Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

प्रमाणवार्त्तिककारिका (without the स्वार्थानुमान-chapter)

Tác giả
धर्मकीर्ति
Thông tin
GRETIL — d Y. MIYASAKA, Pramanavarttika-Karika (Sanskrit and Tibetan). Acta Indologica 2, 1971/72, 1-206. [The chapters II, III of our ordering correspond to the chapters I, II of Miyasaka's edition] .chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

03337 तस्माद् द्वि-रूपम् अस्त्य् एकं यद् एवम् अनुभूयते 03337 स्मर्यते च उभय-आकारस्य अस्य संवेदनं फलम् 03338 यदा निष्पन्न-तद्भाव इष्टो अनिष्टो अपि वा परः 03338 विज्ञप्ति-हेतुर् विषयस् तस्याश् च अनुभवस् तथा 03339 यदा सविषयं ज्ञानं ज्ञान-अंशे अर्थ-व्यवस्थितेः 03339 तदा य आत्म-अनुभवः स एव अर्थ-विनिश्चयः 03340 यदि इष्ट-आकार आत्मा स्याद् अन्यथा वा अनुभूयते 03340 इष्टो अनिष्टो अपि वा तेन भवत्य् अर्थः प्रवेदितः 03341 विद्यमाने अपि बाह्य-अर्थे यथानुभवम् एव सः 03341 निश्चित-आत्मा स्वरूपेण न अनेक-आत्मत्व-दोषतः 03342 यदि बाह्यं न विद्येत कस्य संवेदनं भवेत् 03342 यद्य् अगत्या स्वरूपस्य बाह्यस्य एव न किं मतम् 03343 अभ्युपाये अपि भेदेन न स्याद् अनुभवो द्वयोः 03343 अदृष्ट-आवरणान् नो चेन् न नाम-अर्थ-वशा गतिः 03344 तम् अनेक-आत्मकं भावम् एक-आत्मत्वेन दर्शयेत् 03344 तद् अदृष्टं कथं नाम भवेद् अर्थस्य वेदकम् 03345 इष्ट-अनिष्ट-अवभासिन्यः कल्पना न अक्ष-धीर् यदि 03345 अनिष्ट-आदाव् असन्धानं दृष्टं तत्र अपि चेतसाम् 03346 तस्मात् प्रमेये बाह्ये अपि युक्तं स्व-अनुभवः फलम् 03346 यतः स्वभावो अस्य यथा तथा एव अर्थ-विनिश्चयः 03347 तदा अर्थ-आभासता एव अस्य प्रमाणं न तु सन्न् अपि 03347 ग्राहक-आत्मा अपरार्थत्वाद् बाह्येष्व् अर्थेष्व् अपेक्ष्यते 03348 यस्माद् यथा निविष्टो असाव् अर्थ-आत्मा प्रत्यये तथा 03348 निश्चीयते निविष्टो असाव् एवम् इत्य् आत्म-संविदः 03349 इत्य् अर्थ-संवित् सा एव इष्टा यतो अर्थ-आत्मा न दृश्यते 03349 तस्या बुद्धि-निवेश्य-अर्थः साधनं तस्य सा क्रिया 03350 यथा निविशते सो अर्थः तथा हि स प्रकाशते

03350 अर्थ-स्थितेस् तदात्मत्वात् स्वविद् अप्य् अर्थविन् मता 03351 तस्माद् विषय-भेदो अपि न स्वसंवेदनं फलम् 03351 उक्तं स्वभाव-चिन्तायां तादात्म्याद् अर्थ-संविदः 03352 तथा अवभासमानस्य तादृशो अन्य-अदृशो अपि वा 03352 ज्ञानस्य हेतुर् अर्थो अपि इत्य् अर्थस्य इष्टा प्रमेयता 03353 यथा कथंचिन् न अस्य अर्थ-रूपं युक्त्या अवभासिनः 03354 अविभागो अपि बुद्ध्य्-आत्म-विपर्यासित-दर्शनैः 03354 ग्राह्य-ग्राहक-संवित्ति-भेदवान् इव लक्ष्यते 03355 मन्त्र-आद्य्-उपप्लुत-अक्षाणां यथा मृच्छकल-आदयः 03355 अन्यथा एव अवभासन्ते तद्-रूप-रहिता अपि 03356 तथा एव अदर्शनात् तेषाम् अनुपप्लुत-चक्षुषाम् 03356 दूरे यथा वा मरुषु महान् अल्पो अपि दृश्यते 03357 यथा अनुदर्शनं च इयं मेय-मान-फल-स्थितिः 03357 क्रियते अविद्यमाना अपि ग्राह्य-ग्राहक-संविदाम् 03358 अन्यथा एकस्य भावस्य नाना-रूप-अवभासिनः 03358 सत्यं कथं स्युर् आकारास् तद् एकत्वस्य हानितः 03359 अन्यस्य अन्यत्व-हानेश् च न अभेदो अरूप-दर्शनात् 03359 रूप-अभेदं हि पश्यन्ती धीर् अभेदं व्यवस्यति 03360 भावा येन निरूप्यन्ते तद्-रूपं न अस्ति तत्त्वतः 03360 यस्माद् एकम् अनेकं वा रूपं तेषां न विद्यते 03361 साधर्म्य-दर्शनाल् लोके भ्रान्तिर्न् नाम उपजायते 03361 अतदात्मनि तादात्म्य-व्यवसायेन न इह तत् 03362 अदर्शनाज् जगत् यस्मिन्न् एकस्य अपि तदात्मनः 03362 अस्ति इयम् अपि या त्व् अन्तर् उपप्लव-समुद्भवा 03363 दोष-उद्भवा प्रकृत्या सा वितथ-प्रतिभासिनी 03363 अनपेक्षित-साधर्म्य-दृग्-आदिस् तैमिर-आदि-वत् 03364 तत्र बुद्धेः परिच्छेदो ग्राहक-आकार-सम्मतः

03364 तादात्म्याद् आत्मवित् तस्य स तस्या साधनं ततः 03365 तत्र आत्म-विषये माने यथा राग-आदि-वेदनम् 03365 इयं सर्वत्र संयोज्या मान-मेय-फल-स्थितिः 03366 तत्र अप्य् अनुभव-आत्मत्वात् ते योग्याः स्वात्मसंविदि 03366 इति सा योग्यता मानम् आत्मा मेयः फलं स्ववित् 03367 ग्राहक-आकार-संख्याता परिच्छेद-आत्मता आत्मनि 03367 सा योग्यता इति च प्रोक्तं प्रमाणं स्वात्मवेदनम् 03368 सर्वम् एव हि विज्ञानं विषयेभ्यः समुद्भवत् 03368 तद्-अन्यस्य अपि हेतुत्वे कथं स्याद् विषय-आकृतिः 03369 यथा एव आहार-काल-आदेर् हेतुत्वे अपत्य-जन्मनि 03369 पित्रोस् तद् एकस्य आकारं धत्ते न अन्यस्य कस्यचित् 03370 तद्-हेतुत्वेन तुल्ये अपि तd-anya-viषयं मतम् 03370 विषयत्वं तद्-अङ्गेन तद्-अभावे न तद् भवेत् 03371 अनर्थ-आकार-शङ्का स्याद् अप्य् अर्थवति चेतसि 03371 अतीत-अर्थ-ग्रहे सिद्धे द्विरूपत्व-आत्म-वेदने 03372 नील-आद्य्-आभास-भेदित्वान् न अर्थो जातिर् अतद्वती 03372 सा वा अनित्या न जातिः स्यान् नित्या वा जनिका कथम् 03373 नाम-आदिकं निषिद्धं प्राङ् न अयम् अर्थवतां क्रमः 03373 इच्छा-मात्र-अनुबन्धित्वाद् अर्थ-शक्तिर्न् न सिध्यति 03374 स्मृतिश् च ईदृग्विधं ज्ञानं तस्याश् च अनुभवाद् भवः 03374 स च अर्थ-आकार-रहितः सा इदानीं तद्वती कथम् 03375 न अर्थाद् भावस् तदा अभावात् स्यात् तथा अनुभवे अपि सः 03375 आकारः स च न अर्थस्य स्पष्ट-आकार-विवेकतः 03376 व्यतिरिक्तं तम् आकारं प्रतीयाद् अपरस् तथा 03376 नित्यम् आत्मनि सम्बन्धे प्रतीयात् कथितं च न 03377 एका एकेन अभिसम्बन्धे प्रतिसन्धिर् न युज्यते 03377 एक-अर्थ-अभिनिवेश-आत्मा प्रवक्तृ-श्रोतृ-चेतसोः

03378 तद् एक-व्यवहारश् चेत् सादृश्याद् अतदाभयोः 03378 भिन्न-आत्म-अर्थः कथं ग्राह्यस् तदा स्याद् धीर् अनर्थिका 03379 तच् च अनुभव-विज्ञानम् उभय-अङ्ग-अवलम्बिना 03379 एक-आकार-विशेषेण तज्-ज्ञानेन अनुबध्यते 03380 अन्यथा ह्य् अतद्-आकारं कथं ज्ञाने अधिरोहति 03380 एक-आकार-उत्तरं ज्ञानं तथा ह्य् उत्तरम् उत्तरम् 03381 तस्य अर्थ-रूपेण आकाराव् आत्म-आकारश् च कश्चन 03381 द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते 03382 अर्थ-कार्यतया ज्ञान-स्मृताव् अर्थ-स्मृतेर् यदि 03382 भ्रान्त्या सङ्कलनं ज्योतिर् मनस्कारे च सा भवेत् 03383 सर्वेषाम् अपि कार्याणां कारणैः स्यात् तथा ग्रहः 03383 कुलाल-आदि-विवेकेन न स्मर्येत घटस् ततः 03384 यस्माद् अतिशयाज् ज्ञानम् अर्थ-संसर्ग-भाजनम् 03384 सारूप्यात् तत् किम् अन्यत् स्याद् दृष्टेश् च यमल-आदिषु 03385 आद्या अनुभय-रूपत्वे ह्य् एक-रूपे व्यवस्थितम् 03385 द्वितीयं व्यतिरिच्येत न परामर्श-चेतसा 03386 अर्थ-संकलन-अश्लेषा धीर् द्वितीय-अवलम्बते 03386 नील-आदि-रूपेण धियं भासमानां पुरस् ततः 03387 अन्यथा ह्य् आद्यम् एव एकं संयोज्येत अर्थ-सम्भवात् 03387 ज्ञानं न अदृष्ट-सम्बन्धं पूर्व-अर्थेन उत्तरोत्तरम् 03388 सकृत्-संवेद्यमानस्य नियमेन धिया सह 03388 विषयस्य ततो अन्यत्वं केन आकारेण सिध्यति 03389 भेदश् च भ्रान्ति-विज्ञानैर् दृश्येत इन्दाव् इव अद्वये 03389 संवित्ति-नियमो न अस्ति भिन्नयोर् नील-पीतयोः 03390 न अर्थो असंवेदनः कश्चिद् अनर्थस्य अपि वेदनम् 03390 दृष्टं संवेद्यमानं तत् तयोर् न अस्ति विवेकिता 03391 तस्माद् अर्थस्य दुर्वारं ज्ञान-काल-अवभासिनः

