Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

वादन्याय

Tác giả
धर्मकीर्ति
Thông tin
GRETIL — : M.T. MUCH, Dharmakirtis Vadanyaya Teil I. Wien 1991.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

प्रतिपत्तिर् भवत्य् एव इति तयोः पृथग् वचने 05708 अप्रतिभायाः को विषय इति वक्तव्यम्, निर्विषयत्वाद् अवाच्या 05709 एव स्यात्. 05710 न उत्तर-अज्ञानम् अज्ञानं किं तर्हि विषय-अज्ञानम्, अज्ञाते 05711 हि विषये उत्तर-अज्ञानात् तन् न प्रतिपद्येत इति अस्ति विषयो अप्रतिभाया 05712 इति चेत्, एवं तर्ह्य् अननुभाषणं निर्विषयम्, 05713 अज्ञानेन आक्षेपात्. न हि विषयं सम्यक् प्रतिपद्यमानः 05714 कश्चिन् न अनुभाषेत इति न अननुभाषणं पृथग् वाच्यम्. 05715 उत्तर-अज्ञानस्य च आक्षेपात्. विषय-अज्ञानेन उत्तर-अज्ञानम् अप्य् 05716 आक्षिप्तम् एव. न हि विषयम् अजानन्न् उत्तरं जानाति इति न एव अप्रतिभाया 05717 विषयो अस्ति. 05801 ज्ञाते अपि विषये पुनर् उत्तर-अज्ञानम् अप्रतिभाया विषय 05802 इति चेत्, एवं तर्हि विषय-उत्तर-अज्ञानयोर् अपि प्रभेदान् निग्रहस्थान- 05803 अन्तराणि वाच्यानि. यथा अज्ञानस्य विषय-अज्ञानम् उत्तर- 05804 अज्ञानम् इति प्रभेदाद् असत्य् अपि गुण-अतिशये निग्रहस्थान- 05805 अन्तर-व्यवस्था क्रियते, तथा अज्ञानयोर् अपि सर्वा-ज्ञान-अर्ध- 05806 अज्ञानम् इत्य् आदि-प्रभेदान् निग्रहस्थान-अन्तराणि किं न उच्यन्ते. 05807 न च उभयस्य अप्य् अज्ञानस्य संग्रह-वचने कश्चिद् 05808 दोषः, गुणस् तु स्याद् इति संग्रह-वचनं न्याय्यम्. 05809 तस्माद् अननुभाषण-ज्ञानयोर् अप्रतिभा-विषयत्वान् न 05810 पृथग्-वचनम्. अपि च न पूर्व-उत्तर-वादिनो हेत्व्-आभासा-प्रतिभाभ्याम् 05811 अन्यन् निग्रहस्थानं न्याय्यम् अस्ति तद्-उभय- 05812 वचनेन एव सर्वम् उक्तम् इति. तद्-उभय-आक्षिप्तेषु प्रभेदेषु 05813 गुण-अतिशयम् अन्तरेण वचन-आदेर् अतिप्रसङ्गाद् व्यर्थः 05814 प्रपञ्च इति. 05815

