Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
भैषज्यवस्तु
- Thông tin
- GRETIL — N. Dutt. Gilgit Manuscript, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: Mūlasarvāstivādavinayavastu, part 1-4. Part 1: Bhaiṣajyavastu; dto.: second edition, Delhi 1984.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भरद्वाजेनापि पठता स्वाध्यायवता त्रीणि पिटकान्य् (ग्ब्म् 6.1070अ) अधीतानि / त्रिपिटः संवृत्तो धार्मकथिको युक्तम् उक्तप्रतिभानः / यावत् तेनान्यतमो गृहपतिर् अन्वावर्तितः / तेन तम् उद्दिश्य सर्वोपकरणसंपन्नो विहारः कारितः / ततस् तेन भ्रातुर् वसिष्ठस्य संदिष्टम्* / आगच्छ एकध्ये प्रतिवसामः / स श्रुत्वा आगतः / ततस् तेन गृहपतिना दृष्टः शान्तेर्यापथः कायप्रासादिकश् चित्तप्रासादिकश् च / स तं दृष्ट्वाभिप्रसन्नः / ततः प्रसादजातेन प्रणीतेनाहारेण संतर्प्य महार्हेण वस्त्रयुगेनाच्छादितः / ततो भरद्वाजस्य ईर्ष्या समुत्पन्ना / अहम् अस्य सर्वत्र पूर्वंगमो नाहम् अनेन कदाचिद् वस्त्रेणाच्छादितः / एष त्व् अचिराभ्यागत एष वस्त्रेणाच्छादित इति स भ्रातुर् वसिष्ठस्य रन्ध्रान्वेषी संवृत्तः / तेनासौ संलक्षितश् चिन्तयति / ईर्ष्याप्रकृतिर् इयम्* / यद्य् अस्मै एतद् वस्त्रयुगं न दास्यामि भूयस्या मात्रया अप्रसादं प्रवेदयिष्यतीति / तेन तस्मै दत्तम्* / तथाप्य् असौ रन्ध्रान्वेषणपरस् तिष्ठत्य् एव / यावत् तस्य गृहपतेः प्रेष्यदारिका तं विहारम् आगत्य् आगत्य कर्म करोति सा भरद्वाजेनोच्यते / दारिके अहं तवैतद् वस्त्रयुगम् अनुप्रयच्छामि / त्वया मम वचनं कर्तव्यम् इति / सा कथयति / आर्य किं मया करणीयम्* / त्वम् एतद् वस्त्रयुगं प्रावृत्य गृहे परिकर्म कुरु / यदि गृहपतिः पृच्छेत् कुतस् तवैतद् वस्त्रयुगम् इति / वक्तव्यः आर्य वसिष्ठेन मे दत्तम् इति / यदि पृच्छेत् किमर्थम् इति / (msv i 212) वक्तव्यः आर्य एतद् अपि प्रष्टव्यम्* / किमर्थं पुरुषाः स्त्रीणां प्रयच्छन्तीति / ततस् तया यथासंदिष्टं सर्वम् अनुष्ठितम्* / ततस् तेन गृहपतिना वसिष्ठस्यान्तिके अप्रसादः प्रवेदितः / असत्कारभीरवस् ते महात्मानः / स उत्थाय प्रक्रान्तः / किं मन्यध्वे भिक्षवः / यो ऽसौ भरद्वाजः अहम् एव स तेन कालेन तेन समयेन / यन् मयार्हन्न् असत्कृतो ऽभ्याख्यानेनाभ्याख्यातः ततस् तस्य कर्मणो विपाकेन बहूनि वर्षाणि पूर्ववन् नरकेषु पक्वः यावद् एतर्ह्य् अप्य् अहम् अभिसंबोधिः सुन्दरिकया प्रव्राजिकया अभूतेनाभ्याख्यातः /
किं भदन्त भगवता कर्म कृतम्* / यस्य कर्मणो विपाकेन चंचामाणविकयाभूतेनाभ्याख्यातः / भगवान् आह / तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतानि उपचितानि साधारणान्य् असाधारणानि च लब्धसंभाराणि / पूर्ववद् यावत् फलन्ति खलु देहिनाम्* / कतमानि साधारणानि /
भूतपूर्वं भिक्षवो वाराणस्याम् अन्यतमो ब्राह्मणो वेदवेदाङ्गपारगः पञ्चानां माणवकशतानां ब्राह्मणानां मन्त्रान् वाचयति वाराणसीनिवासिनो जनकायस्यातीव सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन् संमतः / यावद् अन्यतमः पंचाभिज्ञ ऋषिर् जनपदचारिकां चरन् वाराणसीम् अनुप्राप्तः / वाराणसीनिवासिना जनकायेन दृष्टः (fol. 218v1) प्रासादिकश् च / दृष्ट्वा च पुनः सर्वजनकायो ऽभिप्रसन्नः / यस्य यद् दातव्यं कर्तव्यं वा पारलौकिकं स तस्मै अनुप्रयच्छति / ततस् तस्य लाभसत्कारो ऽन्तर्हितः / तस्य ऋषेर् अन्तिके (ग्ब्म् 6.1070ब्) ईर्ष्याभिनिविष्टबुद्धिर् (msv i 213) माणवकान् आमन्त्रयते / माणवका अपि तु कामभोग्य् एष इति / ते ऽपि कथयन्ति / एवम् एतद् उपाध्याय कामभोग्य् एवैष नायम् ऋषिर् इति / ततः स रथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतिकुलेषु चारोचयन्ति / किन् तर्हि / कामभोगीति श्रुत्वा महाजनकायेन अप्रसादः प्रवेदितः / असत्कारभीरुर् असौ वाराणस्याः प्रक्रान्तः / किं मन्यध्वे भिक्षवो यो ऽसौ ब्राह्मणो ऽहम् स तेन कालेन तेन समयेन / यानि तानि पंचमाणवकशतानि एवैतानि पंचभिक्षुशतानि / यन् मयाभ्याख्यातस् तस्य कर्मणो विपाकेन पूर्ववद् यावन् नरकेषु पक्वः / तेनैव कर्मावशेषेण एतर्ह्य् अप्य् संबुद्धबोधिश् चंचामाणविकया अभूतेनाभ्याख्यातः सार्धं पंचभिर् भिक्षुशतैः / इदं साधारनं कर्म /
कतरद् असाधारणम्* / भूतपूर्वं भिक्षवो वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं चेति विस्तरेण / तेन खलु समयेन भद्रा नाम रूपाजीविनी प्रतिवसति / मृणालश् च नाम धूर्तपुरुषः / तेन तस्या वस्त्रालंकारम् अनुप्रेषितं परिचारणाय / सा तद् वस्त्रालंकारं प्रावृता / अन्यतमश् च पुरुष पंचकार्षापणशतान्य् आदाय उपस्थितः / कथयति / भद्रे आगच्छ परिचारयाव इति / सा संलक्षयति / यदि गमिष्यामि पंच कार्षापणशतानि न लप्स्ये / अदक्षिण्यं चैतत् गृहागतं प्रत्याख्याय अन्यत्र गमनम् इति / तया प्रेष्यदारिका उक्ता / गच्छ मृणालस्य कथय आर्या कथयति न तावद् अहं सज्जा पश्चाद् आगमिष्यामीति / तया (msv i 214) तस्मै गत्वा आरोचितम्* / सो ऽपि पुरुषो बहुकरणीयस् तां परिचार्य प्रथम एव यामे प्रक्रान्तः / सा संलक्षयति / महती वेला वर्तते / शक्ष्याम्य् अहं तस्यापि चित्तग्राहं कर्तुम् इति / तया पुनर् अप्य् असौ दारिकाभिहिता / गच्छ मृणालस्यारोचय / आर्या सज्जा संवृत्ता / कथय कतरद् उद्यानम् आगच्छत्व् इति / तया तस्मै गत्वा आरोचितम्* / स कथयति / क्षणेन तवार्या सज्जा क्षणेन न सज्जेति / सा दारिका तस्याः सान्तरा / तया समाख्यातम्* / आर्यपुत्र नासौ सज्जा / किन् तर्हि / त्वदीयेन वस्त्रालंकारेण अन्येन पुरुषेण सार्धं परिचारितम् इति / तस्य यत् कामरागपर्यवस्थानं तद् विगतम्* / व्यापादपर्यवस्थानं समुत्पन्नम्* / संजातामर्षः कथयति / दारिके भद्राया गत्वा कथय अमुकम् उद्यानं गच्छेति / तया गत्वा भद्राया आरोचितम्* / सा तद् उद्यानं गता / मृणालेन धूर्तकपुरुषेणोक्ता /
युक्तं नाम तव मदीयेन वस्त्रालंकारेण अन्येन पुरुषेण सार्धं परिचरितुम् इति / सा कथयति / आर्यपुत्र अस्ति एव ममापराधः / किन् तु नित्यापराधो मातृग्रामः क्षमस्वेति / ततस् तेन संजातामर्षेण (fol. 219r1) निष्कोषम् असिं कृत्वा जीविताद् व्यपरोपिता / ततस् तया प्रेष्यदारिकया महान् कोलाहलशब्दः कृतः / आर्या प्रघातिता आर्या प्रघातितेन श्रुत्वा महाजनकायः प्रधावितो (ग्ब्म् 6.1071अ) यावत् तस्मिन्न् उद्याने सुरुचिर् नाम प्रत्येकबुद्धो ध्यायति / ततो ऽसौ मृणालो धूर्तपुरुषः संत्रस्तो रुधिरम्रक्षितम् असिं सुरुचेः प्रत्येकबुद्धस्य पुरस्ताच् छोरयित्वा तस्यैव महाजनकायस्य मध्यं प्रविष्टः / महाजनकायश् च रुधिरम्रक्षितम् असिं दृष्ट्वा अनेन प्रव्रजितेन भद्रा (msv i 215) जीविताद् व्यपरोपिता / ततस् तं प्रत्येकबुद्धं संजातार्याः कथयन्ति / भोः प्रव्रजित ऋषिध्वजं धारयसि / ईदृशं नाम करोषीति / स कथयति / किं कृतम्* / ते कथयन्ति / भद्रया ते सार्धं परिचारितम्* / सा जीविताद् व्यपरोपितेति / स कथयति / शान्तं नाहम् अस्य कर्मणः कारीति / स शान्तवाद्य् अपि तेन महाजनकायेन पश्चाद्बाहुगाढबन्धनबद्धो राज्ञ उपनामितः / देवानेन प्रव्रजितेन भद्रया सार्धं परिचरितम्* / सा जीविताद् व्यपरोपितेति / अपरीक्षका हि राजानः / कथयति / यद्य् एवं गच्छत घातयत / परित्यक्तो ऽयं मया प्रव्रजित इति / ततो ऽसौ करवीरमालावसक्तकण्ठगुणो नीलाम्बरवसनैः पुरुषैर् उद्यतशस्त्रैः संपरिवारितो रथ्यावीथिचत्वरशृङ्गाटकेष्व् अनुश्राव्यमानो नगराद् उद्यानाभिमुखो नीयते /
ततो मृणालस्य धूर्तपुरुषस्य बुद्धिर् उत्पन्ना अयं तपस्वी प्रव्रजित अदूष्यनपकारी अभूतेनाभ्याख्यातः / सो ऽयम् इदानीं प्रघात्यते / न मम प्रतिरूपं स्यात्* / यद् अहम् अप्य् उपेक्षेय / इति विदित्वा परावृत्य राज्ञः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति / देव नायं प्रव्रजितो ऽस्य कर्मणः कारी मयैतत् पापकं कर्म कृतम्* / मुच्यताम् अयं प्रव्रजित इति / किं मन्यध्वे भिक्षवः / यो ऽसौ मृणालो नाम धूर्तः अहं स तेन कालेन तेन समयेन / यन् मया प्रत्येकबुद्धो ऽभूतेनाभ्याख्यातस् तस्याहं कर्मणो विपाकेन बहूनि वर्षाणि पूर्ववद् यावन् नरकेषु पक्वः / तेन च (msv i 216) कर्मावशेषेण चंचामाणविकया अभूतेनाख्यातः / इदम् असाधारणम्* /
किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन वैरंभेषु यवान् परिभुक्तवान् सार्धं भिक्षुद्वयोनैः पञ्चभिर् भिक्षुशतैर् आयुष्मन्* शारिपुत्रमौद्गल्यायनाभ्यां दिव्या सुधा परिभुक्तेति / भगवान् आह / तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतानि उपचितानि / पूर्ववद् यावत् फलन्ति खलु देहिनाम्* / यो ऽशीतिवर्षसहस्रायुषि प्रजायां विपश्यी नाम शास्ता लोक उत्पन्नः / पूर्ववद् यावद् बुद्धो भगवान्* / स जनपदचारिकां चरन् बन्धुमतीराजधानीम् अनुप्राप्तः / तस्यां बन्धुमत्याम् अन्यतमो ब्राह्मणः पण्चमाणवकशतानि ब्राह्मणानां मन्त्रान् वाचयति /
तेन विपश्यी सम्यक्संबुद्धः पञ्चशतपरिवारो दृष्टः / स माणवकान् (fol. 219v1) आमन्त्रयते / नार्हन्ति भवन्तो ऽमी मुण्डकाः श्रमणका दिव्यां सुधाम् अर्हन्ति तु कोटरयवान् परिभोक्तुम् इति / तैर् अभ्यनुमोदितम्* / एवम् एवैतद् उपाध्याय नार्हन्त्य् एवामी मुण्डकाः श्रमणका दिव्यां सुधां (ग्ब्म् 6.1071ब्) भोक्तुम् अर्हन्ति तु कोटरयवान् परिभोक्तुम् इति / तत्र द्वौ माणवकौ शुक्लौ / तौ कथयतः / उपाध्याय न शोभनम् उक्तम्* / अर्हन्त्य् एवामी महात्मानो दिव्यां सुधां परिभोक्तुम् इति / किं मन्यध्वे भिक्षवः / यो ऽसौ पञ्चशतपरिवारो ब्राह्मणः अहम् एव स तेन कालेन तेन समयेन / यन् मया विपश्यिनः सम्यक्संबुद्धस्य सश्रावकसंघस्यान्तिके खरं (msv i 217) वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन मया बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि कोटरयवाः परिभुक्ताः / तेनैव कर्मावशेषेणैतर्ह्य् अप्य् अभिसंबुद्धबोधिना वैरम्भेषु कोटरयवाः परिभुक्ताः सार्धं भिक्षुद्वयोनैः पंचभिक्षुशतैः / यौ तौ द्वौ माणवकौ एतौ शारिपुत्रमौद्गल्यायनौ भिक्षू /
किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन दुष्करं चरितम् इति / भगवान् आह तथागतेनैव तानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतानि उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /
bhūtapūrvaṃ bhikṣavo vaibhiḍiṃgyāṃ grāmanigame nandīpālo ghaṭīkāro 'bhūt* / nandīpālasūtraṃ vistareṇa yathā madhyamāgame rājasaṃyuktanikāye {cf. sbv ii 22ff.} / kiṃ manyadhve bhikṣavaḥ / yo 'sāv uttaro nāmo māṇavo 'ham eva sa tena kālena tena samayena / yan mayā pudgalo 'pavādo dattasya {ms: pudgalo 'vabodhito na boditas tasya /} karmaṇo vipākena bodhimūle ṣaḍvarṣaṃ duṣkaraṃ caritam* / yan mayā bodhir abodhitābhaviṣyat* punar api mayā (msv i 218) parāvṛtya trīṇi kalpāsaṃkhyeyāni bodhinimittam ātmā parikhedito 'bhaviṣyat* /
किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेनाभिसंबुद्धबोधिर् अपि भगवान् मन्दाग्निना व्याधिना स्पृष्ट इति / भगवान् आह तथागतेनैव तानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतानि उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /
भूतपुर्वं भिक्षवो ऽन्य्तमस्मिन् कर्वटके वैद्यो बभूव / ततो ऽन्यतमस्य गृहपतेः पुत्रः ग्लानः संवृत्तः / तेनासौ वैद्य आहूय पृष्टः / तेन तस्य भैषज्यं दत्तम्* / स स्वस्थः संवृत्तः / तेन गृहपतिना तस्याभिसारो न दत्तः / यावत् त्रिर् अप्य् असौ गृहपतिपुत्रो ग्लानः संवृत्तः यावत् त्रिर् अपि तेन स्वस्थीकृतः / न च तेन तस्याभिसारो दत्तः / ततः स वैद्यस् तीव्रेण पर्यवस्थानेनामर्षितः संलक्षयति / अस्य गृहपतिपुत्रस्य मया यावत् त्रिर् अपि चिकित्सा कृता / न चानेन किंचिद् अप्य् उपकृतम्* / इदानीं यदि भूयो ग्लान्यं पतति तादृशम् अस्य भैषज्यं ददामि येनास्यान्त्राणि खण्डखण्डं शीर्यन्ते इति / यावद् असौ गृहपतिपुत्रो दैवयोगात् पुनर् ग्लान्यं पतितः / तेन वैद्येन संजातामर्षेणा तादृशं तस्य भैषज्यं दत्तं येनान्त्राणि खण्ड ...