03391 ज्ञानाद् अव्यतिरेकित्वं हेतु-भेद-अनुमा भवेत् 03392 अभावाद् अक्ष-बुद्धीनां सत्स्व् अप्य् अन्येषु हेतुषु 03392 नियमं यदि न ब्रूयात् प्रत्ययात् समनन्तरात् 03393 बीजाद् अङ्कुर-जन्म-अग्नेर् धूमात् सिद्धिर् अतीदृशी 03393 बाह्य-अर्थ-आश्रयिणी या अपि कारक-ज्ञापक-स्थितिः 03394 सा अपि तद्-रूप-निर्भासास् तथा नियत-संगमाः 03394 बुद्धिर् आश्रित्य कल्प्येत यदि किं वा विरुध्यते 03395 अनग्नि-जन्यो धूमः स्यात् तत्-कार्यात् कारणे अगतिः 03395 न स्यात् कारणतायां वा कुत एकान्ततो गतिः 03396 तत्र अपि धूम-आभासा धीः प्रबोध-पटु-वासनाम् 03396 गमयेद् अग्नि-निर्भासां धियम् एव न पावकम् 03397 तd-yogya-vआसना-गर्भ एव धूम-अवभासिनीम् 03397 व्यनक्ति चित्त-सन्तानो धियं धूमो अग्नितस् ततः 03398 अस्त्य् एष विदुषां वादो बाह्यं त्व् आश्रित्य वर्ण्यते 03398 द्वैरूप्यं सह-संवित्ति-नियमात् तच् च सिध्यते 03399 ज्ञानम् इन्द्रिय-भेदेन पटु-मन्द-आविल-आदिकाम् 03399 प्रतिभास-भिदाम् अर्थे बिभ्रद् एकत्र दृश्यते 03400 अर्थस्य अभिन्न-रूपत्वाद् एक-रूपं भवेन् मनः 03400 सर्वं तद्-अर्थम् अर्थाच् चेत् तस्य न अस्ति तद्-आभता 03401 अर्थ-आश्रयेण उद्भवतस् तद्-रूपम् अनुक्रुवतः 03401 तस्य केनचिद् अंशेन परतो अपि भिदा भवेत् 03402 तथा ह्य् आश्रित्य पितरं तद्-रूपो अपि सुतः पितुः 03402 भेदं केनचिद् अंशेन कुतश्चिद् अवलम्बते 03403 मयूर-चन्द्रक-आकारं नील-लोहित-भास्वरम् 03403 सम्पश्यन्ति प्रदीप-आदेर् मण्डलं मन्द-चक्षुषः 03404 तस्य तद्-बाह्य-रूपत्वे का प्रसन्न-ईक्षणे अक्षमा 03404 भूतं पश्यंश् च तद्-दर्शी कथं च उपहत-इन्द्रियः

03405 शोधितं तिमिरेण अस्य व्यक्तं चक्षुर् अतीन्द्रियम् 03405 पश्यतो अन्य-अक्ष-दृश्ये अर्थे तद्-अव्यक्तं कथं पुनः 03406 आलोक-अक्ष-मनस्काराद् अन्यस्य एकस्य गम्यते 03406 शक्तिर् हेतुस् ततो न अन्यो अहेतुश् च विषयः कथम् 03407 स एव यदि धी-हेतुः किं प्रदीपम् अपेक्षते 03407 दीप-मात्रेण सद्भावाद् उभयं न अपि कारणम् 03408 दूर-आसन्न-आदि-भेदेन व्यक्त-अव्यक्तं न युज्यते 03408 तत् स्याद् आलोक-भेदाच् चेत् तत् पिधान-अपिधानयोः 03409 तुल्या दृष्टिर् अदृष्टिर् वा सूक्ष्मो अंशस् तस्य कश्चन 03409 आलोकेन न मन्देन दृश्यते अतो भिदा यदि 03410 एकत्वे अर्थस्य बाह्यस्य दृश्य-अदृश्य-भिदा कुतः 03410 अनेकत्वे अणुशो भिन्नो दृश्य-अदृश्य-भिदा कुतः 03411 मान्द्य-पाटाव् अभेदेन भासो बुद्धि-भिदा यदि 03411 भिन्ने अन्यस्मिन्न् अभिन्नस्य कुतो भेदेन भासनम् 03412 मन्दं तद् अपि तेजः किम् आवृत्तेर् इह सा न किम् 03412 तनुत्वात् तेजसो अप्य् एतद् अस्त्य् अन्यत्र अप्य् अतानवम् 03413 अत्यासन्ने च सुव्यक्तं तेजस् तत् स्याद् अतिस्फुटम् 03413 तत्र अप्य् अदृष्टम् आश्रित्य भवेद् रूप-अन्तरं यदि 03414 अन्योन्य-आवरणात् तेषां स्यात् तेजो विहतिस् ततः 03414 तत्र एकम् एव दृश्येत तस्य अनावरणे सकृत् 03415 पश्येत् स्फुट-अस्फुटं रूपम् एको अदृष्टेन वारणे 03415 अर्थ-अनर्थौ न येन स्तस् तद्-अदृष्टं करोति किम् 03416 तस्मात् संविद् यथाहेतु जायमान-अर्थ-संश्रयात् 03416 प्रतिभास-भिदां धत्ते शेषाः कुमति-दुर्नयाः 03417 ज्ञान-शब्द-प्रदीपानां प्रत्यक्षस्य इतरस्य वा 03417 जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः 03418 व्यक्तिः कुतो असतां ज्ञानाद् अन्यस्य अनुपकारिणः

03418 व्यक्तौ व्यज्येत सर्वो अर्थस् तद्-हेतोर् नियमो यदि 03419 न एषा अपि कल्पना ज्ञाने ज्ञानं त्व् अर्थ-अवभासतः 03419 तं व्यनक्ति इति कथ्येत तद्-अभावे अपि तत्-कृतम् 03420 न आकारयति च अन्यो अर्थो अनुपकारात् सह-उदितः 03420 व्यक्तो न आकारयन् ज्ञानं स्व-आकारेण कथं भवेत् 03421 वज्र-उपल-आदिर् अप्य् अर्थः स्थिरः सो अन्य-अनपेक्षणात् 03421 सकृत् सर्वस्य जनयेज् ज्ञानानि जगतः समम् 03422 क्रमाद् भवन्ति तान्य् अस्य सहकार्य्-उपकारतः 03422 आहुः प्रतिक्षणं भेदं स दोषो अत्र अपि पूर्ववत् 03423 संवेदनस्य तादात्म्ये न विवादो अस्ति कस्यचित् 03423 तस्य अर्थ-रूपता सिद्धा सा अपि सिध्यति संस्मृतेः 03424 भेदेन अननुभूतेस् भिन्न-विभक्ते स्व-गोचरैः 03424 एवम् एतन् न खल्व् एवम् इति सा स्यान् न भेदिनी 03425 न च अनुभव-मात्रेण कश्चिद् भेदो विवेचकः 03425 विवेकिनी न च अस्पष्ट-भेदे धीर् यमल-आदि-वत् 03426 द्वैरूप्य-साधनेन अपि प्रायः सिद्धं स्ववेदनम् 03426 स्वरूपभूत-आभासस्य तदा संवेदन-ईक्षणात् 03427 धिया अतद्रूपया ज्ञाने निरुद्धे अनुभवः कुतः 03427 स्वं च रूपं न सा वेत्ति इत्य् उत्सन्नो अनुभवो अर्थिनः 03428 बहिर् मुखं च तज्-ज्ञानं भात्य् अर्थ-प्रतिभास-वत् 03428 बुद्धेश् च ग्राहिका बुद्धिर् नित्यम् अन्तर्मुखा-आत्मनि 03429 यो यस्य विषय-आभासस् तं वेत्ति न तद् इत्य् अपि 03429 प्राप्ता का संविद् अन्या अस्ति ताद्रूप्याद् इति चेन् मतम् 03430 प्राप्तं संवेदनं सर्व-सदृशानां परस्परम् 03430 बुद्धिः सरूपा तद्-विच् चेत् न इदानीं वित्-सरूपिका 03431 स्वयं सो अनुभवस् तस्या न स सारूप्य-कारणः

03431 क्रिया-कर्म-व्यवस्थायास् तल्-लोके स्यान् निबन्धनम् 03432 स्वभावभूत-तद्-रूप-संविद् आरोप-विप्लवात् 03432 नील-आदेर् अनुभूत-आख्या न अनुभूतेः पर-आत्मनोः 03433 धियो नील-आदि-रूपत्वे बाह्यो अर्थः किं प्रमाणकः 03433 धियो अनील-आदि-रूपत्वे स तस्य अनुभवः कथम् 03434 यदा संवेदन-आत्मत्वं न सारूप्य-निबन्धनम् 03434 सिद्धं तत् स्वत एव अस्य किम् अर्थेन उपनीयते 03435 सर्वात्मना हि सारूप्ये ज्ञानम् अज्ञानतां व्रजेत् 03435 साम्ये केनचिद् अङ्गेन स्यात् सर्वं सर्व-वेदनम् 03436 यथा नील-आदि-रूपत्वान् नील-आद्य्-अनुभवो मतः 03436 तथा अनुभव-रूपत्वात् तस्य अप्य् अनुभवो भवेत् 03437 न अनुभूतो अनुभव इत्य् अर्थ-वत् तद्-विनिश्चयः 03437 तस्माद् अदोष इति चेत् न अर्थे अप्य् अस्त्य् एष सर्वदा 03438 कस्माद् वा अनुभवे न अस्ति सति सत्ता-निबन्धने 03438 अपि च इदं यद् आभाति दृश्यमाने सित-आदिके 03439 पुंसां सित-आद्य्-अभिव्यक्ति-रूपं संवेदनं स्फुटम् 03439 तत् किं सित-आद्य्-अभिव्यक्तेः पररूपम् अथ आत्मनः 03440 पररूपे अप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् 03440 ज्ञानं व्यक्तिर् न सा व्यक्ता इत्य् अव्यक्तम् अखिलं जगत् 03441 व्यक्तेर् व्यक्त्य्-अन्तर-व्यक्ताव् अपि दोष-प्रसङ्गतः 03441 दृष्ट्या च अज्ञात-सम्बन्धं विशिनष्टि तया कथम् 03442 यस्माद् द्वयोर् एक-गतौ न द्वितीयस्य दर्शनम् 03442 द्वयोः संसृष्टयोर् दृष्टौ स्याद् दृष्टम् इति निश्चयः 03443 सरूपं दर्शनं यस्य दृश्यते अन्येन चेतसा 03443 दृष्ट-आख्या तत्र चेत् सिद्धं सारूप्ये अस्य स्ववेदनम् 03444 अथ आत्म-रूपन् नो वेत्ति पररूपस्य वित् कथम् 03444 सारूप्याद् वेदना-आख्या च प्राग् एव प्रतिपादिता

03445 दृष्टयोर् एव सारूप्य-ग्रहो अर्थं च न दृष्टवान् 03445 प्राक् कथं दर्शनेन अस्य सारूप्यं सो अध्यवस्यति 03446 सारूप्यम् अपि न इच्छेद् यः तस्य न उभय-दर्शनम् 03446 तदा अर्थो ज्ञानम् इति च ज्ञाते च इति गता कथा 03447 अथ स्वरूपं सा तर्हि स्वयम् एव प्रकाशते 03447 यत् तस्याम् अप्रकाशायाम् अर्थः स्याद् अप्रकाशितः 03448 एतेन अनात्मवित् पक्षे सर्व-अर्थ-अदर्शनेन ये 03448 अप्रत्यक्षां धियं प्राहुस् ते अपि निर्वर्णित-उत्तराः 03449 आश्रय-आलम्बन-अभ्यास-भेदाद् भिन्न-प्रवृत्तयः 03449 सुख-दुःख-अभिलाष-आदि-भेदा बुद्धय एव ताः 03450 प्रत्यक्षास् तद्-विविक्तं च न अन्यत् किंचिद् विभाव्यते 03450 यत् तज्-ज्ञानम् परो अप्य् एनां भुञ्जीत अन्येन विद् यदि 03451 तज्जा तत् प्रतिभासा वा यदि धीर् वेत्ति न अपरा 03451 आलम्बमानस्य अन्यस्य अप्य् अस्त्य् अवश्यम् इदं द्वयम् 03452 अथ न उत्पद्यते तस्मान् न च तत् प्रतिभासिनी 03452 सा धीर्न् निर्विषया प्राप्ता सामान्यं च तद्-अग्रहे 03453 न गृह्यत इति प्रोक्तं न च तद्-वस्तु किंचन 03453 तस्माद् अर्थ-अवभासो असौ न अन्यस् तस्या धियस् ततः 03454 सिद्धे प्रत्यक्ष-भाव-आत्मविदौ गृह्णाति तत् पुनः 03454 न अध्यक्षम् इति चेद् एष कुतो भेदः समर्थयोः 03455 अदृष्ट-एक-अर्थ-योग-आदेः संविदो नियमो यदि 03455 सर्वथा अन्यो न गृह्णीयात् संविद् भेदो अप्य् अपोदितः 03456 येषां च योगिनो अन्यस्य प्रत्यक्षेण सुख-आदिकम् 03456 विदन्ति तुल्य-अनुभवास् तद्वत् ते अपि स्युर् आतुराः 03457 विषय-इन्द्रिय-सम्पात-अभावात् तेषां तद्-उद्भवम् 03457 न उदेति दुःखम् इति चेत् न वै दुःख-समुद्भवः