उत्तरस्य अप्रतिपत्तिर् अप्रतिभा. पर-पक्ष-प्रतिषेध 05816 उत्तरं यदा न प्रतिपद्यते, तदा निगृहीतो वक्तव्यः. 05817 साधन-वचन-अनन्तरं प्रतिविषयम् उत्तरे व्यर्थं 05818 तद्-अज्ञान-क्रम-घोषण-श्लोक-पाठ-आदिना कालं गमयन् कर्तव्य- 05819 अप्रतिपत्त्या निग्रह-अर्ह इति न्याय्यं निग्रहस्थानम् 05820 इति. 05901 कार्य-व्यासङ्गात् कथा-विच्छेदो विक्षेपः. यत् किंचित् कर्तव्यं 05902 व्यासज्य कथां विच्छिनत्ति, इदं मे करणीयं 05903 परिहीयते, अस्मिन्न् अवसिते पश्चात् करिष्यामि, प्रतिश्यायकला 05904 मे कण्ठं क्षिणोत्य् एवम्-आदिना कथां विच्छिनत्ति, स विक्षेपो 05905 नाम निग्रहस्थानम्. एकतर-निग्रह-अन्तायां कथायां 05906 स्वयम् एव कथा-अन्तं प्रतिपद्यत इति. 05907 इदम् अप्य् यदि पूर्वपक्ष-वादी कुर्याद् व्याज-उपक्षेप-मात्रेण, 05908 न पुनर् भूतस्य तथाविध-कथा-उपरोधिनः कार्यस्य 05909 भावे, तस्य स्व-साधन-असामर्थ्य-परिच्छेदाद् एव 05910 विक्षेपः स्यात्. तथा च इदम् अर्थ-अन्तर-गमन एव अन्तर्भवेद् 05911 असमर्थ-साधन-अभिधानाद् हेत्व्-आभासेषु वा. प्रकृत- 05912 साधन-असम्बद्ध-प्रतिपत्तेश् च निरर्थक-अपार्थकाभ्यां 05913 न भिद्यते. अतिप्रसङ्गश् च एवंप्रकाराणाम् असम्बद्ध- 06001 साधन-वाक्य-प्रतिपत्ति-भेदानां पृथग्-निग्रहस्थान- 06002 व्यवस्थापने प्रोक्तः. अथ उत्तरपक्ष-वाद्य् एवं विक्षिपेत्, 06003 तस्य अपि साधन-अनन्तरम् उत्तरे प्रतिपत्तव्ये तद्-अप्रतिपत्त्या 06004 विक्षेप-प्रतिपत्तिर् अप्रतिभायाम् अर्थ-अन्तरे वा अन्तर्भवति. 06006 ननु न अवश्यं साधन-दूषणाभ्याम् एव सर्वस्य प्रतिपत्तिर्, 06007 येन सर्वा

वादि-प्रतिवादिनोर् न असम्यक्-प्रतिपत्तिर् 06008 हेत्व्-आभासेष्व् अप्रतिभायां वा अन्तर्भवेत्. भवति हि अनिबद्धेन 06009 अपि कथा-प्रपञ्चेन विवाद इति, न, असम्भवात्. 06010 एकत्र अधिकरणे विरुद्ध-अभ्युपगमयोर् विवादः स्यात्, अविरुद्ध- 06011 अभ्युपगमयोर् अनभ्युपगमयोर् वा विवादा-अभावात्. 06012 तत्र अवश्यम् एकस्य प्राग्-वचन-प्रवृत्तिः, युगपत्-प्रवृत्तौ 06013 परस्पर-वचन-श्रवण-अवधारण-उत्तराणाम् असम्भवेन 06014 प्रवृत्ति-वैफल्यात् स्वस्थ-आत्मनाम् अप्रवृत्तेः. तेन 06015 च स्व-उपगम-उपन्यासे अवश्यं साधनं वक्तव्यम्, 06016 अन्यथा परेषाम् अप्रतिपत्तेः, अपरेण च तत्-सम्बन्धि दूषणम्. 06017 उभयोर् असम्यक्-प्रतिपत्तौ हेत्व्-आभास-अप्रतिभयोः 06018 प्रसङ्ग इति. सर्वो न्याय-प्रवृत्तः पूर्व-उत्तरपक्ष-उपन्यासो 06101 द्वयं न अतिपतति. एतेन एव वितण्डा प्रत्युक्त-अभ्युपगम- 06102 अभावे विवाद-अभावात्. 06103 यदा तर्ह्य् अभ्युपगम्य वादं विफलतया न किंचिद् 06104 वक्ति, अन्यद् वा यत् किंचित् प्रलपति, तदा कथं हेत्व्-आभास- 06105 अन्तर्भावः. असमर्थित-साधन-अभिधान एवम् उक्तम्, 06106 अनभिधान अन्य-अभिधानयोर् अपि पराजय एव इत्य् उक्तम् 06107 अभ्युपगम्य वादम् असाधन-अङ्ग-वचनात्. एतेन अधिकस्य 06108 पुनरुक्तस्य च प्रतिज्ञा-आदेर् वचनस्य च निग्रहस्थानत्वं 06109 व्याख्यातम्, तद् अपि हि प्रतिपादित-अर्थ-विपर्ययत्वात् 06110 साधन-सामर्थ्य-अनभिधानम्. अप्रतीत-प्रत्ययतया लक्षणात् 06111 साधनस्य असाधन-अङ्ग-वचनम् इति निग्रहस्थानम् 06112 इति. 06113 स्व-पक्ष-दोष-अभ्युपगमात् पर-पक्षे दोष-प्रसङ्गो मत-अनुज्ञा.

