Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अजितसेनव्याकरण (bản khác)
- Thông tin
- GRETIL — N. Dutt, Gilgit Manuscript, vol. I, Delhi: Sri Satguru Publ. 1984, pp. 101-136.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अजितसेनव्याकरण
अजितसेनव्याकरणम्
// ओम् नमः सर्वज्ञाय //
एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे महाता भिक्षुसङ्घेन सार्धमर्धत्रयोदशभिर्भिक्षुसहस्रैः / तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन आयुष्मता च महानाम्ना आयुष्मता च रेवतेन आयुष्मता च वक्कुलेन आयुष्मता च शारिपुत्रेण आयुष्मता च पूर्णेन मैत्रायणीपुत्रेण च श्रावकनियुतैः / ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसङ्क्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस्तस्थुर्द्वात्रिंशता बोधिसत्त्वसहस्रैः / तद्यथा सहचित्तोत्पादधर्मचक्रप्रवर्तनेन च बोधिसत्त्वेन महासत्त्वेन अनिक्षिप्तधुरेण च बोधिसत्त्वेन महासत्त्वेन मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन महास्थामप्राप्तेन च बोधिसत्त्वेन महासत्त्वेन / एवम्प्रमुखैर्दात्रिंशता बोधिसत्त्वसहस्रैः / ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसङ्क्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस्तस्थुः / अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरमात्रः श्रावस्तीं महानगरीं पिण्डाय प्राविशत् / अथ भगवानायुष्मन्तमानन्दमामन्त्रयते (asv 104) स्म / गच्छानन्द पात्रं चक्रिकं शिक्यमानय / अथायुष्मानानन्दो भगवतः श्रुतमात्रेण पात्रं चक्रिकं शिक्यं भगवते उपनामयामास / अथायुष्मानानन्दो भगवतः कृताञ्जलिपुटो भगवन्तं गाथाभिरध्यभाषत /
यदा त्वं प्रविशसि पिण्डपातिक विमोचये त्वं बहवं हि प्राणिनाम् / उत्तारये त्वं बहवं हि सत्त्वा नरकभयाज्जातिजरामहाभया //
संसारदुःखकलिला महाभयाद्विमोचये त्वं नर लोकनायक / महानुभावो वरदक्षिणीयो विमोचयित्वा पुनरं हि आगमी //
अथायुष्मानानन्दो भगवत इमा गाथा भाषित्वा तूष्णीं स्थितो ऽभूत् / अथ भगवान् श्रावस्त्यां महानगर्यां नातिदूरे स्थितो ऽभूत् / अथ ते सर्वे गवाक्षतोरणनिर्यूहका हिरण्यमयाः स्फटिकमया रूप्यमयाः प्रादुरभूवन् / तथा श्रावस्त्यां महानगर्यां महान्तं जनकायं संस्थितो ऽभूवन् / अथ स जनकायः संशयजातो बभूव को हेतुः कः प्रत्ययः नगरस्य शुभनिमित्तं प्रादुरभूत् / मा चेदं नगरं भस्मप्रलयं स्यात् / अथ तत्र जनकाये अनेकवर्षशतसहस्रकोटीको (asv 105) वृद्धमहल्लकः पुरुषः संस्थितो ऽभूत् / अथ स पुरुषस्तं जनकायं समाश्वासयन्नेवमाह / मा भैषुर्भोः कुलपुत्राः / अस्मिन्नेव पृथिवीप्रदेशे जेतवनं नाम विहारः / तत्र शाक्यमुनिर्नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / सो ऽयं श्रावस्तीं महानगरीं पिण्डाय प्राविशत् / तस्यागमनकालसमये इदं शुभनिमित्तमभूत् / अथ स जनकायस्तं जीर्णकं पुरुषं कृताञ्जलिरेवमाह / यत्तस्य भगवतस्तथागतस्यार्हतः सम्यक्सम्बुद्धस्य गुणवर्णसमुदीरणसमये इदं शुभनिमित्तमभूत् / दृष्टमात्रस्य तस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्य कीदृशः पुण्याभिसंस्कारो भविष्यति / अथ स जीर्णकपुरुषस्तं जनकायं भगवतो गुणवर्णसमुदीरणतया गाथाभिरध्यभाषत /
यो लोकनाथस्य हि नामु यः श्रुणे संसारदुःखा विनिमुक्तु सो नरो / आपायगामी न कदाचि भेष्यते स्वर्गं च सो यास्यति शीघ्रमेवम् //
यो लोकनाथस्य हि नामु यः श्रुणे दृढप्रतिज्ञो बहुकल्पकोटिभिः / महानुभावो सुगतो महात्मनः कल्पानकोटीनयुतानचिन्तियान् // (asv 106) सो बोधिसत्त्वो स्थित गङ्गवालुकान् कदाचि सो गच्छति दुर्गती भयम् / यो लोकनाथस्य हि नामु यः श्रुणे आपायगामी न कदाचि भेष्यते //
कल्पानकोटीनयुतानचिन्तिया राजा स भोती सद चक्रवर्ती / यो लोकनाथस्य हि नामु धारयेत् //
यत् किञ्चि पूर्वं सद पापु यत् कृतं सर्वं क्षयं यास्यति शीघ्रमेतत् / शक्रोपि देवेन्द्रमहानुभावो कल्पानकोटीनयुतानचिन्तिया //
सुखावतीं गच्छति बुद्धक्षेत्रं पर्यङ्कबद्धो स च बोधिसत्त्वो / ब्रह्मस्वरो सुस्वरु मञ्जुघोष भवन्ति वर्षानसहस्रकोटिभिः //
अपायगामी न कदाचि भेष्यते यो लोकनाथस्य हि नामु धारयेत् /
अथ स जीर्णकः पुरूषो जनकायं भगवतो गुणवर्णमुदीरयित्वा तूष्णीं स्थितो ऽभूत् / अथ भगवान् पूर्वेण नगरद्वारेण श्रावस्तीं महानगरीं प्रविष्टो ऽभुत् / तत्र च नगरद्वारे द्वादशकोट्यः पद्मानां प्रादुरभूवन् / तेषु च पद्मेषु द्वादशकोट्यो बोधिसत्त्वानां पर्यङ्कनिषण्णाः (asv 107) प्रादुरभूवन् प्राञ्जलयः / अथ भगवतः प्रविष्टमात्रेण श्रावस्त्यां महानगर्यां नवनवतिकोटीनियुतशतसहस्राणि सत्त्वानां सुखावत्यां लोकधातौ प्रतिष्ठापितानि चतुरशीतिसत्त्वकोटीनियुतशतसहस्राण्याभिरत्या लोकधातोरक्षोभ्यतथागतस्य बुद्धक्षेत्रे प्रतिष्ठापितानि /