03458 दुःख-असंवेदनं किं तु दुःख-ज्ञान-समुद्भवः 03458 न हि दुःख-आद्य्-असंवेद्यं पीडा-अनुग्रह-कारणम् 03459 भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा 03459 न तद्-आलम्बनं ज्ञानं न तदा एवं प्रयुज्यते 03460 भिन्ने ज्ञानस्य सर्वस्य तेन आलम्बन-वेदने 03460 अर्थ-सारूप्यम् आलम्ब आत्मा वित्तिः स्वयं स्फुटः 03461 अपि च अध्यक्षता अभावे धियः स्याल् लिङ्गतो गतिः 03461 तच् च अक्षम् अर्थो धीः पूर्वो मनस्कारो अपि वा भवेत् 03462 कार्य-कारण-सामग्र्याम् अस्यां सम्बन्धिना अपरम् 03462 सामर्थ्य-अदर्शनात् तत्र न इन्द्रियं व्यभिचारतः 03463 तथा अर्थो धी-मनस्कारौ ज्ञानं तौ च न सिध्यतः 03463 न अप्रसिद्धस्य लिङ्गत्वं व्यक्तिर् अर्थस्य चेन् मता 03464 लिङ्गं सा एव ननु ज्ञानं व्यक्तो अर्थो अनेन वर्णितः 03464 व्यक्ताव् अननुभूतायां तद्-व्यक्तत्व-अविनिश्चयात् 03465 अथ अर्थस्य एव कश्चित् स विशेषो व्यक्तिर् इष्यते 03465 न अनुत्पाद-व्ययवतो विशेषो अर्थस्य कश्चन 03466 तद् इष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते 03466 स च ज्ञातो अथवा अज्ञातो भवेज् ज्ञातस्य लिङ्गता 03467 यदि ज्ञाते अपरिच्छिन्ने ज्ञातो असाव् इति तत् कुतः 03467 ज्ञातत्वेन अपरिच्छिन्नम् अपि तद् गमकं कथम् 03468 अदृष्ट-दृष्टयो अन्येन द्रष्टा दृष्टा न हि क्वचित् 03468 विशेषः सो अन्य-दृष्टाव् अप्य् अस्ति इति स्यात् स्व-धी-गतिः 03469 तस्माद् अनुमितिर् बुद्धेः स्व-धर्म-निरपेक्षिणः 03469 केवलान् न अर्थ-धर्मात् कः स्व-धर्मः स्व-धियो परः 03470 यः प्रत्यक्षो धियो हेतुः तुल्य-कारण-जन्मनः 03470 तस्य भेदः कुतो बुद्धेर् व्यभिचार्य्-अन्यजश् च सः

03471 रूप-आदीन् पञ्च विषयानि इन्द्रियाण्य् उपलम्भनम् 03471 मुक्त्वा न कार्यम् अपरं तस्याः समुपलभ्यते 03472 तत्र अत्यक्षं द्वयं पञ्चस्व् अर्थेष्व् एको अपि न ईक्ष्यते 03472 रूप-दर्शनतो जातो यो अन्यथा व्यस्त-सम्भवः 03473 यद् एवम् अप्रतीतं तल् लिङ्गम् इत्य् अप्य् अलौकिकम् 03473 विद्यमाने अपि लिङ्गे तां तेन सार्धम् अपश्यतः 03474 कथं प्रतीति-लिङ्गं हि न अदृष्टस्य प्रकाशकम् 03474 तत एव अस्य लिङ्गात् प्राक् प्रसिद्धेर् उपवर्णने 03475 दृष्टान्त-अन्तर-साध्यत्वं तस्य अपि इत्य् अनवस्थितिः 03475 इत्य् अर्थस्य धियः सिद्धिः न अर्थात् तस्याः कथंचन 03476 तद्-अप्रसिद्धाव् अर्थस्य स्वयम् एव अप्रसिद्धितः 03476 प्रत्यक्षां च धियं दृष्ट्वा तस्याश् च इष्ट-अभिधा-आदिकम् 03477 पर-चित्त-अनुमानं च न स्याद् आत्मन्य् अदर्शनात् 03477 सम्बन्धस्य मनो-बुद्धाव् अर्थ-लिङ्ग-अप्रसिद्धितः 03478 प्रकाशिता कथं वा स्यात् बुद्धिर् बुद्ध्य्-अन्तरेण वः 03478 अप्रकाश-आत्मनोः सा स्याद् व्यङ्ग्यव्यञ्जकता कुतः 03479 विषयस्य कथं व्यक्तिः प्रकाशे रूप-संक्रमात् 03479 स च प्रकाशस् तद्-रूपः स्वयम् एव प्रकाशते 03480 तथा अभ्युपगमे बुद्धेः बुद्धौ बुद्धिः स्ववेदिका 03480 सिद्धा अन्यथा तुल्य-धर्मा विषयो अपि धिया सह 03481 इति प्रकाश-रूपा नः स्वयं धीः सम्प्रकाशते 03481 अन्यो अस्यां रूप-संक्रान्त्या प्रकाशः सम्प्रकाशते 03482 सादृश्ये अपि हि धीर् अन्या प्रकाश्या न तया मता 03482 स्वयं प्रकाशनाद् अर्थस् तद्-रूपेण प्रकाशते 03483 यथा प्रदीपयोर् दीप-घटयोश् च तद्-आश्रयः 03483 व्यङ्ग्यव्यञ्जकभावेन व्यवहारः प्रतन्यते 03484 विषय-इन्द्रिय-मात्रेण न दृष्टम् इति निश्चयः

03484 तस्माद् यतो अयं तस्य अपि वाच्यम् अन्यस्य दर्शनम् 03485 स्मृतेर् अप्य् आत्मवित् सिद्धा ज्ञानस्य अन्येन वेदने 03485 दीर्घ-आदि-ग्रहणं न स्याद् बहु-मात्र-अनवस्थितेः 03486 अवस्थिताव् अक्रमायां सकृद् आभासनान् मतौ 03486 वर्णः स्याद् अक्रमो दीर्घः क्रमवान् अक्रमां कथम् 03487 उपकुर्याद् असंश्लिष्यन् वर्ण-भागः परस्परम् 03487 अक्रमेण ग्रहाद् अन्त-क्रम-वद् धीश् च नो भवेत् 03488 आन्त्यं पूर्व-स्थिताद् ऊर्ध्वं वर्धमानो ध्वनिर् भवेत् 03489 स्थाने स्वयं न नश्येत् सा पश्चाद् अप्य् अविशेषतः 03489 दोषो अयं सकृद् उत्पन्न-अक्रम-वर्ण-स्थिताव् अपि 03490 सकृद् यत्न-उद्भवाद् व्यर्थः स्याद् यत्नश् च उत्तरोत्तरः 03490 व्यक्ताव् अप्य् एष वर्णानां दोषः समनुषज्यते 03491 अनेकया तद्-ग्रहणे या अन्त्या धीः सा अनुभूयते 03491 न दीर्घ-ग्राहिका सा च तन् न स्याद् दीर्घ-धी-स्मृतिः 03492 पृथक् पृथक् च बुद्धीनां संवित्तौ तद्-ध्वनिः श्रुतेः 03492 अविच्छिन्न-आभता न स्याद् घटनं च निराकृतम् 03493 विच्छिन्नं शृण्वतो अप्य् अस्य यद्य् अविच्छिन्न-विभ्रमः 03493 ह्रस्व-द्वयोच् चारणे अपि स्याद् अविच्छिन्न-विभ्रमः 03494 विच्छिन्ने दर्शने च अक्षाद् अविच्छिन्न-अधिरोपणम् 03494 न अक्षात् सर्व-अक्ष-बुद्धीनां वितथत्व-प्रसङ्गतः 03495 सर्व-अन्त्यो अपि हि वर्ण-आत्मा निमेष-तुलित-स्थितिः 03495 स च क्रमाद् अनेक-अणु-सम्बन्धेन नितिष्ठति 03496 एक-अण्v-atyaya-kआलश् च कालो अल्पीयान् क्षणो मतः 03496 बुद्धिश् च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते 03497 इति वर्णेषु रूप-आदाव् अविच्छिन्न-अवभासिनी 03497 विच्छिन्ना अप्य् अन्यया बुद्धिः सर्वा स्याद् वितथ-अर्थिका

03498 घटनं यच् च भावानाम् अन्यत्र इन्द्रिय-विभ्रमात् 03498 भेद-अलक्षण-विभ्रान्तं स्मरणं तद्-विकल्पकम् 03499 तस्य स्पष्ट-अवभासित्वं जल्प-संसर्गिणः कुतः 03499 न अक्ष-ग्राह्ये अस्ति शब्दानां योजना इति विवेचितम् 03500 विच्छिन्नं पश्यतो अप्य् अक्षैर् घटयेद् यदि कल्पना 03500 अर्थस्य तत् संवित्तेश् च सततं भासमानयोः 03501 बाधके असति सन् न्याये विच्छिन्न इति तत् कुतः 03501 बुद्धीनां शक्ति-नियमाद् इति चेत् स कुतो मतः 03502 युगपद् बुद्ध्य्-अदृष्टेश् चेत् तद् एव इदं विचार्यते 03502 तासां समान-जातीये सामर्थ्य-नियमो भवेत् 03503 तथा हि सम्यक् लक्ष्यन्ते विकल्पाः क्रम-भाविनः 03503 एतेन यः समक्षे अर्थे प्रत्यभिज्ञान-कल्पनाम् 03504 स्पष्ट-अवभासाअं प्रत्यक्षां कल्पयेत् सो अपि वारितः 03504 केश-गोलक-दीप-आदाव् अपि स्पष्ट-अवभासनात् 03505 प्रतीत-भेदे अप्य् अध्यक्षा धीः कथं तादृशी भवेत् 03505 तस्मान् न प्रत्यभिज्ञानाद् वर्ण-आद्य्-एकत्व-निश्चयः 03506 पूर्व-अनुभूत-स्मरणात् तद्-धर्म-आरोपणाद् विना 03506 स एव अयम् इति ज्ञानं न अस्ति तच् च अक्षजे कुतः 03507 न च अर्थ-ज्ञान-संवित्त्योर् युगपत् सम्भवो यतः 03507 लक्ष्यते प्रतिभासौ द्वौ न अर्थ-अर्थ-ज्ञानयोः पृथक् 03508 न ह्य् अर्थ-आभासि च ज्ञानम् अर्थो बाह्यश् च केवलः 03508 एक-आकारम् अतिग्राह्ये भेद-अभाव-प्रसङ्गतः 03509 सूपलक्ष्येण भेदेन यौ संवित्तौ न लक्षितौ 03509 अर्थ-अर्थ-प्रत्ययौ पश्चात् स्मर्येते तौ पृथक् कथम् 03510 क्रमेण अनुभव-उत्पादे अप्य् अर्थ-अर्थ-मनसोर् अयम् 03510 प्रतिभासस्य नानात्व-चोद्य-दोषो दुरुद्धरः

03511 अर्थ-संवेदनं तावत् ततो अर्थ-आभास-वेदनम् 03511 न हि संवेदनं शुद्धं भवेद् अर्थस्य वेदनम् 03512 तथा हि नील-आद्य्-आकार एक एकं च वेदनम् 03512 लक्ष्यते न तु नील-आभे वेदने वेदनं परम् 03513 ज्ञान-अन्तरेण अनुभवो भवेत् तत्र अपि च स्मृतिः 03513 दृष्टा तद्-वेदनं केन तस्य अप्य् अन्येन चेद् इमाम् 03514 मालां ज्ञान-विदां को अयं जनयत्य् अनुबन्धिनीम् 03514 पूर्वा धीः सा एव चेन् न स्यात् संचारो विषय-अन्तरे 03515 तां ग्राह्य-लक्षण-प्राप्ताम् आसन्नां जनिकां धियम् 03515 अगृहीत्वा उत्तरं ज्ञानं गृह्णीयाद् अपरं कथम् 03516 आत्मनि ज्ञान-जनने स्वभावे नियतां च ताम् 03516 को नाम अन्यो विबध्नीयाद् बहिर्-अङ्गे अन्तरङ्गिकाम् 03517 बाह्यः संनिहितो अप्य् अर्थः तां विबन्धुं हि न प्रभुः 03517 धियं न अनुभवेत् कश्चिद् अन्यथा अर्थस्य संनिधौ 03518 न च संनिहित-अर्था अस्ति दशा काचिद् अतो धियः 03518 उत्सन्न-मूला स्मृतिर् अप्य् उत्सन्ना इत्य् उज्ज्वलं मतम् 03519 अतीत-आदि-विकल्पानां येषां न अर्थस्य संनिधिः 03519 संचार-कारण-अभावाद् उत्सीदेद् अर्थ-चिन्तनम् 03520 आत्मनि ज्ञान-जनने शक्ति-संक्षयतः शनैः 03520 विषय-अन्तर-संचारो यदि सा एव अर्थ-धीः कुतः 03521 शक्ति-क्षये पूर्व-धियः न हि धीः प्राग् धिया विना 03521 अन्य-अर्थ-असक्ति-विगुणे ज्ञाने ज्ञान-उदय-अगतेः 03522 सकृद् विजातीय-जाताव् अप्य् एकेन पटीयसा 03522 चित्तेन आहित-वैगुण्याद् आलयान् न अन्य-सम्भवः 03523 न अपेक्षेत अन्यथा साम्यं मनो-वृत्तेर् मनो अन्तरम् 03523 मनो-ज्ञान-क्रम-उत्पत्तिर् अप्य् अपेक्षा प्रसाधनी 03524 एकत्वान् मनसो अन्यस्मिन् सक्तस्य अन्य-अगतेर् यदि