06114 यः परेण चोदितं दोषम् अनुद्धृत्य, भवतो 06115 अप्य् अयं दोष इति ब्रवीति, यथा भवांश् चौरः पुरुषत्वाद् 06116 इत्य् उक्ते स तं प्रतिब्रूयाद्, भवान् अपि इति, स स्व-पक्षे दोष-अभ्युपगमात् 06117 पर-पक्षे तं दोषं प्रसञ्जयन् पर-मतम् 06118 अनुजानाति इति मत-अनुज्ञा निग्रहस्थानम् इति. 06201 अत्र अपि यदि पुरुषत्वाच् चौरो भवान् अपि स्यात्, न च भवता 06202 आत्मा एवम् इष्टः, तस्मान् न अयं चौर्य-हेतुर् इति यद्य् 06203 अयम् अभिप्रायः, तदा न कश्चिद् दोषः, अनभिमते तद्-आत्मनि 06204 चौरत्वेन हेतु-दर्शनेन दूषणात्. 06205 प्रसङ्गम् अन्तरेण आञ्जसेन एव किं न व्यभिचारित इति 06206 चेत्, यत् किंचिद् एतत्, सन्ति ह्य् एवंप्रकारा अपि व्यवहारा लोक 06207 इति. अथ तद् उपक्षेपम् अभ्युपगच्छत्य् एव, तदा अप्य् 06208 असाव् उत्तर-अप्रतिपत्त्या एव तत्-साधने निग्रह-अर्हः, न अपरत्र 06209 स्व-दोष-उपक्षेपात्, तत्-साधन-निर्दोषतायां हि तद्-अभ्युपगम 06210 एव उत्तर-अप्रतिपत्तिर् इति तावता एव पूर्वम् आपन्न-निग्रहस्य 06211 पर-दोष-उपक्षेपस्य अनपेक्षणीयत्वाद् इति. 06212 निग्रह-प्राप्तस्य अनिग्रहः पर्यनुयोज्य-उपेक्षणम्. पर्यनुयोज्यो 06213 नाम निग्रह-उपपत्त्या चोदनीयः, तस्य उपेक्षणं 06214 निग्रह-प्राप्तो असि इत्य् अननुयोगः. एतच् च कस्य पराजय 06215 इत्य् अनुयुक्तया पर्षदा वक्तव्यम्, न खलु निग्रह-प्राप्तः 06216 स्व-कौपीनं विवृणुयाद् इति. 06301 अत्र अपि यदि साधन-वादिनं निग्रह-प्राप्तम् उत्तर-वादी 06302 न पर्यनुयुङ्क्ते, अप्रतिभा एव अस्य उत्तर-अप्रतिपत्तेर् इति न 06303 पर्यनुयोज्य-उपेक्षणं पृथग् निग्रहस्थानम्. न्याय-चिन्तायां 06304 पुनर् न

