Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मसमुच्चयभाष्य
- Thông tin
- GRETIL — N. Tatia: Abhidharmasamuccayabhāṣyam. Patna 1976 (Tibetan Sanskrit Works Series, 17).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
संप्रश्नविनिश्चयः - अष्टाकारः कापदेशस्तद्यथा को नोपलभते / प्रज्ञापारमितालाभी बोधिसत्त्वः / किं नोपलभते / ग्राह्यलक्षणं ग्राहकलक्षणं च / केन नोपलभते / प्रज्ञापारमितया / कस्मै नोपलभते / सर्वसत्त्वपरित्राणार्थमनुत्तरायै सम्यक्संबोधये / कुतो नोपलभते / बुद्धोत्पादारागणतः सद्धर्मश्रवणतो योनिशोमनस्कारतो धर्मानुधर्मप्रतिपत्तितश्च / कस्य नोपलभते / सर्वधर्माणाम् / कुत्र नोपलभते / अधिमुक्तिचर्याभूमौ यावद्दशम्यां बोधिसत्त्वभूमौ / कतिविघश्चानुपलम्भः / एकादशविधः - उत्पन्नविरुद्धः, अनुत्पन्नः, संमुखीभूतः, हेतुवलोत्पन्नः, मित्रबलोत्पन्नः, सर्वधर्मानुपलम्भः, शून्यतानुपलम्भः, सास्मिमानः, निरस्मिमानः, असंभृतसंभारस्य, [संभृतसंभारस्य] च / एते चानुपलम्भा यत् किंचिदतीतानागतप्रत्युत्पन्नं यावद्यद्वा दूरे यद्वान्तिक इत्येतदनुक्रमानुसारेण द्रष्टव्याः //
यथा कापदेश एवं यापदेशः / यो नोपलभते यद्येन यस्मै यतो यस्य यत्र नोपलभते यावद्विविधश्चानुपलम्भ इति //
अपि खलु चत्वारो विनिश्चयमार्गा दूषकादयः / तत्र दूषकः दुराख्यातस्य परपक्षस्यासाधुरयमिति प्रतिषेधकः / साधकः स्वाख्यातस्य स्वपक्षस्य साधुरयमिति प्रतिष्ठापकः / छेदकः परेषामुत्पन्नोत्पन्नेषु संशयेषु निश्चयदायकः / बोधकस्तेष्वर्थेषु समूढानां तदर्थव्युत्पादकः //
कृत्यानुष्ठानविनिश्चयो लौकिकानामन्योन्यं जीविकोपायादिसमर्थनप्रयोजनम् / अवतारविनिश्चयस्त्रयाणां यानानां कतमस्मिन्याने ऽवतरेयमवतारयेयं चेति विचारणा / अधिमुक्तिविनिश्चयः श्रुतमय्या प्रज्ञया यथादेशनं संप्रत्ययः / युक्तिविनिश्चयः चिन्तामय्या प्रज्ञया पौर्वापर्येणाभिप्रायपरितुलनम् / सांकथ्यविनिश्चयो यथाश्रुतचिन्तितानां प्रश्नप्रतिप्रश्नक्रियायोगेनान्योन्यं धर्मसंभोगः / प्रतिवेधविनिश्चयो दर्शनमार्गस्तेन सत्यप्रतिवेधात् / विशुद्धिविनिश्चयो भावनामार्गस्तेनावशेष क्लेश विशोघनात् / अभिनिर्हारविनिश्चयो विशेषमार्गस्तेन वैशेषिकगुणाभिनिर्हारात् / पदप्रभेदविनिश्चयो द्विकत्रिकचतुष्कादिप्रकाराभिनिर्हारमुखेनापर्यन्ता धर्मदेशना / अनाभोगाभोगमात्रसर्वार्थसिद्धिविनिश्चयस्तथागतं ज्ञानम्, विना पूर्वाभोगेन सर्वेष्वर्थेष्वाभोगसहकालमसंगाप्रतिहतज्ञानदर्शनप्रवृत्तेः //
वादविनिश्चयो वादवादाधिकरणादिषु कौशल्यम् //
तत्र सर्वं वचनं वादः / प्रकारशो लोके वादः प्रवादः / विरुद्धयोर्वादो विवादः / अपवादो गर्हितो वादः / अनुकूलो वादो ऽनुवादः सांकथ्यविनिश्चयः / अवगमाय वादो ऽववादः //