[folios 220-221 are missing in the ms]
(fol. 222r1; msv i 220) म् आदिशेद् अनुकंपाम् अनुपादायेति / भगवान् आह / समयेनाहं युष्माक नाम्ना दक्षिणाम् आदिशामि / यदि यूयम् अनेनैव वर्षेण दक्षिणादेशनाकाल उपसंक्रामतेति / ते (ग्ब्म् 6.1072अ) कथयन्ति / जिह्रीमः कथम् आगच्छाम इति / अथ भगवांस् तस्यां वेलायां गाथां भाषते /
अलज्जितव्ये लज्जिनो लज्जितव्ये अलज्जिनः / अभये भयदर्शिनो भये चाभयदर्शिनः / मिथ्यादृष्टिसमादानात् सत्वा गच्छन्ति दुर्गतिम्* //
अलज्जितव्ये ऽलज्जिनो लज्जितव्ये च लज्जिनः / अभये ऽभयदर्शिनो भये च भयदर्शिनः / सम्यग्दृष्टिसमादानात् सत्वा गच्छन्ति सद्गतिम्* // इति /
ते कथयन्ति / भगवन्न् अद्यैवागमिष्याम इति /
अथ नागरबिन्दवा ब्राह्मणगृहपतयस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं पूर्ववद् यावन् नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय / तानि च पञ्च प्रेतशतान्य् उपसंक्रान्तानि / ततो नागरबिन्दवा ब्राह्मणगृहपतयः प्रेतान् दृष्ट्वा निष्पलायितुम् आरब्धाः / भगवताभिहिताः / भवन्तः किमर्थं निष्पलायन्ति / ते कथयन्ति / भगवन् एते प्रेता आगच्छन्ति / भगवान् आह / आगच्छन्तु युष्माकम् एवैते ज्ञातयः / यदि यूयम् अनुजानीध्वे अहम् एषां नाम्ना दक्षिणाम् आदिशेयम् इति / ते कथयन्ति / भगवन्न् अनुजानीमहे {म्स्: -नीध्वम्*} / ततो भगवान् पञ्चाङ्गेन स्वरेण तेषां नाम्ना दक्षिणाम् आदेष्टुं प्रवृत्तः /
इतो दानाद् धि यद् पुण्यं तत् प्रेतानुपगच्छतु / व्युत्तिष्ठन्तां क्षिप्रम् इमे प्रेतलोकात् सुदारुणात्* // इति
ततो ऽ; भिनिवृत्तं तेषां चीवरं पानभोजनम्* / शयनं वापि विविधम् अक्षयं सार्वकालिकम्* //
ततो नागरबिन्दवान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः /
ततो नागरबिन्दवानां ब्राह्मणगृहपतीनां कुतूहलशालायां संनिषण्णानां संनिपतितानाम् अयम् एवंरूपो ऽभूद् अन्तसमुदाहारः / महेच्छो वत भवन्तः श्रमणो गौतमो महेच्छा वास्य श्रावका इति / अपरे कथयन्ति / अल्पेच्छो भवन्तः श्रमणो गौतमो अल्पेच्छा वास्य श्रावका न यथा तीर्थ्या इति / तेन खलु समयेन वैरट्टसिंहो नाम ब्राह्मणस् तस्याम् एव पर्षदि सन्निषण्णो ऽभूत् सन्निपतितः / अथ वैरट्टसिंहो ब्राह्मणो नागरबिन्दवान् ब्राह्मणगृहपतीन् इदम् अवोचत्* / अहं भवतां प्रत्यक्षीकरिष्यामि / अल्पेच्छो वा श्रमणो गौतमो महेच्छो वा अल्पेच्छा वास्य श्रावका महेच्छा वेति / अथ वैरट्टसिंहो ब्राह्मणो येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान् गौतमो गुडखादनिकया सार्धं भिक्षुसंघेनेति / अधिवासयति भगवान् वैरट्टसिंहस्य तूष्णींभावेन / अथ वैरट्टसिंहो ब्राह्मणो भगवतस् तूष्णींभावेन अधिवासनं विदित्वा भगवतो ऽन्तिकात् प्रक्रान्तः / तत्र भगवान् भिक्षून् आमन्त्रयते (fol. 222v1) स्म / अवतारप्रेक्षिणा भिक्षवो वैरट्टसिंहेन (msv i 222) ब्राह्मणेन बुद्धप्रमुखो भिक्षुसंघो गुडखादनिकया उपनिमन्त्रितः / तद् युष्माकं यो यावत् परिभुंक्ते तेन तावद् ग्रहीतव्यम् इति / (ग्ब्म् 6.1072ब्) वैरट्टसिंहब्राह्मणस्य पञ्चगुडस्थालीशतानि भवन्ति / स प्रत्येकं गुडशालाया गुडस्थालीं गृहीत्वा पंचगुडस्थालीशतान्य् आदाय येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवन्तम् इदम् अवोचत्* / निषीदतु भगवान् गौतमः सश्रावकसंघः / सज्जो गुडः / परिभुंक्ष्व /
atha bhagavān niṣpāditapāṇipātraḥ purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ / tato vairaṭṭasiṃho brāhmaṇaḥ ekāṃ guḍasthālīṃ gṛhītvā cārayitum ārabdhaḥ / yāvad bhagavatā tathādhiṣṭhitā yathā bhikṣusaṃghasya cāritā / avaśiṣṭā pūrṇāvasthitā / tato vairaṭṭasiṃho brāhmaṇo 'bhiprasannaḥ / tatas tena prasādajātena sāmantakena śabdo niścāritaḥ / alpeccho bhavantaḥ śramaṇo gautamaḥ / alpecchāś cāsya śrāvakā iti / tatas tena tīrthyā upanimantritāḥ / guḍaṃ paribhuktam* / tair amātrayā guḍo gṛhītaḥ / kaiścit khorakāṃ pūrayitvā tato gṛhītvā ca saṃprasthitam* / tato vairaṭṭasiṃhena brāhmaṇenābhihitāḥ / yūyam eva mohapuruṣā mahecchāḥ / śramaṇas tu gautamaḥ alpecchaḥ / alpecchā vāsya śrāvakāḥ / ity uktvā sa bhūyasyā mātrayā bhagavaty abhiprasanno yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavatā sārdhaṃ saṃmodanīṃ saṃraṃjanīṃ vividhāṃ kathāṃ vyatisāryaikānte nyaṣīdat* / atha vairaṭṭasiṃho brāhmaṇo yena bhagavāṃs tenāṃjaliṃ praṇamayya bhagavantam idam avocat* / labheyāhaṃ bhadanta svākhyāte dharmavinaye (msv i 223) pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ careyam ahaṃ bhagavato 'ntike brahmacaryam iti / tato bhagavatā ehibhikṣukayā ābhāṣitaḥ / ehi bhikṣo cara brahmacaryam iti / pūrvavad yāvan nopasthito buddhamanorathena / {ms: nopacchito; read nepa-; cf. nepacchitā -> pravr-v iii, fol.47r6}
तत्र भगवान् भिक्षून् आमन्त्रयते स्म / तस्माद् अनुजानामि कालेन वाकलेन वा ग्लानेन वाग्लानेन वा गुडः परिभोक्तव्यः / नात्र कौकृत्यं करणीयम् इति /
आयुष्मान् वैरट्टसिंहः कुणपदौर्गन्ध्येन चित्तैकाग्रतां नारागयति / भगवान् संलक्षयति / वैरट्टसिंहो भिक्षुश् चरमभविकः किमर्थं सत्यानि न पश्यतीति / संलक्षयति / कुणपदौर्गन्ध्यविहारम्* / पूर्ववद् यावत्* / तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म / गच्छानन्द वैरट्टसिंहस्य भिक्षोर् विहारं गन्धैर् माल्यैर् धूपैश् चूर्णैः संस्कुरु / शयनासनं च धूपय / सुरभिकुसुमोपचितं च पुष्पवितानं वितन्व् इति / एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य यावद् असौ पिण्डपातं गतस् तावत् तस्य विहारं गत्वा भगवतोपदिष्टेन विधिना सर्वम् अनुष्ठितवान्* /
अथायुष्मान् वैरट्टसिंहः पिण्डपातम् अटित्वा विहारम् आगतः / पश्यति दिव्यां विभूतिम्* / ततः प्रीतमनाः पिण्डपातं परिभुज्य कृतभक्तकृत्यो बहिर् विहारस्य पादौ प्रक्षाल्य विहारं प्राविशत्* / प्रविश्य निषण्णः पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य (fol. 223r1) तस्य सुगन्धं घ्रात्वा चित्तसमाधानम् उत्पन्नम्* / ततस् तेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* / पूर्ववद् यावद् अभिवाद्यश् च (msv i 224) संवृत्तः / तत्र भगवान् भिक्षून् आमन्त्रयते स्म / एषो ऽग्रो मे (ग्ब्म् 6.1073अ) भिक्षवो भिक्षूणां मम श्रावकाणां शुभाधिमुक्तानां यदुत वैरट्टसिंहो भिक्षुः / भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / पश्य भदन्त अन्ये भिक्षवः शुभयाधिमुक्ताः / आयुष्मांस् तु वैरट्टसिंहः शुभयाधिमुक्त इति / भगवान् आह /
एष भिक्षवः पंच जन्मशतानि निरन्तरं त्रयस्त्रिंशेभ्यो देवेभ्यश् च्युत्वा तेष्व् एवोपपन्नः / इदानीं चरमे भवे मनुष्येषूपपन्नः / कुणपगन्धं घ्रात्वा चित्तैकाग्रतां नासादितवान्* / सुगन्धं तु घ्रात्वा चित्तसमाधानं प्रतिलभ्य शुभयाधिमुक्तः / यद्य् अस्यायम् उपचारो न कृतो ऽभविष्यद् ऊष्मगतम् अप्य् अनेन नोत्पादितम् अभविष्यद् इति / तस्माद् अनुजानामि यो ऽप्य् अन्य एवं शुभाधिमुक्तस् तस्याप्य् एवंरूपानुपूर्वी कर्तव्या / नात्र कौकृत्यं करणीयम्* /
अथ भगवान् वृजिषु जनपदेषु चारिकां चरन् वैशालीम् अनुप्राप्तो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्* / अश्रौषुर् वैशालका ब्राह्मणगृहपतयो भगवान् वृजिषु जनपदेषु चारिकां चरन् वैशालीम् अनुप्राप्तो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम् इति / श्रुत्वा च पुनर् एकध्ये सन्निपत्य कथयति / भवन्तः श्रूयते भगवान् वृजिषु जनपदेषु चारिकां चरन् वैशालीम् अनुप्राप्तो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम् इति / यद्य् अस्माकम् एकैको भगवन्तम् उपनिमन्त्र्य भोजयिष्यति भगवान् विप्रक्रमिष्यति / अन्ये ऽवकाशं न लप्स्यन्ते / (msv i 225) तत् क्रियाकारं व्यवस्थापयामो यथा गण एव सम्भूय भगवन्तं भोजयति न त्व् एकपुरुष इति / ते क्रियाकारं कृत्वा व्यवस्थिताः /
तेन खलु समयेन वैशाल्यां चत्वारो महापुण्याः प्रतिवसन्ति / धनिको धनिकपत्नी धनिकपुत्रो धनिकस्नुषा च / तेषां दिव्यमानुष्यश्रीर् गृहे प्रादुर्भूता / तैर् असौ क्रियाकारो न श्रुतः / अश्रौषीद् धनिको गृहपतिर् भगवान् वृजिषु जनपदेषु चारिकां चरन् वैशालीम् अनुप्राप्तो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम् इति / श्रुत्वा च पुनर् वैशाल्या निष्क्रम्य येन भगवांस् तेनोपसंक्रान्तः / पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* / अथ धनिको गृहपतिर् उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु भगवान् मे श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / अधिवासयति भगवान् धनिकस्य गृहे तूष्णींभावेन / अथ धनिको गृहपतिर् भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः /
अथ वैशालका ब्राह्मणगृहपतयो येन भगवांस् तेनोपसंक्रान्ताः / पूर्ववद् यावद् अधिवासयतु अस्माकं भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / भगवान् आह / निमन्त्रितो ऽस्मि वासिष्ठास् (fol. 223v1) तत्प्रथमतरं धनिकेन गृहपतिनेति / ते कथयन्ति / भवन्तो धनिकेन गृहपतिना गणस्य क्रियाकारो ऽतिक्रान्त इत्य् अपरे कथयन्ति / (msv i 226) किम् असौ व्यतिक्रमिष्यति / न तेन क्रियाकारः श्रुतः / (ग्ब्म् 6.1073ब्) पुरुषः श्वो भोजयतु / वयं परश्वो भोजयिष्याम इति /