अथ भगवान् आनन्देन सह नगरवलम्बिकाया दारिकाय गृहे समागतो ऽभूत / अथ भगवान् नगरवलम्बिकाया दारिकाया गृहे चक्रिकं कटकटापयामास / अथ सा दारिका तं चक्रीशब्दं श्रुत्वा संशयजाताभूत् / को हेतुः कः प्रत्ययः / मम गृहे न कदाचित् पिण्डपातिक आगतो ऽभूत् / अथ स नगरवलम्बिका दारिका शून्याकारगृहे निषण्णा अश्रुकण्ठी रुदन्ती परिदेवन्ती स्थिताभूत् तीक्ष्णधारमसिं गवेषन्ती परिदेवन्ती रुदन्ती स्थिताभूत् / अथ सा दारिका शून्याकारगृहे निषण्णा परिदेवन्ती अश्रुकण्ठी रुदन्ती गाथाभिरध्यभाषत /
अहो बत दुःखु दरिद्रके गृहे वरं मम मरणु न चापि जीवितम् / किं चापि मे कार्युषु जीवितेन यद्यैवाहं दुःखु शरीर पीडितम् //
कन.......................ह्यत्राणं भवते परायणम् / अनाथभूता अहमद्यमेव यद्यैवाहं जात दरिद्रके गृहे // (asv 108)
अथ स नगरवलम्बिका दारिका शून्याकारगृहे निषण्णा इमा गाथा भाषित्वा तूष्णीं स्थिताभूत् /
अथ शुद्धवासकायिको देवपुत्रो ऽन्तरीक्षगतः स्थितश्चिन्तयति स्म / पश्येच्चेदिमां भगवान् / अनेकदुष्करकोटिनियुतशतसहस्रचीर्णचरितः स शाक्यमुनिस्तथागतो नगरवलम्बिकाया दारिकाया गृहे स्थितो ऽभूत् / अथ शुद्धवासकायिको देवपुत्रः शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा शतरसभोजनपिटकं गृहीत्वा काशिकानि वस्त्राणि गृहीत्वा येन नगरवलम्बिकाया दारिकाया गृहं तेनोपसङ्क्रान्तो ऽभूत् / अथ शुद्धवासकायिको देवपुत्रो नगरवलम्बिकां दारिकामेवमाह / प्रावर दारिके इमानि काशिकानि वस्त्राणि इमान्यनेकशतसहस्रमूल्यान्याभरणानि / प्रावृत्य चेदं शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा इमं शतरसभोजनपिटकं गृहीत्वा भगवन्तमुपनामय / अथ सा दारिका तानि काशिकानि वस्त्राणि प्रावृत्य शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा तं शतरसभोजनपिटकं गृहीत्वा येन भगवांस्तेनोपसङ्क्रान्ता / उपसङ्क्रम्य भगवन्तमुपनामयति स्म / अथ भगवान् तां नगरवलम्बिकामेवमाह / परिणामय त्वं दारिके यथा परिणामितं विपश्यिशिखिविश्वभूक्ककुतसुन्दकनकमुनिकाश्यपप्रभृतिभिः सद्भिस्तथागतैरर्हद्भिः सम्यक्सम्बुद्धैः / अन्तो भविष्यति स्त्रीभावादन्तो भविष्यति दरिद्रगृहात् / अथ सा दारिका तं पिण्डपातं परिणामयित्वा (asv 109) भगवन्तमुपनामयामास / अनेन पिण्डपातकुशलमूलेन मा कश्मिंश्चिद् दरिद्रगृहे उपपद्येय /
अथ सा नगरवलम्बिका दारिका तं पिण्डपातं परिणामयित्वा भगवते दत्त्वा स्वगृहगमनमारब्धा / अथ भगवान् तां नगरवलम्बिकां दारिकामेवमाह / प्रतिनिवर्तस्व दारिके / पूर्वेजातिनिदानं समनुस्मरामि / तदहं परिकीर्तयिष्यामि / अथ सा दारिका प्रतिनिवृत्य सर्वाङ्गप्रणिपातेन भगवन्तं प्रपतिता / अथ सा नगरवलम्बिका दारिका भगवन्तं गाथाभिरध्यभाषत /
अवश्यं मे पूर्वकृतेन कर्मणा येनाहं जात दरिद्रके गृहे / करोहि कारुण्य ममं हि दुःखित विनिवर्तयस्व नरका हि पालान् //
करोहि कारुण्य मम दुःखिताया इस्त्रिभावा उपपन्नु नायक / त्वं लोकनाथ जरव्याधिशोक विमोचये मं मम दुःखितायाः //
त्राणं भवाही शरणं परायणं विमोचयाही मम दुःखितायाः / कृतं हि नाथ प्रणिधिं त्वया हि ये केचि सत्त्वा इह जम्बुद्वीपे // (asv 110) तिष्ठन्ति ये वै दशसु दिशासु सत्त्वा हि सर्वे सुखिता करिष्ये / सर्वे च हं मोचयि दुःखसागरात् त्राणं भवाही शरणं परायणम् //
त्वयं हि नाथ मयि मोचयी जगत् अवश्यं मे पूर्वकृतेन कर्मणा / येनाहं जातु दरिद्रके गृहे त्राणं भवाही मम दुःखितायाः //
भवं तु नाथ जरव्याधिमोचकं त्राणं भवाही गुण सञ्चिताग्र / न चा करिष्ये पुनरेव पापं यद्वेदयामी इमि वेदनानि //
कृपं जनि...............मग्र सत्त्वा त्राणं भवाही शरणं परायणम् / ये केचि सत्त्वा इह जम्बुद्वीपे नामं च वै धारय पश्च काले //
परिनिर्वृतस्य तत पश्चकाले भविष्यति शासनविप्रलोपम् / यतकिञ्चि पापं तदपूर्व यत् कृतं सर्वं क्षयं यास्यति शीघ्रमेतत् //
अथ सा नगरवलम्बिका दारिका भगवन्तं गाथा भाषित्वा पुनरपि गृहगमनमारब्धा / अथ भगवान् तां नगरवलम्बिकां (asv 111) दारिकां कलविङ्करुतस्वरनिर्घोषेणैवमाह / प्रतिनिवर्तस्व दारिके पूर्वजातिनिदानं समनुस्मरामि तदहं परिकीर्तयिष्यामि / अथ सा दारिका प्रतिनिवृत्यैवमाह /
परिकीर्तय लोकविनायकाद्य यद्यत् कृतं पाप सदा सुदारुणम् / अवश्य मे पापु कृतं सुदारुणं येनाहं जातु दरिद्रके गृहे //
त्वं सार्थवाहु इह सर्वलोके विमोचये मम् इह इस्त्रिभावा / त्राणं भवाही शरणं परायणं कृतज्ञहं नित्य भवामि नायके //