[वादाधिकरणम्] अत्र वादः क्रियत इति कृत्वा / राजकुलं यत्र राजा स्वयं संनिहितः युक्तकुलं यत्र राज्ञाधियुक्ताः सभा वणिक् सभादि / प्रामाणिकाः सहायकाः येषां वचनं वादिप्रतिवादिनौ न संशयतः / धर्मार्थकुशलाश्च श्रमणब्राह्मणा ये तेषु शास्त्रेषु ग्रन्थतश्चार्थतश्च व्युत्पन्नबुद्धयः //
वादाधिष्ठानं यदधिष्ठाय वादः क्रियते तद्यथा साध्यं साधनं च //
तत्र स्वभावः साध्य आत्मस्वभावो धर्मस्वभावश्च नास्तीति वास्तीति वा //
विशेषः साध्य आत्मविशेषो धर्मविशेषश्च सर्वगतो न सर्वगतो नित्यानित्यो रूप्यरूपीत्येवमादिभिः प्रकारैः //
प्रतिज्ञा साध्यस्य स्वरुचितार्थस्य परसंप्रापणविज्ञापना / साध्यग्रहणं यदि न क्रियेत सिद्धस्यापि स्वपक्षस्य परेषां देशना प्रतिज्ञा प्रसज्येत / स्वरुचितार्थग्रहणं न क्रियेत परपक्षस्यापि साध्यस्य वचनं प्रतिज्ञा प्रसज्येत / परग्रहणं न क्रियेत एकाकिनो ऽपि तद्वचनं प्रतिज्ञा प्रसज्येत / संप्रापणग्रहणं न क्रियेत कायेनापि तदर्थाभिनयनं प्रतिज्ञा प्रसज्येत / विज्ञापनाग्रहणं न क्रियेताविज्ञाते ऽपि तदर्थे श्रोतृभिः प्रतिज्ञा प्रसज्येत / यथोक्ते तु व्यवस्थाने सर्व एते दोषा न भवन्ति, तस्मादेवमस्या व्यवस्थानं वेदितव्यम् /
हेतुस्तस्मिन्नेव साध्ये ऽप्रतीतस्यार्थस्य संप्रत्ययनिमित्तं प्रत्यक्षोपलंभानुपलंभसमाख्यानम / संप्रत्ययनिमित्तार्थ इह हेत्वर्थ इति दर्शयति / तथाहि प्रत्यक्षानुपलंभादुपलंभाद्वेत्यनेन समाख्यानेन तस्मिन् साध्ये ऽप्रतीतस्यार्थस्य संप्रत्यय उत्पद्यते / तेन तत्समाख्यातं तन्निमित्तत्वाद्धेतुरित्युच्यते / प्रत्यक्षोपलंभानुपलंभौ पुनः स्वभावं लिङ्गं चाधिकृत्य वेदितव्यौ //
दृष्टान्तो दृष्टेनान्तेनादृष्टस्यान्तस्य समीकरणसमाख्यानम्, प्रतीतेन भागेनाप्रतीतस्य भागस्य प्रत्यायनाय समाख्यानमित्यर्थः //
उपनयः शिष्टतज्जातीयतद्धर्मोपगमाय नयत्वसमाख्यानम् / यथा साध्यो ऽर्थस्त्रिभिरवयवैः साधितस्तथा शिष्टानामपि तज्जातीयानां साध्यानां साधितार्थधर्मोपगमाय नयत्वेन समाख्यानं युक्त्यातिदेश उपनयः //
निगमनं निष्ठागमनसमाख्यानम् / यस्मादेवं युक्त्या सूपपन्नं तस्मादित्थमेवेदमित्येतन्निगमनं वेदितव्यम् //
एषां प्रतिज्ञादीनामिदमुदाहरणमात्रं प्रदर्श्यते // तद्यथा
नैरात्म्यवादिनस्तद्रूपे ऽधिकरणे सप्रतिवादिके नास्त्यात्मेति वचनं प्रतिज्ञा //
