Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अजितसेनव्याकरण

Thông tin
GRETIL — N. Dutt in: Gilgit Manuscripts, vol. I, Srinagar 1939, pp. 103-136. 2nd ed. Delhi 1984.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अजितसेनव्याकरण

ओं नमः सर्वज्ञाय ॥

एवं मया श्रुतम् एकस्मिन् समये भगवान्* श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुसहस्रैः । तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन आयुष्मता च महानाम्ना आयुष्मता च रेवतेन आयुष्मता च वक्कुलेन आयुष्मता च शारिपु[त्रेण आयुष्मता च] पूर्णेन मैत्रायणी[पुत्रेण] च श्रावकनियुतैः । ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस् तस्थुर् द्वात्रिंशता बोधिसत्वसहस्रैः । तद्यथा सहचित्तोत्पादधर्मचक्रप्रवर्तनेन च बोधिसत्वेन महासत्वेन अनिक्षिप्तधुरेण च बोधिसत्वेन महासत्वेन मैत्रेयेण च बोधिसत्वेन महासत्वेन अवलोकितेश्वरेण च बोधिसत्वेन महासत्वेन महास्थामप्राप्तेन च बोधिसत्वेन महासत्वेन । एवंप्रमुखैर् द्वात्रिंशता बोधिसत्वसहस्रैः । ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस् तस्थुः । अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरमा[त्रः] श्रावस्तीं महानगरीं पिण्डाय प्राविशत्* । अथ भगवान् आयुष्मन्तम् आनन्दम् (asv 104) आमन्त्रयते स्म । गच्छानन्द पात्रं चक्रिकं शिक्यमानय । अथायुष्मान् आनन्दो भगवतः श्रुतमात्रेण पात्रं चक्रिकं शिक्यं भगवते उपनामयाम् आस । अथायुष्मान् आनन्दो भगवतः कृताञ्जलिपुटो भगवन्तं गाथाभिर् अध्यभाषत ।

यदा त्वं प्रविशसि पिण्डपातिक विमोचये त्वं बहवं हि प्राणिनाम्* /-म्स्: विमोचयेयं ... उत्तारयेयं उत्तारये त्वं बहवं सत्वा नरकभयाज् जातिजरामहाभया //

संसारदुःखकलिला महाभयाद् {विमोचयेयं तव लोकनायकाः} / महानुभावो वरदक्षिणीयो विमोचयित्वा {बहवं हि सत्वा / संसारदुःखकलिला महाभयः विमोचयित्वा} पुनरं हि आगमी //

अथायुष्मान् आनन्दो भगवत इमा गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ भगवान्* श्रावस्त्यां महानगर्यां नातिदूरे स्थितो ऽभूत्* । अथ ते सर्वे गवाक्षतोरणनिर्यूहका [हिरण्य]मयाः स्फटिकमया रूप्यमयाः प्रादुरभूवन्* । तथा श्रावस्त्यां म[हानगर्यां] महान्तं जनकायं संस्थितो ऽभूवन्* । अथ स जनकायः संशयजातो बभूव को हेतुः कः प्रत्ययः नगरस्य शुभनिमित्तं प्रादुरभूत्* । मा चेदं नगरं भस्मप्रलयं स्यात्* । अथ तत्र जनकाये अनेकवर्षशतसहस्रिको (asv 105) जीर्णो वृद्धो महल्लकः पुरुषः संस्थितो ऽभूत्* । अथ स पुरुषस् तं जनकायं समाश्वासयन्न् एवम् आह । मा भैषुर् भोः कुलपुत्राः । अस्मिन्न् एव पृथिवीप्रदेशे जेतवनं नाम विहारः । तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । सो ऽयं श्रावस्तीं महानगरीं पिण्डाय प्राविशत्* । तस्यागमनकालसमये इदं शुभनिमित्तम् अभूत्* । अथ स जनकायस् तं जीर्णकं पुरुषं कृताञ्जलिर् [एवम् आह] । यत् तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य गु[णवर्णसमुदीरण]समये इदं शुभनिमित्तम् अभूत्* । दृष्टमात्रस्य तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य कीदृशः पुण्याभिसंस्कारो भविष्यति । अथ स जीर्णकपुरुषस् तं जनकायं भगवतो गुणवर्णसमुदीरणतया गाथाभिर् अध्यभाषत ।

यो लोकनाथस्य हि नामु यः श्रुणे संसारदुःखा विनिमुक्तु सो नरो / अपायगामी न कदाचि भेष्यते स्वर्गं च सो यास्यति शीघ्रम् एवम्* / यो लोकनाथस्य हि नामु यः श्रुणे दृढप्रतिज्ञो बहुकल्पकोटिभिः / महानुभावो सुगतो महात्मनः कल्पानकोटीनयुतान् अचिन्तियान्* //

(asv 106) सो बोधिसत्वो स्थित गङ्गवालुकान् कदाचि सो गच्छति दुर्गती भयम्* / यो लोकनाथस्य हि नामु यः श्रुणे अपायगामी न कदाचि भेष्यते //

कल्पानकोटीनयुतान् अचिन्तिया राजा स भोती सद चक्रवर्ती / यो लोकनाथस्य हि नामु धारयेत्* //

यत् किंचि पूर्वं सद पापु यत् कृतं सर्वं क्षयं यास्यति शीघ्रम् एतत्* / शक्रो ऽपि देवेन्द्रमहानुभावो कल्पानकोटीनयुतान् अचिन्तिया //

सुखावतीं गच्छति बुद्धक्षेत्रं पर्यङ्कबद्धो स च बोधिसत्वो / ब्रह्मस्वरो सुस्वरु मंजुघोष भवन्ति वर्षानसहस्रकोटिभिः //

अपायगामी न कदाचि भेष्यते यो लोकनाथस्य हि नामु धारयेत्* /

अथ स जीर्णकः पुरुषो जनकायं भगवतो गुणवर्णम् उदीरयित्वा तूष्णीं स्थितो ऽभूत्* । अथ भगवान् पूर्वेण नगरद्वारेण श्रावस्तीं महानगरीं प्रविष्टो ऽभूत्* । तत्र च नगरद्वारे द्वादशकोट्यः पद्मानां प्रादुरभूवन्* । तेषु च पद्मेषु द्वादशकोट्यो बोधिसत्वानां पर्यङ्कनिषण्णाः (asv 107) प्रादुरभूवन् प्राञ्जलयः । अथ भगवतः प्रविष्टमात्रेण श्रावस्त्यां महानगर्यां नवनवतिकोटीनियुतशतसहस्राणि सत्वानां सुखावत्यां लोकधातौ प्रतिष्ठापितानि चतुरशीतिसत्वकोटीनियुतशतसहस्राण्य् आभिरत्या लो[कधातो]र् अक्षोभ्यतथागतस्य बुद्धक्षेत्रं प्रतिष्ठापितानि । अथ भगवान् आ[नन्देन सह नगरा]वलम्बिकाया दारिकाया गृहे समागतो ऽभूत्* । अथ भगवान् नगरावलम्बिकाया दारिकाया गृहे चक्रिकं कटकटापयाम् आस । अथ सा दारिका तं चक्रीशब्दं श्रुत्वा संशयजाताभूत्* । को हेतुः कः प्रत्ययः । मम गृहे न कदाचित् पिण्डपातिक आगतो ऽभूत्* । अथ सा नगरावलम्बिका दारिका शून्याकारगृहे निषण्णा अश्रुकण्ठी रुदन्ती परिदेवन्ती स्थिताभूत् तीक्ष्णधारम् असिं गवेषन्ती परिदेवन्ती रुदन्ती स्थिताभूत्* । अथ [सा] दारिका शून्याकारगृहे निषण्णा परिदेवन्ती अश्रु[कण्ठी] रुदन्ती गाथाभिर् अध्यभाषत ।