द्वयोर् एकस्य अपि अत्र जय-पराजयौ, साधन- 06305 आभासेन अर्थ-अप्रतिपादनाद् भूत-दोष-अनभिधानाच् च. 06306 अथ कंचिद् दोषम् उद्भावयति, कंचिन् न, न तदा 06307 निग्रहम् अर्हति उत्तर-प्रतिपत्तेः. 06308 अर्हति एव, सर्वस्य सतो दोषस्य अनुद्भावनाद् इति चेत्, न 06309 सन्त इति कृत्वा सर्वे दोषा अवश्यं वक्तव्या अवचने वा 06310 निग्रहः, एकेन अपि तत्-साधन-विघाताद्, एक-साधन-वचन-वत्. 06311 यथा एकस्य अर्थ-अस्य अनेक-साधन-सद्भावे अप्य् एकेन एव 06312 तत्-सिद्धेर् न सर्व-उपादानम् इति न दोषम् उद्भावयन्न् एव अपरस्य 06313 अनुद्भावनान् निग्रह-अर्हः. 06401 अथ पूर्व-पक्ष-वादी उत्तर-पक्ष-वादिनं निग्रह-प्राप्तं 06402 न निगृह्णाति, तदा तयोर् न्यायेन न एकस्य अपि पूर्ववज् 06403 जय-पराजयौ. दोष-आभासं ब्रूवानम् उत्तर-वादिनं स्व- 06404 साधनाद् अनुत्सारयतो असमर्थित-साधन-अङ्गत्वान् न जयो 06405 वादिनः, सर्व-दोष-असम्भव-प्रदर्शनेन साधन-अङ्ग-समर्थनात्. 06406 न अप्य् उत्तर-वादिनो भूत-दोष-अप्रतिपादनात्. तस्माद् 06407 एवम् अपि न पर्यनुयोज्य-उपेक्षणं नाम पराजय-अधिकरणम् 06408 इति. 06409 अस्थाने निग्रहस्थान-अनुयोगो निरनुयोज्य-अनुयोगः. निग्रहस्थान- 06410 लक्षणस्य मिथ्या-अवसायाद् अनिग्रहस्थाने निगृहीतो 06411 असि इति ब्रुवन् निरनुयोज्य-अनुयोगान् निगृहीतो वक्तव्यः. 06412 अत्र अपि यदि तत्-साधन-वादिनम् अभूतैर् दोषैर् उत्तर- 06413 वाद्य् अभियुञ्जीत, सो अस्थाने निर्दोषे निग्रहस्थानस्य अभियोक्त- 06414 उद्भावयिता न भवति. तथा च भूत-दोष-उद्भावन-लक्षणस्य 06415 उत्तरस्य अप्रतिपत्तेर् इतरेण

उत्तर-आभासत्वे प्रतिपादिते 06501 अप्रतिभया एव निगृहीत इति न इदम् अतो निग्रहस्थान-अन्तरम्. 06503 अथ उत्तर-वादिनं भूतं साधन-दोषम् उद्भावयन्तम् 06504 अपरो दोष-आभास-वचनेन अभियुञ्जीत, तस्य तेन भूत- 06505 दोषत्वे प्रतिपादिते साधन-आभास-वचनेन एव निगृहीत इति. 06506 एवम् अपि न इदं हेत्व्-आभासेभ्यो भिद्यते. अवश्यं हि 06507 विषय-अन्तर-व्याप्त्य्-अर्थं हेत्व्-आभासा निग्रहस्थानत्वेन 06508 वक्तव्याः, तद्-उक्ताव् अपर-उक्तिर् अनर्थका इति. 06509 सिद्धान्तम् अभ्युपेत्या-नियमात् कथा-प्रसङ्गो अपसिद्धान्तः. 06510 कस्यचिद् अर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञाता- 06511 अर्थ-विपर्ययात् कथा-प्रसङ्गं कुर्वतो अपसिद्धान्तो 06512 विज्ञेयः. यथा न सतो विनाशः, न असद् उत्पद्यत इति सिद्धान्तम् 06513 अभ्युपेत्य पक्षम् अवस्थापयति एका प्रकृतिर् 06514 व्यक्तस्य, विकाराणाम् अन्वय-दर्शनात्. मृद्-अन्वयानां शराव- 06515 आदीनां दृष्टम् एक-प्रकृतिकत्वम्, तथा च अयं व्यक्त- 06601 भेदस् सुख-दुःख-मोह-समन्वितो गृह्यते. तत् सुख-आदिभिर् 06602 एक-प्रकृतिर् इति. स एवम् उक्तवान् पर्यनुयुज्यते. 06603 अथ प्रकृतिर् विकार इति कथं लक्षयितव्यम् इति. यस्य अवस्थितस्य 06604 धर्म-अन्तर-निवृत्तौ धर्म-अन्तरं प्रवर्तते, 06605 सा प्रकृतिः. यत् तद् धर्म-अन्तरम्, स विकार इति. सो अयं 06606 प्रकृत-अर्थ-विपर्ययाद् अनियमात् कथां प्रसञ्जयति. प्रतिज्ञातं 06607 खल्व् अनेन न असद् आविर्भवति, न सत् तिरोभवति इति. 06608 सद्-असतोश् च तिरोभाव-आविर्भावाव् अन्तरेण न कस्यचित् प्रवृत्त्य्- 06609 उपरमः प्रवृत्तिर् वा इति एवं प्रत्यवस्थितो यदि सत