स्कन्धविज्ञप्तौ चतुर्विधदोषोपलंभादिति हेतुः / स ह्यात्मा प्रज्ञप्यमानः स्कन्धलक्षणो वा प्रज्ञप्येत, स्कन्धेषु वा, अन्यत्र वा स्कन्धेभ्यः, अस्कन्धको वा / तद्यदि स्कन्धलक्षणस्तेनास्वतन्त्राः स्कन्धाः प्रतीत्यसमुत्पन्ना उदगव्ययधर्माणस्तल्लक्षण आत्मानोपपद्यत इति दोषः / अथ स्कन्धेषु तेनानित्यस्कन्धाश्रित आत्मानित्यः प्राप्नोतीति दोषः / अथान्यत्र स्कन्धेभ्यस्तेन निर्देहक आत्मा निष्प्रयोजन इति दोषः / अथास्कन्धकस्तेन प्रकृत्यैव मुक्तस्य केवलिनो मोक्षार्थप्रयत्नवैयर्थ्यमिति दोषः //
वर्तमाने ऽतीतप्रज्ञप्तिवदिति दृष्टान्तः / तद्धयतीतं विद्यमानलक्षणत्वेन प्रज्ञप्यमानं वर्तमानलक्षणं वा प्रज्ञप्येत, वर्तमाने वा अन्यत्र वा वर्तमानात् वर्तमाननिरपेक्षं वा / तद्यदि वर्तमानलक्षणं तेन वर्तमानमुत्पन्नानिरुद्धतल्लक्षणमतीतमुत्पन्ना निरुद्धात्मकमिति दोषः / अथ वर्तमाने तेनानिरुद्धे निरुद्धात्मकस्य संबन्धो न युज्यत इति दोषः / अथान्यत्र वर्तमानात्तेन वर्तमानं हित्वा न किंचित्तद्वस्तूपलभ्यते यत्र तत्प्रज्ञप्यत इति दोषः / अथ वर्तमाननिरपेक्षं तेनासंस्कृतमप्यतीतं प्राप्नोतीति दोषः / तच्चातीतं भ्रष्टलक्षणत्वाल्लक्षणतो नास्तीति सिद्धम् / अतो ऽनेन वर्तमानप्रज्ञप्तौ चतुर्दोषेण सिद्धेनासिद्ध आत्मा नास्तीति स्कन्धप्रज्ञप्तौ चतुर्विधदोषोपलंभात् प्रसाध्यते नास्तीति //
एवमात्मविपर्यासं प्रतिषिध्यैतयैव युक्त्या नित्यादयो ऽपि न सन्तीत्यतिदेश उपनयः //
यस्मादेतदेवं तस्मादनित्याः पञ्च स्कन्धाः यावदनात्मान इति निगमनमिति //
प्रत्यक्षं स्वसत्प्रकाशाभ्रान्तो ऽर्थः / तत्र स्वो ऽर्थस्तद्यथा चक्षुषो रूपम् / सद्ग्रहणं घटादिद्रव्याणां लोके प्रत्यक्षसंमतानां प्रत्यक्षत्वव्युदासार्थ प्रज्ञप्तिमात्रत्वात् / प्रकाशग्रहणमावृतत्वादिभिरनुपलब्धिकारणैरनाभासगतविषयव्युदासार्थम् / अभ्रान्तग्रहणमलातचक्रमायामरीचिकादिव्युदासार्थमिति //
अनुमानं प्रत्यक्षशिष्टसंप्रत्ययः / प्रत्यक्षाद्यदन्यच्छिष्टमप्रत्यक्षं नियमेन तत्सहवर्ति प्रसिद्धं द्रष्टुः पूर्वं तस्य तत्प्रत्यक्षमीक्षमाणस्य तदन्यस्मिन् शिष्टसंप्रत्यय उत्पद्यते तेनाप्यत्र भवितव्यमेतत् सहवर्तिनेति तत्प्रत्यक्षपूर्वकमनुमानम् / तद्यथा धूमं पश्यतो ऽग्नाविति //
आप्तागमस्तदुभयाविरुद्धोपदेशः / यत्रोपदेशे तत्प्रत्यक्षमनुमानं च सर्वथा न विरुध्येते न व्यभिचरतः स आप्तागमः संप्रत्ययित्वात् //
वादालंकारो येन युक्तो वादी वादं कुर्वाणो ऽत्यर्थं शोभते / स पुनः स्वपरसमयज्ञतादिः / तत्र स्वपरसमयज्ञता स्वसिद्धान्तं परसिद्धान्तं चारभ्य ग्रन्थतश्चार्थतश्च पौर्वापर्येण निरन्तरं व्युत्पत्तिपरिपाकः / वाक्करणसंपत् शब्दवादिनो वक्ष्यमाणकथादोषविपर्ययेणानाकुलादिवादिता / वैशारद्यमनेकोदाहाराभिनिविष्टविद्वज्जनसमावर्ते ऽपि ब्रुवतो निरास्थता गतव्यथता / स्थैर्यं प्रतिवादिनो वचनावसानमागमय्यात्वरमाणभाषिता / दाक्षिण्यं प्रकृतिभद्रता प्राश्निकप्रतिवादिचित्तानुवर्तिता //
