Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

वादन्याय (bản khác)

Tác giả
धर्मकीर्ति
Thông tin
GRETIL — P.P. Gokhale: Vādanyāya of Dharmakīrti. Delhi : Srisatguru Publications, 1993 (Bibliotheca Indo-Buddhica Series, 126).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यथैकस्यार्थस्यानेकसाधनसद्भावे ऽप्येकेनैव साधनेन तत्सिद्धेर्न सर्वोपादानम् इति न दोषमुद्भावयन्नेवापरस्यानुद्भावनान्निग्रहार्हः पूर्ववत् /

अथ पूर्वपक्षवादी उत्तरपक्षवादिनं निग्रहप्राप्तं न निगृण्हाति, तदा तयोर्न्याये नैकस्यापि पूर्ववत् जयपराजयौ; दोषाभासं ब्रुवाणमुत्तरवादिनं स्वसाधनादनुत्सारयतो ऽसमर्थितसाधनत्वान्न जयो वादिनः; सर्वदोषासम्भवप्रदर्शनेन साधनाङ्गासमर्थनात् / नाप्युत्तरवादिनः, उभयदोषाप्रतिपादनात् /

तस्मादेवमपि न पर्यनुयोज्योपेक्षणं नाम पराजयाधिकरणमिति /

88. [20.] "अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः /" [न्या. सू. 5.2.23] निग्रहस्थानलक्षणस्य मिथ्याव्यवसायादनिग्रहस्थाने निगृहीतो ऽसीति परं ब्रुवन् निरनुयोज्यानुयोगान्निगृहीतो वक्तव्यः /

अत्रापि यदि तत्साधनवादिनमभूतैस्तद्दोषैरुत्तरवाद्यभियुञ्जीत, सो ऽस्थाने निर्दोषे निग्रहस्थानस्य नियोक्तोद्भावयिता न भवति तथा / भूतदोषोद्भावनलक्षणस्योत्तरस्या- प्रतिपत्तेरितरेणोत्तराभासत्वे प्रतिपादिते ऽप्रतिभयैव निगृहीत इति नेदमतो निग्रहस्थानान्तरम् /

अथोत्तरवादिनं साधनदोषमुद्भावयन्तमपरो दोषाभासवचनेनाभियुञ्जीत, तस्य तेन भूतदोषत्वे प्रतिपादिते साधनाभासवचनेनैव निगृहीत इति /

एवमपि नेदं हेत्वाभासेभ्यो भिद्यते / अवश्यं हि विषयान्तरप्राप्त्यर्थं हेत्वाभासा निग्रहस्थानत्वेन वक्तव्याः, तदुक्तावपरोक्तिरनर्थिकेति /

89. [21.] "सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गो ऽपसिद्धान्तः /" [न्या. सू. 5.2.24] कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात् कथाप्रसङ्गं कुर्वतो ऽपसिद्धान्तो विज्ञेयः / तथा ऽन सतो विनाशः, नासदुत्पद्यतेऽ; इति सिद्धान्तमभ्युपेत्य पक्षमवस्थापयति - ऽएकान्ता प्रकृतिः व्यक्तस्य अव्यक्तलक्षणा; विकाराणाम् अन्वयदर्शनात् / मृदन्वयानां शरावादीनां दृष्टमेकप्रकृतिकत्वम् / तथा चायं व्यक्तभेदः सुखदुःखमोहसमन्वितो गृह्यते, तत्सुखादिभिरेकप्रकृतिःऽ; इति /

स एवमुक्तवान् पर्यनुयुज्यते - अथ प्रकृतिर्विकार इति कथं लक्षयितव्यम्? यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते सा प्रकृतिः, यत् तद् धर्मान्तरं स विकार इति / सो ऽयं प्रकृतार्थविपर्ययादनियमात् कथां प्रसञ्जयति / प्रतिज्ञातं चानेन - ऽनासदाविर्भवति, न सत् तिरोभवतिऽ; इति /

