Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
धर्मसमुच्चय
- Thông tin
- GRETIL — Vijayasankar Caube: Dharmasamuccaya.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यस्य चित्तं ध्रुवं शान्तं निर्वाणाभिरतं सदा / न तस्येन्द्रियजा दोषा भवस्य शुभहेतवः // dhs_26.4 //
यच्च ध्यानकृतं सौख्यं यच्च (चित्तं) समाधिजम् / चित्तं तत्सर्वमेकाग्रमते भवति देहिनः // dhs_26.5 //
यतिः अलौकिकं सुखं भुङ्क्ते
एकारामस्य यतिनो यत् सुखं जायते हृदि / यत् सौख्यमतिविज्ञेयं न सौख्यं लौकिकं मतम् // dhs_26.6 //
कीदृशं चित्तं शान्तिं समधिगच्छति?
एकाग्राभिरतं चित्तं विशुद्धाकृतमेव च / दोषजालविनिर्मुक्तं शान्तिं समधिगच्छति // dhs_26.7 //
ज्ञानाम्भसा तृष्णाग्निं हन्ति
एकान्तमनसा नित्यं संक्षिप्तेन्द्रियपञ्चकैः / तृष्णाग्निनातिवृद्धं च हन्ति ज्ञानाम्भसा बुधः // dhs_26.8 //
तस्य तृष्णाविमुक्तस्य विशुद्धस्य सुखैषिणः / अक्षयं चाव्ययं चैव पदं हि स्थितमग्रतः // dhs_26.9 //
निर्वाणपुरगामि वर्त्म
वितर्ककुटिलं चेतो यत्र यत्रोपपद्यते / एकालम्बनयुक्तेन धार्य तेन समाधिना / तस्मादेतत् परं वर्त्म निर्वाणपुरगामिकम् // dhs_26.10 //
मनोनिग्रहफलम्
एतदग्रं मनः क्षुत्वा हन्यादरिसमूहकम् / मनो हीदं विनिर्गृह्य (स) वेत्ति ध्यानजैर्दृढैः // dhs_26.11 //
निरुपमं ध्यानजं सुखम्
(तत्र स्थिताः नराः श्रेष्ठाः श्रद्धावन्तो मनीषिणः) / प्रयान्ति परमं स्थानमशोकं हतकिल्विषम् // dhs_26.12 //
निर्विषस्कस्य तुष्टस्य निरागस्यापि धीमतः यत् सुखं ध्यानजं भाति कुतस्तस्योपमा परा // dhs_26.13 //
ध्यानैः परमं पदं प्राप्यते
एतत्सारं सुधीराणां योगिनां पारगामिनाम् / यदेवेदं मनः श्रुत्वा प्रयान्ति पदमच्युतम् // dhs_26.14 //
// इति ध्यानवर्गः षड्विंशः //
(27) प्रज्ञावर्गः
प्रज्ञा मातेव हितकारिणी
धर्मानुसारिणी प्रज्ञा वीर्येण परिवृंहिता / समाधिबलसंयुक्ता मातेव हितकारिणी // dhs_27.1 //
प्रज्ञा गतिपञ्चकात् त्रायते
सा हि सन्त्रायते सर्वान् पुरुषान् गतिपञ्चकात् / न माता न पिता तत्र गच्छन्तमनुगच्छति // dhs_27.2 //
प्रज्ञाशिखरमारुह्य शीलकन्दरशोभनम् / भवदोषमिदं सर्व पश्यति (ज्ञान) भूषणः // dhs_27.3 //
समाधिना भवार्णवं तरति
इन्द्रियाणीन्द्रियार्थेभ्यो यदा विन्दन्ति तत्पदम् / तदा समाधिना ज्ञान भवसागरमुत्तरेत् // dhs_27.4 //
दानशीलतपोध्यानैर्ज्ञानमेवाग्रमुच्यते / अपवर्गाद् यदा ज्ञानं ज्ञानशीले सुखावहे // dhs_27.5 //
प्रज्ञा अष्टमो मार्गस्तथागतेनोपदिष्टः चक्षुषां च परा दृष्टा प्रज्ञोक्ता (या)सुनिर्मला / मार्गाणां चाष्टमो मार्गः शिवः प्रोक्तस्तथागतैः // dhs_27.6 //
प्रज्ञाबलं सर्वोत्तमम्
चतुर्णा चैव सत्यानामग्रे द्वे तु प्रकीर्तिते / बालानां च सदा दृष्टं प्रज्ञाबलमिहोत्तमम् // dhs_27.7 //
जन्मपद्वतिर्ज्ञानशस्त्रेण छेत्तव्या
ज्ञानशस्त्रेण तिक्ष्णेन लता छेद्या दुरासदा / हन्तव्या दोषनिवहाश्छेत्तव्या जन्मपद्धतिः // dhs_27.8 //
न ज्ञानात्परो बन्धुः
अमृतानां परं ज्ञानं श्रेयसां निधिरुत्तमम् / न ज्ञानाच्च परं बन्धुर्न ज्ञानाद्धनमुत्तमम् // dhs_27.9 //
ज्ञानशीलयुता प्रज्ञा सेवितव्या
ज्ञानशीलयुतावृद्धा वीतरागा गतस्पृहाः / सेवितव्याः सदा सन्तस्तत्त्वमार्गनिदर्शकाः // dhs_27.10 //
क्लेशादीन् प्रज्ञाशस्त्रेण विदारयेत्
प्रज्ञावज्रेण तीक्ष्णेन महोदयवसेन च / महायोगरथारूढः क्लेशादीन् प्रविदारयेत् // dhs_27.11 //
// इति प्रज्ञावर्गः सप्तविंशः //
(28) निर्वाणवर्गः
क्लेशक्षय एव निर्वाणमार्गः
क्लेशक्षयात् परं सौख्यं कथयन्ति मनीषिणः / एष निर्वाणगो मार्गः कथितस्तत्त्वदर्शकैः // dhs_28.1 //
तत्पदं शाश्वतं जुष्टं कथयन्ति तथागताः / यत्र जन्म न मृत्युर्न विद्यते दुःखसम्भवः // dhs_28.2 //
विभूतस्याप्रमत्तस्य शान्तस्य वनचारिणः / अलोलुपस्य वीरस्य निर्वाणस्य विभूतयः // dhs_28.3 //
विषयेष्वप्रमत्तो निर्वाणं नातिचिरं प्राप्नोति
मित्रामित्रप्रहीणस्य भवरागविवर्जिनः / विषयेष्वप्रमत्तस्य निर्वाणं नातिदूरतः // dhs_28.4 //
शुभकर्त्तृ निर्वाणं प्राप्नोति
शुभकार्येषु सक्तस्य मैत्रीकारुण्यभाविनः / संसारभयभीतस्य निर्वाणं नातिदूरतः // dhs_28.5 //
कौसीद्यविरहितः त्वरितं निर्वाणं याति
क्लेशक्षयविधिज्ञस्य नैरात्म्यस्यापि तस्य च / कौसीद्याच्चैव मुक्तस्य निर्वाणं नातिदूरतः // dhs_28.6 //
वश्येन्द्रियस्य शान्तस्य निर्वाणं समीपतरम्
चतुःसत्यविधिज्ञस्य त्रिदोषवधसेविनः / वश्येन्द्रियस्य शान्तस्य निर्वाणं नातिदूरतः // dhs_28.7 //
सुखदुःखपाशैर्मुक्तो मुनिः पारग उच्यते सुखदुःखमयैः पाशैर्यस्य चेतो न हन्यते / स दोषभयनिर्मुक्तः पारगो मुनिरुच्यते // dhs_28.8 //
शुभान्वेषी निर्वाणमधिगच्छति
पुरुषो ऽपायभीरुश्च प्रमादबलवर्जकः / शुभकारी शुभान्वेषी निर्वाणमधिगच्छति // dhs_28.9 //
// इति निर्वाणवर्गो ऽष्टाविंशः //
(29) मार्गवर्गः
आर्यचतुष्टयोपासकः पारं गच्छति
सत्यानि चत्वारि शिवानि तानि, सुभावितान्येव समीक्ष्य विद्वान् / सुचिन्तको जातिजराभयेभ्यः, प्रमुच्यये पारमुपैति शान्तः // dhs_29.1 //
कामेषु सक्तः भवभोगबद्धः भवति
अचिन्तको यस्तु विभूतबुद्धिः कामेषु सक्तो भवभोगबद्धः / स बन्धनैः काममयैर्निबद्धो, न मुच्यते जातिजराभयेभ्यः // dhs_29.2 //
भवार्णवे सुखद्रष्टा अन्ते नरकं याति
विचिन्त्य यो दुःखमिदं विशालं, न खेदमायाति भवार्णवेभ्यः / स कामवाणैर्निहतो हि मूढः, कष्टामवस्थां नरके ऽपि याति // dhs_29.3 //
आभ्यन्तरं क्षेमसुखं च हित्वा, किं कामभोगाभिरता हि बालाः / नैते बिजानन्ति भयं च तीव्रमभ्येति मृत्युर्ज्वलनप्रकाशः // dhs_29.4 //
तत्त्वमार्गप्रदर्शकैः किमुक्तम्?
अनित्यदुःखशून्यो ऽयमात्मा कारकवर्जितः / संसारः कथितो बुद्धैः तत्त्वमार्गप्रदर्शकैः // dhs_29.5 //
तेन सर्वमिदं तत्त्वज्ञानं ज्ञेयं समासतः / ज्ञानज्ञेयविनिर्मुक्तं तृतीयं नोपलभ्यते // dhs_29.6 //
कः तत्त्वविधिज्ञः?
अन्तपारविधिज्ञो यः षोडशाकारतत्त्ववित् / ऊर्ध्वगतिविधिज्ञो हि क्षान्तितत्त्वविचक्षणः // dhs_29.7 //
तत्त्वविदेव धर्मतामनुविशति
अग्रलोकैकधर्मज्ञः समनन्तरतत्त्ववित् / स धर्मतामनुविशेद् यथा (च) न विकम्पते // dhs_29.8 //
द्वयोपायविनिर्मुक्तो नष्टान् नाशयते मुहुः / नष्टपापगतिर्वीरः स्त्रोतापन्नो निरुच्यते // dhs_29.9 //
स्रोतांस्य कुशला धर्मा जीर्यन्ते पापगामिनः / मोक्षाग्निना प्रतप्यन्ते स्रोतापन्नो भवत्यतः // dhs_29.10 //
प्रस्रब्धिजं महोदर्कमुक्तं संसारमोक्षकम् / तृष्णाक्षयसुखं दृष्टं सत्यतः सुखकारकम् // dhs_29.11 //
कः सदैव सुखी भवति?
नावबध्नाति यं तृष्णा न वितर्कैर्विहस्यते / सम्प्राप्तभवपारस्तु सुखी भवति सर्वदा // dhs_29.12 //
आर्य मार्गचतुष्टयम् अन्योन्यफलसम्भूतम्
अन्योन्यफलसम्भूत सर्वतः सम्प्रवर्तते / तदेव कारणं ज्ञेयमार्यमार्गचतुष्टयम् // dhs_29.13 //
आर्यसत्येषु विदितः पुरुषो विद्यते ध्रुवम् / विषयेषु हि संघुष्टं जगद् भ्रमति चक्रवत् // dhs_29.14 //
कः श्रेष्ठो मार्गः?
स मार्गो देशकः श्रेष्ठो यो मार्गो भाषितः शिवः / येन मार्गेण प्राचीना (ध्रुवं) याता मनीषिणः // dhs_29.15 //
त्रिशरणगत एव सुखं जीवति
सुजीवितं भवेत् तस्य यस्य बुद्धौ स्थितं मनः / नहि बुद्धिविनिर्मुक्तं जीवितं जीवितं भवेत् // dhs_29.16 //
सुजीवितं भवेत् तस्य यस्य धर्मे स्थितं मनः / नहि धर्मविनिर्मुक्तं जीवितं जीवितं भवेत् // dhs_29.17 //
सुजीवितं भवेत् तस्य यस्य सङ्घे स्थितं मनः / नहि सङ्घविनिर्मुक्तं जीवितं जीवितं भवेत् // dhs_29.18 //
केषां सुजीवितं जीवनम्?
सुजीवितं भवेत् तस्य यस्य सत्ये स्थितं मनः / नहि सत्यविनिर्मुक्तं जीवितं जीवितं भवेत् // dhs_29.19 //
सुजीवितं भवेत् तस्य यस्य मार्गे स्थितं मनः / नहि मार्गविनिर्मुक्तं जीवितं जीवितं भवेत् // dhs_29.20 //
निर्वाणगमने यस्य नित्यं बुद्धिरवस्थिता / स दोषादेव निर्मुक्तो न देवः क्रीडति स्वयम् // dhs_29.21 //
कीदृशी क्रीडा सुखोद्भाविका?
या भवव्यापिनी क्रीडा नित्यमेकाग्रचेतसः / सा सुखोद्भाविका क्रीडा न क्रीडा रागकारिका // dhs_29.22 //
केन मार्गेण शिवं स्थानं मिलति?
सुखादीनिह सत्यानि यथा दान्तेन विन्दति / तदा क्षेमं शिवं स्थानं प्राप्नोति पुरुषोत्तमः // dhs_29.23 //
// इति मार्गवर्ग एकोनत्रिंशः //
(30) भिक्षुवर्गः
आदर्शो भिक्षुः लोकमार्गदर्शकः
यो हिनस्ति न भूतानि मित्रवेत्ता सदाक्षयः / पितृवत् सर्वभूतानि लोकस्तमनुपश्यति // dhs_30.1 //
अदत्तादानविरतो नित्यं ज्ञानी जितेन्द्रियः / प्रशान्तदेहकर्मा (च) तीर्णसम्भवसङ्क्रमः // dhs_30.2 //
नाप्यालेख्यगता नापि चक्षुषा सा निरीक्ष्यते / हतकामो दृष्टसत्यो मुक्तस्तादृश उच्यते // dhs_30.3 //
समलोष्टाश्मकनकः वीतशोकः समाहितः / न क्लेशोरगसम्पृक्तः स सौख्यं ध्रुवमाप्नुयात् // dhs_30.4 //
कः भिक्षुर्विद्यते?