वादनिग्रहो येन वादी निगृहीत इत्युच्यते / स पुनः कथात्यागादिभिः / तत्र कथात्यागो ऽसाधु मम साधु तवेत्येवमादिभिः प्रकारैः स्वपरवाददोषगुणाभ्युपगमः / कथासादो ऽन्येनान्यप्रतिसरणादिभिः विक्षेप इत्यर्थः / यथोक्तं सूत्रे - आयुष्मांश्चुन्दिकस्तीर्थिकैः सह वादं कुर्वन्नवजानित्वा प्रतिजानाति प्रतिजानित्वावजानातीति / कथादोष आकुला दिवचनम् / तत्र आकुलं यदधिकारमुत्सृज्य विचित्रकथाप्रताननम् / संरब्धं यत्कोपोद्धवं द्रवोद्धवम् / अगमकं यद्धर्मतो ऽर्थतश्च पर्षद्वादिभ्यामगृहीतम् / अमितं यदधिकं पुनरुक्तार्थं ज्ञातार्थं च / अनर्थमनर्थयुक्तम्, तत्पञ्चाकारं द्रष्टव्यम् / निरर्थकम्, अपार्थकम्, युक्तिभिन्नम्, साध्यसमम्, जातिच्छलोपसंहितम्, अर्थानुपलब्धितो ऽसंबद्धार्थतो ऽनैकान्ति[क]तः साधनस्यापि साध्यतो ऽयोनिशो ऽसभ्यसर्ववादानुगमतश्च / अकालयुक्तवचनं यत्पूर्वकं वक्तव्यंपश्चादभिहितम्, पश्चाद्वक्तव्यं पूर्वमभिहितम् / (अभिध्-स्-भ् 154) अस्थिरं यत्प्रतिज्ञायावज्ञातमवज्ञाय प्रतिज्ञातमतित्वरमाणया वाचा हि तूर्णपरामृष्टः / [अ]प्रदीप्तवचनं यच्छन्दलक्षणसमतिक्रान्तमप्रत्यनुभाष्योत्तरविहित्तम्, संस्कृतेनारभ्य प्राकृतेनावसितम्, प्राकृतेनारभ्य संस्कृतेन पर्यवसितं च / अप्रबद्धं यदन्तराधिष्ठितविच्छिन्नं वाक्प्रतिभानमिति //
वादनिःसरणं येन वादान्निःसरति, अकरणेन वा गुणदोषौ विचार्य वादस्य निग्रहस्थानानासादनात्, करणेन वा निर्वहनादिति / तत्र प्रतिवादिन्यभाजनताकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुमशक्यता / पर्षदो वैगुण्यमसभ्याभिनिविष्टपक्षपातितादिना / आत्मनो ऽकौशल्यं वादे यावद्वादालङ्कारे ऽव्युत्पत्तिः विपर्ययात्प्रतिवादिभाजनतादीनि वेदितव्यानि //
वादे बहुकरा धर्मा ये वादे ऽवश्यमुपयुज्यन्ते / तद्यथा स्वपरसमयज्ञता वादे बहुकरो धर्मो येन सर्वत्र कथावस्तुनि वादं करोति / शेषं सुगमम् //
कुशलपक्षप्रयुक्तेनेत्युक्त्वा प्रतिपत्तिसारकेणेति वचनमाशयविशुद्धिज्ञापनार्थं न लाभसत्कारादिनिमित्तं श्रुतादिकुशलपक्षे प्रयुक्तेनेत्यर्थः / सत्त्वसंग्राहकेणेति श्रावकादिविशेषणार्थं परहितप्रतिपत्तिप्रधानेनेत्यर्थः / एवं च स्वहितपरहितप्रतिपन्नः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यत इत्ययमेषां पदानामनुसंधिर्वेदितव्यः / अविगृह्यापि तावद्वादे क्रियमाणे प्रकृतिगम्भीरत्वान्महायानधर्मस्य दुर्लभाज्ञा प्रागेव विगृह्य / यैश्च सह विगृह्य वादः क्रियते ते ऽपि प्रतिपत्तारो नाज्ञाभिप्रायाः प्रतिब्रुवन्ति किंतर्ह्युपालम्भाभिप्रायाः / येष्वपि प्राश्निकेषु स वादः