Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

महायानसूत्रालंकार

Tác giả
असङ्ग
Thông tin
GRETIL — S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

स हि विज्ञानप्रवृत्तौ स्वामीभवन्ननि[भवन्नि]ष्टं विज्ञानमनित्यं न प्रवर्तयेत् । अनिष्टं च । नैव तस्मादुभयथाप्यसंभवात् । असौ द्रष्टा यावन्मोक्ता न युज्यते । अपि खलु यदि द्रव्यतः पुद्गलो ऽस्ति ।

तत्कर्मलक्षणं साध्यं यदि द्रव्यतो ऽस्तितस्य कर्माप्युपलभ्यते । यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि । न चैवं पुद्गलस्य । तस्मान्न सो ऽस्ति द्रव्यतः । तस्मिंश्च द्रव्यत इष्यमाणे बुद्धस्य भगवतः । संबोधो बाध्यते त्रिधा ।

गम्भीराभिसंबोधः । असाधारणाभिसंबोधः । लोकोत्तराभिसंबोधश्च । न हि पुद्गलाभिसंबोधे किंचिद्गम्भीरमभिसंबुद्धं भवति । न तीर्थ्यासाधारणं । न लोकानुचित्तं । तथा ह्येष ग्राहः सर्वलोकगम्यः । तीर्थ्याभिनिविष्टः । दिर्घसंसारोचित्तश्च । अपि खलु पुद्गलो द्रष्टा भवन् यावद्विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन्निष्प्रयत्नो वा । सप्रयत्नस्य वा पुनरसौ प्रयत्नः स्वयंभूर्वा भवेदाकस्मिकः । तत्प्रत्ययो [वा?]

दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि ।

तस्मादेव च दोषत्रयाद्वक्ष्यमाणात्

तद्यत्नप्रत्ययत्वं च

नेति वर्तते । निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति ।

निर्यत्नं दर्शनादिकम् ।

इत्यसति व्यापारे पुद्गलस्य दर्शनादौ कथमसौ द्रष्टा भवति । यावद्विज्ञाता । दोषत्रयादित्युक्तं कतमस्माद्दोषत्रयात् ।

अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥

यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि । न तर्हि तेषां पुद्गलः कर्तेति कथमसौ द्रष्टा भवति यावद्विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात् न कदाचित्प्रयत्नो न स्यादनित्यो न स्यात् । नित्ये च प्रयत्ने दर्शनादीनां युगपच्च नित्यं च प्रवृत्तिः स्यादिति दोषः । तस्मान्न युज्यते दर्शनादिषु प्रयत्नस्य स्वयंभूत्वं ।

तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः । तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥

अथ पुद्गलप्रत्ययः प्रयत्नः स्यात् । तस्य तथा स्थितस्य प्रत्ययत्वं न युज्यते । प्रागभावात् । सति हि तत्प्रत्ययत्वे न कदाचित्पुद्गलो नास्तीति । किमर्थं प्राक् प्रयत्नो न स्याद्यदा नोत्पन्नः । विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्गलस्यानित्यत्वप्रसङ्गात् । (म्स_बग्छि 152) तृतीयश्च कश्चित्पक्षो नास्ति यन्न स्थितो न विनष्टः स्यादिति । तत्प्रत्ययो ऽपि प्रयत्नो न युज्यते । एवं तावद्युक्तिमाश्रित्य द्रव्यतः पुद्गलो नोपलभ्यते ।

सर्वे धर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश्च देशितो यत एव च ॥

धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायामस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान्प्रतिसंदधाति । अन्यत्र धर्मसंकेतादिति देशितं । पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति देशिता । आत्मदृष्टिर्भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः । उन्मार्गप्रतिपन्नो भवति । शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते । आर्यधर्मा अस्य न व्यवदायन्ते । एवमागमतो ऽपि न युज्यते । पुद्गलो ऽपि हि भगवता तत्र तत्र देशितः । परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्गलव्यवस्थानत इत्यसति द्रव्यतो ऽस्तित्वे कस्माद्देशितः ।

संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥

अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च । पुद्गलप्रज्ञप्तिमन्तरेण तद्वृत्तिभेदः संतानभेदश्च देशयितुं न शक्यः । तत्र परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं । भारहारसूत्रे । भारो भारादानं च संक्लेशः । भारनिक्षेपणं व्यवदानं । तयोर्वृत्तिभेदः संतानभेदश्चान्तरेण परिज्ञाताविभारहारपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । बोधिपक्षाश्च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्ग विशेषभेदतः । तेषां वृत्तिभेदः संतानभेदश्चान्तरेण श्रद्धानुसार्यादिपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । येनासति द्रव्यतो ऽस्तित्वे पुद्गलो देशित इत्ययमत्र नयो वेदितव्यः । इतरथा हि पुद्गलदेशना निष्प्रयोजना प्राप्नोति । न हि तावदसावात्मदृष्ट्युत्पादनार्थं युज्यते यस्मात्

आत्मदृष्टिरनूत्पाद्या

पूर्वमेवोत्पन्नत्वात् । नापि तदभ्यासार्थं यस्मादात्मदृष्टेर्

अभ्यासो ऽनादिकालिकः ।

यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत । एवं सति स्यात्

अयत्नमोक्षः सर्वेषां

तथा हि सर्वेषां न दृष्टसत्यानामात्मदर्शनं विद्यते । नैव वा मोक्षो ऽस्तीति प्राप्नोति । न हि पूर्वमात्मानमनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिदात्मतो गृह्णाति । (म्स_बग्छि 153) यथा दुःखं दुःखतः पूर्वमगृहीत्वा पश्चाद्गृह्णातीति यथापूर्वं तथा पश्चादपि मोक्षो न स्यात् । सति चात्मन्यवश्यमहंकारममकाराभ्यामात्मतृष्णया चान्यैश्च तन्निदानैः क्लेशैर्भवितव्यमिति अतो ऽपि मोक्षो न स्यात् । न वा पुद्गलो ऽस्तीति अभ्युपगन्तव्यं । तस्मिन्हि सति नियतमेते दोषाः प्रसज्यन्ते ।

एवमेभिर्गुणैर्नित्यं बोधिसत्त्वाः समन्विताः । आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च ॥ msa_18.104 ॥

हीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टम् ।

॥ महायानसूत्रालंकारे बोधिपक्षाधिकारः [अष्टादशः] समाप्तः ॥

एकोनविंशत्यधिकारः

आश्चर्यविभागे त्रयः श्लोकाः ।

स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ । दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः ॥ msa_19.1 ॥

वीर्यारम्भो ह्यनास्वादो ध्यानेषु सुख एव च । निष्कल्पना च प्रज्ञायामाश्चर्यं धीमतां ग[म]तं ॥ msa_19.2 ॥

तथागतकुले जन्मलाभो व्याकरणस्य च । अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते ॥ msa_19.3 ॥

अत्र द्वाभ्यां श्लोकाभ्यां प्रतिपत्त्याश्चर्यमुक्तं षट्पारमिता आरभ्य । दानेन हि स्वदेहपरित्याग आश्चर्यं शीलसंवरनिमित्तमुदारसंपत्तित्यागः । शेषं गतार्थं । तृतीयेन श्लोकेन फलाश्चर्यमुक्तं चत्वारि बोधिसत्त्वफलान्यारभ्य प्रथमायामष्टम्यां दशम्यां त्रीणि शैक्षाणि फलानि । बुद्धभूमौ चतुर्थमशैक्षमत्र फलं ।

अनाश्चर्यविभागे श्लोकः ।

वैराग्यं करुणां चैत्य भावनां परमामपि । तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता ॥ msa_19.4 ॥

तास्विति पारमितासु । वैराग्यमागम्य दाने प्रयोगो नाश्चर्यं । करुणामागम्य शीले क्षान्तौ च । परमां भावनामागम्याष्टम्यां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो नाश्चर्यम् । आत्मपरसमचित्ततामागम्य सर्वास्वेव पारमितासु प्रयोगो नाश्चर्यमात्मार्थ इव परार्थे खेदाभावात् ।

समचित्ततायां त्रयः श्लोकाः ।

न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु । सत्त्वानां प्रगतः स्नेहो यथा सत्त्वेषु धीमतां ॥ msa_19.5 ॥

अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवं । क्षान्तिः सर्वत्र सत्त्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि ॥ msa_19.6 ॥

ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका । विज्ञेया बोधिसत्त्वानां तास्वेव समचित्तता ॥ msa_19.7 ॥

एकः श्लोकः सत्त्वेषु समचित्ततायां । द्वौ पारमितासु । न हि सत्त्वानामात्मादिषु स्नेहः समतया अनुगतो न चात्यन्तं । तथा ह्यात्मानमपि कदाचिन्मारयन्ति । बोधिसत्त्वानां तु सर्वसत्त्वेषु समतयात्यन्तं च पारमितासु पुनर्दाने समचित्तत्वमर्थिष्वपक्षपातात् । शीले ऽणुमात्रस्यापि नित्यमखण्डना । क्षान्तिः सर्वत्रेति देशकाले सत्वेष्वभेदना । वीर्ये सत्त्वार्थं[सर्वार्थं]वीर्यारम्भात्स्वपरार्थं समं प्रयोगात्सर्वकुशलार्थं च । शेषं गतार्थम् ।