अर्थानर्थसमो यस्य लाभालाभौ तथैव च / सुखदुःखसमायुक्तः भिक्षुः स खलु कथ्यते // dhs_30.5 //
मित्रामित्रप्रहीणो यः समचेता जितेन्द्रियः / विभेति यो न विषयैः विज्ञेयस्तादृशो यतिः // dhs_30.6 //
विषयद्वेषी निर्वाणमधिगच्छति
विषमत्वाद्धि विषयान् द्वेष्टि धीरो गतव्यथः / न तस्य दूरे निर्वाणं सम्यक्सम्बुद्धदेशितम् // dhs_30.7 //
उदयव्ययतत्त्वज्ञः सम्यग्दृष्टिरलोलुपः / हिमवानिव निष्क्रम्य संसारान्मुक्तहेतुकः // dhs_30.8 //
तृणचन्दनतुल्यो हि समतृष्णाम्बराशिनः / स कौशेयसङ्घटिततृष्णया नैव बाधते // dhs_30.9 //
लाभसत्कारसन्तुष्टः सन्तुष्टस्तृणसंस्तरैः / वह्निवल्लाभसत्कारं यः पश्यति स पश्यति // dhs_30.10 //
बुद्धदेशिताः भिक्षुधर्माः
वाह्यते यो न विषयैस्तृणनद्या न वाहयते / स्वकर्मफलतत्त्वज्ञः स भिक्षुर्बुद्धदेशितः // dhs_30.11 //
नातीतं शोचते यो हि बुद्धया (चैव) गतस्पृहः / प्रत्युत्पन्नक्रियायोगी न बुद्धिस्तस्य लिप्यते // dhs_30.12 //
निर्वाणे (च) मतिर्यस्य धर्मे नित्यं स्थिता भवेत् / न वर्तते स संसारे शुक्लधर्मसमावृतः // dhs_30.13 //
नाविलं क्रियते यस्य चित्तं विद्याग्निकल्पया / दारुवद्विषया यस्य तस्य दुःखं न विद्यते // dhs_30.14 //
इन्द्रियाणि वशे यस्य चेन्द्रियेषु वशानुगः / ह्रियते यः पुमर्थैनो निकषस्तादृशो मुनिः // dhs_30.15 //
साधुवद्धिमनो यस्य क्षमावान् प्रियदर्शनः / प्रह्लादयति चेतांसि स नृणां शशिवन्मुनिः // dhs_30.16 //
अरुणाभिरतो यस्तु हर्म्याग्रेषु न रज्यति / सन्तुष्टः पांशुकूलेन भिक्षुर्भिक्षारतो भवेत् // dhs_30.17 //
शान्तो दान्तः सुधीरर्थात् तत्त्ववित् सुखदुःखयोः / स यात्युत्तममध्वानं यत्र गत्वा न शोचति // dhs_30.18 //
ऋजुमत्पातकान्यस्य नित्यं ध्यानपरायणः / प्राकृतैश्च मलै(र्हीनः) स योगी सत्यवर्त्मनि // dhs_30.19 //
सर्वेन्द्रियविघाती यः सर्वभूतहिते रतः / शान्तो दान्तेन्द्रियः स्वस्थो भिक्षुर्भवति तादृशः // dhs_30.20 //
षडिन्द्रियरथारूढो रागशत्रुनिवारकः / प्रज्ञाधीरः क्रियावान् यः स शान्तिपदमश्नुते // dhs_30.21 //
अरण्यवासी सन्तुष्टो भूमिवासी समाहितः / धुनाति पापको धर्मश्चायुर्मेघानिवाम्बरः // dhs_30.22 //
शुभं वा देहकर्मान्तः शुभचर्यासु संरतः / तत्त्वदृष्टिः क्रियादक्षो नाशयन्मारसाधनम् // dhs_30.23 //
दयालुर्भिक्षुर्निर्वाणमार्गे स्थितो भवति
रागात्यये न बाधेत शुभचित्तं गतालयम् / मैत्र्या कारुण्यबहुलो भिक्षुर्नैर्य्याणिके स्थितः // dhs_30.24 //
यस्य रूपादयो नेष्टा विषया बन्धहेतवे / स याति परमां शान्तिं यत्र गत्वा न शोच्यते // dhs_30.25 //
हेतुप्रत्ययतत्त्वज्ञः सूक्ष्मार्थे कृतनिश्चयः / मोक्षस्रोतस्यभिरतस्तृष्णया नैव रज्यते // dhs_30.26 //
यो नादत्ते ऽशुभं कर्म शुभकर्मरतः सदा / चन्द्रांशुनिर्मलगतिर्योगी भवति तादृशः // dhs_30.27 //
प्रदहन् पापकान् धर्मान् शुष्केन्धनमिवानलः / विभ्राजते त्रिभुवने मुक्तपायो गतव्यथः // dhs_30.28 //
मोक्षे ऽस्ति यस्य तु मनो न संसारे कथञ्चन / नासौ बध्नाति संसारे मुक्तः पक्षी यथाम्बरे // dhs_30.29 //
वेदनोदयतत्त्वज्ञो वेदनाफलनिश्चयः / स मुक्त इति विज्ञेयस्तत्त्वविद् ऋतवांश्च सः // dhs_30.30 //
तथाप्येते सुखदुःखे मृष्टामृष्टैर्न लिप्यते / दीप्तं पश्यति संसारं यः स योगी सतां मतः // dhs_30.31 //
भिक्षुर्भवति कीदृशः?
अथामूढमतिर्नित्यं नित्यं धर्मपरायणः / भिक्षुवृत्तावभिरतो भिक्षुर्भवति तादृशः // dhs_30.32 //
न तृप्तिर्दर्शनारामैः साधूनां दर्शने रतिः / निष्क्रान्तगृहकल्माषो भिक्षुर्भवति तादृशः // dhs_30.33 //
न नृत्यगीतसन्दर्शी (सत्यं) च पुनरीक्षते / संरक्षितो श्मशानेषु भिक्षुर्भवति तादृशः // dhs_30.34 //
एकाहं परमं पिण्डमादत्ते ऽन्यत्र काङ्क्षति / त्रिभागकुक्षिसन्तुष्टो भिक्षुर्भवति तादृशः // dhs_30.35 //
वस्त्रोत्तमविवर्जी यः पांसुकूलेषु रज्यते / मुक्ताहारविहारो यो भिक्षुर्भवति तादृशः // dhs_30.36 //
कर्माण्यारभते यो न निराशः स च कर्मसु / निरुद्धको नोपरतो भिक्षुर्भवति तादृशः // dhs_30.37 //
कायकोटिविनिर्मुक्तो मोहध्वान्तविवर्जितः / अलिप्तः पापकैर्धर्मैभिक्षुर्भवति तादृशः // dhs_30.38 //
सर्वाशयजनानीतः सर्वाशयविवर्जितः / सर्वाशयविनिर्मुक्तो भिक्षुर्भवति तादृशः // dhs_30.39 //
आर्याष्टाङ्गेन मार्गेण निर्वाणपुरतः स्थितः / सर्वार्थधर्मता ह्येषा भिक्षुर्भवति तादृशः // dhs_30.40 //
शान्तेन्द्रियो दृढमतिः कामपाकविवर्जितः / एकाग्रसंस्थितमना भिक्षुर्भवति तादृशः // dhs_30.41 //
भूमिसङ्क्रमणज्ञो यो भूमितत्त्वनिदर्शकः / भूमेः परापरज्ञो यो भिक्षुर्भवति तादृशः // dhs_30.42 //
सम्भवासम्भवान् धर्मान् हेतुप्रत्ययसम्भवान् / जानीते विधिवत् सर्वान् भिक्षुर्भवति तादृशः // dhs_30.43 //
ब्रह्मचारी ऋतुज्ञानी स्त्यानमिद्धविवर्जितः / कल्पोदग्रो ऽवनौ दक्षो भिक्षुर्भवति तादृशः // dhs_30.44 //
शमस्थोविपश्यनाश्च चतुर्ध्यानरतश्च यः / आलये मुदितारामो भिक्षुर्भवति तादृशः // dhs_30.45 //
पक्षिणो गगनस्थस्य छायेवानुगतः सदा / सद्धर्मस्यानुजीवी स भिक्षुर्भवति तादृशः // dhs_30.46 //
क्लेशोपक्लेशबधकः समदर्शी शुभान्वितः / अनापानविधिज्ञो यो भिक्षुर्भवति तादृशः // dhs_30.47 //
अनुक्रमविधिज्ञो यो योगवित् तत्त्वदर्शकः / पारापारविधिज्ञो यो भिक्षुर्भवति तादृशः // dhs_30.48 //
यो न हृष्यति हर्षेषु भयेषु न बिभेति च / मुक्तो हर्षभयोद्वेगैर्भिक्षुर्भवति तादृशः // dhs_30.49 //
जन्ममरणतत्त्वज्ञः सुरासुरनमस्कृतः / परावरज्ञः सत्त्वानां भिक्षुर्भवति तादृशः // dhs_30.50 //
सङ्घाटिमात्रसंहृष्टः सञ्चयेषु न रज्यते / अल्पेच्छो ब्रह्मचारी यो भिक्षुर्भवति तादृशः // dhs_30.51 //
एकाशी वृक्षमूले यः सदा ध्यानं समीहते / लाभसत्कारविरतो भिक्षुर्भवति तादृशः // dhs_30.52 //
उपेक्षाकरुणारागो मोक्षदोषविवर्जितः / निर्दग्धदोषसर्वस्वो भिक्षुर्भवति तादृशः // dhs_30.53 //
मन्दवीर्यकुसीदानां भिक्षूणां दर्शनाय च / नान्ययोगाभिरक्तो यो भिक्षुर्भवति तादृशः // dhs_30.54 //
कौसीद्याभिरतो भिक्षुः नहि कल्याणमर्हति न शय्यासनसम्भोगी भिक्षुर्बुद्धेन भाषितः / कौसीद्यभिरतो यस्तु नासौ कल्याणमर्हति // dhs_30.55 //
क्लेशानां मूलपाकं हि कौसीद्यं यस्य विद्यते / तस्य दुःखं महाघोरं संसारे सम्प्रवर्तते // dhs_30.56 //
कौसीद्यमेव यस्यास्ति तस्य धर्मो न विद्यते / केवलं वस्त्रमात्रेण ऽभिक्षुःऽ स इति कथ्यते // dhs_30.57 //
भिक्षुर्भवति न तादृशः
नाध्यापने रतिर्यस्य न ध्यानेनाशु रक्षति / केवलं वस्तुमात्रेण भिक्षुर्भवति तादृशः // dhs_30.58 //
विहाराभिरतो यस्तु न रतो धर्मगोचरे / स्त्रीमद्यलोलुपमतिभिक्षुरस्ति न तादृशः // dhs_30.59 //
(भवेन्मतिर्यस्य नित्यं विविधे) पापकर्मणि / स भिक्षुर्देशितो बुद्धैः न भोक्ता स्वकगोचरे // dhs_30.60 //
वरमाशीविषविषं कथितं ताम्रमेव च / भुक्तस्यात्यन्तदुःशीलैरधिकं पापभोजनम् // dhs_30.61 //
यो हि नार्हति पिण्डाय नासौ पिण्डाय कल्पते / यस्य पिण्डिकृताः क्लेशाः सर्पा इव विलेशयाः // dhs_30.62 //
स भिक्षुः पिण्डभोजी स्यान्न स्त्रीदर्शनतत्परः / बन्धकं यदि चात्मानं कृत्वा परशुभक्षतिम् // dhs_30.63 //
भिक्षुर्दुर्गुणानां स्वरूपम्
कथं स भिक्षुर्विज्ञेयः सङ्घरत्नप्रदूषकः / यस्येष्टा लाभसत्कारा विषया यस्य सम्मताः // dhs_30.64 //
नारिदर्शनसाकाङ्क्षी न भिक्षुर्न गृहीव सः / राजसेविषु सृष्टाशो मद्यपः क्रोधनस्तथा // dhs_30.65 //
सदा भिक्षुर्बञ्चयते दायकान्ननु चेतसा / उपायनान्युपादाय राजद्वाराश्रिता हि ये / संरब्धा गृहिभिः सार्ध यथा नागा वनाश्रिताः // dhs_30.66 //
तस्मात् तानेव पुष्णन्ति वातेर्ष्यास्ते समागताः / पुत्रदारान् परित्यज्य ये शान्ता रत्नमाश्रिताः // dhs_30.67 //
भिक्षोर्गुणानां माहात्म्यम्
प्रहाय दोषान् यो भिक्षुरस्ति दर्शनतत्त्ववित् / रूपादिस्कन्धतत्त्वज्ञो मोक्षाय यतते सदा // dhs_30.68 //
धर्मावबोधाभिरतो ध्यानारामविहारवान् तत्त्वलक्षणसम्बोधात् प्राप्नुयात् पदमव्ययम् // dhs_30.69 //
मैत्र्यारामो हि सततमुद्युक्तो धर्मगोचरे / तत्त्वलक्षणतत्त्वज्ञो भिक्षुर्भवति तादृशः // dhs_30.70 //
योनिशस्तु मतिर्यस्य कामक्रोधैर्न हन्यते / स भिक्षुरिति विज्ञेयो विपरीतस्ततो ऽन्यथा // dhs_30.71 //
सर्वभूतदृढः शान्तः सर्वसङ्गतिवर्जितः / सर्वबन्धननिर्मुक्तो भिक्षुर्भवति तत्त्ववित् // dhs_30.72 //
कर्मणि यस्य विज्ञानविषयैर्यो न हन्यते / निर्मलः स्यात् कनकवत् सन्तुष्टो भिक्षुरुच्यते // dhs_30.73 //
प्रियाप्रिये मनो यस्य न लेपमनुगच्छति / सङ्कल्पानां विधिज्ञो यः सर्वपापविवर्जितः // dhs_30.74 //
अन्यसंदुष्टचरितो धर्मशीलो जितेन्द्रियः / अहीनसत्वो मतिमान् भिक्षुर्भवति तादृशः // dhs_30.75 //
शास्त्रे शास्त्रार्थविज्ञाने मतिर्यस्य सदा रता / न पानभोजनरतः स भिक्षुः शान्तमानसः // dhs_30.76 //
भिक्षोः स्वरूपनिरूपणम्
वनारण्यविहारेषु श्मशाने तृणसंस्तरे / रमते यस्य तु मनो भिक्षुर्भवति तादृशः // dhs_30.77 //
दोषाणां कर्मतत्त्वज्ञः फलवित् परिशेषतः / हेतुप्रत्ययतत्त्वज्ञो भिक्षुः स्याद् वीतकल्मषः // dhs_30.78 //
(हत) किल्विषकान्तारो हतदोषो जितेन्द्रियः / पुनर्भवविधिज्ञो यो भिक्षुः शान्तमनाः (स्मृत) // dhs_30.79 //
नोत्कर्षो हृष्टहृदये निन्दया नैव रूष्यति / समुद्रतुल्यगाम्भीर्यो योगवान् भिक्षुरुच्यते // dhs_30.80 //
आवेणिको दृढमतिः सूक्ष्मवादी न लोलुपः / कामवादी समो दक्षः स भिक्षुः शान्त उच्यते // dhs_30.81 //
कामधातूपगान् हेतून् रूपधातौ तथैव च / आरुष्येषु च तत्त्वज्ञः शास्त्रा भिक्षुः स उच्यते // dhs_30.82 //
न लौकिककथासक्तः शत्रुदोषबधे सदा / विषवद् यस्य विषयाः स भिक्षुर्देशितो बुधैः // dhs_30.83 //
शुद्धा यस्य (हि)कामेषु मतिर्भवति नित्यशः / स निर्मुक्तमतिर्भिक्षुर्मुक्तः संसारबन्धनात् // dhs_30.84 //
ध्यानाध्ययनकर्मण्यः कौसीद्यं यस्य दूरतः / हितकारी च सत्त्वानाम् आरण्यो भिक्षुरुच्यते // dhs_30.85 //
प्रश्नोत्तरमतिर्यस्य प्रतिभावन् जितेन्द्रियः / स धर्मः कथितो ज्ञेयो विपरीतस्तृणैः समः // dhs_30.86 //
बुद्धशासने कीदृग् भिक्षुः शस्तः?