संश्रावये मम् इमु धर्मनेत्री नासौ कदाचित्तजते अपायम् / संशोधयी कर्म यथाकृतं मया त्राणं भवाही शरणं परायणम् //
असङ्गज्ञानी वरलोकनायक वन्दामि नाथ शरणं कृताञ्जली //
अथ भगवान् तां दारिकामेवमाह / भूतपूर्वो दारिके अतीते ऽध्वनि असङ्ख्येयैः कल्पै रत्नशिखी नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / तेन (asv 112) खलु पुनः समयेन पद्मावती नाम राजधान्यभूत् / तेन खलु पुनः समयेन पद्मावत्यां राजधान्यां पद्मप्रभो नाम गृहपतिरभूत् / तस्य पद्मप्रभस्य गृहपतेस्त्वं दुहिता ऽभूः / तेन खलु पुनः समयेन ग्रामनगरनिगमजनपदेषु पिण्डपातिको भिक्षुः पिण्डपातायावतरति / यदा त्वद्गृहमागतो ऽभूत तदा त्वं दारिके पिण्डपातं गृहीत्वा गृहान्निष्क्रान्ता पुनरेव प्रविष्टा ऽभूः / न चाहं मुण्डितशिरसो ऽधन्यस्य पिण्डपातं दास्यामि / तेन कर्मोपचयेन त्वया दारिके द्वादशकल्पसहस्राणि पुनः पुनर्दरिद्रगृहे दुःखान्यनुभूतानि / एकेन त्वया दारिके कुशलमूलेन बोधिव्याकरणं प्रतिलप्स्यसे / यत्त्वया तस्य भिक्षो रूपलिङ्गसंस्था न दृष्टा भविष्यसि त्वं दारिके अनागते ऽध्वनि अचिन्त्यैरपरिमाणैः कल्पैर्नगरध्वजो नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् लोके / अथ सा दारिका भगवन्तं त्रिः प्रदक्षिणं कृत्वैवमाह / कीदृशं भगवन् मम बुद्धक्षेत्रं भविष्यति यत्रैवाहं बुद्धो भविष्यामि / भगवानाह / अपरिमितगुणसञ्चया नाम सा बुद्धक्षेत्रं भविष्यति / यादृअशी च सा सुखावती लोकधातुः तादृशं तद्बुद्धक्षेत्रं भविष्यति / पर्यङ्कनिषण्णा आर्योपपादुका बोधिसत्त्वा भविष्यन्ति / ईदृशं तद्बुद्धक्षेत्रम् / (asv 113)
अथ च सा दारिका तुष्टा उदग्रा आत्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता स्वगृहगमनमारब्धा / अथ भगवांस्तां दारिकामेवमाह / त्वं दारिके सप्तमे दिवसे कालं करिष्यसि / कालं कृत्वा / पूर्वस्यान्दिशि मगधविषये राजा अजितसेनो नाम / तस्य राज्ञो ऽजितसेनस्य अन्तःपुरसहस्रमस्ति / तस्य खलु पुना राज्ञो ऽजितसेनस्य पुत्रो जनिष्यसे / एष एव तव पश्चिमो गर्भवासो भविष्यति /
अथ भगवान् पश्चिमकेन नगरद्वारेण श्रावस्त्या महानगर्या निष्क्रान्तो येन जेतवनं विहारस्तेनोपसङ्क्रान्तः / अथायुष्मानानन्दो भगवन्तं दूरत एवागच्छन्तं दृष्ट्वा पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य भगवन्तं गाथाभिरध्यभाषत /
सुवर्णवर्णं वरलक्षणार्चितं द्वाविंशतिलक्षणरूपधारिणम् / यदा त्वया आगतु पिण्डपातिका विमोचयित्वा इह सर्वसत्त्वा //
सुखेन संस्थापयि सर्वसत्त्वा मैत्रीबलं सर्वजगत्त्वया कृतम् / स पिण्डपातं वरमाण्डनायक विमोचितस्ते जगती भया च //
ये बोधिसत्त्वा इह जम्बुद्वीपे सर्वे च मार्गं तव दर्शयन्ति / (asv 114) परिनिर्वृतस्य सद पश्चकाले धारेतु सूत्रम् इमु बुद्धवर्णितम् //
परिनिर्वृतस्य तव पश्चकाले भविष्यति शासनविप्रलोपम् / इमं नयं धारयि सूत्ररत्नम् //
अथायुष्मानानन्द इमा गाथा भाषित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पुरतस्तस्थौ / अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म / गच्छानन्द गण्डीमाकोटय / ते श्रावकाः परिभोक्ष्यन्ति पिण्डपातम् / अथायुष्मानानन्दो भगवन्तमामन्त्रयते स्म / कीदृशं भगवन् गण्डीशब्दस्य कुशलमूलं भविष्यति / भगवानाह / शृणु आनन्द गण्डीशब्दस्य कुशलमूलं परिकीर्तयामि / ये केचिदानन्द गण्डीशब्दं श्रोष्यन्ति तेषां पञ्चानन्तर्याणि कृत्यानि परिक्षयं यास्यन्ति / अवैवर्तिकास्ते भविष्यन्ति क्षिप्रं चानुत्तरां सम्यक्सम्बोधिमभिसम्भोत्स्यन्ते / आनन्द आह / कीदृशं भगवंस्तैः सत्त्वैः कुशलमूलमवरोपिम् / भगवानाह / शृणु आनन्द ये सत्त्वाः पश्चिमे काले पश्चिमे समये मम परिनिर्वृतस्य सद्धर्मविप्रलोपे वर्तमाने सद्धर्मस्यान्तर्धानकालसमये ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु ये सत्त्वा वा अरण्यायतने गण्डयाकोटनशब्दं श्रोष्यन्ति नमो बुद्धायेति करिष्यन्ति तेषां पञ्चानन्तर्याणि कर्माणि परिक्षयं (asv 115) यास्यन्ति / ईदृशान्यानन्द गण्डीशब्दस्य कुशलमूलानि / अथायुष्मानानन्दः शान्तप्रशान्तेन गण्डीमाकोटयते स्म / अथ तेन गण्डीशब्देन सर्वे ते महाश्रावकाः सन्निपतिता अभूवन् / यथा यथा आसने निषण्णाः पिण्डपातं परिभुञ्जन्ते स्म / अथ तत्रैव श्रावकमध्ये नन्दिमित्रो नाम महाश्रावकः सन्निपतितो ऽभूत् सन्निषण्णः / अथ भगवानायुष्मन्तं नन्दिमित्रं महाश्रावकमामन्त्रयते स्म / गच्छ त्वं नन्दिमित्र महाश्रावक पूर्वस्यान्दिशि मगधविषये राज्ञो ऽजितसेनस्य कल्याणमित्रपरिचर्यां कुरु / अथ नन्दिमित्रो महाश्रावको भगवन्तमेवमाह /