उपकारित्वविभागे षोडश श्लोकाः ।

स्थापना भाजनत्वे च शीलेष्वेव च रोपणं । मर्षणा चापकारस्य अर्थे व्यापारगामिता ॥ msa_19.8 ॥

आवर्जना शासने ऽस्मिंश्छेदना संशयस्य च । सत्त्वेषु उपकारित्वं धीमतामेतदिष्यते ॥ msa_19.9 ॥

आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर्यथोपकारित्वं बोधिसत्त्वानां तत्परिदीपितं । दानेन हि सत्त्वानां भाजनत्वे स्थापयन्ति कुशलक्रियायाः । ध्यानेनावर्जयन्ति प्रभावविशेषयोगात् । शेषं गतार्थं । शेषैः श्लोकैः मात्रादिसाधर्म्येणोपकारित्वं दर्शितम् ।

समाशयेन सत्त्वानां धारयन्ति सदैव ये । जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च ॥ msa_19.10 ॥

दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च । पञ्चभिः कर्मभिः सत्त्वमातृकल्पा जिनात्मजाः ॥ msa_19.11 ॥

सत्त्वानां मातृभूताः सत्त्वमातृकल्पा । माता हि पुत्रस्य पञ्चविधमुपकारं करोति । गर्भेण धारयति । जनयति । आपाययति पोषयति संवर्धयति । अपायाद्रक्षते । अभिलापं च शिक्षयति । तत्साधर्म्येणैतानि पञ्चबोधिसत्त्वकर्माणि वेदितव्यानि । आर्यभूमिरार्यधर्मा वेदितव्याः ।

श्रद्धायाः सर्वसत्त्वेषु सर्वदा चावरोपणात् । अधिशीलदिशिक्षायां विमुक्तौ च नियोजनात् ॥ msa_19.12 ॥

बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात् । पञ्चभिः कर्मभिः सत्त्वपितृकल्पा जिनात्मजाः ॥ msa_19.13 ॥

पिता हि पुत्राणां पञ्चविधमुपकारं करोति । बीजं तेषामवरोपयति । शिल्पं शिक्षयति । प्रतिरूपैर्दारैर्नियोजयति । सन्मित्रेषुपनिक्षिपति । अनृणं करोति यथा न (म्स_बग्छि 156) पैतृकमृणं दाप्यते । तत्साधर्म्येण बोधिसत्त्वानामेतानि पञ्च कर्माणि वेदितव्यानि । श्रद्धा हि सत्त्वानामार्यात्मभावप्रतिलम्भस्य बीजं । शैक्षाः शिल्पं । विमुक्तिर्भार्या विमुक्तिप्रीतिसुखसंवेदना[त्?]बुद्धाः कल्याणमित्राणि । अवरणमृणस्थानम् ।

अनर्हदेशनां ये च सत्त्वानां गूहयन्ति हि । शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम् ॥ msa_19.14 ॥

अववादं च यच्छन्ति मारानावेदयन्ति हि । पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः ॥ msa_19.15 ॥

बन्धवो हि बन्धूनां पञ्चविधमुपकारं कुर्वन्ति । गुह्यं गूहयन्ति । कुचेष्टितं विगर्हन्ति । सुचेष्टितं प्रशंसन्ति । करणीयेषु साहाय्यं गच्छन्ति । व्यसनस्थानेभ्यश्च निवारयन्ति । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि । अनर्हेभ्यो गम्भीरधर्मेदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर्यथाक्रमं निन्दनात्प्रशंसनाच्च । अधिगमायाववादात् मारकर्मवेदनाच्च ।

संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः । यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् ॥ msa_19.16 ॥

सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः । पञ्चभिः कर्मभिः सत्त्वमित्रकल्पा जिनात्मजाः ॥ msa_19.17 ॥

तद्धि मित्रं यन्मित्रस्य हिते च सुखे चाविपर्यस्तं । सुखं चोपसंहरति हितं चाभेद्यं च भवति । हितसुखैषि च नित्यं । तथा बोधिसत्त्वाः सत्त्वानां पञ्चभिः कर्मभिर्मित्रकल्पा बेदितव्याः । लौकिकी हि संपत् सुखं । तया सुखानुभवात् । लोकोत्तरा हितं । क्लेशव्याधिप्रतिपक्षत्वात् ।

सर्वदोद्यमवन्तो ये सत्त्वानां परिपाचने । सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु ॥ msa_19.18 ॥

द्वयसंपत्तिदातारस्तदुपाये च कोविदाः । पञ्चभिः कर्मभिः सत्त्वदासकल्पा जिनात्मजाः ॥ msa_19.19 ॥

दासो हि पञ्चभिः कर्मभिः सम्यग् वर्तते । उत्थानसंपन्नो भवति । कृत्येषु अविसंवादको भवति । क्षमो भवति परिभाषणताडनादीनां । निपुणो भवति सर्वकार्यकरणात् । (म्स_बग्छि 157) विचक्षणश्च भवति उपायज्ञः । तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्त्वानां वेदितव्यानि । द्वयसंपत्तिर्लौकिकी लोकोत्तरा च वेदितव्या ।

अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः । सर्वयानापदेष्टारः सिद्धयोगानियोजकाः ॥ msa_19.20 ॥

सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः । पञ्चभिः कर्मभिः सत्त्वाचार्यकल्पा जिनात्मजाः ॥ msa_19.21 ॥

पञ्चविधेन कर्मणा[चार्यः?]शिष्याणामुपकारी भवति । स्वयं सुशिक्षितो भवति । सर्वं शिक्षयति । क्षिप्रं शिक्षयति । सुमुखो भवति सुरतजातीयः । निरामिषचित्तश्च भवति । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि ।

सत्त्वकृत्यार्थमुद्युक्ताः संभारान्पुरयन्ति ये । संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च ॥ msa_19.22 ॥

लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च । पञ्चभिः कर्मभिः सत्त्वोपाध्यायकल्पा जिनात्मजाः ॥ msa_19.23 ॥

उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणामुपकारी भवति । प्रव्राजयति उपसंपादयति । अनुशास्ति दोषपरिवर्जने । आमिषेण संगृह्णाति धर्मेण च । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि ।

प्रतिकारविभागे द्वौ श्लोकौ ।

असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः । कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः ॥ msa_19.24 ॥

षट्सु पारमितास्वेव वर्तमाना हि देहिनः । भवन्ति बोधिसत्त्वानां तथा प्रत्युपकारिणः ॥ msa_19.25 ॥

तथेति यथा तेषां बोधिसत्त्वा उपकारिणः । तत्र भोगेष्वनासक्त्या दाने वर्तन्ते । शीलस्याखण्डनेन शीले । कृतज्ञतानुयोगात् क्षान्तौ । उपकारिबोधिसत्त्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति । प्रतिपत्तियोगतो वीर्यध्यानप्रज्ञासु येन च प्रतिपद्यन्ते यत्र चेति कृत्वा ।

आशास्तिविभागे श्लोकः ।

वृद्धिं हानिं च काङ्क्षन्ति सत्त्वानां च प्रपाचनं । विशेषगमनं भूमौ बोधिं चानुत्तरां सदा ॥ msa_19.26 ॥

पञ्च स्थानानि बोधिसत्त्वाः सदैवाशंसन्ते । पारमितावृद्धिं । तद्विपक्षहानिं । सत्त्वपरिपाचनं । भूमिविशेषगमनं । अनुत्तरां च सम्यक्संबोधिम् ।

अबन्ध्यप्रयोगविभागे श्लोकः ।

त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च । प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः ॥ msa_19.27 ॥

चतुर्विधे सत्त्वार्थे बोधिसत्त्वानामबन्ध्यः प्रयोगो वेदितव्यः । गम्भिरोदारधर्मत्रास[आ?]योगे । बोधिचित्तसमुत्पादे । उत्पादितबोधिचित्तानां संशयोपच्छेदने । पारमिताप्रतिपत्त्यववादे च ।

सम्यक्प्रयोगविभागे द्वौ श्लोकौ ।

दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे । शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये ॥ msa_19.28 ॥

विना[आ?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता । सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि ॥ msa_19.29 ॥

यथोक्तं रत्नकूटे । विपाको ऽप्रतिकाङिक्षणो दानेनेति विस्तरः ।

परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ ।

भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका । आस्वादनं विकल्पश्च धीराणां हानिहेतवः ॥ msa_19.30 ॥

स्थितानां बोधिसत्त्वानां प्रतिपक्षेषु तेषु च । ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् ॥ msa_19.31 ॥

षणां पारमितानां विपक्षा हानभागीयाः । तत्प्रतिपक्षा विशेषभागीया वेदितव्याः ।

प्रतिरूपकभूतगुणविभागे द्वौ श्लोकौ । एकः पट्पादः ।

प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना । लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा ॥ msa_19.32 ॥

सुवाक्करणसंपच्च प्रतिपत्तिविवर्जिता । एते हि बोधिसत्त्वानामभूतत्वाय देशिताः । विपर्ययात्प्रयुक्तानां तद्भूतत्वाय देशिताः ॥ msa_19.33 ॥

षणांपारमितानां प्रतिरूपकाः षड् बोधिसत्त्वगुणाः प्रवा[ता]रणादयो वेदितव्याः । शेषं गतार्थम् ।

विनयविभागे श्लोकः ।

ते दानाद्युपसंहारैः सत्त्वानां विनयन्ति हि । षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु ॥ msa_19.34 ॥