अहो बत दुःखु दरिद्रके गृहे वरं मम मरणु न चापि जीवितम्* / किं चापि मे कार्युषु जीवितेन यद्यैवाहं दुःखु शरीर पीडितम्* / कन ...................... ह्यत्राणं भवते परायणम्* / अनाथभूता अहम् अद्यमेव यद्यैवाहं जात दरिद्रके गृहे //

(asv 108)

अथ स नगरावलम्बिका दारिका शून्याकारगृहे [निषण्णा] इमा गाथा भाषित्वा तूष्णीं स्थिताभूत्* । अथ शुद्धवासकायिको देवपुत्रो ऽन्तरीक्षगतः स्थितश् चिन्तयति स्म । पश्येच् चेद् इमां भगवान्* । अनेकदुष्करकोटिनियुतशतसहस्रचीर्णचरितः स शाक्यमुनिस् तथागतो नगरावलम्बिकाया दारिकाया गृहे स्थितो ऽभूत्* । अथ शुद्धवासकायिको देवपुत्रः शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा शतरसभोजनपिटकं गृहीत्वा काशिकानि वस्त्राणि गृहीत्वा येन नगरावलम्बिकाया दारिकाया गृहं तेनोपसंक्रान्तो ऽभूत्* । अथ शुद्धवासकायिको देवपुत्रो नगरावलम्बिकां दारिकाम् एवम् आह । प्रावर दारिके इमानि काशिकानि वस्त्राणि इमान्य् अनेकशतसहस्रमूल्यान्य् आभरणानि । प्रावृत्य चेदं शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा इमं शतरसभोजनपिटकं गृहीत्वा भगवन्तम् उपनामय । अथ सा दारिका तानि काशिकानि वस्त्राणि प्रावृत्य शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा तं शतरसभोजनपिटकं गृहीत्वा येन भगवांस् तेनोपसंक्रान्ता । उपसंक्रम्य भगवन्तम् उपनामयति स्म । अथ भगवांस् तां नगरावलम्बिकाम् एवम् आह । परिणामय त्वं दारिके यथा परिणामितं विपश्यिशिखिविश्वभुक्ककुत्सुन्दकनकमुनिकाश्यपप्रभृतिभिः सद्भिस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः । अन्तो भविष्यति स्त्रीभावाद् अन्तो भविष्यति दरिद्रगृहात्* । अथ सा दारिका तं पिण्डपातं परिणामयित्वा (asv 109) भगवन्तम् उपनामयाम् आस । अनेन पिण्डपातकुशलमूलेन मा कस्मिंश्चिद् दरिद्रगृहे उपपद्येय । अथ सा नगरावलम्बिका दारिका तं पिण्डपातं परिणामयित्वा भगवते दत्वा स्वगृहगमनम् आरब्धा । अथ भगवांस् तां नगरावलम्बिकां दारिकाम् एवम् आह । प्रतिनिवर्तस्व दारिके । पूर्वजातिनिदानं समनुस्मरामि । तद् अहं प[रिकीर्त]यिष्यामि । अथ सा दारिका प्रतिनिवृत्य सर्वाङ्गप्रणि[पातेन] भगवन्तं प्रपतिता । अथ सा नगरावलम्बिका दारिका भगव[न्तं गा]थाभिर् अध्यभाषत ।

अवश्यं मे पूर्वकृतेन कर्मणा येनाहं [जात] दरिद्रके गृहे / करोहि कारुण्य ममं हि दुःखित [विनिवर्तयस्व] नरका हि पालान्* //

करोहि कारुण्य मम दुःखिताया इस्त्रिभावा उपपन्नु नायक / त्वं लोकनाथ जरव्याधिशोक विमोचये मं मम दुःखितायाः //

त्राणं भवाही शरणं परायणं विमोचयाही मम दुःखितायाः / कृतं हि नाथ प्रणिधिं त्वया हि ये केचि सत्वा इह जम्बुद्वीपे //

(asv 110) तिष्ठन्ति ये वै दशसु दिशासु सत्वा हि सर्वे सुखिता [करि]ष्ये / सर्वे च हं मोचयि दुःखसागरात् त्राणं भवाही श[रणं पराय]णम्* //

त्वयं हि नाथ मयि मोचयी जगत्* अवश्यं मे पूर्वकृ[तेन] कर्मणा / येनाहं जातु दरिद्रके गृहे त्राणं भवाही मम [दुःखितायाः] //

[भवं] तु नाथ जरव्याधिमोचकं त्राणं भवाही गुण संचि[ताग्र] / न चा करिष्ये पुनर् एव पापं यद् वेदयामी इमि वेदनानि //

कृपं जनि ...... मग्र सत्वा त्राणं भवाही शरणं परायणम्* / ये केचि सत्वा इह जम्बुद्वीपे नामं च वै धारय पश्च काले //

परिनिर्वृतस्य तत पश्चकाले भविष्यति शासनविप्रलोपम्* / यत् किंचि पापं तदपूर्व यत् कृतं सर्वं क्षयं यास्यति शीघ्रम् ए[त]त्* //

अथ सा नगरावलम्बिका दारिका भगवन्तं गाथा भाषित्वा पु[नर् अपि] गृहगमनम् आरब्धा । अथ भगवान् तां नगरावलम्बिकां (asv 111) [दारिकां कल]विङ्करुतस्वरनिर्घोषेणैवम् आह । प्रतिनिवर्तस्व [दारिके पूर्वजातिनिदानं स]मनुस्मरामि तद् अहं परिकीर्तयिष्यामि । [अथ सा दारिका] प्रतिनिवृत्यैवम् आह ।

परिकीर्तय लोकविनायकाद्य य[द् यत् कृतं] पाप सदा सुदारुणम्* / अवश्य मे पापु कृतं सुदारुणं येना[हं जातु] दरिद्रके गृहे //

त्वं सार्थवाहु इह सर्वलोके विमोचये मं इह इस्त्रिभावा / त्राणं भवाही शरणं परायणं कृतज्ञहं नित्य भवामि नायके //

संश्रावये मं इमु धर्मनेत्री नासौ कदाचित् तजते अपायम्* / संशोधयी कर्म यथाकृतं मया त्राणं भवाही शरणं परायणम्* //