03524 ज्ञान-अन्तरस्य अनुदयो न कदाचित् सहोदयात् 03525 समवृत्तौ च तुल्यत्वात् सर्वदा अन्य-अगतिर् भवेत् 03525 जन्म च आत्म-मनो योग-मात्रजानां सकृद् भवेत् 03526 एका एव चेत् क्रिया एकः स्यात् किं दीपो अनेक-दर्शनः 03526 क्रमेण अपि न शक्तं स्यात् पश्चाद् अप्य् अविशेषतः 03527 अनेन देह पुरुषाव् उक्तौ संस्कारतो यदि 03527 नियमः स कुतः पश्चाद् बुद्धेश् चेद् अस्तु सम्मतम् 03528 न ग्राह्यता अन्या जननाज् जननं ग्राह्य-लक्षणम् 03528 अग्राह्यं न हि तेजो अस्ति न च सौक्ष्म्य-आद्य्-अनंशके 03529 ग्राह्यता-शक्ति-हानिः स्यान् न अन्यस्य जनन-आत्मनः 03529 ग्राह्यताया न खल्व् अन्यज् जननं ग्राह्य-लक्षणे 03530 साक्षान् न ह्य् अन्यथा बुद्धे रूप-आदिर् उपकारकः 03530 ग्राह्यता-लक्षणाद् अन्यस् तद्भाव-नियमो अस्य कः 03531 बुद्धेर् अपि तद् अस्ति इति सा अपि तत्त्वे व्यवस्थिता 03531 ग्राह्य-उपादान-संवित्ती चेतसो ग्राह्य-लक्षणम् 03532 रूप-आदेश् चेतसश् च एवम् अविशुद्ध-धियं प्रति 03532 ग्राह्य-लक्षण-चिन्ता इयम् अचिन्त्या योगिनां गतिः 03533 तत्र सूक्ष्म-आदि-भावेन ग्राह्यम् अग्राह्यतां व्रजेत् 03533 रूप-आदि-बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते 03534 सति स्व-धी-ग्रहे तस्मात् सा एव अनन्तर-हेतुता 03534 चेतसो ग्राह्यता सा एव ततो न अर्थ-अन्तरा गतिः 03535 नाना-एक-शक्त्य्-अभावे अपि भावो नाना-एक-कार्यकृत् 03535 प्रकृत्या एव इति गदितं नाना-एकस्मान् न चेद् भवेत् 03536 न किंचिद् एकम् एकस्मात् सामग्र्याः सर्व-सम्भवः 03536 एकं स्याद् अपि सामग्रयोर् इत्य् उक्तं तद् अनेककृत् 03537 अर्थं पूर्वं च विज्ञानं गृह्णीयाद् यदि धीः परा 03537 पूर्व-अपर-अर्थ-भासित्वाच् चिन्ता-आदाव् एक-चेतसि

03538 अभिलाप-द्वयं नित्यं स्याद् दृष्ट-क्रमम् अक्रमम् 03538 द्विर् द्विर् एकं च भासेत भासनाद् आत्म-तद्-विदोः 03539 विषय-अन्तर-संचारे यद्य् अन्त्यं न अनुभूयते 03539 पर-अनुभूतिवत् सर्वान् अनुभूतिः प्रसज्यते 03540 आत्म-अनुभूतं प्रत्यक्षं न अनुभूतं परैर् यदि 03540 आत्म-अनुभूतिः सा सिद्धा कृतो येन एवम् उच्यते 03541 व्यक्त्i-hetv-aprasiddहिः स्यान् न व्यक्तेर् व्यक्तम् इच्छतः 03541 व्यक्त्य्-असिद्धाव् अपि व्यक्तं यदि व्यक्तम् इदं जगत् 04001 परस्य प्रतिपाद्यत्वाद् अदृष्टो अपि स्वयं परैः 04001 दृष्टः साधनम् इत्य् एके तत्-क्षेपाय आत्म-दृग्-वचः 04002 अनुमा-विषये न इष्टं परीक्षित-परिग्रहात् 04002 वाचः प्रामाण्यम् अस्मिन् हि न अनुमानं प्रवर्तते 04003 बाधनाय आगमस्य उक्तेः साधनस्य परं प्रति 04003 सो अप्रमाणं तदा असिद्धं तत्-सिद्धम् अखिलं ततः 04004 तद्-आगमवतः सिद्धं यदि कस्य क आगमः 04004 बाध्यमानः प्रमाणेन स सिद्धः कथम् आगमः 04005 तd-viruddha-abhyupagअमस् तेन एव च कथं भवेत् 04005 तd-anya-upagame तस्य त्याग-अङ्गस्य अप्रमाणता 04006 तत् कस्मात् साधनं न उक्तं स्व-प्रतीतिर् यद् उद्भवा 04006 युक्त्या यया आगमो ग्राह्यो ग्राहिका अस्य अपि सा न किम् 04007 प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्य्-अक्ष-सम्भवौ 04007 साधनैः साधनान्य् अर्थ-शक्ति-ज्ञाने अस्य तान्य् अलम् 04008 विच्छिन्न-अनुगमा ये च सामान्येन अप्य् अगोचराः 04008 साध्य-साधन-चिन्ता अस्ति न तेष्व् अर्थेषु काचन 04009 पुंसाम् अभिप्राय-वशात् तत्त्व-अतत्त्व-व्यवस्थितौ 04009 लुप्तौ हेतु-तद्-आभासौ तस्य वस्त्व्-असमाश्रयात् 04010 सन्न् अर्थो ज्ञान-सापेक्षो न असन् ज्ञानेन साधकः

04010 सतो अपि वस्त्व्-असंश्लिष्टा असंगत्या सदृशी गतिः 04011 लिङ्गं स्वभावः कार्यं वा दृश्य-अदर्शनम् एव वा 04011 सम्बद्धं वस्तुतः सिद्धं तद् असिद्धं किम् आत्मनः 04012 परेण अप्य् अन्यतो गन्तुम् अयुक्तं पर-कल्पितैः 04012 प्रसङ्गो द्वय-सम्बन्धाद् एक-अभावे अन्य-हानये 04013 तd-artha-grahaणं शब्द-कल्पना-आरोपित-आत्मनाम् 04013 अलिङ्गत्व-प्रसिद्ध्य्-अर्थम् अर्थाद् अर्थ-प्रसिद्धितः 04014 कल्पना-आगमयोः कर्तुर् इच्छा-मात्र-अनुरोधतः 04014 वस्तुनश् च अन्यथा अभावात् कल्पिता व्यभिचारिणः 04015 अर्थाद् अर्थ-गतेः शक्तिः पक्ष-हेत्व्-अभिधानयोः 04015 न अर्थे तेन तयोर्न् न अस्ति स्वतः साधन-संस्थितिः 04016 तत् पक्ष-वचनं वक्तुर् अभिप्राय-निवेदने 04016 प्रमाणं संशय-उत्पत्तेः ततः साक्षान् न साधनम् 04017 साध्यस्य एव अभिधानेन पारंपर्येण न अप्य् अलम् 04017 शक्तस्य सूचकं हेतु-वचो अशक्तम् अपि स्वयम् 04018 हेत्v-artha-viषयत्वेन तद्-अशक्त-उक्तिर् ईरिता 04018 शक्तिस् तस्य अपि चेद् हेतु-वचनस्य प्रवर्तनात् 04019 तत्-संशयेन जिज्ञासोर् भवेत् प्रकरण-आश्रयः 04019 विपक्ष-उपगमे अप्य् एतत् तुल्यम् इत्य् अनवस्थितिः 04020 अन्तरङ्गं तु सामर्थ्यं त्रिषु रूपेषु संस्थितम् 04020 तत्र स्मृति-समाधानं तद्-वचस्य इव संस्थितम् 04021 अख्यापिते हि विषये हेतु-वृत्तेर् असम्भवात् 04021 विषय-ख्यापनाद् एव सिद्धौ चेत् तस्य शक्तता 04022 व्याप्ति-पूर्वे विना अप्य् अस्मात् कृतकः शब्द ईदृशः 04022 सर्वे अनित्या इति प्रोक्ते अप्य् अर्थात् तन् नाश-धीर् भवेत् 04023 अनुक्ताव् अपि पक्षस्य सिद्धेर् अप्रतिबन्धतः 04023 त्रिष्व् अन्यतम् अरूपस्य एव अनुक्तिर् न्यूनता उदिता

04024 साध्य-उक्तिं वा प्रतिज्ञां स वदन् दोषैर् न युज्यते 04024 साधन-अधिकृतेर् एव हेत्वाभास-प्रसङ्गतः 04025 अविशेष-उक्तिर् अप्य् एक-जातीये संशय-अवहा 04025 अन्यथा सर्व-साध्य-उक्तेः प्रतिज्ञात्वं प्रसज्यते 04026 सिद्ध-उक्तेः साधनत्वाच् चेत् परस्य अपि न दुष्यते 04026 इदानीं साध्य-निर्देशः साधन-अवयवः कथम् 04027 साभास-उक्त्य्-आद्य्-उपक्षेप-परिहार-विडम्बना 04027 असम्बद्धा तथा ह्य् एष न न्याय इति सूचितम् 04028 गम्य-अर्थत्वे अपि साध्य-उक्तेर् असम्मोहाय लक्षणम् 04028 तच् चतुर्-लक्षणं रूप-निपात-इष्ट-स्वयम्-पदैः 04029 असिद्ध-असाधन-अर्थ-उक्त-वाद्य्-अभ्युपगम-ग्रहः 04029 अनुक्तो अपि इच्छया व्याप्तः साध्य आत्म-अर्थ-वन् मतः 04030 सर्व-अन्य-इष्ट-निवृत्ताव् अप्य् आशङ्का-स्थान-वारणम् 04030 वृत्तौ स्वयं श्रुतेः प्राह कृता च एषा तद्-अर्थिका 04031 विशेषस् तद्-व्यपेक्षातः कथितो धर्म-धर्मिणोः 04031 अनुक्ताव् अपि वाञ्छाया भवेत् प्रकरणाद् गतिः 04032 अनन्वयो अपि दृष्टान्ते दोषस् तस्य यथोदितः 04032 आत्मा परश् चेत् सो असिद्ध इति तत्र इष्ट-घातकृत् 04033 साधनं यद् विवादे न न्यस्तं तच् चेन् न साध्यते 04033 किं साध्यम् अन्यथा अनिष्टं भवेद् वैफल्यम् एव वा 04034 सद्वितीय-प्रयोगेषु निरन्वय-विरुद्धते 04034 एतेन कथिते साध्यं सामान्येन अथ सम्मतम् 04035 तद् एव अर्थ-अन्तर-अभावाद् देह-अनाप्तौ न सिध्यते 04035 वाच्यं शून्यं प्रलपतां तद् एतज् जाड्य-चिन्तितम् 04036 तुल्यं नाशे अपि चेच् शब्द-घट-भेदेन कल्पने 04036 न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः 04037 तथा अर्थ-अन्तर-भावे स्यात् तद्वान् कुम्भो अप्य् अनित्यता