षट्प्रकारो विपक्षः । षणां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथांक्रमं । शेषं गतार्थम् ।

व्याकरणविभागे त्रयः श्लोकाः ।

धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः । बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतं ॥ msa_19.35 ॥

नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः । एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः ॥ msa_19.36 ॥

क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः । परिवारानुवृत्त्या च सद्धर्मस्य तदिष्यते ॥ msa_19.37 ॥

तत्र पुद्गलभेदेन व्याकरणं गोत्रस्थोत्पादितचित्तसंमुखासमक्षपुद्गलव्याकरणात् । कालभेदेन परिमितापरिमितकालव्याकरणात् । पुनर्बोधौ व्याकरणं भवति । व्याकरणे वा एवंनामा तथागत एवममुष्मिन्काले व्याकरिष्यतीति । अन्यत्पुनर्महाव्याकरणं यदष्टम्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभतः । अहं बुद्धो भविष्यामीति मानप्रहाणतः । सर्वनिमित्त[आ?]भोगप्रहाणतः । सर्वबुद्धबोधिसत्वै[त्व]श्च सार्धमेकीभावोपगमनतः । तदात्मसंतानभेदादर्शनात् । पुनः क्षेत्रादिभिर्व्याकरणमीदृशे बुद्धक्षेत्रे एवंनामा इयता कालेन बुद्धो भविष्यति । एवंनामके कल्पे ईदृशश्चास्य परिवारो भविष्यति । एतावदन्तरं कालमस्य सद्धर्मानुवृत्तिर्भविष्यतीति ।

नियतिपातविभागे श्लोकः षट्पादः ।

संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां । भावनायाश्च सातत्ये समाधानाच्युतावपि । कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा ॥ msa_19.38 ॥

षट्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः । संपत्तिनियतिपातो नित्यमुदारभोगसंपत्तिलाभात् । उपपत्तिनियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् । अखेदनियतिपातो न्(म्स_बग्छि 160) इत्यं संसारदुःखैरखेदात् । भावनासातत्यनियतिपातो नित्यं भावनासातत्यात् । समाधानाच्युतौ कृत्यसिद्धौ च नियतिपातो नित्यं समाध्यपरिहाणितः सत्त्वकृत्यसाधनतश्च । अनाभोगानुत्पत्तिकधर्मक्षान्तिलाभे नियतिपातश्च नित्यमनाभोगनिर्विकल्पज्ञानविहारात् ।

अवश्यकरणीयविभागे श्लोकः षट्पादः ।

पूजा शिक्षासमादानं करुणा शुभभावना । अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च । सर्वभूमिषु धीराणामवश्यकरणीयता ॥ msa_19.39 ॥

षट्पारमिता अधिकृत्येयं षड्विधावश्यकरणीयता गतार्थः श्लोकः ।

सातत्यकरणीयविभागे द्वौ श्लोकौ ।

कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा । दुःखाधिवासना चैव कुशलस्य च भावना ॥ msa_19.40 ॥

अनास्वादः सुखे चैव निमित्तानामकल्पना । सातत्यकरणीयं ही धीमतां सर्वभूमिषु ॥ msa_19.41 ॥

षट्पारमितापरिनिष्पादनार्थं षट् सातत्यकरणीयानि । गतार्थौ श्लोकौ । प्रधानवस्तुविभागे श्लोकः षट्पादः ।

धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च । वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः । प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् ॥ msa_19.42 ॥

षट्सु पारमितास्वेतत् षड्विधं प्रधानं । तत्र शीलविशुद्धिरार्यकान्तं शीलम् । अन्त्या सकरुणा स्थितिश्चतुर्थं ध्यानं करुणाप्रमाणयुक्तं । शेषं गतार्थम् ।

प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकाः ।

विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः । ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु ॥ msa_19.43 ॥

पुनः सत्यव्यवस्थानं सप्तधा तथताश्रयात् । चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः ॥ msa_19.44 ॥

योनिशश्च मनस्कारः सम्यग्दृष्टिः फलान्विता । प्रमाणैर्विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् ॥ msa_19.45 ॥

आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि । समुदागमभेदाच्च त्रिविधं यानमिष्यते ॥ msa_19.46 ॥

चतुर्विधं प्रज्ञप्तिव्यवस्थानं । धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् । तत्र पञ्चविद्यास्थानव्यवस्थानं धर्मव्यवस्थानं वेदितव्यं सूत्रगेयादिभिराकारभेदैः । तदन्तर्भूतान्येव हि तदन्यानि विद्यास्थानानि महायाने बोधिसत्त्वेभ्यो देश्यन्ते । सत्यव्यवस्थानं तु सप्तविधां तथतामाश्रित्य प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां [विशुद्धितथतां?]सम्यक्प्रतिपत्तितथतां च । युक्तिप्रज्ञप्तिव्यवस्थानं चतुर्विधम् । अपेक्षायुक्तिः । कार्यकारणयुक्तिः । उपपत्तिसाधनयुक्तिः । धर्मतायुक्तिश्च । यानप्रज्ञप्तिव्यवस्थानं त्रिविधं । श्रावकयानं । प्रत्येकबुद्धयानं । महायानं च । तत्रापेक्षायुक्तिस्त्रिष्वपि यानेषु योनिशोमनस्कारः । तमपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेरुत्पादात् । कार्यकारणयुक्तिः सम्यग्दृष्टिः सफला । उपपत्तिसाधनयुक्तिः प्रत्यक्षादिभिः प्रमाणैः परीक्षा । धर्मतायुक्तिरचिन्त्यं स्थानं । सिद्धा हि धर्मता न पुनश्चिन्त्या । कस्माद्- योनिशोमनस्कारात् सम्यग्दृष्टिर्भवति । ततो वा क्लेशप्रहाणं फलमित्येवमादि । यानत्रयव्यवस्थानं पञ्चभिराका रैर्वेदितव्यं । आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश्च । तत्र हीनामाशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानमुत्तमा महायानं । यथाशयं हि यथाभिप्रायं धर्मदेशनाभिभवति । यथा देशनं तथा प्रयोगः । यथाप्रयोगं संभारः । यथासंभारं च बोधिसमुदागम इति ।

पर्येषणाविभागे श्लोकः । आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः । प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा ॥ msa_19.47 ॥

चतुर्विधा पर्येषणा धर्माणां । नामपर्येषणा वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तिपर्येषणा च । तत्र नाम्नो वस्तुन्यागन्तुकत्वपर्येषणा नामपर्येषणा वेदितव्या । वस्तूनो नाम्न्यागन्तुकत्वपर्येषणा वस्तुपर्येषणा वेदितव्या । तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्तिमात्रत्वपर्येषणा स्वभावविशेषप्रज्ञप्तिपर्येषणा वेदितव्या ।

यथाभूतपरिहार[ज्ञान]विभागे दश श्लोकाः ।

सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधं । सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते ॥ msa_19.48 ॥

चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतं । वस्तुपर्येषणागतं । स्वभावप्रज्ञप्तिपर्येषणागतं । विशेषप्रज्ञप्तिपर्येषणागतं च । तच्च सर्वस्यास्य नामादिकस्यानुपलम्भाद्वेदितव्यं । उत्तरार्धेन यथाभूतपरिज्ञानस्य कर्मणां महात्म्यं दर्शयति ।

प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि । साश्रयाश्चित्तचैत्तास्तु बध्यन्ते ऽत्र सबीजकाः ॥ msa_19.49 ॥

तत्र प्रतिष्ठानिमित्तं भाजनलोकः । भोगनिमित्तं पञ्च रूपादयो विषयाः । बीजनिमित्तं यत्तेषां बीजमालयविज्ञानं । यत्र[अत्र]त्रिविधे निमित्ते साश्रयाश्चित्तचैत्ता वध्यन्ते । यच्च तेषां बीजमालयविज्ञानम् । आश्रयाः पुनश्चक्षुरादयो वेदितव्याः ।

पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयं । सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम् ॥ msa_19.50 ॥

तत्र पुरतः स्थापितं निमित्तं यच्छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं । स्थितं स्वयमेव यत्प्रकृत्यालम्बनीभूतमयत्नपरिकल्पितं । तस्य विभावनाधि[वि]गमो ऽनालम्बनीभावः । अकल्पना तदुपायो निमित्तप्रतिपक्षः । तच्चोभयं क्रमाद्भवति । पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य । तत्र चतुर्विपर्यासानुगतं पुद्गलनिमित्तं विभावयन्योगी श्रावकबोधिं प्रत्येकबोधिं वा लभते । सर्वधर्मनिमित्तं विभावयन् महाबोधिम् । एतेन यथा तत्त्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं । तत्परिदीपितम् ।

तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं । दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् ॥ msa_19.51 ॥

एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते । तत्परिदीपितं । तथतालम्बनत्वेन परिनिष्पन्नं स्वभावं परिज्ञाय । द्वयग्राहविवर्जितत्वेन कल्पितं । दौष्ठुल्यकायप्रत्यक्षत्वेन परतन्त्रं । तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं तत्क्षये ।

तथतालम्बनं ज्ञानमनानाकारभावितं । सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते ॥ msa_19.52 ॥