असङ्गज्ञानी वरलोकनायक वन्दामि नाथ शरणं कृताञ्जली //

अथ भगवांस् तां दारिकाम् एवम् आह । भूतपूर्वो दारिके अतीते ऽध्वनि असंख्येयैः कल्पैः रत्नशिखी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । तेन (asv 112) खलु पुनः समयेन पद्मावती नाम राजधान्य् अभूत्* । तेन खलु पुनः समयेन पद्मावत्यां राजधान्यां पद्मप्रभो नाम गृहपतिर् अभूत्* । तस्य पद्मप्रभस्य गृहपतेस् त्वं [दुहि]ताभूः । तेन खलु पुनः समयेन ग्रामनगरनिगमजनपदेषु पिण्डपातिको भिक्षुः पिण्डपातायावतरति । यदा त्वद्गृहम् आगतो ऽभूत् तदा त्वं दारिके पिण्डपातं गृहीत्वा गृहान् निष्क्रान्ता पुनर् एव प्रविष्टाभूः । न चाहं मुण्डितशिरसो ऽधन्यस्य पिण्डपातं दास्यामि । तेन कर्मोपचयेन त्वया दारिके द्वादश कल्पसहस्राणि पुनः पुनर् दरिद्रगृहे दुःखान्य् अनुभूतानि । एकेन त्वया दारिके कुशलमूलेन बोधिव्याकरणं प्रतिलप्स्यसे । यत् त्वया तस्य भिक्षो रूपलिङ्गसंस्था न दृष्टा भविष्यसि त्वं दारिके अनागते ऽध्वनि अचिन्त्यैर् अपरिमाणैः कल्पैर् नगरध्वजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* लोके । अथ सा दारिका भगवन्तं त्रिः प्रदक्षिणं कृत्वैवम् आह । कीदृशं भगवन् मम बुद्धक्षेत्रं भविष्यति यत्रैवाहं बुद्धो भविष्यामि । भगवान् आह । अपरिमितगुणसंचया नाम सा बुद्धक्षेत्रं भविष्यति । यादृशी च सा सुखावती लोकधातुः तादृशं तद् बुद्धक्षेत्रं भविष्यति । पर्यङ्कनिषण्णा आर्योपपादुका बोधिसत्वा

भविष्यन्ति । ईदृशं तद् बुद्धक्षेत्रम्* । (asv 113) अथ च सा दारिका तुष्टा उदग्रा आत्तमनाः प्रमुदिता प्रीतिसौमस्यजाता स्वगृहगमनम् आरब्धा । अथ भगवांस् तां दारिकाम् एवम् आह । त्वं दारिके सप्तमे दिवसे कालं करिष्यसि । कालं कृत्वा । पूर्वस्यान् दिशि मगधविषये राजा अजितसेनो नाम । तस्य राज्ञो ऽजितसेनस्य अन्तःपुरसहस्रम् अस्ति । तस्य खलु पुना राज्ञो ऽजितसेनस्य पुत्रो जनिष्यसे । एष एव तव पश्चिमो गर्भवासो भविष्यति । अथ भगवान् पश्चिमकेन नगरद्वारेण श्रावस्त्या महानगर्या निष्क्रान्तो येन जेतवनं विहारस् तेनोपसंक्रान्तः । अथायुष्मान् आनन्दो भगवन्तं दूरत एवागच्छन्तं दृष्ट्वा पादौ शिरसाभिवन्द्य त्रिःप्रदक्षिणीकृत्य भगवन्तं गाथाभिर् अध्यभाषत ।

सुवर्णवर्णं वरलक्षणार्चितं द्वाविंशतिलक्षणरूपधारिणम्* / यदा त्वया आगतु पिण्डपातिका विमोचयित्वा इह सर्वसत्वा //

सुखेन संस्थापयि सर्वसत्वा मैत्रीबलं सर्वजगत् त्वया कृतम्* / स पिण्डपातं वरम् आण्डनायक विमोचितस् ते जगती भया च //

ये बोधिसत्वा इह जम्बुद्वीपे सर्वे च मार्गं तव दर्शयन्ति / (asv 114) परिनिर्वृतस्य सद पश्चकाले धारेतु सूत्रं इमु बुद्धवर्णितम्* //

परिनिर्वृतस्य तव पश्चकाले भविष्यति शासनविप्रलोपम्* / इमाम् नयं धारयि सूत्ररत्नम्* //

अथायुष्मान् आनन्द इमा गाथा भाषित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतः पुरतस् तस्थौ । अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । गच्छानन्द गण्डीम् आकोटय । ते श्रावकाः परिभोक्ष्यन्ति पिण्डपातम्* । अथायुष्मान् आनन्दो भगवन्तम् आमन्त्रयते स्म । कीदृशं भगवन् गण्डीशब्दस्य कुशलमूलं भविष्यति । भगवान् आह । शृणु आनन्द गण्डीशब्दस्य कुशलमूलं परिकीर्तयामि । ये केचिद् आनन्द गण्डीशब्दं श्रोष्यन्ति तेषां पञ्चानन्तर्याणि कृत्यानि परीक्षयं यास्यन्ति । अवैवर्तिकास् ते भविष्यन्ति क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते । आनन्द आह । कीदृशं भगवंस् तैः सत्वैः कुशलमूलम् अवरोपितम्* । भगवान् आह । शृणु आनन्द ये सत्वाः पश्चिमे काले पश्चिमे समये मम परिनिर्वृतस्य सद्धर्मविप्रलोपे वर्तमाने सद्धर्मस्यान्तर्धानकालसमये ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु ये सत्वा [वा] अरण्यायतने गण्ड्याकोटनशब्दं श्रोष्यन्ति नमो बुद्धायेति करिष्यन्ति तेषां पञ्चानन्तर्याणि कर्माणि परिक्षयं (asv 115) यास्यन्ति । ईदृशान्य् आनन्द गण्डीशब्दस्य कुशलमूलानि । अथायुष्मान् आनन्दः शान्तप्रशान्तेन गण्डीम् आकोटयते स्म । अथ तेन गण्दीशब्देन सर्वे ते महाश्रावकाः सन्निपतिता अभूवन्* । यथा यथा आसने निषण्णाः पिण्डपातं परिभुञ्जन्ते स्म । अथ तत्रैव श्रावकमध्ये नन्दिमित्रो नाम महाश्रावकः सन्निपतितो ऽभूत्* सन्निषण्णः । अथ भगवान् आयुष्मन्तं नन्दिमित्रं महाश्रावकम् आमन्त्रयते स्म । गच्छ त्वं नन्दिमित्र महाश्रावक पूर्वस्यान् दिशि मगधविषये राज्ञो ऽजितसेनस्य कल्याणमित्रपरिचर्यां कुरु । अथ नन्दिमित्रो महाश्रावको