कायमानसभीर्यस्य सर्वदा नैव खिद्यते / सर्वकृत्यकरो ज्ञेयो यः सङ्घाय च तत्परः // dhs_30.87 //
न परार्थ न लोभार्थ यशो ऽर्थ कुरुते न तु / सङ्घकार्ये मतिर्यस्य स मुक्तः सर्वबन्धनैः // dhs_30.88 //
न स्वर्गार्थ मतिर्यस्य लाभार्थ यशसे न वा / निर्वाणार्थ क्रिया सर्वा स भिक्षुः स्रोत उच्यते // dhs_30.89 //
पापेभ्यो नित्यविरतः सत्कृत्येषु रतः सदा / न पापमित्रसंसर्गी भिक्षुः स्याद् बुद्धशासने // dhs_30.90 //
मैत्र्या भावितचित्तस्य दक्षस्य ऋजुचेतसः / शिक्षापदेषु रक्तस्य निर्वाणं नातिदूरतः // dhs_30.91 //
जरामरणशीलस्य संसारविमुखस्य च / ध्याने ऽपि न प्रमत्तस्य निर्वाणं नातिदूरतः // dhs_30.92 //
अनित्यताविधिज्ञस्य शून्यतावत्क्रियावतः / ध्यानोत्कर्षविधिज्ञस्य निर्वाणं नातिदूरतः // dhs_30.93 //
धीरो ऽयमग्रचोरो ऽयं यो ऽयं भिक्षुरसंवृतः / अन्तःपुरीवरस्रावी बहिश्चीवरसंवृतः // dhs_30.94 //
धर्मविनयाद् रिक्तो भिक्षुर्दुःखभागी भवेदेव
यथा यत्नमयो राशिः सर्वो ऽसारश्च दुर्बलः / एवं सञ्चरति रिक्तो वितथो भिक्षुवादिकः // dhs_30.95 //
स नारकेयो दुःशीलः सङ्घरत्नबहिष्कृतः / कायस्य भेदान्नरकं नीयते चित्तवञ्चितः // dhs_30.96 //
वञ्चितो धर्मविनयाद् याति तत् स्वेन कर्मणा / मलिनस्तमसा बद्धो दुःखभागी भविष्यति // dhs_30.97 //
अप्रावृतः शुभधमन् नग्नः साधुजुगुप्सितः / नयते नरकं घोरं यथा धर्मबहिष्कृतः // dhs_30.98 //
अशोभनस्य निचयो दुःखद्वारमनावृतम् / संसारबन्धनं तीव्रं दौःशील्यमिति कथ्यते // dhs_30.99 //
असंवरेण यो दग्धः स दग्धो वह्निना भृशम् / तस्य संवरक्षीणस्य विनिपातो ध्रुवं स्थितः // dhs_30.100 //
कुकर्तृभिक्षुरपि नरकं याति
मनसा संवरस्थेन स्वाचारैः संवरायते / समूढचर्यामारुह्य नरकायोपकल्पते // dhs_30.101 //
अशुभं वर्धते तस्य दिवारात्रौ च सर्वतः / यस्य शीलमयं रत्नं दौःशील्येन निवारितम् // dhs_30.102 //
धर्मशून्यस्य रिक्तस्य तमसा संवृतस्य च / विद्यते ऽसंवरस्तस्य यो न शौचाय कल्पते // dhs_30.103 //
असंवरमयः पाशो मलिनः साधुवर्जितः / आकर्षति स दुःशीलान् पापिष्ठान् शीलवर्जितान् // dhs_30.104 //
असंवरैश्च दौःशील्यैः पापैश्च सह सङ्गतिः / दूतका नरकस्यैते कामानामपि सेवकाः // dhs_30.105 //
असंवृतप्रसूतस्य चपलस्य विशेषतः / पापकर्माभियुक्तस्य नरकं नातिदूरतः // dhs_30.106 //
किमेते नावगच्छन्ति कर्मणां सदृशं फलम् / अक्षिपाताय मूढाय दुर्मतौ (ये) विमोहिताः // dhs_30.107 //
अहन्यहनि वर्धन्ते पापनद्यो दुरासदाः / दुःखोर्मिमालाश्चपलाः पापिष्ठजनहारिणः // dhs_30.108 //
न तेषां सुकरं जन्म न तेषां सुकरं मनः / अशीलाः पुरुषा ये वा शुक्लधर्मविवर्जिताः // dhs_30.109 //
धर्मो ऽत्युच्चः शुभो मार्गः
अत्युच्चश्च शुभो मार्गः स ऽधर्मऽ इति कथ्यते / तं प्राप्यमनुजः शीघ्रं प्रयाति पदमच्युतम् // dhs_30.110 //
ततो ऽपवादाः साध्यन्ते शक्तिमन्तः सुखास्तु ये / संवरस्य सदा दासास्तेषां दुःखं न विद्यते / दौःशील्यपरमो ह्येष मलिनीकुरुते नृणाम् // dhs_30.111 //
ये शैक्ष्यपदविभ्रष्टा भागिनो नरकस्य ते / एवं ज्ञात्वा नरः सर्व संवरं प्रतिपद्यते // dhs_30.112 //
शुभधर्मी भिक्षुर्निर्वाणं नातिचिरं प्राप्नोति
भवार्णस्य सर्वस्य सेतुभूतो हि संवरः / शुद्धाजीवविशुद्धस्य शान्तवक्त्रस्य कर्मणः // dhs_30.113 //
ध्यायिनो विप्रमुक्तस्य निर्वाणं नातिदूरतः / धूर्धरस्याप्रमत्तस्य श्मशानवनसेविनः // dhs_30.114 //
शायिनो भूतले नित्यं निर्वाणं नातिदूरतः / पांशुशय्यावलम्बांसपातमेकं सजर्जरम् // dhs_30.115 //
सन्तोषः फलमूलैश्च स सुखी बुद्धसम्भवः / विप्रमुक्तस्य कामेभ्यः सन्तोषो हीतरस्य च // dhs_30.116 //
सविमुक्तकचित्तस्य निर्वाणं नातिदूरतः / कुहकामलमुक्तस्य रजो वा तस्य तायिनः // dhs_30.117 //
आकाशसमचित्तस्य निर्वाणं नातिदूरतः / बहुबद्धपदैर्युक्ता विज्ञेया (भव)चारिका // dhs_30.118 //
नाशिका ब्रह्मचर्यस्य निर्वाणगतिदुःखिका / सेव्यते या जनैर्नित्यं प्राकृतैः शीलवर्जितैः // dhs_30.119 //
अजस्त्रं परिवर्ज्या सा ध्यायिभिस्तत्त्वदर्शिभिः / दौर्बल्यमूलमेका सा मनस्कारप्रणाशिका // dhs_30.120 //
नाशिनी ब्रह्मचर्यस्य नरकस्य प्रदर्शिका / भ्रंशिका स्वर्गमार्गस्य दुःखसागरशोषिका // dhs_30.121 //
दूतिका प्रेतलोकस्य तिर्यग्योनिनिपातिका / नाम्ना सङ्गणिका सेवा संसारे बन्धमातृका // dhs_30.122 //
ध्यानाध्ययनशक्तैव वर्ज्या नित्यं हि भिक्षुभिः / ध्यानाध्ययननिर्मुक्तो निमित्ताभिरतः सदा // dhs_30.123 //
परधर्मो भयावहः
विवर्जितः शुभैर्धर्मैरपापगमनाय सः / स्वधर्म यः परित्यज्य परधर्मेषु रज्यते // dhs_30.124 //
धर्मद्वयपरिभ्रष्टो विनिपाताय कल्पते / स्वगृहं यः परित्यज्य परवेश्यानि तिष्ठति // dhs_30.125 //
सदायं लाघवं याति निधनं चाशु गच्छति / तथा यो विमतिर्भूतो विद्वन्मानी जनेच्छया // dhs_30.126 //
स्वधर्मविरतिं कृत्वा परधर्मेषु वर्तते / अधर्मे चाशयस्तस्य परलिङ्गोपजीविनः // dhs_30.127 //
तृणविद्याभिलिप्तो ऽयं प्रेतः पापेषु पच्यते / यशो ऽन्तं पदमास्थाय पापकर्मणि वर्तते // dhs_30.128 //
नासौ भिक्षुरिहोच्यते
शश्वत् स पतितो दृष्टः शासनान्तात् प्रवर्तते / निस्पृहः कामचर्यासु निरामोदः प्रवर्जितः // आरब्धवीर्यः सन्तुष्टो ध्यायी भिक्षुरिहोच्यते // dhs_30.129 // न च कामेषु संसक्तो नित्याहारविहारवान् / काषायसंवृतः क्षौरो नासौ भिक्षुरिहोच्यते // dhs_30.130 //
निमित्तबोधको (यस्तु) नक्षत्रगतिचिन्तकः / राजसेवाप्रमत्तश्च न स भिक्षुरिहोच्यते // dhs_30.131 //
वैद्यकर्माणि कुर्वश्च श्रुति सङ्ग्रथनं तथा / सङ्कीर्णा दिनचर्या च कुर्वन् भिक्षुः प्रणश्यति // dhs_30.132 //
ध्यानाध्ययनविद्वेषी रतः सङ्गणिकासु च / लोभसत्कारलाभं च कुर्वन् भिक्षुः प्रणश्यति // dhs_30.133 //
सुवर्णधातुसंसक्तो बहुमित्ररतिश्च यः / अन्यलाभाभिलाषितो भिक्षुः पतति शासनात् // dhs_30.134 //
तपसः सङ्गनिर्मुक्तो न पापगणसेवकः / सक्तूदकेन सन्तुष्टः स भिक्षुर्निष्ठुरः स्मृतः // dhs_30.135 //
कः शुद्धो भिक्षुः?
आगतान् विषयान् सर्वान् त्यजति ज्वलनोपमान् / विशुद्धदोषो मणिवच्छुद्धो भिक्षुरिहोच्यते // dhs_30.136 //
अन्तर्बहिर्विशुद्धात्मा ज्ञानादिभिरलङ्कृतः / श्रद्धया शीलवस्त्रेण क्रियावान् भिक्षुरुच्यते // dhs_30.137 //
लोभधर्मव्यतीतो यः स्थितो मेरुरिवाचलः / सर्वलोकप्रियः शान्तः पारगो भिक्षुरुच्यते // dhs_30.138 //
त्रिरात्रिवासी कुत्रापि कुशासनविधारकः / गिरिगह्वरसेवी च विमुक्तो भिक्षुरुच्यते // dhs_30.139 //
पापभीरुरसंस्पर्शी संवृतः च सुसंवृतः / ज्ञानसेवी स्थिरः शान्त एकाकी भिक्षुरुच्यते // dhs_30.140 //
अचलः प्रियवादी च पापमित्रविवर्जितः / अशक्तः सर्वकृत्येषु मुक्तो भिक्षुरिहोच्यते // dhs_30.141 //
राजसेवा कुकषायोक्तिसेवा
राजसेवा विगर्ह्यास्ति भिक्षोश्चारण्यवासिनः / कुकषायोक्तिसेवासौ मृत्युतस्करजीविका // dhs_30.142 //
न हि राजसेवको भिक्षुर्यः सेव्यो देवतैरपि / न हिंसासवसंसृष्टो महते ऽशुचिसेवकः // dhs_30.143 //
भिक्षोः राजसेवा न शोभते
निर्मलस्य निरामस्य निस्पृहस्य च देहिनः / संसारभयभीतस्य राजसेवा न शोभते // dhs_30.144 //
वनारण्यश्मशानेषु पल्वलो गिरिभूमिषु / प्रान्तभूमिषु ग्रामस्य स्थितः भिक्षुः प्रशोभते // dhs_30.145 //
वनारण्यश्मशानेषु भिक्षुर्न राजसेवया / ध्यानाध्ययननिर्मुक्तः कवलाहारभोजिता / न भिक्षुरिति विज्ञेयः पिशाचसममानसः // dhs_30.146 //
ध्यानाद्धि विमलं सौख्यं प्रवदन्ति मनीषिणः / न तत्सुखात्सुखं चान्यदस्ति लोके कथञ्चन // dhs_30.147 //
तदुत्तमध्यानसुखं मुक्त्वा यः पुरुषाधमः / रसेषु रमते बालस्तेन मूढो विहन्यते // dhs_30.148 //
विषयैर्भ्रामितस्यास्य नित्यं तद्गतचेतसः / वर्धन्ते ऽकुशला धर्माः परलोकापकर्षकाः // dhs_30.149 //
आत्मज्ञो भिक्षुर्निर्वाणमधिगच्छति
आत्मनो यानहीनश्च गुरुपृच्छनकस्तथा / भिक्षुरुद्युक्तवीर्यश्च निर्वाणमधिगच्छति // dhs_30.150 //
श्रुतं यावद् भवत्येव तावदेव प्रभाषते / आत्मज्ञो मानहीनश्च भिक्षुर्भवति तत्त्वविद् // dhs_30.151 //
मानापमानहीनो यो मार्गामार्गविचक्षणः / स्वपरार्थविधिज्ञो यः स तुष्टो भिक्षुरुच्यते // dhs_30.152 //
मानिनः कुतः शान्तिः?
मानिनः क्रूरमनसश्चपलस्याल्पमेधसः / लाभसत्कारयातस्य कुतः शान्तिर्भविष्यति? // dhs_30.153 //
प्रसन्नाचारयुक्तस्य ज्ञानगोचरसेविनः / संसारदोषभीतस्य प्रव्रज्या सफला मता // dhs_30.154 //
स्वभावपरभावेषु यस्य बुद्धिर्नमुञ्चति / न कर्मण्यविपाके च मार्गामार्गे तथैव च // dhs_30.155 //
निवासोपहतो भिक्षुः सुखं न विन्दति सदाचारवियुक्तस्य सुखदुःखाभयस्य च / निवासोपहतो भिक्षुर्बालवद् दृश्यते परैः // dhs_30.156 //
तृणवल्लघुतां याति स्वार्थाच्च परिहीयते / निवासोपहतो भिक्षुः परिहीणवने स्थितः // dhs_30.157 //
ध्यानाध्ययनकृत्येषु मनो नैव प्रवर्तते / निवासोपहतो भिक्षुर्जनसञ्चयतत्परः // dhs_30.158 //
सञ्चयव्यग्रमनसा जीवितं परिहीयते / क्षिणोति रेतसं स्वस्य जीवितं नैव गच्छति // dhs_30.159 //
कः दुर्गतिं याति?