अनानाकारभावितं निमित्ततथतयोरनानात्वदर्शनात् । एतेन श्रावकानिमित्ताद्वोधिसत्त्वानिमित्तस्य विशेषः परिदीपितः । ते हि निमित्तानिमित्तयोर्नानात्वं पश्यन्तु । (म्स_बग्छि 163) सर्वनिमित्तानाममनसिकारादनिमित्तस्य च धातोर्मनसिकारादनिमित्तं समापद्यन्ते । बोधिसत्त्वास्तु तथताव्यतिरेकेण निमित्तपश्यन्तो निमित्तमेवानिमित्तं पश्यन्त्यतस्तेषां तज्ज्ञानमनानाकारभावितं । सत्तार्थे च तथतायामसत्तार्थे च निमित्ते प्रत्यक्षं विकल्पविभु चोच्यते । विकल्पविभुत्वलाभाद्यथाविकल्पं सर्वार्थसमृद्धितः ।

तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः । तत्त्वं तु बोधिसत्त्वानां सर्वतः ख्यात्यपास्य तत् ॥ msa_19.53 ॥

एतेन यथा बालानां स्वरसेनातत्त्वमेव ख्याति निमित्तं न तत्त्वं तथता । एवं बोधिसत्त्वानां स्वरसेन तत्त्वमेव ख्याति नातत्वमित्युपदर्शितम् ।

अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर्मोक्षो ऽसौ कामचारतः ॥ msa_19.54 ॥

असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यानता आश्रयपरावृत्तिर्वेदितव्या । तया हि तदख्यानं ख्यानं च । सैव च मोक्षो वेदितव्यः । किं कारणं । कामचारतः । तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् ।

अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान् । अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत् ॥ msa_19.55 ॥

इदं क्षेत्रपरिशोधनो[नौ]पाये[य]यथाभूतपरिज्ञानं । भाजनलोका[को ऽ]र्थो महानन्योन्यो वर्तमानस्तुल्यजातीयः ख्याति स एवायमिति । स चैवं ख्यानादन्तरायकरो भवति बुद्धक्षेत्रपरिशुद्धये । तस्मादन्तरायकरं परिज्ञायैनमुत्सृजेदेवं ख्यातं ।

अप्रमेयविभागे श्लोकः ।

परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने । सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् ॥ msa_19.56 ॥

पञ्चविधं हि वस्तु बोधिसत्त्वानामप्रमेयं । परिपाच्यं वस्तु सत्त्वधातुरविशेषेण विशोध्यं लोकधातुर्भाजनलोकसंगृहीतः । प्राप्यं धर्मधातुः । परिपाचनयोग्यं विनेयधातुः । सम्यग्देशनावस्तु विनयोपायधातुः ।

देशनाफलविभागे द्वौ श्लोकौ ।

बोधिसत्त्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च । चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च ॥ msa_19.57 ॥

सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता । देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः ॥ msa_19.58 ॥

देशनायां प्रयुक्तस्य बोधिसत्त्वस्याष्टविधं देशनायाः फलं वेदितव्यं । श्रोतृषु केचिद्बोधिचित्तमुत्पादयन्ति । केचिदनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते । केचिद्विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पादयन्ति हीनयानसंगृहीतं । केच्चिदाश्रवक्षयं प्राप्नुवन्ति । सद्धर्मश्च चिरस्थितिको भवति परंपराधारणतया । अव्युत्पन्नानामर्थव्युत्पत्तिर्भवति । संशयितानां संशयच्छेदो भवति । विनिश्चितानां सद्धर्मसंभोगो भवति अनवद्यो प्रीतिरसः ।

महायानमहत्त्वविभागे द्वौ श्लोकौ ।

आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा । ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च ॥ msa_19.59 ॥

उदागममहत्त्वं च महत्त्वं बुद्धकर्मणः । एतन्महत्त्वयोगाद्धि महायानं निरुच्यते ॥ msa_19.60 ॥

सप्तविधमहत्त्वयोगान्महायानमित्युच्यते । आलम्बनमहत्त्वेनाप्रमाणविस्तीर्णसूत्रादिधर्मयोगात् । प्रतिपत्तिमहत्त्वेन द्वयोः प्रतिपत्तेः स्वार्थे परार्थे च । ज्ञानमहत्त्वतो द्वयोर्ज्ञानात्पुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले । वीर्यारम्भमहत्त्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् । उपायकौशल्यमहत्त्वेन संसारापरित्यागासंक्लेशतः । समुदागममहत्त्वेन बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् । बुद्धकर्ममहत्त्वेन च पुनः पुनरभिसंबोधिमहापरिनिर्वाणसंदर्शनतः ।

महायानसंग्रहविभागे द्वौ श्लोकौ ।

गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा । दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च ॥ msa_19.61 ॥

सत्त्वानां परिपाकश्च क्षेत्रस्य च विशोधना । अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना] ॥ msa_19.62 ॥

एतेन दशविधेन वस्तुन कृत्स्नं महायानं संगृहीतं । तत्र सत्वानां परिपाचनं भूमिप्रतिष्ठ[प्रविष्ट]स्य यावत्सप्तम्यां भूमौ वेदितव्यं । क्षेत्रपरिशोधनमप्रतिष्ठितनिर्वाणं चाविनिवर्तनीयायां भूमौ त्रिविधायां । श्रेष्ठा बोधिर्बुद्धभूमौ । तत्रैव चाभिसंबोधिमहापरिनिर्वाणसंदर्शना वेदितव्या । शेषं गतार्थम् ।

बोधिसत्त्वविभागे दश श्लोकाः ।

आधिमोक्षिक एकश्च शुद्धाध्याशयिको ऽपरः । निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते । बोधिसत्त्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु ॥ msa_19.63 ॥

तत्र निमित्तचारी द्वितीयां भूमिमुपादाय यावत् षष्ठयां । अनिमित्तचारी सप्तम्याम् । अनभिसंस्कारचारी परेण । शेषं गतार्थम् ।

कामेष्वसक्तस्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च । धर्मे ऽचलस्तत्त्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः ॥ msa_19.64 ॥

एतेन षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम् ।

अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च । धीरो ऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः ॥ msa_19.65 ॥

तत्र धीर आरब्धवीर्यो दुःखैरविषादात् । अप्रमत्तो ध्यानसुखेष्वसक्तः । शेषं गतार्थम् ।

आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो ह्यनिगूढवैरः । योगी निमित्ते कुशलो ऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः ॥ msa_19.66 ॥

तत्र भोगेष्वसक्तो यस्तान्विहाय प्रव्रजति । निमित्तकुशलः शमथादिनिमित्तत्रयकौशल्यात् । अध्यात्मसंस्थो महायानाविकम्पनात् । महायानं हि बोधिसत्त्वानामध्यात्मं । शेषं गतार्थम् ।

दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः । स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः ॥ msa_19.67 ॥

तत्र स्मृतिप्रधानो ध्यानवान् स्मृतिबलेन चित्तसमाधानात् । सुसमाहितात्मा निर्विकल्पज्ञानः । शेषं गतार्थम् ।

दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः । दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः ॥ msa_19.68 ॥

तत्र दुःखाद्विमुक्तो ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः । दुःखाभ्युपेतः संसाराभ्युपगमात् । शेषं गतार्थम् ।

धर्मेरतो ऽधर्मरतः [धर्मे ऽरतो ऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः । धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः ॥ msa_19.69 ॥

अत्र धर्मे जुगुप्सी अक्षान्तिजुगुप्सनात् । धर्मे वशी समापत्तौ । धर्मप्रधानो महाबोधिपरमः । धर्म एवात्र धरम उक्तो वृत्तानुवृत्त्या । शेषं गतार्थम् ।

भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः । सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः ॥ msa_19.70 ॥

रत्र रक्षाप्रमत्तः क्षान्तिमान् स्वपरचित्तानुरक्षणात् । धर्माप्रमत्तो यथाभूतधर्मप्रज्ञानात् । शेषं गतार्थम् ।

विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः । विशाल[विसार]लज्जस्तुनदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः ॥ msa_19.71 ॥

तत्र विमानलज्जो यो ऽर्थिनो न विमानयति । तनुदोषलज्जो ऽणुमात्रेष्ववद्येषु भयदर्शी तनुदृष्टिलज्जो धर्म नैरात्म्यप्रतिवेधी । शेषं गतार्थं । सर्वैरेभिः श्लोकैः पर्यायान्तरेण षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम् ।

इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः । शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः ॥ msa_19.72 ॥

इहैव सत्त्वानामनुग्रहे वर्तते दानेन । अमुत्र शीलेनोपपत्तिविशेषं प्राप्य । संस्कारयोगेनेति वीर्ययोगेन । महाफलेनेति बुद्धत्वेन । शेषं गतार्थम् । एतेन षड्भिः पारमिताभिर्महाबोधिप्रणिधानेन च यथा सत्त्वानुग्रहे बोधिसत्त्वो वर्तते तत्परिदीपितम् ।

बोधिसत्त्वसामान्यनामविभागे अष्टौ श्लोकाः ।

बोधिसत्त्वो महासत्त्वो धीमांश्चैवोत्तमध्युतिः । जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः ॥ msa_19.73 ॥

विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः । कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा ॥ msa_19.74 ॥

एतानि षोडश सर्वबोधिसत्त्वानामन्वर्थनामानि सामान्येन ।

सुतत्त्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः । उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्त्वः ॥ msa_19.75 ॥

