संग्राह्य

इयं सा सर्वबुद्धानां प्रज्ञाघोषानुगा स्मृता । त्वयापि हि सदा धार्या बोधिर् अग्रा जिनैर् मता । 312 तां तद्धर्मेण वादयेत् ॥ 313 स्वभावशुद्धो हि भवः स्वभावैर् विभवीकृतः । स्वभावशुद्धैः सत्सत्त्वैः क्रियते परमो भवः ॥ 314

अधिष्ठाय महामुद्रां हृद्भिः सेवादिकीर्तितैः । समयैः कामरूपाद्यैर् जपेन् मन्त्रम् अव्यङ्गतः ॥ 315

स्वसंवेद्यस्वभावैस् तैः सर्वदिक्त्र्यध्वसंस्थितैः । स्वाधिदैवतयोगेन स्वं परांश् चैव पूजयेत् ॥ 316

दुष्करैर् नियमैस् तैर् यत् सेव्यमानैर् न सिद्धयः । सिध्यन्ते ऽन्तर्ध्यभिज्ञाखचारिवाक्चित्तकायजाः ॥ 317

तस्माद् बुद्धाश् च सत्सत्त्वा मन्त्रचर्याग्रचारिणः । प्राप्ता धर्माक्षरं श्रेष्ठं सर्वकामोपसेवनैः ॥ 318

सेवयन् कामगुणान् पञ्च सुखदुःखोभयात्मकान् । ज्ञानार्थी रागिणां योगात् साधयेत् सर्वम् एव हि ॥ 319

कायवाक्चित्तसंसिद्धेर् याश् चान्या हीनजाः स्मृताः । सिध्यन्ते मन्त्रजापात् तु कायवाक्चित्तभावनैः ॥ 320

यदुक्तं

वज्रं तत्त्वेन संगृह्य घण्टां धर्मेण वाद्य च । समयेन महामुद्राम् अधिष्ठाय हृदा जपेद् इति ॥ 321

तत् प्रत्युक्तम् ॥

गृहीतसम्वरं शिष्यं तथैवादत्तदक्षिणम् । याचयेद् अभिषेकाय प्रणम्यैवं तु गाथया ॥ 322

बोधिवज्रेण बुद्धानां यथा दत्तो महामहः । ममापि त्राणनार्थाय खवज्राद्य ददाहि मे ॥ 323

प्रवेशद्वारपीठस्थाष्टदलाब्जेष्टयोगिनम् । सर्वदिक्त्र्यध्वखव्यापिबुद्धचक्रैः स्वहृद्भवैः ॥ 324

वाद्यगन्धाद्युपेतैस् तैः प्राग्वद् विद्याभिषेकिणम् । महावज्राभिषेकेण सेचयेद् इति गाथया ॥ 325

अभिषेकं महावज्रं त्रैधातुकनमस्कृतम् । ददामि सर्वबुद्धानां त्रिगुह्यालयसंभवम् ॥ 326

दत्त्वाविवर्त्यसंसेकं चक्रतत्त्वं तु दर्शयेत् । चतुरस्रम् अवैषम्याद् बुद्धाबुद्धसमत्वतः ॥ 327

कायवाक्चित्तधर्माणां नानैकत्वाद्ययोगतः । तत्स्मृतिस् तत्र या श्रद्धा प्राग्द्वारं बोधये मतम् ॥ 328

भूतभाविविपर्यासहान्यनुत्पत्तये ततः । अभूतोत्पन्नतथ्यस्य चोत्पत्तिस्थितये पुनः ॥ 329

अर्वाग्द्वारं चतुर्वीर्यं छन्दोत्साहस्थितिर् मतिः । पश्चिमं ऋद्धिपादास् तु द्वारं तत्स्मृतिर् अत्र तु ॥ 330

श्रद्धावीर्यस्मृतिध्यानप्रज्ञेन्द्रियबलातुलम् । समाधिर् उत्तरं त्व् एवं चतुर्द्वारं स्मृतीन्द्रियैः ॥ 331

प्रथमादिचतुर्ध्यानैश् चतुस्तोरणवद् भवेत् । शूरङ्गमखगञ्जादिसमाधिर् वेदिकाः स्मृताः ॥ 332

वेद्यां पूजाकरव्यग्रग्रन्थादिधारिणीचयः । यच् चित्राभरणं तस्मात् सर्वाशापरिपूरणम् ॥ 333