अथायुष्मान् आनन्दः काल्यम् एवोत्थाय पात्रचीवरम् आदाय येन धनिकस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः / उपसंक्रम्य पूर्वेण नगरद्वारेण प्रविष्टः / यावत् पश्यति नासनप्रज्ञप्तिं न भक्तं सज्जीकृतम्* / ततो धनिकं गृहपतिम् इदम् अवोचत्* / गृहपते त्वं बुद्धप्रमुखं भिक्षुसंघम् उपनिमन्त्र्याल्पोत्सुकः स्थित इति / स कथयति / किम् आर्यानन्दैव कथयसि गृहपते नासनप्रज्ञप्तिं पश्यामि नाप्य् आहारं सज्जीकृतम्* / आर्य कतरेण त्वं द्वारेण प्रविष्टः / गृहपते पूर्वेण नगरद्वारेण / आर्य दक्षिणेन प्रविश / स दक्षिणेन प्रविष्टो यावत् पश्यति दिव्याम् आसनप्रज्ञप्तिं कृतां दिव्यं चाहारम् उपन्वाहृतम्* / दृष्ट्वा च पुनः परं विस्मयम् आपन्नः / अथ धनिको गृहपतिर् भगवतो दूतेन कालम् आरोचयति / समयो भदन्त सज्जं भक्तम्* / अपीदानीं पूर्ववद् भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय /
अथ धनिकपत्नी उत्थायासनाद् येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / अधिवासयति भगवान् धनिकपत्न्या तूष्णींभावेन / अधिवास्य च धनिकस्य गृहपतेर् धर्मदेशनां कृत्वोत्थायासनात् प्रक्रान्तः / धनिकपत्न्यापि (msv i 227) भोजनं सज्जीकृतम्* / अथायुष्मान् आनन्दः काल्यम् एवोत्थाय पात्रचीवरम् आदाय येन धनिकस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः / उपसंक्रम्य दक्षिणेन द्वारेण प्रविष्टः / नासनप्रज्ञप्तिं पश्यति नाप्य् आहारं सज्जीकृतम्* / दृष्ट्वा च पुनर् धनिकपत्नीम् इदम् अवोचत्* / गृहपतिपत्नि बुद्धप्रमुखं भिक्षुसंघम् उपनिमन्त्र्य किमर्थम् इत्य् अल्पोत्सुका तिष्ठसीति नासनप्रज्ञप्तिं नाप्य् आहारं सज्जीकृतम्* / आर्य कतरेण त्वं द्वारेण प्रविष्टः / दक्षिणेन / आर्य पूर्वेण द्वारेण प्रविश / स पूर्वेण प्रविष्टः / यावत् पश्यति शोभनाम् आसनप्रज्ञप्तिं प्रणीतं चाहारम् उपन्वाहृतम्* / दृष्ट्वा च पुनः परं विस्मयम् आपन्नः / ततो धनिकपत्नी भगवतो दूतेन कालम् आरोचयति / समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति / पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा पुरस्तान् निषण्णो धर्मश्रवणाय /
अथ धनिकपुत्रः उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / अधिवासयति भगवान् धनिकपुत्रस्य तूष्णींभावेन / अथ भगवान् धनिकपत्न्या धर्मदेशनां कृत्वा प्रक्रान्तः / धनिकपुत्रेणापि शुचिना प्रणीतं खादनियभोजनीयं समुदानीतम्* / अथायुष्मान् आनन्दः काल्यम् एवोत्थाय (fol. 224r1) पात्रचीवरम् आदाय येन धनिकस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः / उपसंक्रम्य दक्षिणेन द्वारेण प्रविष्टः / नासनप्रज्ञप्तिं पश्यति नाप्य् आहारं सज्जीकृतम्* / दृष्ट्वा (msv i 228) च पुनर् (ग्ब्म् 6.1074अ) धनिकपुत्रम् इदम् अवोचत्* / गृहपतिपुत्र त्वं बुद्धप्रमुखं भिक्षुसंघम् उपनिमन्त्र्य किम् अल्पोत्सुकस् तिष्ठसीति / स कथयति / आर्य किम् एव कथयसि / न पश्याम्य् आसनप्रज्ञप्तिं नाप्य् आहारं सज्जीकृतम्* / आर्य कतरेण त्वं द्वारेण प्रविष्टः / दक्षिणेन / आर्य पश्चिमेन प्रविश / यावद् असौ प्रविष्टः / यावत् पश्यति शोभनाम् आसनप्रज्ञप्तिं प्रणीतं चाहारम् उपन्वाहृतम्* / दृष्ट्वा च पुनः परं विस्मयम् आपन्नः / ततो धनिकपुत्रो भगवतो दूतेन कालम् आरोचयति / समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय /
अथ धनिकस्नुषा उत्थायासनाद् येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / अधिवासयति भगवान् / धनिकपुत्रस्य धर्मदेशनां कृत्वा प्रक्रान्तः /
अथ वैशालका ब्राह्मणगृहपतयो येन भगवांस् तेनोपसंक्रान्ताः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्तनिषण्णान् वैशालकान् ब्राह्मणगृहपतीन् धर्म्यया कथया यावत् समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* / अथ वैशालका ब्राह्मणगृहपतयः उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् इदम् अवोचन्* / अधिवासयतु भगवान् त्व् अस्माकं श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / भगवान् आह / निमिन्त्रितो ऽस्मि वासिष्ठास् तत्प्रथमतरं धनिकस्नुषयेति / ततो वैशालिका (msv i 229) ब्राह्मणगृहपतयः क्षुब्धाः कथयन्ति / भवन्तः किं धनिकस्यैकस्य धनम् अस्ति येन बुद्धप्रमुखं भिक्षुसंघं प्रतिदिनं भोजयति वयम् अवकाशं न लभामहे / कथम् अत्र प्रतिपत्तव्यम् इति / अपरे कथयन्ति / यदा बुद्धप्रमुखो भिक्षुसंघो भुक्त्वा प्रक्रामति तदास्य गृहाद् एकैकां शिलाम् उद्वेष्टयाम इति /
अथायुष्मान् आनन्दः काल्यम् एवोत्थाय पात्रचीवरम् आदाय येन गृहपतेर् निवेशनं तेनोपसंक्रान्तः / उपसंक्रम्य पश्चिमेन द्वारेण प्रविष्टः / पश्यति नासनप्रज्ञप्तिं नाप्य् आहारं उपन्वाहृतम्* / दृष्ट्वा च पुनर् धनिकस्नुषाम् इदम् अवोचत्* / धनिकस्नुषे बुद्धप्रमुखं भिक्षुसंघम् उपनिमन्त्र्य किम् त्वम् अल्पोत्सुका तिष्ठसीति / सा कथयति / मैव कथयसि / न पश्याम्य् आसनप्रज्ञप्तिं नाप्य् आहारं सज्जीकृतम्* / आर्य कतरेण त्वं द्वारेण प्रविष्टः / पश्चिमेन / आर्य उत्तरेण प्रविश / स उत्तरेण द्वारेण प्रविष्टः / यावत् पश्यति दिव्याम् आसनप्रज्ञप्तिं कृतां दिव्यं चाहारम् उपन्वाहृतम्* / दृष्ट्वा च पुनः परं विस्मयम् आपन्नः / ततो धनिकस्नुषा भगवतो दूतेन कालम् आरोचयति / (fol. 224v1) समयो भदन्त सज्जं भक्तम्* / यस्येदानीं पूर्ववद् यावद् पुरस्ताद् भिक्षुसंघय प्रज्ञप्त एवासने निषण्णः /
अथ वैशालका ब्राह्मणगृहपतयः सर्वे संभूय धनिकस्य गृहद्वारे स्थिताः / (ग्ब्म् 6.1074ब्) धनिकं गृहपतिम् इदम् अवोचन्* / गृहपते वैशालको गणः क्षुण्णो द्वारे तिष्ठति / गच्छ क्षमयैनम्* / मा ते अनर्थं करिष्यतीति / (msv i 230) स निर्गत्य क्षमायितुम् आरब्धः / ते कथयन्ति / गृहपते किं तवैवैकस्य धनम् अस्ति येन त्वं प्रतिदिवसं बुद्धप्रमुखं भिक्षुसंघं भोजयसि वयम् अवकाशं न लभामहे इति / स कथयति / भवन्तो न मया गणस्य क्रियाकारः श्रुतः / तद् अर्हति गणः क्षन्तुम् इति / अपरे कथयन्ति / भवन्तः प्रधानपुरुषो ऽयं क्षम्यताम् अस्येति / तैः क्षान्तम्* / स कथयति / यद्य् एवं प्रविशत / ते गृहं प्रविष्टाः / पश्यन्ति शोभनाम् आसनप्रज्ञप्तिं कृतां प्रणीतं चाहारं समन्वाहृतम्* / दृष्ट्वा च पुनः परं विस्मयम् आपन्नाः कथयन्ति / गृहपते त्वम् एवैको ऽर्हसि बुद्धप्रमुखं भिक्षुसंघं भोजयितुं न वयम् इति / स तेषां रत्नान् अनुप्रयच्छति / ते न प्रतिगृह्णन्ति / भगवताभिहिताः / प्रतिगृह्णीध्वं दुर्लभान्य् एतानि रत्नानीति / तैर् गृहीतानि / येन च यादृशं गृहीतं तस्य तादृशम् एव वर्णावभासः संवृत्तः / ततो धनिकस्नुषा सुखनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय /
ततो भगवता धनिकस्य धनिकपत्न्या धनिकपुत्रस्य धनिकस्नुषायाश् चाशयानुशयं धातुं प्रकृतिं च विदित्वा चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता / यां श्रुत्वा धनिकेन धनिकपत्न्या धनिकपुत्रेण धनिकस्नुषया च विंशतिशिखरं समुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* / (msv i 231) ते दृष्टसत्यास् त्रिर् उदानम् उदानयन्ति पूर्ववद् यावत्* / अभिक्रान्ता वयं भगवन्तं शरणं गच्छामो धर्मं च भिक्षुसंघं च / उपासकांश् चास्मान् धारयन्तु यावज्जीवं प्राणोपेतं शरणगतम् अभिप्रसन्नाः / अथ भगवान् धनिकं धनिकपत्नीं धनिकपुत्रं धनिकस्नुषां च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः /
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त धनिकेन धनिकपत्न्या धनिकपुत्रेण धनिकस्नुषया च कर्म कृतं यस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जाता दिव्यमानुषीं च श्रियं प्रत्यनुभवन्ति / भगवतश् चान्तिके सत्यदर्शनं कृतम् इति / भगवान् आह / एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि / पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /
bhūtapurvaṃ bhikṣavo vārāṇasyām anyatamo mālākāraḥ (fol. 225r1 = gbm 6.1059; msv,wi 108) prativasati tena sadṛśāt kulāt kalataram ānītaṃ sa tayā sārdhaṃ krīḍati ramate paricārayati / tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ tenāpy asau sadṛśāt kulāt pariṇītaḥ so (gbm 6.1075a) 'pareṇa samayena daridraḥ saṃvṛttaḥ paramadaridras tena saputrakalatrasnuṣeṇa / mahatā yatnenaikaḥ paṭaḥ saṃpāditas tatas taṃ prāvṛtya mālākāro rājñe puṣpāṇy upanāmayati | tam eva prāvṛtya mālākārapatnī antaḥpurāyopanayati mālākāraputro 'pi tam eva prāvṛtya kumārāṇāṃ upanayati / mālākārasnuṣāpi tam eva prāvṛtya rājñaḥ snuṣāṇāṃ puṣpāṇy upanayati /
asati buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya / yāvad anyatamaḥ pratyekabuddho janapadacārikāṃ caraṃ sūryasyāstaṃgamanakālasamaye vārāṇasīm anuprāptaḥ / tasya ca mālākārasya (msv,wi 109) nagarasaṃpraveśe gṛhaṃ tasya ca vāṭikāyāṃ rātriṃ vāsam upagatas tejodhātuṃ samāpannaḥ tatas tena mālākāreṇa dṛṣṭo 'gniskandha iva jvalaṃ tena prasādajātena patnyāḥ samākhyātaṃ sābhiprasannā tayā putrasya so 'bhiprasannas tenāpi snuṣāyā ākhyātaṃ sābhiprasannā tatas te saṃjalpaṃ kartum ārabdhāḥ alam asmākaṃ śvo bhaktena ayaṃ pravrajitaḥ śāntātmā saṃbhūyainaṃ bhojayāma iti / tataḥ prabhātāyāṃ rajanyāṃ tair asau piṇḍakena pratipāditaḥ mālākāraḥ kathayati bhadre yo mama paṭapratyaṃśas tam asmai pravrajitāya pratipādayāmi .. sā kathayaty āryaputra mayā dattaḥ putraḥ kathayati mayā dattaḥ snuṣā kathayati mayāpi datta iti | tatas tair asau saṃbhūya paṭenācchāditaḥ kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī | tataḥ sa mahātmā teṣām anukampayā uparivihāyasam abhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartum ārabdhaḥ āśu pṛthagjanasya riddhir āvarjanakarī te śastranikṛttā {mūlanikṛttā} iva drumāḥ pādayor nipatya praṇidhānaṃ kartum ārabdhāḥ yad asmābhir evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛto 'nena vayaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyema divyamānuṣī asmākaṃ gṛhe śrīḥ prādurbhaved evaṃvidhānāṃ ca dharmāṇāṃ lābhinaḥ syāma /