पञ्चविधेन बोधविशेषेण बोधिसत्त्व इत्युच्यते । पुद्गलधर्म नैरात्म्यबोधेन । सर्वाकारसर्वार्थबोधेन अक्षयावबोधेन परिनिर्वाणसंदर्शने ऽपि । यथा विनेयं च विनयोपायबोधेन ।

आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च । सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्त्वः ॥ msa_19.76 ॥

अत्र पुनश्चतुर्विधबोधविशेषं दर्शयति चित्तमनोविज्ञानबोधतः । तेषां चाभूतपरिकल्पत्वावबोधतः । तत्र चित्तमालयविज्ञानं । मनस्तदालम्बनमात्मदृष्ट्यादिसंप्रयुक्तं । विज्ञानं षड्विज्ञानकायाः ।

अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात् । अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः ॥ msa_19.77 ॥

अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति । अविद्याबोधात् । विद्याबोधात् । परिकल्पितादिस्वभावत्रयबोधाच्च । तत्राबोधत्वेन बोधप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः ।

अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात् । बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः ॥ msa_19.78 ॥

अत्र पञ्चविधं बोधविशेषं दर्शयति । परतन्त्रलक्षणबोधात् । परिनिष्पन्नलक्षणबोधात् । [परिकल्पितलक्षणबोधात्?] सर्वज्ञेयसर्वाकारबोधात् । बोध्यबोधकबोधि[ध]त्रिमण्डलपरिशुद्धिबोधाच्च ।

निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात् क्रमदर्शनस्य । बोधाद्भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्त्वः ॥ msa_19.79 ॥

तत्र निष्पन्नबोधो बुद्धत्वं । पदबोधो येन तुषितभवने वसति । गर्भानुबोधो येन मातुः कुक्षिमवक्रामति । क्रमदर्शने बोधो येन गर्भान्निष्क्रमणं कामपरिभोगं प्रव्रज्यां दुष्करचर्यामभिसंबोधिं च दर्शयति । भृशं संशयहानिबोधो येन सर्वसंशयच्छेदाय सत्त्वानां धर्मचक्रं प्रवर्तयति ।

लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च । निर्जल्पबुद्धिर्हतमानमानी ह्यपक्वसंपक्वमतिश्च धीमान् ॥ msa_19.80 ॥

अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्त्वः परिदीपितः । तत्र लाभी अलाभी धीसंस्थितश्चातीतानागतप्रत्युत्पन्नैर्बोधैर्यथाक्रमं । बोद्धा स्वयंबोधात् । अनुबोद्धा परतो बोधादेतेनाध्यात्मिकबाह्यं बोधं दर्शयति । प्रतिदेशको निर्जल्पबुद्धिरित्यौदारिकसूक्ष्मं । मानी हतमानीति हीनप्रणीतम् । अपक्वसंपक्वमतिश्चेति दूरान्तिकं बोधं दर्शयति ।

॥ महायानसूत्रालंकारे गुणाधिकारः [एकोनविंशतितमः?] समाप्तः ॥

विंशतितमएकविंशतितमश्चाधिकारः

लिङ्गविभागे द्वौ श्लोकौ ।

अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता । गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमतां ॥ msa_20.1 ॥

परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे । आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकं ॥ msa_20.2 ॥

तत्रप्रथमेन श्लोकेन पञ्च बोधिसत्त्वलिङ्गानि दर्शयति । द्वितीयेन तेषां कर्म समास संग्रहं च । तत्रानुकम्पा बोधिचित्तेन सत्त्वपरिग्रहार्थं प्रियाख्यानं सत्त्वानां बुद्धशासनाधिमुक्तिलाभार्थं धीरता दुष्करचर्यादिभिरखेदार्थं मुक्तहस्तता गम्भीरसंधिनिर्मोक्षणं च द्वयेन संग्रहार्थमामिषेण धर्मेण च यथाक्रमम् । एषां पञ्चानां लिङ्गानाम् अनुकम्पा आशयतो वेदितव्या । शेषाणि प्रयोगतः ।

गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकाः ।

बोधिसत्त्वा हि सततं भवन्तश्चक्रवर्तिनः । प्रकुर्वन्ति हि सत्त्वार्थं गृहिणः सर्वजन्मसु ॥ msa_20.3 ॥

आदानलब्धा प्रव्रज्या धर्मतोपगता परा । निदर्शिका च प्रव्रज्या धीमतां सर्वभूमिषु ॥ msa_20.4 ॥

अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु । गृहिणो बोधिसत्त्वाद्धि यतिस्तस्माद्विशिष्यते ॥ msa_20.5 ॥

एकेन श्लोकेन यादृशे गृहिपक्षे स्थितो बोधिसत्त्वः सत्त्वार्थं करोति तत्परिदीपितं । द्वितीयेन यादृशे प्रव्रजितपक्षे । तत्र त्रिविधा प्रव्रज्या वेदितव्या । समादानलब्धा । धर्मतालब्धा । निदर्शिका च निर्माणैः । तृतीयेन गृहिपक्षात् प्रव्रजितपक्षस्य विशेषः परिदीपितः ।

अध्याशयविभागे श्लोकः षट्पादः ।

परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च । निर्वाणेच्छा च धीराणां सत्त्वेष्वाशय इष्यते । अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु ॥ msa_20.6 ॥

एतेन समासतः पञ्चविधो ऽध्याशयः परिदीपितः । सुखाध्याशयः । परत्रेष्टफलेच्छाहिताध्याशयः इहैव कुशलप्रवृत्तीच्छा निर्वाणेच्छा तदुभयाध्याशय एवेति नान्यो वेदितव्यः । अशुद्धादिकास्त्रयो ऽध्याशया अप्रविष्टानां । भूमिप्रविष्टानां । अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः ।

परिग्रहविभागे श्लोकः ।

प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः । गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु ॥ msa_20.7 ॥

चतुर्विधः सत्त्वपरिग्रहो बोधिसत्त्वानां प्रणिधानपरिग्रहो वेदितव्यो बोधिचित्तेन सर्वसत्त्वपरिग्रहणात् । समचित्ततापरिग्रह आत्मपरसमतालाभादभिसमयकाले । आधिपत्यपरिग्रहः स्वामिभूतस्य येषामसौ स्वामी । गणपरिकर्षणपरिग्रहश्च शिष्यगणोपादनात् ।

उपपत्तिविभागे श्लोकः ।

कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा । समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता ॥ msa_20.8 ॥

चतुर्विधा बोधिसत्त्वानामुपपत्तिः कर्माधिपत्येन याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानोपपत्तिः प्रणिधानवशेन या भूमिप्रविष्टानां सर्वसत्त्वपरिपाचनार्थं तिर्यगादिहीनस्थानोपपत्तिः । समाध्याधिपत्येन या ध्यानानि व्यावर्त्य कामधातावुपपत्तिः । विभुत्वाधिपत्येन या निर्माणैस्तुषितभवनाद्युपपत्तिसंदर्शनात् ।

विहारभूमिविभागे त्रिंशत् [उदान] श्लोकाः ।

लक्षणात्पुद्लाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः । निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च ॥ msa_20.9 ॥

लक्षणविभागमारभ्य पञ्च श्लोकाः ।

शून्यता परमात्मस्य कर्म[आ?]नाशे व्यवस्थितिः । विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम् ॥ msa_20.10 ॥

ततश्च बोधिपक्षाणां संसारे परिणामना । विना च चित्तसंक्लेशं सत्त्वानां परिपाचना ॥ msa_20.11 ॥

उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा । एकायनपथश्लिष्टानिमित्तैकान्तिकः पथः ॥ msa_20.12 ॥

अनिमित्ते ऽप्यनाभोगः क्षेत्रस्य च विशोधना । सत्त्वपाकस्य निष्पत्तिर्जायते च ततः परम् ॥ msa_20.13 ॥

समाधिधारणीनां च बोधेश्चैव विशुद्धता । एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम् ॥ msa_20.14 ॥

एकादश विहारा एकादश भूमयः । तेपां लक्षणं । प्रथमायां भूमौ परमशून्यताभिसमयो लक्षणं पुद्गलधर्म नैरात्म्याभिसमयात् । द्वितीयायां कर्मणामविप्रणाशव्यवस्थानं कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात् । तृतीयायां सातिशयसुखैर्बोधिसत्त्वध्यानैर्विहृत्यापरिहीनस्यैव तेभ्यः कामधातावुपपत्तिः । चतुर्थ्या बोधिपक्षबहुलविहारिणो ऽपि बोधिपक्षाणां संसारे परिणामना । पञ्चभ्यां चतुरार्यसत्यबहुलविहारितयाविनात्मनश्चित्तसंक्लेशेन सत्त्वानां परिपाचनायां नानाशास्त्रशिल्पप्रणयनात् । षष्ठ्यां प्रतीत्यसमुत्पादबहुलविहारितया संचित्यभवोपपत्तौ तत्र संक्लेशस्यानुरक्षणा । सप्तम्यां मिश्रोपमिश्रत्वेनैकायनपथस्याष्टमस्य विहारस्य श्लिष्ट आनिमित्तिकैकान्तिको मार्गः । अष्टभ्यामनिमित्ते ऽप्यनाभोगो निरभिसंस्कारानिमित्तविहारित्वाद् बुद्धक्षेत्रपरिशोधना च । नवम्यां प्रतिसंविद्वशितया सत्त्वपरिपाकनिष्पत्तिः सर्वाकारपरिपाचनसामर्थ्यात् । दशम्यां समाधिमुखानां धारणीमुखानां च विशुद्धता । एकादश्यां बुद्धभूमौ बोधिविशुद्धता लक्षणां [णं]सर्वज्ञेयावरणप्रहाणात् ।