न च विन्दति यत् कृत्वा सुखमन्यत्र भुज्यते / निवासोपहतो भिक्षुर्जनसञ्चयतत्परः / पापानि याति नित्यं स तेन गच्छति दुर्गतिम् // dhs_30.160 //
श्रामण्यधर्मस्य महत्त्वम्
अनभिप्रेतमनसो निराशस्य च देहिनः / सर्वसङ्गविमुक्तस्य श्रामण्यं सफलं मतम् // dhs_30.161 //
गिरिगह्वरवृक्षेषु नित्यं ध्यानविहारिणः / प्रसीदति शुभं ज्ञानं दौःशील्यपरिवर्जितम् // dhs_30.162 //
केषां सफलं जीवनम्?
सर्वसङ्गविनिर्मुक्तो विषयैर्न च वञ्चितः / (स) भिक्षु निष्फलो ज्ञेयः शुष्केन्धनमिवानलः // dhs_30.163 //
निर्वाणाभिरतस्य भिक्षोः प्रशंसा
निर्वाणाभिरतो यो हि भीतस्य विभवार्णवात् / भिक्षुर्भवति शुद्धात्मा न निवासेन कर्हिचित् // dhs_30.164 //
तृष्णा एव अनर्थकरी
लोभमोहेषु ये शक्तास्ते शक्ता तृष्णया सदा / तृष्णाबन्धनबद्धानां नायं लोको न चापरः // dhs_30.165 //
धर्मज्ञो दुर्गति न लभते
असंशक्ता मतिर्यस्य मिथ्याकर्मसु सर्वदा / अपक्षपाती धर्मज्ञो न स गच्छति दुर्गतिम् // dhs_30.166 //
कः मुनिरुच्यते?
दोषपङ्केमनो यस्य न लिम्पति कथञ्चन / एकारामविहारीयो निराशो मुनिरुच्यते // dhs_30.167 //
निर्मुक्तो विमलाचारो निवृत्तमलकल्मषः / मुक्तो यो विषयैः सर्वैरारण्यो मुनिरुच्यते // dhs_30.168 //
लोकधर्मैर्न निर्वेदं समायाति कथञ्चन / सुखदुःखसमप्रज्ञो निर्मलो मुनिरुच्यते // dhs_30.169 //
सन्तोषः परमो(धर्मो) नित्यं कामविवर्जितः / निरामयः कृच्छ्रजीवी शुचिर्मुनिरिहोच्यते // dhs_30.170 //
नयेन्न तेन संश्लेषं यत्र यत्रानुगच्छति / एकचारी दृढमतिः क्रियावान् मुनिरुच्यते // dhs_30.171 //
शुभाशुभानां सर्वेषां कर्मणां फलतत्त्ववित् / शुभाशुभपरित्यागी लोके ऽसौ मुनिरुच्यते // dhs_30.172 //
उद्युक्तो दोषनाशाय नित्यकामगतिः स्मृतः / उदयव्ययतत्त्वज्ञो बुद्धिमान् मुनिरुच्यते // dhs_30.173 //
देशकालविदां श्रेष्ठो ऽद्वयवादी जितेन्द्रियः / संसारभयभीतो ऽयं प्रशान्तो मुनिरुच्यते // dhs_30.174 //
कः भिक्षुः निर्वाणमधिगच्छति?
एकारामगतो भिक्षुः संक्षिप्तेन्द्रियपञ्चकः / देहलक्षणतत्त्वज्ञो निर्वाणमधिगच्छति // dhs_30.175 //
वीर्यवान् (सत्यवाक्) भिक्षुर्नित्यं दोषविवर्जितः / उद्यानमिव क्रीडाया निर्वाणमधिगच्छति // dhs_30.176 //
कल्याणधर्मी भव
दग्धे क्लेशे वयं दग्धा वनं दग्धं यथाग्निना / कल्याणधर्मे संरक्ता न रक्ता कामभोजने // dhs_30.177 //
मायया जनाः वञ्चकाः भवन्ति
नित्यं प्राप्त्युत्सुका ये (हि) नित्यं स्वजनसंरताः / मायया वञ्चका (ये तु) मूढास्ते धर्मवर्त्मनि // dhs_30.178 //
शुभकर्मणि मनः कार्यः
रमणीयान्यरण्यानि तत्रैव रमते मनः / रमन्ते वीतरागास्ते न तु कामगवेषिणः // dhs_30.179 //
स कथाभिरतो यस्तु रतो विषयतृष्णयोः / न यास्यति पुरं शान्तं यो च मृत्युं न विन्दति // dhs_30.180 //
अद्वयवादी भव
यो ऽत्यन्तशान्तमनसा नित्यं ध्यानपरायणः / आदिमध्यान्तकल्याणो नित्यमद्वयगोचरः // dhs_30.181 //
// इति भिक्षुवर्गस्त्रिंशः //
करुणादानशीलानिक्षान्तिर्वीर्यमथापि च / ध्यानं प्रज्ञाथ निर्वाणो मनो भिक्षुश्च ते दश //
// इति तृतीयम् उदानम् //
अथ चतुर्थम् उदानम्
(पुण्यदेवसुखैर्मित्रराजस्तुतिभिरन्विताः / सद्धर्मस्मृतिवैपुल्यै गृहीतो ऽयं समुच्चयः // ) //
(31) पुण्यवर्गः
पुण्यप्रशंसा
रमणीयानि पुण्यानि फलं तेषां परं शुभम् / तस्मात् कुरुत पुण्यानि नास्ति पुण्यसमं धनम् // dhs_31.1 //
पुण्यं निधानमक्षय्यं पुण्यं रत्नमनुत्तमम् / प्रदीपसदृशं पुण्यं मातृवत् पितृवत् सदा // dhs_31.2 //
पुण्यं कृत्वा गता देवाः पुण्यं नयति सद्गतिम् / पुण्यं कृत्वा नरा लोके मोदन्ते त्रिदिवे हि (ते) // dhs_31.3 //
पुण्यं परं सुखम्
पुण्याधिका हि पुरुषा भवन्ति सुखिनः सदा / तस्मात् कुरुत पुण्यानि नास्ति पुण्यसमं सुखम् // dhs_31.4 //
पुण्यं कृत्वा गता देवाः पुण्यप्रियधनस्य च / हेतुभूतं सदा दृष्टं तस्मात् पुण्यं परं सुखम् // dhs_31.5 //
पुण्यादृते सुखमसंभवम्
पुण्यं नित्योत्तमं दृष्टं छायावदनुगामिकम् / तस्मात् सुखं परं पुण्यं नास्ति पुण्यादृते सुखम् // dhs_31.6 //
पुण्यापुण्यफलयोरन्तरम्
पुण्योत्तीर्णाः पुनर्देवा पतन्ति सुकृतानुगाः / पुण्यापुण्यफलो लोकस्तस्मात् पुण्यं समाचरेत् // dhs_31.7 //
अपुण्यनिन्दा
ये पुण्यहीना दुर्दान्ता नित्यं कुगतिगामिनः / कुतस्तेषां सुखं दृष्टं सिकतासु यथा घृतम् // dhs_31.8 //
वित्तेन वञ्चिता मूढाः पुण्येन परिवञ्चिताः / न तेषां विद्यते शर्म दुःखं तेषामनुत्तरम् // dhs_31.9 //
पुण्यवशाद् देवलोकं गच्छति
मानुष्यं सुकृतं ह्येतत् कृते भवति देहिनः / तेन कर्मविपाकेन स्वर्गलोकेषु जायते // dhs_31.10 //
प्रियो भवति यस्यात्मा यस्य सौख्ये स्थिता मतिः / स करोतु महत्पुण्यं देवलोकोपपत्तये // dhs_31.11 //
धर्मचारी पुरुष एव सुखमवाप्नुते
धर्मचारी हि पुरुषः सुखात् सुखमवाप्नुते / निर्मलश्च परां शान्तिं क्षिप्रमेवाधिगच्छति / तस्मात् कुरुत पुण्यानि (यन्नित्यं) सांप्रचायिकम् // dhs_31.12 //
पुण्यकर्त्तृ अव्ययं सुखमश्नुते
पुण्यकारी सदा दान्तो पदं गच्छति चाव्ययम् / रमणीयानि पुण्यानि करणीयान्यनेकशः // dhs_31.13 //
पुण्यस्य वैचित्र्यं धर्मस्य उपादेयता च
विचित्रं हि कृतं पुण्यं विचित्रं परिपच्यते / धर्माधर्मप्रधानस्य जीवलोकस्य सर्वतः / शमत्राणो यथा धर्मस्तस्माद् धर्मरतो भवेत् // dhs_31.14 //
अधर्मी दुःखं प्राप्नोति
यो (हि) धर्म परित्यज्य रमते कुकृते नरः / तस्य दुष्कृतदग्धस्य दुःखं भवति नित्यशः // dhs_31.15 //
धर्मे एव मनः कार्यम्
यावन्नाभ्येति मरणं यावत् सकलचिन्तनम् / तावद् धर्मे मनः कार्यमुपशान्तिर्भविष्यति // dhs_31.16 //
परोपकर्तृ निर्वाणपुरं याति
यो हि देशयते धर्म परेषां हितकाङ्क्षया / स माता स पिता चैव निर्वाणपुरदेशकः // dhs_31.17 //
शास्तुः सुभाषितममूल्यम्
शुभाधिकपरश्चैकः यो देशयति देशिकः / स गत्यन्तरमार्गज्ञो नाथो भवति देहिनाम् / न मूल्यं विद्यते शास्तुः सुभाषितपदस्य वै // dhs_31.18 //
साधारणद्रव्याद् धर्मद्रव्यस्य वैलक्षण्यम्
न पदं लभते शान्तं यद् धनैरुपलभ्यते / द्रव्यं साधारणं दृष्टं न धर्मो बुद्धिबन्धनम् // dhs_31.19 //
धर्मद्रव्यमक्षुण्णमस्ति
द्रव्यं विनश्यति नृणां धर्मद्रव्यं न जातु वै / आभ्यन्तरसहस्त्राणि धर्म एको ऽनुगच्छति // dhs_31.20 //
न धनं पदमप्येकं गच्छन्तमनुगच्छति /
हीयते द्रविणं तेषां राजचौरोकाग्निभिः / धर्मवित्तं न तच्छक्यमपहर्तु कथञ्चन // dhs_31.21 //
अतो धर्मपरो भवेत्
अचिरेणापि कालेन भुक्त्वा सौख्यमनेकशः / भवत्यवश्यं पतनं तस्माद् धर्मपरो भवेत् // dhs_31.22 //
धर्म एकः परं त्राणं धर्म एकः परा गतिः / धर्मेण पूर्ववर्त्येष मरणं चाप्यधर्मतः // dhs_31.23 //
धर्मचारिणः प्रशंसा
वरं धर्मो धर्मचारी धर्ममेव निषेवते / स सुखात् सुखमाप्नोति न दुःखमनुपश्यति // dhs_31.24 //
अधर्मचारिणो निन्दा
अधर्मचारी पुरुषो यदाधर्म निषेवते / स तदा दुःखमाप्नोति नरकेषु पुनः पुनः // dhs_31.25 //
निर्वाणमहत्त्वम्
रत्नत्रयप्रसादस्य भावितस्याप्यनेकशः / फलं भवति निर्वाणं पूर्वस्वर्गोपजीविनः // dhs_31.26 //
आत्मनैव पुण्यमाचरणीयम्
आत्मना क्रियते पुण्यमात्मना प्रतिपद्यते / सुखं वा यदि वा दुःखमात्मनैवोपभुज्यते // dhs_31.27 //
शीलवतः पुण्यप्रभावो विपुलः
नदीस्त्रोत इवाजस्त्रं पुरुषस्य प्रवर्तते / पुण्यप्रभावो विपुलो यस्य शीले रतं मनः // dhs_31.28 //
भवजन्यं फलं यस्य (यस्मै) धर्मो न रोचते / धर्मो हि नयति स्वर्ग धर्मचारी सुखान्वितः // dhs_31.29 //
धर्मादृते पुरुषः नरकं याति
एतदेव हि पर्याप्तं यद् धर्मपरिपालनम् / धर्मादृते हि पुरुषो नरकानुपधावति // dhs_31.30 //
धर्मविगर्हणान्मरणं श्रेयः
श्रेयो भवेद्धि मरणं न तु धर्मविगर्हणम् / धर्मेण वर्जितो लोकः संसारे सर्वदा भ्रमेत् // dhs_31.31 //
धर्मविरहितस्य दुःखमयं जीवनम्
धर्मचक्षुर्विमुक्तस्य मोहेनाक्रान्तचेतसः / वृथा सौख्यमिदं दृष्टं दृष्ट्वा यातो यथापरः // dhs_31.32 //
धर्माङ्कुरो मनः क्षेत्रे नैव रोहत्यचेतसः / यस्य शीलप्रदा बुद्धिः धर्माचरणतत्परा // dhs_31.33 //
शुभेन सविशुद्धेन भावितेन प्रयत्नतः / प्रयान्ति तत् पदं शान्तं यत्र दुःखं न विद्यते // dhs_31.34 //
इन्द्रियवशी मारं नातिवर्तते
इन्द्रियाणां वशे यस्तु विषयेषु तथैव च / स सर्वबन्धनैर्बद्धः स मारं नातिवर्तते // dhs_31.35 //
पापकैर्धर्मैरलिप्त एव स्वस्थः
अलिप्तपापकैर्धर्मैः निर्धनात् कनकद्युतिः / स मुक्तभवकान्तारः स्वस्थो भवति सर्वतः // dhs_31.36 //
बुद्धादीनां पूजया निर्वाणलाभः
बुद्धो येषां बहुमतो नित्यं धर्मश्च गोचरः / शुश्रूषाचार्यपादानां श्रद्दधानश्च कर्मणाम् // dhs_31.37 //
त्रिरत्नपूजया नित्यं सद्बुद्धिश्च (सु) निर्मला / मातापितृणां पूजातः निर्वाणपुरगामिनाम् // dhs_31.38 //
प्रव्रज्याभावधर्माश्च समेषां सम्प्रकीर्तिताः / ब्रह्मचर्यात्तचर्याणां सर्वसौख्याग्रकारकाः // dhs_31.39 //
धर्मदानं सर्वोत्तमम्
दानानामुत्तमं दानं धर्मदानं प्रकथ्यते / उद्योगानां सदा ध्यानं येन गच्छति निर्वृतिम् // dhs_31.40 //
अग्रयस्तथागतः प्रोक्तः
ऊर्ध्वाधस्तिर्यगुक्तस्य लोकस्यानेककर्मणः / अग्रयस्तथागतः प्रोक्तो धर्माणां तत्त्वदर्शकः // dhs_31.41 //
वर्गाणां चार्थसङ्घोरे प्रवरः शान्त उच्यते / क्षेत्राणां त्रिविधं पुण्यं गुणदुःखोभयं ततः // dhs_31.42 //
माता पितृसमः पूज्य उपाध्यायः सदा भवेत् / स उन्मीलयते चक्षुर्वशगोचरतां प्रति // dhs_31.43 //
निःसुखा विषया मताः
अग्राह्या वा सदा दृष्टा मुनिना तत्त्वदर्शिना / सुखस्य भूमयो ह्येता निःसुखा विषया मताः // dhs_31.44 //
यद्येवं कुरुते धर्म निर्मलं मार्गदर्शिनम् / सौख्यं तस्य भवेन्नित्यं न सौख्यं देवभूमिषु // dhs_31.45 //
भवान्तरेषु सुकृतं पृष्ठतो देहिनां स्थितम् / स आहूय प्रयत्नेन सेवितव्यः सदा नरैः // dhs_31.46 //
अनागते भयं यो हि पश्यति बुद्धचक्षुषा / स पण्डितः सदा धीरो मूर्खत्वादतिभीरुकः // dhs_31.47 //
विपत्तिजं भयं दृष्ट्वा (मार्ग) पश्यति बुद्धिमान् / स हि विघ्ने तु सम्प्राप्ते न विषादेन बाध्यते // dhs_31.48 //
अथ मूढमतिर्नित्यं विषयानेव सेवते / विमोहितः स विषयैः पश्चात्तापेन दह्यते // dhs_31.49 //
समग्रं जन्म पुण्यानि करणीयानि
यावत् समग्रं जन्मेदं ज्ञानं याति विनाविलम् / तावत् कुरुत पुण्यानि दुःखं हयकृतपुण्यता // dhs_31.50 //