prativiśiṣṭataraṃ cātaḥ śāstāram ārāgayemo mā virāgayema iti | tataḥ pratyekabuddhas teṣāṃ anukampayā riddhiṃ kṛtvā rājakulasyopariṣṭhāt saṃprasthitaḥ / tasya gacchato chāyā (msv,wi 110) rājña upari patitā sa ūrdhvamukho nirīkṣitum ārabdhaḥ paśyati taṃ mahātmānaṃ sa saṃlakṣayati kasyāpy anena mahātmanā dāridramūlāni samuddhṛtāni | tasya mālākārasya yaḥ kālo rājñe puṣpāṇy upanāmayituṃ so 'tikrāntaḥ / rājāpi puṣpāṇi pratīkṣamāṇas tiṣṭhati / tato mālākāro rājapuruṣair āhūtaḥ sa rājñābhihitaḥ kimarthaṃ tavādya puṣpavelātikrānteti / tena vistareṇa yathābhūtam ākhyātaṃ / tato rājñā yathāprāvṛtenācchāditaḥ evaṃ mālākārapatnī (fol. 225v1) antaḥpureṇa yathāprāvṛtenācchāditā mālākāraputro kumārair (gbm 6.1060) mālākārasnuṣā rājavadhūbhis tasya dṛṣṭa eva dharme dhanaḥ puṣpair abhinirvṛttaḥ adaridraḥ saṃvṛttaḥ kiṃ manyadhve bhikṣavo yo 'sau (gbm 6.1075b) mālākāra evāsau dhanikas tena kālena tena samayena mālākārapatnī dhanikapatnī mālākāraputro dhanikaputro mālākārasnuṣā dhanikasnuṣā yad ebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātā divyamānuṣi śrīḥ gṛhe prādurbhūtā mama cāntike satyāni dṛṣṭāni / ahaṃ caibhiḥ pratyekabuddhakoṭīśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgita iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāṃ pūrvavad yāvad ābhogaḥ karaṇīya ity evaṃ vo bhikṣavaḥ śikṣitavyam*
अथ वैशालका ब्राह्मणगृहपतयो भूयस्या मात्रयाभिप्रसन्ना उत्थायासनाद् येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् इदम् अवोचन्* अधिवासयत्व् अस्माकं भगवांस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेत्य् अधिवासयति भगवां वैशालकानां ब्राह्मणगृहपतीनां तूष्णींभावेन / अथ वैशालका ब्राह्मणगृहपतयो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः / अथ वैशालका ब्राह्मणगृहपतयस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय / अथ भगवान् वैशालकान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः / एवं द्वौ त्रयो वा दिवसा अतिक्रान्तः वैशालका ब्राह्मणगृहपतयो विस्तीर्णपरिवाराः सकृच्छ्रश् च कालो वर्तते । ते तेषां ज्ञातयो भोजनम् इति कृत्वा प्रत्यहम् उपसंक्रामन्ति तैर् उपद्रूयमाणा भिक्षूणां कथयन्ति आर्याः सकृच्छ्रः कालो वर्तते ऽस्माकं ज्ञातय आकांक्षमाणा उपसंक्रामन्ति तेषां वयं प्रत्यहम् अनुप्रयच्छामो न च शक्नुमो युष्माकं तेषां च संपादयितुम्* अहो वतार्यकाः प्रतिजागृयुर् वयम् उपकरणानि प्रयच्छाम इति भिक्षवः कथयन्ति / भगवन्तम् अवलोकयाम इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह //
तस्माद् अनुजानामि भिक्षुभिः प्रतिजागर्तव्यम् इति । उक्तं भगवता भिक्षुभिर् भक्तं प्रतिजागर्तव्यम् इति । ते प्रतिजागर्तुम् आरब्धाः / यावद् अभ्यवकाशे प्रतिजाग्रति पेया च साध्यते देवश् च वृष्टः सा च नष्टा । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह / नाभ्यवकाशे साधयितव्यम्* द्वारकोष्ठके प्रासादे साधयन्ति । भगवान् आह / न द्वारकोष्ठके न प्रासादे / तस्मात् तर्हि भिक्षवो दशेमान्य् अकल्पिकानि कल्पिकशालावस्तूनि येषु भक्तं न प्रतिजागर्तव्यं कतमानि दश (msv i 234.6) अभ्यवकाशद्वारकोष्ठकप्रासादाग्निशालायन्त्रधरराजाङ्गनदेवस्थानगृहपतिकुटिभिक्षुणीशाला / एतानि (fol. 226r1) शालावस्तूनि येषु भक्तं न प्रतिजागर्तव्यं / प्रतिजाग्रति सातिशरा भवन्ति /
उद्दानम्* / ....
श्रावस्त्यां निदानम्* / अथान्यतमस्य भिक्षोर् ग्लान्यम् उत्पन्नम्* / स वैद्यसकाशम् उपसंक्रान्तः कथयति / भद्रमुख भैषज्यं व्यपदिश / तेन रोगनिदानं पृष्ट्वा अभिहितः / आर्य पेयां पिब स्वस्थो भविष्यसीति / स कथयति / भद्रमुख भगवता नानुज्ञातम्* / वैद्यः कथयति / आर्य कारुणिको वः शास्ता स्थानम् एतद् विद्यते यद् अनुज्ञास्यति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / यदि वैद्यः कथयति पेयां पिबेति / नात्र कौकृत्यं करणीयम्* /
भगवान् आह / वैद्योपदेशेन पेया पातव्व्येति / तस्योपस्थापकेन शीतला पेया दत्ता / स वैद्यसकाशं गत्वा कथयति / भद्रमुख किं तया पेयया नाहं स्वस्थः / वैद्यः कथयति / आर्य किं त्वया पेया न पीता / स कथयति / पिता / किम् उष्णा / शीतलैव / (msv i 235) आर्य न शोभनं कृतम्* / उष्णीकृत्य पातव्या / भिक्षवो न जानते कुत्र उष्णीकर्तव्या / भगवान् आह / तस्मात् तर्हि भिक्षवः कल्पिकशाला संमन्तव्या / भिक्षवो न जानते कीदृग् इति / भगवान् आह / पंच कल्पिकशाला भवन्ति / आरम्भ्यमाणान्तिका उच्छ्रीयमाणान्तिका गोनिषादिका उद्भूतवस्तुका संमतिका च /
तत्र आरम्भ्यमाणान्तिका कतमा / तद्यथा नवकर्मिको भिक्षुर् यत्र प्रथमतः स्थित्वा संघस्य कल्पिकस्थानम् इति कृत्वा वाचयति इदं कल्पिकस्थानम् इति / इदम् आरम्भ्यमाणान्तिका उच्यते / तत्र उच्छ्रीयमाणान्तिका कतमा / यथापि तन् नवकर्मिको भिक्षुः शिलायाम् उच्छ्रीयमाणायां तत्प्रथमतः शिलायां न्यस्यमानायां सामन्तकान् भिक्षून् आमन्त्रयते / अवधारयन्तु आयुष्मन्तः इदं संघस्य कल्पिकस्थानम्* / इदम् एवोच्छ्रीयमाणान्तिकोच्यते / तत्र गोनिषादिका कतमा / यत्र द्वारान्तस् तद् गोनिषादिकेति / तत्र उद्भूतवस्तुका कतमा / प्रहीणवस्तुका इयम् उच्यते / संमतिका कतमा / यद् द्वाभ्यां संमतं यत् संमतिकेति / भिक्षवो न जानते कथं संमन्तव्यम् इति / भगवान् आह / यत् स्थानम् अधिष्ठितम् अन्तःसीमं बहिर्व्यामपरिवारम् (fol. 226v1) अभिमतं संघस्य तत् संमन्तव्यम्* / एवं च पुनः संमन्तव्यम्* / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म करणीयम्* / शृणोतु भदन्तः (msv i 236) संघः / इदं सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामपरिवारं संघस्य कल्पिकशालां संमन्तु / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः एतत् कल्पिकस्थानं संमन्यते इत्य् एषा ज्ञप्तिः / एवं च कर्म कर्तव्यम्* / शृणोतु भदन्तः संघः / इदं वस्तु सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामपरिवारं संघः कल्पिकस्थानं संमन्यते / येनायुष्मतां क्षमन्ते इदं वस्तु कल्पिकस्थानं संमन्तुं ते तूष्णीम्* / न क्षमन्ते भाषन्ताम्* / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवैतद् धारयामि /
बुद्धो भगवान् वैशाल्यां विहरति मर्कटह्रदतीरे / वैशाल्यां सिंहः सेनापतिः प्रतिवसति / स ज्ञातिभिर् आहृतं मांसं परिभुंक्ते / यदा भगवतो ऽन्तिकात् सत्यानि दृष्टानि तदा न परिभुंक्ते / आहृतानि तु भिक्षूणां प्रयच्छति / भिक्षवस् तत् परिभुंजते / तीर्थिका अवध्यायन्ति क्षिपन्ति विवाचयन्ति / आयुष्मन्तः सिंहेन सेनापतिना उद्दिश्य कृतं मांसम् आहृतम्* / तत् श्रमणशाक्यपुत्रीयाणाम् अनुप्रयच्छति / श्रमणशाक्यपुत्रीयैः उद्दिश्य कृतं मांसं परिभुक्तम् इति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / त्रीणि चाकल्पिकानि मांसानि न परिभोक्तव्यानीति वदामि / कतमानि त्रीणि / माम् उद्दिश्य कृतम् इति संमुखं दृष्टम् अकल्पिकं मांसं न परिभोक्तव्यम् इति वदामि / श्रुतम् त्वाम् (fol. 227r1) उद्दिश्य कृतम् इति अकल्पिकं मांसं न परिभोक्तव्यम् इति वदामि / स्वयम् एवम् आकारपरिवितर्क उत्पन्नो भवति / माम् उद्दिश्य कृतम् इति संचिन्त्य अकल्पिकं मांसं न परिभोक्तव्यम् (msv i 237) इति वदामि / भिक्षवस् त्रीणि कल्पिकानि मांसानि परिभोक्तव्यानीति वदामि / कतमानि त्रीणि / माम् उद्दिश्य कृतम् इति संमुखम् अदृष्टं कल्पिकमांसं परिभोक्तव्यम् इति वदामि / अश्रुतं त्वाम् उद्दिश्य कृतम् इति कल्पिकमांसं परिभोक्तयम् इति वदामि / न स्वयम् एव पूर्ववद् यावत् कल्पिकं मांसं परिभोक्तव्यम् इति वदामि /
श्रावस्त्याम् निदानम्* / सकृच्छ्रः कालो वर्तते / भिक्षवः पार्श्वं दत्वा तिष्ठन्ति / ते ब्राह्मणगृहपतयः कथयन्ति / आर्या एकान्तघटके शासने किमर्थं पार्श्वं दत्वा तिष्ठथ न कुशलपक्षं प्रतिजागृथेति / ते कथयन्ति / सकृच्छ्रः कालो वर्तते पर्याप्तं पिण्डकं नासादयामः / वयं क्षुधार्ता दुर्बला जाताः / अतः पार्श्वं दत्वा स्थिताः / ते कथयन्ति / कस्मान् न प्रतिजागृथ इति / नानुज्ञातं भगवता / कारुणिको वः शास्ता स्थानम् एतद् विद्यते यद् अनुज्ञास्यति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्मात् तर्हि भिक्षवो ऽनुजानामि / एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे भिक्षवः प्रतिजागर्तव्यम्* / नात्र कौकृत्यं करणीयम्* /
श्रावस्त्याम् निदानम्* / सकृच्छ्रः कालो वर्तते / भिक्षवः श्राद्धैर् ब्राह्मणगृहपतिभिर् उच्यन्ते / आर्या इहैव भक्तकृत्यं कुरुतेति / ते भक्तकृत्यं कृत्वा पूर्वलब्धं गृहीत्वा विहारं गच्छन्ति दुर्भिक्षकाले भुंजिष्याम इति कृत्वा किन् तु कौकृत्यान् न परिभुंजते / एतत् प्रकरणम् भिक्षवो भगवत आरोचयन्ति / भगवान् आह / (msv i 238) तस्माद् अनुजानामि एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे आकांक्षता प्राग्गृहीतम् इति कृत्वा प्राग्गृहीतं परिभोक्तव्यम्* / नात्र कौकृत्यं करणीयम्* /
श्रावस्त्यां निदानम्* / सकृच्छ्रः कालो वर्तते / श्राद्धा ब्राह्मणगृहपतयो भिक्षून् उपनिमन्त्र्य अन्तर्गृहे भोजयन्ति / तेषां तु भक्तानां खाद्यकान्य् अवशिष्यन्ते / ब्राह्मणगृहपतयः कथयन्ति / आर्या युष्माकं कृते अधिष्ठितं भक्तम् अवशिष्यते / एतत् प्रगृह्यताम्* / ते तद् गृहीत्वा गच्छन्ति / गतास् तम् अपि आकांक्षन्ति परिभोक्तुम्* / कौकृत्यान् न परिभुंजते / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्माद् अनुजानामि एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे एवंविधं दानम् इति कृत्वा परिभोक्तव्यम्* / नात्र कौकृत्यं करणीयम्* /