06610 आत्म-हानम् असतश् च आत्म-लाभम् अभ्युपैति, अपसिद्धान्तो 06611 भवति अथ न अभ्युपैति, पक्षो अस्य न सिध्यति इति. 06612 इह अपि न कश्चिद् अनियमात् कथा-प्रसङ्गः यत् तेन उपगतन् 06613 न असद् उत्पद्यते, न सद् विनश्यति इति तस्य समर्थनाय 06614 इदम् उक्तम् एक-प्रकृतिकम् इदं व्यक्तम् अन्वय-दर्शनाद् 06615 इति. तत्र एका प्रकृतिः सुख-दुःख-मोहः. तद्-अविभक्त- 06616 योनिकम् इदं व्यक्तं तd-anvaya-darशनात्. व्यक्तस्य 06701 तत्-स्वभावता-भेद-उपलब्धेर् इति सुख-आदीनाम् उत्पत्ति- 06702 विनाश-अभ्युपगम-अभावात् सर्वस्य तद्-आत्मकस्य न उत्पत्ति- 06703 विनाशाव् इति सिद्धं भवति. अत्र तद्-उक्तस्य हेतोर् दोषम् 06704 अनुद्भाव्य विकार-प्रकृति-लक्षणं पृच्छन् स्वयम् अयं 06705 प्रकृत-असम्बन्धेन अनियमात् कथां प्रवर्तयति. 06706 तत्र इदं स्याद् वाच्यम्, व्यक्तं नाम प्रवृत्ति-निवृत्ति- 06707 धर्मकम्, न तथा सुख-आदयः. व्यक्तस्य सुख-आद्य्-अन्वये 06708 सुख-आदि-स्वभावतायां प्रवृत्ति-निवृत्ति-धर्मता-लक्षणम् 06701 अवहीयत इति. न तd-rahita-sukha-आदि-स्वभावता व्यक्त-लक्षण- 06709 विरोधाद् इति. सुख-आद्य्-अन्वय-दर्शनाद् इत्य् असिद्धो हेतुर् 06711 इति. एवं हि तस्य साधन-दोष-उद्भावनेन पक्षो दूषितो 06712 भवति. सो अनुपसंहृत्य साधन-दोषं कथां प्रतानयन् 06713 स्व-दोषं परत्र उपक्षिपति. 06714 अयम् एव दोषो अनेन प्रकरणेन उच्यत इति चेत्, एष नैमित्तिकाणां 06715 विषयः, न लोकः शब्दैर् अप्रतिपादितम् अर्थं 06716 प्रतिपत्तुं समर्थ इति. स एव अयं भण्डालेख्यन्यायो 06717 अत्र अपि. यथोक्तेन न्यायेन पूर्वकस्य असाधन-अङ्गस्य

असिद्धस्य 06718 हेतोर् अभिधानाद् एव निग्रहः, न अपि अनियमात् 06719 कथा-प्रसङ्गाद् इति. इदम् अपि हेत्व्-आभासेष्व् अन्तर्भावान् न 06720 पृथग् वाच्यम्. 06801 हेत्व्-आभासाश् च यथोक्ताः. हेत्व्-आभासाश् च निग्रहस्थानानि. 06802 किं पुनर् लक्षण-अन्तर-योगाद् हेत्व्-आभासा निग्रहस्थान- 06803 भावम् आपद्यन्ते, यथा प्रमाणानि प्रमेयत्वम् 06804 इत्य् अत आह यथोक्त-हेत्व्-आभास-लक्षणेन एव निग्रहस्थान- 06805 भाव इति. 06806 अत्र अपि यथोक्तं कृत्वा चिन्त्यम् एव, किं ते यथालक्षित-प्रभेदास् 06807 तथा एव, आहोस्विद् अन्यथा इति. तत् तु चिन्त्यमानम् 06808 इह अतिप्रसज्यत इति न प्रतन्यते. हेत्व्-आभासाश् च यथान्यायं 06809 निग्रहस्थानम् इति एतावन्-मात्रम् इष्टम् इति. 06810 लोके अविद्या-तिमिर-पटल-उल्लेखनस् तत्त्व-दृष्टेर् 06811 वादन्यायः परहित-रतैर् एष सद्भिः प्रणीतः /

06812 तत्त्व-आलोकं तिमिरयति तं दुर्विदग्धो जनो अयं 06813 तस्माद् यत्नः कृत इह मया तत्-समुज्ज्वालनाय //3//

06814 वादन्यायो नाम प्रकरणं समाप्तम्.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.