क्षयं प्रयान्ति पुण्यानि त्वरितं याति जीवितम् / धर्मसङ्ग्रहणे यत्नः कर्त्तव्यस्तुषिते सुरैः // dhs_31.51 //
यो हि धर्म परित्यज्य प्रमादोपहतो नरः / न सञ्चिनोति पुण्यानि स पश्चादपि तप्यते // dhs_31.52 //
न यावदायाति जरा न व्याधिः सह मृत्युना / तावत् कार्याणि पुण्यानि मा पश्चात् परितप्यथ // dhs_31.53 //
असङ्गृहीतपुण्यस्य प्रमादोपहतस्य च / नरके कारणं दुःखं प्रमादस्त्वां हनिष्यति // dhs_31.54 //
किं तस्य जीवितेनार्थः किं भाग्यैः किं च बान्धवैः / सबलेन्द्रियतां प्राप्य यो न धर्मरतः सदा // dhs_31.55 //
अहन्यहनि कर्त्तव्यं धर्मसङ्ग्रहणे मनः / विरतिश्चापि पापेभ्यः साधूनां दर्शने न च // dhs_31.56 //
शीलेन यः सुरो जन्म लब्ध्वेदं काममोहितः / न सञ्चिनोति पुण्यानि स भवं नातिवर्तते // dhs_31.57 //
धर्मरताः सदा वन्द्याः
ज्ञानारम्भाभिरतयः शीलरत्नविभूषिताः / कामरागाद्धि ये भीता देवानां देवसम्मताः // dhs_31.58 //
देवास्ते हि सदा वन्द्या ये धर्मे निरताः सदा / ये तु नित्यं भवासक्तास्ते सर्वे निधनं गताः // dhs_31.59 //
धर्मसेतुमिमं प्राप्य पारावारगतं महत् / न सञ्चरति यस्तूर्ण भवान्नैव प्रमुच्यते // dhs_31.60 //
शुभं नैव प्रणश्यति
शुभानुचारिधर्मैश्च शुभं भवति सर्वदा / कल्पकोटिसहस्त्रेण शुभं नैव प्रणश्यति // dhs_31.61 //
पुण्यप्राप्त्यर्थे करणीयानि कर्त्तव्यानि
सङ्गृहीतं सदा शीलं ज्ञानं च परिवर्तितम् / दानं चाभिक्षया दत्तं भवति स्वरसात्मकम् // dhs_31.62 //
सदैव गुणाः सेव्याः
दोषास्त्रयः प्रणश्यन्ति त्रिभिर्दानादिभिर्नृणाम् / तस्माद् दोषान् परित्यज्य गुणाः सेव्याः प्रयत्नतः // dhs_31.63 //
ज्ञानेन लौकिकं दुःखं नश्यति
संसर्गो धर्मशीलानां ज्ञानारम्भः प्रयत्नतः / नश्यति भवजं दुःखमर्कपादैर्यथा तमः // dhs_31.64 //
अभ्युपेयो देवरतो देवताभिश्च वन्द्यते / प्राप्य जन्मान्तर चापि निर्वृतिं चाशु गच्छति // dhs_31.65 //
// इति पुण्यवर्ग एकत्रिंशः //
(32) देववर्गः
सौगतमार्गे चरन्तः पुरुषा देवतुल्याः
पन्थानो मुनिना शास्त्रे उक्ता ये तत्त्वदर्शिना / तैस्तु सम्प्रस्थितास्ते (हि) पुरुषा देवसम्मताः // dhs_32.1 //
सुगतोक्तो मार्गः
सत्यं हि दानं च तथैव मैत्री सत्त्वेषु रक्षा प्रियवादिता च / सम्यक्त्वदृष्टिर्विमलं मनश्च पन्थानमाहुस्त्रिदिवस्य बुद्धाः // dhs_32.2 //
शुक्लधर्मसमायुक्तः शुक्लचित्तसमन्वितः / सुखात् सुखतरं याति ज्योतिर्ज्योतिःपरायणः // dhs_32.3 //
ज्योति(हि)र्ज्योतिषा पूर्ण दीपो दीपान्तराद् यथा / तस्माद्धि परमांल्लोकान् प्रयाता सम्प्रपद्यते // dhs_32.4 //
आचारवान् देवानामन्तिकं व्रजेत्
यस्य शुद्धं सदा चित्तं निर्मलं मणिवत् सदा / स शान्तो निर्ममो धीमान् देवानामन्तिकं व्रजेत् // dhs_32.5 //
ध्यानशीलसमाधिभ्यो यस्य चित्तं शुभान्वितम् / स धीमान् काञ्चनप्रख्यो देवानामन्तिकं व्रजेत् // dhs_32.6 //
प्राणातिपाताद् विरतः सर्वसत्त्वदयापरः / ऋतुस्रोतो ऽनुकम्पाश्च देवानामन्तिकं व्रजेत् // dhs_32.7 //
श्रुतवान् सर्वलोकस्य क्रूरकर्मविवर्जितः / अलिप्तः पापकैर्धर्मैर्देवानामन्तिकं व्रजेत् // dhs_32.8 //
तृणवत् काञ्चनं यस्य कामा यस्य विषोपमाः / स कामवर्जको धीमान् देवानामन्तिकं व्रजेत् // dhs_32.9 //
नाकृष्यते मनः कामैर्विषयै रागहेतुभिः / समन्तात्भवकान्तारैर्देवानामन्तिकं व्रजेत् // dhs_32.10 //
भिन्नाः परम्परा आदौ मित्रवान् धनबान्धवः / यः करोति सुसंश्लिष्टा देवानामन्तिकं व्रजेत् // dhs_32.11 //
यस्य बुद्धिस्थितं वेश्म न बुद्धिः क्वापि रागिणी / स जितारिर्विशुद्धात्मा देवानामन्तिकं व्रजेत् // dhs_32.12 //
प्रशस्तकायकर्मान्तो यः पापविरतः सुखी / स कामविरतो ध्यायी देवानामन्तिकं व्रजेत् // dhs_32.13 //
पापमित्रविनिर्मुक्तस्तृष्णाविषविवर्जितः / न बद्धः स्त्रीभयैः पाशैर्देवानामन्तिकं व्रजेत् // dhs_32.14 //
प्रयत्नवादी यो धर्मे दानशीलसमाधिमान् / नित्योद्युक्तो दृढमतिर्देवानामन्तिकं व्रजेत् // dhs_32.15 //
सम्यग्बन्धनो येन पाशश्छिन्नो यथासिना / सच्छिन्नपाशः स्ववशी देवानामन्तिकं व्रजेत् // dhs_32.16 //
शुभकर्मविपाकेन देवलोके उद्भवः
मनुष्यभूता ये सत्त्वाश्चरन्ति सुकृतावहाः / तेन कर्मविपाकेन सुरलोके प्रसूयते // dhs_32.17 //
धर्मपथाश्रिता एव बलिनः
मनुष्याणां बलाद् देवा देवानां बलिनो नराः / अन्योन्यबलिनो ते ये सद्धर्मपथमास्थिताः // dhs_32.18 //
तिस्त्रो ऽपायभूमयः
देवानां सुगतिर्मर्त्याः मर्त्यानां सुगतिः सुराः / अपायभूमयस्तिस्रः शुभकर्मविवर्जिताः // dhs_32.19 //
सर्व सुखं धर्माधीनम्
धर्माधीनं सुखं सर्व धर्माधीना हि निर्वृतिः / धर्मः सुप्तेषु जागर्ति धर्मो हि परमा गतिः // dhs_32.20 //
देवैरसुरा जिताः
धर्मेण निर्जितो ऽधर्मः सत्येनानृतिको जितः / ज्ञानेन वर्जितो मोहो देवैस्तु ह्यसुरा जिताः // dhs_32.21 //
देवलोकं सुखोदयम्
सोपानभूता ये तानि कर्माणि त्रिदिवस्य हि / योनिं त्यक्त्वा नरा यान्ति देवलोकं सुखोदयम् // dhs_32.22 //
वाक्संयमेन बुधास्त्रिदिवं सुखं भुञ्जन्ति
चतुर्विधो वाङ्नियमः को ऽपि त्रिविधपञ्चधा / सप्तसोपानमारूप्यं गच्छन्ति त्रिदिवं बुधाः // dhs_32.23 //
प्रभया ते च दिव्यन्तः स्वशरीरेण जातया / रमन्ते स्वर्गभुवने रञ्जिताः स्वेन कर्मणा // dhs_32.24 //
शीलमेव शुभस्य कारणम्
नित्यामोदविहारा(ये) नित्यं सौख्यविहारिणः / यद् देवा देवभवने शीलं तत्र हि कारणम् // dhs_32.25 //
यदप्सरः परिवृता यत् सूर्यशशिसन्निभाः / देवाः समन्ताद् देवेषु तत्सर्वशुभहेतुकम् // dhs_32.26 //
यदीप्सितं सम्भवति सम्भूतं च न हीयते / वर्तते च शुभं नित्यं तत् सर्व शुभहेतुकम् // dhs_32.27 //
शुभचारी देवानां समतां व्रजेत्
शुभचारी सदा दानी सर्वभूतदयारतः / दानमैत्र्या सदा युक्तो देवानां समतां व्रजेत् // dhs_32.28 //
प्राणातिपाताद् विरतः सर्वसत्त्वदयापरः / सम्यगाजीवकर्मान्तो देवानां सङ्गतिं व्रजेत् // dhs_32.29 //
अदत्ते न रतिः किञ्चिद् दाने चास्य सदामतिः / शान्तेन्द्रियमतिर्धीमान् देवसङ्गतिमश्नुते // dhs_32.30 //
मिथ्याकामैर्विमुक्तो यः सत्पथाभिरतः सदा / निर्वाणकांक्षी विमलो देवानामन्तिकं व्रजेत् // dhs_32.31 //
विमनस्कं हि यत् प्रीते पुरुषे कुरुते लघु / मद्यवर्जी परं धीरो देवानामन्तिकं व्रजेत् // dhs_32.32 //
प्रमादविरहितः सुखमाप्नोति
सुख (प्राणो) हि यो देवः प्रमादं नानुसेवते / सुखात् सुखमवाप्नोति निर्वृत्तिं चाधिगच्छति // dhs_32.33 //
क्षयावसानं तत् सौख्यं निर्वाणमिति शाश्वतम् / तत् सप्राप्यविमानेषु राजन्ते पुरुषोत्तमाः // dhs_32.34 //
उच्चादुच्चरो मेरुस्तस्मादुच्चं सदा सुखम् / शुभेन नियतो जन्तुरकनिष्ठान् सुरान् (जयेत्) // dhs_32.35 //
निरवद्ये कुतस्तृप्तिर्देवलोके विशेषतः / अतीव सौख्यं लभते कस्माद् देवेषु सर्वदा // dhs_32.36 //
कः सौख्यमुपलभ्यते?
तृष्णाग्निपरिदग्धेन न सौख्यमुपलभ्यते / एवं सुकृतदग्धेन न सौख्यमुपलभ्यते // dhs_32.37 //
त्रिविधं सुकृतं कृत्वा त्रिप्रकारं त्रिहेतुकम् / एतदग्र्यं त्रिभूमिष्ठं (त्रिगुणं च) फलं महत् // dhs_32.38 //
अहिंसादानपरमा ये सद्धर्मपरायणाः / सत्यक्षान्तिदमैर्युक्ताः त्रिदिवं(ते) समागताः // dhs_32.39 //
दिव्याभरणसम्पन्ना दिव्यमाल्यविभूषिताः / यद् देवा दिव्यमतयः (कुर्वन्ति) शुभमेव तत् // dhs_32.40 //
देवानां यन्महत्सौख्यं(न)न्यूनाधिक्यमास्थितम् / न्यूनमध्यं तु यस्यैतत् फलं पुण्यस्य दृश्यते // dhs_32.41 //
पुण्यकर्ता देवलोकं गच्छति
येन यावद्धि यत् पुण्यं कृतं भवति देहिना / तस्य तावद्धि तत् सौख्यं देवलोकेषु पच्यते // dhs_32.42 //
शीलसंरक्षणमावश्यकम्
स्वागतं तव भो भद्र! सुकृतं कृतवानसि / सप्तधा रक्षितं शीलं तस्यैतत् फलमागतम् // dhs_32.43 //
रमस्व सह दैवतैः
वनोपवनशैलेषु पद्माकरवनेषु च / हर्म्याग्रेषु रमस्व (त्वं काञ्चनेषु) सदैवतः // dhs_32.44 //
वनोपवनशैलेषु वैदूर्यशिखरेषु च / वनाद्रिषु च नैकेषु रमस्व सह दैवतैः // dhs_32.45 //
कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च / सरित्सु च विशालासु (रमस्व) सह दैवतैः // dhs_32.46 //
स्त्रोतस्विन्यादियुक्तेषु पर्वतेषु नदीषु च / नगरेषु महार्थेषु रमस्व सह दैवतैः // dhs_32.47 //
मदगन्धिप्ररोहेषु नीलोत्पलवनेषु च / यक्षसद्मसु रम्येषु रमस्व सह दैवतैः // dhs_32.48 //
भूमिभागेषु चान्तेषु रत्नाकरवनेषु च / विमानेषु च रम्येषु रमस्व सह दैवतैः // dhs_32.49 //
पञ्चाङ्गिकेन तूर्येण मनःप्रह्लादकारिणा / नृत्यमानः सुखी नित्यं रमस्व सह दैवतैः // dhs_32.50 //
शीलबीजं शोधयित्वा शीलेषु विविधेषु च / क्रीड त्वं विविधैर्दिव्यैर्यथार्थमनुसेवसे // dhs_32.51 //
यत्प्रभामालिनो देवा रमन्ते विविधैः सुखैः / तच्छुभस्य फलं दृष्टं निर्मलस्य विशेषतः // dhs_32.52 //
यदेतैर्विविधैः सौख्यैर्देवाः क्रीडन्त्यनेकशः / न वयं हेतवस्तत्र (तत्र हेतुः) पुराकृतम् // dhs_32.53 //
कूटागाराणि सर्वाणि कर्मचित्राणि सर्वदा / भुनक्ति देवो देवेषु सत्कृतेनोपबृंहितः // dhs_32.54 //
पाशत्रयविमुक्तस्य पञ्चभिः पालितस्य वै / एकधर्मव्यतीतस्य देवलोको महीयते // dhs_32.55 //
प्रमुद्यच्चेतसां पुंसां स्पष्टचेष्टा समाहिता / आगता देवसदनं स्वकर्मफलसाक्षिणी // dhs_32.56 //
सुकृतफलम्
उपर्युपरि सौख्यानि (तथा च) सुकृतस्य वै / भुञ्जन्ति विबुधाः स्वर्ग यद्धि पूर्वकृतानुगम् // dhs_32.57 //
साक्षिभूता इमे सर्वकर्मणां विविधा द्रुमाः / निरन्तरं सुसदृशं कथयन्ति मनीषिणः // dhs_32.58 //
भाग्यं फलति सर्वत्र
येन येन विपाकेन यत्र यत्रोपपद्यते / पुरुषो लभते स्वस्य प्रारब्धस्य शुभाशुभम् // dhs_32.59 //
शुभकर्मणा प्राणी नित्यं देवेषु जायते
शुभेन कर्मणा जन्तुर्नित्यं देवेषु जायते / तथाशुभेन नरके पतन्ति पुरुषाधमाः // dhs_32.60 //
कामिनो मरणं नावगच्छन्ति
शुभाशुभाभ्यां संरक्ताः कामिनः काममोहिताः / नावगच्छन्ति मरणं यदवश्यं भविष्यति // dhs_32.61 //
शुभाशुभविपाको ऽयं यो वृक्षेषूपलभ्यते / न सौख्याद् विरमन्त्येते मनः सौख्येन मोहिताः // dhs_32.62 //
सुकृतं कृत्वा मानवाः देवेषु यान्ति
त्रिविधं सुकृतं कृत्वा भावयित्वा च सप्तधा / त्रिसंख्याकान् रिपून् हत्वा यान्ति देवेषु मानवाः // dhs_32.63 //
कः देवानामन्तिकं व्रजेत्?