भूमिष्ठे च [ष्वेवं] पुद्गलविभागमारभ्य द्वौ श्लोकौ ।

विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः । संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः ॥ msa_20.15 ॥

उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्त्वपाके कुशलो महर्द्धिः । संपूर्णकायश्च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्त्वः ॥ msa_20.16 ॥

दशसु भूमिषु दश बोधिसत्त्वा व्यवस्थाप्यन्ते । प्रथमायां विशुद्धदृष्टिः पुद्गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात् । द्वितीयायां सुविशुद्धशीलः सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्यभावात् । तृतीयायां समाहितो भवत्यच्युतध्यानसमाधिलाभात् । चतुर्थ्यां धर्मविभूतमानः सूत्रादिधर्मनानात्वमानस्य विभूतत्वात् । पञ्चम्यां संतानभेदे निर्माणो दशभिश्चित्ताशयविशुद्धिसमताभिः सर्वसंतानसमताप्रवेशात् । षष्ठ्यां संक्लेशव्यवदानभेदे निर्माणः प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेशव्यवदानादर्शनात् । प्रकृतिविशुद्धितामुपादाय । सप्तम्यामेकचित्तक्षलब्धबुद्धिर्निर्निमित्तविहारसामर्थ्यात् प्रतिक्षणं सप्तत्रिंशद्बोधिपक्षभावनातः । अष्टम्यामुपेक्षकः क्षेत्रविशोधकश्चानाभोगनिर्निमित्तविहारित्वाद् मिश्रोपमिश्रप्रयोगतश्चाविनिवर्तनीयभूमिप्रविष्टैर्बोधिसत्त्वैः । नवम्यां सत्त्वपरिपाककुशलः (म्स_बग्छि 171) पूर्ववत् । दशम्यां बोधिसत्त्वभूमौ बोधिसत्त्वो महर्द्धिकश्च व्यवस्थाप्यते महाभिज्ञालाभात् । संपूर्णधर्मकायश्चाप्रमाणसमाधिधारणीमुखस्फुरणादाश्रयस्य निदर्शने च शक्तो व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात् । अभिषिक्तश्च बुद्धत्वे सर्वबुद्धेभ्यस्तत्राभिषेकलाभात् ।

शिक्षाव्यवस्थानमारभ्य पञ्च श्लोकाः ।

धर्मतां प्रतिविध्येह अधिशीले ऽनुशीक्षणे । अधिचित्ते ऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा ॥ msa_20.17 ॥

धर्मतत्त्वं तदज्ञानज्ञानाद्या वृत्तिरेव च । प्रज्ञाया गोचरस्तस्माद् द्विभूमौ तद्व्यवस्थितिः ॥ msa_20.18 ॥

शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम् । अनिमित्तसंस्कारो विहारः प्रथमं फलम् ॥ msa_20.19 ॥

स एवानभिसंस्कारो द्वितीयं फलमिष्यते । क्षेत्रशुद्धिश्च सत्त्वानां पाकनिष्पत्तिरेव च ॥ msa_20.20 ॥

समाधिधारणीनां च निष्पत्तिः परमं फलं । चतुर्विधं फलं ह्येतत् चतुर्भूमिसमाश्रितम् ॥ msa_20.21 ॥

प्रथमायां भूमौ धर्मतां प्रतिविध्य द्वितियायामधिशीलं शिक्षते । तृतीयायामधिचित्तं । चतुर्थीपञ्चमीषष्ठीष्वधिप्रज्ञं । बोधिपक्षसंगृहीता हि प्रज्ञा चतुर्थ्यां भूमौ । सा पुनर्द्वयगोचरा भूमिद्वये । द्वयं पुनर्धर्मतत्त्वं च दुःखादिसत्यं । तदज्ञानज्ञानादिका च वृत्तिरनुलोमः [प्रतिलोमः?] प्रतीत्यसमुत्पादः । तदज्ञानादिका हि वृत्तिरविद्यादिका । तज्ज्ञानादिका च वृत्तिर्विद्यादिका । तस्माद्भूमिद्वये ऽप्यधिप्रज्ञव्यवस्थानं । अतः परं चतुर्विधं शिक्षाफलं चतुर्भूमिसमाश्रितं वेदितव्यं यथाक्रमं । तत्र[प्रथमं फलम् अनिमित्तोविहारः ससंस्कारः?] द्वितीयं फलं स एवानिमित्तो विहारो ऽनभिसंस्कारः क्षेत्रपरिशुद्धिश्च वेदितव्यं । शेषं गतार्थम् ।

स्कन्धव्यवस्थानमारभ्य द्वौ श्लोकौ ।

धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना । समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना ॥ msa_20.22 ॥

विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना । चतुर्विधादावरणात् प्रतिघातावृतेरपि ॥ msa_20.23 ॥

तदन्यास्विति सप्तम्यां यावद् बुद्धभूमावुभयोर्विमुक्तिविमुक्तिज्ञानयोर्विशोधना । सा पुनर्विमुक्तिश्चतुर्विधफलावरणाच्च वेदितव्या । प्रतिघातावरणाच्च बुद्धभूमौ । येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते । बुद्धानां तु तद्विमोक्षात् सर्वत्राप्रतिहतं ज्ञानं । शेषं गतार्थम् ।

निष्पत्तिव्यवस्थानमारभ्य त्रयः श्लोकाः ।

अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः । निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः ॥ msa_20.24 ॥

निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव ॥ msa_20.25 ॥

भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु । प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयादपि ॥ msa_20.26 ॥

तत्राधिमुक्तिचर्याभूमिरनिष्पन्ना । शेषा निष्पन्ना इत्येताः सर्वभूमयः । निष्पन्ना अपि पुनः सप्तानिष्पन्नाः । शेषा निष्पन्ना निरभिसंस्कारवाहित्वात् । यत्पुनः प्रमुदितादिभूमिर्निष्पन्ना पूर्वमुक्ता तत्र निष्पत्तिर्यथाव्यवस्थापितभूमिमनसिकारेण । तस्य भूमिव्यवस्थानस्य कल्पनामात्रज्ञानात् तदविकल्पना[नया] च वेदितव्या । यदा तद्भूमिव्यवस्थानं कल्पनामात्रं जानीते । तदपि च कल्पनामात्रं न विकल्पयत्येवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद्भूमिपरिनिष्पत्तिरुक्ता भवति । अपि खलु भूमीनां भावना च निष्पत्तिश्चोभयमचिन्त्यं सर्वभूमिषु । तथा हि तद्बोधिसत्त्वानां प्रत्यात्मवेदनीयं बुद्धानां च विषयो नान्येषाम् ।

भूमिप्रतिष्ठ[विष्ट]स्य लिङ्गविभागमारभ्य द्वौ श्लोकौ ।

अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते । अलीनत्वमदीनत्वमपरप्रत्ययात्मता ॥ msa_20.27 ॥

प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता । अनेयानुनयोपायज्ञानं मण्डलजन्म च ॥ msa_20.28 ॥

एतद्भूमिप्रविष्टस्य बोधिसत्त्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यं । यां भूमिं प्रविष्टस्तत्र सालोको यां न प्रविष्टस्तत्राधिमुक्तिरित्येतदेकं लिङ्गम् । अलीनत्वं परमोदारगम्भीरेषु धर्मेषु । अदीनत्वं दुष्करचर्यासु । अपरप्रत्ययत्वं स्वस्यां भूमौ । सर्वभूमिप्रतिवेधश्च तदभिनिर्हारकौशल्यतः सर्वसत्त्वेष्वात्मसमचित्तता । अनेया वर्णावर्णशब्दाभ्यां । अननुनयश्चक्रवर्तीत्यादिसंपत्तिषु । उपायकौशल्यमनुपलम्भस्तस्य[लम्भस्य] बुद्धत्वोपायज्ञानात् । बुद्धपर्षन्मण्डलेषु चोत्पत्तिः सर्वकालमित्येतानि अपराणि लिङ्गानि बोधिसत्त्वस्य ।

भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ ।

नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पर्विकल्पर्हतः । नो विक्षिप्तमतिः सुखैर्न च हतो दुःखर्न वा [व्या]वर्तते सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि ॥ msa_20.29 ॥

सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित् । जातः स्वायतने सदा शुभकरः क्रीडत्यभिज्ञागुणैः सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मजः ॥ msa_20.30 ॥

दशपारमितालाभिनो बोधिसत्त्वस्य षोडशविधं लिङ्गं दर्शयति । षोडशविधं लिङ्गं । सदा पारमिताप्रतिपत्तिच्छन्देनाविरहितत्वं । षट्पारमिताविपक्षैश्च रहितत्वं प्रत्येकम् । अन्ययानमनसिकारेणाविक्षिप्तता । संपत्तिसुखेष्वसक्तता । विपत्तिदुष्करचर्यादुःखैः प्रयोगानिर्वर्तिता । कल्याणमित्राश्रयः । श्रुतपरत्वं । शास्तृपूजापरत्वं । सम्यक्परिणामना उपायकौशल्यपारमितया । स्वायतनोपपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्त्वाविरहितस्थानोपपत्तेः । सदाशुभकरत्वे[त्वं]बलपारमितया तद्विपक्षधर्माव्यवकिरणात् । अभिज्ञागुणविक्रीडनं च ज्ञानपारमितया । तत्र मैत्री व्यापादप्रतिपक्षः सुखोपसंहाराशयः । करुणा विहिंसाप्रतिपक्षो दुःखापगमाशयः । स्वभावकल्पनं कल्पः । विशेषकल्पनं विकल्पो वेदितव्यः ।