श्रावस्त्यां निदानम्* / सकृच्छ्रः कालो वर्तते / श्राद्धा ब्राह्मणगृहपतयो भिक्षून् उपनिमन्त्र्य भोजयन्ति / तेषां भुक्तवतां खाद्यकानि किंचिद् अवशिष्यन्ते / भिक्षवः प्रक्रान्ताः / ब्राह्मणगृहपतयः कथयन्ति / आर्याः सद्य एव प्रक्रान्ताः / खाद्यकान्य् अवशिष्यन्ते / दुर्लभान्य् एतानि / गृहीत्वा गच्छ / तैर् नीतम्* / भिक्षवस् तद् अपि आकांक्षन्ति परिभोक्तुम्* / कौकृत्यान् न परिभुंजते / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्माद् अनुजानामि एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे प्राग्दत्तम् इति कृत्वा परिभोक्तव्यम्* / नात्र कौकृत्यं करणीयम्* /
श्रावस्त्याम् निदानम्* / श्राद्धानां ब्राह्मणगृहपतीनाम् औत्तरापथिकानि वनास्तिकानि फलानि संपद्यन्ते / ते संलक्षयन्ति / दुर्लभान्य् एतानि आर्याणां दातव्यानि / भिक्षूणां परिग्रहार्थं दत्तानि / भिक्षवः प्रतिग्रहीतव्यम् इति कृत्वा (fol. 227v1) कौकृत्यान् न परिभुंजते / श्राद्धा ब्राह्मणगृहपतयः कथयन्ति / आर्य यदा भगवान् लोके नोत्पन्नस् तदा तीर्थ्या दक्षिणीयाः / इदानीं तु भगवान् लोके उत्पन्न इदानीं भवन्तो दक्षिणीयाः / तस्माद् अनुकम्पया गृह्णीतेति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्माद् अनुजानामीति / दुर्लभानीति कृत्वा परिभोक्तव्यानि / नात्र कौकृत्यं करणीयम्* / तत्रेमानि वनास्तिकानि / द्राक्षादाडिम्बतिन्दुक ... /
श्रावस्त्यां निदानम्* / श्राद्धा ब्राह्मणगृहपतयो भिक्षूणां सत्कुर्वतां प्रवारयतां पुष्करास्तिकानि अनुप्रयच्छन्ति / भिक्षव आकांक्षन्ति किन् तु कौकृत्यान् न परिभुंजते / भिक्षवो भगवत आरोचयन्ति / भगवान् आह / दुर्लभानीति कृत्वा परिभोक्तव्यानि / नात्र कौकृत्यं करणीयम्* / तत्रेमानि पुष्करास्तिकानि / तालूकं मृणालं कुमुदबीजं पद्मबीजं चेति /
श्रावस्त्यां निदानम्* / आयुष्मतः शारिपुत्रस्य धातुवैषम्याद् ग्लान्यम् उत्पन्नम्* / आयुष्मान् महामौद्गल्यायनः संलक्षयति (msv i 240) बहुशो मया आयुष्मतः शारिपुत्रस्य स्वमतेन उपस्थानं कृतम्* / न च कदाचिद् वैद्यः पृष्टः यन्व् अहं पृच्छेयम् इति / तेन वैद्यः पृष्टः / भद्रमुख आयुष्मतः शारिपुत्रस्य धातुः कुपितः / भैषज्यं व्यपदिश / स कथयति / आर्य पद्मबीजं प्रयच्छ स्वस्थो भविष्यति / आयुष्मान् महामौद्गल्यायनः संलक्षयति / न मम प्रतिरूपं स्याद् यद् अहम् आयुष्मतः शारिपुत्रस्य कृते न विसक्षीरेण उपस्थानं कुर्याम् इति / संलक्षितमात्र एव श्रावस्त्या अन्तर्हितो मन्दाकिन्याः पुष्करिण्यास् तीरे प्रत्यष्ठान् नागरराजस्य भवनसमीपे / ततः सुप्रतिष्ठितेन नागराजेन दृष्ट उक्तश् च / किम् आर्यस्य आगमने कारणम्* / स कथयति / आयुष्मतः शारिपुत्रस्य धातुः कुपितः / तस्य वैद्येन विसक्षीरम् आदिष्टम् इति / सुप्रतिष्ठितो नागराजः कथयति / आर्य यद्य् एवं तिष्ठ तावद् इति / स मन्दाकिनीं पुष्करिणीम् अवतीर्य पुरुषप्रमाणानि विसक्षीराण्य् उत्पाट्य उत्पाट्य विसक्षीरेणायुष्मतो महामौद्गल्यायनस्य पात्रं पूरितम्* / आयुष्मान् महामौद्गल्यायनो ऽस्य विसानि रुज्यमानानि निरीक्षितुम् आरब्धः / सुप्रतिष्ठितो नागराजः कथयति / आर्य किम् आकांक्षसे विसानि परिभोक्तुम् इति / स तूष्णीम् अवस्थितः / स कथयति / आर्य गच्छ / स्वस्ति ते / अथायुष्मान् महामौद्गल्यायनो विसक्षीरेण पात्रं पूरयित्वा मन्दाकिन्याः पुष्करिण्यास् तीरे ऽन्तर्हितः श्रावस्त्यां प्रत्यष्ठात्* जेतवने ऽनाथपिण्डदस्यारमे / तत आयुष्मता शारिपुत्रेण वैद्योपदेशेन विसक्षीरं परिभुक्तम्* / स्वस्थीभूतः ...
(fol. 228r1; msv,wi 112) + + + + + + + + gaccha śrāvastyāṃ jetavane maṇḍapakariṇyāṃ chorayitvā āgaccheti / sa pavanabalavegavāhinā javena śrāvastīm āgamya jetavana /// (228r2) kalabho jātaḥ tatsamanantaraṃ ca siṃhanādo muktaḥ tataḥ sā hastinī saṃtrastā mūtrapurīṣam utsṛjantī kalabhaṃ chorayitvā prakrāmati /// (228r3) vardhayito dhanena pālita iti dhanapālako dhanapālaka iti saṃjñā saṃvṛttā / apare paṭhanti rājñā prasenajitā rājño bimbisārasya /// (228r4) kānicid visāni paribhuktāni kānicid āyuṣmatā śāriputreṇa aparāṇi saṃghe caritāni / tathā avaśiṣṭaṃ tato /// (228r5) bhikṣavo bhagavatā ārocayanti / bhagavān āha / durlabhāni bhavanto mānuṣāṇāṃ divyāni visāni tasmād anujānāmi durlabhāni divyāni visānīti /// (228r6; cf. msv i 241.1ff. which has been suplied from divy 123ff.) bhadraṃkare nagare ṣaḍ jñātā mahāpuṇyāḥ prativasanti miṇḍhako gṛhapatiḥ miṇḍhakapatnī miṇḍhakaputraḥ miṇḍhakasnuṣā miṇḍhakadāso miṇḍhakadāsī /// (228r7) sahadarśanād eva pūryante | evaṃ miṇḍhako gṛhapatir jñāto mahāpuṇyaḥ kathaṃ miṇḍhakapatnī sā ekasyārthāya sthālīṃ sādhayati śatāni sahasrāṇi ca paribhuṃjate evaṃ miṇḍhakapatnī /// (228r8) parityajati tadā pūrṇa eva tiṣṭhati na ca parikṣīyate | evaṃ miṇḍhakaputraḥ miṇḍhakasnuṣā ekasyārthāya gatvā saṃpādayati śatasya sahasrasya ca paryāptaṃ bhavati /// (228r9) evaṃ miṇḍhakadāsaḥ kathaṃ miṇḍhakadāsī mahāpuṇyā | sā yadā ekāṃ mātrāṃ pratijāgarti tadā sapta mātrāḥ saṃpadyante / evaṃ miṇḍhakadāsī mahāpuṇyā /
bhagavāṃ saṃlakṣayati / ayaṃ miṇḍhako gṛhapatiḥ saparivāro bhadraṃkare nagare prativasati / tasya vaineyakāla āpannaḥ / (msv i 242) tatra bhagavān āyuṣmantam ānandam āmantrayate / gaccha tvam ānanda (228r10) bhikṣūṇām ārocaya tathāgato bhikṣavaḥ janapadacārikayā bhadraṃkaraṃ .. + yuṣmākam utsahate tathāgatena sārdhaṃ (msv,wi 114) janapadacārikayā bhadraṃkaraṃ nagaraṃ gantuṃ sa cīvarakāṇi pratigṛhṇātv iti / evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratiśrutya bhikṣūṇām ārocayati / (fol. 228v1) bhagavān āyuṣmanto janapadacārikayā bhadraṃkaraṃ + + yuṣmākam utsahate bhagavatā sārdhaṃ janapadacārikayā bhadraṃkaraṃ nagaraṃ gantuṃ sa cīvarakāṇi pratigṛhṇātv iti / evam āyuṣmann iti / te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti /
अथ भगवान् (228व्2) दान्तपरिवारः शान्तः शान्तपरिवारः अर्हन्न् अर्हपरिवारः जनपदचारिकां चरं भद्रंकरं नगरं सम्प्रस्थितः यदा भगवता श्रावस्त्यां महाप्रातिहार्यं विदर्शितं तदा तीर्थ्या निर्भर्त्सिताः / ततः केचिद् भद्रंकरं नगरं गत्वावस्थिताः / तैः श्रुतं श्रमणो (228व्3) गौतम आगच्छतीति श्रुत्वा च पुनर् व्यथिताः पूर्वं तावद् वयं श्रमणेन गौतमेन मध्यदेशान् निर्वासिताः स यदीहागमिष्यति निश्चयेनास्मान् इतो ऽपि निर्वासयिष्यति तद् उपायसंविधानं कर्तव्यम् इति / ते कुलोपकरणशाला उपसंक्रम्य कथयन्ति (228व्4) धर्मलाभो धर्मलाभः आर्य किम् इदं अवलोकिता भवतः (msv i 243) गमिष्यामः कस्यार्थाय / दृष्टास्माभिर् युष्माकं संपत्तिर् यावद् विपत्तिन् न पश्यामस् तावद् गच्छामः आर्यका अस्माकं विपत्तिर् भविष्यति / भवन्तः श्रमणो गौतम क्षुराशनिं पातयन्न् अनेका अपुत्रिका (228व्5) अपतिकानि कुर्वन्न् आगच्छति । आर्य यद्य् एवं यस्मिन्न् एव काले स्थातव्यं तस्मिन्न् एव काले ऽस्माकं परित्यागः क्रियते / तिष्ठथ न गन्तव्यम् इति / ते कथयन्ति / किं वयं न तिष्ठामः / न यूयम् अस्माकं श्रोष्यथ / आर्याः कथयत श्रोष्यामः / ते कथयन्ति (228व्6) भद्रंकरनगरसामनतकेन सर्वं जनकायम् उद्वास्य भद्रंकरं नगरं प्रवेशयत : शाद्वलानि कृषत : स्थण्डिलानि पातयत : पुष्पफलव्र्क्षांश् छेदयत पानीयानि विषेण दूषयत / ते कथयन्ति / आर्यास् तिष्ठत सर्वम् उतिष्ठाम इति / ते ऽवस्थिताः /
ततस् तैर् (228व्7) भद्रंकरसामन्तकेन सर्वो जनकाय उद्वास्य भद्रंकरं नगरं प्रवेशितः शाद्वलानि कृष्टानि स्थण्डिलानि पातितानि पुष्पवृक्षाश् छिन्नाः पानीयानि विषदूषितानि / ततः शक्रो देवेन्द्रः संलक्षयति / न मम प्रतिरूपं यद् अहं भगवतो ऽसत्कारम् (228व्8) अध्युपेक्षेयं येन नाम भगवता त्रिकल्पासंख्येयैर् अनेकैश् च दुष्करशतसहस्रैः षट् पारमिताः परिपूर्यानुत्तरं ज्ञानम् अधिगतम् .. .. भगव सर्वलोकप्रतिविशिष्टः सर्ववादविजयी शून्ये जनपदे चारिकाम् चरिष्यति / यन्व् अहं भगवतः सश्रावकसंघस्य सुखस्पर्शार्थायौत्सुक्यम् (228व्9) आपद्येयम् इति । तेन वातबलाहकानां देवपुत्राणाम् आज्ञा दत्ता / गच्छत विषपानीयानि शोषयतेति / वर्षबलाहकानां देवपुत्राणाम् आज्ञा दत्ता / अष्टाङ्गोपेतस्य (msv i 244) पानीयस्यापूरयतेति / चातुर्महाराजिका देवा उक्ताः / यूयं (228व्10) भद्रंकरनगरसमन्ताद् आवासयतेति ततो वातबलाहकैर् देवपुत्रैर् विषदूषितानि पानीयानि शोषितानि वर्षबलाहकैर् एव कूपोदपानवापीसरस् तडागान्य् अष्टाङ्गोपेतस्य पानीयस्य पूरितानि / चातुर्महाराजिकैर् देवैर् (fol. 229r1 = ग्ब्म् 6.770; msv i 244.5) भद्रंकरनगरसामन्तकं सर्वम् आवासितम्* / जनपदा ऋद्धा स्फीताश् च संवृत्ताः / तीर्थ्यैर् नगरवासिजनकायसमेतैर् अवचरकाः प्रेषिताः / पश्यत कीदृशा जनपदा इति / ते गताः पश्यन्ति / अतिशयेन जनपदा ऋद्धस्फीताः / तत आगत्य कथयन्ति / भवन्तो न कदाचिद् अस्माभिर् एवं जनपदा ऋद्धस्फीता दृष्टपूर्वा इति / तीर्थ्याः कथयन्ति / भवन्तो दृष्टो वो यस् तावद् अचेतनान् भावान् अन्वावर्तयति स युष्मान् नान्वावर्तयिष्यतीति /
तत् कुत एतत्* / सर्वथा अवलोकिता भवन्तु भवन्तः / पश्चिमं वो दर्शनं गच्छाम इति / ते कथयन्ति / आर्यास् तिष्ठत / किं श्रमणो गौतमो युष्माकं करोति / सो ऽपि प्रव्रजितो यूयम् अपि प्रव्रजिताः / भिक्षोपजीवितः किम् असौ युष्माकं भिक्षां वारयिष्यतीति / तीर्थ्याः कथयन्ति / समयेन तिष्ठामः / यदि यूयं क्रियाकारं कुरुत न केनचित् श्रमणं गौतमं दर्शनायोपसंक्रमितव्यम्* / य उपसंक्रामति षष्टिं कार्षापणान् दण्डयितव्य इति / तैः प्रतिज्ञातं क्रियाकारश् च कृतः /