क्रियते ते वासभ्या अव्युत्पन्ना वा भवन्त्यभिनिविष्टा वा / सर्वो ऽपि च वादा प्रायेण षड्भिर्दोषैर्युक्तो भवति / तथाहि वादं कुर्वाणः कदाचिदतिरभसेनासत्पक्षमपि परिगृह्याभिनिवेशेन छलजातिनिग्रहस्थानान्यपि प्रयुक्ते / वचनपर्यवसानमनिगमय्याप्यकालेन वक्तुमारभते / सम्यगप्युक्तां प्रतिवादिनः कथामपपातयति पंसयतीत्यर्थः / परुषमपि ब्रुवते, येन प्रतिवाद्यादयः चित्तं प्रदूषयन्ति / स्वयं च तेषु चित्तं प्रदूषयतीत्येभिः षड्भिर्दोषैर्युक्तो भवति //
उपशान्तस्य च दुर्लभो वादः / सति चानुपशमे दुर्लभं परचित्तानुरक्षणं स्वचित्तानुरक्षणं च येन परे प्रसादं लभेरन् विमुक्त्यायतनयोगेन स्वचित्तं समाधीयते / प्रायेण वादे कथमहं जयेयं परे पराजीयेरन्नित्येवं चित्तं समुदाचरति / सति च तस्मिन् परिदाहदुःखसंक्लेशः / तस्मिन्सत्यस्पर्शविहारः / ततो निरन्तरकुशलपक्षप्रयोगासामर्थ्यात्ततो विशेषाधिगमं प्रत्यप्राप्तिपरिहाणिरिति //
मातरं पितरं हत्वा इत्यस्यां गाथायां लोके यदत्यर्थमवद्यं पातकं तदभिधायीन्यक्षराण्येतानि विशुद्धौ परिणामितानि / किं च लोके ऽत्यर्थमवद्यं संमतम् / गुरुजनघातो महाजनघातश्च / स पुनर्गुरुजनो द्विविधः प्रतिनियतो लोक[साधारणश्च] / लोकसाधारणो ऽपि पुनर्द्विविधः - परिपालको दक्षिणीयश्च / तत्र प्रतिनियतो गुरुजनो माता पिता च, पालको राजा, दक्षिणीयः श्रोत्रियब्राह्मणाः, तेषां शुद्धतरसमतत्वात् / तदेषां सर्वेषां घातो गुरुजनघात इत्युच्यते / महाजनघातो राष्ट्रस्य सानुचरस्य घातः / अनुचराः पुनः गवाश्वमहिषोष्ट्रादयो वेदितव्याः //
कथं पुनरेतान्यक्षराणि विशुद्धौ परिणाम्यन्ते / मात्रादिघातवचनस्य तृष्णादिप्रहाणपरिणामनाद्यथाक्रमं तृष्णाम्, कर्मभवम्, सोपादानं विज्ञानम्, दृष्टिशीलव्रतपरामर्शद्वयम्, षडायतनं च सगोचरमधिकृत्य मात्रादयो द्रष्टव्याः, तत्साधर्म्यात् / तत्र तृष्णा निर्वृत्तिहेतुः / कर्मभव उत्पत्तिहेतुः / स च भावनाबीजाघानयोगेन पितृभूतो द्रष्टव्यः / आभ्यां हेतुभ्यां सोपादानं विज्ञानं प्रवर्तते / तस्यैवं प्रवर्तमानस्य सत्यपि मोक्षाभिलाषे मोक्षप्राप्तिविघ्नकरावनुपायाग्रशुद्धिप्रत्यायकौ परामर्शौ / श्रोत्रियसाधर्म्यमनयोरेतदेव वेदितव्यं यदुताग्रशुद्धयभिनिवेशः / तस्यैव पुनर्विज्ञानस्याश्रयालंबनभावेन षडायतनं सगोचरं वेदितव्यमिति //
अश्राद्धश्चाकृतज्ञश्चेत्यस्यां गाथायां हीनार्थाभिधायीन्यक्षराण्युत्तमार्थे परिदीपितानि / हीनो लोके चतुर्विधः - मनस्कर्महीनः कायकर्महीनो वाक्कर्महीन उपभोगहीनश्च / मनस्कर्महीनः पुनर्द्विविधः कुशलप्रवृत्तिवैलोम्येन चाश्राद्धः, परलोकाद्यसंप्रत्ययेन दानादिष्वप्रयोगात् / अकुशलप्रवृत्त्यानुकूल्येन चाकृतज्ञः, यत्रोपकारानपेक्षित्वेन मातृवधादिदुश्चरिते निर्मर्यादत्वात् / कायकर्महीनश्चौरः संधिच्छेदकः अत्यर्थं गर्हितजीवितत्वात् / वाक्कर्महीनो मृषावादादिप्रधानः, तद्रूपस्य सभादिषु प्रवेशाभावात् / उपभोगही नः श्वा का कः प्रेतो वेत्येवमादिकः, छर्दितभक्षणादिति //