भगवन्तम् एवम् आह । न भगवन्* शक्ष्यामस् तं पृथिवीप्रदेशं गन्तुम्* । दुरासदास् ते सत्वाः । ते मां जीविताद् व्यवरोपयिष्यन्ति । अथ भगवान् आयुष्मन्तं तं नन्दिमित्रं महाश्रावकम् एवम् आह । न ते सत्वास् ते शक्ष्यन्ते बालाग्रम् अपि कम्पयितुं प्रागेव जीविताद् व्यवरोपयितुम्* । अथ नन्दिमित्रो महाश्रावकः प्रत्यूषकालसमये सुवर्णवर्णं वस्त्रं प्रावृत्य येन पूर्वस्यान् दिशि मगधविषये राज्ञो ऽजितसेनस्य राजधानी तेनानुक्रान्तो ऽभूत्* । अथ राजा अजितसेनस् तं नन्दिमित्रं महाश्रावकं दृष्ट्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो ऽभूत्* । अथ राज्ञाजितसेनेन अमात्यः प्रेषितो ऽभूत्* । गच्छैनं भिक्षुम् आनय । तदा सो ऽमात्यो येन नन्दिमित्रो महाश्रावकस् (asv 116) तेनोपसंक्रान्तः । अथ सो ऽमात्यो नन्दिमित्रं महाश्रावकम् एवम् आह । आगच्छ महाश्रावक भिक्षो राजा ते आज्ञापयति । अथ नन्दिमित्रो महाश्रावको ऽमात्यम् एवम् आह । मम राज्ञा किं कार्यं मम राजा किं करिष्यति । अथामात्यो येन राजाजितसेनस् तेनोपसंक्रान्तः । तं राजानम् अजितसेनम् एवम् आह । न च स भिक्षुस् तव पार्श्वे आगच्छति । अथ राज्ञाजितसेनेन पञ्चामात्यशतानि प्रेषितानि । न च स भिक्षू राज्ञो ऽजितसेनस्य पार्श्वम् आगच्छति । अथ स राजा स्वकेनैवात्मभावेन येन स नन्दिमित्रमहाश्रावकस् तेनोपसंक्रान्तः । उपसंक्रम्य कृताञ्जलिर् एवम् आह । आगच्छ भो भिक्षो मम राजधानीं प्रविश । अथ राजा अजितसेनो दक्षिणहस्ते तं भिक्षुं गृहीत्वा स्वकां राजधानीं प्रविष्टो ऽभूत्* । अथ राज्ञाजितसेनेन नन्दिमित्रस्य भिक्षोः सिंहासनं दत्तम् अभूत्* । अथ राजाजितसेनो भद्रपीठके निषद्य

तं नन्दिमित्रं महाश्रावकम् एवम् आह । कुत्र त्वं भिक्षो गच्छसि । को हेतुः कः प्रत्ययः । अथ नन्दिमित्रो महाश्रावको राजानम् अजितसेनम् एवम् आह । ये केचिद् भिक्षुप्रव्रजितास् ते सर्वे भिक्षाहाराः पिण्डपातम् अवचरन्तः परिभुञ्जन्ति । अथ राजा अजितसेनस् तं नन्दिमित्रं महाश्रावकम् एवम् आह । परिभुङ्क्ष्व मम गृहे पिण्डपातम्* । यावज्जीवं पिण्डपातं प्रदास्यामि । यदि ते भिक्षो मम स्वमांसेन कार्यं स्वमांसं दास्यामि । अथ नन्दिमित्रो महाश्रावको राजानम् अजितसेनं गाथाभिर् अध्यभाषत । (asv 117)

भुंजामि तद् भोजनु यद् ददाहि मृष्टान्नपानं रसपानम् उत्तमम्* / क्लेशा हि निर्मुक्त त्वया भविष्यसि सुदुर्लभं लब्ध मनुष्यलाभम्* //

सुदुर्लभं शासनु नायकस्य श्रद्धाप्रसादं परमं सुदुर्लभम्* / ये शासने प्र[व्र]जिता च भिक्षवा सुदुर्लभं शासनु नायकानाम्* //

सुदुर्लभं सुगतवरस्य दर्शनं नमो ऽस्तु ते बुद्ध महानुभावो / नमो ऽस्तु ते धर्ममयं महामुने नमो ऽस्तु ते क्लेशविचक्षणार्यम्* //

नमो ऽस्तु ते सर्वजरप्रमोक्षणात्* नमो ऽस्तु ते मार्गनिदर्शनार्यम्* //

नमो ऽस्तु ते मार्गपथस्य दर्शकं नमो ऽस्तु ते बोधिपथस्य दर्शकम्* //

अथ नन्दिमित्रो महाश्रावको राजानम् अजितसेनं भगवतो गुणवर्णम् उदीरयित्वा तूष्णीं स्थितो ऽभूत्* । अथ राजानम् अजितसेनं तं नन्दिमित्रो महाश्रावको गाथाभिर् अध्यभाषत ।

सुदुर्लभं भिक्षु तथैव दर्शनं सुदुर्लभं तस्य भवेय दर्शनम्* / (asv 118) ये भिक्षुसंघस्य ददेय दानं न तस्य यक्षा न च राक्षसाश् च //

न {प्रेतकुम्भाण्डमहोरगाश्} च (?) विघ्नं न कुर्वन्ति कदाचि तेषाम्* / ये भिक्षुसंघाय ददन्ति दानं सुदुर्लभं तस्य मनुष्यलाभम्* //

यो दुर्लभं दर्शनु भिक्षुभावं सुदुर्लभं कल्पशतैर् अचिन्तियैः / यो लोकनाथस्य हि नामु धारये कल्पान कोटीनयुतान् अचिन्तिया //

न जातु गच्छे विनिपातदुर्गतिं यो ईदृशं पश्यति भिक्षुराजम्* / न तस्य भोती विनिपातदुर्गतिं यो ईदृशं पश्यति भिक्षुराजम्* //

कल्याणमित्रं मम मार्गदर्शको (यं) स आगताये मम पिण्डपातिका / यो दास्यते अस्य हि पिण्डपातं मुक्ता न भेष्यंति जरार्तव्याधया //

क्लेशा विनिर्मुक्त सदा तु भेष्यति ते तस्य दास्यन्तिह पिण्डपातम्* //

अथ स राजा अजितसेनो नन्दिमित्रं महाश्रावकं गुणवर्णम् उदीरयित्वा तूष्णीं स्थितो ऽभूत्* । अथ नन्दिमित्रो महाश्रावको (asv 119) राजानम् अजितसेनम् एवम् आह । एवम् अस्तु महाराज भुञ्जे पिण्डपातं तव गृहे । अथ राजा अजितसेनः खादनीयेन भोजनीयेन तं नन्दिमित्रमहाश्रावकं सन्तर्पयति स्म । अथ नन्दिमित्रमहाश्रावको राजानम् अजितसेनम् एवम् आह । किं तव महाराज अस्मिन् पृथिवीप्रदेशे उद्यानभूमिर् अस्ति । राजा आह । अस्ति महाश्रावक उद्यानभूमिर् मम रमणीया सुशोभना । नन्दिमित्र आह । गच्छाम्य् अहं महाराज । ताम् उद्यानभूमिं प्रेक्षे । राजा आह । गच्छ नन्दिमित्र । उद्यानभूमिं प्रेक्षस्व । अथ नन्दिमित्रमहाश्रावको येन राज्ञो ऽजितसेनस्योद्यानभूमिस् तेनोपसंक्रान्तः । अथ तत्रोद्यानभूमौ ये उद्यानगुणास् ते सर्वे सन्तीति । या ग्रैष्मिक्यः पुष्करिण्यस् ताः शीतलजलपरिपूर्णा या वार्षिक्यस् ता नात्युष्णा नातिशीतलजलपरिपूर्णाः । ताश् च पुष्करिण्यः सुवर्णसोपानसंच्छन्ना दिव्या रमणीयाः । ये च जांबूपकपरिभोगगुणास् ते सर्वे सन्तीति । अधिमुक्तकचम्पकाशोकमुचिलिन्दपाटलसुमनासौगन्धिकपुष्पाणि सन्तीति । (asv 120) ये तिर्यग्योनिगताः पक्षिणः शुकशारिकाचक्रवाकमयूरकोकिलादयस् ते नानारुतानि कुर्वन्ति स्म । अथ तत्रैव उद्यानभूमौ सुवर्णवर्णाः सुवर्णतुण्डाः सुवर्णपक्षाः सुवर्णपादाः पक्षिणाः प्रादुर्भूताः । ते सर्वे बुद्धशब्दं निश्चारयन्ति । अथ नन्दिमित्रमहाश्रावको येन राज्ञो ऽजितसेनस्य राजधानी तेनोपसंक्रान्तः । अथ राजा अजितसेनस् तं नन्दिमित्रं महाश्रावकम् एवम् आह । आगतस् त्वं महाश्रावक । दृष्टोद्यानभूमिः । नन्दिमित्र आह । दृष्टा मयोद्यानभूमी रमणीया सुशोभना । अथ नन्दिमित्रं महाश्रावकं राजा अजितसेनो गाथाभिर् अध्यभाषत ।