90. सदसतोश्च तिरोभावाविर्भावावन्तरण न कस्यचित् प्रवृत्त्युपरमः, प्रवृत्तिर्वा- इत्येवं प्रत्यवस्थिते यदि स सत आत्महानमसतश्चात्मलाभमभ्युपैति, अपसिद्धान्तो भवति / अथ नाभ्युपैति, पक्षो ऽस्य न सिध्यतीति /

इतो ऽपि न कश्चिदनियमात् कथाप्रसङ्गो यत्तेनोपगतं नासदुत्पद्यते न सद्विनश्यतिऽ; इति तस्य समर्थनायेदमुक्तम् ऽएकप्रकृतिकमिदं व्यक्तमन्वयदर्शनाद्ऽ; इति / तत्रैका प्रकृतिः सुखदुःखमोहास्तदविभक्तयोनिकम् इदं व्यक्तं, तदन्वयदर्शनात् / व्यक्तस्य तत्स्वभावताभेदोपलब्धेरिति /

सुखादीनामुत्पत्तिविनाशाभ्युपगमाभावात् सर्वस्य तदात्मकस्य नोत्पत्ति- विनाशाविति सिद्धं भवति /

91. अत्र तदुक्तस्य हेतोर्दोषमनुद्भाव्य विकारप्रकृतिलक्षणं पृच्छन् स्वयमयं प्रकृतासम्बन्धेन अनियमात् कथां प्रवर्तयति / तत्रेदं स्याद् वाच्यं - व्यक्तं नाम प्रवृत्तिनिवृत्तिधर्मकं, न तथा सुखादयः, व्यक्तस्य सुखाद्यन्वये सुखादिस्वभावता प्रवृत्तिनिवृत्तिधर्मतालक्षणमवहीयत इति / न तद्रहितसुखादिस्वभावता, व्यक्तलक्षणविरोधादिति, सुखाद्यन्वयदर्शनादित्यसिद्धो हेतुरिति /

एवं हि तस्य साधनदोषोद्भावनेन पक्षो दूषितो भवति / सो ऽनुपसंहृत्य साधनदोषं, कथां प्रतानयन् स्वदोषं परत्रोपक्षिपति /

अयमेव दोषो ऽनेन प्रकारेणोच्यते इति चेत् /

एष नैमित्तिकानां विषयः, न लोकः शब्दैरप्रतिपादितमर्थं प्रतिपत्तुं समर्थ इति, स एवायं भण्डालेख्यन्यायो ऽत्रापि /

यथोक्तेन न्यायेन पूर्वकस्यासाधनाङ्गस्यासिद्धस्य हेतोरभिधानादेव निग्रहः, नापि नियमात् [अनियमात्?] कथाप्रसङ्गात् इति इदमपि हेत्वाभासेष्वन्तर्भावात् न पृथग्वाच्यम् /

92. [22.] "हेत्वाभासाश्चयथोक्ताः /" [न्या.सू. 5.2.25] हेत्वाभासाश्च नित्रहस्थानानि / किं पुनर्लक्षणान्तरयोगाद् हेत्वाभासा निग्रहस्थानत्वमापद्यन्ते, यथा प्रमाणानि प्रमेयत्वम्? इत्यत आह यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति /

अत्रापि यथोक्तत्वाच्चिन्त्येमेव - किं ते यथा लक्षितप्रभेदास्तथैव, आहोस्विदन्यथैवेति? तत्तु चिन्त्यमानमिहातिप्रसज्यते इति न प्रतन्यते / हेत्वाभासाश्च यथान्यायं निग्रहस्थानमिति, एतावन्मात्रमिष्टमिति /

93. लोके ऽविद्यातिमिरपटलोल्लेखनस्तत्त्वदृष्टेर् वादन्यायः परहितरतैरेष सद्भिः प्रणीतः / तत्त्वालोकं तिमिरयति तं दुर्विदग्धो जनो ऽयं, तस्माद्यत्नः कृत इह मया तत्समुज्ज्वालनाय //

वादन्यायो नाम प्रकरणं समाप्तम् / [कृतिरियमाचार्यधर्मकीर्तिचरणानाम्]

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.