तत्रैवानुशंसविभागे श्लोकः ।

शमथे विपश्यनायां च द्वयपञ्चात्मको मतः । धीमतामनुशंसो हि सर्वथा सर्वभूमिषु ॥ msa_20.31 ॥

तत्रैव पारमितालाभे सर्वभूमिषु बोधिसत्त्वानां सर्वप्रकारो ऽनुशंसः पञ्चविधो वेदितव्यः । प्रतिक्षणं सर्वदौष्ठुल्याश्रयं द्रावयति । नानात्वसंज्ञाविगतिं च धर्मारामरतिः प्रतिलभते । अपरिच्छिन्नाकारं च सर्वतो ऽप्रमाणं धर्मावभासं संजानीते । अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति । धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तरादुत्तरतरं हेतुसंपरिग्रहं करोति । तत्र प्रथमद्वितीयौ शमथपक्षे वेदितव्यौ । तृतीयचतुर्थौ विपश्यनापक्षे । शेषमुभयपक्षे ।

भूमिनिरुक्तिविभागे नव श्लोकाः ।

पश्यतां बोधिमासन्नां सत्त्वार्थस्य च साधनं । तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते ॥ msa_20.32 ॥

अत्र न किंचिद्व्याख्येयं ।

दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते ।

दौः शील्यमलस्यान्ययानमनसिकारमलस्य चातिक्रमाद्विमलेत्युच्यते । तस्मात्तर्ह्यस्माभिस्तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात् । महाधर्मावभासस्य करणाच्च प्रभाकरी ॥ msa_20.33 ॥ तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात् महान्तं धर्मावभासं परेषां करोति ।

अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः । अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः ॥ msa_20.34 ॥

सा हि बोधिपक्षात्मिका प्रज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन । द्व्यं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यम् ।

सत्त्वानां परिपाकश्च स्वचित्तस्य च रक्षणा । धीमद्भिर्जीयते दुःखं दुर्जया तेन कथ्यते ॥ msa_20.35 ॥

तत्र सत्त्वपरिपाकाभियुक्तो ऽपि न संक्लिश्यते । सत्त्वविप्रतिपत्त्या तच्चोभयं दुष्करत्वाद् दुर्जयम् ।

आभिमुख्याद् द्व्यस्येह संसारस्यापि निर्वृतेः । उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात् ॥ msa_20.36 ॥

सा हि प्रज्ञापारमिताश्रयेण निर्वाणसंसारयोरप्रतिष्ठानात् संसारनिर्वाणयोरभिमुखी ।

एकायनपथश्लेषाद्भूमिर्दूरंगमा मता ।

एकायनपथः पूर्वं निर्दिष्टस्तदुपश्लिष्टत्वात् दूरं गता भवति प्रयोगपर्यन्तगमनात् । द्वयसंज्ञाविचलनादचला च निरुच्यते ॥ msa_20.37 ॥ द्वाभ्यां संज्ञाभ्यां अविचलनात् । निमित्तसंज्ञया[निमित्ताभोगसंज्ञया]अनिमित्ताभोगसंज्ञया च ।

प्रतिसंविन्मतिसाधुत्वाद्भूमिः साधुमती मता ।

प्रतिसंविन्मतेः साधुत्वादिति प्रधानत्वात् । धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत् ॥ msa_20.38 ॥ द्वयव्याप्तेरिति समाधिमुखधारणीमुखव्यापनान्मेघेनेवाकाशस्थलीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य धर्ममेघेत्युच्यते ।

विविधे शुभनिर्हारे रत्या विहरणात्सदा । सर्वत्र बोधिसत्त्वानां विहारभूमयो मताः ॥ msa_20.39 ॥

विविधकुशलाभिनिर्हारनिमित्तं सदा सर्वत्र रत्या विहरणाद्वोधिसत्त्वानां भूमयो विहारा इत्युच्यन्ते ।

भूयो भूयो ऽमितास्वासु ऊर्ध्वंगमनयोगतः । भूतामिताभयार्थाय त एवेष्टा हि भूमयः ॥ msa_20.40 ॥

भूयो भूयो ऽमितास्वासूर्ध्वंगमनयोगाद्भूतामिताभयार्थाय त एव विहाराः पुनर्भूमय उच्यन्ते । अमितास्विति दशसु भूमिषु एकैकस्याप्रमाणत्वात् । ऊर्ध्वंगमनयोगादिति उपरिभूमिगमनयोगात् । भूतामिताभयार्थमित्यमितानां भूतानां भयप्रहाणार्थम् ।

प्राप्तिविहारे[विभागे]श्लोकः ।

भूमिलाभे[भो]ऽधिमुक्तेश्च चरितेषु च वर्तनात् । प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः ॥ msa_20.41 ॥

चतुर्विधो भूमीनां लाभः । अधिमुक्तिलाभो यथोक्ताधिमुक्तितो ऽधिमुक्तिचर्याभूमौ । चरितलाभो दशसु धर्मचरितेषु वर्तनात्तस्यामेव । परमार्थ [प्रतिवेध] लाभः परमार्थप्रतिवेधतो भूमिप्रवेशे । निष्पतिलाभश्चाविनिवर्तनीयभूमिप्रवेशे ।

चर्याविभागे श्लोकः षट्पादः ।

महायाने ऽधिमुक्तानां हीनयाने च देहिनां । द्वयोरावर्जनार्थाय विनयाय च देशिताः । चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः ॥ msa_20.42 ॥

तत्र पारमिताचर्या महायानाधिमुक्तानामर्थे देशिता । बोधिपक्षचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानाम् । अभिज्ञाचर्या द्वयोरपि महायानहीनयानाधिमुक्तयोः प्रभावेणावर्जनार्थं । सत्त्वपरिपाकचर्या द्वयोरेव परिपाचनार्थं । परिपाचनं ह्यत्र विनयनम् ।

बुद्धगुणविभागे बहवः श्लोकाः । अप्रमाणविभागे तद् बुद्धस्तोत्रमारभ्यैकः ।

अनुकम्पकसत्त्वेषु संयोगविगमाशय । अवियोगाशय सौख्यहिताशय नमो ऽस्तुते ॥ msa_20.43 ॥

[अत्र] अनुकम्पकत्वं सत्त्वेषु हितसुखाशयत्वेन संदर्शितं । सुखाशयत्वं पुनः सुखसंयोगाशयत्वेन मैत्र्या । दुःखवियोगाशयत्वेन च करुणया । सुखावियोगाशयत्वेन च मुदितया । हिताशयत्वमुपेक्षया । सा पुनर्निः संक्लेशताशयलक्षणा वेदितव्या ।

विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकाः ।

सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने । ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तुते ॥ msa_20.44 ॥

अत्र विमोक्षविशेषं भगवतः सर्वक्लेशज्ञेयावरणनिर्मुक्ततया दर्शयति । अभिभ्वायतनविशेषं सर्वलोकाभिभुत्वेन स्वचित्तवशवर्तनाद्यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः । कृत्स्नायतनविशेषं सर्वज्ञेयज्ञानाव्याघाततः [ज्ञानव्याप्तः] । अत एव विमोक्षादिगुणविपक्षमुक्तत्वात् मुक्तचित्तः ।

अरणाविभागे श्लोकः ।

अशेषं सर्वसत्त्वानां सर्वक्लेशविनाशक । क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तुते ॥ msa_20.45 ॥

अत्रारणाविशेषं भगवतः सर्वसत्त्वक्लेशविनयनादुत्पादितक्लेशेष्वपि च तत्क्लेशप्रतिपक्षविधानात् क्लिष्टजनानुकम्पया संदर्शयति । अन्ये ह्यरणाविहारिणः सत्त्वानां कस्यचिदेव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति । न तु क्लेशसंतानादपनयन्ति ।

प्रणिधिज्ञानविशेषे[विभागे]श्लोकः ।

अनाभोग निरासङ्ग अव्याघात समाहित । सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते ॥ msa_20.46 ॥

अत्र पञ्चभिराकारैः प्रणिधिज्ञानविशेषं भगवतः संदर्शयति । अनाभोगसंमुखीभावतः । असक्तिसंमुखीभावतः । सर्वज्ञेयाव्याघाततः । सदा समाहितत्वतः । सर्वसंशयच्छेदनतश्च सत्त्वानां । अन्ये हि प्रणिधिज्ञानलाभिनो नानाभोगान् [भोगेना] प्रणिधाय प्रणिधीज्ञानं संमुखीकुर्वन्ति । न चासक्तं समापत्तिप्रवेशापेक्षत्वात् । न चाव्याहतं प्रदेशज्ञानात् । न च सदा समाहिता भवन्ति न च सर्वसंशयांश्छिन्दन्ति ।

प्रतिसंविद्विभागे श्लोकः ।

आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके । अव्याहतमते नित्यं सुदेशिक नमो ऽस्तुते ॥ msa_20.47 ॥