न भगवन् शक्ष्यामस्तं पृथिवीप्रदेशं गन्तुम् / दुरासदास्ते सत्त्वाः / ते मां जीविताद्व्यवरोपयिष्यन्ति / अथ भगवानायुष्मन्तं तं नन्दिमित्रं महाश्रावकमेवमाह / न ते सत्त्वास्ते शक्ष्यन्ते बालाग्रमपि कम्पयितुं प्रागेव जीविताद्व्यवरोपयितुम् / अथ नन्दिमित्रो महाश्रावकः प्रत्यूषकालसमये सुवर्णवर्णं वस्त्रं प्रावृत्य येन पूर्वस्यान्दिशि मगधविषये राज्ञो ऽजितसेनस्य राजधानी तेनानुक्रान्तो ऽभुत् / अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकं दृष्ट्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो ऽभूत् / अथ राज्ञाजितसेनेन अमात्यः प्रेषितो ऽभूत् / गच्छैनं भिक्षुमानय / तदा सो ऽमात्यो येन नन्दिमित्रो महाश्रावकस्तेनोपसङ्क्रान्तः (asv 116) / अथ सो ऽमात्यो नन्दिमित्रं महाश्रावकमेवमाह / आगच्छ महाश्रावक भिक्षो राजा ते आज्ञापयति / अथ नन्दिमित्रो महाश्रावको ऽमात्यमेवमाह / मम राज्ञा किं कार्यं मम राजा किं करिष्यति / अथामात्यो येन राजाजितसेनस्तेनोपसङ्क्रान्तः / तं राजानमजितसेनमेवमाह / न च स भिक्षुस्तव पार्श्वे आगच्छति / अथ राज्ञाजितसेनेन पञ्चामात्यशतानि प्रेषितानि / न च स भिक्षूराज्ञो ऽजितसेनस्य पार्श्वमागच्छति / अथ स राजा स्वकेनैवात्मभावेन येन स नन्दिमित्रमहाश्रावकस्तेनोपसङ्क्रान्तः / उपसङ्क्रम्य कृताञ्जलिरेवमाह / आगच्छ भो भिक्षो मम राजधानीं प्रविश / अथ राजा अजितसेनो दक्षिणहस्ते तं भिक्षुं गृहीत्वा स्वकां राजधानीं प्रविष्टो ऽभूत् / अथ राज्ञाजितसेनेन नन्दिमित्रस्य भिक्षोः सिंहासनं दत्तमभुत् / अथ राजाजितसेनो भद्रपीठके निषद्य तं नन्दिमित्रं महाश्रावकमेवमाह /
कुत्र त्वं भिक्षो गच्छसि / को हेतुः कः प्रत्ययः / अथ नन्दिमित्रो महाश्रावको राजानमजितसेनमेवमाह / ये केचिद् भिक्षुप्रव्रजितास्ते सर्वे भिक्षाहाराः पिण्डपातमवचरन्तः परिभुञ्जन्ति / अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकमेवमाह / परिभुङ्क्ष्व मम गृहे पिण्डपातम् / यावज्जीवं पिण्डपातं प्रदास्यामि / यदि ते भिक्षो मम स्वमांसेन कार्यं स्वमांसं दास्यामि / अथ नन्दिमित्रो महाश्रावको राजानमजितसेनं गाथाभिरध्यभाषत / (asv 117)
भुञ्जामि तद्भोजनु यद् ददाहि मृष्टान्नपानं रसपानमुक्तमम् / क्लेशा हि निर्मुक्त त्वया भविष्यसि सुदुर्लभं लब्ध मनुष्यलाभम् //
सुदुर्लभं शासनु नायकस्य श्रद्धाप्रसादं परमं सुदुर्लभम् / ये शासने प्रव्रजिता च भिक्षवा सुदुर्लभं शासनु नायकानाम् //
सुदुर्लभं सुगतवरस्य दर्शनं नमो ऽस्तु ते बुद्ध महानुभावो / नमो ऽस्तु ते धर्ममयं महामुने नमो ऽस्तु ते क्लेशविचक्षणार्यम् //
नमो ऽस्तु ते सर्वजरप्रमोक्षणात् नमो ऽस्तु ते मार्गनिदर्शनार्यम् / नमो ऽस्तु ते मार्गपथस्य दर्शकं नमो ऽस्तु ते बोधिपथस्य दर्शकम् //
अथ नन्दिमित्रो महाश्रावको राजानमजितसेनं भगवतो गुणवर्णमुदीरयित्वा तूष्णीं स्थितो ऽभूत् / अथ राजानमजितसेनं तं नन्दिमित्रो महाश्रावको गाथाभिरध्यभाषत /
सुदुर्लभं भिक्षु तथैव दर्शनं सुदुर्लभं तस्य भवेय दर्शनम् / (asv 118) ये भिक्षुसङ्घस्य ददेय दानं न तस्य यक्षा न च राक्षसाश्च //
न प्रेतकुष्माण्डमहोरगाश्च विघ्नं न कुर्वन्ति कदाचि तेषाम् / ये भिक्षुसङ्घाय ददन्ति दानं सुदुर्लभं तस्य मनुष्यलाभम् //
यो दुर्लभं दर्शनु भिक्षुभावं सुदुर्लभं कल्पशतैरचिन्तियैः / यो लोकनाथस्य हि नामु धारये कल्पान कोटीनयुतानचिन्तिया //
न जातु गच्छे विनिपातदुर्गतिं यो ईदृशं पश्यति भिक्षुराजम् / न तस्य भोती विनिपातदुर्गतिं यो ईदृशं पश्यति भिक्षुराजम् //
कल्याणमित्रं मम मार्गदर्शको (यं) स आगताये मम पिण्डपातिका / यो दास्यते अस्य हि पिण्डपातं मुक्ता न भेष्यन्ति जरार्तव्याधया //
क्लेशा विनिर्मुक्त सदा तु भेष्यति ये तस्य दास्यन्तिह पिण्डपातम् //
अथ स राजा अजितसेनो नन्दिमित्रं महाश्रावकं गुणवर्णमुदीरयित्वा तूष्णीं स्थितो ऽभूत् / अथ नन्दिमित्रो महाश्रावको (asv 119) राजानमजितसेनमेवमाह / एवमस्तु महाराज भुञ्जे पिण्डपात तव गृहे / अथ राजा अजितसेनः खादनीयेन भोजनीयेन तं नन्दिमित्रमहाश्रावकं सन्तर्पयति स्म /