ततो भगवान् अनुपूर्वेण भद्रंकरं नगरम् अनुप्राप्तो भद्रंकरे विहरति दक्षिणायतने / तेन खलु समयेन कापिलवास्तुनो ब्राह्मणदारिका भद्रंकरे नगरे परिणीता / तया प्राकारस्थया भगवान् अन्धकारे स्थितो दृष्टः / सा संलक्षयति / अयं भगवान् शाक्यकुलनन्दनः शाक्यकुलाद् राज्यम् अपहाय प्रव्रजितः / यद्य् अत्र सोपानं स्याद् अहं प्रदीपम् आदायावतरेयम् इति / ततो भगवता तस्याश् चेतसा चित्तम् आज्ञाय सोपानं निर्मितम्* / ततो ऽसौ हृष्टतुष्टाः प्रमुदिताः प्रदीपम् आदाय सोपानेनावतीर्य येन भगवांस् तेनोपसंक्रान्ता / उपसंक्रम्य भगवतः पुरस्तात् प्रदीपं स्थापयित्वा पादौ शिरसा वन्दित्वा निषण्णा धर्मश्रवणाय / ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेदिकी पुर्ववद् यावच् छरणगताम् अतिप्रसन्नाम् इति / अथ भगवांस् तां दारिकाम् इदम् अवोचत्* / एहि त्वं दारिके येन मिण्ढकगृहपतिस् तेनोपसंक्रम / उपसंक्रम्य एवं मद्वचनाद् आरोग्यय / एवं वद / गृहपते त्वाम् उद्दिश्याहम् इहागतस् त्वं च द्वारं बद्ध्वावस्थितो युक्तम् एतद् एवं ह्य् अतिथेः प्रतिपत्तुं यथा त्वं प्रतिपन्न इति / यदि कथयति गणेन क्रियाकारः कृत इति / वक्तव्यः / तव पुत्रस्य पंचशतिको नकुलकः कट्यां बद्धस् तिष्ठति / स यदि शतं वा सहस्रं वा व्ययीकरोति पूर्यत एव न परिक्षीयते / न शक्नोषि त्वं षष्टिं कार्षापणान् दत्वागन्तुम् इति / एवं भदन्तेति सा दारिका भगवतः प्रतिश्रुत्य संप्रस्थिता / यथापरिज्ञातैव केनचिद् एवं मिण्ढकस्य गृहपतेः सकाशं गता / गत्वा कथयति / गृहपते भगवांस् ते आरोग्ययति /
स (msv i 246) कथयति दारिके वन्दे बुद्धं भगवन्तम्* / गृहपते भगवान् एवम् आह / त्वाम् एवाहम् उद्दिश्यागतस् त्वं च द्वारं बद्धावस्थितः / युक्तम् एतद् एवम् अतिथेः (fol. 229v1 = ग्ब्म् 6.771) प्रतिपत्तुं यथा त्वं प्रतिपन्न इति / स कथयति / दारिके गणेन क्रियाकारः कृतो न केनचित् श्रमणं गौतमं दर्शणायोपसंक्रमितव्यम्* / यः उपसंक्रामति स गणेन षष्टिं कार्षपणान् दण्ड्य इति / गृहपते भगवान् कथयति / तव पुत्रस्य पंचशतिको नकुलकः कट्यां बद्धस् तिष्ठति / स यदि शतं सहस्रं वा व्ययीकरोति पूर्यते एव न परिक्षीयते / न शक्नोषि त्वं षष्टिं कार्षापणान् दत्वागन्तुम् इति / स संलक्षयति / न कश्चिद् एतत् संजानीते नूनं सर्वज्ञः स भगवान्* / गच्छामीति / स षष्टिं कार्षापणान् द्वारे स्थापयित्वा ब्राह्मणदारिकोपदिष्टेन सोपानेनावतीर्य येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवताः पादौ शिरसा वन्दित्वा पुरस्तान् निषण्णः / ततो भगवान् मिण्ढकस्य गृहपतेर् अशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान् यां श्रुत्वा मिण्ढकेन पूर्ववद् यावत् स्रोतआपत्तिफलं साक्षात्कृतम्* / स दृष्टसत्यः कथयति / भगवन् किम् एषो ऽपि भद्रंकरनिवासिजनकाय एवंविधानां धर्माणां लाभीति / भगवान् आह / गृहपते त्वम् आगम्य भूयसा सर्व एव जनकायो लभीति / ततो मिण्ढको गृहपतिर् भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः / स गृहं गत्वा कार्षापणानां राशिं व्यवस्थाप्य गाथां भाषते /
यो द्रष्टुम् इच्छति जिनं जितरागदोषं निर्द्वन्द्वम् अप्रतिसमं कनकावदातम्* / सो निश्चलेन हृदयेन सुनिश्चितेन क्षिप्रं प्रदातु धनम् अस्य मया प्रदेयम्* // इति
जनकायाः कथयति / गृहपते श्रेयः श्रमणस्य गौतमस्य दर्शनम्* / स कथयति / श्रेयः / ते कथयन्ति / यदि एवं गणेनैव क्रियाकारः कृतो गण एवोत्पाटयतु / को ऽत्र विरोधः / ते क्रियाकारम् उत्पाट्य निर्गन्तुम् आरब्धाः / ततः परस्परं संघट्टेन न शक्नुवन्ति निर्गन्तुम् इति / वज्रपाणिना यक्षेण विनयजनानुकम्पया वज्रः क्षिप्तः / प्राकारस्य खण्डः पतितः / अनेकानि प्राणिशतसहस्राणि निर्गतानि कानिचित् कुतूहलजातानि कानिचित् पूर्वकैः कुशलमूलैः संचोद्यमानानि / ततो महाजनकायसन्निपाताद् भगवतो योजनं सामन्तकेन पर्षत् सन्निपतिता / अथ भगवांस् तां पर्षदम् अवगाह्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषद्यानेकसत्वसन्तानकुशलमूलसमारोपिकां धर्मदेशनां कृतवान्* / यां श्रुत्वा कैश्चित् स्रोतआपत्तिफलं साक्षात्कृतम्* / पूर्ववत् केनचिच् छरणगमनशिक्षापदानि गृहीतानि / भगवतो ऽतिचिरं धर्मं देशयित्वा भोजनकालो ऽतिक्रान्तः /
मिण्ढको गृहपतिः कथयति / भगवन् भक्तकृत्यं क्रियताम् इति / भगवान् आह / गृहपते भोजनकालो ऽतिक्रान्त इति / स कथयति / भगवन् किम् अकाले कल्पते / भगवान् आह / घृतं गुडं (msv i 248) शर्कराः पानकानि चेति / ततो मिण्ढकेन गृहपतिना शिल्पिन आहूयोक्ताः / भगवन्तो ऽकालखाद्यकानि शीघ्रं सज्जीकुरुतेति / तैर् अपि कथितम्* / अकालखाद्यकानि (fol. 230r1 = ग्ब्म् 6.772) सज्जीकृतानि / गृहपतिना बुद्धप्रमुखो भिक्षुसंघः अकालखाद्यकैर् अकालपानकैश् च संतर्पितः / ततो भगवान् मिण्ढकं गृहपतिं सपरिवारं सत्येषु प्रतिष्ठाप्य तं च कर्वटकनिवासिनं जनकायं यथाभव्यतया विनीय संप्रस्थितः /
मिण्ढकगृहपतिः कथयति / भगवन् कार्षापणः पथ्यादिनिमित्तं गृह्यताम् इति / भगवान् आह / ग्रहीतव्य इति / उक्तं भगवता कार्षापणो ग्रहीतव्य इति / भिक्षवो न जानते केन ग्रहीतव्यः कथं चेति / भगवान् आह / कल्पकारेण / कल्पकारो न भवति / भगवान् आह / स्रामणेरकेण / आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / यत् तदुक्तं भदन्त भगवता श्रामणेरकस्य जातरूपरजतप्रतिग्रहो दशमं शिक्षापदम् इति / उक्तं भगवता श्रामणेरकेण ग्रहीतव्य इति / तत् कथम्* / भगवान् आह / प्रतिग्रहम् उपालिन् मया सन्धायोक्तं मा त्व् अगृह्यम्* / तस्मात् श्रमणेरकेणोद्ग्रहीतव्यम्* / नो तु प्रतिग्रहः स्वीकर्तव्यः /
मिण्ढको गृहपतिः कथयति / भगवन् गुडौदनं गृह्यताम् इति / भगवान् आह / ग्रहीतव्यम् इति / भिक्षवो न जानते केन ग्रहीतव्यं कथं चेति / भगवान् आह / असत्यागारिके श्रामणेरकेण भिक्षुभिर् वा साप्ताहिकम् अधिष्ठाय स्वयम् एव वोढव्यम्* / भिक्षवो न जानते कथम् (msv i 249) अधिष्ठातव्यम् इति / भगवान् आह / हस्तौ प्रक्षाल्य प्रतिग्राहयित्वा वामे पाणौ प्रतिष्ठाप्य दक्षिणेन पाणिना प्रतिच्छाद्य भिक्षोः पुरतः स्थित्वा वक्तव्यम्* / समन्वाहरतायुष्मन्तः / अहम् एवंनामा इदं भैषज्यं साप्ताहिकम् अधिष्ठास्यामि तेषाम् अर्थाय सब्रह्मचारिणां चेति / एवं द्विर् अपि त्रिर् अपि / आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / यद् उक्तं भदन्त भगवता गुडः साप्ताहिको ऽधिष्ठातव्य इति / केन परिभोक्तव्यः / पंचभिर् उपालिन् पुद्गलैः / अध्वप्रतिपन्नकेन भक्तच्छिन्नकेन ग्लानकेन उपधिवारिकेण नवकर्मिकेण चेति /
भिक्षवो जनपदचारिकां संप्रस्थिताः / तण्डुलानां च सक्तूनां च मध्ये गुडं प्रक्षिपन्ति / अध्वगा इच्छन्ति परिभोक्तुम्* / कौकृत्येन परिभुंजते / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / न लभ्यं भिक्षवस् तेनामिषेणामिषकृत्यं कर्तुम्* / यस् तण्डुलेषु प्रक्षिप्तः स प्रस्फोट्य परिभोक्तव्यः / यस् तु सक्तुषु उदकेन द्रवीकृत्य परिभोक्तव्यः / अपरो ऽपि द्रवीकृत्य न परिस्फुट एव भवति / भगवान् आह / वंशदलिकया निर्लिख्योदकेन प्रक्षालयितव्यः / तथापि न शक्यते निरामिषः कर्तव्यः / भगवान् आह / सुशोचितः कृत्वा उदकेन द्रवीकृत्य पातव्यः /
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त मिण्ढकेन मिण्ढकपत्न्या मिण्ढकपुत्रेण मिण्ढकस्नुषया मिण्ढकदासेन मिण्ढकदास्या च कर्म कृतं येन षडभिज्ञाता (msv i 250) महापुण्याः संवृत्ताः / भगवतो ऽन्तिके सत्यानि (fol. 230v1 = ग्ब्म् 6.773) दृष्टानि / भगवान् चैभिर् आरागितो न विरागित इति / भगवान् आहा / एभिर् एव भिक्षवः कर्माणि कृतानि उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा पूर्ववद् यावद् धर्मेण राज्यं कारयति / तेन खलु समयेन वाराणस्यां नगर्यां नैमित्तिकैर् द्वादशवार्षिकी अनावृष्टिर् व्याकृता शलाकावृत्ति {दुत्त्: म्स्. शिलका थ्रोउघोउत्; बुत् म्स् शलाका- थ्रोउघोउत्} महादुर्भिक्षं भविष्यतीति / त्रिविधं दुर्भिक्षं भविष्यति चंचु श्वेतास्थि शलाकावृत्ति च / तत्र चंचु उच्यते / समुद्गके तस्मिन् मनुष्या बीजानि प्रक्षिप्य अनागतसत्वापेक्षया स्थापयन्ति / अस्माकम् अनेन बीजेन मनुष्याः कार्यं करिष्यन्तीति / इदं समुद्गसंबन्धाच् {दुत्त्: समुद्गकसम्बन्धात्*} चंचु उच्यते / श्वेतास्थि कतमत्* / तस्मिन् काले मनुष्या अस्थीनि उपसंहृत्य तावत् क्वाथयन्ति यावत् तान्य् अस्थीनि श्वेतानि संवृत्तानीति / ततस् तं पानं पिबन्ति / इदं श्वेतास्थिसंबन्धात्* श्वेतास्थि उच्यते / शलाकावृत्ति कतमत्* / तस्मिन् काले मनुष्याः खालबिलेभ्यो धान्यगुडकानि शलाकयाकृष्य बहूदकायां स्थाल्यां क्वाथयित्वा पिबन्ति / इदं शलाकासंबन्धाच् छलाकावृत्ति उच्यते / राज्ञा ब्रह्मदत्तेन वाराणस्यां घण्टावघोषणं कारितम्* / शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौरा नैमित्तिकैर् द्वादशवार्षिक्य् (msv i 251) अनावृष्टिर् व्याकृता शलाकावृत्ति दुर्भिक्षं भविष्यति चंचु श्वेतास्थि च / येषां द्वादशवार्षिकं भक्तम् अस्ति तैः स्थातव्यम्* / येषां नास्ति ते यथेष्टं गच्छन्तु / विगतदुर्भिक्षतया सुभिक्षे पुनर् आगमिष्यथ इति / तस्मिंश् च समये वाराणस्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिवारः / विस्तीर्णविशालस् तेन कोष्ठागारिक आहूयोक्तः /