ये जम्बुद्वीपे परिभोगमासी अधिमुक्तकचम्पकधानुष्कारिका / अशोकमुचिलिन्द तथैव पाटला सौगन्धिकाश् च सुमना च वार्षिका //

तदा पारियात्रा नदीतीरनिर्मिता सुवर्णवर्णा सद पक्षिणा अभूत्* / मार्गं च ते दर्शयि अग्रबोधये दिव्या मनोज्ञा मधुरस्वरांश् च संश्रावयिष्यन्ति च नित्यकालम्* //

अथ नन्दिमित्रमहाश्रावको राज्ञो ऽजितसेनस्य गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ राज अजितसेनो भेरीं पराहन्ते स्म । (asv 121) अथ तेन भेरीशब्देन समेत्यामात्यगणस् तं राजानम् अजितसेनम् एवम् आह । कस्यार्थे महाराज भेरी पराहता । अथ स राजा आह । हस्तिरथं च अश्वरथं च सज्जं कृतं स्यात्* । अहम् उद्यानभूमिं गमिष्यामि क्रीडनार्थाय । अथ ता अमात्यकोट्यो वचनं श्रुत्वा शीघ्रम् एव तद् हस्तिरथम् अश्वरथं सज्जं कृतवत्यः । अथ तेन क्षणलवमुहूर्तमात्रेण राजाजितसेनो येन सोद्यानभूमिस् तेनोपसंक्रान्तः । स च नन्दिमित्रमहाश्रावकस् तेनैवोपसंक्रान्तो राजानम् अजितसेनम् एवम् आह । अस्मिन् पृथिवीप्रदेशे महाराज मम कुटिकं कारयितव्यं यत्राहं सन्निषण्णस् तव गृहे पिण्डपातं परिभोक्ष्यामि । अथ राजा अजितसेनो नन्दिमित्रमहाश्रावकम् एवम् आह । कीदृशं तव कुटिकं कारयितव्यम्* । नन्दिमित्र आह । यादृशास् तव महाराज महाचित्तोत्पादश्रद्धाप्रसादास् तादृशं कुटिकं कारय । अथ राजा अजितसेनो ज्येष्ठामात्यम् एवम् आह । अस्मिन्न् एव पृथिवीप्रदेशे कुटिकं कारय । अथ ज्येष्ठामात्यो राजानम् एवम् आह । कीदृशं महाराज कुटिकं कारयामि । राजा अजितसेन एवम् आह । त्रिंशद्योजनानि दीर्घेण षड्योजनान्य् ऊर्ध्वायां सप्तरत्नमयं मणिमुक्तिसंच्छादितं कुटिकं कारय । अथ सो ऽमात्यः कुटिकं कारयति । सप्तरत्नमयं (asv 122) मणिमुक्तिसंच्छादितं कारयित्वा येन राजा अजितसेनस् तेनोपसंक्रान्तो राजानम् अजितसेनम् एवम् आह । कृतं महाराज मया कुटिकं यादृशम् आज्ञप्तम्* । राजा आह । तत्रैव पृथिवीप्रदेशे चंक्रमः कारयितव्यश् चतुर्योजनानि दीर्घेण द्वे योजने विस्तारेण । अथ सो ऽमात्यस् तं चंक्रमं कारयित्वा येन राजा अजितसेनस् तेनोपसंक्रान्तो राजानं गाथाभिर् अध्यभाषत ।

कृतं मया चंक्रमु सुष्ठु शोभनं आज्ञा त्वया यत् कृतपूर्वम् एव च / सत्वान मोचेति प्रकृतिं शुभाशुभं विमोचये प्राणिन सर्वम् एतत्* //

अहो सुलब्धा प्रणिधीकृतं त्वया विमोचयी सर्वजगत्* सदेवकम्* / प्रणिधिं कृतं यत् त्वयम् ईदृशं भवे धर्मं प्रकाशेति मि धर्मभाणको //

निषण्ण स्थित्वा कुटिका च चंक्रमे आज्ञा कृतं यत् त्वय यादृशी कृता / स चंक्रमं चैव कृतं सुशोभनं मणिरत्नसंच्छादित तं स भूमिम्* //

अथ राजा अजितसेनो येन स्वका राजधानी तेनोपसंक्रान्तः । अथ नन्दिमित्रमहाश्रावकः प्रतिनिवृत्य तत्रैव (asv 123) कुटिके निषण्णो विकिरणं नाम बोधिसत्वसमाधिं समापन्नो ऽभूत्* । अन्येन केशान् अन्येन नयनान्य् अन्येन दन्तान् अन्येन ग्रीवा अन्येन बाहू अन्येन हृदयम् अन्येनोदरम् अन्येनोरू अन्येन जङ्घे अन्येन पादौ समापन्नो ऽभूत्* । अथ स राजा अजितसेनः सप्ताहस्यात्ययेन तं भिक्षुं न पश्यति । अथ राजा ज्येष्ठकुमारम् एवम् आह । आगच्छ कुलपुत्र गमिष्यामि तां कुटिकाम्* । येन स भिक्षुस् तेनोपसंक्रमिष्यामि । अथ स राजा सपुत्रो येन सा कुटिका तेनोपसंक्रान्तो ऽभूत्* । अथ स राजा अजितसेनस् तं भिक्षुम् आत्मभावं खण्डं खण्डं कृतं दृष्ट्वा संशयजातो ऽभूत्* । संत्रस्तरोमकूपजातो वस्त्राणि पाटयन् परिदेवन् रुदन् अश्रुकण्ठः पुत्रम् एवम् आह । आनय पुत्र तीक्ष्णधारम् असिम्* । आत्मानं जीविताद् व्यवरोपयिष्यामि । अथ स राजकुमारः प्रांजलिं कृत्वा राजानं गाथाभिर् अध्यभाषत ।