04037 विशिष्टा ध्वनिना अन्वेति नो चेन् न अयोग-वारणात् 04038 द्विविधो हि व्यवच्छेदो वियोग-अपर-योगयोः 04038 व्यवच्छेदाद् अयोगे तु न अन्येन अनन्वय-आगमः 04039 सामान्यम् एव तत् साध्यं न च सिद्ध-प्रसाधनम् 04039 विशिष्टं धर्मिणा तच् च न निरन्वय-दोषवत् 04040 एतेन धर्मि-धर्माभ्यां विशिष्टौ धर्म-धर्मिणौ 04040 प्रत्याख्यातौ निराकुर्वन् धर्मिण्य् एवम् असाधनात् 04041 समुदाय-अपवादो हि न धर्मिणि विरुध्यते 04041 साध्यं यतस् तथा न इष्टं साध्यो धर्मो अत्र केवलः 04042 एकस्य धर्मिणः शास्त्रे नाना-धर्म-स्थिताव् अपि 04042 साध्यः स्याद् आत्मना एव इष्ट इत्य् उपात्ता स्वयं-श्रुतिः 04043 शास्त्र-अभ्युपगमाद् एव सर्व-आदानात् प्रबाधने 04043 तत्र एकस्य अपि दोषः स्याद् यदि हेतु-प्रतिज्ञयोः 04044 शब्द-नाशे प्रसाध्ये स्याद् गन्धे भू-गुणता-क्षतेः 04044 हेतुर् विरुद्धो अप्रकृतेर् नो चेद् अन्यत्र सा समा 04045 अथ अत्र धर्मी प्रकृतस् तत्र शास्त्र-अर्थ-बाधनम् 04045 अथ वादि-इष्टतां ब्रूयाद् धर्मि-धर्म-आदि-साधनैः 04046 कैश्चित् प्रकरणैर् इच्छा भवेत् सा गम्यते च तैः 04046 बलात् तव इच्छा इयम् इति व्यक्तम् ईश्वर-चेष्टितम् 04047 वदन् न कार्य-लिङ्गां तां व्यभिचारेण बाध्यते 04047 अनान्तरीयके च अर्थे बाधिते अन्यस्य का क्षतिः 04048 उक्तं च न आगम-अपेक्षम् अनुमानं स्व-गोचरे 04048 सिद्धं तेन सुसिद्धं तन् न तदा शास्त्रम् ईक्ष्यते 04049 वाद-त्यागस् तदा स्याच् चेन् न तदा अनभ्युपायतः 04049 उपायो ह्य् अभ्युपाये अयम् अनङ्गं स तदा अपि सन् 04050 तथा विशुद्धे विषय-द्वये शास्त्र-परिग्रहम् 04050 चिकीर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम्

04051 तद्-विरोधेन चिन्तायास् तत् सिद्ध-अर्थेष्व् अयोगतः 04051 तृतीय-स्थान-संक्रान्तौ न्यायः शास्त्र-परिग्रहः 04052 तत्र अपि साध्य-धर्मस्य सम्बद्धस्य एव बाधनम् 04052 परिहार्यं न च अन्येषाम् अनवस्था-प्रसङ्गतः 04053 केन इयं सर्व-चिन्तासु शास्त्रं ग्राह्यम् इति स्थितिः 04053 कृता इदानीम् असिद्धान्तैर् ग्राह्यो धूमेन न अनलः 04054 रिक्तस्य जन्तोज् जातस्य गुण-दोषम् अपश्यतः 04054 विलब्धा बत केन अमी सिद्धान्त-विषम् अग्रहाः 04055 यदि साधन एकत्र सर्वं शास्त्रं निदर्शने 04055 दर्शयेत् साधनं स्याद् इत्य् एषा लोकोत्तरा स्थितिः 04056 असम्बद्धस्य धर्मस्य किम् असिद्धौ न सिध्यति 04056 हेतुस् तत्-साधनाय उक्तः किं दुष्टस् तत्र सिध्यति 04057 धर्मान् अनुपनीय एव दृष्टान्ते धर्मिणो अखिलान् 04057 वाग्-धूम-आदेर् जनो अन्वेति चैतन्य-दहन-आदिकम् 04058 स्वभावं कारणं वा अर्थो अव्यभिचारेण साधयन् 04058 कस्यचिद् वाद-बाधायां स्वभावान् न निवर्तते 04059 प्रपद्यमानश् च अन्यस् तं नान्तरीयकम् ईप्सितैः 04059 साध्य-अर्थैर् हेतुना तेन कथम् अप्रतिपादितः 04060 उक्तो अनुक्तो अपि चेद् हेतुर् विरोधो वादिनो अत्र किम् 04060 न हि तस्य उक्ति-दोषेण स जातः शास्त्र-बाधनम् 04061 बाधकस्य अभिधानाच् चेद् दोषो यदि वदेन् न सः 04061 किं न बाधेत सो अकुर्वन् न युक्तं केन दुष्यति 04062 अन्येषु हेत्वाभासेषु स्व-इष्टस्य एव अप्रसाधनात् 04062 दुष्येद् व्यर्थ-अभिधानेन न अत्र तस्य प्रसाधनात् 04063 यदि किंचित् क्वचिच् शास्त्रे न युक्तं प्रतिषिध्यते 04063 ब्रुवाणो युक्तम् अप्य् अन्यद् इति राजकुल-स्थितिः 04064 सर्वान् अर्थान् समीकृत्य वक्तुं शक्यं न साधनम्

04064 सर्वत्र तेन उत्सन्ने अयं साध्य-साधन-संस्थितिः 04065 विरुद्धयोर् एक-धर्मिण्य् अयोगाद् अस्तु बाधनम् 04065 विरुद्ध-एकान्तिकेन अत्र तद्वद् अस्ति विरोधिता 04066 अबाध्यबाधकत्वे अपि तयोः शास्त्र-अर्थ-विप्लवात् 04066 असम्बन्धे अपि बाधा चेत् स्यात् सर्वं सर्व-बाधकम् 04067 सम्बन्धस् तेन तत्र एव बाधनाद् अस्ति चेद् असत् 04067 हेतोः सर्वस्य चिन्त्यत्वात् स्व-साध्ये गुण-दोषयोः 04068 नान्तरीयकता-साध्ये सम्बन्धः सा इह न ईक्ष्यते 04068 केवलं शास्त्र-पीडा इह दोषः सा अन्यकृते समा 04069 शास्त्र-अभ्युपगमात् साध्यः शास्त्र-दृष्टो खिलो यदि 04069 प्रतिज्ञा असिद्ध-दृष्टान्त-हेतु-वादः प्रसज्यते 04070 उक्तयोः साधनत्वेन नो चेद् ईप्सित-वादतः 04070 न्याय-प्राप्तं न साध्यत्वं वचनाद् विनिवर्तते 04071 अनीप्सितम् असाध्यं चेद् वादिना अन्यो अप्य् अनीप्सितः 04071 धर्मो असाध्यस् तदा असाध्यं बाधमानं विरोधि किम् 04072 पक्ष-लक्षण-बाह्य-अर्थः स्वयं शब्दो अप्य् अनर्थकः 04072 शास्त्रेष्व् इच्छा-प्रवृत्त्य्-अर्थो यदि शङ्का कुतो अन्वियम् 04073 सो अनिषिद्धः प्रमाणेन गृह्णन् केन निवार्यते 04073 निषिद्धश् चेत् प्रमाणेन वाचा केन प्रवर्त्यते 04074 पूर्वम् अप्य् एष सिद्धान्तं स्व-इच्छया एव गृहीतवान् 04074 कथंचिद् अन्यं स पुनर् ग्रहीतुं लभते न किम् 04075 दृष्टेर् विप्रतिपत्तीनाम् अत्र अकर्षीत् स्वयं श्रुतिम् 04075 इष्ट-अक्षतिम् असाध्यत्वम् अनवस्थां च दर्शयन् 04076 समय-आहित-भेदस्य परिहारेण धर्मिणः 04076 प्रसिद्धस्य गृहीत्य्-अर्थं जगाद अन्यः स्वयं-श्रुतिम् 04077 विचार-प्रस्तुतेर् एव प्रसिद्धः सिद्ध आश्रयः 04077 स्व-इच्छा-कल्पित-भेदेषु पदार्थेष्व् अविवादतः

04078 असाध्यताम् अथ प्राह सिद्ध-आदेशेन धर्मिणः 04078 स्वरूपेण एव निर्देश्य इति अनेन एव तद् गतम् 04079 सिद्ध-साधन-रूपेण निर्देशस्य हि सम्भवे 04079 साध्यत्वेन एव निर्देश्य इति इदं फल-वद् भवेत् 04080 अनुमानस्य सामान्य-विषयवं च वर्णितम् 04080 इह एवं न ह्य् अनुक्ते अपि किंचित् पक्षे विरुध्यते 04081 कुर्याच् चेद् धर्मिणं साध्यं ततः किं तन् न शक्यते 04081 कस्माद् हेत्v-anvaya-abhआवान् न च दोषस् तयोर् अयम् 04082 उत्तर-अवयव-अपेक्षो न दोषः पक्ष इष्यते 04082 तथा हेत्व्-आदि-दोषो अपि पक्ष-दोषः प्रसज्यते 04083 सर्वैः पक्षस्य बाधातस् तस्मात् तन्-मात्र-लिङ्गिनः 04083 पक्ष-दोषा मता न अन्ये प्रत्यक्ष-आdi-virodha-vat 04084 हेत्व्-आदि-लक्षणैर् बाध्यं मुक्त्वा पक्षस्य लक्षणम् 04084 उच्यते परिहार-अर्थम् अव्याप्ति-व्यतिरेकयोः 04085 स्वयं निपात-रूप-आख्या व्यतिरेकस्य बाधिकाः 04085 सह अनिराकृतेन इष्ट-श्रुतिर् अव्याप्ति-बाधनी 04086 साध्य-अभ्युपगमः पक्ष-लक्षणं तेष्व् अपक्षता 04086 निराकृते बाधनतः शेषे अलक्षण-वृत्तितः 04087 स्वयम् इष्ट-अभिधानेन गत-अर्थे अप्य् अवधारणे 04087 कृत्य-अन्तेन अभिसम्बन्धाद् उक्तं काल-अन्तर-च्छिदे 04088 इह अनङ्गम् इषेर्न् निष्ठा तेन ईप्सित-पदे पुनः 04088 अङ्गम् एव तथा असिद्ध-हेत्व्-आदि प्रतिषिध्यते 04089 अवाचकत्वाच् च अयुक्तं तेन इष्टं स्वयम् आत्मना 04089 अनपेक्ष्य अखिलं शास्त्रं तद् अभीष्टस्य साध्यता 04090 तेन अनभीष्ट-संसृष्टस्य इष्टस्य अपि हि बाधने 04090 यथा साध्यम् अबाधातः पक्ष-हेतू न दुष्यतः 04091 अनिषिद्धः प्रमाणाभ्यां स च उपगम इष्यते

04091 सन्दिग्धे हेतु-वचनाद् व्यस्तो हेतोर् अनाश्रयः 04092 अनुमानस्य भेदेन सा बाधा उक्ता चतुर्विधा 04092 तत्र अभ्युपायः कार्य-अङ्गं स्वभाव-अङ्गं जगत् स्थितिः 04093 आत्म-अपरोध-अभिमतो भूत-निश्चय-युक्त-वाक् 04093 आप्तः स्व-वचनं शास्त्रं च एवम् उक्तं समत्वतः 04094 यथा आत्मनो अप्रमाणत्वे वचनं न प्रवर्तते 04094 शास्त्र-दृष्टे तथा न अर्थे विचारस् तद् अनाश्रये 04095 तत् प्रस्ताव-आश्रयत्वे हि शास्त्रं बाधकम् इत्य् अमुम् 04095 वक्तुम् अर्थं स्व-वाचा अस्य सहोक्तिः साम्य-दृष्टये 04096 उदाहरणम् अप्य् अत्र सदृशं तेन वर्णितम् 04096 प्रमाणानाम् अभावे हि शास्त्र-वाचोर् अयोगतः 04097 स्व-वाग्-विरोधे विस्पष्टम् उदाहरणम् आगमे 04097 दिङ्मात्र-दर्शनं तत्र प्रेत्य-धर्मो सुख-प्रदः 04098 शास्त्रिणो अप्य् अतदालम्बे विरुद्ध-उक्तौ तु वस्तुनि 04098 न बाधा प्रतिबन्धः स्यात् तुल्य-कक्ष्यतया द्वयोः 04099 यथा स्व-वाचि तच् च अस्या तदा स्व-वचन-आत्मकम् 04099 तयोः प्रमाणं यस्य अस्ति तत् स्याद् अन्यस्य बाधकम् 04100 प्रतिज्ञाम् अनुमानं वा प्रतिज्ञा-अपेत-युक्तिका 04100 तुल्य-कक्ष्या यथार्थं वा बाधेत कथम् अन्यथा 04101 प्रामाण्यम् आगमानां च प्राग् एव विनिवारितम् 04101 अभ्युपाय-विचारेषु तस्माद् दोषो अयम् इष्यते 04102 तस्माद् विषय-भेदस्य दर्शनाय पृथक् कृतः 04102 अनुमान-अबहिर्भूतो अप्य् अभ्युपायः प्रबाधनात् 04103 अन्यथा अतिप्रसङ्गः स्याद् व्यर्थता वा पृथक् कृतेः 04103 भेदो वाङ्-मात्र-वचने प्रतिबन्धः स्व-वाच्य् अपि 04104 तेन अभ्युपगमाच् शास्त्रं प्रमाणम् सर्व-वस्तुषु 04104 बाधकं यदि न इच्छेत् स बाधकं किं पुनर् भवेत्