भोः पुरुष भविष्यति मे सपरिवारस्य द्वादशवार्षिकं भक्तम् इति / स कथयति / आर्य भविष्यतीति / स तत्रैवावस्थितः / समनन्तरात् तु एव तद् दुर्भिक्षम्* / तस्य कोष्ठागारः परिक्षीणः / सर्वश् च परिजनः कालगतः / आत्मना षष्ठो व्यवस्थितः / ततस् तेन गृहपतिना कोशकोष्ठागाराणि शोधयित्वा धान्यप्रस्थ उपसंहृतः / सो ऽस्य पत्न्या स्थाल्यां प्रक्षिप्य साधितः / असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते / हीनदीनानुकम्पका प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य / यावद् अन्यतरः प्रत्येकबुद्धो जनपदचारिकां चरन् वाराणसीम् अनुप्राप्तः / स पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वाराणसीं पिण्डाय प्रविष्टः / स च गृहपतिः सज्जो ऽवस्थितो भोक्तुम्* / स च प्रत्येकबुद्धो ऽनुपूर्वेण पिण्डपातम् अटंस् तस्य गृहम् अनुप्राप्तः / स तेन गृहपतिना दृष्टः काथप्रासादिकश् चित्तप्रासादिकश् च / दृष्ट्वा च पुनः संलक्षयति / एतद् अप्य् अहं परिभुज्य नियतं प्राणैर् वियोक्ष्ये / यन्व् अहं प्रत्यंशम् अस्मै प्रव्रजिताय दद्याम् इति / तेन भार्याभिहिता / भद्रे यो मम प्रत्यंशस् तम् अस्मै प्रव्रजितायानुप्रयच्छेति / (fol. 231r1 = ग्ब्म् 6.774) सा संलक्षयति / मम स्वामी न परिभुंक्ते / कथम् अहं परिभुंजे इति / सा कथयति आर्यपुत्र (msv i 252) अहम् अपि स्वं प्रत्यंशम् अस्मै प्रयच्छामीति / एवं पुत्रेण स्नुषया दासेन दास्या स्वस्वप्रत्यंशाः परित्यक्ताः / ततस् तैः सर्वैः संभूय प्रत्येकबुद्धः पिण्डेन प्रतिपादितः / कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी /
स विततपक्ष इव हंसराज उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः / आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी / ते मूलनिकृत्ता इव द्रुमाः पादयोर् निपत्य यथेष्टं प्रणिधानं कर्तुम् आरब्धाः / गृहपतिः प्रणिधानं कर्तुम् आरब्धः / यन् मया एवंविधे सद्भूतदक्षिणीये कारः कृतो ऽनेनाहं कुशलमूलेन यदि रिक्तकानि कोशकोष्ठागाराणि पश्यामि सहदर्शनान् मे पूर्णानि स्युः / एवंविधानां च मे धर्माणां लाभी स्याम्* / अतः प्रतिविशिष्टतरं शास्तारम् आरागयेयं मा विरागयेयम् इति / पत्नी प्रणिधानं कर्तुम् आरब्धा / यन् मया एवंविधे सद्भूतदक्षिणीये कारः कृतो ऽनेनाहं कुशलमूलेनाहं यद्य् एकस्यार्थाय स्थालीं पचेयं सा शतेनापि परिभुज्य सहस्रेणापि न च परिक्षयं गच्छेद् यन् मया प्रयोगो न प्रतिप्रस्रब्धः / एवंविधानां धर्माणां लाभिनी स्याम्* / प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति / पुत्रः प्रणिधानं कर्तुम् आरब्धः / यन् मया एवंविधे सद्भूतदक्षिणीये कारः कृतो ऽनेन मे कुशलमूलेन पंचशतः कमरकः कट्याम् उपनिबद्धस् तिष्ठेत्* / यदि शतं वा सहस्रं वा ततो व्ययं कुर्यां पूर्णक एव तिष्ठेत्* / मा परिक्षयं (msv i 253) गच्छेत्* / एवंविधानां च धर्माणां लाभी स्याम्* / प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति / स्नुषा प्रणिधानं कर्तुम् आरब्धा / यन् मया एवंविधे सद्भूतदक्षिणीये कारः कृतो ऽनेनाहं कुशलमूलेन यद्य् एकस्यार्थाय गन्धान् योजये ते शतस्य वा सहस्रस्य वा उपयुज्येरन् न च परिक्षयं गच्छेयुः / यावत् प्रयोगो न प्रतिप्रस्रब्धः /
एवंविधानां धर्माणां लाभिनी स्याम्* / प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति / दासः प्रणिधानं कर्तुम् आरब्धः / यन् मया एवंविधे सद्भूतदक्षिणीये कारः कृतो ऽनेनाहं कुशलमूलेन यद्य् एकं सीरं कर्षेयं सप्तसीराः कृष्टा भावेयुः / एवंविधानां धर्माणां लाभी स्याम्* / प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति / दासी प्रणिधानं कर्तुम् आरब्धा / यन् मया एवंविधे सद्भूतदक्षिणीये कारः कृतो ऽनेनाहं कुशलमूलेन धान्यानाम् एकां मात्राम् आरभेयं सप्त मात्राः संपद्येरन्* / अप्य् एवंविधानां धर्माणां लाभिनी स्याम्* / प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति (fol. 231v1 = ग्ब्म् 6.775) प्रणिधानं कृतम्* / स च महात्मा प्रत्येकबुद्धस् तेषाम् अनुकम्पां कृत्वा ऋद्ध्या संप्रस्थितः / यावद् राजा ब्रह्मदत्तः उपरि प्रासदतलगतस् तिष्ठति / तस्य ऋद्ध्या गच्छतो राज्ञो ब्रह्मदत्तस्योपरि च्छाया निपतिता / स ऊर्द्ध्वमुखो निरीक्षितुम् आरब्धः / पश्यति तत् प्रत्येकबुद्धम्* / तस्यैतद् अभवत्* / कस्याप्य् अनेन महात्मना ऋद्धिमहालाङ्गलैर् दारिद्र्यमूलान्य् उत्पाटितानीति / बलवत्पाशा / ततो ऽसौ गृहपतिः (msv i 254) कोशकोष्ठागाराणि प्रत्यवेक्षितुम् आरब्धो यावत् पूर्णानि पश्यति / स पत्नीम् आमन्त्रयते / मम तावत् प्रणिधानं पूर्णं युष्माकम् इदानीं पश्याम इति / ततो दास्या धान्यानाम् एकां मात्राम् आरब्धा परिकर्मयितुम्* / सप्त मात्राः संपन्नाः / पत्न्या एकस्यार्थाय स्थाली साधिता / सर्वैस् तैः परिभुक्ता तथैवावस्थिता / प्रातिवेश्यैर् अनेकैश् च प्राणिशतसहस्रैः परिभुक्ता तथैवावस्थिता /
तथैव पुत्रस्य स्नुषाया दासस्य प्रणिधिः सिद्धा / ततो गृहपतिना वाराणस्यां घण्टावघोषणं कारितम्* / यो भवन्तो ऽन्नेन अर्थी स आगच्छत्व् इति / वाराणस्याम् उच्चशब्दो महाशब्दो जातः / राज्ञा श्रुतम्* / स कथयति / किम् एष भवन्त उच्चशब्दो महाशब्द इति / अमात्यैः समाख्यातम्* / देवामुकेन गृहपतिना कोशकोष्ठागाराण्य् उद्धाटितानीति / राजा कथयति / यावत् सर्व एव लोकः कालगतस् तदा तेन गृहपतिना कोशकोष्ठागाराण्य् उद्धाटितानि / आहूयतां भवन्तः स गृहपतिर् इति / तैर् आहूतः / ततो राज्ञाभिहितः / गृहपते यदा सर्वलोकः कालगतस् तदा त्वया कोशकोष्ठागाराण्य् उद्धाटितानीति / देव कस्य कोष्ठागाराण्य् उद्धाटितानि / अपि तु अद्यैव मे बीजम् उप्तम् अद्यैव फलितम् इति / राजा कथयति / यथाकथम्* / स तत् प्रकरणं विस्तरेणारोचयति / राजा कथयति / गृहपते त्वयासौ महात्मा पिण्डकेन प्रतिपादितः / देव मया प्रतिपादितः / स गाथां भाषते /
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* / यत्रोप्तं बीजम् अद्यैव अद्यैव फलदायकम्* // इति /
किं मन्यध्वे भिक्षवो यो ऽसौ गृहपतिर् गृहपतिपत्नी गृहपतिपुत्रो (msv i 255) गृहपतिदासो गृहपतिदासी च / एष एवासौ मिण्ढको गृहपतिर् मिण्ढकपत्नी मिण्ढकपुत्रो मिण्ढकस्नुषा मिण्ढकदासो मिण्ढकदासी च / य एभिः प्रत्येकबुद्धकारान् कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन षड् अपि महापुण्या जाता ममान्तिके सत्यानि दृष्टानि / अहं चैभिः प्रत्येकबुद्धकोटीशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागित इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः / तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्* /
उद्दानम्* /
कैनेयः पानम् आदाय काशीपट्टं च यवाग्वः / पापायां खाद्यकं कृत्वा कौकृत्यं विकृतभोजनम्* // //
bhagavān ādumāyāṃ viharaty āvasathe | tena khalu samayena kaineyasya ṛṣer ādumāyām āvasatho 'bhūt* / mandākinyās tu puṣkariṇyās tīre divāvihāraḥ / bhagavān saṃlakṣayati | kutra nv ahaṃ caturṇāṃ lokapālānāṃ dharmaṃ deśayeyaṃ / yatra me kaineya ṛṣir alpakṛcchreṇa damatham āgata etasyaitad abhavat* / yanv ahaṃ mandākinyāḥ puṣkariṇyās tīre deśayeyaṃ / tatra damatham eṣyati | tatra bhagavatā laukikaṃ cittam utpāditam* / dharmatā khalu yasmin samaye buddhā bhagavanto (msv i 256) laukikaṃ cittam utpādayanti tasmiṃ samaye śakrabrahmādayo devā bhagavataś cetasā cittam ājānanti / vaiśravaṇo mahārājaḥ saṃlakṣayati | kiṃkāraṇaṃ bhagavatā laukikaṃ cittam utpāditaṃ / paśyaty asmākam eva caturṇāṃ lokapālānāṃ dharmaṃ deśayitukāma iti viditvā pāṃcikasya mahāyakṣasenāpater ājñāṃ dattavān* / gaccha pāñcika bhagavato 'rthāya mandākinyāḥ puṣkariṇyās tīre śayanāsanaprajñaptiṃ kuru / kaineyasya ṛṣer ekam ārakṣakaṃ sthāpaya / mahābhūtasannipāto bhaviṣyati mā kaścid asyojo ghaṭṭayiṣyatīti / sa mandākinyāḥ puṣkariṇyās tīre kaineyasya ṛṣer ārakṣakaṃ sthāpayitvā śayanāsanaprajñaptiṃ kartum (bhaiṣ-v(ch/w) 120) ārabdhaḥ / tatra mahājanakāyasya kolāhalaśabdo jātaḥ / tataḥ kaineya ṛṣiḥ kolāhalaśabdenotthitaḥ tam ārakṣakaṃ pṛcchati / kim eṣa kolāhalaśabda iti | sa kathayati / śayanāsanaprajñaptiḥ kriyate | kiṃ mamārthāya / na tavārthāya / api tu buddhasya bhagavataḥ / tvam atra kiṃ tiṣṭhasi | tavaivārakṣakaḥ / kimartham* / mahābhūtasamāgamo 'tra bhaviṣyati / mā kaścid ojo ghaṭṭayiṣyatīti | sa kathayati / tasya śramaṇasya gautamasya ko rakṣāṃ karotīti | sa kathayati / kas tasya bhagavato rakṣāṃ karoti / sa eva bhagavāṃ sadevakasya lokasya rakṣāṃ karotīti śrutvā kaineya ṛṣis tūṣṇīm* /
ततो भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय आदुमां पिण्डाय प्राविशत्* / आदुमां पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातं प्रतिक्रान्तः तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते आदुमायाम् अन्तर्हितो मन्दाकिन्याः पुष्करिण्यास् तीरे (msv i 257) प्रत्यष्ठात् सार्धं भिक्षुसंघेन । अथ भगवान् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः /
ततो धृतराष्ट्रो महाराजो ऽनेकगन्धर्वपरिवारो ऽनेकगन्धर्वशतपरिवारो ऽनेकगन्धर्वसहस्रपरिवारो ऽनेकगन्धर्वशतसहस्रपरिवारो दिव्यानां मणीनाम् उत्संगं पूरयित्वा येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवन्तं दिव्याभिर् मणिभिर् आकीर्य भगवतः पादौ शिरसा वन्दित्वा पूर्वां दिशं निशृत्य निषण्णो भगवन्तं संपुरस्कृत्य भिक्षुसंघं च //
विरूढको ऽपि महाराजो ऽनेककुम्भाण्डपरिवारो ऽनेककुम्भाण्डशतपरिवारो ऽनेककुम्भाण्डसहस्रपरिवारो ऽनेककुम्भाण्डशतसहस्रपरिवारो दिव्यानां मुक्तानाम् उत्संगं पूरयित्वा येन भगवांस् तेनोपसंक्रान्तः (fol. 232v1 = ग्ब्म् 6.777) / उपसंक्रम्य भगवन्तं दिव्याभिर् मुक्ताभिर् आकीर्य भगवतः पादौ शिरसा वन्दित्वा दक्षिणां दिशं निशृत्य निषण्णो भगवन्तं संपुरस्कृत्य भिक्षुसंघं च ।
विरूपाक्षो ऽपि महाराजो ऽनेकनागपरिवारो ऽनेकनागशतपरिवारो ऽनेकनागसहस्रपरिवारो ऽनेकनागशतसहस्रपरिवारो दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवन्तं दिव्यैर् उत्पलपद्मकुमुदपुण्डरीकमन्दारकैः पुष्पैर् अवकीर्य भगवतः पादौ शिरसा वन्दित्वा पश्चिमां दिशं निशृत्य निषण्णो भगवन्तं संपुरस्कृत्य भिक्षुसंघं च //