मा शोकचित्तस्य भवे नृपेन्द्र मा वेदयी वेदनम् ईदृशानि / आत्मघातं करित्वा तु निरये त्वं गमिष्यसि रौरवं नरकं चापि गमिष्यसि सुदारुणम्* // ... दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः / (asv 124) न चायं घातितो यक्षैर् न भूतैर् न च राक्षसैः / बोधिसत्वो ऽप्य् अयं लोके जरव्याधिप्रमोचकः //

दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः / दुर्लभो दर्शनं अस्य बोधिमार्गस्य दर्शकः //

कल्याणमित्रम् अयं आसी तव कारणम् आगतम्* / दक्षिणीयो अयं लोके सर्वसत्वसुखाव् अहम्* //

सर्वज्ञं पारमिप्राप्तं लोकनाथेन प्रेषितम्* / दृढवीर्यं दृढस्थामं लोकनाथं महर्षिणम्* //

यो नाम तस्य धारेति नासौ गच्छति दुर्गतिम्* / अपायं न गमिष्यन्ति स्वर्गलोकोपपत्तये //

अथ स राजकुमारस् तं पितरं गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ राजा अजितसेनः स्वकं पुत्रम् एवम् आह । कथं त्वं कुमार जानीषे यद् अयं भिक्षुः समाधिं समापन्नो ऽभूत्* । अथ स राजकुमार एवम् आह । पश्य महाराज अयं भिक्षुर् बोधिसत्वसमाधिं समापन्नः सर्वक्लेशविनिर्मुक्तो भवसागरपारंगतः सर्वसत्वहितार्थं च मार्गं दर्शयते शुभम्* । अथ स राजकुमारो राजानम् एवम् आह । आगच्छ तात चंक्रमं गमिष्यामः । अथ स राजा स च राजकुमारो बहुभिर् दारकशतैः सार्धं येन स चंक्रमस् तेनोपसंक्रान्तौ । अथ स भिक्षुस् ततः समाधेर् व्युत्थितो राजानम् अजितसेनम् एवम् आह । आगच्छ महाराज किं करोष्य् अस्मिन् स्थाने । (asv 125) अथ राजा तं भिक्षुं दृष्ट्वा मौलिपट्टं राजकुमारस्य ददाति । तव राज्यं भवतु । धर्मेण पालये नाधर्मेण । राजकुमार आह । बहून्य् असंख्येयानि राजकार्याणि मया कृतानि । न च कदाचित् तृप्तिर् आसीत्* । तव तात राज्यं भवतु । न मम राज्येन कार्यं न भोगेन नैश्वर्याधिपत्येन कार्यम्* । तव राज्यं भवतु तात । धर्मेण पालये नाधर्मेणेति । अथ राजा येन स भिक्षुस् तेनोपसंक्रान्तः प्राञ्जलिर् एवम् आह । सुदुर्लभं [दर्शन] तुभ्यम् आर्षाः कृताञ्जलिः [समभिमुखी] नायकानाम्* / मोक्षागमं दर्शनु तुभ्यम् आर्षाः सुदुर्लभं कर्मशतैर् अचिन्तियैः //

ये दर्शनं दास्यति तुभ्यम् आर्षा मुक्ता च सो भेष्यति कल्पकोटिभिः / न जातु गच्छे विनिपातदुर्गतिं यो नामधेयं शृणुते मुहूर्तम्* //

राजा आह ।

निषद्य युग्ये रतनामये शुभे व्रजाम्य् अहं येन स राजधानीम्* / ददाम्य् अहं भोजनु सुप्रभूतं ददाम्य् अहं काशिकवस्त्रम् एतत्* / (asv 126) सूक्ष्माणि जालानि च संहितानि यां चीवरां तुभ्य ददामि अद्य //

अथ स भिक्षू रत्नमये युग्ये गृहीत्वा येन राजधानी तेनोपसंक्रान्तः / सन्तर्पितो भोजनेन / अथ नन्दिमित्रमहाश्रावको राजानम् अजितसेनं गाथाभिर् अध्यभाषत ।

संतर्पितो भोजन सुप्रभूतं मृष्टान्नपानरसम् उत्तमं शुभम्* / ये भिक्षुसंघाय ददंति दानं ते बोधिमण्डेन चिरेण गच्छत //

सुदुर्लभं दर्शन नायकस्य न चिरेण सो गच्छति बुद्धक्षेत्रम्* / अमितायुषस्य वरबुद्धक्षेत्रे सुखावतीं गच्छति शीघ्रम् एतत्* //

अथ नन्दिमित्रमहाश्रावकः अजितसेनस्य राज्ञो गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ राजा अजितसेनो भेरीं पराहन्ति स्म । अथ तेन भेरीशब्देन सर्वास् ता अमात्यकोट्यो राजानम् एवम् आहुः । कस्यार्थे महाराज भेरी पराहता । राजा आह । सप्तमे दिवसे हस्तिरथम् अश्वरथं सज्जं कृतं स्यात्* । अहं सप्तमे दिवसे जेतवनं नाम विहारं गमिष्यामि शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय (asv 127) । अथामात्यकोट्यस् तं राजानम् अजितसेनम् एवम् आहुः । कृतम् अस्माभिः महाराज हस्तिरथम् अश्वरथं सज्जम्* । अथ राजा अजितसेनो हस्तिरथे अवरुह्य तं च नन्दिमित्रमहाश्रावकं रत्नमये रथे अवरोह्य येन जेतवनं विहारस् तेनोपसंक्रान्तः । अथ भगवान् राजानम् अजितसेनं दूरत एवागच्छन्तं दृष्ट्वा तान् सर्वश्रावकान् आमन्त्रयत । सर्वैर् नानाऋद्धिविकुर्वितं दर्शयितव्यम्* । अथ ते सर्वे महाश्रावका ज्वालामालं नाम बोधिसत्वसमाधिं समापन्ना अभूवन्* । अथ राजा दूरतस् तं ज्वालामालं दृष्ट्वा नन्दिमित्रमहाश्रावकम् एवम् आह । कस्यार्थे इमं पर्वतं ज्वालामालीभूतं पश्यामि । नन्दिमित्र आह । अत्र शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्थितिं ध्रियते यापयति धर्मं च देशयति । ते च बोधिसत्वा ज्वालामालं नाम बोधिसत्वसमाधिं समापन्नाः । अथ राजा अजितसेनो हस्तिरथाद् अवतीर्य पादाभ्यां पुत्रसहस्रेण सार्धं येन भगवांस् तेनोपसंक्रान्तः । अथ भगवान् सुवर्णवर्णेन कायेन व्यामप्रभया चंक्रमते स्म । अथ राजा अजितसेनो भगवतो रूपवर्णलिंगसंस्थानं दृष्ट्वा मूर्च्छित्वा धरणितले निपतितः । अथ भगवान् सुवर्णवर्णं बाहुं प्रसार्य तं राजानम् उत्थापयति स्म । उत्तिष्ठ महाराज कस्यार्थे प्रपतितः । राजा अह । (asv 128)

बहूनि कल्पानि अचिन्तियानि जातीशताकोटि अचिन्तियानि / न मे कदाचिद् इह दृष्टरूपं त्वं लोकनाथो वरदक्षिणीयो //