अथ नन्दिमित्रमहाश्रावको राजानमजितसेनमेवमाह / किं तव महाराज अस्मिन् पृथिवीप्रदेशे उद्यानभूमिरस्ति / राजा आह / अस्ति महाश्रावक उद्यानभूमिर्मम रमणीया सुशोभना / नन्दिमित्र आह / गच्छाम्यहं महाराज / तामुद्यानभूमिं प्रेक्षे / राजा आह / गच्छ नन्दिमित्र / उद्यानभूमिं प्रेक्षस्व / अथ नन्दिमित्रमहाश्रावको येन राज्ञो ऽजितसेनस्योद्यानभूमिस्तेनोपसङ्क्रान्तः / अथ तत्रोद्यानभूमौ ये उद्यानगुणास्ते सर्वे सन्तीति / या ग्रैष्मिक्यः पुष्करिण्यस्ताः शीतलजलपरिपूर्णा या वार्षिक्यस्ता नात्युष्णा नातिशीतलजलपरिपूर्णाः / ताश्च पुष्करिण्यः सुवर्णसोपानसञ्च्छन्ना दिव्या रमणीयाः / ये च जाम्बूपकपरिभोगगुणास्ते सर्वे सन्तीति / अधिमुक्तकचम्पकाशोकमुचिलिन्दपाटलसुमनासौगन्धिकपुष्पाणि सन्तीति / (asv 120) ये तिर्यग्योनिगताः पक्षिणः शुकशारिकाचक्रवाकमयूरकोकिलादयस्ते नानारुतानि कुर्वन्ति स्म / अथ तत्रैव उद्यानभूमौ सुवर्णवर्णाः सुवर्णतुण्डाः सुवर्णपक्षाः सुवर्णपादाः पक्षिणः प्रादुर्भूताः / ते सर्वे बुद्धशब्दं निश्चारयन्ति / अथ नन्दिमित्रमहाश्रावको येन राज्ञो ऽजितसेनस्य राजधानी तेनोपसङ्क्रान्तः / अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकमेवमाह / आगतस्त्वं महाश्रावक / दृष्टोद्यानभूमिः / नन्दिमित्र आह / दृष्टा मयोद्यानभूमी रमणीया सुशोभना / अथ नन्दिमित्रं महाश्रावकं राजा अजितसेनो गाथाभिरध्यभाषत /
ये जम्बुद्वीपे परिभोगमासी अधिमुक्तकचम्पकधानुष्कारिका / अशोकमुचिलिन्द तथैव पाटला सौगन्धिकाश्च सुमना च वार्षिका //
तदा पारियात्रा नदीतीरनिर्मिता सुवर्णवर्णा सद पक्षिणा अभूत् / मार्गं च ते दर्शयि अग्रबोधये दिव्या मनोज्ञा मधुरस्वरांश्च संश्रावयिष्यन्ति च नित्यकालम् //
अथ नन्दिमित्रमहाश्रावको राज्ञो ऽजितसेनस्य गाथा भाषित्वा तूष्णीं स्थितो ऽभूत् / अथ राजा अजितसेनो भेरीं पराहन्ते स्म / (asv 121) अथ तेन भेरीशब्देन समेत्यामात्यगणस्तं राजानमजितसेनमेवमाह / कस्यार्थे महाराज भेरी पराहता / अथ स राजा आह / हस्तिरथं च अश्वरथं च सज्जं कृतं स्यात् / अहमुद्यानभूमिं गमिष्यामि क्रीडनार्थाय / अथ ता अमात्यकोट्यो वचनं श्रुत्वा शीघ्रमेव तद् हस्तिरथमश्वरथं सज्जं कृतवत्यः / अथ तेन क्षणलवमुहूर्तमात्रेण राजाजितसेनो येन सोद्यानभूमिस्तेनोपसङ्क्रान्तः / स च नन्दिमित्रमहाश्रावकस्तेनैवोपसङ्क्रान्तो राजानमजितसेनमेवमाह / अस्मिन् पृथिवीप्रदेशे महाराज मम कुटिकं कारयितव्यम् यत्राहं सन्निषण्णस्तव गृहे पिण्डपातं परिभोक्ष्यामि / अथ राजा अजितसेनो नन्दिमित्रमहाश्रावकमेवमाह / कीदृशं तव कुटिकं कारयितव्यम् / नन्दिमित्र आह / यादृशास्तव महाराज महाचित्तोत्पादश्रद्धाप्रसादास्तादृशं कुटिकं कारय / अथ राजा अजितसेनो ज्येष्ठामात्यमेवमाह / अस्मिन्नेव पृथिवीप्रदेशे कुटिकं कारय / अथ ज्येष्ठामात्यो राजानमेवमाह / कीदृशं महाराज कुटिकं कारयामि / राजा अजितसेन एवमाह / त्रिंशद्योजनानि दीर्घेण षड्योजनान्यूर्ध्वायां सप्तरत्नमयं मणिमुक्तिसञ्च्छादितं कुटिकं कारय / अथ सो ऽमात्यः कुटिकं कारयति / सप्तरत्नमयं (asv 122) मणिमुक्तिसञ्च्छादितं कारयित्वा येन राजा अजितसेनस्तेनोपसङ्क्रान्तो राजानमजितसेनमेवमाह / कृतं महाराज मया कुटिकं यादृशमाज्ञप्तम् / राजा आह / तत्रैव पृथिवीप्रदेशे चङ्क्रमः कारयितव्यश्चतुर्योजनानि दीर्घेण द्वे योजने विस्तारेण / अथ सो ऽमात्यस्तं चङ्क्रमं कारयित्वा येन राजा अजितसेनस्तेनोपसङ्क्रान्तो राजानं गाथाभिरध्यभाषत /
कृतं मया चङ्क्रमु सुष्ठु शोभनं आज्ञा त्वया यत् कृतपूर्वमेव च / सत्त्वान मोचेति प्रकृतिं शुभाशुभं विमोचये प्राणिन सर्वमेतत् //
अहो सुलब्धा प्रणिधीकृतं त्वया विमोचयी सर्वजगत् सदेवकम् / प्रणिधिं कृतं यत्त्वयमीदृशं भवे धर्मं प्रकाशेति मे धर्मभाणको //
निषण्ण स्थित्वा कुटिका च चङ्क्रमे आज्ञा कृतं यत् त्वय यादृशी कृता / स चङ्क्रमं चैव कृतं सुशोभनं मणिरत्नसञ्च्छादित तं च भूमिम् //
अथ राजा अजितसेनो येन स्वका राजधानी तेनोपसङ्क्रान्तः / अथ नन्दिमित्रमहाश्रावकः प्रतिनिवृत्य तत्रैव (asv 123) कुटिके निषण्णो विकिरणं नाम बोधिसत्त्वसमाधिं समापन्नो ऽभूत् / अन्येन केशानन्येन नयानान्यन्येन दन्तानन्येन ग्रीवा अन्येन बाहू अन्येन हृदयमन्येनोदरमन्येनोरू अन्येन जङ्घे अन्येन पादौ समापन्नो ऽभूत् / अथ स राजा अजितसेनः सप्ताहस्यात्ययेन तं भिक्षुं न पश्यति /
अथ राजा ज्येष्ठकुमारमेवमाह / आगच्छ कुलपुत्र गमिष्यामि तां कुटिकाम् / येन स भिक्षुस्तेनोपसङ्क्रमिष्यामि / अथ स राजा सपुत्रो येन सा कुटिका तेनोपसङ्क्रान्तो ऽभूत् / अथ स राजा अजितसेनस्तं भिक्षुमात्मभावं खण्डं खण्डं कृतं दृष्ट्वा संशयजातो ऽभूत् / सन्त्रस्तरोमकूपजातो वस्त्राणि पाट्यन् परिदेवन् रुदन् अश्रुकण्ठः पुत्रमेवमाह / आनय पुत्र तीक्ष्णधारमसिम् / आत्मानं जीविताद् व्यवरोपयिष्यामि / अथ स राजकुमारः प्राञ्जलिं कृत्वा राजानं गाथाभिरध्यभाषत /
मा शोकचित्तस्य भवे नृपेन्द्र मा वेदयी वेदनमीदृशानि / आत्मघातं करित्वा तु निरये त्वं गमिष्यसि / रौरवं नरकं चापि गमिष्यसि सुदारुणम् //
दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः / (asv 124) न चायं घातितो यक्षैर्न भूतैर्न च राक्षसैः / बोधिसत्त्वो ऽप्ययं लोके जरव्याधिप्रमोचकः //
दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः / दुर्लभो दर्शनम् अस्य बोधिमार्गस्य दर्शकः //
कल्याणमित्रमयम् आसी तव कारणमागतम् / दक्षिणीयो अयं लोके सर्वसत्त्वसुखावहम् //
सर्वज्ञं पारमिप्राप्तं लोकनाथेन प्रेषितम् / दृढवीर्यं दृढस्थामं लोकनाथं महर्षिणम् //
यो नाम तस्य धारेति नासौ गच्छति दुर्गतिम् / अपायं न गमिष्यन्ति स्वर्गलोकोपपत्तये //
अथ स राजकुमारस्तं पितरं गाथा भाषित्वा तूष्णीं स्थितो ऽभूत् / अथ राजा अजितसेनः स्वकं पुत्रमेवमाह / कथं त्वं कुमार जानीषे यदयं भिक्षुः समाधिं समापन्नो ऽभूत् / अथ स राजकुमार एवमाह / पश्य महाराज अयं भिक्षुर्बोधिसत्त्वसमाधिं समापन्नः सर्वक्लेशविनिर्मुक्तो भवसागरपारङ्गतः सर्वसत्त्वहितार्थं च मार्गं दर्शयते शुभम् / अथ स राजकुमारो राजानमेवमाह / आगच्छ तात चङ्क्रमं गमिष्यामः / अथ स राजा स च राजकुमारो बहुभिर्दारकशतैः सार्धं येन स चङ्क्रमस्तेनोपसङ्क्रान्तौ / अथ स भिक्षुस्ततः समाधेर्व्युत्थितो राजानमजितसेनमेवमाह / आगच्छ महाराज किं करोष्यस्मिन् स्थाने / (asv 125)
अथ राजा तं भिक्षू दृष्ट्वा मौलिपट्टं राजकुमारस्य ददाति / तव राज्यं भवतु / धर्मेण पालये नाधर्मेण / राजकुमार आह / बहून्यसङ्ख्येयानि राजकार्याणि मया कृतानि / न च कदाचित्तृप्तिरासीत् / तव तात राज्यं भवतु / न मम राज्येन कार्यं न भोगेन नैश्वर्याधिपत्येन कार्यम् / तव राज्यं भवतु तात / धर्मेण पालये नाधर्मेणेति /
अथ राजा येन स भिक्षुस्तेनोपसङ्क्रान्तः प्राञ्जलिरेवमाह /
सुदुर्लभं दर्शनतुभ्यमार्षाः कृताञ्जलिः समभिमुखी नायकानाम् / मोक्षागमं दर्शनु तुभ्यमार्षाः सुदुर्लभं कर्मशतैरचिन्तियैः //
ये दर्शनं दास्यति तुभ्यमार्षा मुक्ता च सो भेष्यति कल्पकोटिभिः / न जातु गच्छे विनिपातदुर्गतिं यो नामधेयं शृणुते मुहूर्तम् //
राजा आह /
निषद्य युग्ये रतनामये शुभे व्रजाम्यहं येन स राजधानीम् / ददाम्यहं भोजनु सुप्रभूतं ददाम्यहं काशिकवस्त्रमेतत् / (asv 126) सूक्ष्माणि जालानि च संहितानि यां चीवरां तुभ्य ददामि अद्य //
अथ स भिक्षू रत्नमये युग्ये गृहीत्वा येन राजधानी तेनोपसङ्क्रान्तः / सन्तर्पितो भोजनेन / अथ नन्दिमित्रमहाश्रावको राजानमजितसेनं गाथाभिरध्यभाषत /
सन्तर्पितो भोजन सुप्रभूतं मृष्टान्नपानरसमुत्तमं शुभम् / ये भिक्षुसङ्घाय ददन्ति दानं ते बोधिमण्डेन चिरेण गच्छत //
सुदुर्लभं दर्शन नायकस्य न चिरेण सो गच्छति बुद्धक्षेत्रम् / अमितायुषस्य वरबुद्धक्षेत्रे सुखावतीं गच्छति शीघ्रमेतत् //
अथ नन्दिमित्रमहाश्रावकः अजितसेनस्य राज्ञो गाथा भाषित्वा तूष्णीं स्थितो ऽभूत् / अथ राजा अजितसेनो भेरीं पराहन्ति स्म / अथ तेन भेरीशब्देन सर्वास्ता अमात्यकोट्यो राजानमेवमाहुः / कस्यार्थे महाराज भेरी पराहता / राजा आह / सप्तमे दिवसे हस्तिरथमश्वरथं सज्जं कृतं स्यात् / अहं सप्तमे दिवसे जेतवनं नाम विहारं गमिष्यामि शाक्यमुनेस्तथागतस्यार्हतः सम्यक्सम्बुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय (asv 127) / अथामात्यकोट्यस्तं राजानमजितसेनमेवमाहुः / कृतमस्माभिः महाराज हस्तिरथमश्वरथं सज्जम् / अथ राजा अजितसेनो हस्तिरथे अवरुह्य तं च नन्दिमित्रमहाश्रावकं रत्नमये रथे अवरोह्य येन जेतवनं विहारस्तेनोपसङ्क्रान्तः / अथ भगवान् राजानमजितसेनं दूरत एवागच्छन्तं दृष्ट्वा तान् सर्वश्रावकानामन्त्रयत / सर्वैर्नानाऋद्धिविकुर्वितं दर्शयितव्यम् / अथ ते सर्वे महाश्रावका ज्वालामालं नाम बोधिसत्त्वसमाधिं समापन्ना अभूवन् / अथ राजा दूरतस्तं ज्वालामालं दृष्ट्वा नन्दिमित्रमहाश्रावकमेवमाह / कस्यार्थे इमं पर्वतं ज्वालामालीभूतं पश्यामि / नन्दिमित्र आह / अत्र शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्सम्बुद्धः स्थितिं ध्रियते यापयति धर्मं च देशयति / ते च बोधिसत्त्वा ज्वालामालं नाम बोधिसत्त्वसमाधिं समापन्नाः / अथ राजा अजितसेनो हस्तिरथादवतीर्य पादाभ्यां पुत्रसहस्रेण सार्धं येन भगवांस्तेनोपसङ्क्रान्तः / अथ भगवान् सुवर्णवर्णेन कायेन व्यामप्रभया चङ्क्रमते स्म / अथ राजा अजितसेनो भगवतो रूपवर्णलिङ्गसंस्थानं दृष्ट्वा मूर्च्छित्वा धरणितले निपतितः / अथ भगवान् सुवर्णवर्णं बाहुं प्रसार्य तं राजानमुत्थापयति स्म / उत्तिष्ठ महाराज कस्यार्थे प्रपतितः / राजा आह / (asv 128)
बहूनि कल्पानि अचिन्तियानि जातीशताकोटि अचिन्तियानि / न मे कदाचिदिह दृष्टरूपं त्वं लोकनाथो वरदक्षिणीयो //