कथं पुनरेतान्यक्षराण्युत्तमार्थे परिणाम्यन्ते / अश्राद्धादिवचनानामर्हति परिणामनात् / तत्राश्राद्धो विमुक्तिज्ञानदर्शनयोगेन स्वप्रत्ययत्वात् / अकृतज्ञो ऽसंस्कृतनिर्माणज्ञानात् / संधिच्छेत्ता पुनर्भवप्रतिसंधिहेतुक्लेशप्रहाणात् / हतावकाश आयत्यां सर्वगतिषु दुःखानभिनिर्वर्तनात् / वान्ताशो दृष्टे धर्मे उपकरणबलेन कायं संधा रयतो ऽपि भोगजीविताशाभावादिति //
यथा चोक्तम् - असारे सारमतय इति / अस्या गाथायाः पूर्ववदर्थनिर्देशो द्रष्टव्यः / शरीरं पुनरस्याः समाधिं निश्रित्य बोधिसत्त्वा दर्शनभावनामार्गाभ्यां महाबोधिं स्पृशन्तीति //
मात्सर्यधर्मतामनुवृंहयतीति सवासनमात्सर्यानुशयप्रहाणेन तत्तथताश्रयपरिवृत्तिसाक्षात्करणात् / दानेन च परिखिद्यते, दीर्घकालं दाननिमित्तं परमदुष्करश्रमाभ्युपगमात् / याचनकं च द्वेष्टि, स्वयं ग्राहाभिरुचिततया याचनकप्रातिकूल्यात् / न किंचित् कदाचिद्ददाति, सर्वस्य वस्तुनः सर्वदा दानात् / दूरे च भवति दानस्य, आसाद्यदानादिपरिवर्जनात् //
तत्र परमेण ब्रह्मचर्येण समन्वागत इति लोकोत्तरेण मार्गेणेत्यर्थः / नान्यत्र मैथुनान्मैथुनस्य निःसरणं पर्येषत इति तस्यैव यथाभूत परिज्ञानेन तत्प्रहाणात् / यथाभूतपरिज्ञानं पुनरस्य तथताप्रतिबेधाद्वेदितव्यम् / मैथुनप्रहाणेनोपेक्षको भवति, अब्रह्मचर्यप्रहाणोपेक्षणात् / उत्पन्नं च मैथुनरागमधिवासयति, कामरागस्याध्यात्ममुत्पन्नस्य बहिःप्रवासनात् / मैथुनप्रतिपक्षेण च धर्मेणोत्त्रस्यति तत्प्रतिपक्षेण मार्गेण सर्वसत्त्वोत्तरणाय व्यवस्यतीति कृत्वा / अभीक्ष्णं च द्वयद्वयं समापद्यते संक्लेशव्यवद नद्वयेन फलहेतुभेदेन चतुःसत्यात्मकेन [शमथविपश्यनाद्वयेन] पुनःपुनर्लौकिकलोकोत्तरमार्गद्वयं समापद्यत इति कृत्वा //
किमुपादायेदं शास्त्रमभिधर्मसमुच्चय इति नाम लभते / निरुक्तिन्यायेन / समेत्योच्चयतामुपादाय तत्त्वमभिसमेत्याधिगम्य बोधिसत्त्वंः संकलनादित्यर्थः / समन्तादुच्चयतामुपादायाभिधर्मसूत्रतः सर्वचिन्तास्थानसंग्रहादित्यर्थः / सम्यगुच्चयत्वायायतनतां चोपादायेत्यविपरीतेनोपायेन यावद्बुद्धत्वप्रापणादित्यर्थः //
इत्यभिधर्मसमुच्चये भाष्यतः सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः समाप्तः //
लिखापितमिदं पण्डितवैद्यश्री अमरचन्द्रेण जगद्बुद्धत्वसंपद इति //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