अत्र समासतो यच्च देश्यते येन च देश्यते तत्र नित्यमव्याहतमतित्वेन भगवतश्चतस्रः प्रतिसंविदो देशिताः । तत्र द्वयं देश्यते आश्रयश्च धर्मः । तदाश्रितश्चार्थः । द्वयेन देश्यते वाचा ज्ञानेन च । सुदेशिकत्वेन तासां कर्म संदर्शितम् ।

अभिज्ञाविभागे श्लोकः ।

उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ । निः सारे चैव सत्त्वानां स्वववाद नमो ऽस्तु ते ॥ msa_20.48 ॥

अत्र षड्भिरभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितम् । उपेत्य विनेयसकाशमृध्द्यभिज्ञया । तेषां भाषया दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्तादिहगतिर्यथा चापरान्ते गतिर्यथा च संसारान्निः सरणं । तत्राववादं ददात्यवशिष्टाभिस्तिसृभिरभिज्ञाभिर्यथाक्रमम् ।

लक्षणानुव्यञ्जनविभागे श्लोकः ।

सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः । दृष्टमात्रात्प्रसादस्य विधायक नमो ऽस्तु ते ॥ msa_20.49 ॥

अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन दर्शनमात्रात्परेषां प्रसादजनकत्वं कर्म संदर्शितम् ।

परिशुद्धिविभागे श्लोकः ।

आदनस्थानसंत्यागनिर्माणपरिणामने । समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते ॥ msa_20.50 ॥

अत्र भगवतश्चतुर्विधया वशितया सर्वाकारश्चतस्रः परिशुद्धयः परिदीपिताः । आश्रयपरिशुद्धिरात्मभावस्यादानस्थानत्यागवशितया । आलम्बनपरिशुद्धिर्निर्माणपरिणामनवशितया । चित्तपरिशुद्धिः सर्वाकारसमाधिवशितया । प्रज्ञापरिशुद्धिः सर्वाकारज्ञानवशितया ।

बलविभागे श्लोकः ।

उपाये शरणे शुद्धौ सत्त्वानां विप्रवादने । महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते ॥ msa_20.51 ॥

अत्र चतुर्ष्वर्थेषु सत्त्वानां विप्रवादनाय मारो यस्तद्भञ्जकत्वेन भगवतो दशानां बलानां कर्म संदर्शितं । यदुत सुगतिदुर्गतिगमनाद्युपायविप्रवादने । अशरणे देवादिषु शरणविप्रवादने । साश्रवशुद्धिमात्रेण शुद्धिविप्रवादने । महायाननिर्याणविप्रवादने च । (म्स_बग्छि 178) स्थानास्थानज्ञानबलेन हि भगवान्प्रथमे ऽर्थे मारभञ्जको वेदितव्यः । कर्मविपाकज्ञानबलेन द्वितीये । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये । इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे । हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात् ।

वैशारद्यविभागे श्लोकः ।

ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक । स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते ॥ msa_20.52 ॥

अत्र ज्ञानप्रहाणकारकत्वेन स्वार्थे । निर्याणविघ्नदेशिकत्वेन च परार्थे । निराधृष्यत्वादन्यतीर्थ्यैर्भगवतो यथाक्रमं चतुर्विधं वैशारद्यमुद्भावितम् ।

आरक्षस्मृत्युपस्थानविभागे श्लोकः ।

वि[नि]गृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित । निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते ॥ msa_20.53 ॥

अनेन त्रीण्यरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि तेषां च कर्म गणपरिपकर्षकत्वं । तैर्हि यथाक्रमं वि[नि]गृह्यवक्ता च भवति पर्षत्सु निरारक्षत्वात् । द्व्यसंक्लेशवर्जितश्चानुनयप्रतिघाभावादसंमोषतया सदाभूय स्थितस्मृतित्वात् ।

वासनासमुद्धातविभागे श्लोकः ।

चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितं । सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते ॥ msa_20.54 ॥

अनेन चारे विहारे वा सर्वत्र सर्वदा वासर्वज्ञचेष्टितस्याभावात् भगवतः सर्वक्लेशवासनाससुद्धातः परिदीपितः । असर्वज्ञो हि क्षीणक्लेशो ऽप्यसमुद्धातितत्वाद् वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्येवमादिकमसर्वज्ञचेष्टितं करोति । यथोक्तं माण्डव्यसूत्रे । तच्च भगवतो भूतार्थसर्वज्ञत्वं[ज्ञत्वेन]नास्ति ।

असंमोषताविभागे श्लोकः ।

सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे । अबन्ध्यकृत्य सततमसंमोष नमो ऽस्तु ते ॥ msa_20.55 ॥

अनेन यस्य सत्त्वस्य यो ऽर्थः करणीयो यस्मिन्काले तत्कालानतिवर्तनात् अबन्ध्यं कृत्यं सदा भगवत इत्यसंमोषधर्मत्वं स्वभावतः कर्मतश्च संदर्शितम् ।

महाकरुणाविभागे श्लोकः ।

सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे । महाकरुणया युक्त हिताशय नमो ऽस्तु ते ॥ msa_20.56 ॥

अत्र महाकरुणा भगवतः कर्मतः स्वभावतश्च परिदीपिता । महाकरुणया हि भगवान् षट्कृत्वो रात्रिन्दिवेन लोकं प्रत्यवेक्षते को हीयते को वर्धते इत्येवमादि । तद्योगाच्च भगवान् सर्वसत्त्वेषु नित्यं हिताशयः ।

आवेणिकगुणविभागे श्लोकः ।

चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा । सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते ॥ msa_20.57 ॥

अत्र चारसंगृहीतैः षड्भिरावेणिकैर्बुद्धधर्मैः । अधिगमसंगृहीतैः षड्भिः । ज्ञानसंगृहीतैस्त्रिभिः । कर्मसंगृहीतैश्च त्रिभिः । तदन्यसत्त्वोत्तमानामपि श्रावकप्रत्येकबुद्धानामन्तिकादुत्तमत्वेन सर्वसत्त्वोत्तमत्वं भगवतः परिदीपितं । तत्र नास्ति तथागतस्य स्खलितं । नास्ति रवितं । नास्ति मुषिता स्मृतिः । नास्त्यसमाहितं चित्तं । नास्ति नानात्वसंज्ञा । नास्त्यप्रतिसंख्यायोपेक्षेति चारसंगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषां । नास्ति छन्दपरिहाणिर्नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिरित्यधिगमसंगृहीताः षट् । अतीते ऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानम् । अनागते प्रत्युत्पन्ने ऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानमिति ज्ञानसंगृहीतास्त्रयः । सर्वं तथागतस्य कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं वाक्कर्म सर्वं मनस्कर्मेति कर्मसंगहीतास्त्रयः ।

सर्वाकारज्ञताविभागे श्लोकः ।

त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत । सर्वत्र सर्वसत्त्वानां काङ्क्षाछिद नमो ऽस्तु ते ॥ msa_20.58 ॥

अनेन त्रिभिश्च कायैः सर्वाकारबोध्युपगमत्वात् सर्वज्ञेयसर्वाकारज्ञानाच्च सर्वाकारज्ञता भगवतः परिदीपिता । त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश्च । सर्वज्ञेयसर्वाकारज्ञानं पुनरत्र सर्वसत्त्वानां देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टम् ।

पारमितापरिपुरिविभागे श्लोकः ।

निरवग्रह निर्दोष निष्कालुष्यानवस्थित । आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते ॥ msa_20.59 ॥

अनेन सकलषट्पारमिताविपक्षनिर्मुक्ततया षट्पारमितापरिपूरिर्भगवत उद्भाविता । तत्रानवग्रहत्वं भोगनिराग्रहत्वाद्वेदितव्यं । निर्दोषत्वं निर्मलकायादिकर्मत्वात् । निष्कालुष्यत्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात् । अनवस्थितत्वमल्पावरण[वर]मात्राधिगमानवस्थानात् । आनिङ्क्ष्यत्वमविक्षेपात् । निष्प्रपञ्चत्वं सर्वविकल्पप्रपञ्चासमुदाचारात् ।

बुद्धलक्षणविभागे द्वौ श्लोकौ ।

निष्पन्नपरमार्थो ऽसि सर्वभूमिविनिःसृतः । सर्वसत्त्वाग्रतां प्राप्तः सर्वसत्त्वविमोचकः ॥ msa_20.60 ॥

अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे । मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः ॥ msa_20.61 ॥

अत्र षड्भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थैर्बुद्धलक्षणं परिदीपितं । तत्र विशुद्धा तथता निष्पन्नः परमार्थः । स च बुद्धानां स्वभावः । सर्वबोधिसत्त्वभूमिनिर्यातत्वं हेतुः । सर्वसत्त्वाग्रतां प्राप्तत्वं फलं । सर्वसत्त्वविमोचकत्वं कर्म । अक्षयासमगुणयुक्तत्वं योगः ।

नानालोकधातुषु दृश्यमानता निर्माणकायेन पर्षन्मण्डलेष्वपि दृश्यमानता सांभोगिकेन कायेन । सर्वथा । चादृश्यमानता धर्मकायेनेति त्रिविधा प्रभेदवृत्तिरिति ।

॥ महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्त्वभाषिते चर्याप्रतिष्ठाधिकारो नामैकविंशतितमो ऽधिकारः ॥

॥ समाप्तश्च महायानसूत्रालंकार इति ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.