विनयोद्धूतसद्धर्मनवाङ्गरवसर्वगम् । मारुतोद्धूतविश्वाग्रपताकाघण्टनादितम् ॥ 334

ज्ञानेष्व् आदर्शबोध्यङ्गैः सर्वदिक्षु प्रभास्वरैः । हारार्धहारचन्द्रार्कादर्शस्रक्चामरोज्ज्वलम् ॥ 335

चक्ररत्नादिसत्स्तम्भैर् विमोक्षाष्तकशोधितैः । तस्याभ्यन्तरतश् चक्रम् अष्तमण्डलकोपमम् ॥ 336

सर्वदिक्त्र्यध्वसम्बुद्धवज्रयानप्रवर्तनात् । वज्रसूत्रपरिक्षिप्तं समन्तात् परिमण्डलम् ॥ 337

रङ्गाणि पञ्चसंबुद्धास् तज्ज्ञानैः सत्त्वरञ्जनात् । इन्द्रियार्थादिसंशुद्ध्या स्वलक्षणविवेकतः ॥ 338

प्राग् यज् ज्ञानामृतं पीतं वज्रिणां कलशं तु तत् । संभारपूरिनिष्यन्दः पूर्णकुम्भः कृपार्द्रतः ॥ 339

पुष्पधूपमहादीपगन्धाख्यं यच् च मण्डले । बोध्यङ्गसुमनोह्लादिधर्मोल्का यशसां चयः ॥ 340

धर्माहारस् तु नैवेद्यं ह्रीर् अपत्राप्यसंवरं । सुगीतनृत्यवादित्रमहासुखविवर्धनम् ॥ 341

पुरं मोक्षपुरत्वाच् च मण्डलं सारसंग्रहात् । चक्रतत्त्वं समादर्श्य देवतातत्त्वम् आदिशेत् ॥ 342

श्रद्धावीर्यस्मृतिध्यानशुद्ध्या सद्द्वारिरूपकम् । कायादौ योगधृक् चित्तं प्रज्ञाशुद्ध्या सुनिर्मलम् ॥ 343

दानादिषड्बहिःशुद्ध्या रूपवज्रादिभावधृक् । भूपायाद्यनिमित्तत्वाल् लोचनादिस्वभावकम् ॥ 344

अर्थसत्त्वात्मसंकल्पप्रवृत्तिज्ञानशुद्धितः । आदर्शादिक्षयज्ञानं सर्वबुद्धस्वरूपकम् ॥ 345

ज्ञानानुत्पादयोगेन चक्रेशाकारभास्वरम् । रूपादिभ्रमसंशुद्ध्या स्कन्धायतनधातुकम् ॥ 346

मात्सर्यादिपरावृत्तेः परमाभूषु सुस्थिरं । स्वविपक्षपरावृत्त्या बलाद्यविकलामलम् ॥ 347

अविकल्पात् तु गाम्भीर्यम् औदार्यं स्वपरोदयात् । गाम्भीर्यौदार्यतश् चेतः प्रज्ञोपायात्मकं मतम् ॥ 348

प्रत्यात्मवेद्यधर्मत्वाद् भेदाभेदाद्यसंस्थितम् । एवं प्रपञ्चिते भ्रान्तिफलाः पारमीतादयः ॥ 349

समयाग्र्या ततो योगं रूपाब्दगुणयुक्तया । कृत्वाचार्यो ऽत्र संविश्य ज्ञानावेशं प्रकल्पयेत् ॥ 350

वज्रेण पद्मम् आस्फोट्य बुद्धान् स्वान्तर् निवेश्य च । स्थिरीकृत्य च पद्मस्थान् प्राप्यानुज्ञां कुलाधिपात् ॥ 351

स्वनामोच्चार्य वज्रात्मा स्फरयेच् चक्रयोगतः । वज्राब्जध्वनिभिर् बुद्धान् आनीय चक्रपार्श्वतः ॥ 352

विघ्नान् उत्सार्य संरक्ष्य दत्त्वार्घं प्रतिपूज्य च । संस्तुत्य द्वारिभिर् द्वारकर्म कृत्वात्र साधयेत् ॥ 353

चक्षुःकायाद्यधिष्ठानसेकपूजादिकल्पिते । विज्ञापयेत् सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धये ॥ 354