त्वं सार्थवाह जरव्याधिमोचकं सुवर्णवर्णं वरलक्षणांगम्* / द्वातृंशता लक्षणधारिणं मुने नासौ कदाचिद् व्रजते अपायभूमिम्* / यो लोकनाथस्य हि रूपु पश्ये त्वं लोकनाथा शिरसा नमस्यामी //

अथ राजा अजितसेनः कृताञ्जलिः भगवन्तम् एवम् आह । अहं भगवन् तव शासने प्रव्रजिष्यामि । अथ भगवान् तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमन्स्यजातः । अलब्धलाभा ये [तत्र] मम शासनं वैस्तारिकं भवति । तं राजानम् अजितसेनम् एवम् आह । गच्छ त्वं महाराज स्वगृहे सप्तमे दिवसे आगमिष्यामि । अथ राजा अजितसेनस् तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमन्स्यजातस् तं कल्याणमित्रं भिक्षुं पुरतःस्थाप्य स्वगृहं गत्वा सर्वान् अमात्यान् आमन्त्रयते स्म । सर्वैर् ग्रामनगरनिगमजनपदैः पथं शोधयितव्यं गृहे गृहे ध्वजान्य् उच्छ्रापितव्यानि गृहे गृहे रत्नमयानि (asv 129) कुम्भानि परिपूरयितव्यानि । तदा तैः सर्वैर् अमात्यैर् आज्ञातम्* । सर्वग्रामनगरनिगमजनपदैः पथं शोधितं ध्वजान्य् उच्छ्रापितानि रत्नमयानि कुम्भानि परिपूरितानि । यत्र राजा अजितसेनः प्रतिवसति तत्र द्वादशकोट्यो ध्वजानाम् उच्छ्रापिता द्वादशकोट्यो रत्नमयानां कुम्भानां परिपूरिताः । यावत् सप्तमे दिवसे तथागतो ऽर्हन् सम्यक्संबुद्धः शारिपुत्रमौद्गल्यायनानन्दपूर्णमैत्रायणीपुत्रप्रमुखैर् महाश्रावकसंघैः परिवृतः पुरस्कृतः अजितसेनस्य राज्ञो राजधानीम् अनुप्राप्तः । अथ राजा अजितसेनः पुष्पपिटकं गृहीत्वा कल्याणमित्रं पुरतःस्थाप्य भगवन्तं पुष्पैर् अवकिरन् भगवन्तम् एवम् आह । अनेन कुशलमूलेन सर्वसत्वा अनुत्तरां सम्यक्संबोधिम् अभिसम्पद्यन्ते । अथ राज्ञा अजितसेनेन आसनानि प्रज्ञप्तानि । तस्य भगवतः सिंहासनं प्रदत्तम्* । अथ भगवान् सिंहासने निषण्णो राज्ञो ऽजितसेनस्य धर्मान् देशितवान्* । अथ राज्ञा अजितसेनेन प्रभूतेनाहारेण खादनीयेन भोजनीयेन सन्तर्पितः । अथ राजा अजितसेनो ज्येष्ठकं राजकुमारं ददाति । इमं राजकुमारं प्रव्राजय । तद् अहं पश्चात् प्रव्रजिष्यामि । अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । गच्छानन्द इमं राजकुमारं प्रव्राजय । (asv 130) अथायुष्मतानन्देन स राजकुमारः प्रव्राजितः । सह प्रव्रजितमात्रेण अर्हत्फलं प्राप्तम् अभूत्* । सर्वबुद्धक्षेत्राणि पश्यति स्म । अथ स राजकुमारो ऽन्तरीक्षगतस् तं पितरं गाथाभिर् अध्यभाषत ।

मा विलंब कुरुते तात मा खेदं किंचि यास्यसि / अहो सुलब्धं सुगतान दर्शनं अहो सुलब्धं सुगतान लाभम्* //

अहो सुलब्धं परमं हि लाभं प्रव्रज्यलाभं सुगतेन वर्णितम्* / संसारमोक्षो सुगतेन वर्णितं प्रव्रज्य शीघ्रं म विलंब तात //

मा खेदयी लोकविनायकेन्द्रं सुदुर्लभं लब्ध मनुष्यलाभं ...सुदुर्लभं दर्शनु नायकानाम्* / शीघ्रं च प्रव्रज्य मया हि लब्धं प्राप्तं मया उत्तमम् अग्रबोधिम्* / श्रुत्वा न राजा तद पुत्रवाक्यं स प्रव्रजी शासनि नायकस्य //

अथ राजकुमारो ऽन्तरीक्षगतो गाथां भाषित्व तूष्णीं स्थितो ऽभूत्* । अथ राजा अजितसेनः पुत्रस्य वाक्यं श्रुत्वा तुष्ट उदग्र (asv 131) आत्तमनाः प्रमुदितः [प्रीति]सौमन्स्यजातो भगवन्तम् उद्दिश्य विहारं कारयति स्म । तूर्यकोट्यो ऽनुप्रदत्ताः । अन्तःपुरसहस्रम् अस्यास्त्रीन्द्रियम् अन्तर्हितपुरुषेन्द्रियं प्रादुरभूत्* । अथ राजा अजितसेनो भगवतः शासने प्रव्रजितो ऽभूत्* । ताश् चामात्यकोट्यो भगवतः शासने प्रव्रजिता अभूवन्* । तच् चान्तःपुरपुरुषसहस्रं प्रव्रजितम् अभूत्* । भगवान् राजानम् अजितसेनं प्रव्राज्य येन जेतवनं विहारस् तेन गमनम् आरब्धवान्* । अथायुष्मान् आनन्दो भगवन्तम् एवम् आह । अयं राजा अजितसेनो राज्यं परित्यज्य विहारं कारयित्वा भगवतः शासने प्रव्रजितो ऽभूत्* । अस्य कीदृशं कुशलमूलं भविष्यति । भगवान् आह । साधु साधु आनन्द यत् त्वया परिकीर्तितम्* । अयं राजा अजितसेनो मम शासने प्रव्रजितो भविष्यति । अनागते ऽध्वन्य् अपरिमितैः कल्पैर् अचिन्त्यैर् अपरिमाणैर् अजितप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । आनन्द आह । अयं नन्दिमित्रमहाश्रावको राज्ञः कल्याणमित्रम् अभूत्* । कीदृशं वास्य कुशलमूलं भविष्यति । भगवान् आह । (asv 132) अयम् आनन्द नन्दिमित्रमहाश्रावकस् तत्रैव कालसमये नन्दिप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति । आनन्द आह । कीदृशं भगवन्* तेषां तथागतानां बुद्धक्षेत्रं भविष्यति । भगवान् आह । अपरिमितगुणसंचया नाम सा बुद्धक्षेत्रं