vaiśravaṇo 'pi mahārājo 'nekayakṣaparivāro 'nekayakṣaśataparivāro 'nekayakṣasahasraparivāro 'nekayakṣaśatasahasraparivāro divyasya hiraṇyasya suvarṇasyotsaṃgaṃ pūrayitvā yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavantaṃ divyena hiraṇyasuvarṇenākīrya (bhaiṣ-v(ch/w) 121) bhagavataḥ pādau (msv i 258) śirasā vanditvā uttarāṃ diśaṃ niśṛtya niṣaṇṇo bhagavantaṃ saṃpuraskṛtya bhikṣusaṃghaṃ ca |
तत्र द्वाव् आर्यजातीयौ धृतराष्ट्रो विरूढकश् च / द्वौ दस्युजातीयौ विरूपाक्षो वैश्रवणश् च । अथ भगवत एतद् अभवत्* / सचेद् अहम् आर्यया वाचा धर्मं देशयेयं द्वौ चाज्ञास्यतः द्वौ नाज्ञास्यतः / सचेद् दस्युवाचा देशयेयम् एवम् अपि द्वौ आज्ञास्यतः द्वौ नाज्ञास्यतः / यन्व् अहं द्वयोर् आर्यया वाचा धर्मं देशयेयं / द्वयोर् अपि दस्युवाचेति विदित्वा
धृतराष्ट्रं महाराजम् आमन्त्रयते / इति हि महाराजभिन्नः कायो वेदना शीतीभूता संज्ञा निरुद्धा संस्कारा व्युपशान्ता विज्ञानं चास्तंगतं : एष एवान्तो दुःखस्येति / अस्मिन् खलु धर्मपर्याये भाष्यमाणे धृतराष्ट्रस्य महाराजस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम् अनेकेषां च तत्सभागानां गन्धर्वशतसहस्राणां //
तत्र भगवान् विरूढकं महाराजम् आमन्त्रयते / इति हि महाराज अत्र ते दृष्टे दृष्टमात्रं भवतु श्रुते मते विज्ञाते विज्ञातमात्रं / अस्मिं खलु धर्मपर्याये भाष्यमाणे विरूढकस्य महाराजस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम् अनेकेषां च तत्सभागानां कुम्भाण्डशतसहस्राणां //
तत्र भगवां विरूपाक्षं महाराजम् आमन्त्रयते / इति हि महाराज इने मेने दप्फे दडप्फे एष एवान्तो दुःखस्येति / अस्मिं खलु धर्मपर्याये भाष्यमाणे विरूपाक्षस्य महाराजस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम् अनेकेषां च तत्सभागानां नागशतसहस्राणां /
tatra bhagavān vaiśravaṇaṃ mahārājam āmantrayate | atra te mahārāja māśā tuṣā saṃśāmā (bhaiṣ-v(ch/w) 122) sarvatra virāḍi eṣa evānto duḥkhasyeti / asmiṃ khalu dharmaparyāye bhāṣyamāṇe vaiśravaṇasya mahārājasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam anekeṣāṃ (fol. 233r1 = gbm 6.778) ca tatsabhāgānāṃ yakṣaśatasahasrāṇāṃ /
भगवान् संलक्षयति / एतर्हि मे परिनिर्वाणकालसमयः प्रत्युपस्थितः / कस्योपन्यस्य शासनं परिनिर्वास्यामि / सचेद् देवानां देवाः प्रमत्ता रतिबहुला न चिरस्थितिकं भविष्यति / अथ मनुष्याणाम् अल्पायुषो मनुष्याः एवम् एव न चिरस्थितिकम् एव / यन्व् अहं देवानां च मनुष्याणां च काश्यपस्य च भिक्षोः शासनम् उपन्यस्य परिनिर्वायेयम् इति विदित्वा धृतराष्ट्रं महाराजम् आमन्त्रयते । मम ते महाराज परिनिर्वृतस्य पूर्वस्यां दिशि शासने आरक्षा करणीयेति / विरूढकं महाराजम् आमन्त्रयते / त्वयापि महाराज दक्षिणस्यां दिशि आरक्षा करणीयेति / विरूपाक्षं महाराजम् आमन्त्रयते । त्वयापि महाराज पश्चिमस्यां दिशि आरक्षा करणीयेति / (msv i 260) वैश्रवणं महाराजम् आमन्त्रयते / त्वयापि महाराज उत्तरस्यां दिशि आरक्षा करणीयेति // ततश् चत्वारो महाराजानः प्रमुदितमनसो भगवन्तम् इदम् अवोचन्* / एवं भवतु भगवन् यथाज्ञापयति भगवन्* / वयम् आरक्षां करिष्याम इति विदित्वा भगवतः पादौ शिरसा वन्दित्वा दृष्टसत्या भगवतो ऽन्तिकात् प्रक्रान्ताः / भगवता आयुष्मते महाकाश्यपाय कृत्स्नं शासनम् उपन्यस्तं / आयुष्मांश् चानन्दो ऽभिहितः / त्वयाप्य् आनन्द शासनकार्यकरणे औत्सुक्यम् आपत्तव्यम् इति । //
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त चतुर्भिर् महाराजैः कर्म कृतं यस्य कर्मणो विपाकेन चत्वारो महाराजाः संवृत्ताः / भगवतश् चान्तिके सत्यदर्शनं कृतम् इति । भगवान् आह । एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववत् फलन्ति खलु देहिनाम्* /
bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi | pūrvavad yāvac chāstā devamanuṣyāṇāṃ buddho bhagavān* / tena khalu samayena mahāsamudre dvau nāgau prativasataḥ śvāso mahāśvāsaś ca | kūṭaśālmalyām api dvau suparṇināv aṭṭeśvaraś cūḍeśvaraś ca | yadā śvāsamahāśvāsau tābhyām abhidrūyete tadā pātālaṃ praviśato / yāvad apareṇa samayena śvāsamahāśvāsābhyāṃ kāśyapasya samyaksaṃbuddhasyāntikāc charaṇagamanaśikṣāpadāni gṛhītāni / tau ca suparṇināv (msv i 261) abhidravitum ārabdhau na śaknuvataḥ / sumerupratyāhatam iva pavanasalilavegau pratinivṛtya kathayato / bhavantau pūrvam asmābhir yuvām abhidrutau (bhaiṣ-v(ch/w 123) pātālaṃ praviśata / idānīṃ ko hetur yena vayaṃ sumerupratyāhatāv iva pavanasalilavegau yuvām āsādya pratinivṛttāv iti | śvāsamahāśvāsau kathayato / (fol. 233v1 = gbm 6.779) 'smābhiḥ kāśyapasya samyaksaṃbuddhasyāntikāc charaṇagamanaśikṣāpadāni gṛhītānīti / tau kathayato / yady evaṃ vayam api grahīṣyāma iti / tau tābhyāṃ sārdhaṃ kāśyapasya samyaksaṃbuddhasyāntike saṃprasthitau / tau ca saṃprāptau / catvāraś ca lokapālāḥ kāśyapasya samyaksaṃbuddhasyāntikād dharmaṃ śrutvā saṃprasthitāḥ / te tābhyāṃ dṛṣṭās / tau suparṇinau śvāsamahāśvāsau nāgau pṛcchataḥ / ka ete gacchantīti | tābhyāṃ vistareṇa kathitam* / suparṇinau kathayataḥ / yady evaṃ vayam api kāśyapasya samyaksaṃbuddhasyāntikāc charaṇagamanaśikṣāpadāni saṃgṛhītvā praṇidhānaṃ kurma iti /
ताभ्यां काश्यपस्य सम्यक्संबुद्धस्यान्तिकाच् छरणगमनशिक्षापदानि गृहीतानि / श्वासमहाश्वासाभ्यां पूर्वम् एव गृहीतानि / ततः संभूय काश्यपस्य सम्यक्संबुद्धस्य पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धाः / यथैते चत्वारो लोकपालाः काश्यपस्य सम्यक्संबुद्धस्यान्तिकाद् धर्मं श्रुत्वा दृष्टसत्याः स्वभवनं संप्रस्थिताः : एवं वयम् अप्य् अनेन कुशलमूलेन चत्वारो लोकपालाः स्याम : यश् चासौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो माणवो व्याकृतः भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम सम्यक्संबुद्ध इति । (msv i 262) सो ऽप्य् अस्माकं भगवान् एव मन्दाकिन्याः पुष्करिण्यास् तीरे धर्मं देशयेद् / वयं च तं धर्मं श्रुत्वा दृष्टसत्या एवम् एव स्वभवनं गच्छाम इति ।
किं मन्यध्वे भिक्षवो ये ते चत्वारो नागसुपर्णिनः एत एव ते चत्वारो लोकपालाः / यो ऽसौ श्वास एष एवासौ धृटराष्ट्रस् तेन कालेन तेन समयेन / महाश्वासो विरूढकः अट्टेश्वरो ऽसौ विरूपाक्षः चूडेश्वरो ऽसौ वैश्रवणः तेन कालेन तेन समयेन । यद् एभिः काश्यपस्य सम्यक्संबुद्धस्यान्तिकाच् छरणगमनशिक्षापदानि प्रतिगृह्य प्रणिधानं कृतं तस्य कर्मणो विपाकेन चत्वारो लोकपाला जाता ममान्तिके सत्यदर्शनं कृत्वा स्वभवनं गताः /
tāṃ ca dharmadeśanāṃ śrutvā kaineya ṛṣiḥ paraṃ vismayam upagato bhagavati cābhiprasannaḥ / tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā / yāṃ śrutvā kaineyarṣiṇā sahasatyābhisamayād anāgāmiphalaṃ sākṣātkṛtaṃ / tato 'sāv avetyaprasādasamanvāgato 'ṣṭau pānāny ādāya cocapānaṃ mocapānaṃ kolapānam aśvatthapānam udumbarapānaṃ paruṣakapānaṃ kharjūrapānaṃ mṛdvīkāpānaṃ ca yena bhagavāṃs tenopasaṃkrānta / upasaṃkramya bhagavatam idam avocat* / imāni bhadanta aṣṭau pānāni pūrvakair ṛṣibhiḥ stutāni varṇitāni / tāni bhagavān pratigṛhṇātv (bhaiṣ-v(ch/w) 124) anukampām upādāya | pratigṛhṇāti bhagavān kaineyasya ṛṣer antikād aṣṭau pānāni anukampām upādāya / pratigṛhya bhikṣūn āmantrayate sma / itīmāni bhikṣavo 'ṣṭau pānāni kāle (fol. 234r1 = gbm 6.780) pratigrāhitāni akāle marditāni (msv i 263) akāle parisrutāni akāle 'dhiṣṭhitāni paścādbhaktena paribhoktavyāni // itīmāni aṣṭau pānāni kāle pratigrāhitāni kāle marditāni // kāle parisrutāni akāle adhiṣṭhitāni na paribhoktavyāni | // itīmāni aṣṭau pānāni kāle pratigrāhitāni kāle marditāni kāle parisrutāni akāle adhiṣṭhitāni na paribhoktavyāni // itīmāni aṣṭau pānāni akāle marditāni akāle parisrutāni paścādbhaktena paribhoktavyāni / rātryāś ca prathame yāmātikrāntā na paribhoktavyāni //
{dutt: as the tibetan translation does not agree with the sanskrit textr, we reconstruct here the sanskrit from tibetant: itīmāni bhikṣavo 'ṣṭau pānāni kāle pratigrāhitāni kāle marditāni kāle adhiṣṭhitāni kāle paribhoktavyāni / akāle na paribhoktavyāni / rātryāś ca prathame yāme 'tikrānte na paribhoktavyāni / itīmāni aṣṭau pānāni kāle pratigrāhitāni akāle marditāni akāle parisrutāni akāle adhiṣṭhitāni na paribhoktavyāni / itīmāni aṣṭau pānāni kāle pratigrāhitāni kāle marditāni akāle parisrutāni akāle adhiṣṭhitāni na paribhoktavyāni / itīmāni aṣṭau pānāni akāle pratigrāhitāni akāle marditāni akāle parisrutāni paścādbhaktena na paribhoktavyāni / rātryāś ca yāme 'tikrānte na paribhoktavyāni /}
अथ कैनेय ऋषिर् उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवान्* श्वो भक्तेन सार्धं भिक्षुसंघेनेति / अधिवासयति भगवान् कैनेयस्य ऋषेस् तूष्णींभावेन / अथ कैनेय ऋषिर् भगवतस् तूष्णींभावेनाधिवासनां विदित्वोत्थायासनात् प्रक्रान्तः / भगवान् अपि मन्दाकिन्याः पुष्करिण्यास् तीरे ऽन्तर्हित आदुमायां प्रत्यष्ठात् सार्धं भिक्षुसंघेन / अथ कैनेय ऋषिः सरात्रम् एवोत्थायान्तर्जनम् आमन्त्रयते / उत्तिष्ठत (msv i 264) आर्या उत्तिष्ठत / भद्रमुखाः काष्ठानि पाटयत / खाद्यकान्य् उल्लाडयत / प्रतिजाग्रत मण्डपवाडम् इति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