त्वं सार्थवाह जरव्याधिमोचकं सुवर्णवर्णं वरलक्षणाङ्गम् / द्वातृंशता लक्षणधारिणं मुने नासौ कदाचिद्व्रजते अपायभूमिम् / यो लोकनाथस्य हि रूपु पश्ये त्वं लोकनाथा शिरसा नमस्यामी //
अथ राजा अजितसेनः कृताञ्जलिः भगवन्तमेवमाह / अहं भगवन् तव शासने प्रव्रजिष्यामि / अथ भगवान् तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः / अलब्धलाभा ये तत्र मम शासनं वैस्तारिकं भवति / तं राजानमजितसेनमेवमाह / गच्छ त्वं महाराज स्वगृहे सप्तमे दिवसे आगमिष्यामि /
अथ राजा अजितसेनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तं कल्याणमित्रं भिक्षुं पुरतःस्थाप्य स्वगृहं गत्वा सर्वानमात्यानामन्त्रयते स्म / सर्वैर्ग्रामनगरनिगमजनपदैः पथं शोधयितव्यं गृहे गृहे ध्वजान्युच्छ्रापितव्यानि गृहे गृहे रत्नमयानि (asv 129) कुम्भानि परिपूरयितव्यानि / तदा तैः सर्वैरमात्यैराज्ञातम् / सर्वग्रामनगरनिगमजनपदैः पथं शोधितं ध्वजान्युच्छ्रापितानि रत्नमयानि कुम्भानि परिपूरितानि / यत्र राजा अजितसेनः प्रतिवसति तत्र द्वादशकोट्यो ध्वजानामुच्छ्रापिता द्वादशकोट्यो रत्नमयानां कुम्भानां परिपूरिताः / यावत् सप्तमे दिवसे तथागतो ऽर्हन् सम्यक्सम्बुद्धः शारिपुत्रमौद्गल्यायनानन्दपूर्णमैत्रायणीपुत्रप्रमुखैर्महाश्रावकसङ्घैः परिवृतः पुरस्कृतः अजितसेनस्य राज्ञो राजधानीमनुप्राप्तः / अथ राजा अजितसेनः पुष्पपिटकं गृहीत्वा कल्याणमित्रं पुरतःस्थाप्य भगवन्तं पुष्पैरवकिरन् भगवन्तमेवमाह / अनेन कुशलमूलेन सर्वसत्त्वा अनुत्तरां सम्यक्सम्बोधिमभिसम्पद्यन्ते / अथ राज्ञा अजितसेनेन आसनानि प्रज्ञप्तानि / तस्य भगवतः सिंहासनं प्रदत्तम् / अथ भगवान् सिंहासने निषण्णो राज्ञो ऽजितसेनस्य धर्मान् देशितवान् / अथ राज्ञा अजितसेनेन प्रभूतेनाहारेण खादनीयेन भोजनीयेन सन्तर्पितः / अथ राजा अजितसेनो ज्येष्ठकं राजकुमारं ददाति / इमं राजकुमारं प्रव्राजय / तदहं पश्चात् प्रव्रजिष्यामि / अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म / गच्छानन्द इमं राजकुमारं प्रव्राजय / (asv 130) अथायुष्मतानन्देन स राजकुमारः प्रव्राजितः / सह प्रव्रजितमात्रेण अर्हत्फलं प्राप्तमभूत् / सर्वबुद्धक्षेत्राणि पश्यति स्म / अथ स राजकुमारो ऽन्तरीक्षगतस्तं पितरं गाथाभिरध्यभाषत /
मा विलम्ब कुरुते तात मा खेदं किञ्चि यास्यसि / अहो सुलब्धं सुगतान दर्शनं अहो सुलब्धं सुगतान लाभम् //
अहो सुलब्धं परमं हि लाभं प्रव्रज्यलाभं सुगतेन वर्णितम् / संसारमोक्षो सुगतेन वर्णितं प्रव्रज्य शीघ्रं म विलम्ब तात //
मा खेदयी लोकविनायकेन्द्रं सुदुर्लभं लब्ध मनुष्यलाभं सुदुर्लभं दर्शनु नायकानाम् / शीघं च प्रव्रज्य मया हि लब्धं प्राप्तं मया उत्तममग्रबोधिम् / श्रुत्वा न राजा तद पुत्रवाक्यं स प्रव्रजी शासनि नायकस्य //
अथ राजकुमारो ऽन्तरीक्षगतो गाथां भाषित्वा तूष्णीं स्थितो ऽभूत् / अथ राजा अजितसेनः पुत्रस्य वाक्यं श्रुत्वा तुष्ट उदग्र (asv 131) आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भगवन्तमुद्दिश्य विहारं कारयति स्म / तूर्यकोट्यो ऽनुप्रदत्ताः / अन्तःपुरसहस्रमस्यास्त्रीन्द्रियमन्तर्हितपुरुषेन्द्रियं प्रादुरभूत् / अथ राजा अजितसेनो भगवतः शासने प्रव्रजितो ऽभूत् / ताश्चामात्यकोट्यो भगवतः शासने प्रव्रजिता अभूवन् / तच्चान्तःपुरपुरुषसहस्रं प्रव्रजितमभूत् / भगवान् राजानमजितसेनं प्रव्राज्य येन जेतवनं विहारस्तेन गमनमारब्धवान् /
अथायुष्मानानन्दो भगवन्तमेवमाह / अयं राजा अजितसेनो राज्यं परित्यज्य विहारं कारयित्वा भगवतः शासने प्रव्रजितो ऽभूत् / अस्य कीदृशं कुशलमूलं भविष्यति / भगवानाह / साधु साधु आनन्द यत्त्वया परिकीर्तितम् / अयं राजा अजितसेनो मम शासने प्रव्रजितो भविष्यति / अनागते ऽध्वन्यपरिमितैः कल्पैरचिन्त्यैरपरिमाणैरजितप्रभो नाम तथागतो ऽर्हन् सम्यक् सम्बुद्धो लोके भविष्यति विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / आनन्द आह / अयं नन्दिमित्रमहाश्रावको राज्ञः कल्याण मित्रमभूत् / किदृशं वास्य कुशलमूलं भविष्यति / भगवानाह / (asv 132) अयमानन्द नन्दिमित्रमहाश्रावकस्तत्रैव कालसमये नन्दिप्रभो नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो लोके भविष्यति / आनन्द आह / कीदृशं भगवन् तेषां तथागतानां बुद्धक्षेत्रं भविष्यति / भगवानाह / अपरिमितगुणसञ्चया नाम सा बुद्धक्षेत्रं भविष्यति यत्रेमे तथागता भविष्यन्ति / आनन्द आह / य इमं धर्मपर्यायं सकलं समाप्तं पश्चिमे काले पश्चिमे समये सम्प्रकाशयिष्यति तस्य कीदृशः पुण्यस्कन्धो भविष्यति / भगवानाह / यदा मयानन्द दुष्करकोटिनियुतशतसहस्राणि चरित्वा बोधिरभिसम्बुद्धा तदा ते सत्त्वा बोधिमभिसम्भोत्स्यन्ते / य एतद्धर्मपर्यायात् चतुष्पदिकामपि गाथां श्रोष्यन्ति अवैवर्तिकाश्च ते सत्त्वा भविष्यन्त्यनुत्तरायां सम्यक्सम्बोधौ / आनन्द आह / य इमं धर्मपर्यायं धर्मभाणकाः सम्प्रकाशयिष्यन्ति तेषां कीदृशं कुशलमूलं भविष्यति / भगवानाह /