भविष्यति यत्रेमे तथागता भविष्यन्ति । आनन्द आह । य इमं धर्मपर्यायं सकलं समाप्तं पश्चिमे काले पश्चिमे समये संप्रकाशयिष्यति तस्य कीदृशः पुण्यस्कन्धो भविष्यति । भगवान् आह । यदा मयानन्द दुष्करकोटिनियुतशतसहस्राणि चरित्वा बोधिर् अभिसंबुद्धा तदा ते सत्वा बोधिम् अभिसंभोत्स्यन्ते । य एतद्धर्मपर्यायात्* चतुष्पदिकाम् अपि गाथां श्रोष्यन्ति अवैवर्तिकाश् च ते सत्वा भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ । आनन्द आह । य इमं धर्मपर्यायं धर्मभाणकाः संप्रकाशयिष्यन्ति तेषां कीदृशं कुशलमूलं भविष्यति । भगवान् आह । शृणु आनन्द राजा भविष्यति चक्रवर्ती चतुर्द्वीपेश्वरः । य इमं धर्मपर्यायं सकलं समाप्तं संप्रकाशयिष्यन्ति मुक्ताश् च भविष्यन्ति जातिजराव्याधिपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमुक्ता भविष्यन्ति । आनन्द आह । ये पश्चिमे काले पश्चिमे समये सत्वा इमं धर्मपर्यायं प्रतिक्षेप्स्यन्ति न पत्तीयिष्यन्ति तेषां का गतिर् भविष्यति कः परायणम्* । (asv 133) भगवान् आह । अलम् अलम् आनन्द । मा मे पापकं कर्मस्कन्धं परिपृच्छ । न मया शक्यं परिकीर्तयितुम्* । अन्यत्र बुद्धकोटिभिर् न शक्यं परिकीर्तयितुम्* । आनन्द आह । परिकीर्तय भगवन् परिकीर्तय । सुगतो भगवान् आह । शृणु आनन्द सद्धर्मप्रतिक्षेपकस्य गतिं परिकीर्तयिष्यामि । रौरवे महानरके हाहहे महानरके अवीचौ महानरके तिर्यग्योनौ यमलोके च प्रेतविषये बहूनि कल्पसहस्राणि दुःखम् अनुभवितव्यम्* । यदि कदाचिन् मनुष्यलोके उपपत्स्यते दीर्घशुष्कतालुकण्ठो भविष्यति । द्वादशयोजनानि तस्य जिह्वा भविष्यति । द्वादशहल्यानि

प्रवहिष्यन्ति ये एवं वाग् भाषिष्यन्ते । मा भोः कुलपुत्रा भोः क्वचित् सद्धर्मं प्रतिक्षेप्स्यथ । सद्धर्मप्रतिक्षेपकस्य एवं गतिर् भवति । आनन्द आह । केन हेतुना भगवन् सद्धर्मः प्रतिक्षिप्तो भवति । भगवान् आह । ये सत्वाः पश्चिमे काले पश्चिमे समये एतेषां सूत्रानुधारकाणां धर्मभाणकानाम् आक्रोशिष्यन्ति परिभाषिष्यन्ते कुत्सयिष्यन्ति पंसयिष्यन्ति तस्य धर्मभाणकस्य दुष्टचित्तम् उत्पादयिष्यन्ति तेभ्यः सद्धर्मः प्रतिक्षिप्तो भविष्यति । यः सत्वः (asv 134) त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्वानाम् अक्षीण्य् उत्पाटयेत्* अयं ततो बहुतरम् अपुण्यस्कन्धो भवेत्* । एवम् एव य एतेषां सूत्रधारकाणां धर्मभाणकानां दुष्टचित्तप्रेक्षिता अयं ततो बहुतरम् अपुण्यस्कन्धं प्रसविष्यते । अथ आनन्दो भगवतो गाथाः प्रत्यभाषत ।

बहुसूत्रसहस्राणि $ श्रुतं मे शास्तुसंमुखात्* & न [च] मे ईदृशं सूत्रं % श्रुतपूर्वं कदाचन //

परिनिर्वृतस्य शास्तुस्य $ पश्चात्काले सुभैरवे & इदं सूत्रं प्रकाशिष्ये % धारयिष्ये इमं नयम्* //

यत्र सूत्ररत्ने अस्मिं $ पश्चात्काले भविष्यति & रक्षां करिष्यामि तेषां % पश्चात्कले सुभैरवे //

प्रतिक्षिपिष्यामि नेदं $ गंभीरं बुद्धभाषितम्* //

अथायुष्मान् आनन्दो भगवतो गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ काश्यपो महाश्रावको भगवन्तं गाथाभिर् अध्यभाषत ।

सुवर्णवर्णं वरलक्षणांगं द्वात्रिंशता लक्षणधारिणं जिनम्* / सुभाषितं सूत्र महानुभावगं गंभीरधर्मं निपुणं सुदुर्दृशम्* //

(asv 135) प्रकाशितं सूत्रम् इदं निरुत्तरं मा पश्चकाले परिनिर्वृते जिने / धारिष्ये मं सूत्रनयं निरुत्तरं /

अथायुष्मान्* शारद्वतीपुत्रो भगवन्तं गाथाभिर् अध्यभाषत /

नमो ऽस्तु ते बुद्ध महानुभाव प्रकाशितं सूत्रम् इदं निरुत्तरम्* / परिनिर्वृतस्य तव लोकनायका लिखिष्यति सूत्रम् एतं निरुत्तरम्* //

न चापि सो गच्छति दुर्गतीभयं स्वर्गं च सो गच्छति क्षिप्रम् एतत्* //

अथायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तं गाथाभिर् अध्यभाषत ।

कृतज्ञो बहुसत्वानां $ मोचको दुर्गतीभयात्* & प्रकाशितं त्वया सूत्रं % गम्भीरं बुद्धदक्षिणम्* //

अहं हि पश्चिमे काले $ निर्वृते त्वयि नायके & इदं सूत्रं प्रकाशिष्ये % हिताय सर्वप्राणिनाम्* //

इति

अथ ब्रह्मा सहांपतिर् भगवन्तं गाथाभिर् अध्यभाषत ।

नमो ऽस्तु ते बुद्ध महानुभावा प्रकाशितं सूत्रम् इदं त्वया शुभम्* / (asv 136) परिनिर्वृतस्य तव लोकनायक रक्षां करिष्यामि ह सूत्ररत्ने //

अथ चत्वारो महाराजा भगवन्तं गाथाभिर् अध्यभाषन्त ।

अहो [सुरम्यं] वरसूत्ररत्नं प्रकाशितं ईदृश पश्चकाले / ................ सूत्ररत्नं प्रकाशितं पश्यति पश्चकाले //

सुगतान वै लोकविनायकानां अहं हि धारिष्यम सूत्ररत्नम्* / रक्षां करिष्याम्य् अह सूत्ररत्नं इमवोचद् भगवान् आत्तमना //

सा च सर्वावती पर्षद् भगवतो भाषितम् अभ्यनन्दत्* / अजितसेनव्यकरणनिर्देशो नाम महायानसूत्रं समाप्तम्* //

देयधर्मो ऽयं बालोसिंहेन सार्धं भार्याजाजतित्रन सार्धं मातापित्रोः परमदुष्कर्त्रोः सार्धं क्षिणीएन अखिलोटिएन दिशोटजाज मंगलि ... उत्रयन्नगर्विदोटिएन वट्ररि-खुशोटि-खुशोगोटिएन सार्धं सर्वसत्वैः सर्व ... भिर् यत्र पुण्य तद्भ ... सर्वसत्वानाम् अनुत्तरः ... सार्धं परमकल्याणमित्रस्थिरबन्धुएन । लिखितम् इदं पुस्तकं धर्मभाणकनरेन्द्रदत्तेन ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.