चक्रं संलिख्य सम्यक् प्राक् प्रतिष्ठायां त्व् अयं विधिः । प्रतिमापुस्तकादीनां पौरुषान्तस् तु सेकतः ॥ 355

सकलार्घवितानादि रक्षाहोमादि यत् स्मृतम् । त्रिपञ्चाक्षरसन्मन्त्रैर् मन्त्रैर् वा प्राक् समुद्धृतैः ॥ 356

कारयित्वा बहिः स्नानं चक्रवर्तीव तत् स्वयम् । उत्तमं तत्त्वम् एतद् धि प्रज्ञोपायात्मकं तु यत् ॥ 357

जलमौली तु निष्यन्दः पाको वज्राधिपाःवकाः । संबुद्धैः पौरुषः सेको वैमल्यो गुह्ययोगतः ॥ 358

ततो रूपादिसम्पन्नां स्वभ्यस्तचक्रयोगिनीम् । समयसंवरस्थां तां चक्रे मुद्राम् अधिष्ठ्य च ॥ 359

मुनीन्द्रवृन्दं वज्रान्तः समावेश्य च सत्सुखम् । प्रपीड्यानामज्येष्ठाभ्यां शिष्यवक्त्रे प्रपातयेत् ॥ 360

शिष्यो दृढमतिः सर्वं पिबेत् वैरोचनात्मना । स भवेद् विश्ववद् विश्वो ऽत्राहो सुखेति वाग् ब्रुवन् ॥ 361

प्रज्ञासंपर्कतः श्रीमान् तत्त्वं समुपलक्षयेत् । इयं ते धारणी रम्या सेव्या बुद्धैः प्रकल्पिता ॥ 362

चक्रक्रमप्रयोगेण समास्वादय सत्सुखम् । वज्रपर्यङ्कतश् चित्तं मण्यन्तर्गतम् ईक्षयन् ॥ 363

मण्डलं देवतातत्त्वम् आचार्यपरिकर्म च । संकथ्य गुह्यप्रज्ञाभ्यां सिक्त्वा तत्त्वं समुद्दिशेत् ॥ 364

यद् आह ॥

न तथा बोधिचर्याद्यैर् अन्यैर् वापि न यैः शुभैः । प्राप्यन्ते सर्वबुद्धाद्या यथाभिषेकाद् इतो नयात् ॥ 365

समयं रक्षयेद् भर्तुः संवरं पालयेत् सदा । पञ्चमांसामृतं भक्ष्यं रक्षो ऽन्यः समयो ऽप्य् अतः ॥ 366

रत्नघ्नघातसर्वस्त्रीपरस्वादानं वाङ् मृषा । एतद् धि विधिवत् रक्ष्यं योगतन्त्रे च यत् स्मृतम् ॥ 367

ततस् तथागतो भूत्वा व्याकुर्याद् उद्गतयानया । हृन्मुष्टिचीवरा वामा दक्षिणा तु वरप्रदा ॥ 368

ओं एसाहं व्याकरोमि त्वां वज्रसत्त्वस् तथागतः । भवदुर्गतितोद्धृत्य अत्यन्तभवसिद्धये ॥ 369

हे वज्रनाम तथागत सिद्धये भूर् भूवः स्वः ॥

व्याक्रियते ऽनया यस् तु मन्त्री सर्वजगत्पतिः । बोधाव् अनुत्तरायां हि व्याकुर्यात् सुगतैर् अपि ॥ 370

यथा यथा हि विनयं सत्त्वा यान्ति स्वभावतः । तथा तथा हि सत्त्वार्थम् कुर्याद् रागादिभिः शुचिः ॥ 371

प्रतिदिनं चतुःसन्ध्यं समाधित्रययोगवान् । भूत्वा साधय संसिद्धिं सामान्येतरभावनीम् ॥ 372

अन्तर्धिर् धातुसाहस्रे द्विसाहस्रेष्व् अभिज्ञकः । विद्याधरस् त्रिसाहस्रे वज्री सर्वजगत्पतिः ॥ 373

शान्तिपुष्ट्यादि यत् कर्म तदन्यद् वा यद् ईप्सितम् । चक्रानुरागयोगेन साधयन् सिध्यते लघु ॥ 374