04105 स्व-वाग्-विरोधो अभेदः स्यात् स्व-वाक्-शास्त्र-विरोधयोः 04105 पुरुष-इच्छा कृता च अस्य परिपूर्णा प्रमाणता 04106 तस्मात् प्रसिद्धेष्व् अर्थेषु शास्त्र-त्यागे अपि न क्षतिः 04106 परोक्षेष्व् आगम-अनिष्टौ न चिन्ता एव प्रवर्तते 04107 विरोध-उद्भावन-प्राया परीक्षा अप्य् अत्र तद्-यथा 04107 अधर्म-मूलं राग-आदि स्नानं च अधर्म-शोधनम् 04108 शास्त्रं यत् सिद्धया युक्त्या स्व-वाचा च न बाध्यते 04108 दृष्टे अदृष्टे अपि तद् ग्राह्यम् इति चिन्ता प्रवर्तते 04109 अर्थेष्व् अप्रतिषिद्धत्वात् पुरुष-इच्छा-अनुरोधिनः 04109 इष्ट-शब्द-अभिधेयत्वस्य आप्तो अत्र अक्षत-वाग् जनः 04110 उक्तः प्रसिद्ध-शब्देन धर्मस् तद् व्यवहारजः 04110 प्रत्यक्ष-आदिम् इति मान-श्रुत्य्-आरोपेण सूचितः 04111 तद्-आश्रय-भुवाम् इच्छा-वर्तित्वाद् अनिषेधिनाम् 04111 कृतानाम् अकृतानां वा योग्यं विश्वं स्वभावतः 04112 अर्थ-मात्र-अनुरोधिन्या भाविन्या भूतया अपि वा 04112 बाध्यते प्रतिरुन्धानः शब्द-योग्यतया तया 04113 तद्-योग्यता-बलाद् एव वस्तुतो घटितो ध्वनिः 04113 सर्वो अस्याम् अप्रतीते अपि तस्मिंस् तत्-सिद्धता ततः 04114 असाधारणता न स्यात् बाधा-हेतोर् इह अन्यथा 04114 तन् निषेधो अनुमानात् स्याच् शब्द-अर्थे अनक्ष-वृत्तितः 04115 असाधारणता तत्र हेतूनां यत्र न अन्वयि 04115 सत्त्वम् इत्य् अभ्युदाहारो हेतोर् एवं फलो मतः 04116 संकेत-संश्रयाः शब्दाः स च इच्छा-मात्र-संश्रयः 04116 न असिद्धिः शब्द-सिद्धानाम् इति शब्द-प्रसिद्ध-वाक् 04117 अनुमान-प्रसाध्येषु विरुद्धाव्यभिचारिणः 04117 अभावं दर्शयत्य् एवं प्रतीतेर् अनुमा त्व् अतः 04118 अथवा ब्रुवतो लोकस्य अनुमा अभाव उच्यते

04118 किं तेन भिन्न-विषया प्रतीतिर् अनुमानतः 04119 तेन अनुमानाद् वस्तूनां सद्-असत्ता-अनुरोधिनः 04119 भिन्नस्य अतद्-वशाद् वृत्तिस् तद् इच्छाजा इति सूचितम् 04120 चन्द्रतां शशिनो अनिच्छन् कां प्रतीतिं स वाञ्छति 04120 इति तं प्रत्य् अदृष्टान्तं तद्-असाधारणं मतम् 04121 न उदाहरणम् एव इदम् अधिकृत्य इदम् उच्यते 04121 लक्षणत्वात् तथा अवृक्षो धात्री इत्य् उक्तौ च बाधनात् 04122 अत्र अपि लोके दृष्टत्वात् कर्पूर-रजत-आदिषु 04122 समयाद् वर्तमानस्य का असाधारणता अभिधा 04123 यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तु-बलेन तत् 04123 प्रतीत्i-siddha-upagame अशशिन्य् अप्य् अनिवारणम् 04124 तस्य वस्तुनि सिद्धस्य शशिन्य् अप्य् अनिवारणम् 04124 तd-vastv-abhआवे शशिनि वारणे अपि न दुष्यति 04125 तस्माद् अवस्तु-नियत-संकेत-ध्वनि-भाविनाम् 04125 योग्याः पदार्था धर्माणाम् इच्छाया अनिरोधनात् 04126 तां योग्यतां निरुन्धानं संकेत-अप्रतिषेधजा 04126 प्रतिहन्ति प्रतीत-आख्या योग्यता विषया अनुमा 04127 शब्दानाम् अर्थ-नियमः संकेत-अनुविधायिनाम् 04127 न इत्य् अनेन उक्तम् अत्र एषां प्रतिषेधो विरुध्यते 04128 नैमित्तिक्याः श्रुतेर् अर्थम् अर्थं वा पारमार्थिकम् 04128 शब्दानां प्रतिरुन्धानो न बाध्यस् तेन वर्णितः 04129 तस्माद् विषय-भेदस्य दर्शनाय पृथक्कृता 04129 अनुमान-अबहिर्भूता प्रतीतिर् अपि पूर्ववत् 04130 सिद्धयोः पृथग्-आख्याने दर्शयंश् च प्रयोजनम् 04130 एते सहेतुके प्राह न अनुमा-अध्यक्ष-बाधने 04131 तत्र अप्य् अध्यक्ष-बाधायां नाना-रूपतया ध्वनौ 04131 प्रसिद्धस्य श्रुतौ रूपं यद् एव प्रतिभासते 04132 अद्वयं शबल-आभासस्य अदृष्टेर् बुद्धि-जन्मनः

04132 तd-artha-artha-uktir अस्य एव क्षेपे अध्यक्षेण बाधनम् 04133 तद् एव रूपं तत्र अर्थः शेषं व्यावृत्ति-लक्षणम् 04133 अवस्तु-रूपं सामान्यम् अतस् तन् न अक्ष-गोचरः 04134 तेन सामान्य-धर्माणां अप्रत्यक्षत्व-सिद्धितः 04134 प्रतिक्षेपे अप्य् अबाधा इति श्रावण-उक्त्या प्रकाशितम् 04135 सर्वथा अवाच्य-रूपत्वात् सिद्ध्या तस्य समाश्रयात् 04135 बाधनात् तद्-बलेन उक्तः श्रवणेन अक्ष-गोचरः 04136 सर्वत्र वादिनो धर्मो यः स्व-साध्यतया ईप्सितः 04136 तद् धर्मवति बाधा स्यान् न अन्य-धर्मेण धर्मिणि 04137 अन्यथा अस्य उपरोधः को बाधिते अन्यत्र धर्मिणि 04137 गत-अर्थे लक्षणे न अस्मिन् स्व-धर्मि-वचनं पुनः 04138 बाधायां धर्मिणो अपि स्यात् बाधा इत्य् अस्य प्रसिद्धये 04138 आश्रयस्य विरोधेन तद्-आश्रित-विरोधनात् 04139 अन्यथा एवंविधो धर्मः साध्य इत्य् अभिधानतः 04139 तद् बाधाम् एव मन्येत स्व-धर्मि-वचनं ततः 04140 नन्व् एतद् अप्य् अर्थ-सिद्धं सत्यं केचित् तु धर्मिणः 04140 केवलस्य उपरोधे अपि दोषवत् ताम् उपागताः 04141 यथा परैर् अनुत्पाद्या पूर्व-रूपन् न ख-आदिकम् 04141 सकृच् शब्द-आद्य्-अहेतुत्वाद् इत्य् उक्ते प्राह दूषकः 04142 तद्वद् वस्तु-स्वभावो असन् धर्मी व्योम-आदिर् इत्य् अपि 04142 न एवम् इष्टस्य साध्यस्य बाधा क्वचन विद्यते 04143 द्वयस्य अपि हि साध्यत्वे साध्य-धर्म-उपरोधि यत् 04143 बाधनं धर्मिणस् तत्र बाधा इत्य् एतेन वर्णितम् 04144 तथा एव धर्मिणो अप्य् अत्र साध्यत्वात् केवलस्य न 04144 यद्य् एवम् अत्र बाधा स्यात् न अन्य-अनुत्पाद्य-शक्तिकः 04145 सकृच् शब्द-आद्य्-अहेतुत्वात् सुख-आदिर् इति पूर्ववत्

04145 विरोधिता भवेत् अत्र हेतुर् ऐकान्तिको यदि 04146 क्रम-क्रिया अनित्यतयोर् अविरोधाद् विपक्षतः 04146 व्यावृत्तेः संशयाद् एष शेषवद् भेद इष्यते 04147 स्वयम् इष्टो यतो धर्मः साध्यस् तस्मात् तद्-आश्रयः 04147 बाध्यो न केवलो न अन्य-संश्रयो वा इति सूचितम् 04148 स्वयं श्रुत्या अन्य-धर्माणां बाधा अबाधा इति कथ्यते 04148 तथा स्व-धर्मिणा अन्यस्य धर्मिणो अपि इति कथ्यते 04149 सर्व-साधन-दोषेण पक्ष एव उपरुध्यते 04149 तथा अपि पक्ष-दोषत्वं प्रतिज्ञा-मात्र-संज्ञिनः 04150 उत्तर-अवयव-अपेक्षो यो दोषः सो अनुबध्यते 04150 तेन इत्य् उक्तम् अतो अपक्ष-दोषो असिद्ध-आश्रय-आदिकम् 04151 धर्mi-dharma-viशेषाणां स्वरूपस्य च धर्मिणः 04151 बाधा-साध्य-अङ्ग-भूतानाम् अनेन एव उपदर्शिता 04152 तत्र उदाहृति-दिङ्मात्रम् उच्यते अर्थस्य दृष्टये 04152 द्रव्य-लक्षण-युक्तो अन्यः संयोगे अर्थो अस्ति दृष्टि-भाक् 04153 अदृश्यस्य अविशिष्टस्य प्रतिज्ञा निष्प्रयोजना 04153 इष्टो ह्य् अवयवी कार्यं दृष्ट्या अदृश्येष्व् असम्भवी 04154 अविशिष्टस्य च अन्यस्य साधने सिद्ध-साधनम् 04154 गुरुत्व-अधोगती स्यातां यद्य् असौ स्यात् तुला-नतिः 04155 तन् निर्गुण-क्रियस् तस्मात् समवायि न कारणम् 04155 तत एव न दृश्यो असाव् अदृष्टेः कार्य-रूपयोः 04156 तद्-बाधा-अन्य-विशेषस्य नान्तरीयक-भाविनः 04156 आ सूक्ष्माद् द्रव्यम् आलायास् तुल्यत्वाद् अंशु-पात-वत् 04157 द्रव्य-अन्तर-गुरुत्वस्य गतिर्न् न इत्य् अपरो अब्रवीत् 04157 तस्य क्रमेण संयुक्ते पांशु-राशौ सकृद् युते 04158 भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते 04158 क्रमेण माषक-आदीनां संख्या-साम्यं न युज्यते