नासूयति क्रियाक्लेशान् न च नन्दीमसूयति / स नन्द्यसूयकः शुद्धो देवानामन्तिकं गतः // dhs_32.64 //
विनिन्द्य मात्सर्यमिदं दुःखस्यायतनं महत् / समं च त्रिविधं दत्त्वा देवानामन्तिकं गतः // dhs_32.65 //
प्राणिनां प्रणयं नित्यं रक्षयित्वानुकम्पया / मैत्रचित्तः सदा दान्तो देवानामन्तिकं गतः // dhs_32.66 //
अदत्तं च धनं दत्त्वा दत्त्वानन्दं च सर्वतः / चेतनाभावितमतिर्देवानामन्तिकं व्रजेत् // dhs_32.67 //
मातृवत् परदारांश्च दृष्ट्वा तत्त्वार्थचिन्तकः / अलिप्तो पापकैर्धर्मैर्देवानामन्तिकं व्रजेत् // dhs_32.68 //
(कृतः) स्वचित्तप्रीत्यर्थ जिह्वारणिसमुद्भवः / कथ्यते स मृषावादस्तं हित्वा सुगतिं व्रजेत् // dhs_32.69 //
पैशून्यं च सदा हित्वा मैत्र्यनर्थकरं पदम् / श्लक्ष्णप्रभः श्लक्ष्णमतिः देवानामन्तिकं व्रजेत् // dhs_32.70 //
पारुष्यं शत्रुवद्धीरो वर्जयत्येव सर्वदा / श्लक्ष्णप्रभामतिर्नित्यं सर्वेषु गतिगामिकः // dhs_32.71 //
अधर्मो यस्य जिह्वाग्रे न भूतो न भविष्यति / सदा दुष्कालतत्त्वज्ञो देवानामन्तिकं व्रजेत् // dhs_32.72 //
येनेदं रक्षितं शीलं सप्तधा बुद्धदेशितम् / स धीरः शीलतत्त्वज्ञो देवानामन्तिकं व्रजेत् // dhs_32.73 //
कः सफलः धर्मज्ञः?
विविधकर्मवशगं जन्मेदं लभते सुरैः / तत्प्राप्य यो न धर्मज्ञः स पश्चात् परितप्यते // dhs_32.74 //
सुकर्मणा शुभजं फलम्
वनोपवनरम्यो ऽयं लतावेदिकमण्डपः / यद्विचित्रमयो लोकस्तत् सर्व शुभजं फलम् // dhs_32.75 //
येन येन यथा कर्म कृतं भवति शोभनम् / तस्य तस्य तथा दृष्टं फलं तदनुगामिकम् // dhs_32.76 //
प्रत्यक्षं दृश्यते देवैर्हीनमध्योत्तमं सुखम् / येन येन यथा चीर्णं तस्य तस्य तथा फलम् // dhs_32.77 //
कुकर्मणा दुःखजं फलम्
विचित्रवेषाः संमूढा देवा मोहवशानुगाः / तन्नाशान्मनसा मूढा न पश्यन्ति महद्भयम् // dhs_32.78 //
विचित्रकामरतयो विचित्रफलकाङ्क्षिणः / न वा कुर्वन्ति कर्माणि ते ऽसुरा मूढचेतसः // dhs_32.79 //
के प्रेमपरायणाः?
फलं येषां प्रियं चित्तं न च शीले रता मतिः / ते प्रदीपं परित्यज्य प्रेमालोकपरायणाः // dhs_32.80 //
हेतुफलतत्त्वज्ञाः सुखिनो भवन्ति
ये हेतुफलसादृश्येनेच्छन्ति सुरसत्तमान् / ते हेतुफलतत्त्वज्ञा भवन्ति सुखभागिनः // dhs_32.81 //
ज्ञानादेव मुक्तिः
विनाबीजं फलं नास्ति विना दीपं कुतः प्रभा? / विना शीलैः कुतः स्वर्गो मुक्तिर्ज्ञानं विना कुतः? // dhs_32.82 //
कः धीमतः?
तत्सुखं तद्विमुक्तस्य गतकाङ्क्षस्य तायिनः / विमुक्तकामतृष्णस्य निर्ममस्य च धीमतः // dhs_32.83 //
सुकर्मैः सुखं भवत्येव
यदिदं कर्मजं सौख्यं सर्व (तज्ज्ञेय) कल्मषम् / यं नेष्टकं भवत्येव तत् सर्वममलं स्मृतम् // dhs_32.84 //
देवलोकस्य वर्णनम्
यो मनोरथकृत्स्नस्य बहिरन्तश्च (सर्वतः) / सर्वालोकः सदालोको देवतागणसेवितः // dhs_32.85 //
विराजते गिरिवरो रत्नमाणिक्यसन्निभः / प्रभूतसलिलो यश्च पद्मिनीभिः समावृतः // dhs_32.86 //
वनोपवनरम्यो ऽयं मृगपक्षिनिषेवितः / कन्दरोदरसंरम्भो भित्वा गगनमुत्थितः // dhs_32.87 //
कुत्र देवतैः सेव्यते?
सेव्यते देवतैर्नित्यं दिव्यमाल्यविभूषितैः / नृत्यगीतप्रकृष्टाभिर्देवताभिश्च सर्वतः // dhs_32.88 //
पञ्चाङ्गिकेन तूर्येण प्रेरित इव लक्ष्यते / शिरोभूतो महारम्यः प्रभामाली समन्ततः // dhs_32.89 //
सुकृतेन शुभेनायं कर्मणाधिगुणेन वै / यं समाश्रित्य क्रीडन्ति देववृन्दानि सर्वतः // dhs_32.90 //
के स्वर्ग गच्छन्ति?
दानशीलयुता वृद्धा नित्यं तद्गतमानसाः / ये भवन्ति सदा दान्तास्ते जनाःस्वर्गगामिनः // dhs_32.91 //
संक्षिप्तमनसः शान्तास्ते जनाः स्वर्गगामिनः / वैरिणां विषयो नित्यं प्रशान्तमनसस्तु ये // dhs_32.92 //
(वीतरागा वीतमोहास्ते जनाः) स्वर्गगामिनः / भवाभवेन तीव्रेण बाधते (यत्र) साधनम् / सुदान्तमानसां धीरास्ते जनाः स्वर्गगामिनः // dhs_32.93 //
सत्यमार्गविलम्बेन हयतीव सुखभागिनः / सारासारविधिज्ञाश्च ते जनाः स्वर्गगामिनः // dhs_32.94 //
संसारे ये न रक्षन्ति स्वमनो (ननु) देहिनः / निर्वाणाभिरता नित्यं ते जनाः स्वर्गगामिनः // dhs_32.95 //
वृक्षमूले श्मशाने वा तथा च गिरिकन्दरे / ध्यायिनः सत्त्वमनसस्ते जनाः स्वर्गगामिनः // dhs_32.96 //
मात्रज्ञा देशकालज्ञाः पापमित्र(वि)वर्जिताः / मैत्रेण चेतसा ये तु ते जनाः स्वर्गगामिनः // dhs_32.97 //
न स्नानदर्शनरता नराः मन्मथवारिणा / एकान्तगामिनः शान्तास्ते जनाः स्वर्गगामिनः // dhs_32.98 //
क्षणे क्षणे सदा कायं पश्यन्त्यशुचिसम्भवम् / कार्याकार्यविधिज्ञा ये ते जनाः स्वर्गगामिनः // dhs_32.99 //
धर्माणां धर्मतां ये च पश्यन्ति विविधा समाः / न च रक्षन्ति संसारे ते जनाः स्वर्गगामिनः // dhs_32.100 //
वेदना मध्यतत्त्वान्तमनेकविधसम्भवम् / पश्यन्ति च न रक्षन्ति ते जनाः स्वर्गगामिनः // dhs_32.101 //
मायोपमं च क्षणिकं गन्धर्वनगरोपमम् / ये जानन्ति (सदा) चित्ताः ते जनाः स्वर्गगामिनः // dhs_32.102 //
एकलक्षणतत्त्वज्ञा विलक्षणविदः स्वयम् / निर्वाणरागमनसस्ते जनाः स्वर्गगामिनः // dhs_32.103 //
मातृवत् परदारान् ये पितृवत् सर्वदेहिनः / पश्यन्ति ये भयं लोके ते जनाः स्वर्गगामिनः // dhs_32.104 //
शून्यवर्गगतो नित्यं सत्त्वानां प्रियवादिनः / अक्रूरा ऋद्धिमनसस्ते जनाः स्वर्गगामिनः // dhs_32.105 //
काष्ठवल्लोष्ठवत् सर्व परवित्तसमीक्षकाः / संतुष्टाः स्वेन चित्तेन ते जनाः स्वर्गगामिनः // dhs_32.106 //
न रात्रौ न दिवा येषां कौसीद्यद्युतिरिष्यते / नित्योद्युक्तविहारा ये ते जनाः स्वर्गगामिनः // dhs_32.107 //
कौकृत्यं स्त्यानमिद्धं च कौसीद्यं च विशेषतः / वर्जयन्ति सदा धन्यास्ते जनाः स्वर्गगामिनः // dhs_32.108 //
दौःशील्यं पञ्चरन्ध्रेभ्यः परिशुद्धमनेकधा / संक्षिपन्ति सदा दुःखं ते जनाः स्वर्गगामिनः // dhs_32.109 //
उपादानचतुष्ट्वज्ञाः सत्यानि च तथैव च / ये पश्यन्ति बुधाः प्रज्ञां ते जनाः स्वर्गगामिनः // dhs_32.110 //
दुःखं दुःखविपाकश्च दुःखेषु च मनश्च यत् / पश्यन्ति ये सदा तत्त्वं ते जनाः स्वर्गगामिनः // dhs_32.111 //
तीव्रव्यसनमापन्ना ये (च) धर्माविमुञ्चकाः / शान्ताश्च धर्ममतयस्ते जनाः स्वर्गगामिनः // dhs_32.112 //
शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च / पिण्डपातरता नित्यं ते जनाः स्वर्गगामिनः // dhs_32.113 //
अदण्डाः शान्तमनसो नित्यं ध्यानविहारिणः / नैष्कर्म्यनिरताः सर्वे ते जनाः स्वर्गगामिनः // dhs_32.114 //
मृष्टं च यदि वाङ्मृष्टं यथेच्छाविधिमागतम् / सन्तुष्यन्ति न कुप्यन्ति ते जनाः स्वर्गगामिनः // dhs_32.115 //
शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च / संवृतौ चैव संतुष्टास्ते जनाः स्वर्गगामिनः // dhs_32.116 //
शय्यातले यथा भूमौ हर्म्याग्रे वा तथापरे / न दुष्यन्ति (न हृष्यन्ति) ते जनाः स्वर्गगामिनः // dhs_32.117 //
चक्षुर्विषयमापन्नं यत्कर्म साम्परायिकम् / तत्त्वतो ये प्रपश्यन्ति ते जनाः स्वर्गगामिनः // dhs_32.118 //
अप्रियं वा प्रियं वापि ये श्रुत्वा तीव्रसम्भ्रमात् / अक्षुब्धमतयो मुक्तास्ते जनाः स्वर्गगामिनः // dhs_32.119 //
षडिन्द्रियाणि सर्वाणि विषयांस्तु तथैव च / संक्षिपन्ति न रक्षन्ति ते जनाः स्वर्गगामिनः // dhs_32.120 //
यथा कर्म कृतं सर्वमविशेषेण तत्त्वतः / पश्यन्त्यमनसो धन्यास्ते जनाः स्वर्गगामिनः // dhs_32.121 //
कर्मणां च विपाकं च कृतं (ये धीरचेतसा) / बिभ्यतीह सदा दुःखेते जनाः स्वर्गगामिनः // dhs_32.122 //
इत्येतानि महार्थानि नित्यं दुःखकराणि च / कुर्वन्ति विधिवत् सर्व ते जनाः स्वर्गगामिनः // dhs_32.123 //
// इति देववर्गो द्वात्रिंशः //
(33) सुखवर्गः
सुखस्वरूपनिरूपणम्
अनुत्तरेषु सौख्येषु ध्यानोपात्तेषु ये रताः / तेषां सुखं यथावत् स्यात् निर्वाणपुरदर्शकम् // dhs_33.1 //
नवेन सुखदुःखेन पुराणमभिहन्यते / देवस्यैतन्नवेनैव पुराणमभिहन्यते // dhs_33.2 //
धू(म) मिश्रं यथा काष्ठं वि(ष्ठा) मिश्रं यथोदनम् / तथा सुखमिदं सर्वमस्वत्वं नावगम्यते // dhs_33.3 //
निर्वाणपुरगामिनां सुखम्
तत् सुखं यद् वितृष्णानामेकान्तसुखचारिणाम् / निर्मोहिणामरागाणां निर्वाणपुरगामिनाम् // dhs_33.4 //
तेषां विमलमाद्यन्तं सौख्यानामपि तत् सुखम् / येषां तृष्णानुगा चाशा सर्वथा नैव चेतसि // dhs_33.5 //
सङ्गृहीतस्य चित्तस्य निरात्मस्य च सर्वतः / कार्याकार्येषु मूढस्य सुखं नित्यमुपस्थितम् // dhs_33.6 //
कः श्रेष्ठः सुखी?