तद् उक्तम् ॥

वज्राधिपतयः सर्वे रागतत्त्वार्थचिन्तकाः । कुर्वन्ति रागजां बोधिं सर्वसत्त्वहितैषिनिईं ॥ 375

अतो बोध्यर्थिको मन्त्री कायवाक्चित्तचेष्टितम् । कर्म कुर्याद् विधानेन सर्वं तद् बोधये मतम् ॥ 376

यथा प्रविष्टशिष्येभ्यो ऽनुशंसार्थिभ्य इत्य् अपि । समाश्वासां त्रिसमयम् अतो दद्याद् विधानतः ॥ 377

दृष्ट्वा प्रविष्ट्वा परमं रहस्योत्तममण्डलम् । सर्वपापैर् विनिर्मुक्ता भवन्तो ऽद्यैव सुस्थिताः ॥ 378

न भूयो मरणं वो ऽस्ति यानाद् अस्मान् महासुखात् । अधृष्याश् चाप्य् अबद्धाश् च रमध्वम् अकुतोभयाः ॥ 379

निवृत्तं भवदुःखं वो ऽत्यन्तभवशुद्धये । संभूताः शासिनाम् अग्रा अत्यन्तभवसिद्धये ॥ 380

अयं वः सततं रक्ष्यः सिद्धः समयसंवरः । सर्वबुद्धैः समं प्रोक्ता आज्ञा परमशाश्वती ॥ 381

बोधिचित्तं न वै त्याज्यं यद् वज्रम् इति मुद्रया । यस्योत्पादनमात्रेण बुद्ध एव न संशयः ॥ 382

सद्धर्मो न प्रतिक्षेप्यो न च त्याज्यः कदाचन । अज्ञानाद् वाथ मोहाद् वा न वै विवृणुयात् स तु ॥ 383

स्वम् आत्मानं परित्याज्य तपोभिर् न च पीडयेत् । यथासुखं सुखं धार्यं संबुद्धो ऽयम् अनागतः ॥ 384

वज्रं घण्टा च मुद्रा च न वै त्याज्या कदाचन । अचार्यो नावमन्तव्यः सर्वबुद्धसमो ह्य् असौ ॥ 385

यो वावमन्येताचार्यं सर्वबुद्धसमं गुरुम् । सर्वबुद्धापमानेन स नित्यं दुःखं आप्नुयात् ॥ 386

ज्वरैर् गरैर् विषैर् रोगैर् डाकिन्युपद्रवैर् ग्रहैः । विघ्नैर् विनायकैर् घोरैर् मारितो नरकं व्रजेत् ॥ 387

तस्मात् सर्वप्रयत्नेन वज्राचार्यं महागुरुम् । प्रच्छन्नवरकल्याणं नावमन्येत् कदाचन ॥ 388

अनुरूपं च ते देयं गुरुभक्तं सदक्षिणम् । ततो ज्वरादयस् तापा न भूयः प्रभवन्ति हि ॥ 389

नित्यं स्वसमयः साध्यो नित्यं पूज्यास् तथागताः । नित्यं च गुरवे देयं सर्वबुद्धसमो ह्य् असौ ॥ 390 तद्दानात् पुण्यसंभारः संभाराद् बोधिर् उत्तमा ।286दत्ते ऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम् ॥ 391 अद्य वः सफलं जन्म यद् अस्मिन् सुप्रतिष्ठिताः । समाः समयदेवानां भविता स्थ न संशयः ॥ 392

अद्याभिषिक्ता आयुष्मन्तः सर्वबुद्धैः सवज्रिभिः । त्रैधातुकमहाराज्यं राजाधिपतयः स्थिराः । 393

अद्य मारान् विनिर्जित्य प्रविष्टाः परमं पुरम् । प्राप्तम् अद्यैव बुद्धत्वं भवद्भिर् नात्र संशयः ॥ 394

इति कुरुत मनः प्रसादवज्रं स्वसमयम् अक्षयसौखदं भजध्वम् । जगति लघु सुखे ऽद्य वज्रसत्त्वप्रतिसमशाश्वतताम् गता भवन्तः ॥ 395

प्रणिपत्य गुरोः पदौ शिष्याः सद्भक्तिवत्सलाः । ब्रूयुर् एवं करिष्यामो यथाज्ञापयसे विभो ॥ 396