04159 सर्षपाद् आ महा-राशेर् उत्तरोत्तर-वृद्धिमत् 04159 गुरुत्वं कार्यम् आलाय यदि न एव उपलक्ष्यते 04160 आ सर्षपाद् गुरुत्वं तद् दुर्लक्षितम् अनल्पकम् 04160 तौल्यं तत्-कारणं कार्य-गौरव-अनुपलक्षणात् 04161 नन्व् अदृष्टो अंशु-वत् सो अर्थो न च तत्-कार्यम् ईक्ष्यते 04161 गुरुत्व-अगति-वत् सर्व-तद्-गुण-अनुपलक्षणात् 04162 माषक-आदेर् अनाधिक्यम् अनतिः सा उपलक्षणम् 04162 यथास्वम् अक्षेण अदृष्टे रूप-आदाव् अधिक-अधिके 04163 अभ्युपायः स्व-वाग्-आदि-बाधायाः सम्भवेन तु 04163 उदाहरणम् अप्य् अन्यद् दिशा गम्यम् यथोक्तया 04164 त्रि-काल-विषयत्वात् तु कृत्यानाम् अतथात्मकम् 04164 तथा परम् प्रतिन्यस्तम् साध्यं न इष्टं तदा अपि तत् 04165 प्रत्यायन-अधिकारे तु सर्व-असिद्ध-अवरोधिनी 04165 तस्मात् साध्य-श्रुतिर्न् न इष्टं विशेषम् अवलम्बते 04166 तेन अप्रसिद्ध-दृष्टान्त-हेतु-उदाहरणं कृतम् 04166 अन्यथा शश-शृङ्ग-आदौ सर्व-असिद्धे अपि साध्यता 04167 सर्वस्य च अप्रसिद्धत्वात् कथंचित् तेन न क्षमः 04167 कर्म-आdi-bheda-upakषेप-परिहार-अविवेचने 04168 प्राग्-असिद्ध-स्वभावत्वात् साध्य-अवयव इत्य् असत् 04168 तुल्य-सिद्धान्तता ते हि येन उपगम-लक्षणाः 04169 समुदायस्य साध्यत्वे अप्य् अन्योन्यस्य विशेषणम् 04169 साध्यं द्वयं तदा असिद्धं हेतु-दृष्टान्त-लक्षणम् 04170 असम्भवात् साध्य-शब्दो धर्मि-वृत्तिर् यदि इष्यते 04170 शास्त्रेण अलं यथायोगं लोक एव प्रवर्तताम् 04171 साधन-आख्यान-सामर्थ्यात् तद्-अर्थे साध्यता गता 04171 हेत्व्-आदि-लक्षणैर् व्याप्तेर् अनाशङ्क्यं च साधनम् 04172 पूर्व-अवधारणे तेन प्रतिज्ञा-लक्षण-अभिधा

04172 व्यर्था व्याप्ति-फला सा उक्तिः सामर्थ्याद् गम्यते ततः 04173 विरुद्धता इष्ट-असम्बन्धो अनुपकार-सहास्थिती 04173 एवं सर्व-अङ्ग-दोषाणां प्रतिज्ञा-दोषता भवेत् 04174 पक्ष-दोषः पर-अपेक्षो न इति च प्रतिपादितम् 04174 इष्ट-असम्भव्य्-असिद्धश् च स एव स्यात् निराकृतः 04175 अनित्यत्व-सहेतुत्वे शब्द एवं प्रकीर्तयेत् 04175 दृष्टान्त-आख्यान् अतो अन्यत् किम् अस्त्य् अत्र अर्थ-अनुदर्शनम् 04176 विशेषे भिन्नम् आख्याय सामान्यस्य अनुवर्तने 04176 न तद्-व्याप्तेः फलं वा किं सामान्येन अनुवर्तने 04177 स्यान् निराकरणं शब्दे स्थितेन एव इत्य् अतो अब्रवीत् 04177 विरुद्ध-विषये अन्यस्मिन् वदन्न् आह अन्यतां श्रुतेः 04178 सा च भेद-अप्रतिक्षेपात् सामान्यानां न विद्यते 04178 वृक्षो न शिंशपा एव इति यथा प्रकरणे क्वचित् 04179 सर्व-श्रुतेर् एक-वृत्तिर्न् निषेधः स्यान् न तावता 04180 ज्ञाप्य-ज्ञापकयोर् भेदाद् धर्मिणो हेतु-भाविनः 04180 असिद्धेर् ज्ञापकत्वस्य धर्म्य्-असिद्धः स्व-साधने 04181 धर्म-धर्मि-विवेकस्य सर्व-भावेष्व् असिद्धितः 04181 सर्वत्र दोषस् तुल्यश् चेन् न संवृत्या विशेषतः 04182 परमार्थ-विचारेषु तथाभूत-प्रसिद्धितः 04182 तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते 04183 अनुमान-अनुमेय-अर्थ-व्यवहार-स्थितिस् त्व् इयम् 04183 भेदं प्रत्यय-संसिद्धम् अवलम्ब्य च कल्प्यते 04184 यथास्वं भेद-निष्ठेषु प्रत्ययेषु विवेकिनः 04184 धर्मी धर्माश् च भासन्ते व्यवहारस् तद्-आश्रयः 04185 व्यवहार-उपनीतो अत्र स एव अश्लिष्ट-भेद-धीः 04185 साध्यः साधनतां नीतस् तेन असिद्धः प्रकाशितः 04186 भेद-सामान्ययोर् धर्म-भेदाद् अङ्ग-अङ्गिता ततः

04186 यथा अनित्यः प्रयत्न-उत्थः प्रयत्न-उत्थतया ध्वनिः 04187 पक्ष-अङ्गत्वे अप्य् अबाधत्वान् न असिद्धिर् भिन्न-धर्मिणि 04187 यथा अश्वो न विषाणित्वाद् एष पिण्डो विषाणवान् 04188 साध्य-काल-अङ्गता वा न निवृत्तेर् उपलक्ष्य तत् 04188 विशेषो अपि प्रतिज्ञा-अर्थो धर्म-भेदान् न युज्यते 04189 पक्ष-धर्म-प्रभेदेन सुख-ग्रहण-सिद्धये 04189 हेतु-प्रकरण-अर्थस्य सूत्र-संक्षेप उच्यते 04190 अयोगं योगम् अपरैर् अत्यन्तायोगम् एव च 04190 व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः 04191 विशेषण-विशेष्याभ्यां क्रियया च सहोदितः 04191 विवक्षातो प्रयोगे अपि तस्य अर्थो अयं प्रतीयते 04192 व्यवच्छेद-फलं वाक्यं यतश् चैत्रो धनुर्धरः 04192 पार्थो धनुर्धरो नीलं सरोजम् इति वा यथा 04193 प्रतियोगि-व्यवच्छेदस् तत्र अप्य् अर्थेषु गम्यते 04193 तथा प्रसिद्धेः सामर्थ्याद् विवक्षा-अनुगमाद् ध्वनेः 04194 तद् अयोगव्यवच्छेदाद् धर्mi-dharma-viशेषणम् 04194 तद्-विशिष्टतया धर्मो न निरन्वय-दोष-भाक् 04195 स्वभाव-कार्य-सिद्ध्य्-अर्थं द्वौ द्वौ हेतु-विपर्ययौ 04195 विवादाद् भेद-सामान्ये शेषो व्यावृत्ति-साधनः 04196 न हि स्वभावाद् अन्येन व्याप्तिर् गम्यस्य कारणे 04196 सम्भवाद् व्यभिचारस्य द्विधा वृत्ति-फलं ततः 04197 प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न 04197 तस्य आवृत्त्य्-अक्ष-शब्देषु सर्वथा अनुपयोगतः 04198 कदाचिन् निरपेक्षस्य कार्य-आकृति-विरोधतः 04198 कादाचित्क-फलं सिद्धं तल्-लिङ्गं ज्ञानम् ईदृशम् 04199 एतेन एव प्रसिद्धो अपि स्वभावस्य पृथक् कृतिः 04199 कार्येण सह निर्देशे मा ज्ञासीत् सर्वम् ईदृशम्

04200 व्युत्पत्त्य्-अर्थी च हेतु-उक्तिर् उक्त-अर्थ-अनुमितौ कृता 04200 प्रभेद-मात्रम् आख्यातं लक्षणं तु न भिद्यते 04201 तेन अत्र कार्य-लिङ्गेन स्वभावो अप्य् एकदेश-भाक् 04201 सदृश-उदाहृतिश् च अतः प्रयत्नाद् व्यक्ति-जन्मनः 04202 यन् नान्तरीयका सत्ता यो वा आत्मा स्वो अविभागवान् 04202 स तेन अव्यभिचारी स्याद् इत्य् अर्थं तत् प्रभेदनम् 04203 संयोग्य्-आदिषु येष्व् अस्ति प्रतिबन्धो न तादृशम् 04203 न ते हेतव इत्य् उक्तं व्यभिचारस्य सम्भवात् 04204 सति वा प्रतिबन्धेस् तु स एव गति-साधनः 04204 नियमो ह्य् अविनाभावो अनित्यश् च न साधनम् 04205 ऐकान्तिकत्वं व्यावृत्तेर् अविनाभाव उच्यते 04205 तच् च न अप्रतिबद्धेषु तत एव अन्वय-स्थितिः 04206 स्वात्मत्वे हेतु-भावे वा सिद्धे हि व्यतिरेकिता 04206 सिध्यत्य् अतो विशेषे न व्यतिरेको न च अन्वयः 04207 अदृष्टि-मात्रम् आदाय केवलं व्यतिरेकिता 04207 उक्ता अनैकान्तिकस् तस्माद् अन्यथा गमको भवेत् 04208 प्राण-आद्य्-अभावो नैरात्म्य-व्याप्ती इति विनिवर्तने 04208 आत्मनो विनिवर्तेत प्राण-आदिर् यदि तच् च न 04209 अन्यस्य विनिवृत्त्या अन्य-विनिवृत्तेर् अयोगतः 04209 तदात्मा तत्-प्रसूतश् चेन् न एतद् आत्म-उपलम्भने 04210 तस्य उपलब्धाव् अगताव् अगतौ च प्रसिध्यति 04210 ते च अत्यन्तपरोक्षस्य दृष्ट्य्-अदृष्टी न सिध्यतः 04211 अन्यत्र अदृष्ट-रूपस्य घट-आदौ न इति वा कुतः 04211 अज्ञात-व्यतिरेकस्य व्यावृत्तेर् व्यापिता कुतः 04212 प्राण-आदेश् च क्वचिद् दृष्ट्या सत्त्व-असत्त्वं प्रतीयते 04212 तथा आत्मा यदि दृश्येत सत्त्व-असत्त्वं प्रतीयते 04213 यस्य हेतोर् अभावेन घटे प्राणो न दृश्यते

04213 देहे अपि यद्य् असौ न स्याद् युक्तो देहेन सम्भवः 04214 भिन्ने अपि किंचित् साधर्म्याद् यदि तत्त्वं प्रतीयते 04214 प्रमेयत्वाद् घट-आदीनां सात्मत्वं किं न मीयते 04215 अनिष्टं चेत् प्रमाणं हि सर्व-इष्टीनां निबन्धनम् 04215 भाव-अभाव-व्यवस्थां कः कर्तुं तेन विना प्रभुः 04216 स्मृति-इच्छा-यत्नजः प्राण-निमेष-आदिस् तद्-उद्भवः 04216 विषय-इन्द्रिय-चित्तिभ्यस् ताः स्व-जाति-समुद्भवाः 04217 अन्योन्य-प्रत्यय-अपेक्षा अन्वय-व्यतिरेक-भाक् 04217 एताव् अत्यात्मभावो अयम् अनवस्था-अन्य-कल्पने 04218 श्रावणत्वेन तत्-तुल्यं प्राण-आदि-व्यभिचारतः 04218 न तस्य व्यभिचारित्वाद् व्यतिरेके अपि चेत् कथम् 04219 न असाध्याद् एव विश्लेषस् तस्य नन्व् एवम् उच्यते 04219 साध्ये अनुवृत्त्य्-अभावो अर्थात् तस्य अन्यत्र अप्य् असौ समः 04220 असाध्याद् एव विच्छेद इति साध्ये अस्तिता उच्यते 04220 अर्थापत्त्या अत एव उक्तम् एकेन द्वय-दर्शनम् 04221 ईदृग्-अव्यभिचारो अतो अनन्वयेषु न सिध्यति 04221 प्रतिषेध-निषेधश् च विधानात् कीदृशो अपरः 04222 निवृत्तिर्न् न असतः साध्याद् असाध्येष्व् एव नो ततः 04222 न इति सा एव निवृत्तिः किं निवृत्तेर् असतो मता 04223 निवृत्त्य्-अभावस् तु विधिर् वस्तु-भावो असतो अपि सन् 04223 वस्त्व्-अभावस् तु न अस्ति इति पश्य बान्ध्य-विजृम्भितम् 04224 निवृत्तिर् यदि तस्मिन् न हेतोर् वृत्तिः किं निषिध्यते 04224 सा अपि न प्रतिषेधो अयं निवृत्तिः किं निषिध्यते 04225 विधानं प्रतिषेधं च मुक्त्वा शाब्दो अस्ति न अपरः 04225 व्यवहारः स च असत्सु न इति प्राप्ता अत्र मूकता 04226 सतां च न निषेधो अस्ति सो असत्सु च न विद्यते