शृणु आनन्द राजा भविष्यति चक्रवर्ती चतुर्द्वीपेश्वरः / य इमं धमपर्यायं सकलं समाप्तं सम्प्रकाशयिष्यन्ति मुक्ताश्च भविष्यन्ति जातिजराव्याधिपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमुक्ता भविष्यन्ति / आनन्द आह / ये पश्चिमे काले पश्चिमे समये सत्त्वा इमं धर्मपर्यायं प्रतिक्षेप्स्यन्ति न पत्तीयिष्यन्ति तेषां का गतिर्भविष्यति कः परायणम् / (asv 133) भगवानाह / अलमलमानन्द / मा मे पापकं कर्मस्कन्धं परिपृच्छ / न मया शक्यं परिकीर्तयितुम् / अन्यत्र बुद्धकोटिभिर्नशक्यं परिकीर्तयितुम् / आनन्द आह / परिकीर्तय भगवन् परिकीर्तय / सुगतो भगवानाह / श्रुणु आनन्द सद्धर्मप्रतिक्षेपकस्य गतिं परिकीर्तयिष्यामि / रौरवे महानरके हाहहे महानरके अवीचौ महानरके तिर्यग्योनौ यमलोके च प्रेतविषये बहूनि कल्पसहस्राणि दुःखमनुभवितव्यम् / यदि कदाचिन्मनुष्यलोके उपपत्स्यते दीर्घशुष्कतालुकण्ठो भविष्यति / द्वादशयोजनानि तस्य जिह्वा भविष्यति / द्वादशहल्यानि प्रवहिष्यन्ति ये एवं वागभाषिष्यन्ते / मा भोः कुलपुत्रा भोः क्वचित् सद्धर्मं प्रतिक्षेपष्यथ / सद्धर्मप्रतिक्षेपकस्य एवं गतिर्भवति / आनन्द आह / केन हेतुना भगवन् सद्धर्मः प्रतिक्षिप्तो भवति / भगवानाह / ये सत्त्वाः पश्चिमे काले पश्चिमे समये एतेषां सूत्रानुधारकाणां धर्मभाणकानामाक्रोशिष्यन्ति परिभाषिष्यन्ते कुत्सयिष्यन्ति पंसयिष्यन्ति तस्य धर्मभाणकस्य दुष्टचित्तमुत्पादयिष्यन्ति तेभ्यः सद्धर्मः प्रतिक्षिप्तो भविष्यति / यः सत्त्वः (asv 134) त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वानामक्षीण्युत्पाटयेत् अयं ततो बहुतरमपुण्यस्कन्धो भवेत् /
एवमेव य एतेषां सूत्रधारकाणां धर्मभाणकाणां दुष्टचित्तप्रेक्षिता अयं ततो बहुतरमपुण्यस्कन्धं प्रसविष्यते /
अथ आनन्दो भगवतो गाथाः प्रत्यभाषत /
बहुसूत्रसहस्राणि श्रुतं मे शास्तुसम्मुखात् / न चमे ईदृशं सूत्रं श्रुतपूर्वं कदाचन //
परिनिर्वृतस्य शास्तुस्य पश्चात्काले सुभैरवे / इदं सूत्रं प्रकाशिष्ये धारयिष्ये इमं नयम् //
यत्र सूत्ररत्ने अस्मिं पश्चात्काले भविष्यति / रक्षां करिष्यामि तेषां पश्चात्काले सुभैरवे //
प्रतिक्षिपिष्यामि नेदं गम्भीरं बुद्धभाषितम् //
अथायुष्मानानन्दो भगवतो गाथा भाषित्वा तूष्णीं स्थितो ऽभूत् / अथ काश्यपो महाश्रावको भगवन्तं गाथाभिरध्यभाषत /
सुवर्णवर्णं वरलक्षणाङ्गं द्वात्रिंशता लक्षणधारिणं जिनम् / सुभाषितं सूत्र महानुभावगं गम्भीरधर्मं निपुणं सुदुर्दृशम् // (asv 135) प्रकाशितं सूत्रमिदं निरुत्तरं मा पश्चकाले परिनिर्वृते जिते /
धारिष्ये मं सूत्रनयं निरुत्तरं / अथायुष्मान् शारद्वतीपुत्रो भगवन्तं गाथाभिरध्यभाषत / नमो ऽस्तु ते बुद्ध महानुभाव प्रकाशितं सुत्रमिदं निरुत्तरम् / परिनिर्वृतस्य तव लोकनायका लिखिष्यति सूत्रमेतं निरुत्तरम् //
न चापि सो गच्छति दुर्गतीभयं स्वर्गं च सो गच्छति क्षिप्रमेतत् //
अथायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तं गाथाभिरध्यभाषत /
कृतज्ञो बहुसत्त्वानां मोचको दुर्गतीभयात् / प्रकाशितं त्वया सूत्रं गम्भीरं बुद्धदक्षिणम् //
अहं हि पश्चिमे काले निर्वृते त्वयि नायके / इदं सूत्रं प्रकाशिष्ये हिताय सर्वप्राणिनाम् //
इति /
अथ ब्रह्मा सहाम्पतिर्भगवन्तं गाथाभिरध्यभाषत /
नमो ऽस्तु ते बुद्ध महानुभावा प्रकाशितं सूत्रमिदं त्वया शुभम् / (asv 136) परिनिर्वृतस्य तव लोकनायक रक्षां करिष्यामि ह सूत्ररत्ने //
अथ चत्वारो महाराजा भगवन्तं गाथाभिरध्यभाषन्त /
अहो सुरम्यं वरसूत्ररत्नं प्रकाशितम् ईदृश पश्चकाले / ..................सूत्ररत्नं प्रकाशितं पश्यति पश्चकाले //
सुगतान वै लोकविनायकानां अहं हि धारिष्यम् सूत्ररत्नम् / रक्षां करिष्याम्यह सूत्ररत्नं इमवोचद्भगवानात्तमना //
सा च सर्वावती पर्षद्भगवतो भाषितमभ्यनन्दत् /
अजितसेनव्यकरणनिर्देशो नाम महायानसूत्रं समाप्तम् //
देयधर्मोयं बालोसिंहेन सार्ध भार्याजाजतित्रन सार्धं मातापित्रोः परमदुष्कर्त्रोः सार्धं क्षीणीएन अखिलोटिएन दिशोटजाज मङ्गलि....... उत्रयन्नगर्विदोटिएन वट्ररि-खुशोटि-खूशोगोटिएन सार्धं सर्वसत्त्वैः सर्व...... भिर्यत्र पुण्य तद्भ...... सर्वसत्त्वानामनुत्तरः...... सार्धं परमकल्याणमित्रस्थिरबन्धुएन / लिस्वितमिदं पुस्तकं धर्मभाणकनरेन्द्रदत्तेन /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