सा बहिर्निहता येन नन्दिसंसारहेतुकी / स धीरः पारगः श्रेष्ठः सुखी निर्वाणमाश्रितः // dhs_33.7 //
नैतत् सुखेन तृष्णानां यद् रागद्वेषसंयुतम् / यत्र रागादिनिर्मुक्तं तत् सुखं निर्मलं मतम् // dhs_33.8 //
कुत्र तृष्णा न बाधते?
देवलोके समासाद्य यः सुरो नावमन्यते / स सुखात् सुखतां याति यत्र तृष्णा न बाधते // dhs_33.9 //
तदन्त्यसुखि श्रेयो यत्र मृत्युर्न विद्यते /
मृत्युपाशैर्न बद्धस्य न सुखं विद्यते क्वचित् / यत् सुखं कामजनकं न तत् सौख्यं सतां मतम् // dhs_33.10 //
यत्र कामविनिर्मुक्तस्तत्सुखात् सुखमुत्तमम् / यत् सुखं जनयेत् श्रेयः (पयोमिश्रं) यथोदनम् // dhs_33.11 //
यत्र तृष्णाविनिर्मुक्तिः पयोमिश्रं यथोदनम् / यथा पद्मवने गृद्धा यान्ति(ते) क्रव्यभक्षिणः // dhs_33.12 //
एवं शान्तेष्वरण्येषु न भान्त्यशुभचारिणः / क्वचिच्छान्तं वनं रम्यं क्वचिद् देवाः प्रमादिनः // dhs_33.13 //
कः परमं सुखं प्राप्नोति?
विपरीतं न सदृशं भानोः शीता यथा प्रभा / गततृष्णस्य यत् सौख्यं मुक्तदुःखस्य तायिनः // dhs_33.14 //
तस्यान्तरेण सौख्यस्य सुखमेतन्न गण्यते / ध्यायिनस्त्वप्रमत्तस्य मुक्तपापस्य सर्वदा // dhs_33.15 //
तत् सुखं तत् परं सौख्यं नेदं तृष्णाविदां मतम् / मुनिसेव्यं वनमिदं सेवितं च सुभाषितैः // dhs_33.16 //
नार्हा (यूयं) रागगणं सेवितुं भो सुरोत्तमाः / यदेतद् भवतां सौख्यमेतन्न खलु शाश्वतम् // dhs_33.17 //
तत् सुखं परमं शान्तं वीततृष्णै निषेव्यते / निःसेवितं वनमिदं ये गताः परमं पदम् // dhs_33.18 //
यत् प्राप्य सर्वदुःखस्यच्छेदो भवति सर्वथा / ब्रह्मचर्यादनिर्मुष्टाः शीलालापेन वञ्चिताः // dhs_33.19 //
भिक्षूणां वने वास एव सुखावहः
नार्हन्ति सेवितुं रम्यं वनं शान्तं सुभाषितम् / शान्तं च भावितं (चैव) रमते शुभगोचरे // dhs_33.20 //
न रागचारिणां चित्तं रमते वनगोचरे / न रागव्याकुलं चित्तं वनेषु लभते धृतिम् // dhs_33.21 //
कः पुरुषोत्तमः?
श्रव्यामूढा मतिर्यस्य नित्यं त्रिभुवनं करे / स रतिं लभते शान्तिं वने पुरुषसत्तमः // dhs_33.22 //
सुखाय वनं सेव्यम्
स कल्परागकुटिलो नित्यं रागादिभिर्वृतः / स शान्तिं नैव लभते वने शान्ते सुखावहे // dhs_33.23 //
येषां तु मनसा नित्यं वने ध्याननियोगिनाम् / वनं तेषां सदारम्यं न तु रागगवेषिणाम् // dhs_33.24 //
वनेषु भावितं चित्तं नगरेषु न कुप्यते / तस्माद् वनं सदा सेव्यं नगरं नैव शस्यते // dhs_33.25 //
विक्षिप्यते हि नगरे नृणां रागादिभिर्वृतः / विक्षिप्त मोहकुटिलं वनं भूयः प्रसीदति // dhs_33.26 //
तस्माद् वनं परं शान्तं योगिनामालयं महत् / संसेव्यं वीतमनसा यस्य तद् वीतकल्मषम् // dhs_33.27 //
रतिं मा कृथा
प्रशान्तेन्द्रियचित्तस्य या रतिर्योगिनो हृदि / नासौ शक्तिः सहस्रस्य (मानवानां) भविष्यति // dhs_33.28 //
या ध्यायिनो रतिर्दृष्टा व्यवदानाय सर्वदा / न यामेष्वपि सा दृष्टा नित्यं रागानुरागिणी // dhs_33.29 //
रतिर्या कामवशगा सा नित्यं दुःखसम्भवा / या तु क्लेशवशात् प्रीतिः (सा प्रीतिः) शाश्वता नहि // dhs_33.30 //
कः श्रेयस्पदं प्राप्नोति?
श्रेयो वनेषु चरितं तत्तदुच्चरितं नृभिः / यस्मात् तत् प्रतिबद्धं हि श्रेयसां पदमुच्यते // dhs_33.31 //
सुसम्भृतेन धर्मेण रक्षितेनेव चेतसा / सुदृष्टं लभते स्थानं यत्र दोषो न विद्यते // dhs_33.32 //
यः क्षिप्तमनसा नित्यं न च धर्मपरायणः / तेषां वृथा सुखमिदं गच्छति न निवर्तते // dhs_33.33 //
तत्त्वज्ञा दुःखं न पश्यन्ति
ये तु तत्त्वविदो धीराः पश्यन्ति जगतः स्थितिम् / अनित्यदुःखशून्यानां तेषां दुःखं न विद्यते // dhs_33.34 //
सुखधर्मस्य चरणं ज्ञानस्य च निषेवणम् / अहिंसा सत्यवचनं तदप्येकान्ततः स्थितम् // dhs_33.35 //
कः स्वर्ग याति?
एकधर्मव्यतीता ये ये ऽधर्मपरिवञ्चकाः / त्रिस्थानलक्षणाविष्टास्ते जनाः स्वर्गगामिनः // dhs_33.36 //
सुखस्य स्वरूपम्
उदयव्ययधर्माणामनित्यं कर्मजं हि तत् / तत् सुखं सास्त्रवं नित्यं न भूतं न भविष्यति // dhs_33.37 //
तत् सुखं तद्वितृष्णस्य नीरागस्य हि देहिनः / मुक्तिर्भवति दोषस्य पारस्थस्य हि तापिनः // dhs_33.38 //
तत् किञ्चित् सास्रवं सौख्यं तत् सर्व क्षणिकं मतम् / रागबन्धाद् विनिर्मुक्तं तत् सर्व निश्चलं सुखम् // dhs_33.39 //
ये न क्षिपन्ति दुःखेन सुखे येषां न सङ्गतिः / ते दुःखसुखनिर्मुक्ता निर्वाणसुखगामिनः // dhs_33.40 //
अनुपायेन ये मूढाः प्रार्थयन्ति सुखं सदा / बालुकाभिर्यथा तैलं यल्लभ्यं नित्यमेव तत् // dhs_33.41 //
न चेतसा नरः प्राज्ञो मनोरथशतैरपि / शक्रो ऽपि तत् सुखं कर्तु यथा कर्म कृतं महत् // dhs_33.42 //
सुखाय धर्ममाचरेत्
ससुखं यस्य तु मनः सद्धर्मानुचरो भवेत् / दुःखैर्मुक्त्यभिलाषो ऽयं स धर्मे कुरुते मतिम् // dhs_33.43 //
नाहेतुकं सुखं दृष्टं दुःखं वा त्रिविधात्मकम् / सुखे दुःखे पृथग्भावे तस्मान्नु सुकृत चरेत् // dhs_33.44 //
नेदं सौख्यं सदा शस्तमध्रुवं विप्रलोपि च / तृष्णाविषेण सम्मिश्रं विषमिश्रं यथोदनम् // dhs_33.45 //
तत् सौख्यं (हि)सतां शस्तं यत्र मृत्युर्न विद्यते / न च प्रियेण विश्लेषो नाप्रियेण समागमः // dhs_33.46 //
कीदृशं सुखं दुःखजनकम्?
यदेतत् स्त्रीमयं सौख्यमेतद् दुःखाय कल्प्यते / तद्बीजवर्तका दृष्टा नरकेषूपपत्तये // dhs_33.47 //
यत् सुखं दुःखजनकं कथं तत् सुखमिष्यते? दुःखाद् दुःखतरं ज्ञेयं परिणामवशेन तत् // dhs_33.48 //
यदेतद् भुज्यते सौख्यमेतत् कालेन नश्यति / सूर्यस्तास्तङ्गतस्यैवं रश्मयः सह चारिणः // dhs_33.49 //
विकृतिं यस्य (च) मनः सुखदुःखैर्न गच्छति / स धीमान् सुरलोके च गत्वान्यल्लभते सुखम् // dhs_33.50 //
भुक्तं सुखं पुराणं तु हीनकर्म करोति च / पुराणं सुकृतं शीर्ण मृत्युकाले न बुध्यते // dhs_33.51 //
सर्व सुखमनित्यं भवति
यदिदं दृश्यते सौख्यं मनोवाक्कामजंभृशम् / अनित्यं तद् विनाशत्वमचिरेण भविष्यति // dhs_33.52 //
फेनबुद्बुदसङ्काशं मरीच्युदकसन्निभम् / चञ्चलोर्मि सुखं सर्व विनिपातो भवार्णवे // dhs_33.53 //
निष्प्रतीकारविषमः सर्वभूतभयावहः / चक्रवातप्रवेगो (वै) मृत्युराजैष धावति // dhs_33.54 //
नाशयित्वा सुखं सर्व नाशयित्वा च जीवितम् / कर्मसङ्कल्पवाह्येषु लोकमन्यत्र नेष्यति // dhs_33.55 //
यदतीव सुखं नृणां तद्धि सौख्याय कल्प्यते / यन्नैष्यति सुखं किञ्चित् तद्धि नैव विगण्यते // dhs_33.56 //
वर्तमानं तु यत् सौख्यं तृष्णाविषविवर्जितम् / सर्व ह्यनात्मजं दुःखमनित्यं संस्कृतं बलम् // dhs_33.57 //
लौकिकं सुखं न सुखम्
यद् सुखं त्रिषु लोकेषु न शस्तं तत्त्वदर्शिभिः / तेन मत्वा कथं देवा भवन्ति विगतज्वराः? // dhs_33.58 //
अविष्टोवतकालो ऽयं भैरवो याति सत्त्वरम् / यो भोक्ष्यते सुरान् सर्वान् शुष्केन्धनमिवानलः // dhs_33.59 //
अतियाति सुखं सर्व क्रियतां श्रैयसं मनः / मा पश्चात् संभवो योगे मृत्युकालो भविष्यति // dhs_33.60 //
सुखमस्थिरं भवति
जन्मान्तरसहस्रेषु यद् मुक्तं कर्मजं सुखम् / तरङ्गसन्निभः क्वायं(जानीयाद्) बालिशो ऽस्थिरम् // dhs_33.61 //
कः सुखेन प्रसीदति?
न सुखैस्तृप्यते बालस्तथा काष्ठैर्यथानलः / तस्मान्न (सुख) सक्तस्य सुखं भवति नैष्ठिकम् // dhs_33.62 //
विषस्य दोषमुक्तस्य कामदोषानुदर्शिनः / ध्यायिनश्चाप्रमतस्य तत् सुखं यदनाविलम् // dhs_33.63 //
सुखी भवति तत् प्राप्य न सुखं भवजन्मनः / बन्धमिश्रं विषं यद्वद् धर्मसौख्योदयस्तथा // dhs_33.64 //
कामविरहितः सुखमश्नुवते
तस्मात् तत्सुखसक्तानां नित्यं कामगवेषिणाम् / भवन्त्यनेकसौख्या(नि)तस्मात् कामो न जायते // dhs_33.65 //
ज्ञानेनैवेन्द्रियाणि स्वगोचरे निवर्तन्ते
नेन्द्रियाणां जयः शक्यः कर्त्तु विषयगोचरे / ज्ञानेन हि निवर्तन्ते इन्द्रियाणि स्वगोचरे // dhs_33.66 //
बाला एव गतिपञ्चके भ्रमन्ति
दुःखे सुखाभिसंसक्ता नित्यं बाला (हय)मेधसः / विपर्यया परिभ्रान्ता भ्रमन्ति गतिपञ्चके // dhs_33.67 //
कुत्र सुखं दुःखसदृशं भवति?
यदत्यन्तसुखं दृष्टं तत् सुखं सत्यमुच्यते / यत्र दुःखं विपाकं स्यात् तत् सुखं दुःखमेव तत् // dhs_33.68 //
पापस्याकरणमेव सुखम्
अन्यागतस्य दुःखस्य प्रतिघातयते बुधः / पापस्य हेतुजं दुःखं पापस्याकरणं सुखम् // dhs_33.69 //
// इति सुखवर्गो त्रयस्त्रिंशः //
(34) मित्रवर्गः
कः पापान्निवारयति?
तन्मित्रं मित्रमित्युक्तं यन्मित्रं साम्परायिकम् / निवर्तयति यः पापाद् व्यसनाच्चापि रक्षति // dhs_34.1 //
प्रवेशयति यन्नित्यं तद्धितं साम्परायिकम् / मित्रं भवति तन्नृणां न मित्रं पापकारकम् // dhs_34.2 //
संसर्गजा दोषगुणा भवन्ति
अपूतिः पूतिसंश्लेषात् पूतिरेवोपजायते / न पूतिः पूतसंश्लेषमपूतिं कर्त्तुमर्हति // dhs_34.3 //
यादृशेन (हि) संश्लेषं कुरुते पुरुषः सदा / तद्दोषात् सदृशो दृष्टः शुभो वा यदि वाशुभः // dhs_34.4 //
न शुभं दुःखकारकम्
शुभार्थी पुरुषः सर्वानशुभान्नैव सेवते / तेनासौ दुःखमाप्नोति न शुभं दुःखकारणम् // dhs_34.5 //
गुणदोषयोर्लक्षणम्
संश्लेषजा गुणाः दृष्टा दोषाः संश्लेषजातयः / लक्षणं गुणदोषाणामिदमुक्तं स्वभावजम् // dhs_34.6 //
यशसा युज्यते यो हि नित्यं साधुसमागमात् / असाधुऽसङ्गमाच्छ्रीघ्रं प्रयाति पुरुषाधमः // dhs_34.7 //
सत्सङ्गतिफलम्
एतत् सारं सदा कार्य यदसाधुविवर्जनम् / साधुभिश्च सदा वासो दुष्टाणां च विवर्जनम् // dhs_34.8 //
दोषान् समुद्धरेद्धीमान् गुणवृद्धिं समाचरेत् / (साधु) मित्रं प्रकुर्वीत कौसीद्यविमुखो भवेत् // dhs_34.9 //
न मानिनं कुसीदं वा नित्यं सर्वानुशङ्किनम् / लिप्तपापमतिक्रूरं मित्रं कुर्यान्न पण्डितः // dhs_34.10 //
उद्युक्तं मृदुजातीयं धर्मिष्ठं दोषवर्जितम् / सम्यग्दृष्टिरचपलं मित्रं सेवेत पण्डितः // dhs_34.11 //
न पापकं भवेन्मित्रं भवेदुत्तमपौरुषः / उत्तमं भजमानस्य न दोषेभ्यो भयं भवेत् // dhs_34.12 //
कः लघुतां याति?