04226 जगत्य् अनेन न्यायेन नञ्-अर्थः प्रलयं गतः 04227 देश-काल-निषेधश् चेद् यथा अस्ति स निषिध्यते 04227 न तथा न यथा सो अस्ति तथा अपि न निषिध्यते 04228 तस्माद् आश्रित्य शब्द-अर्थं भाव-अभाव-समाश्रयम् 04228 अबाह्य-आश्रयम् अत्र इष्टं सर्वं विधि-निषेधनम् 04229 ताभ्यां स धर्मी सम्बद्धः ख्यात्य्-अभावे अपि तादृशः 04229 शब्द-प्रवृत्तेर् अस्ति इति सो अपि इष्टो व्यवहार-भाक् 04230 अन्यथा स्यात् पदार्थानां विधान-प्रतिषेधने 04230 एक-धर्मस्य सर्वात्म-विधान-प्रतिषेधनम् 04231 अनाना-आत्म-आत्मतया भेदे नाना-विधि-निषेध-वत् 04231 एक-धर्मिण्य् असंहारो विधान-प्रतिषेधयोः 04232 एकं धर्मिणम् उद्दिश्य नाना-धर्म-समाश्रयम् 04232 विधाव् एकस्य तद्-भाजाम् इव अन्येषाम् उपेक्षकम् 04233 निषेधे तद्-विविक्तं च तद् अन्येषाम् अपेक्षकम् 04233 व्यवहारम् असत्य-अर्थं प्रकल्पयति धीर् यथा 04234 तं तथा एव अविकल्प्य-अर्थ-भेद-आश्रयम् उपागताः 04234 अनादि-वासना-उद्भूतं बाधन्ते अर्थं न लौकिकम् 04235 तत्-फलो अतत्-फलश् च अर्थो भिन्न एकस् ततस् ततः 04235 तैस् तैर् उपप्लवैर्न् नीत-संचय-अपचयैर् इव 04236 अतद्वान् अपि सम्बन्धात् कुतश्चिद् उपनीयते 04236 दृष्टिं भेद-आश्रयैस् ते अपि तस्माद् अज्ञात-विप्लवाः 04237 सत्ता-साधन-वृत्तेश् च सन्दिग्धः स्याद् असन् न सः 04237 असत्त्वं च अभ्युपगमाद् अप्रमाणान् न युज्यते 04238 असतो अव्यतिरेके अपि सपक्षाद् विनिवर्तनम् 04238 सन्दिग्धं तस्य सन्देहाद् विपक्षाद् विनिवर्तनम् 04239 एकत्र नियमे सिद्धे सिध्यत्य् अन्य-निवर्तनम् 04239 द्वैराश्ये सत्य् अदृष्टे अपि स्याद् अदृष्टेषु संशयः

04240 अव्यक्ति-व्यापिनो अप्य् अर्थाः सन्ति तज्-जाति-भाविनः 04240 क्वचिन् न नियमो दृष्ट्या पार्थिव-अलोह-लेख्य-वत् 04241 भावे विरोधस्य अदृष्टौ कः सन्देहं निवर्तयेत् 04241 क्वचिद् विनियमात् को अन्यस् तत्-कार्य-आत्मतया स च 04242 नैरात्म्याद् अपि तेन अस्य सन्दिग्धं विनिवर्तनम् 04242 अस्तु नाम तथा अप्य् आत्मा न अनैरात्म्यात् प्रसिध्यति 04243 येन असौ व्यतिरेकस्य न अभावं भावम् इच्छति 04243 यथा न अव्यतिरेके अपि प्राण-आदिर्न् न सपक्षतः 04244 सपक्ष-अव्यतिरेकी चेद् हेतुर् हेतुर् अतो अन्वयी 04244 न अन्वय्य् अव्यतिरेकी चेद् अनैरात्म्यं न सात्मकम् 04245 यन् नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु 04245 निवर्तकः स एव अतः प्रवृत्तौ च प्रवर्तकः 04246 नान्तरीयकता सा च साधनं समपेक्षते 04246 कार्ये दृष्टिर् अदृष्टिश् च कार्यकारणता हि ते 04247 अर्थ-अन्तरस्य तद्-भावे अभावो नियमतो अगतिः 04247 अभाव-असम्भवात् तेषाम् अभावे नित्य-भाविनः 04248 कार्य-स्वभाव-भेदानां कारणेभ्यः समुद्भवात् 04248 तैर् विना भवतो अन्यस्मात् तज्जं रूपं कथं भवेत् 04249 सामग्री-शक्ति-भेदाद् हि वस्तूनां विश्वरूपता 04249 सा चेन् न भेदिका प्राप्तम् एक-रूपम् इदं जगत् 04250 भेदक-अभेदकत्वे स्याद् व्याहता भिन्न-रूपता 04250 एकस्य नाना-रूपत्वे द्वे रूपे पावक-इतरौ 04251 तत् तस्य अजननं रूपम् अन्यस्य यदि सा एव सा 04251 न तस्य अजननं रूपं तत् तस्याः सम्भवेत् कथम् 04252 ततः स्वभावौ नियताव् अन्योन्यं हेतु-कार्ययोः 04252 तस्मात् स्व-दृष्टाव् इव तद् दृष्टे कार्ये अपि गम्यते 04253 एकं कथम् अनेकस्मात् क्लेद-वद् दुग्ध-वारिणः

04253 द्रव-शक्तेर् यतः क्लेदः सा त्व् एका एव द्वयोर् अपि 04254 भिन्न-अभिन्नः किम् अस्य आत्मा भिन्नो अथ द्रवता कथम् 04254 अभिन्ना इत्य् उच्यते बुद्धेस् तद्-रूपाया अभेदतः 04255 तद्वद् भेदे अपि दहनो दहन-प्रत्यय-आश्रयः 04255 येन अंशेन अदधद् धूमं तेन अंशेन तथा गतिः 04256 दहन-प्रत्यय-अङ्गाद् एव अन्य-अपेक्षात् समुद्भवात् 04256 धूमो अतद्-व्यभिचारि इति सिद्धं कार्यं तथा परम् 04257 धूम-इन्धन-विकार-अङ्गता-पदे दहन-स्थितेः 04257 अनग्निश् चेद् अधूमो असौ सधूमश् चेत् सपावकः 04258 नान्तरीयकता ज्ञेया यथास्वं हेत्व्-अपेक्षया 04258 स्वभावस्य यथोक्तं प्राक् विनाश-कृतकत्वयोः 04259 अहेतुत्व-गति-न्यायः सर्वो अयं व्यतिरेकिणः 04259 अभ्यूह्यः श्रावणत्व-उक्तेः कृतायाः साम्य-दृष्टये 04260 हेतु-स्वभाव-व्यावृत्त्या एव अर्थ-व्यावृत्ति-वर्णनात् 04260 सिद्ध-उदाहरणा इत्य् उक्त-अनुपलब्धिः पृथग् न तु 04261 तत्र अप्य् अदृश्यात् पुरुषात् प्राण-आदेर् अनिवर्तनात् 04261 सन्देह-हेतुता-आख्यात्या दृश्य-अर्थे सा इति सूचितम् 04262 अनङ्गीकृत-वस्त्व्-अंशो निषेधः साध्यते नया 04262 वस्तुन्य् अपि तु पूर्वाभ्यां पर्युदासो विधानतः 04263 तत्र उपलभ्येष्व् अस्तित्वम् उपलब्धेर् न च अपरम् 04263 इत्य् अज्ञ-ज्ञापनाय एक-अनुपाख्य-उदाहृतिर् मता 04264 विषय-असत्त्वतस् तत्र विषयि प्रतिषिध्यते 04264 ज्ञान-अभिधान-सन्देहं यथा अदाहाद् अपावकः 04265 तथा अन्या न उपलभ्येषु न अस्तिता अनुपलम्भनात् 04265 तज्-ज्ञान-शब्दाः साध्यन्ते तद्भावात् तन्-निबन्धनाः 04266 सिद्धो हि व्यवहारो अयं दृश्य-अदृष्टाव् असन्न् इति 04266 तस्याः सिद्धाव् असन्दिग्धौ तत्-कार्यत्वे अपि धी-ध्वनी

04267 विद्यमाने हि विषये मोहाद् अत्र अननुब्रुवन् 04267 केवलं सिद्ध-साधर्म्यात् स्मार्यते समयं परः 04268 कार्यकारणता यद्वत् साध्यते दृष्ट्य्-अदृष्टितः 04268 कार्य-आदि-शब्दा हि तयोर् व्यवहाराय कल्पिताः 04269 कारणात् कार्य-संसिद्धिः स्वभाव-अन्तर्गमाद् इयम् 04269 हेतु-प्रभेद-आख्यायेन दर्शित-उदाहृतिः पृथक् 04270 एक-उपलम्भ-अनुभवाद् इदं न उपलभे इति 04270 बुद्धेर् उपलभे वा इति कल्पिकायाः समुद्भवः 04271 विशेषो गम्यते अर्थानां विशिष्टाद् एव वेदनात् 04271 तथाभूत-आत्म-संवित्तिर् भेद-धी-हेतुर् अस्य च 04272 तस्मात् स्वतो धियोर् भेद-सिद्धिस् ताभ्यां तद्-अर्थयोः 04272 अन्यथा ह्य् अनवस्थानाद् भेदः सिध्येन् न कस्यचित् 04273 विशिष्ट-रूप-अनुभवान् न अतो अन्य-अन्य-निराक्रिया 04273 तद्-विशिष्ट-उपलम्भो अतः तस्य अप्य् अनुपलम्भनम् 04274 तस्माद् अनुपलम्भो अयं स्वयं प्रत्यक्षतो गतः 04274 स्व-मात्र-वृत्तेर् गमकस् तद्-अभाव-व्यवस्थितेः 04275 अन्यथा अर्थस्य नास्तित्वं गम्यते अनुपलम्भतः 04275 उपलम्भस्य नास्तित्वम् अन्येन इत्य् अनवस्थितिः 04276 अदृश्ये निश्चय-अयोगात् स्थितिर् अन्यत्र वार्यते 04276 यथा अलिङ्गो अन्य-सत्त्वेषु विकल्प-आदिर् न सिध्यति 04277 अनिश्चय-फला ह्य् एषा न अलं व्यावृत्ति-साधने 04277 आद्या अधिक्रियते हेतोर् निश्चयेन एव साधने 04278 तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते 04278 अर्थ-बाधन-रूपं वा भावे भावाद् अभावतः 04279 अन्योन्य-भेद-सिद्धेर् वा ध्रुव-भाव-विनाश-वत् 04279 प्रमाण-अन्तर-बाधाद् वा सापेक्ष-ध्रुव-भाव-वत् 04280 हेत्v-antara-samऊहस्य संनिधौ नियमः कुतः

04280 भाव-हेतु-भवत्वे किं पारंपर्य-परिश्रमैः 04281 नाशनं जनयित्वा अन्यं स हेतुस् तस्य नाशनः 04281 तम् एव नश्वरं भावं जनयेद् यदि किं भवेत् 04282 आत्म-उपकारकः कः स्यात् तस्य सिद्ध-आत्मनः सतः 04282 न आत्म-उपकारकः कः स्यात् तेन यः समपेक्ष्यते 04283 अनपेक्षश् च किं भावो अतथाभूतः कदाचन 04283 यथा न क्षेप-भाग् इष्टः स एव उद्भूत-नाशकः 04284 क्षणम् अप्य् अनपेक्षत्वे भावो भावस्य न इति चेत् 04284 भावो हि स तथाभूतो अभावे भावस् तथा कथम् 04285 ये अपर-अपेक्ष-तद्भावास् तद्भाव-नियता हि ते 04285 असम्भवाद् विबन्धे च सामग्री कार्य-कर्मणि 04286 अनध्यवसित-अवगाहनम् अनल्प-धी-शक्तिना अप्य् 04286 अदृष्ट-परमार्थ-सारम् अधिक-अभियोगैर् अपि 04286 मतं मम जगत्य् अलब्ध-सदृश-प्रतिग्राहकम् 04286 प्रयास्यति पयोनिधेः पय इव स्व-देहे जराम्

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.