सत्य् एव संभवे तेषां प्रत्येकं वामपाणिना । सव्याङ्गुष्ठकम् आगृह्य शान्तिं कुर्याद् विधानतः ॥ 397

त्रिसप्ताहुतिम् एकां वा राज्ञो वा भूपतेर् अथ । दिक्पालस्वात्मशान्तौ च हुत्वा याचेत दक्षिणाम् ॥ 398

सर्वसत्त्वार्थकर्त्तव्ये श्रुतादौ वा प्रति प्रति । भूगजादिसुवर्णादौ स्वसिद्धौ वा सहायताम् ॥ 399

संगृह्य यत् तद् उत्सृष्टं संतोष्य दत्तदक्षिणान् । सर्वाहारविहारैस् तैः स्वपरैश् चक्रम् अर्चयेत् ॥ 400

संगृह्य योग्यसच्छिष्यान् विचित्रपरमायुभिः । संतर्प्य चोपसंहृत्य मुः-कारान्तैश् च त्र्यक्षरैः ॥ 401

आकारेत्यादिमन्त्रेण शून्यं तच् चक्रम् उत्तमम् । दत्त्वार्थिने रजः स्तोकं महत् तोये रजः सृजेत् ॥ 402

गर्त्तापूरे प्रतिष्ठायां होमे चक्रे च यद् धनम् । आचार्यस्यैव तत् सर्वम् इत्य् आह वरवज्रधृक् ॥ 403

इत्यादिकर्मिकस्यायम् उक्तश् चक्रविधिः स्फुटः । ज्ञानावेशसुलब्धस्य त्व् आवेशेनैव कथ्यते ॥ 404

द्वादशाब्दे समावेश्य संपूज्य बालबालिके । ताभ्यां यद् रचयेच् चक्रं चित्तवाक्कायिकं मतम् ॥ 405

चित्ते त्व् अक्षोभ्यमामक्योर् आदेशः समुदाहृतः । पाण्डरामितयोर् वाचि काये शाश्वतलोचने ॥ 406

चित्तवाक्कायसंस्तोभाद् रचनात् त्व् इयम् अद्भुता । चित्तस्तोभात् परिज्ञानं वाक्स्तोभान् मन्त्रभाषणम् ॥ 407

कायस्तोभाच् च खेस्थानं स्तोभावेशे विधिस् त्व् अयम् । आचार्यशिष्यसेको ऽत्र प्राङ्न्यायेनैव संस्थितः ॥ 408

प्राप्तज्ञानवशीकुर्याच् चेतसैव त्रिचक्रकम् । तदधिष्ठानतश् चक्रं दृश्यते स्वपरैर् यतः ॥ 409

प्रवेशो ऽत्राभ्यनुज्ञतः स्पष्टस्वप्नवद् इष्यते । यतस् तेनोत्तमो ज्ञेयश् चित्तमूर्तिदृढत्वतः ॥ 410

त्रियोगानाम् अपि प्राग्वद् विधिर् वाक्कायचक्रयोः । तत्स्थाने ऽक्षोभ्यचिह्नं स्याद् वाक्कायगुह्यशुद्धये ॥ 411

ज्ञानादिकर्मिसंवेशिसंप्राप्तवशिनाम् अपि । चेतसैव विधिः सर्वस् तद्धीनो नैव सिध्यति ॥ 412

वज्राचार्याग्रशिष्याणां निष्यन्दादिरतात्मनाम् । मनसोक्तो विधिः श्रेष्ठो वाङ्मात्रेणात्र किं भवेत् ॥ 413

वृत्तमात्रान् न बुद्धत्वं श्रुतमात्राच् च नो भवेत् । चिन्तयापि न यावच् च भावनातो निरुच्यते ॥ 413

यद् आह ॥

अलं बहुविसर्पिण्या कथया मन्त्रवादिनाम् । चेतः साध्यं विशेषेण चित्तात् संबोधिसम्भवः ॥ 414

यद् उक्तम् ॥

यत् फलं बोधिचित्तं तद् बुद्धज्ञानम् अनुत्तरम् । वज्रसत्त्वमयं तस्य धर्मसंभोगनिर्मितम् ॥ 415

प्राकृतकल्पनावृत्तेर् नान्यद् दुःखं भवात्मकम् । साक्षाद् अस्य विरोध्य् एवं प्रज्ञोपायात्म [...] 416

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.