रूपैश्वर्यकुलादीनि भिद्यन्ते (यस्य) देहिनः / भयप्रदं तं मातङ्गः प्रयान्तं नैव पश्यति // dhs_34.13 //
उद्वृत्तः पुरुषो नित्यं प्रमादाकुलितेन्द्रियः / लघुतां याति लोके ऽस्मिन् प्रेत्यपापेषु पच्यते // dhs_34.14 //
रूपैश्वर्यमदार्था ये ते नराः पापकारिणः / तेषां न सुशमं (कर्म) प्रेत्यपापेषु पच्यते // dhs_34.15 //
रूपैश्वर्यकुलार्था ये न ते तत्त्वस्य भागिनः / अतत्त्वबुद्धयो बाला न तरन्ति भवार्णवम् // dhs_34.16 //
ज्ञानशीलादियुतं कुलं श्रेष्ठम्
एतत्कुलं ये विभवा यच्चान्यत् सुखमिष्यते / सर्वाण्येतान्यनित्यानि तस्मात्तेषु न विश्रमेत् // dhs_34.17 //
न ज्ञानशीलनिर्मुक्तं कुशलं यान्ति पण्डिताः / येषां ज्ञानं च शीलं च ते कुले महति स्थिताः // dhs_34.18 //
चरितुं चामलं शीलं शीलमेव महाद्भुतम् / महाकुलप्रसूतास्ते (पण्डिताः) वशमानिनः // dhs_34.19 //
दानशीलतपोध्यानसत्यैश्वर्यपराक्रमैः / संयुक्ता ये कुलीनास्ते ये न धर्मविवर्जिताः // dhs_34.20 //
नैश्वर्यज्ञानहीनस्य न कुलं नापि सङ्गतिः / तस्मात्कुलं ज्ञानमयं ज्ञानहीनं न तत् कुलम् // dhs_34.21 //
// इति मित्रवर्गश्चतुस्त्रिंशः //
(35) राजाववादवर्गः
धार्मिको राजा स्वर्ग याति
भुवं परिजनो पश्यन् धर्मचारी जितेन्द्रियः / स राजा धार्मिको धीमान् स्वर्गलोकोपपत्तये // dhs_35.1 //
कः लोभनिर्मुक्तो राजा?
नियतं यः करं काले धर्मेण परिभुज्यते / स राजा लोभनिर्मुक्तो यामानामधिपो भवेत् // dhs_35.2 //
राज्ञः स्वरूपम्
क्षमावान् प्रियवाक्यो यः क्रोधहर्षादिधारकः / स महीं पालयेत्त्वेनां लोके हि श्रेष्ठतां गतः // dhs_35.3 //
अपक्षपातिनः श्रद्धा मित्रेण च (वि)हन्यते / स राजन्यसभाजेता देवलोकाय कल्प्यते // dhs_35.4 //
बद्धदर्शी महात्मा यो गुरुपूजक एव च / अलोलो यो दृढमतिर्देवानामन्तिकं व्रजेत् // dhs_35.5 //
पूर्वे यत् पितृभिर्दत्तं देवानुपदिशन्ति च / न च हिंसति भूतानि स देवेषूपपद्यते // dhs_35.6 //
दानशीले सदा दक्षो धर्मवादी जितेन्द्रियः / स मत्वार्यां महीं कृत्स्नां देवलोकं महीयते // dhs_35.7 //
नाधार्मिकं धारयति धार्मिकेषु च रक्षति / स धर्मशीलसंशुद्धो देवानामन्तिकं व्रजेत् // dhs_35.8 //
न स्त्रीणां वशगो राजा साधूनां च वसेत् सदा / स निर्मलमतिर्धीरः सुरलोकोपपत्तये // dhs_35.9 //
न सर्वस्य वचोग्राही प्रियः साधुजनस्य तु / सो ऽमृतस्तत्त्वदर्शीवा नाकृष्ट इव रोहति // dhs_35.10 //
को यामानामधिपो?
यो धर्मलोभमायाति द्रविणं नैव लप्स्यते / स लोभमलनिर्मुक्तो यामानामधिपो भवेत् // dhs_35.11 //
न मिथ्यादर्शनेनापि स्त्रीत्वदर्शनतत्परः / स शुद्ध एव विमलो यामानामधिपो भवेत् // dhs_35.12 //
कः राजा देवप्रियो भवति?
प्राज्ञः शीले सदायुक्तो दानेनाभीक्ष्णतां गतः / प्रविजित्य महीं कृत्स्नां प्रेत्य देवप्रियो भवेत् // dhs_35.13 //
प्रियस्य तु भवेद् वाक्यं स्तोत्रोत्सवकरं परम् / आह्लादयित्वा वसुधामन्ते देवोपपत्तये // dhs_35.14 //
अविसंवादकं वाक्यं यस्य मेरुरिवाचलम् / सत्यसोपानमारुह्य देवानामन्तिके गतः // dhs_35.15 //
ह्रासवृद्धी च भूतानामकस्मात् कुरुते हि यः / स राजा वै परो देवैर्देवलोके च तिष्ठति // dhs_35.16 //
मनुष्यान्तरतत्त्वज्ञो यो वेत्ति हि बलाबलम् / स धीबलाभ्यां संयुक्तो यामानामधिपो भवेत् // dhs_35.17 //
त्रैधातुकपदं यच्च रत्नत्रयमिहोच्यते / यस्तत् पूजयते राजा स देवेषूपजायते // dhs_35.18 //
कालं नियतदर्शी यः प्रजानां च हिते रतः / सर्वतो भद्रकान्तारो देवानामधिपः स्मृतः // dhs_35.19 //
निन्दामलविनिर्मुक्तः सङ्गदोषविवर्जितः / ज्ञानगोचरसम्पूज्यो नियतं देव एव सः // dhs_35.20 //
कः स्वर्ग याति?
कौसीद्यदोषरहितो नित्यं दृढपराक्रमः / नाशयित्वा स दोषौघान् प्रेत्य स्वर्गेषु जायते // dhs_35.21 //
सन्मित्रैः परिवारितो राजा देवाधिपो भवति
हितानि यस्य मित्राणि कर्मकर्तृणि नित्यशः / स मित्रैः सम्परिवृतो नृपो देवाधिपो भवेत् // dhs_35.22 //
नानुसेवेत दुर्वृत्तान् वाक्क्षेपेण च वर्जितः / स सद्यो विषनिर्मुक्तः सुराणामधिपो भवेत् // dhs_35.23 //
क्रोधहर्षविघाताय न च पापेषु रक्ष्यते / स पापपङ्कनिधौतः सुरलोकाधिपः सदा // dhs_35.24 //
न शक्तः पानभोज्येषु संसक्तस्तु शुभे सदा / स शुद्धधर्मसन्दर्शी विबुधो ऽधिकतां व्रजेत् // dhs_35.25 //
कः पदमुत्तमं प्राप्नोति?
सुचिन्तितं चिन्तयति (यो) धर्मेषु च वर्तते / धर्मोदयेन दृष्टेन यथा याति त्रिविष्टपम् // dhs_35.26 //
संसाराद् दीर्घसूत्राद् यस्त्वरितं धर्ममाचरेत् / स दीर्घसूत्रनिर्मुक्तः प्रयाति पदमुत्तमम् // dhs_35.27 //
धर्मेण प्रजापालकः स्वर्गसुखं याति
धर्मेणैव प्रजा नित्यं प्रपालयति (यो) नृपः / स धार्मिकः प्रशस्तात्मा सुरलोके महीयते // dhs_35.28 //
दशेमे कुशला धर्मा इहोक्तास्तत्त्वदर्शिना / यस्ते प्रकुरुते धर्मान् स सुराधिपतां व्रजेत् // dhs_35.29 //
हेतुप्रत्ययसन्दर्शी मार्गामार्गौ तथैव च / स दृष्टिमलनिर्मुक्तो विबुधो ऽधिकतां गतः // dhs_35.30 //
कीदृशैर्गुणयुतैः राजा देवानामधिपो भवति
यो देवतां पूजयति यथा चाह्नि महीपतिः / स देवपूजितो भूयो देवानामधिपो भवेत् // dhs_35.31 //
अनाविलेन मनसा प्रसन्नश्चाधिदारकः / स्वस्वदारैश्च सन्तुष्टो देवानामधिपो भवेत् // dhs_35.32 //
कः शीलवान्?
हीयते यो न विषयैः सर्वबालापहारिभिः / स शीलवान् दिवं याति नित्यं शीलेन रक्षितः // dhs_35.33 //
अविद्यावर्जकान् नित्यं सेवते यः सुधार्मिकान् / सद्धर्मचिन्तकः सौख्यं कल्पते सुर(सं)सदि // dhs_35.34 //
(व्यापारैः स्वस्थचित्तो यः) पार्षदालापहारिभिः / स शीलवान् दिवं याति नित्यं शीलेन रक्षितः // dhs_35.35 //
सद्धर्मी राजा एव वसुधाधिपतिः
सद्व्यापाराद्धर्ममिमं पालयन् वसुधाधिपः / प्रशास्ति च महीं कृत्स्नां यामानामधिपो भवेत् // dhs_35.36 //
सत्कर्मनिरतस्य राज्ञो भृत्यो ऽपि शोभते
सत्कर्मनिरतो भृत्यो नृपे सद्गुणशालिनि / जनो निर्मलतां याति शरच्चन्द्र इवाम्बरे // dhs_35.37 //
कः राजा देवतुल्यो भवति?
हेतुलक्ष्यविधिज्ञा ये अविरुद्धाः परस्परम् / सम्यक्स्वाम्यर्थकर्त्तारः देवानां वशमागताः // dhs_35.38 //
// इति राजाववादवर्गः पञ्चत्रिंशः //
(36) स्तुतिवर्गः
बुद्धस्तुतिः
समसत्त्वाग्रवेदाय सर्वसत्त्वेषु बन्धवे / सन्मार्गसार्थवाहाय भवबन्धनभेदिने // dhs_36.1 //
(ना)नादृष्टिविभेदाय सर्वसंशयमोचिने / सम्यग्दृष्टिनिवेशाय नमः सञ्ज्ञानचक्षुषे // dhs_36.2 //
सर्वसङ्कटभेदाय त्रिदोषमलशोधिने / नमो नक्षत्रभूताय सर्वबीजफलोरुहे // dhs_36.3 //
सर्वप्रज्ञाकराग्राय सर्वध्यानाग्रवेदिने / सर्वरत्नोत्तमार्याय नमो ऽलानाग्रदर्शिने // dhs_36.4 //
इयं सा लोकनाशस्य विप्रयुक्तस्य तापिनः / प्रतिमा दृश्यते शान्ता मोक्षमुद्घाट्यकारिका // dhs_36.5 //
समर्चतीमां नित्यं (यः) पुरुषः शान्तमानसः / स मुच्यते भवभयान्निवृत्तिं चाधिगच्छति // dhs_36.6 //
एतच्छान्तपदं रम्यमेतन्नैष्ठिकमुच्यते / यदयं भाषते धर्म निर्वाणपुरदेशिकः // dhs_36.7 //
अस्य वाक्यं समालम्ब्य पुरुषाधीनविक्रमाः / आकर्षन्ति पदं नित्यं यदनन्तसुखावहम् // dhs_36.8 //
एतत् पूर्व समारुहय पुरुषास्तत्त्वचिन्तकाः / त्रिलोकौघार्णवं घोरं तरन्ति भवसागरम् // dhs_36.9 //
अयं स चक्षुर्लोकस्य समन्ताद्धि विचक्षुषः / अयं ज्योतिः परं ज्योतिर्यज्ज्योतिःकाष्ठसम्भवम् // dhs_36.10 //
कल्पान्तं प्राणिनां चित्ते नृणां रागादिभिर्मलैः / ज्ञानतोयेन महता शोधयत्येव वाङ्नृपः // dhs_36.11 //
यन्न दृष्टं पदं सर्वैस्तीर्थिकैर्ज्ञानपाणिभिः / तत्पदं विमलैर्वाक्यैस्त्वया नृणां प्रदर्शितम् // dhs_36.12 //
प्रमादपरमो ऽनाथो जनो ऽयं तारितस्त्वया / तीर्णः पारगतो नाथस्तारयत्यघनाशनात् // dhs_36.13 //
हितार्थ सर्वजगतस्त्वमेवैको व्यवस्थितः / अहितानां हितायैव त्वमेव पुरुषोत्तमः // dhs_36.14 //
अनादिमति संसारे नृणां क्लेशापहारकैः / त्वया विशोधितो वाक्यैस्तमः सूर्योदये यथा // dhs_36.15 //
अक्षयः सर्वधर्माणां ज्ञानलोककरो महान् / त्वमेवैको जगन्नाथ लोकोत्तरगुणार्णवः // dhs_36.16 //
// इति स्तुतिवर्गः षट्त्रिंशः //
पुण्यदेवसुखैर्मित्रराजस्तुतिभिरन्विताः / सद्धर्मस्मृतिवैपुल्यै गृहीतो ऽयं समुच्चयः //
// इति चतुर्थम् उदानम् //
ये च धर्मा हेतुभवा तेषां तथागतो ऽवदत् / तेषां च यो निरोधश्चैवंवादीमहाश्रमणः //
पुण्यमवाप्तमन्त्रक्लेशं विभिद्याजनवलाश्रीकम् / यावज्जगद्व्याकुलं तर्कनिष्ठैः समाकुलं वेत्ति सत्यवचनैः //
वैपुल्यमहागम्भीरोदधिसूत्रवराद् भिक्षु(णा)अवलोकितसिंहेनोद्धृतमिति /
मोहाशिवादिरहितस्य वाक्यविद्यस्य विपुलार्जनस्य ऽधर्मसमुच्चयोऽ नाम धर्मपर्यायः समाप्तः /
// इति शुभम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
